विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०११-०१५

विकिस्रोतः तः
← अध्यायाः ६-१० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ११-१५
वेदव्यासः
अध्यायाः १६-२० →

3.11
मार्कण्डेय उवाच ।।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा मतिः पुष्टिः सरस्वती ।।
स्मृतिः श्रद्धा रतिश्चैव धृतिर्नीतिः स्थितिः श्रुतिः ।। १ ।।
रात्रिः प्रभा क्षपा दीप्तिः शाला माला निशा स्पृहा ।।
दोला हेला तथा लीला यामिनी क्षणदाचरा ।। २ ।।
यात्रा भस्त्रा द्युतिर्मात्रा दंष्ट्रा सेना वचा तथा ।।
कुटिः खोरी दया ज्योत्स्ना सीमा वेणिस्तथैव वाक् ।।३ ।।
तनुर्धूलिः शलाका च ग्रीवा भ्रूश्च शरत्तथा।।
दरः प्रावृट् चाचमनी स्थूणा चूडा सिरा वसा ।।४।।
कक्ष्या सप्ता सुरा जंघा जटा घण्टा कशा तथा ।।
विद्युत्कक्षा सरिद्वल्लीरिषीका रज्जुरिष्टका ।। ५ ।।
दिग्भूर्भूमिर्मही क्षोणी क्षपा चैव वसुन्धरा।।
छाया चमूर्वालुका च तथा विद्युद्विपत्सरित् ।।६।।
इरा सम्पदवापश्च लीला वेला तला शिला ।।
कला च मेखला ज्वाला सेना दद्रुर्वली समा ।।७।।
ज्या च म्लानिस्तथा हानिः शाटी स्वाहा तथैव गीः ।।
धीर्वृद्धिर्धूः क्षमा बुद्धिः क्षुत्क्षमाशीः सवालुका।।८।।
विंशतेर्नवतिर्यावत्क्रोडास्वदुशिरोधरा ।।
माया च शष्कुली जिह्वा घटोत्का स्नायुरेव च ।।९।।
लेखा जरा तथा पङ्क्तिस्त्रेता प्रावृडरोचका ।।
लाक्षा कण्डूः प्रियंगुश्च माण्डिका कटिरौषधिः ।। 3.11.१० ।।
ऋक्स्फुलिङ्गा कलिः शय्या कोटिः कन्या च नालिका।।
निःश्रेणिः पृतना दीप्तिर्निद्रा तन्द्रा गुहा रुचिः ।। ११ ।।
साम्ना दाम्ना तथा वीथी नीविर्धारा तथा कृषिः ।।
मंजूषा पर्षदश्चैव पताका काकिनी कृपा ।। १२ ।।
पेला चैव समंजिष्ठा भेरी नेमिर्मनःशिला ।।
दर्वी स्थाली सभा वीचिः स्थली चैव समञ्जरी ।।१३।।
वल्लरी मन्दुरा लाक्षा सूची चाधिषणा शमी ।।
मक्षिका विकृतिर्यूका शिखा शाखा तथाटवी ।। १४ ।।
स्त्रीवृत्तयस्ते कथिता मयैते शब्दाः समासस्त्वयमत्र राजन् ।।
इदं तमानन्त्यमुशंति सर्वं स्त्रीवाचकं शब्दमुशन्ति धीराः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अभिधानकोशे स्त्रीलिङ्गनिर्देशो नामैकादशोऽध्यायः ।। ११ ।।
3.12
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि यदुवंशविवर्धन ।।
तव पुंवाचकाञ्शब्दाञ्शृणु तान्गदतो मम ।। १ ।।
