विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०८६-०९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ८१-८५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ८६-९०
वेदव्यासः
अध्यायाः ९१-९५ →

3.86
।।वज्र उवाच।।
प्रोक्तं त्वया द्विजश्रेष्ठ प्रतिमालक्षणं शुभम् ।।
प्रासादलक्षणं सम्यक्कथयस्वामितद्युते ।।१ ।।
मार्कण्डेय उवाच ।।
हस्तप्रमाणन्तत्प्रोक्तं प्रासादानां तु लक्षणम् ।।
संस्थानतो विनिर्दिष्टं हस्तमानानुकीर्तनम्।।२।।
तदहं ते प्रवक्ष्यामि तन्मे निगदतः शृणु ।।
प्रासादलक्षणं श्रेष्ठं विजयारोग्यवर्धनम् ।।३।।
भागं तु जगती कार्या प्रासादो भागमेव च ।।
कर्तव्या जगती मात्रतल्पोच्छ्रायत्रिभृमिका ।।४ ।।
उच्छ्राया तेन कर्तव्या ह्येकैका भूमिका गतिः ।।
भद्रपीठाकृतिः कार्या भूमिका भूमिका पुनः ।। ५ ।।
प्रसादार्थं कटिः कार्या कूटमेव तथैव च ।।
कटिमूलाष्टभागेन सोपानविस्तरा भवेत् ।। ६ ।।
समसंख्यं तु कर्तव्यं सोपानं भूमिकां प्रति ।।
कूटः कार्यस्त्रिधोच्छेदः शुभामलकसारकः ।। ७ ।।
चतुरस्रस्तथा राजन्क्रमोपचयसंयुतः ।।
विच्छेदाश्चात्र कर्तव्याः सिंहमालाविभूषिताः ।। ८ ।।
द्वारोच्छ्रायाश्च कर्तव्या देवाश्चाष्टांशसंयुताः ।।
विस्तारं द्विगुणं चात्र द्वारोच्छ्रायं तु कारयेत् ।। ९ ।।
द्वारशोभावती कार्या चन्द्रशाला समुच्छ्रिता ।।
कूटप्रथमविच्छेदे शुभामलकसारकैः ।। 3.86.१० ।।
द्वारैश्चतुर्भिर्भग्नैस्तु न भग्नैर्वा महीपते ।।
प्रासादमेतत्कर्तव्यं कूटच्छेदद्वये तथा ।। ११ ।।
विच्छिन्न चन्द्रशालाभिश्चतसृभिरिवावृतम् ।।
हिमवान्नाम विख्यातः प्रासादोऽयं मनोहरः ।। १२ ।।
कूटच्छेदद्वयोपेतो माल्यवानभिधीयते ।।
एककूटस्तथैवायं शृङ्गवानिति कीर्तितः ।। १३ ।।
आगाराख्यो भवत्येष द्वारेणैकेन शृङ्गवान् ।।
अगारो भवनाख्यः स्यात्प्रासादस्तु द्विमेखलः ।। १४ ।।
गृहाख्यश्चैष निर्दिष्टः प्रासादश्चैकमेखलः ।।
शृङ्गवान्निषधाख्यः स्यात्प्रासादस्तु द्विमेखलः ।। १५ ।।
स एव नीलो भवति तथा चैवैकमेखलः।।
माल्यवाञ्श्वेतसंज्ञः स्यात्प्रासादस्तु द्विमेखलः ।। १६
विन्ध्यनामा भवत्येष तथा चैवैकमेखलः ।।
अगारभेदरहितः सर्वः सर्वदिवौकसाम् ।।१७ ।।
राजन्देवगृहाः कार्या यथेष्टाशामुखाः शुभा।।
आगारभेदाः कर्तव्याः पूर्वपश्चिमदिङ्मुखाः ।।१८।।
तेषां लिङ्गप्रतिष्ठैका शस्ता भवति पार्थिव ।।
द्विमेखला ये कथितास्तथा चैवैकमेखलाः ।। १९ ।।
भागस्तेषां तु जगती भागस्तेषां तथा कटिः ।।
भागमेकं तथा कार्यं कूटं प्राग्वन्महीपते ।। ।। 3.86.२० ।।
वलभीसंस्थितं रम्यं प्रासादं तु चतुर्दिशम् ।।
विस्तारत्रिगुणायामं तथा चैवैकमेखलम्।।२१।।
पार्श्वयोर्वलभीपृष्ठे चन्द्रशालायुतं भवेत् ।।
प्रासादे तत्र कर्तव्यस्त्रयाश्चामलसारकाः ।। २२ ।।
भागस्तु मेखला तत्र कटिभागस्तथा भवेत् ।।
भाग एकस्तु वलभी तथा तत्र प्रकीर्तिता ।। २३।।
प्रासादस्याष्टमो भागः कर्तव्यो मेखलागतिः ।।
कष्ट्यष्टभागो द्वौ हित्वा सोपानं विस्तराद्भवेत् ।। २४ ।।
एकस्या दिशि चैवात्र द्वारः कार्यः समुच्छ्रयः ।।
स्वेच्छाशाभिमुखः कार्यो वलभीसंज्ञितस्त्वयम् ।। २५ ।।
प्रासादेऽस्मिँस्तु कर्तव्या ब्रह्मविष्णुमहेश्वराः ।।
एकानंशाथ वा कार्या मध्यगा रामकृष्णयोः।।२६।।
गणेशस्कन्दयोर्मध्ये कर्तव्यो वा त्रिलोचनः ।।
मध्येर्कचन्द्रयोः कार्यस्त्वष्टा वापि जनार्दनः।।२७।।
एकैव दुर्गा कर्तव्या बहुबाहु विभूषिता ।।
तत्र कार्याथ वा लक्ष्मीर्जगत्त्रितयभूषणा ।।२८।।
विष्णुर्भोगशयः कार्यः प्रासादे तत्र वा नृप ।।
चतुरात्माथवा कार्यो देवदेवो जनार्दनः ।। २९ ।।
शक्रकीनाशवरुणैः सहितो वा धनेश्वरः ।।
अन्ये देवा न कर्तव्या ये मया नानुकीर्तिताः ।। 3.86.३० ।।
एकाशाभिमुखैर्द्वारैश्चतुर्भिः संयुतस्त्वयम ।।
ब्रह्मणा वृद्धिदो नाम प्रासादः परिकीर्तितः ।।३१ ।।
कर्तव्यस्तत्र लोकेशश्चतुरात्मा हरिस्त्वथ ।।
विस्तारत्रिगुणैश्छायां द्वारांस्तत्र निवेशयेत् ।। ३२ ।।
विस्तारत्रिगुणोच्छ्रायैर्द्वारैर्वा संयुतस्त्रिभिः ।।
प्रासादोऽयं भवेद्राजँस्त्रिगुणो नामतः शुभः ।। ३३ ।।
एकाशाभिमुखद्वारगर्भभित्तिसमन्वि तः ।।
