विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १३६-१४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १३१-१३५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १३६-१४०
वेदव्यासः
अध्यायाः १४१-१४५ →

3.136
मार्कण्डेय उवाच ।।
आराधनं हि देवस्य तस्य वक्ष्यामि यादव ।।
विष्णोरमितवीर्यस्य तन्निबोध नराधिप ।। १ ।।
वाय्वर्कचन्द्रदेहस्तु त्रिमूर्तिर्भगवान्हरिः ।।
अग्निष्टोमो जगत्यस्मिँश्चन्द्रार्कौ परिकीर्तितौ ।। २ ।।
सर्वाधारश्च भगवान्वायुः सर्वगतस्तथा ।।
पञ्च भूतात्मकं सर्वं जगदेतच्चराचरम् ।। ३ ।।
आधारभूतौ द्वावेतौ पृथिवी गगनं तथा ।।
आधेयो विद्धि धर्मज्ञ तथा भूतत्रयं सदा ।। ४ ।।
चन्द्रादित्यौ च वायुश्च सर्वस्य जगतो द्विज ।।
आधाराधेयभावेन भूतैर्वृतमिदं जगत ।। ५ ।।
नैव चास्ति जगत्यस्मिन्किञ्चिद्भूतविवर्जितम् ।।
तस्माद्वा यादवश्रेष्ठ भूतैर्वृतमिदं जगत् ।।
ब्रह्माणं विद्धि भूमिं च गगनं तदनन्तरम् ।।
अण्डस्यान्तः स्थिता देवा वाय्वर्कं तुहिनांशवः ।। ६ ।।
पालयन्ति जगत्सर्वं सदेवासुरमानुषम् ।।
तथैवाण्डस्थिताः सर्वे पालयन्ति जगत्त्रयम् ।। ७ ।।
तथैव देहिनां देहे पालयन्ति शरीरगाः ।।
वातपित्त कफत्वेन वाय्वर्कशिशिरांशवः ।। ८ ।।
आधारं जगतो यद्वद् ब्रह्माण्डं परिकीर्तितम् ।।
तथा देहे शरीरस्था देहिनां हि त्वगुच्यते ।। ९ ।।
ब्रह्माण्डे देहिदेहेऽपि गगनं दृश्यते द्वयोः ।।
ब्रह्माण्डवच्छरीराणि वाय्वर्कशिशिरांशवः ।। 3.136.१० ।।
पालयन्ति महीपाल वातपित्तकफांशकाः ।।
वाय्वर्कचन्द्र देहस्तु तस्माद्विष्णुस्त्रिमूर्तिधृत् ।। ११ ।।
तस्य संपूजनं कार्यं यथावच्छृणु भार्गव ।।
ज्येष्ठशुक्लतृतीयायां निराहारो नरः शुचिः ।। १२ ।।
त्रिमूर्तिपूजनं कुर्याद्द्वितीयायां यथाविधि ।।
कूपनादेयताडाकमिश्रैः स्नातः शुचिर्जलैः ।। १३ ।।
प्रत्यूषे पूजयेद्वायुमनुलिप्ते शुभे स्थले ।।
गन्ध माल्यनमस्कारधूपदीपान्नसंपदा ।। १४ ।।
होमं कुर्याद्यवैर्मुख्यैर्वस्त्रं दद्याद्द्विजातये ।।
मध्याह्ने पूजयेद्वह्नौ तथा सूर्यमतन्द्रितः ।। १५ ।।
तिलांश्च जुहुयाद्वह्नौ दद्याद्द्विप्रेषु दक्षिणाम् ।।
सूर्यास्तमनवेलायां जले चन्द्रं च पूजयेत् ।। १५ ।।
घृतेन होमं कुर्वीत रजतं दक्षिणा स्मृता ।।
नक्तं भुञ्जीत धर्मज्ञ तैलहीनं ततो नरः ।। १७ ।।
पूर्णं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः ।।
स्वर्गलोकमवाप्नोति सहस्रपरिवत्सरान् ।। १८ ।।
मानुष्यमासाद्य ततो राजा भवति गह्वरे ।।
व्रतं कृत्वा महाराज पूर्णं संवत्सरत्रयम् ।। १९ ।।
पञ्चवर्षसहस्राणि स्वर्गलोके महीयते ।।
मानुष्यं च समासाद्य राजा भवति धार्मिकः ।। 3.136.२० ।।
वीरो माण्डलिकः शूरः परचक्रभयंकरः ।।
विरोगो दर्शनीयश्च सुभगो जनवल्लभः ।। २१ ।।
कृत्वा द्वादशवर्षाणि व्रतमेतदनुत्तमम् ।।
व्रतावसाने विप्राणां सहस्रं भोजयेत्ततः ।। २२ ।।
भोज्यं त्रिमधुरं पेयं दद्याच्छक्त्या च दक्षिणाम् ।।
