विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०१६-०२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ११-१५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १६-२०
वेदव्यासः
अध्यायाः २१-२५ →

3.16
।। मार्कण्डेय उवाच।।
काव्ये येऽभिहिता दोषाः कैश्चित्तेभ्यः प्रहेलिका ।।
कर्तव्याश्च तथैवान्यास्तासां वक्ष्यामि लक्षणम् ।। १ ।।
श्लोकेनैकेन वा द्वाभ्यां कर्तव्या तु नरोत्तम ।।
न कर्तव्याश्च ता राजन्बहुश्लोकनिबन्धनाः ।। २ ।।
तस्यां मात्रावशादर्थो गोप्यते सा समागता ।।
पर्यायवचनाद्यस्यां वन्दिता सा प्रकीर्तिता ।। ३ ।।
वृत्तान्तगोपिकान्ताया पदैर्व्यवहितैर्भवेत् ।।
अप्रसिद्धैस्तु पर्यायैर्दुःखिता नाम सा स्मृता ।। ४ ।।
कल्पनागोपितार्थात्तु कथिता परिहासिका ।।
समानरूपतुल्यार्थो शब्दैरन्यैः प्रकीर्तिता ।। ५ ।।
दुर्बोधाक्षरबन्धा च परुषा नामतः स्मृता।।
संख्यामात्रसमानत्वात्संख्याताख्या तथोच्यते ।। ६ ।।
अर्थान्तरान्कल्पनया कल्पिता च तथोच्यते ।।
अन्यस्य संज्ञायामोहान्नमान्तरितसंज्ञिता ।।७।।
अर्थव्यामोहतः प्रोक्ता निभृता च महानृप ।।
समानशब्दा कथिता तुल्यशब्दनिबन्धना ।।८।।
अर्थानुलोमदुर्बोधा व्यामूढेति तथोच्यते ।।
गुच्छाख्या कथिता वृत्ते नानाबन्धनि बन्धना ।। ९ ।।
एकोभयबहुच्छन्ने यथार्थपरिगोपिते ।।
संकीर्णा सम्भवोपेता या तदर्थकरी भवेत् ।। 3.16.१० ।।
तदर्थकारी यत्रार्थो ज्ञायतेऽन्यार्थकामुकः ।।
राजञ्शब्दवशात्सा च कथिता व्यभिचारिणी ।। ११ ।।
उक्तेर्थे वृत्तबन्धेन मात्राभिः स्थापिता तथा ।।
नष्टार्था वा च सा प्रोक्ता वृत्तबन्धनिदर्शिता ।। १२ ।।
नष्टाक्षरा तु कथिता विनैकेन तदार्थदा ।।
अन्यार्थता तथैवोक्ता वर्णभ्रष्टा नरेश्वर ।। १३ ।।
कालस्य रूपरूपाणां व्याख्यानेन तदार्थदा ।।
बीजमात्रेण लेशाख्या भूमिपाल प्रकीर्तिता ।। १४ ।।
अश्लीलमेतास्वपि नैव कार्यं तद्वर्ज्यमाहुः कवयो नरेन्द्र ।।
उद्वेजनीयं तु सतां तदुक्तमश्लीलबन्धं सुखदं न काव्यम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रहेलिकालक्षणो नाम षोडशोऽध्यायः ।। १६ ।।
3.17
।। वज्र उवाच ।। ।।
मन्त्राः सब्राह्मणाः प्रोक्तास्तदर्थं ब्राह्मणं स्मृतम् ।।
कल्पना च तथा कल्पः कल्पश्च ब्राह्मणस्तथा ।। १ ।।
कथितानि तथार्थानि पुराणं च तथा द्विज ।।
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः ।। २ ।।
उपोद्घातानुषङ्गौ च तथा संहार एव च ।।
चतुष्पादं हि कथितं पुराणं भृगुनन्दन ।। ३ ।।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। ४ ।।
तत्र वा विदितं सर्वं तत्रोक्तं गीतलक्षणम् ।।
वृत्तस्य लक्षणं चैव नाटकाख्यानलक्षणम् ।। ५ ।।
