विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०८१-०८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ७६-८० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ८१-८५
वेदव्यासः
अध्यायाः ८६-९० →

3.81
वज्र उवाच ।।
पद्मनाभस्य मे रूपं प्रब्रूहि जगताम्पतेः ।।
यत्रास्य पद्मसम्भूतो देवदेवः पितामहः।।१।।
मार्कंडेय उवाच।।
जलमध्यगतः कार्यः शेषः पन्नगदर्शनः।
फणपुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः ।। २ ।।
देवदेवस्तु कर्तव्यस्तत्र सुप्तश्चतुर्भुजः ।९
एकः पादोऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभो ।। ३ ।।
तथापरश्च कर्तव्यः शेषभोगाङ्कसंस्थितः ।।
एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारितः ।। ४ ।।
कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः ।।
तथा चान्यः करः कार्यो देवस्य तु शिरोधरे ।। ५ ।।
सन्तानमञ्जरीधारी तथैवास्यापरो भवेत् ।।
नाभीसरसि सम्भूते कमले तस्य यादव ।।६।।
सर्वपृथ्वीमये देव्याः प्राग्वत्कार्यः पितामहः ।।
नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ।। ७ ।।
नृरूपधारीणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथा समीपे ।।
एतत्तवोक्तं यदुपुङ्गवाग्र्य देवस्य रूपं परमस्य तस्य ।। ८ ।।
इति श्रीविष्णुध० तृ० ख० मा० व० सं पद्मनाभरूपनिर्माणो नामैकाशीतितमोऽध्यायः ।। ८१ ।।
3.82
वज्र उवाच ।।
आचक्ष्व रूपं लक्ष्म्या मे भृगुवंशविवर्धन ।।
या माता सर्वलोकस्य पत्नी विष्णोर्महात्मनः ।। ।। १ ।।
मार्कण्डेय उवाच ।।
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ।।
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ।। २ ।।
गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।।
पृथक्चतुर्भुजा कार्या देवी सिंहासने शुभे ।। ३ ।।
सिंहासनेऽस्याः कर्तव्यं कमलं चारुकर्णिकम् ।।
अष्टपत्रं महाभाग कर्णिकायान्तु संस्थिता ।। ४ ।।
विनायकवदासीना देवी कार्या महाभुज ।।
बृहन्नालं करे कार्यं तस्याश्च कमलं शुभम् ।। ५ ।।
दक्षिणे यादव श्रेष्ठ केयूरप्रान्तसंस्थितम् ।।
वामेऽमृतघटः कार्यस्तथा राजन्मनोहरः ।। ६ ।।
तथैवान्यौ करौ कार्यौ बिल्वशङ्खधरौ नृप ।।
आवर्जितघटं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ।। ७ ।।
देव्याश्च मस्तके पद्मं तथा कार्यं मनोहरम् ।।
सौभाग्यं तद्विजानीहि शङ्खमृद्धिं तथा परम्।।८।।
बिल्वं च सकलं लोकमपां सारामृतं तथा ।।
पद्मं लक्ष्मीकरे विद्धि विभवं द्विजपुङ्गव ।। ९ ।।
हस्तिद्वयं विजानीहि शंखपद्मावुभौ निधी ।।
समुत्थिता वा कर्तव्या शंखाम्बुजकरा तथा।।3.82.१०।।
समुक्षिता महाभागा पद्मे पद्मान्तरप्रभा ।।