ततः स्वर्गमवाप्नोति वर्षाणां च शतं व्रती ।। २३ ।।
ततो मानुष्यमासाद्य राजा भवति पार्थिवः ।।
प्रदीप्तचक्रो बलवान्धर्मराजो जनप्रियः ।। २४ ।।
जन्मान्तरं समासाद्य ततो विप्रत्वमाप्नुयात् ।।
ततो ब्राह्मण्यमासाद्य मोक्षोपायं च विन्दति ।। २५ ।।
आराधनं ते कथितं मयैतद्विष्णोस्त्रिदेहस्य महानुभाव ।।
आराधितो येन जगत्प्रधान कामानभीष्टान्विदुषो ददाति ।। २६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुत्रिमूर्तिव्रतवर्णनो नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ।। १३६ ।।
3.137
।। मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि विष्णुमूर्तिव्रतं तव ।।
द्विधा तु देवदेवस्य मृर्तिर्भवति यादव ।। १ ।।
घोरा चान्या शिवा चान्या घोरा भवति पावकः ।।
शिवा चाम्बुपतिर्यस्मादग्नीषोमात्मकं जगत् ।। २ ।।
द्विधा घोरा विनिर्दिष्टा द्विधा सौम्या ततः पुनः ।।
घोरा वह्निश्च सूर्यश्च सौम्या सोमजलाधिपो ।। ३ ।।
तेषां च पूजनं कार्यं प्रतिवत्प्रभृति क्रमात् ।।
शुक्लपक्षादथारभ्य फाल्गुनस्य द्विजोत्तम ।।४।।
आदित्यं पूजयेद्राजा प्रथमेह्नि परः शुचिः ।।
द्वितीयेह्नि तथा वह्नि तृतीयेह्नि जलाधिपम्।। ५ ।।
चतुर्थेह्नि शशांकं च यथावन्मानवोत्तम ।।
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ।।६।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
वचाहरिद्रया स्नानं प्रथमेह्नि समाचरेत् ।। ७ ।।
द्वितीये यदुशार्दूल स्नानमामलकैः शुभम् ।।
प्रियङ्गुणा तृतीये च चतुर्थे गौरसर्षपैः ।। ८।।
गोधूमतिलधान्यैश्च यवैश्च दिवसं क्रमात् ।।
होमश्च कार्यो धर्मज्ञ दक्षिणां शृणु चाप्यथ ।। ९ ।।
कुंकुमं रक्तवस्त्रं च चन्दनं छत्रमेव च ।।
क्षीरेण चात्र कर्तव्यं प्रत्यहं प्राणधारणम् ।। 3.137.१० ।।
एतत्संवत्सरं कृत्वा व्रतं पूर्णं नरोत्तम ।।
सर्वकामसमृद्धस्य यज्ञस्थं फलमश्नुते ।। ११ ।।
विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति ।।
तत्रोष्य सुचिरं कालं कुले महति जायते ।। १२ ।।
मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः ।।
धर्मे स्थितः सत्यपरो विनीतो जितेन्द्रियः सर्वजनाभिरामः।।१३।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ।। १३७ ।।
3.138
।। मार्कण्डेय उवाच ।। ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
शक्रकीनाशवरुणधनाध्यक्षान्यदूत्तम ।। १ ।।
चतुरात्मा विनिर्दिष्टो वासुदेवो जगत्पतिः ।।
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ।। २।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
आद्येह्नि चैत्रशुक्लस्य यजेत त्रिदशेश्वरम् ।। ३ ।।
द्वितीयेह्नि यमं देवं तृतीये सलिलाधिपम् ।।
चतुर्थेह्नि धनाध्यक्षं प्रत्यहं स्नानमाचरेत् ।। ४ ।।
नदीप्रदेशमासाद्य देवदृक् प्रत्यहं क्रमात् ।।
यवैस्तिलैस्तथाज्येन होमः स्यात्तिलतण्डुलैः ।। ५ ।।
रक्तं पीतं तथा कृष्णं श्वेतं वस्त्रं दिनक्रमात् ।।
