विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १६६-१७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १६१-१६५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १६६-१७०
वेदव्यासः
अध्यायाः १७१-१७५ →

3.166
।। मार्कण्डेय उवाच ।। ।।
चैत्रशुक्लस्य पक्षे तु सम्यक् षष्ठ्यामुपोषितः ।।
सप्तम्यामर्चनं कुर्यान्मरुतां पार्थिवोत्तम ।। १ ।।
सप्तश्रेणीगतं सप्तमण्डलं नृप कारयेत् ।।
श्रेणीश्रेणी तथा कार्या सप्तमण्डलकान्विता ।। २ ।।
गन्धैर्मण्डलकाः कार्या नामचिह्नाः पृथक्पृथक् ।।
एकज्योतिश्च द्विज्योतिस्त्रिज्योतिश्च महाबल ।। ३ ।।
एकद्वित्रिचतुःशक्तिक्रमेण च तथा नृप ।।
विन्यसेत्प्रथमं श्रेण्यां यथावन्नृपसत्तम ।। ४ ।।
इन्द्रश्च गत्या दृश्यश्च ततः प्रतिशकृत्तथा ।।
मितश्च समितश्चैव अमितश्च महाबलः ।। ५ ।।
द्वितीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत् ।।
ऋतजित्सत्यजिच्चैव सुषेणश्चैव वीर्यवान् ।। ६ ।।
अतिमित्रोनमित्रश्च पुरुमित्रस्तथैव च ।।
तृतीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत् ।। ७ ।।
ऋतश्च ऋतवान्धर्ता विधर्ता वरुणो ध्रुवः ।।
विधारणं चतुर्थ्यां तु श्रेण्या पार्थिव विन्यसेत् ।। ८ ।।
ईदृक्षश्च सदृक्षश्च एतादृगमिताशनः ।।
कीर्तितः प्रसदृक्षश्च शरभश्च महायशाः ।। ९ ।।
विन्यसेत्पञ्चमश्रेण्यां सप्तदेवान्नराधिप ।।
धर्ता दुग्नो ध्वनिर्भीमो अतियुक्तः क्षमासहः ।। 3.166.१० ।।
षष्ठ्यां च विन्यसेच्छ्रेण्यां सप्तदेवान्यथाक्रमम् ।।
द्युतिर्वसुरनाधृष्यो वासः कामो जयो विराट् ।। ११ ।।
सप्तम्यां च तथा श्रेण्यां विन्यसेत्सप्त पार्थिवान् ।।
प्रथमा तु भवेच्छ्रेणी शुक्ला पार्थिवसत्तम ।। १२ ।।
द्वितीया पद्मपत्राभा तृतीया रुधिरोपमा ।।
पीतवर्णा चतुर्थी स्यात्पञ्चमा शुकसन्निभा ।। १३ ।।
आकाशसन्निभा षष्ठी कृष्णवर्णा च सप्तमी ।।
माल्यानुलेपनं देयं तासां वर्णसमं नृप ।। १४ ।।
एकोनास्तत्र दातव्या दीपाः पञ्चाशदेव तु ।।
पृथक्पृथक्तु देवानां नैवेद्यं विनिवेदयेत् ।। १५ ।।
घृतं च जुहुयाद्वह्नौ नामभिश्च पृथक्पृथक् ।।
भोजयेद्ब्राह्मणाँश्चात्र सुरसंख्या समन्वितान् ।। १६ ।।
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ।।
सुवर्णसहितं वासो गां च दद्यात्तथैव च ।। १७ ।।
पौराणिकाय विप्राय व्रतान्ते विनिवेदयेत् ।।
व्रतस्यास्य तु राजेन्द्र सम्यग्विप्रो विधानवित् ।। १८ ।।
आरोग्यकामः कुर्वीत व्रतमेतन्नरोत्तम ।।
पुत्रकामोर्थकामश्च धनकामोथ वा पुनः ।। १९ ।।
