विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ००६-०१०

विकिस्रोतः तः
← अध्यायाः १-५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ६-१०
वेदव्यासः
अध्यायाः ११-१५ →

3.6
मार्कण्डेय उवाच ।।
अथ तन्त्रयुक्तयो भवन्ति अधिकरणं योगः पदार्थः हेत्वर्थ उद्देशो निदेशः प्रदेशोतिदेशः अपवर्गो वाक्यविशेषोर्थापत्तिः प्रसंग एकान्तो नैकान्तः पूर्वपक्षो निर्णयो विधानपर्यायोतिक्रान्तावेक्षणं संशयो व्याख्यानमनुमतिस्वसंज्ञानिर्वचनं दृष्टान्तो वियोगो विकल्पः समुच्चयोर्थ इति ।
तदधिकरणं येन वाक्यार्थो युज्यते संयोगो योर्थो विकृतसूत्रपदं स पदार्थो यदन्यत युक्तिमदर्थस्य साधनं स हेत्वर्थः ।
समासवचनमुद्देशो विस्तरवचनं निर्देश एवमेवेत्युपदेशोनेन कारणेनेत्यपदेशः ।। प्रकृतस्यानागतेन साधनं प्रदेशोतिक्रामणेन सति देशोभिप्रायानुकर्षणमपवर्गो येनार्थः परिसमाप्यते ।
पदेनाहार्येण स वाक्यशेषो यदकीर्तितमर्यादामापद्यते सार्थापत्तिः । प्रकरणाभिहितोक्तः केनचिदुपोद्धातेन पुनरुद्दिश्यमानः प्रसंगः सर्वत्र यत्तथा स एकान्तः क्वचित्तथा क्वचिदन्यथासावनेकान्तः प्रतिषेधवचनं निर्णयः प्रकरणानुपूर्वं विधानं तस्य प्रातिलोम्यं विपर्यय इत्युक्तम्।।
अतिक्रान्ताय क्षणं परत्र वक्ष्यामि इत्यनागतावेक्षणमुभयतो हेतुदर्शनं संशयः तत्रातिशयवर्णनातिव्याख्यानं परमतमप्रतिषिद्धमनुमतं परैरसंमतः शब्दः स्वसंज्ञा लोके प्रती तमुदाहरणं निर्वचनं तद्युक्तिनिदर्शनं दृष्टान्त एवेति नियोग इदं वेदं वेति विकल्प इदं चेदं चेति समुश्चयोत्र यदनिर्दिष्टं युक्तिगम्यं तदू ह्यमिति ।।
प्रयोजनं संशयनिर्णयौ च व्याख्याविशेषो गुणलाघवश्च ।।
कृतव्युदासो कृतशासनं च सांवर्तिको धर्मगुणोष्टकश्च ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रशुद्धिर्नाम षष्ठोऽध्यायः ।। ६ ।।
3.7
।। मार्कण्डेय उवाच ।।
अथातः संप्रवक्ष्यामि तव प्राकृतलक्षणम् ।।
ऋ ऋॄ लृ लॄ न संत्यत्र नष्मा न च मषावुभौ ।। १ ।।
सकारहीना च तथा नासिक्याश्च तथा नृप ।।
रेफश्च शयवा राजन् संयोगे नास्ति कर्हिचित् ।। २ ।।
एकारश्च तथौकारः पदमध्ये महाबलः ।।
दृढयोगे वकारोत्र डगयोगे तथैव च ।।३।।
गययोगे गकारोऽत्र लोप मायाति नित्यदा ।।
दमौ युक्तौ पृथक् कृत्वा दुमौ कार्यौ तथैव च ।। ४ ।।
ऋतयोगे दकारस्यात्तकारस्त्वभिधीयते ।।
ककारः पदमध्योत्र वक्तव्यो हल्विवर्जितः ।। ५ ।।
