विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १९६-२००
← अध्यायाः १९१-१९५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः १९६-२०० वेदव्यासः |
अध्यायाः २०१-२०५ → |
3.196
।। मार्कण्डेय उवाच ।। ।।
अश्वयुङ्मासि शुक्ले तु पौर्णमास्यां नरः शुचिः ।।
सोपवासो नरेन्द्रस्तु देवं सम्पूजयेत्तथा ।। १ ।।
शचीमैरावतं वज्रं मातलिं च नराधिप ।।
गन्धमाल्यनमस्कारधूप दीपान्नसंपदा ।। २ ।।
संवत्सरान्ते कनकं तु दत्त्वा प्राप्नोति लोकं स पुरन्दरस्य ।।
मानुष्यमासाद्य नरेन्द्रपूज्यो राजा भवेद्वा द्विजपुङ्गवो वा ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शक्रव्रतवर्णनो नाम षण्णवत्युत्तरशततमोऽध्यायः ।। १९६ ।। ।।
3.197
।। मार्कण्डेय उवाच ।। ।।
उपोषितश्चतुर्दश्यां पौर्णमास्यां नरोत्तमः ।।
पञ्चगव्यं पिबेत्पश्चाद्धविष्याशी तथा भवेत् ।। १ ।।
संवत्सरं तथा कृत्वा मासपापात्प्रमुच्यते ।।
तस्मात्सर्वप्रयत्नेन मासिमासि समाचरेत् ।।२।।
संवत्सरं प्राप्य नरेन्द्रलोकं तत्रोष्य राजन्सुचिरं द्विजेन्द्रः ।।
मानुष्यमासाद्य नरेन्द्रपूज्यो राजा भवेद्वा द्विजपुङ्गवो वा ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मकूर्चवर्णनो नाम सप्तनवत्युत्तरशततमोऽध्यायः ।। १९७ ।।
3.198
।। मार्कण्डेय उवाच ।। ।।
योगभूतं हरिं देवं चतुर्दश्या मुपोषितः ।।
अर्चयेत्पौर्णमास्यां तु सोऽश्वमेधफलं लभेत् ।। १ ।।
ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च ।।
राजसूयमवाप्नोति कुलमुद्धरति स्वकम् ।। २ ।।
ब्रह्मभूतममावस्यां पौर्णमास्यां च पूजयेत् ।।
योगभूतं परिचरन्केशवं महदाप्नुयात् ।। ३ ।।
अत्यर्थं प्रीतिमायाति मासपक्षान्तयोः सदा ।।
पूजितः सोपवासेन भक्त्या देववरो हरिः ।। ४ ।।
महाव्रतमिदं ख्यातं सर्वकल्मषनाशनम् ।।
संवत्सरमिदं कृत्वा नाकपृष्ठे महीयते ।। ५ ।।
सर्वपापप्रशमनं व्रतमेतत्प्रकीर्तितम् ।।
स्ववित्तशक्तिरेवात्र सर्वकर्मसु कारणम् ।। ६ ।।
कृत्वा व्रतं द्वादशवत्सराणि प्राप्नोति लोकं पुरुषोत्तमस्य ।।
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषस्ततोन्ते ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाव्रतं नामाष्ट नवत्युत्तरशततमोऽध्यायः ।। १९८ ।।
3.199
वज्र उवाच ।।
भगवन्कर्मणा केन तिर्यग्योनौ न जायते ।।
म्लेच्छदेशे च पुरुषस्तं ममाचक्ष्व पृच्छतः ।। १ ।।
मार्कण्डेय उवाच ।।
मेषसंक्रमणे भानोः सोपवासो नरोत्तमः ।।
पूजयेद्भार्गवं रामं देवं शक्त्या यथाविधि ।। २ ।।
कन्यासंक्रमणे प्राप्ते तथा कृष्णं च पूजयेत् ।।
तथा मिथुनसंक्रान्तौ पूजयेद्भोगशायिनम् ।। ३ ।।
तथा कुलीरसंक्रान्तौ वराहमपराजितम् ।।
नरसिंहं तथा देवं सिंहसंक्रमणे विभुम् ।।
कन्यासंक्रमणे देवं स्त्रीरूपं पूजयेन्नरः ।। ४ ।।
तुलासंक्रमणे प्राप्ते वामनं नृप पूजयेत् ।।
तथा वृश्चिकसंक्रान्तौ देवदेवं त्रिविक्रमम् ।। ५ ।।
धनुःसंक्रमणे देवं तथाश्वशिरसं नृप ।।
तथा मकरसंक्रान्तौ रामं दशरथात्मजम् ।। ६ ।।
कुंभसंक्रमणे राजन्रामं यादवनन्दनम् ।।
मीनसंक्रणे मत्स्यं वासुदेवं तु पूजयेत् ।।७।।
पटे वा यदि वार्चायां गन्धमाल्यान्नसंपदा ।।
प्रादुर्भावस्य नाम्नाश्च होमं कुर्वीत पार्थिव।।८।।
व्रतान्ते जलधेनुं च च्छत्रोपानत्समन्विताम्।।
वस्त्रयुग्मयुतां दद्यात्प्रतिमासं च काञ्चनम् ।।
रात्रौ च दीपमालाभिर्देवदेवं तु पूजयेत् ।। ९ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म ।।
प्राप्नोत्यवाप्नोति चिरं च नाकं कामं तथाप्नोति मनोभिरामम् ।। ३० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुदेशजन्मावाप्तिव्रतवर्णनो नाम नवनवत्युत्तरशततमोऽध्यायः।।१९९।।
3.200
वज्र उवाच ।।
इष्टां जातिमवाप्नोति कर्मणा येन मानवः ।।
तन्ममाचक्ष्व धर्मज्ञ त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
पौरुषेषु सदा ते वै त्रिरात्रोपोषितो नरः ।।
चैत्रमासादथारभ्य कार्तिके पूजयेद्धरिम् ।। २ ।।
पौरुषेण च सूक्तेन ऋग्भिः पुष्पैः फलैस्तथा ।।
धूपैर्दीपैस्तथान्नेन घृताहुतिभिरेव च ।। ३ ।।
धेनुर्व्रतान्ते दातव्या कृत्वा संवत्सरं व्रतम् ।।
यथेष्टां जातिमाप्नोति नात्र कार्या विचारणा ।। ४ ।।
न केवलं जातिकरं प्रदिष्टं व्रतोत्तमं यावददीनसत्त्व ।।
कामानभीष्टान्पुरुषस्य दद्यान्मोक्षं च दद्यात्पुरुषप्रधान ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे इष्टजात्यवाप्तिव्रतवर्णनो नाम द्विशततमोऽध्यायः ।। २०० ।।