विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०९१-०९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ८६-९० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ९१-९५
वेदव्यासः
अध्यायाः ९६-१०० →

3.91
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि पक्वेष्टनिचयं तव ।।
ब्राह्मणानां शुभा श्वेता क्षत्रियाणां तु लोहिता ।। १ ।।
मृत्पीता वैश्यजातीनां कृष्णा चैवान्त्यजन्मनाम् ।।
यस्य वर्णस्य या शस्ता तां मृदं ग्राहयेद्बुधः ।। २ ।।
असङ्कीर्णाच्छुभाद्देशाद्गृहीत्वा शोषयेन्मृदम् ।।
शोषितां तां विमृद्नीयात्सशैवालेन चाम्भसा ।।३।।
हस्तदीर्घेण यन्त्रेण तदर्धविस्तृतेन च ।।
तदर्धमुच्छ्रितेनाथ कर्तव्या वेष्टका मताः ।। ४।।
आतपे तास्तथा शुष्का विपचेन्नृपसत्तम ।।
काष्ठैरसारैर्भूपाल गोकरीषैस्तृणैस्तथा ।। ५ ।।
मृदुना नृप पाकेन न शान्त्यर्थं पचेच्च ताः ।।
अपक्वांश्च न संग्राह्या न विलीनाः कथञ्चन ।। ६ ।।
तासामत्यर्थपक्वानां भङ्गो भवति रूपके ।।
भवन्त्यसाराश्चापक्वा विलीनाः कर्दनाशदाः ।। ७ ।।
इष्टकानिचये वह्निं यो नरः संप्रयच्छति ।।
सोमविक्रयिणा तुल्यः स तु पापः प्रकीर्तितः ।। ८ ।।
तस्माच्छुद्धेन मूलेन तत्राग्निं दापयेन्नरः ।।
वर्तमानमुखः सत्यं संविभज्य प्रयत्नतः ।। ९ ।।
पक्वास्तु शीतलीभूताः स्वानुरूपैस्त्वरूपकैः ।।
सम्यक्संयोजिता योज्या यथास्थाने नराधिप ।। 3.91.१० ।।
इष्टकासञ्चये नैवमेकैकं रूपकं बुधः ।।
दर्शयेत्तु सुयुक्तेन यमस्याज्ञां विजानता ।। ११ ।।
एवं रूपकविन्यासं शिलास्वपि विधीयते।।
एवं सुयुक्त्या कुर्वंति काष्ठसंघातकं तथा ।। १२ ।।
काष्ठानामायसं बन्धं सम्यक्कार्यं विजानता ।।
इष्टकानामपक्वानां पङ्कबन्धो विधीयते ।।१३।।
इष्टकानां तु पक्वानां शिलानां च नराधिप ।।
बन्धः कार्यः प्रयत्नेन वज्रलेपकृतः शुभः ।। १४ ।।
पक्वेष्टकानां रचना मयोक्ता सुधान्विता सैव भवेन्नरेन्द्र ।।
सुधाशिलानां त्रिदशाधिवासे सुधाशिला नैव गृहेषु देया ।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वः सं० इष्टकापरीक्षा नामैकनवतितमोऽध्यायः।। ९१ ।।
3.92
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि वज्रलेपविधिं तव ।।
बिन्दुकांश्च कपित्थांश्च आम्रान्संहृत्य यत्नतः ।। १ ।।
शाल्मलीनां तथा पुष्पं सल्लकीबीजमेव च ।।
धनुषश्च तथा कल्कं वचां च मनुजेश्वर ।। २।।
एतेषां समवेतानां समानां मनुजोत्तम ।।
