विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १४६-१५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १४१-१४५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १४६-१५०
वेदव्यासः
अध्यायाः १५१-१५५ →

3.146
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
वासुदेवस्य गरुडस्तालः सङ्कर्षणस्य च।।१।।
प्रद्युम्नस्य तथा चिह्नं मकरो व्यादिताननः।।
देवोऽनिरुद्धो धर्मज्ञ ऋष्यकेतुः प्रकीर्ततः।।२।।
पीतं नीलं तथा श्वेतं रक्तं च यदुनन्दन।।
तेषां तु कथितं वासः पताका तादृगिष्यते।।३।।
यस्य देवस्य यच्चिह्नं स चात्मा नाम कीर्तितः ।।
पताका यादृशी यस्य वसनं तस्य तादृशम्।। ४ ।।
चैत्रे तु प्रत्यहं मासि गरुडं पूजयेन्नरः ।।
पीतेन गंधनैवेद्यमाल्यवस्त्रादिना द्विजः।।५।।
वैशाखे च तथा मासि तालं संपूजयेत्सदा ।।
नीलेन गंधनैवेद्यमाल्यवस्त्रादिना द्विजः।।६।।
ऋष्यं संपूजयेद्देवं मास्याषाढे यथाविधि ।।
रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विजः।।७।। ।
बहिः स्नानं तथा कुर्याद्वह्निसंपूजनं ततः ।।
नित्यं च कुर्याद्धर्मज्ञ तथा ब्राह्मणतर्पणम् ।। ८ ।।
प्राणयात्रा तथा कुर्यादुक्तं तैलविवर्जितम् ।।
अधःशायी तथा च स्याद् ब्रह्मचारी तथा भवेत् ।। ९ ।।
व्रतमेत्तथा कुर्यान्नित्यं मासचतुष्टयम् ।।
ब्राह्मणान्पूजयेच्छक्त्या चाषाढचरमेहनि ।। 3.146.१० ।।
वस्त्राण्यर्थानि धर्मज्ञ दद्याद्विप्रेषु दक्षिणाम् ।।
कृत्वैकं पारणं राजन्स्वर्गलोके महीयते ।। ११ ।।
द्वितीयं पारणं कृत्वा शक्रलोके महीयते ।।
तृतीयं पारणं कृत्वा ब्रह्मलोके महीयते ।। १२ ।।
कृत्वा पारणषट्कं तु रुद्रलोके महीयते ।।
विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम् ।। १३ ।।
ध्वजव्रतं द्वादशवत्सराणि कृत्वा नरो भार्गववंशमुख्य ।।
सायुज्यमायाति जनार्दनस्य देवस्य विष्णोः परमेश्वरस्य ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे ध्वजव्रतवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः । १४६ ।।
3.147
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
ईशानं च तथा वह्निं विरूपाक्षं समीरणम् ।। १।।
विज्ञेयं यदुशार्दूल देवमूर्तिचतुष्टयम् ।।
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ।। २ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
चैत्रशुक्ले महाभागं प्रतिपत्प्रभृति क्रमात् ।। ३ ।।
भौमनादेयताडाकसारसैः स्नानमाचरेत् ।।
दध्ना तिलैर्यवैर्होमो घृतेन च तथा भवेत् ।। ४ ।।
कर्पूरकुङ्कुमं चैव तथैवागुरुचंदने ।।
ब्राह्मणेषु प्रदातव्यं तथा राजन्दिन क्रमात ।। ५ ।।
दिनत्रयं तथाश्नीयात्सायंप्रातरयाचितम् ।।
दिनमेकं तथाश्नीयाद्ब्रह्मचारी नरोत्तम ।। ६ ।।
एवं संवत्सरं कृत्वा व्रतं पुरुषसत्तम ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।। ७ ।।
मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः ।।
जन्मान्तरे स्याद्द्विजवर्यमुख्यो वेदप्रसक्तो बहुयज्ञयाजी।।८।।
इति श्रीष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे देवमूर्तिव्रतवर्णनोनाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः।। १४७।।