नकारस्य णकारः स्यात्क्षकारस्य ख इष्यते ।।
तकारश्च थकारश्च ज्ञकारश्च ण एव च ।। ६ ।।
क्वचित्क्वचित्स्या त्तदा हकारश्च तथा क्वचित् ।।
क्षकारस्य तु वक्तव्यं वांकारस्य ह इष्यते ।। ७।।
चकारस्य छकारः स्थात्युकरे हल् च लुप्यते ।।
युक्ते षकारे तद्धीभे हकारोऽपि विधीयते ।। ८ ।।
चतुर्थो नात्र विज्ञेया न च द्विवचनं क्वचित् ।।
पदादौ यो गुरुः सोत्र लघुरेव विधीयते ।। ९ ।।
द्विमात्रमेतदुद्दिष्टं मध्या प्राकृतलक्षणम् ।।
प्रयोगादनुकर्तव्यो विस्तरो ह्यतिविस्तरः ।।3.7.१०।।
देशेषु देशेषु पृथग्विभिन्नं न शक्यते लक्षणतस्तु वक्तुम् ।।
लोकेषु यत्स्यादपभ्रष्टसंज्ञं ज्ञेयं हि तद्देशविदोधिकारम् ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्राकृतभाषालक्षणं नाम सप्तमोऽध्यायः ।। ७ ।।
3.8
मार्कण्डेय उवाच ।।
देवा दिवौकसो दिव्या गीर्वाणास्त्रिदशाः सुराः ।।
हरिर्जनार्दनो विष्णुर्वासुदेवस्त्वधोक्षजः ।। १ ।।
नारायणो हृषीकेशश्चक्री गरुडवाहनः ।।
बलः संकर्षणोऽनन्तः शेषस्तालध्वजो हली ।। २ ।।
प्रद्युम्नः कामदेवश्च चापी मकरकेतनः ।।
खङ्गायुधोऽनिरुद्धश्च तथा वै ऋष्यकेतनः ।।३।।
लक्ष्मीः करीषिणी श्रीश्च तथा देवी विभावरी ।।
चक्रः सुदर्शनः प्रोक्तः शार्ङ्गं चापस्तु वैष्णवम्।।४।।
माहेश्वरं पिनाकाख्यं वारुणं गण्डिवं भवेत् ।।
शाक्रमाजगवं प्रोक्तं वज्रः कुलिश उच्यते ।। ५ ।।
वैष्णवी तु गदा प्रोक्ता तथा कौमोदकी नृप ।।
हलो ललाम इत्युक्तः सानन्दं मुसलं स्मृतम् ।। ६ ।।
पाञ्चजन्यः स्मृतः शङ्खः यं बिभर्ति जनार्दनः ।।
करेऽस्य कमलं प्रोक्तं तथास्त्रालोक्यसंज्ञितम् ।। ७ ।।।
भूमिर्वसुंधरा पृथ्वी क्षमा क्षोणी धरा मही ।।
नभः खं गगनं चैव तथाकाशं हरेः क्रमम् ।। ८ ।।
तार्क्ष्यः सुपर्णो गरुडो हरिकेतनवाहनः ।।
नागानंतो हलधरः शेषः तालध्वजी हली ।। ९ ।।
ब्रह्मा पितामहः शंभुः स्वयंभूर्भूतभावनः ।।
महादेवो भवः शंभुस्त्र्यंबकः पार्वतीपतिः ।। 3.8.१० ।।।
उमा सती पर्वतजा मेनकाजा तथोच्यते ।।
भद्रकाली स्मृता दुर्गा गणाश्च प्रमथाः स्मृताः ।। ११ ।।
विनायको गणपतिः कुमारः स्कन्द इष्यते ।।।
इन्द्रः शक्रः कौशिकश्च पुरुहूतः पुरन्दरः ।। १२ ।।
अग्निर्वैश्वानरो वह्निर्जातवेदो हुताशनः ।।
विवस्वतो यमश्चैव कीनाश प्रेतनायकः ।। १३ ।।
विरूपाक्षो निर्ऋतिश्च तथा रात्रिंचराधिपः ।।