तस्मादहं त्वां पृच्छामि द्विज नाट्यस्य लक्षणम् ।।
सभेदं तन्ममाचक्ष्व सर्वज्ञोऽसि यतः प्रभो।।६।।
मार्कण्डेय उवाच ।।
इतिहासानुसारेण पुराणानां समीक्षितम् ।।
चरितं त्रिदशानां वा नाटकं तत्र कीर्तितम्।।७।।
एकनायकसंयुक्तं नायकप्रतिनायकैः।
संयुक्तमथवा कार्यः काव्ये वै तत्र नायकः ।।८।।
सर्वास्तु वृत्तयस्तत्र तत्र सर्वे तथा रसाः ।।
कालप्रयोगं च तथा युक्त्या संदर्शयेन्नृप ।।९।।
पञ्चावराङ्कं तत्प्रोक्तं तथादशपरं शुभम् ।।
एकदैवतिकं वृत्तमङ्के राजन्प्रदर्शयेत ।। 3.17.१० ।।
तदन्ते सर्वपात्राणां निष्क्रमश्च विधीयते ।।
युक्त्युपन्याससंयुक्तं तथा निष्कमणं मतम् ।।११।।
मरणं राज्यविभ्रंशो नगरस्योपरोधनम् ।।
एतानि दर्शयेन्नांके तथा युद्धं च पार्थिव ।। १२ ।।
प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः ।।
पात्रद्वयेन कर्तव्यं तथा नित्यं प्रवेशकम् ।। १३ ।।
पात्रे परिजने तत्र कर्तव्यं नायकेन तु ।।
भिन्नं पात्रद्वयं यत्र तत्र विष्कम्भकं स्मृतम् ।।१४।।
तयोरन्ते तु कर्तव्या तथा रङ्गस्य शून्यता ।।
अङ्गान्ते च तथा कार्या न कार्या सान्यथा भवेत् ।। १५ ।।
बहुदैवतिकं वृत्तं कर्तव्यं तु प्रवेशकम् ।।
संक्षपोक्तिश्च कर्तव्या कर्तव्यो नहि विस्तरः ।। १६ ।।
प्रख्यातनायकवधं न च तत्र प्रवेशयेत्।।
तस्य प्रकाशनं कार्यमङ्केप्येव नराधिप ।। १७ ।।
नायकाभ्युदयः कार्यो नाटकान्ते तथैव च ।।
बह्व्योऽपि नायिका यत्र तासामपि तथा भवेत् ।। १८ ।।
एवंविधा सशृङ्गारा चतुरङ्काः तु नाटिका ।।
कृतं प्रकरणं तद्वत्स्वयमुत्पाद्य वस्तुना ।। १९ ।।
ब्राह्मणो नायकस्तत्र वणिक्च नृपसत्तम ।।
एवं प्रकरणी कार्या चतुरङ्कापि सा भवेत् ।। 3.17.२० ।।
इतिहासानुबन्धो वा स्वयमुत्पाद्य वा कृतः ।।
भारतीकरुणप्रायो निवृत्तं समनन्तरम् ।। २१ ।।
चतुष्टयाङ्कः कर्तव्यो दिव्यनायकवर्तितः ।।
इतिहासानुसारेण प्राणश्चैकाहिकः स्मृतः ।। २२ ।।
एकांको युद्धबहुलस्वात्मशंसापरस्तथा ।।
आकाशकथनैर्युक्तस्त्वेकपात्रकृतक्रियः ।। २३ ।।
प्रोक्तः समवताराख्यस्त्रिदशासुरनायकः ।।
त्रिशृङ्गारस्त्रिकपटस्तथा द्वादशनायकः ।। २४ ।।
ईहामृगोऽथ बह्वङ्कस्तथा गन्धर्वनायकः ।।
शृङ्गारबहुलः कार्योऽतृप्त योनिरसाश्रयः ।। २५ ।।
ऐकाहिको दृप्तरसो व्यायोगश्चैकनायकः ।।
वीथी त्रयोदशाङ्का स्यात्तथा नायकवर्जिता ।।२६ ।।
डिमाख्यश्च तथा प्रोक्तो रसस्तु सुरनायकः ।।
तथा रौद्ररसप्रायः प्रख्यस्तविषयान्वितः ।। २७ ।।
एकाङ्को हास्यबहुलस्तथैवोदात्तनायकः ।।
कार्यः प्रहसनाख्यस्तु वेश्याविटसमन्वितः ।। २८ ।।
सूत्रधारस्य वाक्येन काव्यवस्तुनिबन्धनम् ।।