तोयमष्टगुणं क्वाथमष्टभागा वशेषितम् ।। ३ ।।
ततस्तत्र क्षिपेद्द्रव्यं शुणु तच्च समासतः ।।
मल्लकीनां तु विन्यासं वत्सलस्य च गुग्गुलम्।।४।।
भल्लातकानि बिल्वानि कुर्मुरुं सर्जमेव च ।।
अतसीं वसुतप्तोऽयं वज्रलेपः प्रकीर्तितः ।। ५ ।।
लाक्षां च कुन्दरुं चैव गृहधूमं तथैव च ।।
कपित्थबिल्वमध्यानि तथा नागफलं नृप ।। ६ ।।
बलां च मधुकं चैव किंजापं मदनं तथा ।।
मञ्जिष्ठासल्लकं सर्जं वज्रलेपः प्रकीर्तितः ।। ७ ।।
विषाणानि गवां राजन्महिषाणां तथैव च ।।
अजानां च तथा चर्म माहिष्यं गव्यमेव च ।। ८ ।।
रसबिंबकपित्थास्तु वज्रलेपः प्रकीर्तितः ।।
अष्टौ भागास्तु नागस्य कांस्यभागद्वयं तथा ।। ९ ।।
रीतिभागं च कथितो वज्रलेपस्तथैव च ।।
सुधापक्वा ततः क्लिन्ना गव्यचर्मसमन्विता ।। 3.92.१० ।।
खररोमयुता राजन्वज्रलेपस्तथैव च ।।
तेषामेकैकसंयुक्ताः कार्याः शैलगृहा नृप ।। ११ ।।
पक्वेष्टकगताश्चैव स्थायिनो मनुजोत्तम ।।
वज्रलेपयुता ह्येते भवन्त्यपि दृढास्तथा ।। १२ ।।
तिष्ठन्ति सुमहाराज संवत्सरशतान्यपि ।।
सहस्राणि च धर्मज्ञ चायुतान्यर्बुदानि च ।। १३ ।।
सुधावर्णेन सर्वत्र लेपं दद्यात्तथा बहिः ।।
ततश्च तां सुधां दद्याच्छोभार्थमरिमर्दन ।। १४ ।।
वज्रलेपविधानं तु प्रोक्तं सम्यक्तया तव ।।
देवायतनमुख्येषु तथा च भवनेषु च ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वज्रलेपनिरूपणन्नाम द्विनवतितमोऽध्यायः ।। ९२ ।।
3.93
।। मार्कण्डेय उवाच ।। ।।
कृते तु देवायतने विधानं नाभवत्क्षितौ ।।
कैवलं हि तदा ह्यासीत्प्रत्यक्षेण नराधिप ।। १ ।।
प्रत्यक्षेणापि दृश्यन्ते त्रेता द्वापरयोर्जनाः ।।
देवानां प्रतिमाः कृत्वा पूजयन्ति यथाविधिम् ।। २ ।।
गृहे प्रतिष्ठा तत्रापि त्रेतायां तु प्रवर्तिता ।।
द्वापरे चाप्यरण्येषु ऋषिभिस्तु ततः कृता ।। ३ ।।
तेषां सम्पूजनं नित्यं सिद्धैस्तु क्रियते नृप ।।
प्रतिष्ठामात्रकरणान्निर्वृता ऋषयस्तु ते ।।४।।
कलौ प्रवृत्तः सर्वोऽयं प्रतिष्ठाकरणो जनः ।।
ज्ञानं परं कृतयुगे त्रेतायां च तपः परम ।। ५ ।।
द्वापरे तु तथा ज्ञेयं प्रतिष्ठा तु कलौ युगे ।।
देवतावेश्मपूर्वाणि नगराणि कलौ युगे ।। ६ ।।
कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ।।
राजा तु सर्वनगरं न कुर्यान्नृपसत्तम ।। ७ ।।
यो न राजा हतो युद्धे स पुरं कर्तुमर्हति ।।
रूपकं च सुनामाख्यं कुर्याद्राजा तथाप्यसौ ।। ८ ।।
