विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १९१-१९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १८६-१९० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १९१-१९५
वेदव्यासः
अध्यायाः १९६-२०० →

3.191
मार्कण्डेय उवाच ।।
अमावास्यां तु वेलायां सोपवासो नरोत्तम ।।
पद्मद्वयं पूजयेत चंद्रार्कावेकराशिगौ ।। ।। १ ।।
आदित्यमष्टकमले चन्द्रं षोडशके तथा ।।
आदित्यं सर्वरक्तेन चन्द्रं शुक्लेन यादव ।। २ ।।
माल्यादिना महाभाग होमयेत्तिलतण्डुलैः ।।
घृतक्षीरयुतो राजन्तयोर्नाम्ना यथाविधि ।। ३।।
व्रतान्ते ब्राह्मणेन्द्राय कनकं प्रतिपादयेत् ।।
रजतं च महाभाग य इच्छेद्भूतिमात्मनः ।। ४ ।।
कृत्वा व्रतं वत्मरमेतदिष्टं दत्त्वा च दीपान्विधिवत्प्रभूतान् ।।
चक्षुः परं प्राप्य विवृद्धतेजा धनान्वितः स्यात्त्रिदिवादिहस्थः ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चन्द्रव्रतवर्णनो नामैकनवत्यधिकशततमोऽध्यायः ।। १९१ ।।
3.192
मार्कण्डेय उवाच ।।
कार्तिकात्तु तथारभ्य सम्पूर्णशशलक्षणम् ।।
पूजयेदुदरे राजन्सदा नक्ताशनो भवेत् ।। १ ।।
लावणं मण्डलं कृत्वा चन्दनेनानुलेपिते ।।
दशनक्षत्रसहितं तत्र सोमं तु पूजयेत् ।। २ ।।
कृत्तिकारोहिणीयुक्तं कार्तिके मासि पूजयेत् ।।
सौम्यार्द्रासहितं राजन्मासि सौम्ये तथैव च ।। ३ ।।
आदित्यपुष्यसहितं मासि पौषे च यादव ।।
मघासर्पयुतं माघे फाल्गुने शृणु पार्थिव ।। ४ ।।
अर्यम्णभाग्यसावित्रैः सहितं पूजयेद्विभुम् ।।
चित्रास्वातियुतं चैत्रं वैशाखे शृणु पार्थिव ।। ५ ।।
विशाखया च मैत्रेण युतं संपूजयेत्तथा।।
ज्येष्ठामूलयुतं ज्येष्ठे आषाढाद्यामनन्तरम् ।। ६ ।।
श्रावणे श्रवणोपेतं सहितं च श्रविष्ठया ।।
तथा भाद्रपदे पौष्णामाजाहिर्बुध्न्यसंयुतम् ।।७।।
अश्विनीभरणीयुक्तं तथा चाश्वयुजे विभुम् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।८ ।।
गुडेन परमान्नेन लवणेन घृतेन च।।
इक्षुणेक्षुविकारैश्च पयसा पायसेन च ।।९।।
पूज्याश्चाविधवानार्यस्तथा तल्लक्षणैः शुभैः ।।
ततोऽनन्तरमश्नीयाद्धविष्यं प्रयतो नरः ।। १० ।।
ब्राह्मणानां व्रतान्ते तु महारजतरंजितम् ।।
शक्त्या च वसनं दद्यान्नारी वा यदि वा नरः ।। ११ ।।
रूपसौभाग्यलावण्यधनयुक्तो भवेन्नरः ।।
व्रतेनानेन चीर्णेन स्वर्गलोकं च गच्छति ।। १२ ।।
सोपवासस्तु यः कुर्याद्व्रतमेतदनुत्तमम् ।।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। १३ ।।
सौभाग्यादि च यत्प्रोक्तं तदाप्नोति विशेषवत् ।।
मनसा कांक्षितान्कामान्सर्वान्प्राप्नोत्यसंशयम् ।। १४ ।।
जनाभिरामश्च शशाङ्कवत्स्याद्धनादिलाभश्च तथैव लक्ष्म्या ।।
शक्रेण तुल्यश्च तथैव शक्त्या मानुष्यमासाद्य भवेच्च राजन् ।। १९ ।।
इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मासर्क्षपौर्णमासीव्रतवर्णनो नाम द्विनवत्युत्तरशततमोऽध्यायः ।। १९२ ।।
3.193
मार्कण्डेय उवाच ।।
कार्तिके पौर्णमास्यां तु पूर्णं शिशिरदीधितिम्।।
पद्मे षोडशपत्रेषु कर्णिकायां तु पूजयेत् ।। १ ।।
केसरे पूजयेत्तत्र नक्षत्राण्यष्टविंशतिः ।।
पत्रेषु तिथिदेवांश्च तथा ज्योत्स्नां च पूजयेत् ।। २ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
गुडेन परमान्नेन दध्ना च लवणेन च ।। ३ ।।
अपूपैश्च महाभाग फलैः कालोद्भवैस्तथा।।
व्रतावसाने दद्याच्च वासोयुग्मं द्विजातये ।। ४ ।।
ब्राह्मण्यै च महाभाग महारजतरञ्जितम् ।।
पूज्यौ च विधिना शक्त्या कालविद्वाचकावुभौ ।। ६ ।
सोपवासोऽथ नक्ताशी व्रतमेतत्समाचरेत् ।।
नक्ताशनो वा धर्मज्ञ तथैव च हविष्यभुक् ।। ६ ।।
सौभाग्यदं रूपविवर्धनं च लावण्यदं स्त्रीरतिभोगदं च ।।
कार्यं प्रयत्नेन नरेन्द्र पुंसा कार्यं तथा स्त्रीभिरदीनसत्त्व ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पौर्णमासीव्रतवर्णनो नाम त्रिनवत्युत्तरशततमोऽध्यायः ।। १९३ ।।
3.194
मार्कण्डेय उवाच ।।
मार्गशीर्षादथारभ्य चन्द्रमण्डलके नरः ।।
सोपवासस्तु संपूज्य पौण्डरीकफलं लभेत् ।। १ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं स निशाकरस्य ।।
तत्रोष्य राजन्सुचिरं च कालं सायुज्यमाप्नोति ततश्च तस्य ।। २ ।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे चन्द्रव्रतवर्णनो नाम चतुर्नवत्युत्तरशततमो ऽध्यायः ।। १९४ ।।
3.195
मार्कण्डेय उवाच ।।
प्रोष्ठपादादथारभ्य संपूर्णे शशलाञ्छने ।।
संपूज्य वरुणं देवं गन्धमाल्यान्नसंपदा ।। १ ।।
दत्त्वा व्रतावसाने तु जलधेनुं द्विजातये ।।
छत्रोपानहसंयुक्तां वासोयुगविभूषिताम् ।। २ ।।
प्राप्नोति लोकं वरुणस्य राजंस्तत्रोष्य कालं सुचिरं मनुष्यः ।।
मानुष्यमासाद्य भवत्यरोगी रूपान्वितो वित्तयुतस्तथैव ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वरुणव्रतवर्णनो नाम पञ्चनवत्युत्तरशततमोऽध्यायः ।। १९५ ।।