सर्वं प्रकाशयेदादौ सर्वेष्वेतेषु वस्तु यत् ।। २९ ।।
संस्कतं नायकवचो लिङ्गिश्रोत्रियभूभुजाम् ।।
द्विजन्मनां सुराणां च दैत्यगन्धर्वभोगिनाम् ।। 3.17.३० ।।
नायिकादेवरामाणां व्याजलिङ्गवतां तथा ।।
विदूषकाणां च भवेत्प्राकृतं वचनं नृप ।। ३१ ।।
बालस्त्रीनीचषण्डानां ये चान्ये नानुकीर्तिताः ।।
तेषां वाक्यमपभ्रष्टं तच्च ज्ञात्वा प्रयोजयेत् ।। ३२ ।।
स्वयमुत्पादितानां मे नानात्वं शृणु लक्षणम् ।।
शर्म वर्मधनान्यन्ते वर्णानां दासवत्तथा ।। ३३ ।।
राज्ञां विक्रमसंयुक्तममात्यानां तथा भवेत् ।।
स्त्रीणां सुखोद्यमक्रूरं नायिकानां मनोहरम् ।। ३४ ।।
राज्ञीपरिजनस्त्रीणां कलाकौशलसंयुतम् ।।
राज्ञः परिजनस्त्रीणां विजयोत्तरमिष्यते ।। ३५ ।।
सांवत्सराणां माङ्गल्यं शान्तिप्रायं पुरोधसाम् ।।
शूरप्रायममात्यानामायुप्यं भिषजामपि ।। ३६ ।।
विटानां भूषणप्रायं दासीनां कुसुमादिकम् ।।
ऋषिगोत्रधरौ कार्यौ कञ्चुकीयविदूषकौ ।। ३७ ।।
दत्ता मित्रा तथा सेना वैश्या नाम ततो भवेत् ।।
अधिकारानुरूपाणि तथा चैवाधिकारिणाम् ।। ३८ ।।
अतः परं प्रवक्ष्यामि येन वाच्यस्तु यो यथा ।।
देवेति राजा वक्तव्यो भृत्यैः प्रकृतिभिस्तथा ।। ३९ ।।
राजेति विप्रैर्वक्तव्यो ऋषिभिर्नामगोत्रतः ।।
अपत्यप्रत्ययाद्देवैर्वयस्येति समो जनः ।। 3.17.४० ।।
विदूषकोऽपि वक्तव्यो वयस्य इति नायकैः ।।
आयुष्मानिति सूतेन रथी वाच्यस्तथा भवेत् ।।४१ ।।
भगवन्निति वक्तव्या ऋषयो गुरवः सुराः ।।
पुत्र वत्सेति शिष्यस्य तथा वा नामगोत्रतः ।। ४२ ।।
आर्यपुत्रेति वक्तव्यः स्त्रिया भर्ता नराधिप ।।
नाम्ना भार्या तु वक्तव्या राज्ञी देवीति नायिका ।। ४३ ।।
पिता तातस्तथा वाच्यो मातुश्चैवार्यकः पिता ।।
युवराजः कुमारः स्यान्मान्यो भावः समीरितः ।। ४४ ।।
मान्यमानस्तथा भामो भर्तृदारः कुमारकः ।।
हलेति तु समाना स्त्री वक्तव्या समया तथा ।। ४५ ।।
हञ्जेत्यामन्त्रयेन्नारी हण्डे परिजने स्वके ।।
स्वसेति भगिनी वाच्या लिङ्गस्था व्रतिनी तथा ।। ४६ ।।
आर्येति ब्राह्मणी वाच्या शेषा लिङ्गार्थतस्तथा ।।
अन्तःपुरचरो यस्तु स्त्रीभोगपरिवर्जितः ।। ४७ ।।
स तु वर्षधरो ज्ञेयस्तदध्यक्षस्तु कञ्चुकिः ।।
ब्राह्मणः स भवेद् वृद्धो मान्यश्च वसुधाधिपैः ।। ४८ ।।
विदूषको ब्राह्मणः स्यान्नायकस्य रहस्यवित् ।।
नटः प्रधानः स भवेत्सूत्रधारो नराधिप ।। ४९ ।।
ज्ञेया बीजसमुत्पत्तिर्मुखं नाना रसोद्भवः ।।
मुखोत्थबीजोद्घटनं तथा प्रतिमुखं स्मृतम् ।। 3.17.५० ।।
प्राप्याप्रातियुतो गर्भस्तस्यैवोद्भेदसंज्ञितः ।।
तदेवोद्भिन्नबीजार्थो विसर्गो व्यसनान्वितः ।। ५१ ।।
मुखादीनां निर्वहणं तथा निर्वहतं भवेत् ।।
नाटके सप्रकरणे कर्तव्याः पात्रसन्धयः ।। ५२ ।।
