विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ०२१-०२५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १६-२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २१-२५
वेदव्यासः
अध्यायाः २६-३० →

3.21
।। मार्कण्डेय उवाच ।।
समाकुञ्चितकं चैव प्रसारितविवर्तिते ।।
उद्वाहितं नतं षोढा शय्यास्थानानि निर्दिशेत् ।। १ ।।
उत्तानितं मुखं चैव सास्तमुक्तकरं तथा ।।
समं वामप्रसुप्तस्य स्थानकं तु विधीयते ।। २ ।।
सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे च जानुनी ।।
स्थानमाकुञ्चितं नाम गीतान्तानां प्रयोजयेत ।।३।।
एकं भुजं समाधाय संप्रसारितजानुकम् ।।
स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ।। ४ ।।
अधोमुखे स्थितं चैव विवर्तितमिति स्मृतम् ।।
शस्त्रक्षते मृते क्षिप्तं मत्तोन्मत्तेषु तद्भवेत् ।। ५ ।।
अंसोपरि शिरः कृत्वा कुर्युरक्षोभमेव च ।।
उद्वाहितं तु विज्ञेयं लीलायाः शंसने प्रभो ।।६ ।।
तस्या यदेतत्प्रसृतं तु जंघे स्त्रस्तौ करौ तं नतमुद्दिशन्ति ।
आलस्यखेदश्रममोक्षणेषु कार्यस्तु तस्याभिनयप्रयोगः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे शय्यासनस्थानवर्णनो नामैकविंशतितमोऽध्यायः ।। २१ ।।
3.22
।। मार्कण्डेय उवाच ।। ।।
स्वस्थमन्दालसक्रान्तं प्रस्थालसमथापि च ।।
विष्कम्भितं तत्कटुकं मुक्तजानु तथा समम् ।। १ ।।
जानूगतं विमुक्तं च स्थानकान्युपवेशने ।।
विष्कुम्भिताञ्चितौ पादौ वक्षः किञ्चित्समुन्नतम् ।। २ ।।
हस्तौ कट्यूरुविन्यस्तौ स्वस्थौ स्वस्थोपवेशने ।।
एकः प्रसारितः पादस्त्वन्यश्चैवासनाश्रितः ।। ३ ।।
पार्श्वं नतं तथा कार्यं स्थानं मन्दालसं तु तत् ।।
चिन्तायां तु तथौत्सुक्ये निर्वेदे विरहे तथा ।। ४ ।।
विषादेषु सदा देयं स्थानमेतत्प्रयोक्तृभिः ।।
चिबुकापाश्रितौ हस्तौ बाहुशीर्षाचितं शिरः ।। ५ ।।
सर्वाभिनयनं चैव विज्ञेयं क्लान्तनायकम् ।।
बलिना निग्रहीतस्य रिपुणा खण्डितस्य च ।। ६ ।।
शोकम्लानस्य च तथा स्थानमेतद्विनिर्दिशेत् ।।
ग्रहौ हस्तौ विमुक्तं च शरीरमलसं तथा ।। ७ ।।
खेदालसं तथा चक्षुर्यत्र स्वस्थालसं तु तत् ।।
श्रमे ग्लानौ मदे चैव मूर्च्छाया व्यथिते तथा।।८।।
मोहे प्राणभये चैव स्थानमेतत्प्रयोजयेत् ।।
विष्कुम्भिताञ्चितौ पादौ कुरु विष्कुम्भितौ भुजौ ।। ९ ।।
निमीलितं तथा चक्षुः स्थाने विष्कुम्भिता सति ।।
स्ववक्षोगतया दृष्ट्या योगे ध्याने विधीयते ।। 3.22.१० ।।
स्वभावसंस्थया चैव सभ्यानामुपवेशने ।।
समौ पादौ समाधाय समं यदुपदिश्यते ।। ११ ।।
अस्पष्टभूतलं चैव ज्ञेयं मुकुटकासनम् ।।
पित्र्ये समाधौ जप्ये च होमादिकरणेषु च ।। १२ ।।
एतत्स्थानं विधातव्यं यथागमनकर्मणि ।।
एकं जानु यदास्ये च महीपृष्ठे विधीयते ।। १३ ।।
ज्ञातव्यं भूमिपश्रेष्ठ मुक्तजानुकमासनम् ।।
एतत्कृतव्यलीकानां प्रियाणां सम्प्रसादने ।। १४ ।।
मज्जने कुटिलानां च तथा भूम्यनुलेपने ।।
महीगताभ्यां जानुभ्यां स्थानं जानुगतं भवेत ।। १५ ।।
राज्ञां विज्ञापने कार्यं सुराणां चैव पूजने ।।
भूमौ यदूर्ध्वं पतनं तद्विमुक्तमिति स्मृतम् ।। १६ ।।