द्विभुजा चारुसर्वांगी सर्वाभरणभूषणा ।। ११ ।।
द्वौ च मौलिचरौ मूर्ध्नि कार्या विद्याधरौ शुभौ ।। १२ ।।
कराभ्यां मौलिलग्नाभ्यां दक्षिणाभ्यां विराजितौ ।।
कराभ्यां खड्गधारिभ्यां देवीवीक्षणतत्परौ ।। १३ ।।
राजश्रीः स्वर्गलक्ष्मीश्च ब्राह्मी लक्ष्मीस्तथैव च ।।
जयलक्ष्मीश्च कर्तव्या तस्या देव्याः समीपगाः ।। १४ ।।
सर्वाः सुरूपाः कर्तव्यास्तथा च सुविभूषणाः ।। १५ ।।
लक्ष्मीः स्थिता सा कमले तु यस्मिँस्तां केशवं विद्धि महानुभाव ।।
विना कृता सा मधुसूदनेन क्षणं न सन्तिष्ठति लोकमाता ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लक्ष्मीरूपनिर्माणो नाम द्व्यशीतितमोऽध्यायः ।।८२।।
3.83
वज्र उवाच ।।
रूपेण केन कर्तव्यो विश्वरूपधरो हरिः ।।
एतं मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
आदौ देवस्य कर्तव्याश्चत्वारो वै स्तवोन्मुखाः ।।
तेषामुपरि कर्तव्यास्तथा माहेश्वराः पुनः ।। २ ।।
ईशानं वक्त्रहीनास्ते तथा प्रोक्ता मया पुरा ।।
तेषामुपरि कर्तव्या मुख्या ब्राह्मी यथेरिता ।। ३ ।।
ततश्चान्यमुखाः कार्यास्तिर्यगूर्ध्वे तथैव च ।।
सर्वेषामपि देवानां तथान्यानपि कारयेत् ।। ४ ।।
ये मुखाः सत्त्वजातानां नानारूपा विभागशः ।।
यावन्तो दृष्टयः प्रोक्ताश्चित्रसूत्रे महात्मभिः ।। ५ ।।
दर्शनीयास्तु ताः सर्वास्तस्य मूर्धसु भागशः ।।
नानाविधानि सत्त्वानि मुखैरन्यैस्तथैव च ।। ६ ।।
ग्रसमानः स कर्तव्यः सर्वैः सत्त्वभयङ्करैः ।।
कार्याण्युद्धूयमानानि मुखाः केचन ते शुभाः ।। ७ ।।
यथा शक्त्या च कर्तव्यास्तस्य देवस्य बाहवः ।।
हस्तानि यानि दृष्टानि नृत्तशास्त्रे महात्मभिः ।। ८ ।।
तानि सर्वाणि कार्याणि तस्य देवस्य बाहुषु ।।
हस्ताः कार्यास्तथैवान्ये सर्वायुधविभूषणाः ।। ९ ।।
यज्ञदण्डधराश्चान्ये शिल्पभाण्डधरास्तथा ।।
कालभाण्डधराश्चान्ये वाद्यभाण्डधराः परे ।। 3.83.१० ।।
रूपमन्यत्प्रकर्तव्यं वैकुण्ठवदतोऽच्युते ।।
तत्रापि गात्रगास्तस्य दर्शयेच्चित्रकर्मणा ।। ११ ।।
त्रैलोक्यं सकलं राजन्यथाशास्त्रानुसारतः ।।
दर्शनीयानि वर्णानि सर्वाण्येव महात्मनः ।। १२ ।।
बहुरूपस्य देवस्य वहुमस्तकगानि तु ।। १३ ।।
एवं हि शक्त्या जगतां प्रधानः समग्ररूपो भगवान्हि कार्यः ।।
कार्त्स्न्येन रूपं पुरुषोत्तमस्य वक्तुं न शक्यं कुत एव कर्तुम् ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विश्वरूपनिर्माणो नाम त्र्यशीतितमोऽध्यायः ।। ८३ ।।
3.84
मार्कण्डेय उवाच ।।
ऐडूकरूपनिर्माणं शृणुष्व गदतो मम ।।
ऐडूकपूजनात्पूजा कृतास्य जगतो भवेत् ।। १ ।।
भद्रपीठं बुधः कुर्यात्सोपानैः शोभनैर्युतम् ।।
चतुर्भिर्यादवश्रेष्ठ यथादिशमरिन्दम ।। २ ।।
तस्योपरिष्टादपरं भद्रपीठं तु कारयेत् ।।