डिमे समवकारे च विसर्गं नैव कारयेत् ।।
व्यायोगेहामृगौ कार्यो तथा गर्भविवर्जितौ ।। ५३ ।।
उत्सृष्टाङ्क प्रहसनं वीथी भाणकमेव च ।।
एतेषां नावकर्तव्यं तथा प्रतिमुखं नृप ।। ५४ ।।
औदार्यसत्पथं शौर्यं नायकस्तु न संत्यजेत् ।।
नायिकापि तथा राजन्यजेद्वा प्रतिनायकः ।। ५५ ।।
अतः परं प्रवक्ष्यामि नायिकाष्टकलक्षणम् ।।
निजापराधात्स्वगृहे वाससज्जा तु नायिका ।। ५६ ।।
विरहोत्कण्ठिता सैव या त्वनागतनायिका ।।
स्वाधीन भर्तृका प्रोक्ता या स्यात्स्वाधीनभर्तृका ।। ५७ ।।
कलहान्तरिता प्रोक्ता कलहाहतनायका ।।
खण्डिता या च नखरैर्युतमेति प्रगोपतिम् ।। ५८ ।।
विप्रलब्धा तु सा ज्ञेया संकेते कान्तवर्जिता ।।
प्रवासगतकान्ता तु तथा प्रोषितभर्तृका ।। ५९ ।।
एतासामुचिताकारलीलाभिर्बन्धनं घनम् ।।
नाटकादिषु रूपेषु कर्तव्यं द्वादशस्वपि ।। 3.17.६० ।।
शृङ्गारहास्यकरुणवीररौद्रभयानकाः ।।
बीभत्साद्भुतशान्ताख्या नव नाट्यरसाः स्मृताः ।।६१।।
बन्धो रसानुगः कार्यः सर्वेष्वेतेषु यत्नतः ।।
रसप्रधानमेवैतत्सर्वनाट्यं नराधिपः ।। ६२ ।।
एते कलाकौशलशीलयुक्ताः कार्यास्तथा लोक विधानयुक्ताः ।।
धर्मार्वकामाद्युपदेशगाश्च हिताय लोकस्य नरेन्द्रचन्द्र ।। ६३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वादशरूपकवर्णनो नाम सप्तदशोऽध्यायः ।। १७ ।।
3.18
।। मार्कण्डेय उवाच ।। ।।
अथ गीतलक्षणं भवति तस्य त्रीणि स्थानानि उरः कण्ठः शिरश्च, तेभ्यो मन्द्रमध्यतारोत्पत्तिः ।
त्रयो ग्रामाः । षड्जमध्यमगान्धाराः ।
सप्तस्वरा । षड्जर्षभ गान्धारमध्यमपञ्चमनिषादधैवताः
एकविंशतिमूर्च्छनाः सप्त सप्त प्रतिग्रामाश्रिताः ।
तद्यथासां नामानि सौवीरी हारिणाश्वा कलोपनता शुद्धमध्यमा मार्गी पौरवी ऋष्यका चेति ।।
एताः सप्त मध्यमग्रामिण्यः उत्तरासंज्ञाः ।
प्राञ्चिनी उत्तरायता शुद्धषड्जमत्सरीकृता अश्वक्रान्ता उद्गता च एताः सप्त षड्जग्रामिकाः ।
आलापी कुन्तिमा श्रद्धा उत्तरा षड्जा पञ्चायता. .....एताः सप्त गान्धारग्रामिकाः ।
अथैकोनपञ्चाशत्तानाः । अग्निष्टोमिकः अत्यग्निष्टोमिकः पौण्डरिकः आश्वमेधिकः राजसूयिकः वहुसुवर्णिकः गोसविकः महाव्रतिकः ब्रह्म तानः प्राजापत्यः नगाश्रयः यज्ञाश्रयः गोदानिकः हयक्रान्तः अजक्रान्तः विष्णुक्रान्तः अरण्यः मत्तकोकिलः उज्जीविकश्चेति एते विंशतिर्मध्यमग्रामिकाः ।
प्रस्वापनं पैशाचः जीवनः सावित्रः अर्धसावित्रः सर्वतोभद्रः सुवर्णः विष्णुः जिष्णुर्विष्णुवरः शारदः विजयः हंसः ज्येष्ठ इति एते चतुर्दशषड्जग्रामिकाः । तुम्बुरुप्रियः महालक्ष्मणः गन्धर्वानुमतः अलम्बुसप्रियः नारदप्रियः भीमसेनप्रियः वितानः मातङ्गः भार्गवप्रियः अभिरामः संश्राव्यः किन्नरप्रियः पुण्यः मनोहरः कल्याणकरश्चेति एते पञ्चदश गान्धारमाश्रिताः