ब्रह्मा विष्णुश्च रुद्रश्च प्रासादेऽत्र निवेशयेत् ।। ३४ ।।
आदित्यविष्णुचन्द्रार्काः पृथग्भूपालसत्तम ।।
गणेशरुद्रस्कन्दान्वा प्रासादेऽस्मिन्निवेशयेत्।।३५।।
पार्श्वस्थवलभीहीनो वलभीसंज्ञितो भवेत् ।।
प्रासादः पार्श्वसंयुक्तः शिखरो नामतो नृप।।३६।।
पार्श्वस्थवलभीहीनं वृत्तिदं कामदं भवेत ।।
पार्श्वस्थवलभीहीनं त्रिगुणं नृगृहं भवेत् ।। ३७ ।।
कृतविस्तृतदिग्द्वारं प्रासादं वलभीगतम्।।
तुरगाख्यं विनिर्दिष्टं रेतोमन्दगृहं हितम् ।। ३८ ।।
विनायकस्य तत्कार्यं भद्रकाल्यस्तथैव च ।।
स्कन्दस्य कार्यं तद्राजँल्लक्ष्म्या कार्यमथापि वा ।। ३९ ।।
नागानां प्रमथानां वा नान्यस्य तु विधीयते ।।
कृतविस्तृतदिग्द्वारं तुरगं कुञ्जरं स्मृतम् ।। 3.86.४० ।।
तुरगाभिहतानां च देवानां तत्प्रशस्यते ।।
शक्रस्य च महाभाग नान्येषां तद्विधीयते ।। ४१ ।।
यथेष्टसंख्यागर्भं तु प्रासादं वलभीगतम् ।।
यथेष्टन्नाम विख्यातं यथेष्टायामसंज्ञितम् ।। ४२ ।।
यथेष्टमानं द्वारन्तद् द्वारेणैकेन संयुतम् ।।
एकगर्भं तदेवोक्तं विशालं नाम पार्थिव ।।४३ ।।
यथेष्टे च विशाले च कर्तव्या मातरो नृप ।।
ग्रहा वा राजशार्दूल नक्षत्राण्यथ वा पुनः ।। ४४ ।।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।।
भृगवोङ्गिरसः साध्या देवो वा यदि वाश्विनौ ।। ४५ ।।
अष्टौ वाथ दिशां पाला यदि वा भूतपञ्चकम् ।।
एवं देवगणः कार्यो राजन्प्रासादयोस्तयोः।।४६ ।।
आयता माल्यवत्पृष्ठे वलभी तु यदा भवेत् ।।
कर्तव्यो भद्रकाल्यर्थे प्रासादो भद्रसंज्ञितः ।। ४७ ।।
तिर्यक्स्था माल्यवत्पृष्ठे वलभी तु यदा भवेत ।।
द्वारपालेति स प्रोक्तः प्रासादो विबुधप्रियः ।। ४८ ।।
सुभद्राख्यस्य निर्दिष्टः श्वेताख्यो भद्रवत्कृतः ।।
कृतस्तु द्वारशालावत्सौम्यः स्याद्गन्धमादनः ।। ४९ ।।
सौम्यः सुभद्रश्च तथा सर्वेषामेव शस्यते ।।
अष्टत्रिकूटं त्रिच्छेदं शुभामलकसारकम् ।। 3.86.५० ।।
अष्टांशजगतीबन्धं तथा चैवैकमेखलम् ।।
अष्टगर्भाष्टदिग्द्वारं कमलं परिकीर्तितम् ।। ५१ ।।
अष्टौ तत्र तु कर्तव्या ग्रहाः केतुविवर्जिताः ।।
सूर्यः शुक्रः कुजो राहुः सौरश्चन्द्रो बुधो गुरुः ।। ५२ ।।
क्रमेणानेन कर्तव्यं तत्र राजन्गृहाष्टकम् ।।
भूजलाकाशवह्नीन्दुदीक्षितार्कमरुत्तनुः ।। ५३ ।।
महादेवोऽथ वा कार्यस्तत्र देवो जगद्गुरुः ।।
अष्टात्मा वासुदेवो वा प्रभवे यापनेन च ।।५४ ।।
प्रासादेऽस्मिंस्तु कर्तव्यो विधिनानेन वा हरिः ।।
चतुरात्मा तु कर्तव्यो दिग्द्वारेष्वत्र केशवः ।। ५५ ।।
अश्वशीर्षं वराहं च नरसिंहं त्रिविक्रमम् ।।
ईशानादिषु कोणेषु कार्या देवा नरोत्तम ।। ५६ ।।
उच्छ्रिता जगती कार्या भद्रपीठाकृतिं विना ।।
प्राग्भागवलभीहीनं तुरगं तत्र कारयेत् ।। ५७ ।।
प्रशस्तः सर्वदेवानां प्रासादस्त्वरुणोदयः ।।
पूर्वापराशाभिमुखः कार्योयं नान्यदिङ्मुखः ।। ५८ ।।
अयमेवातिदीर्घस्तु प्रासादो गृहसंज्ञितः ।।
प्रासादे त्वरुणे लग्ना वल्यप्रासादकावुभौ ।। ५९ ।।
याम्योत्तराशाभिमुखौ तद्वज्जगति बन्धनौ ।।
सम्मुखौ तौ तु जगति वलभीच्छन्दकौ भवेत्।।3.86.६०।।
शुभा जालप्रतिच्छन्ना सौभद्वारमुखा तथा ।।
तत्र स्याद्गरुडो नाम प्रासादः सुमनोहरः ।। ६१ ।।
आदित्यस्य प्रतिष्ठानं प्रासादे तत्र शस्यते ।।
दण्डपिङ्गलकौ कार्यौ तत्र प्रासादयोर्द्वयोः ।। ६२ ।।
तयोर्वा नृप कर्तव्यौ रतौ मन्दयमावुभौ ।।
कर्तव्यौ वा महाराज तथा केशवशङ्करौ ।। ६३ ।।
प्रासादे गरुडो वापि कर्तव्यश्चन्द्रमा बुधैः ।।
पार्श्वप्रासादयोस्तस्य कर्तव्यौ शिशिराम्बुपौ ।। ६४ ।।
प्रासादे गारुडे वापि कामदेवं तु कारयेत् ।।
पार्श्व प्रासादयोस्तस्य कर्तव्यौ वनमालिनौ ।। ६५ ।।
प्रासादे गारुडे वापि कर्तव्यो देवराड् बुधैः ।।
पार्श्वप्रासादयोस्तस्य कर्तव्यौ वनमालिनौ।।६६।।
प्रासादे गारुडे वापि कर्तव्यश्च तथा यमः ।।
पार्श्वप्रासादयोस्तस्य मृत्युकालौ निवेशयेत् ।। ६७ ।।
प्रासादे गारुडे वापि कर्तव्यो वरुणो भवेत् ।।
पार्श्वप्रासादयोः कार्या गङ्गा कालिन्दिरेव च ।। ६८ ।।
प्रासादे गारुडे वापि धनाध्यक्षं तु कारयेत् ।।
पार्श्वप्रासादयोस्तस्य शङ्खपद्मौ निवेशयेत् ।। ६९ ।।
