विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १५६-१६०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १५१-१५५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १५६-१६०
वेदव्यासः
अध्यायाः १६१-१६५ →

3.156
मार्कण्डेय उवाच ।।
अथातः संप्रवक्ष्यामि षण्मूर्तेरर्चनं तव ।।
वसन्ते पूजयेन्नित्यं द्वौ मासौ मधुमाधवौ ।। १ ।।
फलैः पुष्पैः कषायैस्तु ग्रीष्मेग्रीष्मे च पूजयेत् ।।
मधुरेण महाराज प्रावृट्काले हिते च तम् ।।२ ।।
अम्लेन पूजयेन्नित्यं शरदं लवणेन च।।
बटुकेन च हेमन्ते तिक्तेन शिशिरे तथा ।।३।।
नक्ताशनस्तथा तिष्ठेदृतूक्तं वर्जयेद्रसम् ।।
ब्राह्मणान्भोजयेच्चात्र ऋतूक्तं रसभोजनम्।। ।। ४ ।।
संवत्सरमिदं कृत्वा व्रतं परमपावनम् ।।
अश्वमेधमवाप्नोति राजसूयं च विन्दति ।।५।।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।।
फलमक्षय्यमाप्नोति व्रतस्यास्य नरोत्तम ।। ६ ।।
चैत्रादथारभ्य सिते च षष्ठीं संपूजयेद्यो ऋतुषट्कमेवम् ।।
कृतोपवासस्तु यथोक्तमेतत्फलं लभेत्पूर्णमितीदमुक्तम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे षण्मूर्तिव्रतवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ।। १५६।।
3.157
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि सप्तमूर्तिव्रतं तव ।।
चैत्रमासादथारभ्य प्रतिपत्प्रभृति क्रमात् ।। १ ।।।
सुभास्वरा वर्हिषदो ह्यग्निष्वात्तास्तथैव च ।।
क्रव्यादानुपहूताँश्च आज्यपांश्च सुकालिनः ।। २ ।।
पूजयेत्प्रत्यहं राजन्गन्धमाल्यानुलेपनैः ।।
नैवेद्यं कृसरं कुर्यात्तिलानग्नौ च होमयेत् ।। ३ ।।
कृसरं भोजयेद्विप्रांस्तिलान्दद्याच्च दक्षिणाम् ।।
नक्ताशनस्तथा तिष्ठेद्धविष्याशी नराधिप ।।४।।
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ।।
व्रतावसाने दद्याच्च रजतस्य पलं द्विजे ।।५।।
व्रतेनानेन चीर्णेन सूर्यलोकगतिर्भवेत् ।।
त्रिदशैः पूज्यमानस्तु कामचारी विहङ्गमः ।। ६।।
वर्षं समग्रं पुरुषस्तु कृत्वा संसारमोक्षं लभते नरेन्द्र।।
कृत्वा तथा द्वादशवत्सराणि मानुष्यमासाद्य महीपतिः स्यात् ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० संवादे सुभासुरादिपितृव्रतवर्णनो नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ।। १५७ ।।
3.158
मार्कण्डेय उवाच ।।
चैत्रमासादथारभ्य कृष्णपक्षदिने दिने ।।
पातालपूजनं कुर्यात्प्रतिपत्प्रभृति क्रमात् ।।१।।
रुक्मभौमं तथा भौमं पातालं नीलमृत्तिकम् ।।
रक्तभौमं पीतभौमं श्वेतकृष्णमृदावपि।।२।।
सुवर्णैर्गन्धमाल्यैश्च नैवेद्येन च भूरिणा ।।
घृतदीपप्रदानेन वह्निसन्तर्पणेन च ।। ३ ।।
एवं नक्ताशनं कृत्वा व्रतं संवत्सरं तदा ।।
व्रतावसाने दद्याच्च दीपकं द्विजवेश्मसु ।। ४ ।।
स तु वस्त्राणि राजेन्द्र यथावर्णानि चाप्यथ ।।
व्रतमेतन्नरः कृत्वा नृणामधिपतिर्भवेत् ।।५।।
पतिं लभन्ते नर देवकन्याः शतसहस्रशः ।।
रमयन्ति महाराज यथैवेडविडस्तथा।।६।।
कालेन चासाद्य मनुष्यलोकं राजा भवेच्छत्रुगणप्रमाथी।।
बलेन रूपेण धनेन युक्तो महामतिः सर्वजगत्प्रधानः।।७।।
इति श्रीविष्णुध० तृ० खण्डे मा० सं० पातालानां व्रतवर्णनो नामाष्टपञ्चाशदधिकशततमोऽध्यायः ।। १५८ ।।
3.159
मार्कण्डेय उवाच ।।
अथातः संप्रवक्ष्यामि सप्तद्वीपव्रतं शुभम् ।।
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ।। १ ।।
जम्बुशाककुशक्रौञ्चशाल्मलिद्वीपसंज्ञितम् ।।
गोमेदं पुष्करं चैव प्रत्यहं पूजयेत्क्रमात् ।। २।।
नित्यमेव तथा स्नानं बहिरेव समाचरेत् ।।
घृतेन होमं कुर्वीत सप्तसस्यं च दापयेत् ।। ३।।
एकमन्नं तथा नक्तं सकृदेव समाचरेत् ।।
अधःशायी भवेन्नित्यं तद्देवे दिवसत्रयम् ।।४।।
पूर्णे संवत्सरे दद्याद्रजतस्य विनिर्मितम् ।।
पलानान्तु शतेनैव संस्थानं द्वीपवत्कृतम् ।। ५ ।।
व्रतमेतन्नरः कृत्वा पूर्णं संवत्सरं शुचिः ।।
स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ।। ६ ।।
मानुष्यमासाद्य समस्तद्वीपान्भुनक्ति भूमिं विजितारिपक्षः ।।
संपूज्यमानस्त्रिदशैः सदैव महर्षिभिर्ब्राह्मणपुङ्गवैश्च ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे जम्बूद्वीपादिसप्तद्वीपव्रतवर्णनो नामैकोनषष्ट्युत्तरशततमोऽध्यायः।।१५९।।
3.160
मार्कण्डेय उवाच ।।
अथातः संप्रवक्ष्यामि समुद्रव्रतमेव ते ।।
चैत्रशुक्लादथारभ्य प्रत्यहं दिवसत्रयम् ।। १ ।।
लवणक्षीरआज्यौघदधिमण्डसुरोदकम् ।।
तथैवेक्षुसुरोदं च स्वादूदं चैव पूजयेत् ।। २ ।।
आचरेत्प्रत्यहं स्नानं नित्यमेव गृहाद्बहिः ।।
घृतेन होमं कुर्वीत सप्तसस्यं च दापयेत् ।। ३ ।।
हविष्याशी भवेन्नक्तं कुर्यात्संवत्सरं व्रतम् ।।
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ।। ४ ।।
व्रतेनानेन चीर्णेन सप्तसागरमेखलाम् ।।
भुनक्ति वसुधां राजा सप्तजन्मान्तराणि च ।। ५ ।।
आरोग्यकामः कुर्वीत व्रतमेतत्तथोत्तमम् ।।
धर्मकामो यशःकामः श्रीकामश्च तथापरः ।। ६ ।।
मङ्गल्यमेतत्परमं पवित्रं श्रीवर्धनं धर्मविवृद्धिकारि ।।
कर्तव्यमेतत्प्रयतैर्मनुष्यैर्ये राज्यकामास्तु विशेषतस्तैः ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे लवणसमुद्रादि सप्तसमुद्रव्रतवर्णनो नाम षष्ट्युत्तरशततमोऽध्यायः ।। १६० ।।