एतच्चतुर्विधं स्वरपदलयावधानयोगात् ।
मूर्च्छनास्वादिमध्यान्ते वादिसंवाद्यन्त्यवादिसंज्ञास्तिस्रो वृत्तयः।।
पूर्वोक्ताश्च नवरसाः तत्र हास्यशृङ्गारयोर्मध्यमपञ्चमौ।
वीररौद्राद्भुतेषु षड्जपञ्चमौ । करुणे निषादगान्धारौ ।
बीभत्सभयानकयोर्धैवतम् ।
शान्ते मध्यमम् ।
तथा लयाः हास्यशृङ्गारयोर्मध्यमाः ।
बीभत्सभयानकयोर्विलम्बितः ।
वीररौद्राद्भुतेषु द्रुतः ।
चोक्षाप्रयोगः स्वरोराधने रूपकेषु प्रकरणानुगतः मन्युव्यपदेशेन ते भवन्ति।।
भवन्ति चात्र श्लोकाः ।।
ग्रहांशस्तारमन्द्रे च न्यासोपन्यास एव च।।
अल्पत्वं च बहुत्वं च षाडवोडविते तथा।।
एवमेव बुधैर्ज्ञेया जातयो दशलक्षणाः।।
अलङ्काराश्च चत्वारो भवन्ति वसुधाधिप ।।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।।
प्रसन्नमध्यश्च तथा क्रमेणैवं विनिर्दिशेत् ।।
अपरान्तकमुल्लोप्यं मन्द्रकः मकरी तथा ।।
उवेणकं सरो बिन्दुमुत्तमं गीतकानि तु।।
ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका।।
गीतमेतत्तदाभ्यासः कारणाच्चोक्षसंज्ञः ।।
संक्षेपेण मया प्रोक्तं सुराराधन कारणात् ।।
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।।
देवस्यानुचरो भूत्वा तेनैव सह मोदते ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० गीतलक्षणो नामाष्टादशोऽध्यायः ।। १८ ।।
3.19
मार्कण्डेय उवाच ।।
अथातोद्यविधानम् ।।
चतुर्विधमातोद्यं ततं सुषिरं घनमवनद्धं च ।
ततं वीणादि, शुषिरं वंशादि घनं तालादि अवनद्धं मुरजादि तत्र स्वरास्तुल्याः शारीरा वैणवाश्च।
तद्वद्वंशा किन्तु यथा शरीराणामा रोहावरोहणे तथा वैणवानां वंशानां विपर्ययात् तालः कालप्रयोज्यः ।
पञ्चलघ्वक्षरोच्चारणकलामात्रास्तिस्रो वृत्तयः ।
चित्रा वृत्तिर्दक्षिणा द्विधा ।
मात्राकलाचित्रे चतुर्मात्रावृत्तौ अष्टमात्रा दक्षिणाया ।
अष्टमात्रादक्षिणे अवया निष्क्रयो विक्षेपः प्रवेशः शम्पातालः संनिपातभेदः ।
कलासमूहो युक्तः ।
चपुटस्थः अयुक् चञ्चत्पुटलः प्लुतान्तः पञ्चपाणिः ख इति तापुत्रा यथाक्षरस्थः ।
तत्र लयाः द्रुतमध्यविलम्बिताः ।
लयवत्तालः ।
प्रकरणं द्विविधम् । कुलकं च्छेद्यकं च ।
अथावनद्धं तत्र पौष्करवत्क्वणान्वितं करुणान्वितम् ।
तत्र षोडशाक्षराणि क ख ग घ ट ठ ड ण त थ द ध य र ल व इति, तत्र कटरथउगादिदक्षिणमुखे, घधमा वामे, गदकारा मृर्ध्निः टणलहा आलिङ्गे अआइउएओ अइ च ओ यथायोगं खगधा नां रेफेण योगः ।
कहभदानां णलथवः ।
