विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०५१-०५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ४६-५० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ५१-५५
वेदव्यासः
अध्यायाः ५६-६० →

3.51
मार्कण्डेय उवाच ।।
सजलाम्बुदसच्छायस्तप्तचामीकराम्बरः ।।
महिषस्थश्च कर्तव्यः सर्वाभरणवान्यतः ।। १ ।।
नीलोत्पलाभा धूमोर्णा वामोत्सङ्गे च कारयेत् ।।
धूमोर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः ।। २ ।।
दण्डखड्गावुभौ कार्यौ यमदक्षिणहस्तयोः ।।
दण्डोपरि मुखं कार्यं ज्वालमालाविभूषणम् ।।३।।
धूम्रोर्णापृष्ठगं वामं चर्मयुक्तं तथापरम् ।।
धूमोर्णादक्षिणं हस्तं यमपृष्ठगतं भवेत् ।। ४ ।।
वामे तस्याः करे कार्यं मातुलुङ्गं सुदर्शनम् ।।
पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं च कारयेत् ।। ५ ।।
उद्दिश्य वेशं स्वाकारं द्विभुजं सौम्यदर्शनम् ।।
दक्षिणे लेखिनी तस्य वामे पत्रं तु कारयेत् ।। ६ ।।
वामे पाशधरः कार्यः कालो विकटदर्शनः ।।
यमं सङ्कर्षणं विद्धि तामसीं तनुमाश्रितम् ।। ७ ।।
मर्यादापालनार्थाय लोकसंहारकारणम् ।।
नीलोत्पलदलच्छायस्तामसत्वात्प्रकीर्तितः ।। ८ ।।
वसनं तस्य विख्यातं वासुदेवेन शत्रुहन् ।।
चतुर्भुजत्वं विख्यातं ब्रह्मणा परमात्मनः ।। ९ ।।
ब्रह्मणा तस्य निर्दिष्टं सर्वाभरणधारणम् ।।
यो मोहो मरणं नॄणां विज्ञेयो महिषस्तु सः ।।3.51.१०।।
अमोघं तु करे दण्डं मृत्युं धारयते यमः ।।
अनिरुद्धेन तस्योक्तं धारणं खड्गचर्मणोः ।। ११ ।।
कालरात्री तु विज्ञेया धूमोर्णा यदुनन्दन ।।
तस्यास्तु शूलिना प्रोक्तं बीजपूरकधारणम् ।। १२ ।।
चित्रगुप्तो विनिर्दिष्टस्तथात्मा सर्वदेहगः ।।
पत्रं धर्ममधर्मं च करस्था तस्य लेखिनी ।। १३ ।।
काल एव स्वरूपेण कालो यमसमीपगः ।।
तस्य पाशः करे घोरो यममार्गः सुदुष्करः ।। १४ ।।
वज्र उवाच ।।
संहारहेतुकी मूर्तिर्विष्णोः सङ्कर्षणो मतः ।।
स तु देवस्त्वया प्रोक्तश्चन्द्रशुक्लवपुर्महान् ।। १२ ।।
तल्पे संहारकर्तृत्वे कृष्णमूर्तिः कथं यमः ।।
एतं मे संशयं छिन्धि भृगुवंशविवर्धन ।।१६।।
मार्कंडेय उवाच ।।
मूर्तिः साङ्कर्षिणी विष्णो रुद्रः संहारकारकः ।।
कल्पक्षये तु संहारे करोति जगतां हि सा ।। १७ ।।
प्रकृतो याति धर्मज्ञ संहृतं तु तदा जगत ।।
तेन प्रकृतिवर्णस्थः करोति जगतां क्षयम् ।। १८ ।।
कृत्वापि प्राणिसंहारं यमरूपी पुनःपुनः ।।
प्राणिनां प्रकृतौ योगं न विधत्ते कदाचन ।। १९ ।।
विकारे योजयत्येव सुखदुःखात्मके तदा ।।
विकाररूपवर्णं तु तेन संहरते जगत् ।। 3.51.२० ।।
रूपमिदं कथितं तव याम्यं पापविनाशकरं विबुधानाम् ।।
रूपमतः कथयामि महात्मंस्तोयपतेर्वरुणस्य तवाहम् ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमरूपनिर्माणो नामैकपञ्चाशत्तमोऽध्यायः ।। ५१।।
3.52
मार्कण्डेय उवाच ।।
सप्तहंसे रथे कार्यो वरुणो यादसाम्पतिः ।।
स्निग्धवैडूर्यसङ्काशः श्वेताम्बरधरस्तथा ।।१।।
किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषणः ।।
