विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०५६-०६०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ५१-५५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ५६-६०
वेदव्यासः
अध्यायाः ६१-६५ →
नारदीयपुराणम् १.५१.४८ अनुसारेण अग्नेः स्वरूपम्

3.56
मार्कण्डेय उवाच ।।
रक्तं जटाधरं वह्निं कुर्याद्वै ध्रूम्रवाससम् ।।
ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् ।। १ ।।
चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वातसारथिम् ।।
चतुर्भिश्च शुकैर्युक्तं धूमचिह्नरथे स्थितम् ।। २ ।।
वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् ।।
रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ।। ३ ।।
ज्वालात्रिशूलौ कर्तव्यौ चाक्षमाला तु वामके ।।
रक्तं हि तेजसो रूपं रक्तवर्णं ततः स्मृतम् ।। ४ ।।
वातसारथिता तस्य प्रत्यक्षं धूम्रक्षेत्रता ।।
प्रत्यक्षा च तथा प्रोक्ता यागधूम्राभवस्त्रता ।। ५ ।।
अक्षमालां त्रिशूलं च जटाजूटत्रिनेत्रता ।।
सर्वाभरणधारित्वं व्याख्यातं तस्य शम्भुना ।। ६ ।।
ज्वालाकारं परं धाम हुतं तेन प्रतीच्छति ।।
गृहीत्वा सर्वदेवेभ्यो ततो नयति शत्रुहन् ।। ७ ।।
वाग्दण्डमथ धिग्दण्डं धनदण्डं तथैव च ।।
चतुर्थं वधदण्डं च दंष्ट्रास्तस्य प्रकीर्तिताः ।। ८ ।।
श्मश्रु तस्य विनिर्दिष्टं दर्भाः परमपावनम् ।।
ये वेदास्ते शुकास्तस्य रथयुक्ता महात्मनः ।। ९ ।।
आग्नेयमेतत्तव रूपमुक्तं पापापहं सिद्धिकरं नराणाम् ।।
ध्येयं तवैतन्नृप होमकाले सर्वाग्निकर्मण्यपराजितेन ।। 3.56.१० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अग्निरूपनिर्माणो नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
3.57
मार्कण्डेय उवाच ॥
विरूपाक्षो विवृत्ताक्षः प्रांशुदण्डोज्ज्वलाननः ॥
ऊर्ध्वकेशो हरिश्छमश्रुर्द्विबाहुर्भीषणाननः ॥१॥
वर्णेन रक्तकृष्णाङ्गः कृष्णाम्बरधरस्तथा ॥
सर्वाभरणधारी च दण्डरश्मिकरस्तथा ॥ २ ॥
भार्या च तस्य कर्तव्या देवी निनृतितस्तथा ॥
कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः ॥ ३ ।
कालः प्रोक्तो विरूपाक्षो मृत्युर्हि निनृतिस्तथा ॥
बिभर्ति तामसं रूपं वासांसि च ततो नृप ॥ ४ ॥
मारणं तत्करे दण्डं बन्धनं चोष्ट्ररश्मयः ॥
महामोहस्तथैवोष्ट्रः कथितस्तस्य वामतः ॥९॥
वपुर्विरूपाक्षमिदं प्रदिष्टं रक्षोधिपस्याप्रतिमस्य तस्य ।
अतः परं वच्मि तवाद्य राजन्वायोस्तुरूपं परमस्य धाम्नः ॥ ९ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विरूपाक्षरूपनिर्माणो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
3.58
मार्कण्डेय उवाच ॥
वायुरम्बरवर्णस्तु तदाकारोम्बरो भवेत् ॥
वाय्वापूरितवस्त्रश्च द्विभुजो रूपसंयुतः ॥ १ ॥
गमनेच्छा शिवा भार्या तस्य कार्या च वामतः ॥
कार्यो गृहीत वस्त्रान्तः कराभ्यां पवनो द्विज ॥ २ ॥
तथैव देवी कर्तव्या शिवा परमसुन्दरी ॥
व्याधितास्यस्तथा कार्यो देवो व्याकुलमूर्धजः ॥ ३ ॥
वायुराश्रयतो धत्ते गन्धवर्णादिकं यतः ॥
तस्मादञ्जनवर्णस्तु गमनस्य समाश्रयात् ॥ ४॥
तदेव वसनं तस्य गगनं परिकीर्तितम् ॥
या गतिः सा शिवा देवी योऽनिरुद्धश्च सोऽनिलः ॥ ९ ॥
एतद्धि रूपं पवनस्य राजँस्तवोदितं स वै जगन्मयस्य ।॥
देव्याः शिवायाश्च महानुभाव परं पवित्रं विदितं द्विजानाम ।।6।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० वायुरूपनिर्माणोनामाष्टपञ्चाशत्तमोऽध्यायः॥५८॥
3.59
मार्कण्डेय उवाच
अथातो रूपनिर्माणं वच्म्यहं भैरवस्य ते ॥
लम्बोदरं तथा कुर्याद्वृत्तपिङ्गललोचनम् ॥ १ ॥
दंष्ट्राकरालवदनं फुल्लनासापुटं तथा ॥
कपालमालिनं रौद्रं सर्वतः सर्पभूषणम् ॥ २ ॥
व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम् ॥
सजलाम्बुदसंकाशं गजचर्मोत्तरच्छदम् ॥ ३ ॥
बाहुभिर्बहुभिव्याप्तं सर्वायुधविभूषणैः ॥
बृहत्सालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः ॥ ४ ॥
साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम् ॥
महाकालस्य कथितमेतदेव च सन्मुखम् ॥ ५ ॥
देवी तु वामतः कार्या करे कार्यस्तु पन्नगः ।
न चास्य पुरतः कार्या देवी पर्वतनन्दिनी ॥ ६॥
शुक्ला न कार्या न तथास्य रक्ता समीपतो मातृगणप्रधाने ॥
कार्यस्त्वथान्यः परिबर्हमस्य गणाश्च कार्या बहुरूपरूपाः ॥ ७॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डयवज्रसंवादे भैरवरूपनिर्माणो नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
3.60
॥वज्र उवाच॥
विष्णुभूम्यम्बराणां त्वं ब्रह्मणश्च तथा विभो ।।
रूपनिर्माणमाचक्ष्व भृगुवंशविवर्धन ।। १ ।।
मार्कण्डेय उवाच ।।
एकवक्त्रो द्विबाहुश्च गदाचक्रधरः प्रभुः ।।
देहविन्यासमपरं प्रागुक्तं कीर्तितं हरेः ।। २ ।।
गान्धारी तु स्मृता मायी जगद्बन्धाय वैष्णवी ।।
गदा देवकरे नित्यं सर्वभूतवशङ्करी ।। ३ ।।
सैव लक्ष्मीर्धृतिः कीर्तिः पुष्टिः श्रद्धा सरस्वती ।।
गायत्री वेदजननी कालरात्रिस्तथैव सा ।। ४ ।।
संसारभ्रमणं चक्रं चक्रं विष्णुकरे स्थितम् ।।
धर्मचक्रं कालचक्रं भचकं च महाभुज ।। ५ ।।
ध्रुवो हि विप्णुर्भगवान्प्रदिष्टचक्रं सदा भ्रामयते स वीरः ।।
एतेन कार्येण जगत्प्रधानः स चक्रहस्तो भगवान्प्रदिष्टः।।६।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम षष्टितमोऽध्यायः ।।६०।।