समहस्तनिपातादङ्गुलीप्रचलनोर्धवामैकयोः समहस्तनिपातप्रदेशिनी तद्वद् डल्लानां योगः समपाण्यर्ध पाणिरदीर्घपाणिरेकपाणिः द्विहस्तप्रदेशिनीप्रहतानि समपाणिप्रहतोपकार घथगडराअध्यर्धपाणौ कथकारा।
अध्यर्धपाणौ ठणलहास्नहाद्विहस्तेन तलप्रदेशिनीप्रहते अहितवितस्तालिप्तगोमुखीमार्गाः शृङ्गारहास्ययोरंधितः ।
वीररौद्राद्भुतेषु वितस्तः करुणाशान्तयोरालिप्तः ।
बीभत्सभयानकयोर्गोमुखदर्दुरपणवयोर्मृदङ्गानुगमनं भवति ।
भवन्ति चात्र नेपथ्यभवनद्वारासमानरङ्गाभिवीक्षणम् ।
मुरजाः पृष्ठतस्तेषां तद्वन्मार्जनिका भवेत् ।।
याम्यतस्तस्य विज्ञेयो दर्दुरः पणवस्तथा ।।
उत्तराभिमुखो गाता तथा दक्षिणतो भवेत् ।।
वामतो गैरिकस्तस्य दक्षिणे वंशवादकौ ।।
गातुरेवाभिमुख्येन गायकानां निवेशनम् ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आतोद्यविधिर्नामैकोनविंशोऽध्यायः ।।१९ ।।
3.20
परस्यानुकृतिर्नाटयं नाट्यज्ञैः कथितं नृप ।।
तस्य संस्कारकं नृत्तं भवेच्छोभाविवर्धनम् ।। १ ।।
नृत्यं तु द्विविधं प्रोक्तं नाट्यलास्याश्रयं सदा ।।
द्वैविध्यं द्विविधस्यापि पुनरुक्तं नराधिप ।। २ ।।
अभ्यन्तरञ्च बाह्यं च बाह्यं लक्षणवर्जितम् ।।
अभ्यन्तरं लक्षणवन्मङ्गल्यं तत्प्रयोगतः ।। ३ ।।
लास्यं स्वच्छन्दतः कार्यं मण्डपे यदि वा बहिः ।।
नाट्यं मण्डप एव स्यान्मण्डपं द्विविधं भवेत् ।। ४ ।।
आयतं चतुरस्रं तु द्वात्रिंशद्धस्तसम्मितम् ।।
चतुरस्रं न कर्तव्यमायतं द्विगुणायतम् ।। ५।।
हीनाधिकं न कर्तव्यं दृष्टादृष्टशुभप्रदम् ।।
हीने भवति सम्मर्दो विस्तीर्णे नाट्यगेययोः ।। ६ ।।
व्यक्तिर्नैवोपपद्येत तस्मात्तौ परिवर्जयेत ।।
आदावेव तु कर्तव्यं त्रिदशानां तु पूजनम् ।। ७ ।।
पूजनं जर्जरस्यापि वास्तुदैवतपूजनम् ।।
एवं कृत्वा ततो नाट्यं नान्दीपूर्वकमिष्यते ।। ८ ।।
ततो जवनिकाक्षेपैः प्रतिपात्रप्रवेशनम् ।।
प्रवेशनिर्गमौ कार्यौ कृत्वा कार्यस्य सूचनम् ।। ९ ।।
पुष्पाञ्जलिः प्रदातव्या नाट्यान्ते वास्तुपूजनम् ।।
पाठ्ये गीते समासक्तः पात्रतुल्यः परिक्रमः ।।3.20.१०।।
चतुष्कलो नायकानां मध्यानां त्रिकलो भवेत ।।
द्विकलश्चाधमानां स्यान्मध्यमे नृपकर्मणि ।। ११ ।।
एकाधिकोनं सर्वेषां कर्तव्यं कार्ययोगतः ।।
देवा वीरोद्धता ज्ञेया उद्धता दानवादयः ।। १२ ।।
नृपाश्च धीरललिता धीरास्तदनुजीविनः ।।
प्रशान्तधीरा ऋषयः प्रशान्तास्तत्पदानुगाः ।। १३ ।।
धीरोदात्तास्तथा विप्रा उदात्ता वणिजो मताः ।।
एवंविधाश्च कथिता एतेषामेव योगतः ।। १४ ।।
आहर्यः सात्त्विकश्चैव याचिकोंगिक एव च ।।
चतुष्प्रकारोऽभिनयः कर्तव्यो नाट्यकर्मणि ।। १५ ।।
आहार्यः प्रतिशीर्षादिर्द्विकृतो वेश उच्यते ।।
धीरोद्धतानां वेशः स्यान्न चात्यर्थसमुल्बणः ।। १६ ।।
उद्धतश्चोद्धतानां स्याद्राज्ञां ललित इष्यते ।।