शुभमेतद्व्रतं कृत्वा पूर्णं संवत्सरं नरः ।।
नाकलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ।। ६ ।।
मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः ।।
जनाभिरामः सुभगः प्रकृत्या ततोपि विप्रत्वमुपैति भूयः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेवज्रसंवादे चतुर्मूर्तिव्रतवर्णनो नामा ष्टात्रिंशदुत्तरशततमोऽध्यायः ।। १३८ ।।
3.139
।। मार्कण्डेय उवाच ।। ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
विष्णुर्भूमिर्नभो ब्रह्मा तस्य रूपचतुष्टयम् ।। १।।
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेत्ततः ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।२।।
आद्येह्नि चैत्रशुक्लस्य विष्णुं देवं समर्चयेत् ।।
द्वितीयादिषु धर्मज्ञ भुवं त्वां च पितामहम् ।। ३ ।।
पूर्वव्रतोक्तं सकलं विधानमपरं भवेत् ।।
व्रतमेतं नरः कृत्वा स्वर्गलोकमवाप्नुयात् ।। ४ ।।
मानुष्यमासाद्य भवत्यरोगो धर्माभिरामो द्रविणोपपन्नः ।।
धनेन रूपेण सुखेन युक्तो जनाभिरामो विजितारिपक्षः ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तार्तीयकचतुर्मूर्तिव्रतवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ।। १३९ ।।
3.140
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन ।। १ ।।
विख्यातं देवदेवस्य तस्य मूर्तिचतुष्टयम् ।।
यदेव रूपं धर्मस्य बलस्योक्तं तदेव तु ।। २ ।।
रूपं ज्ञानस्य ते प्रोक्तं नरसिंहं तथा नृप ।।
रुद्ररूपमथैश्वर्यं कथितं ते मया नृप ।। ३ ।।
शक्तिर्वराहः कथितो देवो मधुनिषूदनः ।।
एवमेतन्मुखात्प्रोक्तं चतुर्मूर्तिधरस्य ते ।। ४ ।।
पूर्वं बलमुखं तस्य वासुदेवमुखं भवेत् ।।
दक्षिणं वदनं ज्ञानं देवं संकर्षणं विदुः ।। ५ ।।
ऐश्वर्यं पश्चिमं वक्त्रं रौद्रं पापहरं तथा ।।
वराहमुत्तरं वक्त्रमनिरुद्धं प्रकीर्तितम ।।६।।
त्रिरात्रोपोषितश्चैत्रे पूर्वं संपूजयेन्मुखम् ।।
तथा वैशाखमासे तु पूजयेद्दक्षिणामुखम् ।।
ज्येष्ठे च पश्चिमं वक्त्रमाषाढेति तथोत्तरम् ।। ७।।
गृहोपयोगि दातव्यं चैत्रे मासि द्विजातये ।।
रणोपयोगि दातव्यं वैशाखे यादवोत्तम।।८।।
यागोपयोगि दातव्यं तथा ज्येष्ठे द्विजातये।
यज्ञोपयोगि दातव्यं मास्याषाढे तथैव च।।९।।
व्रतमेतन्नरः कृत्वा पूर्णं मासचतुष्टयम् ।।
पारणे प्रथमे प्राप्ते भवतीति विनिश्चयः।। 3.140.१० ।।
पारणं प्रथमं कृत्वा स्वर्गलोके महीयते।।
दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथोदितम् ।। ११ ।।
सौम्यादिषु च यामेषु द्वितीयं पारणं भवेत् ।।
द्वितीयं पारणं कृत्वा भोजयेद्ब्राह्मणाञ्शुचिः ।।
भोजनं गोरसप्रायं मृद्वीकाशर्करायुतम् ।। १२।।
प्राप्ते तृतीये द्विजपारणे च प्राप्नोति देवस्य सलोकतां सः ।।
स्वर्गेन्दुलोकौ च तथोक्तकालं भुक्त्वा सुखी सर्वसमृद्धिकामः ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चतुर्थः चतुर्मूर्तिव्रतवर्णनो नाम चत्वारिंशदुत्तरशतमोऽध्यायः ।। १४० ।।