प्रासादे गारुडे वापि ब्रह्माणं विनिवेशयेत् ।।
पार्श्वप्रासादयोस्तस्य कर्तव्यौ केशवेश्वरौ ।। 3.86.७० ।।
प्रासादे गारुडे वापि महादेवं निवेशयेत् ।।
पार्श्वप्रासादयोस्तस्य कार्यौ विष्णुपितामहौ ।। ७१ ।।
विनायकः कुमारो वा कर्तव्यो यदुनन्दन ।।
वीरभद्रश्च नन्दी च कर्तव्यौ वा मनोहरौ ।। ७२ ।।
प्रासादे गारुडे वापि गरुडं विनिवेशयेत् ।।
पार्श्वप्रासादयोः कार्यः कश्यपो विनता तथा ।।७३।।
प्रासादे गारुडे वापि वासुदेवं निवेशयेत् ।।
पार्श्वप्रासादयोस्तस्य कार्यौ रुद्रपितामहौ।।७४।।
चन्द्रार्कौ वा महाराज यदि वा वरुणानिलौ ।।
लक्ष्मीं च कालरात्रीं च यदि वाप्यनलानिलौ ।। ७५ ।।
तार्क्ष्यानन्तौ महाराज यदि वा गरुडारुणौ ।।
प्रासादे गारुडे वापि धर्मः कार्यो महीपते ।। ७६ ।।
पार्श्वप्रासादयोस्तस्य कार्योऽर्थः काम एव च ।।
लिङ्गाकारं तु कर्तव्यं देववेश्म त्रिमेखलम् ।। ७७ ।।
तस्य नाम भवेल्लोके शर्वेति नरपुङ्गव ।।
द्विमेखलस्य तस्यैव त्रैलोक्यमिति निर्दिशेत् ।। ७८ ।।
स एव लिङ्गनामा स्यात्प्रासादस्त्वेकमेखलः ।।
कूटवद्वलभीयुक्तं सर्वकीटं प्रकीर्तितम् ।। ७९ ।।
ब्रह्माण्डमिति विज्ञेयं त्रैलोक्यं वलभीयुतम् ।।
लिङ्गाख्यं वलभीयुक्तं सारमित्यभिधीयते ।। 3.86.८० ।।
शर्वाद्याः षडिमे कार्याः पूर्वपश्चिमदिङ्मुखाः ।।
लिङ्गसंस्थापनं कार्यं नित्यमेतेषु पण्डितैः ।। ८१ ।।
प्रासादं वलभीसंज्ञं चतुरस्रं विमेखलम् ।।
चतुरस्रमिति ख्यातं कार्यं तत्सुमनोहरम् ।। ८२ ।।
विद्वारं स्तंभसंयुक्तं पुरस्ताद्भित्तिवर्जितम् ।।।
शाक्रं देवगणैर्युक्तं यमं वा पितृसंयुतम् ।। ८३ ।।
मातृयुक्तं महाकालं नृसिंहमथ वा पुनः ।।
दुर्गां देवीं तथा राजन्नक्षत्रं शशिनं तथा ।। ८४ ।।।
ग्रहैर्दिवाकरं युक्तं नागैर्वा नृप वासुकिम ।।
सुमेखलं तन्निर्दिष्टं तथा नृप समेखलम् ।। ८५ ।।
विमेखलं तत्कथितं राजन्द्वारं द्विमेखलम्।।।
त्रिमेखलं तत्कथितं मेखलाढ्यं महीपते ।। ८६ ।।
सर्वेष्वेतेषु कर्तव्याः सभास्थाः सर्वकीर्तिताः ।।
अन्येप्यनुक्ताः कर्तव्याः सभास्था नरपुङ्गव ।।। ।। ८७ ।।
चतुरस्रादयस्त्वेते द्वारवन्तो महीपते ।।
धिष्ण्यशल्यबुधेन्द्वाख्या नामतः परिकीर्तिताः ।। ८८ ।।
चतुरस्रो गृहः कार्यः प्रासादस्त्वेक भूमिकः।।
गृह इत्येव विख्यातो लक्ष्मीं तत्र निवेशयेत।।८९।।
स एव कार्यो देवानां यथष्टो बहुभूमिकः ।।
बहुभूमिकसंज्ञस्तु यथेष्टं नृपपुङ्गव।।3.86.९०।।
भूमिकाद्वादशोपेतः षडस्रो मेरुरुच्यते ।।
चतुर्द्वारस्तु कर्तव्यः सर्वेषां त्रिदिवौकसाम ।। ९१ ।।
शुक्तिमान्नामतः सर्वः स चैकादशभूमिकः ।।
मन्दरो नामतः प्रोक्तः स तद्द्वादशभूमिकः ।। ९२ ।।
नवभिर्भूमिकाभिस्तु पारियात्रः प्रकीर्तितः ।।
अलको नाम विख्यातस्तथा चैवाष्टभूमिकः ।। ।। ९३ ।।
विमानः सप्तभौमः स्यात्पलभौमो नन्दनः स्मृतः ।।
पञ्चतः पञ्च मः स्याच्चतुर्भौमश्चतुष्ककः ।। ९४ ।।
त्रिभूमिस्तु त्रिभूमिः स्याद्द्विभूम्याख्यो द्विभूमिकः ।।
एकभौमस्तु निर्दिष्टस्तथा चैवैकभूमिकः ।।९५।।।
प्रोक्तः समुद्राख्यस्तथा वृत्तैकमेखलः ।।
मेखला चतुरस्रा तु भद्रपीठाकृतिर्भवेत् ।।९६।।
कृतस्त्वष्टपरिच्छेदैः सर्वस्वामलसारकैः।।
वृत्त एव तथा नन्दी प्रासादः परिकीर्तितः।।९७।।
दीर्घराजगुहाकारो गुहाराजः प्रकीर्तितः।।
भद्रकाल्यास्तथा कार्या विष्णोर्भागशयस्य वा ।। ९८ ।।
एकशृङ्गस्तथा वृत्तो वृषाख्यः स्याद्द्विमेखलः ।।
हंसाकारस्तथा हंसो घटाकाग्स्तथा घटः ।।९९।।
सिंहाकारः स्मृतः सिंहो मण्डपो मण्डपाकृतिः ।।
द्वादशास्रिः षडस्रिस्तु तथाष्टास्रिर्महीपते ।। 3.86.१०० ।।
प्रासादास्तु मया प्रोक्तास्तथा प्रोक्ताश्रयस्थितिः ।।
पञ्चभिः शिखरैर्जुष्टश्चतुर्भिरपि मण्डपैः ।।१०१।।
द्वारैश्चतुर्भिः संयुक्तः कैलाशः परिकीर्तितः ।।
त्रिमेखलस्त्रिशृङ्गश्च त्रिकूटो नाम विश्रुतः ।।१०२।।
शृङ्गेणैकेन संयुक्तश्चतुर्भिरपि मण्डपैः।।
चतुर्द्वारः स्मृतः सौम्यः प्रासादः सुमनोहरः।।१०३।।
प्राकारं जानुदघ्ना स्याद्यस्यैका जगती भवेत्।।
प्रासादतुल्या त्र्यंशा तु त्र्यंशतुल्या तथा कटिः।।१०४।।
शिखरः कुहरोपेतो नानारूपकभूषितः।।
एकमण्डपसंयुक्तस्तादृशैः सुरमन्दिरैः ।।१०५।।