प्रतिनायकवेशस्तु कर्तव्यश्च तथोद्धतः ।। १७ ।।
अन्येषां सदृशो वेशो देशकर्माश्रयो भवेत् ।।
अश्वादयश्च कर्तव्याश्चर्मकाष्ठादिभिः समाः ।। १८ ।।
अतः परं प्रवक्ष्यामि सात्त्विकाभिनयं तव ।।
अश्रुप्रपातरोमाञ्चस्वेदनं स्पन्दनं तथा।।१९।।
तथा च वर्णविन्यासैः सात्त्विकाभिनयो भवेत्।।
वाचिको वाचया प्रोक्तो वक्ष्याम्यंगिकमुत्तरे ।।3.20.२०।।
नाट्यवृत्तं तु कर्तव्यं हर्षस्थाने सदा बहु ।।
शोकस्थाने न कर्तव्यं किञ्चिद्वा कारयेत्ततः ।।२१।।
चतुर्धा रेचकं प्रोक्तं कटिपादांघ्रिकाश्रयम् ।।
चातकान्या महाचारी चारी च द्विविधा मता ।। २२ ।।
सुकुमाराङ्गः वाक्चेष्टा चारी भवति यादव ।।
एतैरभ्यर्थितैर्ज्ञेया महाचारी नरेश्वर ।। २३ ।।
मण्डलानि दशैवास्य चारीसंयोगजानि तु ।।
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम्।। ।। २४ ।।
सूचीविद्धं दण्डपादं विकृतालातसंज्ञिते ।।
वामबद्धं सललितं क्रान्तं चाकाशगानि तु ।। २५ ।।
मण्डलानि दशान्यानि शृणु भौमानि पार्थिव ।।
भ्रमरास्कन्दिते स्यातां मार्दवं च ततः परम् ।। २६ ।।
समा सरितमित्याहुरेडकाक्रीडितं यथा ।।
अड्डितं शकटाख्यं च तथाहार्यमिति स्मृतम् ।। २७ ।।
पिष्टकुब्जं च विज्ञेयं तथा चापगतं पुनः ।।
अथाङ्गहारान्वक्ष्यामि नामतस्तान्निबोध मे ।। २८ ।।
स्थिरहस्तोङ्गहारस्तु तथैवाक्षिप्तकः स्मृतः ।।
उद्घाटितस्तृतीयः स्यात्तथा चान्योऽपराजितः ।। २९ ।।
मत्ताक्रीडोऽथ विष्कम्भः तथा स्वस्तिकरेचितः ।।
वृश्चिकापसृतश्चैव तलमन्दा च सर्पितः ।। 3.20.३० ।।
मतल्लीस्खलितश्चैव भ्रमरः पार्श्वस्वस्तिकः ।।
मदाद्विलसितश्चैव विक्षिप्तो गतिमण्डलः ।। ३१ ।।
वैशाखरेचितश्चैव परिवृत्तकरेचितः ।।
उद्वर्तकः परिच्छिन्नो रेचकोऽथ बलाहकः ।। ३२ ।।
सम्भ्रान्तो वाङ्गिकश्चैव इति क्रीडो ह्यलातकः ।।
विद्युद्भ्रान्तः परावृत्तः पार्श्वच्छेदसमन्वितः ।। ३३ ।।
आक्षिप्तो रेचितश्चैव सौम्योऽथ करितस्तथा ।।
सूचीविद्धोऽपविद्धश्च विलापोवनिकुट्टितः ।। ३४ ।।
षट्त्रिंशदेते संप्रोक्ता ह्यङ्गहारा यदूत्तम ।।
एतेषां संप्रवक्ष्यामि कारणानि यथाक्रमम् ।।
हस्तपाद प्रचारश्च यथा योज्यः प्रयोक्तृभिः ।। ३५ ।।
सर्वेषामङ्गहाराणां निष्पत्तिः कारणं भवेत् ।।
तान्यहं संप्रवक्ष्यामि नामभिः कर्मभिस्तथा ।। ३६ ।।
हस्तपादसमायुक्तो नृत्तस्य करणं भवेत ।।
द्वे नृत्यकरणे चैव भवेतां नृप मातृका ।। ३७ ।।
त्रिभिः कलापकश्चैव चतुर्भिः खण्डकः स्मृतः ।।
पञ्चैव करणानि स्युः संज्ञाघात इति स्मृतः ।। ३८ ।।
षङ्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा ।।
करणैरिह संयुक्ता अङ्गहारा इति स्मृताः ।। ३९ ।।