यादसामीश्वरो देवः प्रचेता वरुणोंबुपः ।।१४।।
तोयमंबु जलं चापः पानीयं सलिलं पयः ।।
वायुः समीरणो वातः पावनः सर्वगोऽनिलः ।। १५ ।।
राजराजो धनाध्यक्षस्तथैवैडविडः स्मृतः ।।
ईशानः शङ्करः शर्वः तथा पशुपतिः शिवः ।। १६ ।।
नासत्यावश्विनौ प्रोक्तौ वसवो वसुसंज्ञिताः ।।
तथैवांगिरसो नागा विश्वे सत्राग्रभोजिनः ।। १७ ।।
वृषभावगमारुद्ध भृगवो मरुतो मताः ।।
साध्या धर्मसुताः प्रोक्ता आदित्या कश्यपात्मजाः ।। १८ ।।
मारुतो मातरिश्वानो ग्रहास्त्रिभुवनेश्वराः ।।
नक्षत्राणि तथा तानि ऋक्षाणि च उडूनि च ।। १९ ।।
आदित्यो भास्करः सूर्यः सविता रविरर्यमा ।।
चन्द्रः शीतकरः सोमः शशांको मृगलाञ्छनः ।। 3.8.२० ।।
वक्रः क्षितिसुतो भौमो बुधो ज्ञः सोमनन्दनः ।।
बृहस्पतिर्गुरुर्जीवः शुक्र आस्फुजिरेव च ।। २१ ।।
सारणः पञ्चमः प्रोक्तो प्रमन्थेषु विचक्षणः ।।
असुरा दानवा दैत्या गंधर्वा देवनायकाः ।। २२ ।।
यक्षाः पुण्यजनाः प्रोक्ता यातुधानाश्च राक्षसाः ।।
अदृश्याश्च तथा भूताः पिशाचाः पिशिताशनाः ।। २३ ।।
किन्नराख्याः किंपुरुषा नागाः कद्रुसुता मताः ।।
सिद्धा विद्याधरा प्रोक्ता देवरामास्तथाप्सराः ।। २४।।
महर्षयो भूतकृतः तथा ब्रह्मर्षयोमलाः ।।
प्रोक्ताः सप्तर्षयो लोके तथा चित्रशिखंडिनः ।। २५ ।।
ध्रुवः स्थास्नुस्तथा प्रोक्तः कृकलासस्तथैव च ।।
आशा दिशस्तथा काष्ठा भचक्रं भगणं स्मृतम् ।। २६ ।।
कृतानि शास्त्राणि नरेन्द्र पूर्वैः स्मृतिस्तथोक्ता श्रुतिरेव वेदः ।।
सम्यग्यदाचारमिति प्रदिष्टं वृत्तं हि यच्छास्त्रविदां नरेन्द्र ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवादिशब्दपर्यायिवर्णनं नामा ऽष्टमोऽध्यायः ।। ८ ।।
3.9
संवत्सरोऽब्दो वर्षं च समा हायन एव च ।।
दिवसो वासरश्चैव दिनं चाहस्तथैव च ।। १ ।।
दोषा विभावरी रात्रिः शर्वरी यामिनी क्षपा ।।
संधिः प्रोक्ता तथा सन्ध्या अन्धकारं तमः स्मृतम् ।। २ ।।
चन्द्रिका च तथा ज्योत्स्ना चैत्रो मधुरिति स्मृतः.।।
वैशाखो माधवः प्रोक्तः शुचिर्ज्येष्ठ उदाहृतः ।। ३ ।।
शुक्लः प्रोक्तस्तथाषाढो नभः श्रावण इष्यते ।।
प्रौष्ठपादो नभस्यश्च इषश्चाश्वयुजः स्मृतः ।। ४ ।।
ऊर्जाख्यः कार्तिकः प्रोक्तो मार्गशीर्षः सहस्तथा ।।
सहस्यः पौष इत्युक्तो माघः स्यात्तप एव च ।। ५ ।।
फाल्गुनश्च तपस्याख्यो मासो यदु कुलोद्वह ।।
तुलामेषगते भानौ विषुवद्दिनमुच्यते ।। ६ ।।