सर्वाभरणवान्राजा तया देवश्चतुर्भुजः ।। २ ।।
वामभागगतं केतुं मकरस्य तु कारयेत् ।।
छत्रं च सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी ।। ३ ।।
वामोत्संगगताकार्या गौरी तद्द्विभुजा नृप ।।
उत्पलं तु करे वामे दक्षिणं देवपृष्ठगम् ।। ४ ।।
पद्मपाशौ करे कार्यौ देवदक्षिणहस्तयोः ।।
शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत् ।। ५ ।।
भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ।।
देवी पद्मकरा कार्या चन्द्रगौरी वरानना ।। ८० ।।
वामे तु यमुना कार्या कूर्मसंस्था सचामरा ।।
नीलोत्पलकरा सौम्या नलिनीरजसन्निभा ।। ७ ।।
स्निग्धवैडूर्य सङ्काशस्त्वापोवर्णो यतो नृप ।।
तयोरनुग्रहार्थाय तद्वर्णो वरुणस्ततः ।। ८ ।।
स्वरूपवर्णाः सुसितास्ता एव द्विजपुंगव ।।
वसनं तस्य कथितं ता एव सुसितं नृप ।।९।।
वज्र उवाच ।।
अम्भसस्तु कथं वर्णः सत्यासत्ये त्वयेरिते ।।
एतत्तु श्रोतुमिच्छामि परं कौतूहलं हि मे ।।3.52.१०।।
मार्कण्डेय उवाच ।।
वैडूर्याभमपां वर्णमतथ्यं यदुनन्दन ।।
छायागतस्य नभसस्तद्रूपं तासु दृश्यते ।। ११।।
प्रपातपातैर्यद्रूपमंभसां नृप दृश्यते ।।
शशाङ्कांशुप्रतीकाशं तत्स्वरूपे प्रतिष्ठितम् ।। १२ ।।
प्रद्युम्नो वासुदेवस्तु वरुणो यादसां पतिः ।।
तस्य भार्या रतिर्ज्ञेया गौरी यादवनन्दन ।।१३।।
सौभाग्यमुत्पलं तस्याः करे सुरतगं विभो ।।
वरुणस्य करे पद्मं विधिधर्मे महाभुज ।। १४ ।।
शङ्खमर्थं विजानीहि पाशं संसारबन्धनम् ।।
रत्नपात्रं करे ज्ञेयं सर्वरत्नधरा धरा ।। १५ ।।
यशश्च सुसितं छत्रं सौख्यं मकर एव च ।।
ब्रह्मणा कथितं तस्य भुजाभरणधारणम् ।। १६ ।।
लवणक्षीरआज्यादि दधिमण्डसुरोदकाः ।।
तथैवेक्षुरसोदश्च सुरोदश्च तथापरः । १७ ।।
समुद्रास्ते तु विख्याता लोके नरवरोत्तम ।।
सप्तहंसा रथे तस्य वरुणस्य महात्मनः ।। १८ ।।
जाया तु यमुना ज्ञेया सिद्धिर्भागीरथी द्विज ।।
वीर्यकालौ विनिर्दिष्टौ तथा मकरकच्छपौ ।। १९ ।।
स्वर्गगङ्गाकरे पद्मं वृद्धयामुनमुत्पलम् ।। 3.52.२० ।।
रूपं जलेशस्य तवैतदुक्तं मया शिरःपाशधरस्य तस्य ।।
अतः परं वित्तपतेर्ब्रवीमि रूपं तवाहं यदुवंशचन्द्र ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वरुणरूपनिर्माणो नाम द्विपञ्चाशत्तमोध्यायः ।। ५२ ।।
3.53
मार्कण्डेय उवाच ।।
कर्तव्यः पद्मपत्राभो धनदो नरवाहनः ।।
चामीकराभो धनदः सर्वाभरणभूषणः ।। १ ।।
लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः ।।
अपीच्यवेशः कवची हारभारार्पितोदरः ।। २ ।।
द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः ।।
वामेन विनता कार्या मौलिस्तस्यारिमर्दिनी ।। ३ ।।
वामोत्संगगता कार्या ऋद्धिर्देवी वरप्रदा ।।
देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम् ।। ४ ।।
रत्नपात्रकरं कार्यं वामं रिपुनिषूदन ।।
गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः ।। ५ ।।
सिंहाङ्कलक्षणं वृत्तं शिबिकामपि पादयोः ।।
शङ्खपद्मौ निधी कार्यौ स्वरूपौ निधिसंस्थितौ ।। ६ ।।
शङ्खपद्मान्तनिष्क्रान्तं वदनं तस्य पार्श्वतः ।।