तस्योपरिष्टादपरं तादृग्विधमरिन्दम ।। ३ ।।
तस्योपरिष्टात्कर्तव्यं लिङ्गरूपं विजानता ।।
तत्तु तत्रापि कर्तव्यं लिंगरेखा विराजितम् ।। ४ ।।
तस्य मध्ये ध्रुवां यष्टिं चतुरस्रां तु कारयेत् ।।
तस्योपरिष्टात्कर्तव्या भूमिकास्तु त्रयोदश ।। ५ ।।
तस्योपरिष्टात्कर्तव्यं तथैवामलतारकम् ।।
तस्योपरि पुनर्यष्टिः कार्या राजन्सुवर्तुला ।। ६ ।।
समार्धचन्द्रमध्यस्थचन्द्रकेण विराजिता ।।
भूमिका या मया प्रोक्ता तथैवामलतारकम् ।। ७ ।।
भुवनास्ते त्वया ज्ञेयास्तथा राजँश्चतुर्दश।।
लिंगे महेश्वरो देवो वृत्ता यष्टिः पितामहः ।। ८ ।।
चतुरस्रा तु या यष्टिः स च देवो जनार्दनः ।।
गुणरूपेण विज्ञेयं भद्रपीठत्रयं तथा ।। ९ ।।
गुणाधानमिति प्रोक्तं त्रैलोक्यं सचराचरम् ।।
अधस्ताद्भुवनानां तु लिङ्गोपरि तथा नृप ।। 3.84.१० ।।
लोकपालाश्च कर्तव्याः शूलहस्ताश्चतुर्दिशम् ।।
विरूढो धृतराष्ट्रश्च विरूपाक्षश्च यादवः ।। ।। ११ ।।
कुबेरश्च महातेजाः सूर्यवेशधराः शुभाः ।।
सर्वे कवचिनः कार्याः शुभाभरणभूषिताः ।। १२ ।।
विरूपाक्षं विजानीहि शक्रदेव गणेश्वरम् ।।
धृतराष्ट्रं विजानीहि यमं भुवननायकम् ।। १३ ।।
विरूपाक्षं विजानीहि वरुणं यादसाम्पतिम् ।।
राजराजं विजानीहि कुबेरं धनदं प्रभुम् ।। १४ ।।
ऐडूकरूपं कथितं मयैतत्प्रजाहिताख्यं यदुवंशमुख्य ।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ऐडूकरूपनिर्माणो नाम चतुरशीतितमोऽध्यायः।।८४।।
3.85
वज्र उवाच ।।
वासुदेवस्य देवस्य बहुरूपस्य भार्गव ।।
ब्रूहि मे रूपनिर्माणं शाश्वतस्य महात्मनः ।। १ ।।
मार्कण्डेय उवाच ।।
एकवक्त्रश्चतुर्बाहुः सौम्यरूपः सुदर्शनः ।।
सलिलाध्मातमेघाभस्सर्वाभरणभूषितः ।।२ ।।
कण्ठेन शुभरेखेण कम्बुतुल्येन राजता ।।
वराभरणयुक्तेन कुण्डलोत्तमभूषिणा ।। ३ ।।
अङ्गदी बद्धकेयूरो वनमालाविभूषणः ।।
उरसा कौस्तुभं बिभ्रत्किरीटं शिरसा तथा ।। ४ ।।
शिरःपद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः ।।
मुष्टिश्लिष्टायतभुजस्तनुस्ताम्रनखाङ्गुलिः ।। ५ ।।
मध्येन त्रिवलीभङ्गःशोभितेन सुधारुणा ।।
स्त्रीरूपधारिणी क्षोणी कार्या तत्पादमध्यगा ।। ६ ।।
तत्करस्थांघ्रियुगुलो देवः कार्यो जनार्दनः ।।
तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः ।। ७ ।।
अन्तर्दृशा मही कार्या देवदर्शनविस्मिता ।।
देवश्च कटिवासेन कार्यो जान्ववलम्बिना ।। ८ ।।
वनमाला च कर्तव्या देवजान्ववलम्बिनी ।।
यज्ञोपवीतः कर्तव्यो नाभिदेशमुपागतः ।। ९ ।।
उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे ।।
वाम पाणिगतं शङ्खं शङ्खाकारं तु कारयेत् ।। 3.85.१० ।।
दक्षिणे तु गदा देवी तनुमध्या सुलोचना ।।