दुर्गं सर्वेण कर्तव्यं राज्ञा भूपतिसत्तम ।।
भूमिदानादिभिर्यस्तु कुर्यात्सुविहितं मुदा ।। ९ ।।
प्रतिष्ठां सकलां कुर्यादन्यथा पापभाग्भवेत् ।।
तत्कृतायां सुरार्चायामनिष्टं स्यात्कलौ युगे ।। 3.93.१० ।।
कृतं तु तदनिष्टं स्याज्जन्मान्तरशतेष्वपि ।।
कृतत्रेताद्वापरेषु प्रतिष्ठाकरणात्फलम ।। ११ ।।
यस्मात्तेषु कृतामर्चां सिद्धाः सम्पूजयन्त्यलम् ।।
कलौ कृतायामर्चायां सिद्धपूजा न विद्यते ।। १२ ।।
तस्मात्सुविहिता कुर्याद्भूमिदानादिभिः कलौ ।।
येन राज्ञा हतो राजा नान्यो युधि भवेत्कलौ ।। १३ ।।
प्रतिष्ठा तेन कर्तव्या नगरे पूर्वनिर्मिते ।।
अनुज्ञां नृपतेः प्राप्य कुयादन्योऽपि यादव ।। १४ ।।
स्थिरां प्रतिष्ठां गृह्यायां नृपानुज्ञानकारणम् ।।
परप्रणीतां यस्त्वर्चां स कुर्यात्पुनरेव तु ।। १५ ।।
विधानं भूमिदानाद्यं कुर्यात्तत्र न शक्तितः ।।
द्विगुणं फलमाप्नोति कुलं चैव समुद्धरेत् ।। १६ ।।
कृत्वा सुविहितामर्चां प्रतिष्ठाप्य यथाविधि ।।
इष्टापूर्तेन धर्मेण नरो युज्यत्यसंशयम् ।। १७ ।।
राजसूयाश्वमेधानां फलेन च नराधिप ।।
कृते त्रेतायुगे राजन्द्वापरे च नरोत्तमाः ।। १८ ।।
आगच्छन्ति नृलोकेऽस्मिन्सशरीरा दिवौकसः ।।
नागच्छन्ति कलौ यस्मात्सशरीराः कथंचन ।। १९ ।।
आगच्छन्ति प्रतिष्ठासु द्विजैरावाहितास्ततः ।।
तस्मात्कलौ प्रयत्नेन प्रतिष्ठां कारयेद्बुधः ।। 3.93.२० ।।
अर्चास्थैस्त्रिदशैर्लोकः कलौ सर्वो हि पाल्यते।।
अर्चागताश्च गृह्णन्ति कृतदेवप्रतिष्ठिताः ।। २१ ।।
तस्मात्कलौ प्रयत्नेन प्रतिष्ठाकरणं हितम् ।।
यत्नात्सुविहितं कुर्याद्भूमिदानादिभिस्सदा ।। २२ ।।
इष्ट्वा यज्ञैर्यथा यान्ति मानवास्त्रिदिवालयम् ।।
तथैव राजन् गच्छन्ति कृतदेवप्रतिष्ठकाः ।। २३ ।।
तस्मात्कलौ प्रतिष्ठानं कर्तव्यं भूरिदक्षिणम् ।।
यत्नात्सुविहितं कृत्वा भूमिदानादिभिः शुभा ।। २४ ।।
दुर्गे प्रतिष्ठा कर्तव्या नगरे च तथा शुभे ।।
नित्यमापणवीथ्यग्रे नान्यत्रेति नराधिप ।। २५ ।।
ग्रामे वा यदि वा घोषे नास्ति यत्रापणं नृप ।।
तत्रोद्याने बहिः कार्या ग्राममध्ये न कारयेत् ।। २६ ।।
नदीतीरेषु कर्तव्या वनेषूपवनेषु च ।।
सरसां चैव तीरेषु गिरीणां शिखरेषु च ।। ५७ ।।
उपत्यकासु रम्यासु गुहासु च विशेषतः ।।
एतेषु यान्ति सान्निध्यं स्थानेषु त्रिदिवौकसः ।। २८ ।।
जलाशयविहीनेषु देशेषु मनुजोत्तम ।।
सान्निध्यं नैव कुर्वन्ति कदाचित्त्रिदिवौकसः ।। २९ ।।
तथा सुरगृहं कार्यं यथा वामे जलाशयम् ।।