अनिरुद्धस्तु विज्ञेयस्त्वया देवो धनाधिपः ।। ।। ७ ।।
ब्रह्मणा कथितं तस्य सर्वाभरणसाधनम ।।
सुवर्णं नाम विख्यातं धनानामुत्तमं धनम् ।।
तस्यानुग्रहतो धत्ते वासः कनकसन्निभम् ।।
शक्तिरेव स्मृता शक्तिर्दण्डनीतिस्तथा गदा ।। ९ ।।
लोकयात्रा च कथिता ऋद्धिर्ज्ञेया स्वभावतः ।। ८ ।।
तत्करे रत्नपात्रं तु गुणाधारं प्रचक्षते ।। 3.53.१० ।।
नरं राज्यं विजानीहि यत्रस्थस्तु सदा विभुः ।।
स्वरूपतस्तु विज्ञेयौ शङ्खपद्मौ तथा निधी ।। ११ ।।
वित्ततोंशो जयत्यस्मिंस्ताभ्यां प्रसवतेऽयुतः ।।
अर्थः सक्षमया ज्ञेयः केतुः सिंहाङ्कलक्षणः ।।
निग्रहानुग्रहे दंष्ट्रे तस्य तात महात्मनः ।। १२ ।।
यक्षाधिपस्येतदनन्तदंष्ट्रं नामे वने यक्षनदस्य राजन् ।।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ।।१३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वैश्रवणरूपनिर्माणो नाम त्रिपञ्चाशत्तमोऽध्यायः।।५३।।
3.54
वज्र उवाच ।।
सुपर्णस्य च तालस्य मकरस्य मृगस्य च।।
मरुतां रूपनिर्माणं श्रोतुमिच्छामि भार्गव ।।१ ।।
मार्कण्डेय उवाच ।।
तार्क्ष्यो मारकतप्रख्यः कौशिकाकारनासिकः ।।
चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्ततः।।२।।
गृध्रोरुजानुचरणः पक्षद्व्यविभूषणः।।३।।
प्रभासंस्थानर्सौवर्णः कलापेन विवर्जितः।।
छत्रं च पूर्णकुम्भं च करयोस्तस्य कारयेत्।।४।।
करद्वये तु कर्तव्यं तथास्य रचिताञ्जलिः ।।
तथास्य भगवान्पृष्ठे छत्रकुम्भधरौ करौ ।। ५ ।।
न कर्तव्यौ तु कर्तव्यौ देवपादवरावुभौ ।।
किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ।। ६ ।।
तालस्तालाकृतिः कार्यो मकरो मकराकृतिः ।।
उपरिष्टात्तथैवास्य कार्यो ऋग्यवदच्युतः ।।७ ।।
मनो जगत्तथा कामं कर्म चैते क्रमात्स्मृताः ।।
वासुदेवोच्युतश्चैव प्रद्युम्नश्च महाभुजः ।।
तथा चैवानिरुद्धश्च क्रमेणैते प्रकीर्तिताः ।। ८ ।।
तार्क्ष्यः सतालो मकरस्तथार्च्यो देवेश कीनाशजलार्थनाथः ।।
अग्न्यर्कतोयाधिपपत्रिनाथस्त एव लोकेषु बुधैः प्रदिष्टाः ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गरुडरूपनिर्माणो नाम चतुःपञ्चाशत्तमोऽध्यायः ।।५४ ।।
3.55
वज्र उवाच ।।
शिवस्य रूपनिर्माणं वह्नेर्वै निर्ऋतेस्तथा ।।
वायोश्च ब्रूहि धर्मज्ञ तत्र मे संशयो महान् ।।१।।
मार्कंडेय उवाच ।।
वामार्धे पार्वती कार्या शिवः कार्यश्चतुर्भुजः।।
अक्षमालां त्रिशूलं च तस्य दक्षिणहस्तयोः ।। २ ।।
दर्पणेन्दीवरौ कार्यौ वामयोर्यदुनन्दन ।।
एकवक्त्रो भवेच्छम्भुर्वामा च दयिता तनुः ।। ३ ।।
द्विनेत्रश्च महाभाग सर्वाभरणभूषितः ।।
अभेदभिन्ना प्रकृतिः पुरुषेण महाभुज ।। ४ ।।
गौरीशर्वेति विख्याता सर्वलोकनमस्कृता ।।
कारणं कथितं पूर्वं शूलादीनां मया तव ।। ५ ।।
ईशानरूपं कथितं तवेदं रूपं तथाग्नेः शृणु धर्मनित्यम् ।।
वेदा यदर्थं जगति प्रवृत्ता मुखं च यत्सर्वसुराऽसुराणाम् ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गौरीशर्ववर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।