3.148
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
शङ्खचक्रगदापद्मश्चतुरात्मा प्रकीर्तितः।। १ ।।
वासुदेवः स्मृतः शङ्खश्चक्रं संकर्षणस्तथा ।।
प्रद्युम्नश्च गदा पद्ममनिरुद्धो जगद्गुरुः।।२।।
श्रावणादिषु मासेषु बहिः स्नानस्तु भक्तभुक् ।।
तेषां संपूजनं कुर्यात्प्रतिमासमतः क्रमात्।।३।।
गन्धमाल्य नमस्कारधूपदीपान्नसंपदा ।।
ततस्तु कार्तिकस्यान्ते समाप्ते तु तथा व्रते।।४।।
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्छक्त्या च दक्षिणाम् ।।
कांस्यपात्रं च सघृतं ससुवर्णं तथैव च।।५।।
कृत्वा व्रतं मासचतुष्टयं तु प्राप्नोति लोकं त्रिदशेश्वरस्य।।
मानुष्यमासाद्य तथेह पश्चाद्वसुन्धरेशो भवतीह वीरः ।।६।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे आयुधव्रतवर्णनो नामाष्टाचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४८ ।।
3.149
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यासि चतुर्मूर्तिव्रतं तव ।।
त्रिरात्रोपोषितः सम्यग्वसन्ते विषुवद्दिने ।। १ ।।
पूजां कृत्वा यथाशक्ति वासुदेवस्य शत्रुहन् ।।
ततो मासत्रयं नित्यं वासुदेवं तु पूजयेत ।। २ ।।
तच्च मासत्रयं तिष्ठेत्फलाहारो विचक्षणः ।।
ततः शारदमासाद्य धर्मज्ञं विषुवद्दिनम् ।। ।। ३ ।।
त्रिरात्रोपोषितः स्नात्वा प्रद्युम्नं पूजयेत्प्रियम् ।।
होमं कृत्वा ततोश्नीयाद्दत्त्वा दानं च शक्तितः ।। ४ ।।
प्राणयात्रां तु कुर्वीत यावकेन महामते।।
व्रतावसानमासाद्य वासन्तं विषुवद्दिनम् ।।
ब्राह्मणं भोजयेच्छक्त्या दद्याद्विप्रेषु दक्षिणाम् ।।५।।
काञ्चनं रजतं वस्त्रं गां च यादवनन्दन ।।
एतत्संवत्सरं कृत्वा व्रतं नाम हरिप्रियम् ।। ६ ।।
स्वर्गलोकमवाप्नोति बहुकालमसंशयम् ।।
ततोऽश्विलोकान्प्राप्नोति वसुलोकं ततो द्विजः ।। ७ ।।
विश्वेषां चैव देवानां तथैवाङ्गिरसां द्विजः ।।
रुद्राणामथ साध्यानां भृगूणां सवितुस्तथा ।।८ ।।
मरुतामपि धर्मज्ञ शिशिरांशोस्तथैव च ।।
प्राप्नोति देवलोकं च कामचारी विहङ्गमः ।। ९ ।।
प्राप्नोति लोकं स हुताशनस्य शक्रस्य देवस्य तथा हरस्य ।।
लोकं समासाद्य पितामहस्य ततः स विष्णोः पुरुषः प्रयाति ।। 3.149.१० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे फलाहारहरिप्रियव्रतवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ।। १४९ ।।
3.150
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
तस्मिन्नेव व्रते राजन्मया पूर्वोदिते शुभे ।।१।।
विष्णोः स्थाने त्वनन्तस्य पूजा कार्या विजानता ।।
तस्य संपूजनं कृत्वा महीगगनवेधसाम् ।। २ ।।
द्वितीयादिषु कुर्वीत यथावद्विजितेन्द्रियः ।।
अनन्तं पूजयेद्विद्वान्प्रथमेह्नि यथाविधि ।। ३ ।।
व्रतमेतन्नरः कृत्वा पूर्णं संवत्सरं ततः।।
विष्णुलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ।। ४ ।।
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः ।।
धनेन रूपेण सुखेन युक्तो जनाभिरामः प्रमदाप्रियश्च ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पेऽनन्ततवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ।। १५० ।।