सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १६१-१६५

विकिस्रोतः तः
← अध्यायाः १५६-१६० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १६१-१६५
वेदव्यासः
अध्यायाः १६६-१७० →

3.161
मार्कण्डेय उवाच ।।
अथातः संप्रवक्ष्यामि तव शैलव्रतं शुभम् ।।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।। १ ।।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।।
चैत्रशुक्लसमारम्भात्प्रत्यहं दिनसप्तकम्।।२।।
तेषां संपूजनं कुर्याद्बहिः स्नानं समाचरेत् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।। ३ ।।
यवैर्होमस्तथा कार्यो दद्याद्विप्रेषु दक्षिणाम् ।।
नक्तं यवान्नमश्नीयात्कुर्यात्संवत्सरं व्रतम् ।। ४।।
व्रतावसाने दद्याच्च यवस्थालीश्च विंशतिम् ।।
वाचकाय द्विजेन्द्राय सुवर्णं गां च तस्य तु।। ५ ।।
द्रतेनानेन चीर्णेन सर्वां सागरमेखलाम् ।।
भुनक्ति वसुधां राजा वशीकृत्वा रिपून्नृप ।। ६ ।।
भोगांश्च भुक्त्वा त्रिदिवे च राजन्मानुष्यमासाद्य यथोक्तमेतत् ।।
प्राप्नोति सर्वं हि मयेरितं यज्जन्मान्तराण्येव नरेन्द्र सप्त ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तशैलव्रतवर्णनो नामैकषष्ट्युत्तरशततमोऽध्यायः ।। १६१ ।।
3.162
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि तव लोकव्रतं शुभम् ।।
यास्तु व्याहतयः सप्त त्रैलोक्यां तु प्रकीर्तिताः ।। ।। १ ।।
आचरेत्प्रत्यहं स्नानं बहिर्नित्यमतन्द्रितः ।।
चैत्रशुक्लादथारभ्य क्रमेण दिनसप्तकम् ।। २ ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।।
एकरात्रोपवासश्च क्रमेणैवं समाचरेत् ।। ३ ।।
महाव्याहतिभिर्होमस्तिलैः कार्यो दिनेदिने ।।
संवत्सरान्ते दद्याच्च तथा विप्रेषु दक्षिणाम् ।। ४ ।।
सुवर्णमहतं वासः कांस्यं धेनुं पयस्विनीम् ।।
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम।। ५ ।।
सर्व लोकचरः श्रीमान्स्वेच्छया स्यान्नराधिप ।।
यावत्कल्पावसानं तु कल्पादौ पार्थिवो भवेत् ।। ६ ।।
स चक्रवर्ती नृपवर्यपूज्यः सुरासुराणामधिकप्रभावः ।।
संवत्सराणामयुतं शतानां सम्पाति पृथ्वीं सकलाभिरामः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्याहृति सप्तलोकव्रतवर्णनो नाम द्वाषष्ट्युत्तरशततमोऽध्यायः ।। १६२ ।।
3.163
।। मार्कण्डेय उवाच ।। ।।
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ।।
ह्लादिनीं ह्रादिनीं चैव पावनीं चैव पूजयेत् ।। १ ।।
सीतां रामं तथा सिन्धुं तथा भागीरथीं क्रमात् ।।
बहिःस्नानं ततः कुर्यान्नित्यं नक्ताशनो भवेत् ।। २ ।।
जले तु जुहुयात्क्षीरं तासां नाम्ना दिनेदिने ।।
क्षीरपूर्णा च दातव्या वारिधान्यो द्विजातिषु ।। ३ ।।
क्षीराशनस्तु तिष्ठेत्तु तत्तथा दिनसप्तकम् ।।
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः ।। ४।।
द्विजातिषु ततो दद्याद्रजतस्य पलंपलम् ।।
फाल्गुनस्य सिते पक्षे सप्तम्यां दिवस क्रमात् ।। ५ ।।
तल्लोकमाप्नोति नरो यत्र पायसकर्दमम् ।।
नद्यः क्षीरवहा दिव्याः सर्वकामफलप्रदाः।।६।।
तत्रोष्य कालं सुचिरं महात्मा मानुष्यमासाद्य भवत्यरोगः।।
रूपेण शीलेन धनेन युक्तो राजाथ वा ब्राह्मणपुङ्गवश्च।।७।।
इति श्रीविष्णुधर्मेत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नदीव्रतवर्णनोनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ।। १६३ ।।
3.164
।। मार्कण्डेय उवाच ।। ।।
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ।।
सुप्रभां काञ्चनाक्षीं च विशालां मानसं ह्रदम् ।। १ ।।
तां त्रिनादां सुवेणुं च तथैव विमलोदकाम् ।।
नित्यं संपूजयेद्भक्त्या बहिः स्नानं समाचरेत् ।। २ ।।
तासां च प्रत्यहं नाम्ना दध्ना होमं समाचरेत् ।।
ब्राह्मणान्भोजयेच्चात्र दध्ना मिश्रं च भोजनम् ।। ३ ।।
घृतौदनं तथाश्नीयात्सकृदेव तथा निशि ।।
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः ।। ४ ।।
फाल्गुनामलपक्षे तु प्रत्यहं दिवसक्रमात् ।।
वस्त्राणां सप्तकं दद्यात्तीर्थस्नाते द्विजोत्तमे ।। ५ ।।
एवं संवत्सरं कृत्वा व्रतं सारस्वतं जपेत् ।।
तत्रोष्य सुचिरं कालं मनुष्यो जायते तदा ।। ६ ।।
तदा नरेन्द्रो विजितारिपक्षो द्विजोत्तमो वा बहु यज्ञयाजी ।।
रूपेण शीलेन धनेन युक्तः श्रुतान्वितः स्याच्च जनाभिरामः ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सारस्वत व्रतवर्णनोनाम चतुःषष्ट्युत्तरशततमोऽध्यायः ।। १६४ ।।
3.165
।। मार्कण्डेय उवाच ।। ।।
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ।।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।। १ ।।
वसिष्ठं च महाभाग पूजयेद्दिवसक्रमात् ।।
कालोद्भवैः फलैः पुष्पैर्गोरसैश्च पृथक्पृथक् ।। २ ।।
आचरेत्प्रत्यहं स्नानं बहिर्नक्ताशनो भवेत् ।।
महाव्याहृतिभिर्होमं फलैर्मूलैः सगोरसैः ।। ३ ।।
वारिधान्यश्च दातव्याः क्षीरपूर्णा द्विजातिषु ।।
एवं संवत्सरं कृत्वा व्रतान्ते चाहिताग्नये ।।४।।
दद्यात्कृष्णाजिनं राजन्यथापूर्वं मयेरितम् ।।
व्रतमेतन्नरः कृत्वा मोक्षोपायं च विन्दति ।। ५ ।।
मोक्षोपायं समासाद्य मोक्षं प्राप्नोत्यसंशयम् ।।६।।
प्राप्नोति लोकं यदि वा मुनीनां देवस्य विष्णोर्यदि वेश्वरस्य ।।
पितामहस्याप्रतिमस्य वापि व्रतेन चीर्णेन महानुभाव ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तर्षिव्रतवर्णनो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ।।१६५।। ।।