एतेषां चैव वक्ष्यामि नामान्यहमतः परम् ।।
तालपुष्पापविद्धे द्वे लीनस्वस्तिकरेचितम् ।। 3.20.४० ।।
मण्डलं स्वस्तिकं चैव ऊरु वृत्तं निकुण्डकम् ।।
सूचीविद्धं कटिच्छिन्नमर्धरेचितमेव च ।। ४१ ।।
वक्षः स्वस्तिकमुत्पन्नं स्वस्तिकं पृष्ठगं पुनः ।।
दिक्स्वन्तिकमलाताख्यमर्धसूचीकटीसमम्।।४२।।
आक्षिप्तरेचितं क्षिप्रमर्धस्वस्तिकसञ्चितम्।।
भुजङ्गवासितं चैव ऊर्ध्वजानु निकुञ्चितम्।।४३।।
मतल्ली त्वर्धमतल्ली स्याद्रेचकनिकुण्टकम् ।।
पारविद्धं तडिद्धान्तं वलितं चूर्णितं तथा ।।४४।।
ललितं दण्डपक्षं च भुजङ्गत्रस्तरेचितम्।।
नूपुरं रेचितं चैव भ्रमरं चतुरं तथा।।४५।।
भुजङ्गाञ्चितमन्यत्स्याच्छिन्नं वृश्चिकरेचितम् ।।
लतावृश्चिकमन्यत्स्याच्छिन्नं वृश्चिकरेचितम् ।।४६।।
वृश्चिकं व्यंसितं चैव सूचीविद्धकमेव च ।।
ललाटतिलकं चैव कुण्डलं चक्रमंडलम् ।।४७।।
तरोर्मण्डलमाक्षिप्तं लतालसितमार्गलम ।।
विक्षिप्तं भ्रमितं चैव विलासं वानरप्लुतम्।।४८।।
परिवृत्तं निवृत्तं च पार्श्वाक्रान्तं निकुञ्चितम् ।।
अतिक्रान्तमवक्रान्तं दोलापादविवर्जितम् ।।४९।।
नागप्रक्रीडितं चैव विप्लुतं गरुडप्लुतम् ।।
गण्डसूची परिक्षिप्तं पार्श्वजानुकमेव च ।। 3.20.५० ।।
गृहावलीनकं लीनं विष्णुक्रान्तमजप्लुतम् ।।
आक्रान्तं मण्डितं चैव मयूरलसितं नसम् ।। ५१ ।।
सर्पितं चोलपादं च हरिणप्लुतमेव च ।।
प्रेङ्खालितं नितम्बं च स्खलितं परिहस्तकम् ।। ५२ ।।
असर्पिततलं चैव सिंहविक्रीडितं तथा ।।
वृषभ क्रीडितं चैव गङ्गावतरणं तथा ।। ५३ ।।
अष्टोत्तरशतं चैव करणानां प्रकीर्तितम् ।।
सुकुमारं तथा विद्धं वृत्तं द्विविधमुच्यते ।।५४ ।।।
उद्धृतं पुरुषप्रायं स्त्रीप्रायं सुकुमारकम् ।।
देवचिह्नकृताकारा पिण्डी भवति पर्थिव ।। ५५।।
भारती सात्त्वती चैव कौशिक्यारभटी तथा ।।
चतस्रो वृत्तयः प्रोक्ता वाक्प्रधाना तु भारती ।। ५६ ।।
तथा वीररसप्राया विज्ञेया सात्त्वती नृप ।।
तथा रौद्रप्रचारा च भवत्यारभटी सदा ।। ५७ ।।।
शृङ्गारहास्यबहुला तथा भवति कौशिकी ।।
आवन्ती दाक्षिणात्या च तथा चैवात्र मागधी ।। ५८ ।।
पञ्चाली मध्यमा चेति वृत्तिः सा तु चतुर्विधा ।।
वेषभाषानुकरणं तथाचारप्रवर्तनम् ।। ५९ ।।
प्रवृत्तिरिति विख्याता वृत्तीनामाश्रयास्तु ताः।।
नाट्यलोकाश्रया धर्मि धर्माश्च द्विविधा मता ।। 3.20.६० ।।
सिद्धिश्च द्विविधा नाट्ये दैविकी मानुषी तथा ।।
व्यायामान्मानुषी तत्र दैवी देवप्रसादजा ।। ६१ ।।
रसेन भावेन समन्वितं च तालानुगं काव्यरसानुगं च ।।
गीतानुगं नृत्तमुशन्ति धन्यं सुखप्रदं धर्मविवर्धनं च ।। ६२ ।। ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्यवर्णनो नाम विंशोऽध्यायः ।। २० ।।