राजा कृताक्षमूर्धात्मा पायुश्लेष्माश्मपूरणः ।।
मज्जा प्लीहा च कथिता नाताद्यस्काः पुमर्थकाः ।। २ ।।
वृत्रः पुत्रस्तथा मन्त्रस्तथैवामन्त्र इष्यते ।।
पुंसि राशिर्मुहुर्तश्च मासः पक्षोऽब्दवत्सरौ ।। ३ ।।
ऋतुः कालो गिरिः शैलः शिलोच्चयत्तुगाचलाः ।।
सुरासुराणां संज्ञाश्च याश्च प्रोक्ता महोदधेः ।। ४ ।।
संवत्सरश्च दिवसो ग्रहो वासर एव च ।।
पर्यायः पङ्कशरयोररिनिस्त्रिंशयोरपि ।। ५ ।।
पुत्रपर्यायशब्दाश्च पितृपर्यायसंयुताः ।।
कण्ठबाह्वोस्तथा संज्ञाः स्तनकेशरदस्य च ।।६।।
गुल्फनामानि कर्णश्च हनुः प्रश्नो विधिर्निंधिः ।।
कपोलनामानि तथा निर्घोकेक्षुककेलयः ।। ७ ।।
कलिर्विघ्नो घटो जूटः पटः पायुः कुशोंऽकुशः ।।
बिन्दुः स्वरः कुठारश्च पण शाणौ च पर्पटः ।। ८ ।।
वटो बन्धः पुटो मृत्युर्मन्युः शोणः किणः फणः ।।
गुणश्चूर्णो गणः पन्था अध्वाङ्गुः पूग एव च ।।९ ।।
कमण्डलुः पलां डुश्च गण्डः स्थूलश्च कङ्कटः ।।
प्रस्थः शङ्खो रथश्चैव रसो वर्गस्तुषो बुधः ।। 3.12.१० ।।
यवो माषस्तथा शब्दः स्पर्शो गन्धः शठो वणिक् ।।
करीषस्तरलो मेढ्रो रथो मण्डप एव च ।। ११ ।।
नरको नूपुरश्चैव समुद्गी लोक एव च ।।
काषार्षयः कोणमुसलौ कुसूलः शूर्पदर्दुरौ ।।
पञ्च पिण्याकशूर्पाश्च वातदण्डांकुरांकुशाः ।। १२ ।।
कुणयः प्रोथयूथौ च कुन्तदर्पणवेणुकाः ।।
ध्वजो वंशस्तथा वेणुः क्रिमिकल्कर्षिकर्दराः ।। १३ ।।
पुस्तकश्चाध्वरो व्रीहिरम्बुदोञ्जन एव च ।। १४ ।।
स्तंभः पशुर्घर्मनिदाघकुम्भाः कटाहयूपस्तबकाः सफेना ।।
नितम्बषण्ढक्षुपसूपयूपाः पुंसि स्मृता यादववंशमुख्य ।! १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽभिधानकोशे पुंवर्गनिर्देशो नाम द्वादशोऽध्यायः ।। १२ ।।
3.13
मार्कण्डेय उवाच ।।
अन्त्यलिङ्गेऽथ वर्तन्ते ये शब्दा नृपसत्तम ।।
तानहं संप्रवक्ष्यामि शृणुष्व गदतो मम ।। १ ।।
जलनामानि सर्वाणि विनापो यदुसत्तम।।
भ्रान्ताश्च पूर्वं येनोक्तास्ते नपुंसकवृत्तयः ।। २ ।।
द्व्यृचो नान्तास्तथा ये च नोक्तास्ते यदुसत्तम ।।
असत्यं च धनं सर्वं जरसोऽन्यत्र यादव ।। ३ ।।
नपुंसके च वर्तन्ते शब्दा लोचनवाचकाः ।। ४ ।।
सर्वाणि पुष्पनामानि कथितानि नपुंसके ।।
शरीरमस्थि दधि च सक्थि वा गुदजानुनी।।५।।
श्मश्रुकूले कुलं पर्णं लोहनामानि यानि च ।।
अहर्निशं शकृत्सक्थि धनुः शोणितदारुणी ।।६।।