पुरस्ताद्वा भवेत्तस्य नान्यथा मनुजाधिप ।। 3.93.३० ।।
समंतात्तु जलं शस्तं द्वीपे देवगृहे कृते ।।
यत्र देवगृहं कार्यं तत्र भूमिं परीक्षयेत ।। ३१ ।।
श्वेता रक्ता तथा पीता कृष्णा वर्णक्रमान्विता ।।
कुशाभिश्च शरैः काशैर्दूर्वाभिश्च तथा युता ।। ३२ ।।।
मधुरा च कषाया च तथा तु लवणा च या ।।
वर्णक्रमाद्धिता भूमिः सर्वेषां शृण्वतः परम् ।। ३३ ।।
कण्टकिद्रुमसङ्कीर्णा शर्करालोष्टसंयुता ।।
अशुभ्रा विषमा दुर्गा सवल्मीका तथा च या ।। ३४ ।।
मूषिकावासबहुला पिपीलकगुणान्विता ।।
नित्यं च शकटच्छिन्ना प्लुता या च पुरोदकैः ।। ३५ ।।
अघातसूना भूमिश्च बन्धनागारसंयुता ।।
वसतिर्यत्र दग्धा च विद्युता वह्निनापि वा ।। ३६ ।।
वसतां दृष्टिदोषा च कूर्मपृष्ठा तथैव च ।।
त्रिकोणा स्रग्विहीना च शूर्पाकारा तथा च या ।। ३९।।
दक्षिणेन तथा निम्ना निम्ना पृष्ठत एव च ।
पुराम्बुग्राहिणी या च सुशिरा च तथा नृप ।। ३८ ।।
खातं च सुमृदा यत्र पूर्यते न पुनस्तथा ।।
खाते यत्र कृतं दीपं प्रम्लानिमुपगच्छति ।। ३९ ।।
माल्यं च म्लायते खाते तां भूमिं परिवर्जयेत ।।
खाते तोयेन पूर्णे च यत्र तोयं न तिष्ठति ।। 3.93.४० ।।
तां भूमिं वर्जयद्यत्नाद्दुर्गन्धा च तथापि या ।।
प्रागुदक्प्रवणा शस्ता स्निग्धा च सुदृढा तथा ।। ४१ ।।
खातेऽधिकां च मृद्यत्र पूर्यमाणे भवेन्नृप ।।
दीपो न म्लायते यत्र न्यस्तं च कुसुमं तथा ।। ४२।।
तोयं सन्तिष्ठते खाते यत्र कालान्तरं बहु ।।
सा प्रशस्ता मही ज्ञेया सुगन्धा सुस्वना तथा ।। ४३ ।।
भुवः परीक्षणं कुर्याद्दिवसेऽतिशुभे तथा ।।
भुवः परीक्षणं यत्र मङ्गल्यद्रव्यदर्शनम् ।। ४४ ।।
श्रवणं वा तथैव स्यात्सा शुभा स्याद्वसुन्धरा ।।
न तां राजन्परीक्षेत प्रशस्ता सा प्रकीर्तिता ।। ४५ ।।
अमङ्गल्यं तथा दृष्ट्वा श्रुतं वा नृपसत्तम ।।
भुवः परीक्षणं तत्र न कार्यमशुभा हि सा ।। ४६ ।।
शुभा मही यत्र भवेन्नृवीर कार्या प्रतिष्ठा भवतीह तत्र ।।
कृता भवेत्तत्र नरेन्द्रचन्द्र हिताय कर्तुः स्वविवृद्धये च ।। ४७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमि परीक्षा नाम त्रिनवतिमोऽध्यायः ।। ९३ ।।
3.94
।। मार्कण्डेय उवाच ।।
शुभां परीक्ष्य वसुधां तत्र कुर्यात्सुरालयम ।।
आदौ तां शोधयेद्विद्वान्दिवसे गुणसंयुते ।। १ ।।
तत्र देशं शुभं विद्वान्गोमयेनोपलेपयेत ।।
ततः सम्पूजयेत्तत्र देवदेवं विनायकम् ।। ४ ।।