सर्वकामप्रदं ह्येतत्पवित्रं पापनाशनम् ।।
मङ्गल्यं स्वर्गदं प्रोक्तं व्रतानामुत्तमं व्रतम् ।।3.166.२० ।।
व्रतेनानेन चीर्णेन चिरं स्वर्गं समश्नुते ।।
मानुष्यमासाद्य भवेत्स्वर्गभ्रष्टस्तथाचिरात् ।। २१ ।।
धनेन रूपेण बलेन युक्तो जनाभिरामः प्रमदाप्रियश्च ।।
विरोगदेहः क्षतशत्रुपक्षो वाग्मी तथा शास्त्रधरश्च लोके ।। २२ ।।
इति श्रीवि० ध० तृ०ख० मा० व० सं० मरुद्व्रतवर्णनो नाम षट्षष्ट्युत्तरशततमोऽध्यायः ।। १६६ ।।
3.167
।। मार्कण्डेय उवाच ।।
चैत्रशुक्लस्य पक्षे तु सम्यक् षष्ठ्यामुपोषितः ।।
सप्तम्यामर्चनं कुर्याद्देवदेवस्य गोपतेः ।। १ ।।
बहिः स्नानं नरः कृत्वा गोमयेनोपलेपितम् ।।
लेपयेत्स्थण्डिलं सम्यक्कुतो गौरमृदा नृप ।। २ ।।
तत्राष्टपत्रं कमलं वर्णकैस्तु समालिखेत् ।।
कर्णिकायां न्यसेत्तत्र देवदेवं विभावसुम् ।। ३ ।।
पूर्वपक्षे न्यसेद्देवो द्वौ राजन्नुत्तरे दले ।।
आग्नेये च न्यसेत्पत्रे गन्धर्वौ ऋतुकारिकौ ।। ४।।
दक्षिणे च न्यसेत्पत्रे तथैवाप्सरसोर्द्वयम् ।।
राक्षसौ द्वौ महाराज पत्रे नैर्ऋतके न्यसेत ।। ५ ।।
काद्रवेयौ महानागौ पश्चिमे ऋतवारिकौ ।।
वायव्ये यातुधानौ द्वौ तथैव नृपसत्तम ।। ६ ।।
उत्तरे च तथा पत्रे विन्यसेच्च ऋषिद्वयम् ।।
ऐशान्ये विन्यसेत्पत्रे ग्रहमेकं नरोत्तम ।। ७ ।।
तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः ।।
धूपैर्दीपैश्च नैवेद्यैः पृथक्पृथगरिन्दम ।। ८ ।।
एवं सम्पूजनं कृत्वा सर्वेषां तदनन्तरम् ।।
घृतेन होमं कुर्वीत सूर्यस्याष्टशतेन च ।। ९ ।।
अन्येषां व तथा दद्यादष्टावष्टौ नरेश्वर ।।
नाम्ना तथैव सर्वेषां चैकैकं भोजयेद्द्विजम् ।। 3.167.१० ।।
शक्त्या च दक्षिणा देया तेषामेव यदूत्तम ।।
एवं संवत्सरं कृत्वा व्रतमेतन्नरोत्तम ।। ११ ।।
पौराणिकाय विप्राय व्रतस्यान्ते पयस्विनीम् ।।
विधिवच्च ततो दद्यात्सुवर्णं च यदूत्तम ।।१२।।
सर्वकामप्रदं चैव व्रतमुक्तं स्वयम्भुवा ।।
व्रतेनानेन चीर्णेन सूर्यलोकमवाप्नुयात् ।।१३।।
अथ द्वादशवर्षाणि करोत्येतन्महाव्रतम् ।।
भित्त्वार्कमण्डलं राजा विष्णोः सायुज्यतां व्रजेत् ।।१४।।
एतद्व्रतं पापविनाशकारि धन्यं यशस्यं रिपुनाशकारि।।
लोके तथास्मिंश्च परे च राजन्स्वर्गप्रदं मोक्षकरं तथैव।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा०संवादे सूर्यव्रतवर्णनो नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ।। १६७ ।।
3.168
वज्र उवाच ।।
यस्मिन्यस्मिन्क्रतौ ब्रह्मन्ननुयान्ति रविं प्रभुम् ।।
येये देवप्रभृतयस्तन्मे त्वं वक्तुमर्हसि ।। १ ।।