स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषणा ।। ११ ।।
पश्यन्ती देवदेवेशं कार्या चामरधारिणी ।।
कार्यं तन्मूर्ध्निविन्यस्तं देवहस्तं तु दक्षिणम्।।१२।।
वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा।।।
सर्वाभरण संयुक्तो नृत्तविस्फारितेक्षणः।।१३।।
कर्तव्यश्चामरकरो देववीक्षणतत्परः।।
कार्यो देवकरो वामो विन्यस्तस्तस्य मूर्धनि।।१४।।
वज्र उवाच ।।
किं भयं तस्य देवस्य नित्यं सर्वायुधोद्यतः ।।
यतस्तिष्ठति सर्वात्मा भयहा त्रिदिवौकसाम् ।। १५ ।।
मार्कण्डेय उवाच ।।
नैतान्यायुधजातानि परमा र्थेन यादव ।।
महाभूतान्यथैतानि हरिर्धारयते प्रभुः ।। १६ ।।
खं विजानीहि देवस्य करे शंखो महाभुजः ।।
चक्रं जानीहि पवनं गदां तेजस्तथा विभोः ।। १७।।
आपः पद्मं विजानीहि पादमध्ये व्यवस्थितम् ।।
महाभूतान्यथैतानि त्यक्तानि हरिणा नृप ।। १८ ।।
क्षिप्रमेव विशीर्यन्ते तेन धारयते हरिः ।।
विष्णुर्जीवः समाख्यातस्तेन त्यक्ताः शरीरगाः ।।१९।।
भूतानि पश्य प्रत्यक्षं शीर्यमाणानि सर्वशः ।।
भूतैर्देवधृतैलोको धार्यते यदुनन्दन ।।
तेषां धारणशक्तिर्या सा ज्ञेया विष्णुकारिता ।। 3.85.२० ।।
वासुदेवस्य रूपेण कार्यः सङ्कर्षणः प्रभुः ।।
स तु शुक्लवपुः कार्यो नीलवासा यदूत्तम ।। ।। २१ ।।
गदास्थाने च मुसलं चक्रस्थाने च लाङ्गलम्।।
कर्तव्यौ तनुमध्यौ तौ नृरूपौ रूपसंयुतौ।। २२।।
वासुदेवस्य रूपेण प्रद्युम्नश्च तथा भवेत् ।।
स तु दूर्वाङ्कुरश्यामस्सितवासा विधीयते ।। २३ ।।
चक्रस्थाने भवेच्चापं गदास्थाने तथा शरम् ।।
तथाविधौ तु कर्तव्यौ तथा मुससलाङ्गलौ ।।२४।।
एतदेव तथा रूपमनिरुद्धस्य कारयेत् ।।
पद्मपत्राभवपुषो रक्ताम्बरधरस्य तु ।। २५ ।।
चक्रस्थाने भवेच्चर्म गदास्थानेऽसिरेव च ।।
चर्म स्याच्चक्ररूपेण प्रांशुः खङ्गो विधीयते ।। २६ ।।
चक्रादीनां स्वरूपाणि किञ्चिन्मूर्धसु दर्शयेत् ।।
रम्याण्यायुधरूपाणि चक्रादीन्येव यादव ।। २७ ।।
वामपार्श्वगताः कार्या देवानां प्रवरा ध्वजाः ।।
स्वपताकायुता राजन्यष्टिस्थास्ते यथेरिताः ।। २८ ।।
पीतवर्णं प्रतीहारं वासुदेवस्य कारयेत् ।।
सुभद्रवसुभद्राख्यौ वीरौ प्रासकरावुभौ ।। २९ ।।
आषाढो यज्ञतातश्च कार्यः सङ्कर्षणस्य तु ।।
नलिवर्णौ महाभागौ तथा मुद्गरधारिणौ ।। 3.85.३० ।।
प्रद्युम्नस्य प्रतीहारौ जयो विजय एव च ।।
श्वेतवर्णौ महाभाग तथा खङ्गधरावुभौ ।। ३१ ।।
आमोदश्च प्रमोदश्च महाबलपराक्रमौ ।।
अनिरुद्धस्य विज्ञेयौ प्रतीहारौ सुरेश्वरौ ।। ३२ ।।
रक्तवर्णौ महाभाग तथोभौ शक्तिधारिणौ ।।
सर्वे सुरूपाः कर्तव्याः सर्वाभरणधारिणः ।। ३३ ।।
द्विबाहवस्तु कर्तव्यास्तर्जन्युच्छ्रितपाणयः ।।
दृष्टिस्तेषां तु कर्तव्या द्वारन्यस्ता महाभुज ।। ३४ ।।