तथा च विश्वकर्माणं भाण्डं तदुपयोगि च ।।
पललोल्लपिका भक्ष्यकुल्माषौदनपर्पटैः ।। ३ ।।
परमान्नेन सत्यैश्च पुष्पधूपानुलेपनैः ।।
पूजयित्वा च दैवज्ञं सात्त्वतं स्थपतिं तथा ।। ४ ।।
भुवः संशोधनं कुर्याद्यथावत्पृथिवीपतिः ।।
तावत्संशोधयेद्भूमिं निजां यावत्प्रदृश्यते ।। ५ ।।
तदा संशोधयेद्विद्वान्यावत्स्याच्छल्यवर्जिता ।।
ततस्तु पूरयेत्पश्चाद्दृढं मृत्तिकया पुनः ।। ६ ।।
तद्वर्णया तया शस्ता यस्य वर्णस्य कीर्तिता ।।
अशल्यया मृत्तिकया पूरयेत्सुदृढं पुनः ।। ७ ।।
कृत्वा तु पूरितं देशं सुदृढं सुसमन्ततः ।।
सुसूक्ष्मशल्यज्ञानार्थं कुर्याच्छल्यपरीक्षणम् ।। ८ ।।
यथा वक्ष्याम्यहं राजंस्तथा यत्नेन बुद्धिमान् ।।
यदि स्याच्छल्यसंयुक्ता शल्यमुद्धृत्य यत्नतः ।। ९ ।।
पुनः सम्पूरयेद्विद्वान्यत्नाच्छुभमृदा नृप ।।
एवं संशोध्य भूमिं तु कुम्भं संस्थापयेत्ततः ।। 3.94.१० ।।
शिलान्यासं तु कुर्वीत तत्रैवाऽह्नि चतुर्दिशम् ।।
पक्वेष्टारचिते कार्यास्ता एव तु चतुर्दिशम् ।। ११ ।।
मृन्मये चेष्टकान्यासं कर्तव्यं न च दारुणे ।।
शुभे दिवसनक्षत्रे मुहूर्ते चाभिपूजिते ।। १२ ।।
कुम्भाकारां शिलां कुर्याच्छैलदेवगृहे शुभम् ।।
अन्यत्र ताम्रकलशं सुदृढं यत्र संयुतम् ।। १३ ।।
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ।।
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज ।। १४ ।।
सर्वेषां वास्तुविद्योक्ता देवतानां यथाविधि ।।
श्रियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ।। १५ ।।
पूजनं मण्डले कार्ये वास्तुदेवगणस्य च ।।
विनायकस्य देवस्य विश्वकर्मण एव च ।। १६ ।।
भाण्डानां च महाराज तथा तदुपयोगिनाम् ।।
गन्धार्घपुष्पनैवेद्यधूपदीपैर्यथाविधि ।। १७ ।।
ॐकारपूतमाज्यं च जुहुयाच्छ्रीधरस्य च ।।
श्रियाः कृत्वा ततो होमं ब्रह्मणः कारयेत्तदा ।। १८ ।।
ब्रह्माणं पुरतः कृत्वा वासुदेवगणस्य च ।।
मध्ये कृत्वा ततः कुम्भं शिलान्यासं तु कारयेत ।। १९ ।।
ऐशाने तु ततः कोणे शिलां पूर्वं प्रतिष्ठिताम् ।।
प्रदक्षिणं ततो राजञ्छिलान्यासं विधीयते ।। 3.94.२० ।।
सूत्रन्यासं तु कुर्वीत तस्मिन्नेव तथाहनि ।।
यथानिवेशं कर्तव्यं प्रासादस्य सुनिश्चितम् ।। २१ ।।
कृत्वा तु सूत्रविन्यासं नाधिकं तं तु कारयेत् ।।
नूनं मनुजशार्दूल कर्तुर्दोषकरावुभौ।। २२ ।।
कुम्भस्य च शिलानां च ततः स्थानं विधीयते ।।
वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ।। २३ ।।