धन्वतो मिथुनान्तश्च अयने सोस्य दक्षिणे ।।
मेषान्ते च तुलान्ते च युगादिदिवसौ स्मृतौ ।। ७ ।।
तथा विष्णुपदं प्रोक्तं कुलीरमकरान्तयोः ।।
कन्या मिथुनमीनानां प्रवेशे धनुषस्तथा ।। ८ ।।
षडशीतिमुखं नाम ज्ञेयं दिन चतुष्टयम् ।।
रश्मिर्गभस्तिर्भद्रा च करो दीधितिरेव च ।। ९ ।।
सूर्योदयास्तमययोः स दीर्घः परिधिर्भवेत् ।।
तिर्यग्गतां मेघराजीं तदेव परिघो भवेत् ।। 3.9.१० ।।
तदेव दण्डसंस्थानो मेघो दण्डोभिधीयते ।।
शक्रचापं शक्रधनुः तद्दीर्घं रोहितं भवेत् ।।१ १।।
तदेव दण्डसंस्थानो मेघो दण्डोऽभि धीयते ।।
शक्रं चापं शक्रधनुः तद्दीर्घं रोहितं मतम्।।१२।।
तत्पीतःमथाल्पं क दुपास्यं प्रतिसूर्यकम्।।
चन्द्रार्कयोर्मेघराजितपरिवेषस्तु मण्डलात् ।।१३।।
स्वर्गाच्छुभफले क्षीणे पतन्नुल्केति कथ्यते ।।
अनित्यः सशिखो दृष्टः तारकः केतुरिष्यते ।।१४।।
अग्निवर्णा तु दिङ्मृष्टा दिग्दाह इति विश्रुतः ।।
नगरं शून्यतो दृष्टं गन्धर्वनगरं स्मृतम् ।। १५।।
निर्घातं स्तनितं प्रोक्तं विना मेघनिदर्शनात् ।।
यतोयतो यवं दृष्टिः कथिता मृगतृष्णिका ।। १६।।
मेघो घनं वारिदं च जीमूतं च बलाहकम् ।।
स्तनितं गर्जितं विद्याद् वृष्टिः प्रोक्ताः प्रवर्षणे ।। १७ ।।
आसारो वेगवद्वर्षं पृषतो मंद उच्यते ।।
दृश्यमाने तथा सूर्ये दिव्यं प्रोक्तं च वर्षणम्।।१८।।
दृश्यमाने तथा चन्द्रे सामृतं परिकीर्तितम् ।।
वात्या वातसमुत्था स्यान्नीहारं तम उच्यते ।।१९।।
शीकराख्यमवश्यायं तुषारस्तुहिनं हिमम् ।।
विद्युत्तडित्तथा लोला चञ्चला च शतह्रदा ।। 3.9.२० ।।
समुद्राश्चाम्बुनिधयः सागरा लवणोदकाः ।।
नद्यः कुटिलगामिन्यो निम्नगाः सरितस्तथा ।। २१ ।।
गङ्गाविष्णुपदी प्रोक्ता जाह्नवी त्रिपथा तथा ।।
कालिन्दी यमुना प्रोक्ता रेवा प्रोक्ता च नर्मदा ।।
विपाशा च सनन्दाख्या शतद्रुः शौरिसंज्ञिका ।। २२।।
बुद्धिस्तथा सूर्य इति प्रदिष्टो भूतानि चोक्तानि तथेन्द्रियाणि ।।
वाणी तथोक्ता च सरस्वती च मनस्तथोक्तं नृप चन्द्रसंज्ञम् ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशो नाम नवमो ऽध्यायः ।। ९ ।।
3.10
।। मार्कण्डेय उवाच ।। ।।
मनुष्यो मनुजश्चैव पुरुषः पुरुषस्तथा ।।
रामा योषित्तथा स्त्री च ललना च तथा स्मृता ।। १ ।।
वरारोहा पुरन्ध्रिश्च श्रेष्ठा सा मत्तकाशिनी ।।
ब्राह्मणश्च तथा विप्रो राजन्यः क्षत्रियो मतः ।। २ ।।