शक्रं सुभद्रं जानीहि वसुभद्रं हुताशनम् ।।
आषाढं देवदेवेशं यमं जानीहि यादव ।। ३५ ।।
यज्ञतातं विरूपाक्षं विद्धि देवमनिन्दितम् ।।
जयं जानीहि वरुणं यादोगणमहेश्वरम् ।। ३६ ।।
पवनं च विजानीहि विजयं यदुनन्दन ।।
आमोदं धनदं विद्धि प्रमोदं शिवमेव च ।। ३७ ।।
एते कार्याश्च वा सर्वे दिनगोक्तवपुर्धराः ।।
एत एव तथा प्रोक्ता भूय एव महात्मभिः ।। ३८ ।।
अष्टौ देवगणा राजँस्तन्मे निगदतः शृणु ।।
वासुदेवप्रतीहारावणिमा लघिमा स्मृतौ ।। ३९ ।।
संकर्षणप्रतीहारौ महिमाप्राप्तिसंज्ञितौ ।।
प्राकाम्यं च तथेशित्वं प्रद्युम्ने कथितावुभौ ।। 3.85.४० ।।
वशित्वं विद्धि चामोदं यत्र कामावसायिता ।।
प्रमोदमथ जानीहि सर्वलोकनमस्कृतम् ।। ४१ ।।
एतत्ते रूपनिर्माणं चतुर्मूर्तेर्मयेरितम् ।।
एकमूर्तिधरः कार्या वैकुण्ठेत्यभिशब्दिताः ।। ४२ ।।
चतुर्मुखः स कर्तव्यः प्रागुक्तवदनः प्रभुः ।।
चतुर्मूर्तिः स भवति कृते मुखचतुष्टये ।। ४३ ।।
पूर्वं सौम्यमुखं कार्यं यत्तु मुख्यतमं विदुः ।।
कर्तव्यं सिंहवक्त्राभं ज्ञानवक्त्रं तु दक्षिणम् ।। ४४ ।।
पश्चिमं वदनं रौद्रं यत्तदैश्वर्यमुच्यते ।।
चतुर्वक्त्रस्य कर्तव्यं रूपमन्यत्तथेरितम् ।। ४५ ।।
चतुर्भुजो वा कर्तव्यस्तार्क्ष्यो यादवनन्दन ।।
गारुडश्च तथा कार्यो धर्मज्ञ रचिताञ्जलिः ।। ४६ ।।
सुखोपविष्टैस्तत्पृष्ठे तत्करस्थो हि पङ्कजः ।।
उपविष्टौ गदा चक्रौ कर्तव्यौ तार्क्ष्यपक्षयोः ।। ४७ ।।
तार्क्ष्यासनस्था श्रीः कार्या वामोत्सङ्गगतापि वा ।।
शेषभोगोपविष्टो वा कार्यो देवो मनोहरः ।। ४८ ।।
तत्फणैरेव रचितं दुर्निरीक्ष्यं प्रभोर्मुखम् ।।
शेषभोगोपविष्टस्य शून्यं करचतुष्टयम् ।। ४९ ।।
कार्यं चक्रं गदा कार्या सदेहा तत्समीपगा ।।
लक्ष्मीः कार्या तथा तस्य शेषभोगगतापि वा ।। 3.85.५० ।।
शेषपर्यङ्कशयने कार्यो वा भगवान्हरिः ।।
ऐरावती सुमुद्भूते यथारूपो मयेरितः ।। ५१।।
नृसिंह रूपं कथितं वाराहं कापिलं तथा ।।
विश्वरूपं हयग्रीवं पद्मनाभं तथैव च ।। ५२ ।।
ब्राह्म्यं रौद्रं च रामीय पुष्करेण महात्मना ।।
कर्तव्यो वामनो देवः सङ्कटैर्गात्रपर्वभिः ।। ५३ ।।
पीनगात्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः ।।
दूर्वाश्यामश्च कर्तव्यः कृष्णाजिनधरस्तथा ।। ५४ ।।
सजलाम्बुदसङ्काशस्तथा कार्यस्त्रिविक्रमः ।।
दण्डपाशधरः कार्यः शङ्खसञ्चुम्बिताधरः ।। ५५ ।।
शङ्खचक्रगदापद्माः कार्यास्तस्य स्वरूपिणः ।।
नृदेहास्ते न कर्तव्या शेषं कार्यं तु पूर्ववत् ।। ५६ ।।
एकोर्ध्ववदनः कार्यो देवो विस्फारितेक्षणः ।।
रूपं नरस्य कथितं तथा नारायणस्य ते ।। ५७ ।।
कृष्णस्य हरिणा सार्धं पूर्वं वरुणसूनुना ।।
हंसो मत्स्यस्तथा कूर्मः कार्यास्तद्रूपधारिणः ।। ५८ ।।