क्षीरं विषामृते षण्डं फलमूलमलानि च ।।
पुरं मधु खलं नालं चीवरं चीरमम्बरम् ।। ७।।
गगनं घनमाकाशं सुखदुःखपदानि च ।।
कूपबीजेऽथ पललं तल्पसद्म शवानि च।।८।।
निमित्तचित्तपित्तौघतक्रशुक्रभयानि च।।
तीर्थपञ्जरचेलानि फलद्वन्द्वाक्षराणि च ।। ९ ।।
धान्यश्मशानरत्नाग्रतल्परत्नयुगानि च ।।
गोपपत्तनसैन्यार्धमङ्गलायुधखानि च ।। 3.13.१० ।।
नगरं हरितालं च तिमिरं पलितं विषम् ।।
श्मशानं मिथुनं तत्त्वं किल्बिषं विदलं हिमम् ।।११।।
वृन्दं कुतूहलं शीधु शरावं शिखरं पलम् ।।
वृत्तं च मुकुटं पण्यं मलमंशुकमेव च ।। १२ ।।
इंद्रियं युगलं कूटं कपालं शूलशेखरे ।।
पातालं विवरं रन्ध्रं छिद्रमाकाशमेव च ।। १३ ।।
तृणं शुभ्रमिरं चैव कुङ्कुमं शुष्कचीवरम् ।।
मृणालमजितं खड्गं तुहिनं द्वारमास्पदम ।। १४ ।।
राष्ट्रं तलं किट्टकफे तथायुः स्थूलं खलीनं पललं पलालम् ।।
काष्ठं रणं पार्श्वकुकुन्दरे च सन्देहके चेव नपुंसकं स्यात् ।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे नपुंसकविधौ त्रयोदशोऽध्यायः ।। १३ ।।
3.14
मार्कण्डेय उवाच ।।
एकैकस्य तु वर्णस्य विन्यासो यः पुनःपुनः ।।
अर्थगत्या तु संख्यातमनुप्रासं पुरातनैः ।। १ ।।
अत्यर्थं तत्कृतं राजन्ग्राम्यतामुपगच्छति ।।
शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ।। २ ।।
आदौ मध्ये तथैवान्ते पादस्य तु तदिष्यते ।।
संदष्टकसमुद्राख्यौ तथैव यमकौ मतौ ।। ३ ।।
समस्तपादयमकं दुष्करं परिकीर्तितम् ।।
उपमानेन तुल्यत्त्वमुपमेयस्य रूपकम् ।। ४ ।।
रूपकाभ्यधिकं नाम तदेवैकगुणाधिकम् ।।
गुणानां व्यतिरेकेण व्यतिरेकमुदाहृतम् ।। ५ ।।
उपमानविरुद्धैश्च गुणैस्तदपरं मतम् ।।
द्वित्र्यर्थं वाचकैः शब्दैः श्लेष इत्यभिधीयते ।। ६ ।।
अन्यरूपस्य चार्थस्य कल्पना यान्यथा भवेत् ।।
उत्प्रेक्षाख्यो ह्यलङ्कारः कथितः स पुरातनैः।।७।।
उपन्यासस्तथान्यः स्यात्प्रस्तुताद्यः क्वचिद्भवेत्।।
ज्ञेयः सोर्थान्तरन्यासः पूर्वार्थानुगतो यदि ।। ८ ।।
उपन्यासेन वान्यस्य यदन्यः परिकीर्त्यते ।।
उपन्यासमलङ्कारं तं नरेन्द्र प्रचक्षते ।। ९ ।।
हेतुं विना वितततां प्राप्ता सा तु विभावना ।।
प्रोक्ता चातिशयोक्तिस्तु ह्यतुलैरुपमागुणैः ।। 3.14.१० ।।
यथा स्वरूपकथनं स्वभावोक्तिः प्रकीर्तिता ।।
भूयसामुपदिष्टानां निर्देशः क्रमशस्तथा ।। ११ ।।