स्वल्पैर्विदिक्षु संयुक्तश्चतुर्भिर्भुवि मण्डपैः।।
सोपानमूले संयुक्तो द्वाभ्यामेव नराधिप।।१०६।।
प्रासादो राजराजाख्यो मुख्योऽयं परिकीर्तितः।।
प्रासादे राजराजाख्ये चत्वारो यदि मण्डपाः।।१०७।।
सर्वे शिखरहीनाः स्युस्तथा सोपानमूलगाः।।
अष्टौ देवगृहाणि स्युः स भवेद्धरणीधरः।।१०८।।
मण्डपैः शिखरोपेतैविमानाख्यः स वै भवेत ।।
विदिक्षु यत्र प्रासादाश्चत्वारो मण्डपान्तरे ।। १०९ ।।
मण्डपाः शिखरोपेता मध्यमंजारिसंयुताः ।।
नवभिः शिखरैरेष प्रासादः सुरराड् भवेत् ।। 3.86.११० ।।
बहुवातायनोपेतो बहुजालगवाक्षकः ।।
चतुरस्रोऽथ वा वृत्तस्तथैवोच्छ्रितमेखलः ।। १११।।
आनन्दनामा भवति प्रासादः सर्वतोमुखः ।।
मेखलापृष्ठभूभागात्क्रमेणामलसारकैः ।। ११२ ।।
अविच्छिन्नैः क्रमाद्द्वारैर्बहुभिर्यो विनिर्मितः ।।
न मुण्डो न च शूलाग्रः प्रासादः सुसमः स्मृतः ।। ११३ ।।
मुण्डमण्डलसंयुक्तः स एवोक्तः प्रभञ्जनः ।।
चतुर्भिर्मण्डपैर्युक्तो विश्वकर्मेति कीर्त्यते ।। ।। ११४ ।।
मण्डपैः सुसमाकारैश्चतुर्भिरपि संयुतः ।।
महासुमन इत्येष प्रासादः परिकीर्तितः ।। ११५ ।।
भद्राकारः स्मृतश्छत्रो मृदङ्गः स्यात्तदा कृतिः ।
विपरीतो मृदङ्गस्तु वज्र इत्यभिधीयते ।।११६ ।।
एका कटिर्भवेद्यस्य तथैका जगती नृप ।।
शिखरा श्रेणिगाः पञ्च द्वाराः पञ्च तथा नृप ।। ११७ ।।
प्रासादो लोकपालाख्यो लोकपालेषु शस्यते ।।
शंसन्त्यथान्यं प्रासादं महाभूतगणस्य च ।। ११८ ।।
प्रासादो वर्तुलकटिस्तथा वर्तुलमेखलः ।।
अष्टास्रिः शिखरोपेतो द्वाराष्टकभूषितः ।। ११९ ।।
दिग्बन्ध इति विख्यातः प्रासादः सर्वदैवतः ।।
पश्चाद्गविटकोपेतो जगती मानमण्डलः ।। 3.86.१२० ।।
प्रासादस्त्वेकशिखरः सामान्यः परिकीर्तितः ।।
मण्डपे जालकोपेते पश्चाद्भागे गुहा भवेत ।। १२१ ।।
विमेखलोऽयं प्रासादः सुगुहः परिकीर्तितः ।।
स एव त्रिगुणोपेतस्त्रिगुणः परिकीर्तितः ।। १२२ ।।
हिमवान्बहुभिस्तम्भैर्युतो भवति नन्दकः ।।
स्तम्भवान्वलभीयुक्तः प्रासादो भित्तिवर्जितः ।। १२३ ।।
आकाशनी सा भवति तत्राकाशं प्रकल्पयेत ।।
षोडशस्रिस्तु कथितः प्रासादस्तावदस्रिकः ।। ।। १२४ ।।
प्रासादः शङ्खसंज्ञः स्याच्छङ्खाकारः सुशोभनः ।।
पद्माभशिखरोपेतो वैजयन्तो महीपते ।। १२५ ।।
अनास्रिः शिखरोपेतो भवेदम्बुदसंज्ञितः ।।
शिखरैः कुहरोपेतैर्भवेन्मङ्गलसंज्ञितः ।। १२६ ।।
प्रासादानां शतं चैतत्समासात्कथितं मया ।।
यथेच्छाशामुखाः कार्या येषां दिङ् न प्रयोजिताः ।। १२७ ।।
सर्वे देवगणाः कार्या येषां देवो न कीर्तितः।।
विष्णोर्देवस्य कर्तव्यः सर्व एव विशेषतः ।। १२८ ।।
अन्यमिश्रौ न कर्तव्यौ चन्द्रार्कावेकवेश्मगौ ।।
सूर्येण संयुतश्चन्द्रः क्षीणः केतुः क्षयावहः ।। १२९ ।।
परस्पराशाभिमुखौ कर्तव्यौ सूर्यरात्रिपौ ।।
पूर्वापराशाभिमुखौ न तु याम्योत्तरामुखौ ।। 3.86.१३० ।।
पूर्वापराशाभिमुखौ यद्वा स्यातां तदा शशी ।।
पूज्यो भवति धर्मज्ञ कर्तुः कल्याणकारकः ।। १३१ ।।
नैकवेश्मगतौ कार्यौ ग्रहौ स्कन्दविनायकौ ।।
न नागगरुडौ कार्यौ न चान्तकमहेश्वरौ ।। १३२ ।।
महाकालनृसिंहौ च रक्तां शुष्कां तथैव च ।।
ब्रह्मरुद्रकृतान्तैस्तु भद्रकाल्याथ वा सह ।। १३३ ।।
कामदेवो न कर्तव्यस्तथैव वरुणानलौ ।।
देवस्यैकस्य नो कार्ये द्वे तथा च तथा नृप ।। १२४ ।।
प्रादुर्भावगते कार्ये ते च विप्णोर्महात्मनः ।।
येषामपि च देवानां द्वन्द्वयोगो विगर्हितः ।। १३५ ।।
तेषामप्यन्यसहितः प्रशस्तो नृपसत्तम ।।
ग्रहसंख्यासुसहितौ कर्तव्यौ सूर्यरात्रिपौ ।। १३६ ।।
महादेवसमीपस्थौ तथा स्कन्दविनायकौ ।।
वासुदेवसमीपस्थौ शेषतार्क्ष्यौ तथैव च ।। १३७ ।।
एवमन्यसमेतानां यथायोगैः पृथग्विधैः ।।
कर्तव्यस्तु विरुद्धानां देवानां चापि सङ्गमः ।। १३८ ।।
प्रासादलक्षणमिदं कथितं समासादालोक्य पूर्वचरितं हि पितामहोक्तम ।।
शास्त्रं हिताय नरसत्तम मानुषाणां धार्यं त्वया तदतियत्नपरेण नित्यम् ।। १३९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रासादलक्षणो नाम षडशीतितमोऽध्यायः ।। ८६ ।।
3.87
मार्कण्डेय उवाच ।। ।।
प्रासादमथ वक्ष्यामि सर्वतोभद्रसंज्ञितम ।।
चतुरात्मा हरिर्यत्र कर्तव्यो जगतीपते ।। १ ।।