ततोऽनुलेपनं कुर्याच्चन्दनेन सुगन्धिना ।।
आच्छादनं ततः कार्यं वासोभिः कुसुमैस्तथा ।। २४ ।।
धूपं दीपं सुनैवेद्यं तेषां नाम्ना निवेदयेत् ।।
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ।। २५ ।।
कालवित्स्थपतिः पूज्यो ततो राम विजानता ।।
ततः कर्ता जपेन्मन्त्रं स्थपतिं वाथ कालवित् ।। २६ ।।
नन्दे नन्दय वासिष्ठे वसुभिः पूजया सह ।।
जये भार्गवदायादे प्रजाभ्यो जयमावह ।। २७ ।।
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व माम् ।।
भद्रे कश्यपदायादे कुरु भद्रां गतिं मम ।। २८ ।।
सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते ।।
रुचिरे नन्दिते नन्दे वासिष्ठे रम्यतामिह ।। २९ ।।
प्रजापतिसुते देवि चतुरस्रे महीमयि ।।
सुभगे सुव्रते भद्रे इह काश्यपि रम्यताम् ।। 3.94.३० ।।
अव्यङ्गे चाक्षते पूर्णे मुनेरंगिरसः सुते ।।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ।। ३१ ।।
देशस्वामिपुरस्वामिपशुस्वामिपरिग्रहे ।।
मनुष्यपशुहस्त्यश्वधन वृद्धिकरी भव ।। ३२ ।।
अनेनैव विधानेन कार्या भूमिः समीक्षया ।।
द्वारन्यासं महाराज द्वारोच्छ्रायस्तथैव च ।। ३३ ।।
स्तम्भोच्छ्रायं तथा वंशविन्यासं च यदूत्तम ।।
तथामलकसारस्य चिह्नस्य तु समुच्छ्रयम् ।।३४।।
आयुधं वाहनं चिह्नं यस्य देवस्य यद्भवेत्।।
तस्मादेकतमं चिह्नं कार्यं चामलसारके ।। ३५ ।।
सुधासिते समाप्ते तु चित्रकर्म विधीयते ।।
कटिः सुचित्रिता कार्या पृष्ठं कार्यं सुधासितम् ।। ३६ ।।
चित्रलक्षणवत्कार्यं सर्वकामसमृद्धिदम् ।।
आश्चर्याणि तथान्यानि तत्र यत्नान्निवेशयेत ।। ३७ ।।
चिह्नं विष्णुगृहे तत्र गरुडं वापि कारयेत ।।
दुर्गागृहे तथा सिंहं त्रिशूलं हरवेश्मनि ।। ३८ ।।
पद्मं लक्ष्मीगृहे चिह्नं हंसं स्याद्ब्रह्मणो गृहे ।।
मकरं कामदेवस्य तालं सङ्कर्षणस्य तु ।। ३९ ।।
अर्धचन्द्रस्थितं सिंहमादित्यस्य गृहे भवेत् ।।
वृत्तमण्डलमध्यस्थं मृगं चन्द्रसमो भवेत् ।। 3.94.४० ।।
वज्रं शक्रस्य कुर्वीत दण्डं वैवस्वतस्य च ।।
वरुणस्य तथा पाशं गदां च धनदस्य वै ।। ४१ ।।
स्कन्दस्य शक्तिः कर्तव्या गणाध्यक्षस्य पार्थिव ।।
कर्तव्यं परशोश्चिह्नं वह्नेर्ज्वाला विधीयते ।। ४२ ।।
वायोरम्बरभङ्गन्तु उष्ट्रं निर्ऋतये तथा ।।
अन्येषामपि देवानां चिह्नं स्यादायुधं स्वकम् ।। ४३ ।।
ततो ध्वजस्य विन्यासः कर्तव्यः पृथिवीपते ।।
असुरा वासमिच्छन्ति ध्वजहीने सुरालये ।। ४४ ।।