यथासंख्यमिति प्रोक्तमलङ्कारः पुरातनैः ।।
विशेषप्रापणादुक्ता विशेषोक्तिस्तथा नृप ।। १२ ।।
या क्रिया चान्यफलदा विरोधस्तु स इष्यते ।।
स्तुतिरूपेण या निन्दा निन्दास्तुतिरिहोच्यते ।। १३ ।।
निन्दास्तुतिस्तथैवोक्ता निन्दारूपेण या स्तुतिः ।।
वस्तुना रूप्यमाणेन दर्शनं तन्निदर्शनम् ।। १४ ।।
विना तथा स्यादुपमा तु यत्र तेनैव तस्यैव भवेन्नृवीर ।।
अनन्वयाख्यं कथितं पुराणैरेतावदुक्तं तव लेशमात्रम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अलङ्काराध्यायो नाम चतुर्दशोऽध्यायः ।। १४ ।।
3.15
मार्कण्डेय उवाच ।।
धर्मार्थकाममोक्षाणां शास्त्रं स्यादुपदेशकम् ।।
पूर्वैराचरितं सद्भिर्धर्मकामार्थसाधकम् ।। १ ।।
मोक्षस्य यत्रोपन्यास इतिहासः स उच्यते ।।
तदेव काव्यमित्युक्तं चोपदेशं विना कृतम् ।। २ ।।
एकस्य चरितादेव तथा काव्यं प्रकीर्तितम् ।।
निबद्धो यत्र राजेन्द्र नायकप्रतिनायकौ ।।३।।
प्रयाणोद्यतसंप्रेषयुद्धयुक्तं तदेव तु ।।
नायकाभ्युदयोपेतं महाकाव्यं तदिष्यते ।।४।।
वर्णयेच्च महाकाव्ये देशपत्तनपार्थिवान् ।।
ऋत्वद्रिनिम्नगाश्चैव तथा नारीश्च पार्थिव ।।५।।
वर्णनीयौ तथैवात्र नायकप्रतिनायकौ ।।
नायको धर्मविजयी सताम्पन्थानमाश्रितः।।६।।
तथा च लोकविजयी विज्ञेयः प्रतिनायकः ।।
प्रतिनायकघातस्तु वक्तव्यो नेतरस्य तु ।। ७ ।।
नायकस्य महाराज मरणं नैव वर्णयेत् ।।
सशरीरस्य यस्य स्यात्संप्राप्तिस्तस्य वर्णयेत् ।। ८ ।।
छन्दोविरहितं गद्यं शब्दशास्त्रविरोधि च ।।
कष्टाक्षरपदन्यासमश्लीलवचनान्वितम् ।। ९।।
तस्मादुल्लक्ष्यवाक्यार्थमप्रसिद्धाभिधानवत् ।।
काव्यबन्धं न कर्तव्यं पुनरुक्तं च यद्भवेत् ।। 3.15.१ ० ।।
विस्मये वाभ्यसूयायां भयशोकत्वरासु च ।।
हर्षे च वीप्सा कर्तव्या पुनरुक्तं न तद्विदुः ।।११।।
दूतवाक्ये तथा स्वप्ने कार्यगत्या तथागते।।
पुनर्वर्धननिर्देशे पुनरुक्तं च तद्विदुः ।। १२ ।।
ससंशयं न वक्तव्यं प्रतिज्ञारहितं तथा ।।
पूर्वापरविरुद्धं च यच्च लोकविगर्हितम् ।। १३ ।।
शृङ्गारहास्यकरुणारौद्रवीरभयानकैः ।।
बीभत्साद्भुतशान्ताख्यै रसैः कार्यं समन्वितम् ।। १४ ।।
काव्यं कलाकौशलसंप्रयुक्तं धर्मेण चार्थेन तथोपपन्नम् ।।
धर्मेण युक्तस्य च नायकस्य कार्यं तथा चाभ्युदयान्तमेव ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाकाव्यलक्षणं नाम पञ्चदशोऽध्यायः ।। १५ ।।