एकत्र जगती कार्या चतुरस्रा मनोरमा ।।
तस्यां गर्भगृहाः कार्या विंशतिश्चतुरुत्तराः ।। २ ।।
येषां पृष्ठे जगत्यूर्द्धवं प्राकारं विनिवेशयेत् ।।
सर्वत्र मेखलाकारं तत्रापि विनिवेशयेत ।। ३ ।।
प्रासादका महाराज चतुर्विंशतिरेव च ।।
चतुर्षु दिक्षु सोपानं मेखलायां निवेशयेत् ।। ४ ।।
सोपानस्त्र्यंशविस्तारो मेखलाया प्रकीर्तितः ।।
सोपानोभयतो राजन्प्रासादास्ते त्रयस्त्रयः ।। ५ ।।
भवन्ति मेखलापृष्ठे तदादौ गर्भमन्दिरम् ।।
विमेखलं तु सामान्यं मध्ये तेषां विमण्डपम ।। ६ ।।
हिमवन्संज्ञितौ कार्यौ तस्य पार्श्वे विमेखलौ ।।
सोपानमूले प्रासादे द्वेद्वे कार्ये मनोरमे ।। ७ ।।
दंष्ट्रे देवकुलाख्ये ते सामान्याख्ये विमण्डपे ।।
तथैव जगतीपृष्ठे कोणे देवकुलं न्यसेत् ।। ८ ।।
प्रासादो मध्यमश्चात्र कर्तव्यो मण्डपान्वितः ।।
चत्वारो मण्डपाश्चात्र कार्याः शिखरसंज्ञिताः ।। ९ ।।
मध्यप्रासादकोणेषु तथा मण्डपसन्धिषु ।।
द्विद्विगर्भगुहान्रम्यान्प्रासादान्विनिवेशयेत् ।। 3.87.१० ।।
एकैकं मण्डपं चात्र द्वारत्रितयभूषितम् ।।
चतुर्थे च तथा द्वारे देवगर्भगृहं भवेत् ।। ११ ।।
मण्डपस्य च ये द्वारा कार्यास्ते स्तम्भभूषिताः ।।
प्रासादस्यास्य शिखरा भवन्त्येव नवैव तु ।। १२ ।।
उच्छ्रितं नवमं शृङ्गं तुल्यं स्याच्छिखराष्टकम् ।।
मध्यमं शिखरं तत्र कार्यं शिखरवर्जितम् ।। १३ ।।
रूपकैर्विविधैर्युक्तं न मण्डं न च शूलवत् ।।
अष्टौ तु शिखरास्तत्र कर्तव्याः कुहरान्विताः ।। १४ ।।
जालागवाक्षकोपेतैः कुहरैर्नृप भूषिताः ।।
सर्वत्र शिखराः कार्याः शुभामलकसारकाः ।। १५ ।।
सचक्राः सपताकाश्च सध्वजाश्च नराधिप ।।
खेऽभिषक्त इवाभाति प्रासादोऽयं समुच्छ्रितः ।। १६ ।।
क्रमतो देवतान्यास प्रासादेऽस्मिन्निबोध मे ।।
वासुदेवोऽत्र कर्तव्यः पूर्वाशाभिमुखो नृप ।। १७ ।।
पश्चिमाशामुखो वापि न कार्यश्चान्यदिङ्मुखः ।।
वासुदेवदिशं चात्र पूर्वां राजन्प्रकल्पयेत् ।। १८ ।।
तस्याश्चैवानुसारेण दिशः स्यात्परिकल्पना ।।
दक्षिणाशामुखः कार्यो देवः सङ्कर्षणः प्रभुः ।। १९ ।।
पश्चिमाशामुखः कार्यः प्रद्युम्नश्चाप्यनन्तरम् ।।
उत्तरशामुखो राजन्ननिरुद्धो विधीयते ।। 3.87.२० ।।
दिग्गर्भा ये मया प्रोक्ता गृहा मण्डलसन्धिगाः ।।
प्राङ्मण्डपाद्दक्षिणतो लक्ष्मीं तत्र तु कारयेत ।। २१ ।।
दक्षिणाद्वामतो निद्रां कालरात्रीं तु दक्षिणे ।।
पश्चिमाद्वामतः सिद्धिं रतिं तस्यैव दक्षिणे ।। ५२ ।।
उत्तराद्वामतः कीर्तिं दक्षिणेन सरस्वतीम् ।।
पूर्वस्यां वामभागे तु तथा पुष्टिं निवेशयेत् ।। २३ ।।
ऐशान्यादिक्रमाः कार्याः कोणप्रासादगास्त्विमे ।।
अश्वशीर्षं वराहं च नरसिंहं त्रिविक्रमम् ।। २४ ।।
प्रासादकेषु कर्तव्या मेखला बन्धकेषु च ।।
चतुर्विंशतिरित्येते विबुधा विबुधोत्तम ।। २५ ।।
तार्क्ष्यं शङ्खं तथा पद्मं चक्रं लाङ्गलमेव च ।।
मुसलं चाप्यनन्तं च गदां तालं तथैव च ।। २६ ।।
त्रिशूलं च तथा शार्ङ्गं शरं मकरमेव च ।।
परशुं मुद्गरं चैव चर्म पाशं च पार्थिव ।। २७ ।।
पट्टिशं नन्दकं चैव शक्तिमृष्टिं तथैव च ।।
वज्रं च कौस्तुभं चैव वनमालां च यादव ।। २८ ।।
दंष्ट्रां देवगृहाणां मे त्वं विन्यासमिदं शुणु ।।
इन्द्राग्नी पूर्वतः कार्यौ दक्षिणेन तथा नृप ।। २९।।
यमश्च निर्ऋतिश्चैव पश्चिमे वरुणानिलौ ।।
उत्तरेण च कर्तव्यौ धनेश्वरमहेश्वरौ ।। 3.87.३० ।।
ग्रहाष्टकं वा कर्तव्यं दंष्ट्रा देवगृहेषु च ।।
आदित्यशुक्रौ पूर्वेण याम्येन च कुजासुरौ ।। ३१ ।।
शनैश्चरशशांकौ च तथा पश्चिमतो नृप।।
उत्तरेण च कर्तव्यौ चन्द्रपुत्रबृहस्पती ।। ३२ ।।
दंष्ट्रादेवगृहावत्र वासुदेवस्य यावुभौ ।।
वासुदेवप्रतीहारौ तयोर्वा कारयेन्नृप ।। ३३ ।।
सुभद्रवसुभद्राख्यौ त्रैलोक्यस्येश्वरावुभौ ।।
आषाढयज्ञताताख्यौ कार्यौ सङ्कर्षणस्य तु ।। ३४ ।।
जयं च विजयं चैव प्रद्युम्रस्य तु कारयेत ।।
आमोदं च प्रमोदं च अनिरुद्धस्य पार्थिव ।। ३५ ।।
प्रागुक्तं देवतान्यासाद्दंष्ट्रा देवकुलेष्वथ ।।
प्रतीहारप्रतिष्ठानं शस्यते बहुभिर्गुणैः ।। ३६ ।।
त एव ज्ञेया दिक्पालास्त एव च तथा ग्रहाः ।।
एतत्त्वं जगतीबन्धे शृणु देवान्यथाक्रमम् ।। ३७ ।।