मार्कण्डेय उवाच ।।
धातार्यमा च राजेन्द्र वसन्ते देवताद्वयम् ।।
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायनौ वरौ ।। २ ।।
कृतस्थलाप्सराश्चैव तथा या पुञ्जिकस्थला ।।
होता प्रहोता च तथा रक्षोघ्नौ मणिपुङ्गवौ ।।३।।
उरगो वासुकिश्चैव वाष्टकर्णी च तावुभौ ।।
रथकृत्स्ना रथौजाश्च यातुधानवरौ तथा ।। ४ ।।
मित्रश्च पुलहश्चैव तथैवमृषिसत्तमौ ।।
अनुयाति सितश्चैव वसन्ते च यथा ग्रहः ।। ५ ।।
येनुयान्ति रविं देवं निदाघे तान्निबोधसे ।।
मित्रश्च वरुणश्चैव ग्रीष्मे देवौ वसन्ति च ।। ६ ।।
ऋषिरत्रिर्वसिष्ठश्च नागौ रंभकतक्षकौ ।।
मेनका सहजन्या च गन्धर्वौ च हहाहुहू ।। ७ ।।
रथस्वनप्रमाणश्च रथकृत्सश्च तावुभौ ।।
पौरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ ।। ८ ।।
अनुयाति कुजश्चैव निदाघे च तथा ग्रहः ।।
येनुयान्ति रविं देवं प्रावृट्काले निबोध मे ।। ९ ।।
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ।।
एलपत्रस्तथा सर्पः शङ्खपालश्च पन्नगः ।। 3.168.१० ।।
शुचिसेनोग्रसेनौ च व्रातश्चैवारुणश्च वै ।।
प्रम्लोचेत्यप्सराश्चैव निम्लोचन्ती च ते उभे ।। ११ ।।
यातुधानस्तथा सर्पो व्याघ्रश्च मनुजेश्वर ।।
प्रावृट्काले तु यात्येनं ग्रहो देवपुरोहितः ।। १२ ।।
अतः परं निबोधस्व शरत्काले नराधिप ।।
पर्जन्यश्चैव पूषा च भरद्वाजश्च गौतमः ।। १३ ।।
चित्रसेनश्च गंधर्वस्तथा वसुरुचिश्च वै ।।
विश्वाची च घृताची च तथा चैवाप्सरोद्वयम् ।। १४ ।।
नागश्चैरावतश्चैव विश्रुतश्च धनञ्जयः ।।
सेनजिच्च सुषेणश्च राक्षसौ भीमविक्रमौ ।। १५ ।।
वातोद्वातौ च तथा यातुधानौ महाबलौ ।।
ग्रहः शनैश्चरश्चैवमनुयान्ति दिवाकरम् ।। १६ ।।
अतः परं प्रवक्ष्यामि हेमन्ते तव पार्थिव ।।
अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च वै ।। १७ ।।
भुजगश्च महापद्मः सर्पः कर्कोटकस्तथा ।।
चित्रसेनश्च गन्धर्व ऊर्णायुश्च महाबलः ।। १८ ।।
अप्सराः पूर्वचित्तिश्च गन्धर्वी उर्वशी तथा ।।
तार्क्ष्यश्चारिष्टनेमिश्च राक्षसौ भीमविक्रमौ।। १९ ।।
विद्युत्स्फूर्जस्तथैवोग्रौ यातुधानौ महाबलौ ।।
अनुयाति ग्रहश्चैव बुधो राजन्दिवाकरम् ।।3.168.२०।।
अतःपरं च धर्मज्ञ शिशिरे गदतः शृणु।।
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च।।२१।।
काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ।।
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा।।२२।।
कारणी शितिशश्चैव सत्यजिच्च महायशाः।।
ब्रह्मोपेतश्च रक्षो वै यज्ञोपेतस्तथैव च ।।२३।।