कीनाशश्च स्मृतो वैश्यः शूद्रश्चान्त्यज उच्यते ।।
चण्डालः पुक्ककः प्रोक्तो मातङ्गश्च तथोच्यते ।। ३ ।।
हस्ती द्विप इभो दन्ती मातङ्गः कुञ्जरो गजः ।।
अश्वश्च तुरगः सप्तिर्हयो वाजी हरिस्तथा ।। ४ ।।
गौरुक्षाच्छागलोऽजश्च उरभ्रोऽविस्तथोच्यते ।। ५ ।।
असिर्विशसनः खड्गस्तीक्ष्ण धारो दुरासदः ।।
श्रीगर्भो विजयश्चैव धर्माधारस्तथाष्टमः ।। ६ ।।
सुवर्णं कनकं रुक्मं हेमं कार्तस्वरं तथा ।।
जाम्बूनदं तद्देवानां रूप्यं रजतमिष्यते ।। ७ ।।
उदुम्बरं स्मृतं ताम्रमयोलोहं प्रकीर्तितम ।।
आरकूटं तथा रीती रत्नं माणिक्यमुच्यते ।। ८ ।।
आतपत्रं स्मृतं छत्रं कम्बुः शंख उदाहृतः ।।
पङ्कजं कमलं पद्मं पुण्डरीकं प्रकीर्तितम् ।।९।।
तथा तामरसं चैव शतपत्रं तु दैवतम् ।।
इन्दीवरं चोत्पलं स्यात्कह्लारं शुक्लमेव तत्।।3.10.१०।।
संग्राममाजिर्युद्धं च जन्यमाहव एव च ।।
दानं संवननं प्रोक्तं विवाहो विनिवेशनम् ।।११।।
पत्नी भार्या तथा जाया सुतः पुत्रस्तनूद्भवः ।।
माता जनित्री जननी जनिता जनकः पिता ।। १२ ।।
क्षयं च भवनं प्रोक्तं मन्दिरं गृहमेव च ।।
भाण्डागारः स्मृतः कोशो धन्वनं गुप्तिरिष्यते ।। १३।।
वाहनं पत्रसंज्ञं स्यादमत्रं पात्रमुच्यते ।।
वर्धमानं शरावे स्याच्चापं च धनुरुच्यते।।१४।।
सायकश्च शरः प्रोक्त इषुर्बाणः शिलीमुखः ।।
हस्तमोच्यः स एवोक्तो बृहन्तश्चैव तोवरः।।१५।।
पुष्पप्रकरमित्युक्तमुपकारं नराधिप।।
बालव्यजनमप्युक्तं तथा चारमसंज्ञितम्।।१६।।
मृजा शोभा विनिर्दिष्टा अलङ्कारो विभूषणम् ।।
प्रसाधनं मण्डनं स्याद्बलः सार उदाहृतः ।।१७।।
अर्भकश्च स्मृतो बालो बालश्चाश्वः किशोरकः।।
हस्ती कलभ इत्युक्तो वत्सश्चोक्षा प्रकीर्तितः ।। १८ ।।
सर्वथा केशरी सिंहः शार्दूलो व्याघ्र उच्यते ।।
विपिनं निर्जनं प्रोक्तमजिरं स्याद्गृहाङ्गणम् ।। ।। १९ ।।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ।।
एकदेशमुपाध्यायो ऋत्विग्यज्ञकृदुच्यते ।। 3.10.२०।।
सांवत्सरो ज्यौतिषविद् वृतो भवति भूभुजा ।।
तस्यैव यज्ञकृद्यस्तु स पुरोहित इष्यते ।। २१।।
अमात्यश्च स्मृतो मन्त्री देशो निचय उच्यते ।।
राजा नरेन्द्रो नृपतिस्तथैव सिंहासनं तस्य तथासनं स्यात् ।।
क्षत्ता प्रतीहार इति प्रदिष्टस्तद्धस्तदण्डः कथितं तु वेत्रम् ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे चण्डालादिपर्य्यायवर्णनो नाम दशमोऽध्यायः ।। १० ।।