गायत्रीं चतुरो वेदान्वैष्णवीं चापराजिताम् ।।
मृत्युं कालं यमं दण्डं कवचं शरमेव च ।। ३८ ।।
सांख्यं योगं पञ्चरात्रं ज्ञानं पाशुपतं तथा ।।
व्यासवाल्मीकिमार्कण्डं महाभूताननन्तरम् ।। ३९ ।।
एवंविधेऽत्र प्रासादे विस्तीर्णमजिरं भवेत ।।
तोयैस्कृत्रिमैर्दिव्यैः सम्बद्धैरुपशोभितम् ।। 3.87.४० ।।
द्वारपालाश्चतस्रस्तु ततः कार्या विजानता ।।
प्रासादो द्वारशालाख्यः समरूपो मनोहरः ।। ४१ ।।
श्रेणीगताश्च प्राकाराः कार्या गर्भगुहाः शुभाः ।।
प्रादुर्भावं न्यसेत्तेषु विष्णोरमिततेजसः ।। ४२ ।।
अथ वा पार्थिवश्रेष्ठ सर्वान्देवगणान्क्रमात ।।
प्रासादमेतद्विधिवद्यः करोति महीपते ।। ४३ ।।
सर्वेषां देवतानां तु नित्यं विहितपूजनम् ।।
कल्पं त्रेतायुगस्यादौ चक्रवर्त्यभिधीयते ।। ४४ ।।
परिवेशस्तथा कार्यः स्वर्गे वसति कामतः ।।
ततः सायुज्यतामेति देवदेवस्य चक्रिणः ।। ४५ ।।
फलं त्रैलोक्यदानस्य ध्रुवमाप्नोति मानवः ।।
प्रासादेस्मिन्सकृत्कृत्वा सर्वेषामेव पूजनम् ।। ४६ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
यथेष्टं काममाप्नोति नात्र कार्या विचारणा ।। ४७ ।।
सचक्रः सपताकोऽयं प्रासादोऽतिमनोहरः ।।
यावद्दर्शनमायाति तावन्नश्यन्त्युपद्रवाः ।। ४८ ।।
व्याधिश्चैवापमृत्युश्च ईतयश्च तथा नृप ।।
नाशमायान्त्यसन्देहं तत्प्रविष्टस्य यादव ।। ४९ ।।
नाकालमृत्यवो राजन्योगिन्यो यक्षराक्षसाः ।।
प्रेता विनायका वापि प्रभवन्त्यपि कस्यचित् ।।3.87.५० ।।
अत्र सात्त्वतमुख्या ये सायुज्यं यान्ति ते ध्रुवम् ।।
ये देवग्रहगाश्चात्र दासीदासगणाश्च ये।। ।। ५१ ।।
सर्वे ते स्वर्गमायान्ति यावदिन्द्राश्चतुर्दश ।।
यस्य राज्ञस्तु विषये प्रासादोऽयं भवत्यपि ।।५२।।
स चापि शक्रलोकस्थश्चिरं मोदति पार्थिवः ।।
तस्मिन्पताकां यो दद्यात्तया पापं विधूयते ।। ५३ ।।
ईतयश्च शमं यान्ति पुण्यमाप्नोत्यनुत्तमम् ।।
कृत्वा सितं तं प्रासादं चक्रवर्त्यभिधीयते ।। ५४ ।।
एवं विधानविहिते मया देवा यथोदिताः ।।
सर्वे सन्निहितास्तत्र भवन्ति वसुधाधिप ।।५५ ।।
तत्र यत्सलिलं तिष्ठेत्तत्तीर्थं सततं भवेत् ।।
तत्र यात्राविधाने तु सर्वे देवाः सवासवाः ।। ५६ ।।
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ।।
राजर्षयः पुराणाश्च सर्वे समुदिता गणैः ।।५७।।
दिविष्ठाः सुमहात्मानः शक्रतुल्यपराक्रमाः।।
गन्धर्वाप्सरसश्चैव शुभा भूतगणाश्च ये।।५८।।
सशरीराः समायान्ति इष्टं देवमहोत्सवम्।।
तत्रोत्सवं नरः पश्यन्ध्रुवं कल्याणभाग्भवेत् ।। ५९ ।।
तत्र हिंसा न कर्तव्या देवद्रव्यस्य कर्हिचित ।।
राजा वा तन्नियुक्तो वा तत्रास्याधिकृतस्तु यः ।। 3.87.६० ।।
स याति नरकं घोरं सपुत्रपशुबान्धवः ।।
अस्मिँल्लोके ध्रुवं तस्य स्थाननाशो भविष्यति ।। ६१ ।।
ये तत्र भक्ता मनुजाः सपशुद्रव्यसञ्चयाः ।।
नित्यं वृद्धिमुपायान्ति देवदेवप्रसादतः ।। ६२ ।।
द्रष्टव्यमेतत्त्रिदिवेशवेश्म कृतं यदन्येन नरेन्द्रचन्द्र ।।
दृष्ट्वा हि पापैः सकलैर्मनुष्यो विमुच्यते पुण्यमवाप्नुयाच्च ।।६३।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सर्वतोभद्रप्रासादलक्षणं नाम सप्ताशीतितमोऽध्यायः ।।८७।।
3.88
मार्कण्डेय उवाच ।।
सामान्यमथ वक्ष्यामि प्रासादानां तु लक्षणम् ।।
चतुःषष्टिपदं कार्यं देवतायतनं सदा।।१।।
द्वारं च मध्यमं तस्य समदिक्स्थं प्रशस्यते ।।
द्वारं विस्तरतः कार्यं भूपाल द्विगुणोच्छ्रयम्।।२।।
गृहस्थस्य तु द्वारेण द्वारदेवकुलद्रुमैः ।।
अविद्धं तच्च कर्तव्यं नाम्बुस्रावि न कुक्षिमत्।।३।।
वज्रमध्यं नतं चैव द्वारं यत्नाद्विवर्जयेत।।
मङ्गल्यं रूपकोपेतं तच्च कार्यं प्रयत्नतः।।४।।
द्वारमानाष्टभागानां प्रतिमां तु सपिण्डिकाम्।।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका।।९।।
कटिरष्टमभागोनं द्वारं कार्यं विजानता।।
तृतीयमंशं वसुधा तृतीयांशः कटिर्भवेत् ।। ६ ।।
मंजरी च तृतीयांशः प्रासादस्य महाभुज ।।
गर्भं पादेन विस्तीर्ण तथा द्वारं प्रशस्यते ।। ७ ।।
भित्तिर्गर्भाष्टभागोना तथा कार्या विजानता ।।
प्रासादोच्छ्रायभागेन चतुर्थेन च शस्यते ।। ८ ।।
वसुधासञ्चरो राजन्कट्यंशद्वितयेन तु ।।