ध्वजेन सकलं पापं ध्वजदस्य विनश्यति ।।
तस्मात्सर्वप्रयत्नेन दद्याद्देवगृहे ध्वजम् ।। ४५ ।।
एवं कृते देवगृहे नरेन्द्र वृद्धिः सदा स्यान्न हि संशयोऽत्र ।।
तस्मात्प्रयत्नेन विधानयुक्तं देवालयं कार्यमदीनसत्त्व ।। ४६ ।।
इति श्रीवि० ध० तृ० ख० मा० व० सं० ब्रह्मशिल्पध्वजविधिर्नाम चतुर्णवतितमोऽध्यायः ।। ९४ ।।
3.95
एवं वादिनं श्रीभगवन्तममलतपसमतियश सञ्चिरजीविनं श्रीमार्कण्डेयं राजा वज्रः पप्रच्छ ।
भगवन्नष्टशल्यज्ञानं कथं भवति तमुवाच श्रीभगवान्मार्कण्डेयः ।
कदाचित्कमपि महद्भूतं त्रैलोक्यनाशायार्थितमभवत् ।
तद्भूतं ससंभ्रमैस्त्रिदशैर्निगृह्य वेगेनाधोमुखं न्यस्तम् ।।
तस्य चोत्थानभीता देवा अङ्गेषूपविष्टाः ।
तस्य पर्जन्याद्याः क्रमेण दक्षिणेऽङ्गभागे, व्युत्क्रमेण नागाद्या वामे, पर्जन्यहुताशनौ शिरसि, करग्रहौ वदने,दृशोश्च यज्ञकामौ, स्तनयोर्महेन्द्रादिती, श्रवणयोः रव्यदिती, उरःस्थले अंसयोश्च सत्यभृशान्तरिक्षपवनाः ।
भुजे चन्द्रभल्लाटमुख्या नागराजानः, द्वितीये भुजे सावित्रसवितारौ करौ रुद्रव्याधी द्वितीये करे, अर्यमा पृथिवीधरश्च करस्य कक्ष्ययोः, पुष्पवितथबहक्षताः पार्श्वे, शोषशोकयक्षाश्च द्वितीये पार्श्वे, हृदि ब्रह्मा, विवस्वान्मित्रश्च जठरे, जयेन्द्रौ मेढ्रे, वृषणयोश्च यमवरुणौ, स्फिजि वृषासुरौ, ऊर्वोः गन्धर्वपुष्पदन्तौ, जान्वोः मृगग्रीवौ. जङ्घयोः पितृदौवारिकौ चरणयोः, एवमयमेशानी दिक् शिरः नैर्ऋती दिगादौ वास्तुपुरुषः ।।
तत्र च यत्स्वाङ्गं स्पृशप्रष्टा प्रयच्छति तत्रैव वास्त्वङ्गे शल्यं विद्यात् ।
अथवा यत्रैवाङ्गे गृहपतेः भूयोभूयो रुग्भवति ।।
अथ वास्तुदेवतामेकैकामुद्दिश्य घृतं जुहुयात् ।
यद्वाज्यं हूयमाने अग्निलक्षणमशरभं भवेत्तद्देवदेशे वा ।।
अथैतद्देवताभागे सुखेन शल्यज्ञानमहं चतुष्षष्टिपदविभागेन वक्ष्यामि ।
तत्र बहिः पूर्वेणार्धपदेश्वरः ।
पर्जन्यः अध्यर्धपदेश्वरः, पर्जन्यः अध्यर्धपदेश्वरकरग्रहः महेन्द्ररविसत्यवृषाः यथाक्रमं द्विद्विग्रहेशाः; अन्तरिक्षोध्यर्धपदेशः ।
पवनोऽर्धपदेशश्च दक्षिणेन पुष्पोऽर्धपदेशः ।
वितथोऽध्यर्धपदेशः ।
गृहर्क्षतयवभृङ्गगन्धर्वा द्विपदेशाः. कोशोऽध्यर्धपदेशः ।
शेषोऽर्धपदेशश्चात्र दिङ्नगराजेनार्धपदेशाः ।
मुख्योऽर्धपदेशः ।
भल्लाटचन्द्रादिदितयो द्विपदेशाः ।
रागोऽध्यर्धपदेशः ।
तदाशनोऽर्धपदेशश्च तदन्तरः पूर्वेणार्धपदनाथः ।