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथापरः।।
चन्द्रमा ग्रहराजश्च अनुयाति दिवाकरम्।।२४।।
एवं हि शिशिरे राजन्ननुयानं प्रकुर्वते ।।
स्थानाभिमानिनो ह्येते सप्तद्वादशका गणाः ।। २५ ।।
गणषट्कस्तथैवैकमनुयाति दिवाकरम् ।।
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ।। २६ ।।
ग्रथितैस्तवचोभिश्च कुर्वन्ति ऋषयस्तवम् ।।
गन्धर्वाप्सरसश्चैव गीतैर्नृत्यैरुपासते ।। २७ ।।
विद्याग्रामणिनश्चैव कुर्वन्त्यत्राभिषुग्रहम् ।।
सर्पा वहन्ति वै सूर्यं यातुधानोऽनुयाति च ।। २८ ।।
परिवार्य ग्रहश्चैव नयत्यस्तं यथाविधि ।।
एतेषामेव देवानां यथावीर्यं यथातपः ।। २९ ।।
यथासत्वमसौ सूर्यस्तेषां सिद्धस्तु तेजसा ।।
भूतानामशुभं कर्म विनाशयति तेजसा ।। 3.168.३० ।।
ग्रीष्मे हिमे च वर्षासु जनयन्स दिवाकरः ।।
धर्मं हिमं च वर्षं च दिनं च निशया सह ।। ३१ ।।
इति श्रीविष्णुधर्मो० तृ० ख० मार्कण्डेयवज्रसंवादे आदित्यानुचरवर्णनो नाम अष्टषष्ट्युत्तरशततमोऽध्यायः ।। १६८ ।।
3.169
मार्कण्डेय उवाच ।।
चैत्रमासस्य सप्तम्यां शुक्लपक्षे नराधिप ।।
गोमयेनोपलिप्ते तु मृदा कुर्यात्तु मण्डलम् ।। १ ।।
तत्राष्टपत्रं कमलं कर्तव्यं वर्णकैः शुभैः ।।
कृतोपवासस्तन्मध्य भास्करं पूजयेन्नरः ।। २ ।।
अरुणं चैव दन्ताकं माठरं च तथा दमम् ।।
यमुनां च यमं कालं द्वितीयं मनुमेव च ।। ३ ।।
शनैश्चरं तथा राज्ञीं छायां रेवन्तमेव च ।।
सप्तच्छन्दांसि वर्षं च द्यां च पिङ्गलमेव च ।। ४ ।।
केशरेषु यजेद्वाथ पत्रेषूक्ताश्च देवताः ।।
दिक्कालपूजनं कार्यं बहिः पद्मस्य पार्थिव ।। ५ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
व्रते समाप्ते दातव्यस्तुरगो ब्राह्मणाय च ।। ६ ।।
प्राप्याश्वमेधस्य फलं यथावल्लोकानवाप्याथ पुरन्दरस्य ।।
तत्रोष्य राजन्सुचिरं च कालं सायुज्यमायाति दिवाकरस्य ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्रतकल्पे सप्तमीपूजाप्रशंसा नामैकोनसप्तत्युत्तरशततमोऽध्यायः ।। १६९ ।।
3.170
।। मार्कण्डेय उवाच ।। ।।
मार्गशीर्षस्य मासस्य कृष्णपक्षे नराधिप ।।
सोपवासस्तु सप्तम्यां कमले पूजयेद्रविम् ।। १ ।।
अर्चायां वा स्थले वापि शुक्लैः पुष्पैर्यथाविधि ।।
चन्दनेन तु रक्तेन वटकैः कृसरेण च ।।२।।
दद्याद्व्रतान्ते द्विजपुङ्गवाय वस्त्रे तु रक्ते रिपुनाशनेप्सुः ।।
सौभाग्यकामश्च तथैव राज्यं प्राप्नोति लोकान्सवितुस्तथान्ते ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रक्तसप्तमीव्रतवर्णनो नाम सप्तत्युत्तरशततमोऽध्यायः।।१७०।।