नात्यर्थं सङ्कटं कार्यं नाविस्तीर्णं तथैव च ।।९ ।।
मूलक्रमाद्यथा चोर्ध्वं तथा विस्तारवर्जितम् ।।
सोपानं कारयेद्राजन्पार्श्वयोः सिंहभूषणम्।।3.88.१ ०।।
न मुण्डं न च शूलाग्रं नानतं कारयेत्तथा।।
समं मनोहरं कार्यं तथा माङ्गल्यरूपवत् ।। ११ ।।
सुधासुसितशृङ्गं च विचित्रकटिभूषणम् ।।
द्वारयोः सप्रतीहारं समगर्भगृहं समम् ।।
भद्रपीठनिभं सौम्यं श्लक्ष्णं घातविवर्जितम् ।। १२ ।।
एवंविधे देवगृहे निविष्टा शुभावहा स्यात्प्रतिमा सदैव।।
नित्यं तथा सन्निहिता नृवीर तस्मात्प्रयत्नादिदमेव चिन्त्यम् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्यप्रासादलक्षणो नामा ष्टाशीतितमोऽध्यायः ।। ८८ ।।
3.89
मार्कण्डेय उवाच ।।
वनप्रवेशं धर्मज्ञ निबोध गदतो मम ।।
शुभे दिवसनक्षत्रे मुहूर्ते चाभिपूजिते ।। १ ।।
दैवज्ञं पुरतः कृत्वा स्थपतिः प्रविशेद्वनम् ।।
ततस्तत्र परीक्षेत च्छिन्द्याद्भिन्याद्वनस्पतीन ।। २ ।।
सकोटरां लताबद्धां कृमिजग्धां विवर्जयेत् ।।
वह्निना च तथा स्पृष्टां पातितां पवनेन च।।३।।
कुञ्जरेण तथा भग्नां पक्षिणां निलयाश्च ये।।
तापसानां समीपे च सिक्ताश्च घटवारिणा।।४।।
सत्त्वानामाश्रया ये च ये च कुब्जा नराधिप ।।
सुषिरा ऊर्ध्वशुष्काश्च बालवृद्धास्तथैव च ।। ५ ।।
श्मशानचैत्यवल्मीकदेवतायतनोद्भवाः ।।
उद्यानजानेकवृक्षान्सीमावृक्षांस्तथैव च ।। ६ ।।
मार्गवृक्षान्महाराज प्रयत्नेन विवर्जयेत् ।।
पलाशं कोविदारं च शाल्मलिं पिप्पलं वटम् ।। ७ ।।
आम्रं च पुष्पकं चैव कपित्थं च बिभीतकम् ।।
वर्जयेद्वेतसं चैव ये चारामास्तथा द्रुमाः ।।८।।
नन्दनं स्यन्दनं सालं शिंशपं खदिरं धवम् ।।
किंशुकं पद्मकं चैव हरिद्रं चीनकद्रुमम।।९।।
अर्जुनं च कदम्बं च मधूकं चाञ्जनं तथा।।
देववृक्षाँश्च जात्याँश्च तथा वै रक्तचन्दनम्।।3.89.१०।।
एतेऽ प्रशस्ता विज्ञेया ये च सारा महीरुहाः ।।
शस्ताशस्ता न ये प्रोक्तास्ते तु मध्यफलाः स्मृताः।।११।।
रक्तसारा नरेन्द्राणां शुक्लसारा द्विजन्मनाम् ।।
पीतसारा विशां शस्ताः शूद्राणां कृष्णमध्यकाः।।१२ ।।
छेत्तव्यं तु द्रुमं गत्वा सन्ध्याकाले तु पश्चिमे।।
द्रुमस्याग्रे बलिः कार्यो भूतानां तन्निवासिनाम्।।१३।।
कुल्माषोल्लोपिकाभक्ष्यपुष्पधूपादिभिर्नृप ।।
कृत्वा चास्ये ततो मन्त्रमिदं यदुकुलोद्वह।।१४।।
वसन्ति यत्र भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ।।
उपहारं गृहीत्वेमं क्रियतां वासपर्ययः ।। १५ ।।
भवद्भिश्चाभ्यनुज्ञातः पूजितैः प्रमथेश्वराः ।।
देवागारे नियोक्ष्यामि द्रुममेतमसंशयम् ।। १६ ।।
न चेद्भवन्तस्त्यक्ष्यन्ति द्रुममेतं ततो मम ।।
स्वप्ने भवद्भिर्वक्तव्यं यथातथ्यमनुग्रहात् ।। १७ ।।
एवमुक्त्वा तथा तत्र प्रस्वपेत्स्थपतिर्नृप ।।
दैवज्ञश्च महाभाग रक्षितो शस्त्रपाणिभिः ।। १८ ।।
ततः स्वप्नं शुभं रात्रौ तयोरेकोऽपि चेद्यदि ।।
पश्येद्राजन्न वा पश्येच्छिन्द्याद् वृक्षमसंशयम् ।। १९ ।।
स्वप्नं वाप्यशुभं पश्येन्न तं भिन्द्यात्कथञ्चन ।।
छेत्तव्यं छेदयेद् वृक्षं कल्यमुत्थाय बुद्धिमान् ।। 3.89.२० ।।
मध्वाज्याक्तेन राजेन्द्र ततः परशुना शुचिः ।।
रेखां प्रदक्षिणं कृत्वा पातयेत्प्रयतस्ततः ।। २१ ।।
पूर्वाग्रमुत्तराग्रं वा पतनं तस्य शस्यते ।।
ऐशान्यां च महाराज दिक्षु शेषासु गर्हितम् ।। २० ।।
वामे प्रभग्ने न ग्राह्यं प्राणिहिंसाकरं तथा ।।
प्रशस्तं पतितं वृक्षं ग्राह्यं भवति यत्नतः ।। २३ ।।
अग्रं मूलं प्रयत्नेन कर्तव्यं तस्य चिह्नितम् ।।
अग्रं देवस्य मूर्धानं पादं मूलं तु कारयेत् ।। २४ ।।
अर्चाकृता विपर्यस्ता तिर्यग्वा मरणावहा ।।
अग्रमूलविपर्यासं स्तम्भानां च विवर्जयेत् ।। २५ ।।
अग्रमूलविपर्यासे कृते वेश्म क्षयं व्रजेत् ।।
पूर्वाग्रा चोत्तराग्रा वा द्रुमा योज्या गृहेषु च ।। २६ ।।
महावंशेषु वंशेषु विपर्यस्ता विगर्हिताः ।।
दक्षिणाग्राः पराग्रा वा गृहस्वामिविपत्तिदाः ।। २७ ।।
तस्मात्सर्वप्रयत्नेन चिह्नैस्तं कारयेद्द्रुमम् ।।
अग्रे मूले च धर्मज्ञ ततः सम्यक्प्रवेशयेत् ।। २८ ।।
शकटेन महाराज नरैर्वाप्यथ गोवृषैः ।।
आप्ते दिवसनक्षत्रे मुहूर्ते चाभिपूजिते ।। २९ ।।