यक्षो द्विपदनाथोऽयं मा अर्धपदनाथः सावित्रो दक्षिणतोऽर्धपदनाथः सविता द्विपदनाथो मित्रः अर्धपदनाथो रुद्रः ।
उदगर्धपदनाथो व्याधिः ।
द्विपदनाथो महीश्वरः ।
अर्धपादनाथः कामः ।
मध्ये चतुष्पदेश्वरो ब्रह्मा एवं बहिर्द्वात्रिंशद्देवताः ।
अन्तस्त्रयोदश ।
एवं पञ्चचत्वारिंशत् ।
तत्र प्रश्नकाले ।
यस्य नाम श्रूयते रुतं वा तदस्ति विद्यात् पृच्छकवचनप्रथमाक्षराद्वा अकारादिवर्गे वाजिनराः श्वगोमायुमेषरासभाजम ।
वस्तुतो नवधा विभक्तस्य मध्ये वकारः अकनत एवं सग इत्येते क्रमेण प्राच्यादिषु वर्णाः ।
वर्णप्रथमश्रवणाद्वास्तुनि तद्दिशि शल्यम् ।
लग्नाच्छून्येषु केन्द्रेषु निःशल्यं दृढं भवति ।
पापयुक्तेषु सशल्यं च केन्द्रे राशिवशा दिग्भवति बलिनिग्रहे अस्थिशल्यम् ।
बलहीने शर्कराङ्गारकाष्ठतुषभस्मादि तत्र सर्वेप्वस्थिषु कर्तुर्मरणं भवति शर्करातुषकेशाङ्गारभस्मशल्येषु शोकानर्थव्याधिमरणचौरोपद्रवाः सशल्ये च देवतायतने देवतासन्निधानं न भवति ।
तस्मात्सर्वप्रयत्नेन निःशल्यं वास्तुदैवतायतनं कुर्यात् ।
देवतायतनदक्षिणे भागे देवताकोशभवनम् ।
तस्याग्नेये महानसम् ।
दक्षिणेन स्नानभवनम ।
नैऋते कुप्यगृहम् ।। ।
पश्चिमेन तोयगृहम ।
वायव्येन भाण्डगृहम् ।
उदक्प्रेक्ष्यागारम् ।
ऐशानेनेज्यागृहम् ।
प्राक्सर्वकर्मकारगृहमिति।।
एतान्यपि शल्यवर्जितानि कुर्यात् सर्वत्र द्रविणशल्येन वृद्धिर्भवति ।
तद्विज्ञानं भवति ।
भवति चात्र-
ऊर्द्ध्वस्थे केन्द्रगे सोम्यै शल्यं द्रविणसंज्ञितम्।
दिक्त्वत्राप्यवगन्तव्या केन्द्रराशिवशेन च।। १ ।।
ऊष्मा प्रदृश्यते यत्र च्छत्राकारः क्षितौ क्वचित् ।
तत्र वित्तं विजानीयात्सुषिरं यदि भूतलम्।।२।।
नीलाभिः श्वेतपक्ष्माभिर्मक्षिकाभिः समन्विता ।।
दुर्गन्धा च तथा भूमिस्तत्राधस्ताद्धनं भवेत् ।। ३ ।।
एकनालसमर्थे द्वे दृश्येते यत्र पुष्करे ।। ।
भूयोभूयश्च तत्राधः कथयन्ति धनं बहु ।। ४ ।।
अक्षीरा क्षीरिणो वृक्षास्तन्तुभिर्यदि वेष्टिताः ।।
अकण्टकाः कण्टकिनस्तत्रापि द्रविणं वदेत् ।।५।।
द्रुमे भवति वंदाकं यत्र चान्यं नराधिप ।। ।।
तत्रापि द्रविणं वाच्यं श्वेतं यत्र च किंशुकम् ।। ६ ।।
हिमाम्भसी न ध्रियते न प्ररोहन्ति पादपाः ।।
अकाले पुप्पदा वृक्षास्तत्राधो धनमादिशेत ।। ७ ।।
शाङ्गको मैथुनं यत्र भुजगश्चित्रमस्तकः ।।
दृश्यते यत्र राजेन्द्र तत्राधो धनमादिशेत ।। ८ ।।
इति श्रीवि० ध० तृ० मा० व० सं० प्रतिष्ठाकल्पशल्योद्धारो नाम पञ्चनवतितमोऽध्यायः।।९५।।