शृङ्गमत्स्यस्तु कर्तव्यौ देवदेवो जनार्दनः ।।
स्त्रीरूपश्च तथा कार्यः सर्वाभरणभूषितः ।। ५९ ।।
करेऽमृतघटश्चास्य कर्तव्यो भूरिदक्षिणः ।।
पृथुः कार्यस्तथा राजा चक्रवत्यन्त लक्षणः ।। 3.85.६० ।।
कार्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः ।।
हस्तेऽस्य परशुः कार्यः कृष्णाजिनधरस्य तु ।। ६१ ।।
रामो दाशरथिः कार्यो राजलक्षणलक्षितः ।।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महायशाः ।।६२।।
तथैव सर्वे कर्तव्याः किन्तु मौलिविवर्जिताः ।।
गौरस्तु कार्यो वाल्मीकिर्जटा मण्डलदुर्दृशः ।। ६३ ।।
तपस्यभिरतः शान्तो न कृशो न च पीवरः ।।
वाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत् ।। ६४ ।।
कृष्णशान्ततनु र्व्यासः पिङ्गलोऽतिजटाधरः ।।
सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च ।। ६५ ।।
तस्य शिष्यास्तु कर्तव्याश्चत्वारः परिपार्श्वयोः ।।
युधिष्ठिरोऽथ कर्त्तव्यो राजलक्षणलक्षितः ।। ६६ ।।
श्मश्रुहीनोऽतिपीनाङ्गः क्षाममध्यो वृकोदरः ।।
तिर्यक्प्रेक्षी संहतभ्रुः कर्तव्यश्च तथा गदी ।। ६७ ।।
दूर्वाश्यामोर्जुनः कार्यः किरीटी लोहिताङ्गदः ।।
बाणचापधरः श्रीमान्सर्वाभरणभूषितः ।। ६८ ।।
नकुलः सहदेवश्च कार्यावश्विसमावुभौ ।।
खङ्गचर्मधरौ कार्यौ न त्वेवौषधिपाणिनौ ।। ६९ ।।
नीलनीरजपत्राभा कृष्णा कार्यातिरूपिणी ।।
पद्मपत्राग्रगौरा तु कर्त्तव्या देवकी तथा ।। 3.85.७० ।।
मधूकपुष्पसच्छाया यशोदापि तथा भवेत् ।।
एकानंशापि कर्तव्या देवी पद्मकरा तथा ।। ७१ ।।
कटिस्थवामहस्ता सा मध्यस्था रामकृष्णयोः ।।
सीरपाणिर्बलः कार्यो मुसली चैव कुण्डली ।। ७२ ।।
श्वेतोऽतिनीलवसनो मदादञ्चितलोचनः ।।
कृष्णश्चक्रधरः कार्यो नीलोत्पलदलच्छविः ।। ७३ ।।
इन्दीवरकरा कार्या तथा श्यामा च रुक्मिणी ।।
तार्क्ष्यस्था सा च कर्तव्या सत्यभामा सुरूपिणी ।। ७४ ।।
अन्याश्च देव्यः कर्तव्याः सुरूपाः सुमनोहराः ।।
चापबाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः ।। ।। ७५ ।।
राजन्दूर्वादलश्यामः श्वेतवासा मदोत्कटः ।।
कर्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः ।। ७६ ।।
साम्बः कार्यो गदाहस्तः सुरूपश्च विशेषतः ।।
साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ ।।
खङ्गहस्तौ च कर्तव्यौ स्त्रियो वेषौ तु पार्श्वयोः ।। ७७ ।।
युयुधानस्तथा प्रांशुर्बाणचापधरो भवेत ।।
वर्णेनोत्पलगर्भाभो दीर्घबाहुः सुलोचनः।।७८।।
प्रादुर्भावा देवदेवस्य विष्णोर्वक्तुं शक्या विस्तरान्नैव राजन् ।।
बुद्ध्या तेषां कर्मयोगं यथा वच्छास्त्रं दृष्ट्वा ते तु कार्या बुधेन।।७९।।
इति श्रीविष्णुधर्मो०तृ०ख०मा०व० सं०देवोद्यानरूपनिर्माणोनाम पञ्चाशीतितमोऽध्यायः ।।८५।।