प्रविश्य सम्यक्तं विद्वान्यथायोगं नियोजयेत् ।।
यथोद्देशं महाराज स्थपतिर्लक्षणान्वितम् ।। 3.89.३० ।।
एवं हि कृत्वा वनसम्प्रवेशं यः काष्ठमानीय गृहाणि कुर्यात् ।।
वृद्धिर्भवेत्तस्य सदैव राजन्धनेन धान्येन सुतैश्च मुख्या ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दारुपरीक्षा नामैकोननवतितमोऽध्यायः ।। ८९ ।।
3.90
मार्कण्डेय उवाच ।।
पूर्वोक्तविधिना गत्वा शिलां वाथ परीक्षयेत ।।
शैलं गत्वा महाराज दैवज्ञः स्थपतिस्तथा ।। १ ।।
शुक्ला शस्ता द्विजातीनां क्षत्त्रियाणां च लोहिता ।।
विशां पीता हिता कृष्णा शूद्राणां च हितप्रदा ।। २ ।।
एकवर्णां समां स्निग्धां निमग्नां च तथा क्षितौ ।।
घातातिमात्र स्फुटनां दृढां मृद्वीं मनोरमाम् ।।३ ।।
कोमलां सिकताहीनां प्रियां दृङ्गमनसोरपि ।।
सरित्सलिलनिर्धूतां पवित्रां तु जलोषिताम ।। ४ ।।
द्रुमच्छायोपगूढां च तीर्थाश्रयसमन्विताम ।।
आयामपरिणाहाढ्यां ग्राह्यां प्राहुर्मनीषिणः ।। ५ ।।
अग्राह्यां ज्वलनालीढां तप्तां भास्कररश्मिभिः ।।
अन्यकर्मोपयुक्तां च तथा क्षाराम्बुसंयुताम् ।। ६।।
अत्यन्तोपहतां रूक्षामपुण्यजनसेविताम ।।
तिलैः सम्भूषिता या तु विचित्रबिन्दुभिश्चिता ।।७।।
रेखामण्डलसङ्कीर्णां विद्धां विमलसंयुताम ।।
विमलं त्रिविधं ज्ञेयं लोहं कांस्यं च हेमजम् ।। ८ ।।
या लोहविमलैर्जु्ष्टा सा जनक्षयकारिणी ।।
कांस्याभविमलोपेता जनमानविनाशिनी ।। ९ ।।
हैमेन युक्ता दुर्भिक्षं तथा कुर्यादवग्रहम् ।।
धर्षणे च्छेदने चैव मण्डलं यत्प्रदृश्यते ।। 3.90.१० ।।
सगर्भां तां विजानीयाद् यत्नेन च विवर्जयेत ।।
मांजिष्ठवर्णसंकाशे गर्भे भवति दर्दुरः ।। ११ ।।
पीतके मण्डले गोधा कृष्णे विद्याद्भुजङ्गमम् ।।
कपिले मूषकं विद्यात्कृकलासं तथारुणे ।। १२ ।।
गुडवर्णे तु पाषाणं कापोते गृहगोधिका ।।
आपो निस्त्रिंशवर्णाभे भस्मवर्णे तु वालुका ।। १३ ।।
अतस्त्वेकतमेनापि युक्ता कर्तुर्विपर्यये ।।
एवं गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिताः ।। १४ ।।
बाह्यतो लक्षणं नास्ति तेषां लेपानि दापयेत ।।
ब्राह्मीं माहेश्वरीं शाक्रीं वैष्णवीं तक्षणोचिताम् ।। १५ ।।
अजास्तन्येन संयोज्य शिलालेपं तु दापयेत् ।।
अहोरात्रे गते यत्र शिलालेपो न जायते ।। १६ ।।
सगर्भां तां विजानीयात्प्रयत्नेन विवर्जयेत ।।
कासीसं पीतकासीसं गव्यक्षीरेण पेषयेत् ।। १७ ।।
पाषाणं लेपितं तेन बहुवर्णं यदा भवेत ।।
सा शिला न प्रशस्ता स्यात्प्राणिगर्भा तु सा स्मृता ।। १८ ।।
मुस्तकं करवीरं च कुष्ठं तालीशपत्रकम ।।
स्त्रीस्तन्यपिष्टैरेतैस्तु पाषाणं लेपयेद्बुधः ।। १९ ।।
एभिर्लेपितमश्मानं यदा सिमिसिमायते ।।
कालकूटं विषं तत्र न तं हस्तेन संस्पृशेत् ।। 3.90.२० ।।
श्वेतश्च पद्मवर्णश्च कुसुमोषणसन्निभः ।।
पाण्डुरो मुद्गवर्णश्च कापोतो भृङ्गसन्निभः ।। २१ ।।
ज्ञेयाः प्रशस्ताः पाषाणाः अष्टावेते न संशयः ।।
कृष्णवर्णा शिला या तु शुक्ला हीरकसंयुता ।। २२ ।।
सा शिला श्रीकरी ज्ञेया पुत्रपौत्रविवर्धिनी ।।
सितवर्णा तु या कृष्णैर्हीरकैः सबलीकृता।। २३ ।।
बहुदोषकरी सा तु कृष्णा वा रक्तहीरकैः ।।
सर्ववर्णेषु शुक्लेषु प्रशस्तं हीरकं विदुः।। २४ ।।
सर्वेषामेव वर्णानामन्यवर्णं विगर्हितम् ।।
ब्राह्मीं शिलां दिने गत्वा शोभने धूपयेद्बुधः ।। २५ ।।
क्षीरेण नृप गव्येन सकषायैस्तथा जलैः ।।
आच्छाद्य कुसुमैर्दर्भैः प्राग्वत्कुर्यात्तथा बलिम्।।२६।।
स्वप्नार्थं च स्वपेत्तत्र दैवज्ञः स्थपतिस्तथा ।।
प्राग्वद्दृष्टे शुभे स्वप्ने शिला नेया तु सा भवेत् ।। २७ ।।
अदृष्टे तु तथा स्वप्ने न दुष्टे शोभनं भवेत् ।।
पूजनं तु द्वितीयेऽह्नि कृत्वा भाण्डगणस्य तु ।। २८ ।।
च्छेदकस्य ततः कृत्वा संवाह्यं तं प्रवेशयेत् ।।
प्राग्वदेव महीपाल यथा वृक्षेषु कीर्तितम् ।। २९ ।।
शिलानां गर्भविज्ञानं यदुक्तं नृपसत्तम ।।
तदेव सर्वं जानीहि द्रुमाणामपि यत्नतः ।। 3.90.३० ।।
अनेन सम्यग्विधिना गृहीता शिला भवेत्सर्वसुखावहा सा ।।
तस्मात्प्रयत्नेन यथोक्तमेतद्वनप्रवेशं सकलं हि कुर्यात् ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शिलापरीक्षा नाम नवतितमोऽध्यायः ।।९०।।