विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १४१-१४५

विकिस्रोतः तः
← अध्यायाः १३६-१४० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १४१-१४५
वेदव्यासः
अध्यायाः १४६-१५० →

3.141
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
विद्याकामेन कर्तव्यं नरेण सुविपश्चिता ।। १ ।।
बहिः स्नानं नरः कृत्वा कृतऋग्वेदपूजनः ।।
ऋग्वेदं शृणुयान्नित्यं मासमात्रमतन्द्रितः ।। २ ।।
चैत्रादारभ्य धर्मज्ञः नित्यं नक्ताशनो द्विजः ।।
यस्माच्छ्रुतं द्विजात्तस्य ज्येष्ठस्य चरमेहनि ।। ३ ।।
वासोयुगं हिरण्यं च तथा धेनुं पयस्विनीम ।।
घृतपूर्णं कांस्यपात्रं सहिरण्यं च दक्षिणा ।। ४ ।।
आषाढादिषु मासेषु यजुर्वेदव्रतं भवेत ।।
आश्विनादिषु मासेषु सामवेदव्रतं भवेत् ।। ५ ।।
तथा सर्वव्रतं नाम पौषादिषु विधीयते ।।
सर्वेषु सर्वं कर्तव्यमृग्वेदव्रतकीर्तितम् ।। ६ ।।
वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्रादशवत्सराणि ।।
विष्णोलोकं याति लोके विशिष्टं यस्तं प्राप्तः सर्वदुःखं जहाति ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पञ्चमचतुर्मूर्तिकल्पे वेदव्रतो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४१ ।।
3.142
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।* चतुर्व्यूह
सर्वात्मनां तु कर्तव्या यथा पूजा जगद्गुरोः।।
चैत्रशुक्लचतुर्थ्यां तु सोपवासो जितेन्द्रियः ।। १ ।।
चतुर्थ्यां वासुदेवस्य कृत्वा संपूजनं शुभम ।।
काञ्चनं दक्षिणां दद्याद्द्विजाय ब्रह्मचारिणे ।। २ ।।
तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम् ।।
वैशाखे तु गृहस्थाय दद्याच्छय्यां सुसंस्कृताम् ।। ३ ।।
संपूज्य देवं प्रद्युम्नं ज्येष्ठे मासि यथाविधि ।।
वनस्थाय तथा दद्यात्फलमूलं सगोरसम् ।। ४ ।।
अनिरुद्धं तथाषाढे पूजयित्वा जगद्गुरुम् ।।
दद्यादलाबुपात्रं च योगस्थाय द्विजातये ।। ५ ।।
इत्येवं पारणं प्रोक्तं स्वर्गलोके महीयते ।।
द्वितीये पारणे प्राप्ते शक्रलोके महीयते ।। ६ ।।
सालोक्यमायात्यथ केशवस्य प्राप्ते तृतीये त्वथ पारणे च ।।
इत्याश्रमाख्यं व्रतमुत्तमं ते मयेति कल्मषनाशकारि ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे आश्रमव्रतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४२ ।।
3.143
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
चतुरात्मा हरिः प्रोक्तश्चत्वारस्तु हुताशनाः ।। १ ।।
आहिताग्निर्द्विजो यस्य विद्यतेऽग्निचतुष्टयम् ।।
सोपवासश्चतुर्थ्यां तु शुक्लपक्षस्य फाल्गुने ।। २।।
अभ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितः ।।
तस्मै दद्याद्द्विजेन्द्राय तिलप्रस्थानि षोडश ।। ३ ।।
सुवर्णस्य सुवर्णं च वस्त्रं घृततुलामपि ।।
एवं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः ।।४ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति ।। ५ ।।
मानुषो दीप्ततेजाः स्याद्दीप्ताग्निः प्रमदाप्रियः ।।
रिपूञ्जयति संग्रामे धनवांश्च तथा भवेत् ।। ६ ।।
ये त्वग्नयो वै चतुरः प्रदिष्टाः स वासुदेवः कथितश्चतुर्धा ।।
यः पूजयेद्ब्राह्मणमाहिताऽग्निं देवः स तेनाप्यथ पूजितः स्यात् ।। ।।७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तमचतुर्मूर्तिकल्पे अग्निव्रतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४३ ।।
3.144
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
चैत्रशुक्लसमारम्भे प्रथमेऽह्नि पूजयेत ।। १ ।।
कृतं शुक्लेन सर्वेण गन्धमाल्यादिना द्विजः ।।
द्वितीयेऽहनि रक्तेन तथा त्रेतां तु पूजयेत् ।। २ ।।
तृतीयेऽहनि पीतेन द्वापरं पूजयेद्बुधः ।।
चतुर्थेऽहनि कृष्णेन तिष्यं संपूजयेद्युगम् ।। ३ ।।
सिद्धार्थकैः कुंकुमेन तथैव च हरिद्रया ।।
तथैवामलकस्नानमाचरेद्दिवसक्रमात् ।। ४ ।।
सिद्धार्थकाक्षततिलैर्घृतेन जुहुयात्तथा ।।
मुक्ताफलं तथा वज्रं पद्मरागं च यादव ।। ।। ५ ।।
इन्द्रनीलं तथा दद्याद्विप्रेषु दिवसक्रमात् ।।
क्षीरेण प्राणयात्रां तु कुर्यात्प्रत्यहमेव तु ।। ६ ।।
कृत्वा व्रतं वत्सरमेतदेकं चतुर्युगं मोदति नाकपृष्ठे ।।
संपूज्य देवं युगमूर्तिसंज्ञं चतुर्युगं शास्ति महीं समग्राम् ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० माकण्डेयवज्रसंवादे अष्टमचतुर्मूर्ति कल्पे चतुर्युगव्रतवर्णनो नाम चतुश्चत्वारिंदुत्तरशततमोऽध्यायः ।। १४४ ।।
3.145
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
नित्यं चतुर्षु मासेषु श्रावणाद्येषु यादव ।। १ ।।
चतुःसागरचिह्नानि पूर्णकुम्भानि पूजयेत ।।
चतुरात्मा हरिर्ज्ञेयः सागरात्मा विचक्षणैः ।।
स्नानं समाचरेन्नित्यं नदीतोयेषु यादव ।। २ ।।
होमं च प्रत्यहं कुर्याद् गव्येन पयसा तथा ।।
तानि कुम्भानि विप्रेभ्यः प्रत्यहं विनिवेदयेत् ।। ३ ।।
सोपहाराणि धर्मज्ञ भक्त्या शक्त्या तथैव च ।।
नक्तं च प्राशनं कुर्य्यात्सततं तैलवर्जितम् ।। ४ ।।
कार्तिकस्यावसानेऽह्नि भोजयित्वा द्विजोत्तमान् ।।
धेनुं दत्त्वा च विप्राय नाकपृष्ठे महीयते ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।५।।
मानुष्यमासाद्य महीपतिः स्याद्भुक्त्वा महीं सागरमेखलान्ताम् ।।
तत्रापि धर्मस्य पतिर्निविष्टो भवत्यरोगश्च बलेन युक्तः ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुचतुर्मूर्तिकल्पे सागरव्रतवर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः।।१४५।।