प्रहारतः प्रयोक्तव्यमावेशे क्रन्दने तथा ।।
भद्रासनं तु देवानां राज्ञां सिंहासनं भवेत ।। १७ ।।
रूप्यासनं तु दातव्यं सांवत्सरपुरोधसोः ।।
वेत्रासनममात्यानां मन्त्रिणां तु तथा भवेत ।। १८ ।।
मन्दासनं तु दातव्यं सेनानीयुवराजयोः ।।
मुनीनां च द्विजानां च तथा सब्रह्मचारिणाम् ।। १९ ।।
बृसी देया महाराज ये चान्ये नियमे स्थिताः ।।
स्थानीयाः पुरुषा ये च मुख्याः पौराश्च ये तथा ।। 3.22.२० ।।
वणिजश्च तथा मुख्यास्तेषां भवति पीठिका ।।
वेशस्त्रीणां कुमाराणां तथा भृत्यजनस्य च ।। २१ ।।
मसूरकं तु दातव्यं शेषे भूम्यासनं भवेत् ।।
सिंहासनं विना राजन्गृहे स्वच्छन्दमानसम् ।। २२ ।।
नैकासनं स्याद्गुरुणा तु राजन्रथे गजे वापि शिलातले च ।।
नैकासने स्याद्गुरुणा तु दोषोऽथ वातिदीर्घे फलके च नित्यम् ।। २३ ।। ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आसनवर्णनो नाम द्वाविंशतितमोऽध्यायः ।। २२ ।।
3.23
।। मार्कण्डेय उवाच ।। ।।
वैष्णवं समपादं च वैशाखं मण्डलं तथा ।।
प्रत्यालीढमथालीढं षट् पुसां स्थानकानि तु ।। १ ।।
स्वभावसंश्रितः पादस्त्र्यंशः पक्षगतोऽपरः ।।
किञ्चिदञ्चितजंघश्च वैष्णवं स्थानमुच्यते ।। २ ।।
स्थाने नानेन कर्तव्ये संलापस्तु स्वभावतः ।।
समपादं तु विज्ञेयं समैस्तालान्तरैः पदैः ।। ३ ।।
स्वस्वभासौष्ठवोपेतं रुद्रब्रह्मादिदैवतम् ।।
अनेन कार्यं स्थानेन विप्रमण्डलकारणम् ।। ४ ।।
बलानां पक्षिणां चैव वरकौतुकमेव च ।।
स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ।। ५ ।।
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्प्रयोजयेत् ।।
द्वौ तालावर्धतालं च पादयोरंतरं भवेत् ।। ६ ।।
अञ्चितं यत्र जंघे तु पदौ पक्षस्थितो तथा ।।
वैशाखं नाम तत्स्थानं स्कन्दश्चैवात्र देवता ।। ७ ।।
स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ।।
व्यायामो निर्गमश्चैव प्रवेशो धनुषस्तथा ।। ८ ।।।
अतः परं मण्डलं स्यात्त्रींस्तालान्तरमेव च ।।
कटी जानुसमा यत्र पादौ पक्षस्थितौ यथा ।। ९।।
धनुर्वज्रप्रहरणं मण्डलेन प्रयोजयेत् ।।
वाहनं कुञ्जराणां तु नृत्ते चोद्वहनक्रिया ।। 3.23.१ ०।।
आदौ च दक्षिणं पादं पञ्चतालं प्रसारयेत् ।।
आलीढं नाम तत्स्थानं रुद्रकाल्यत्र दैवतम् ।।११।।
अनेन कार्या स्थानेन सर्वत्रोद्धरणक्रिया ।।
रौद्रपादप्रचारस्तु संग्रामस्य निरूपणम् ।। १२ ।।
सिंहाद्यभिनयं चैव शक्तसन्धानमेव च ।।
खड्गयुद्धे नियुद्धे च मण्डलभ्रमणे तथा ।। १३ ।।
उत्तरोत्तरसंजल्पे रोषामर्षसमुद्भवे ।।
मल्लानां चैव संस्फोटे शत्रूणां च निरूपणे ।। १४ ।।
तथाभिद्रवणं चैव शास्त्राणां च विमोक्षणम् ।।
अञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ।। १५ ।।
आलीढं परिवर्तन्ते प्रत्यालीढमिति स्मृतम् ।।।
प्रत्यालीढं तु विज्ञेयं स्थानं च नवदैवतम् ।। १६ ।।
आलीढेनोदितं शस्तं प्रत्यालीढं न मोचयेत् ।।
अतः परं प्रवक्ष्यामि स्त्रीणां स्थानत्रयं नृप ।। १७ ।।
आयतं वावहित्थं च हयक्रान्तमथापि च ।।
एकश्चानुयुतो यत्र पादौ विरचितः समः ।। १८ ।।
तालमात्रान्तरन्यस्तः त्र्यक्षः पक्षगतोऽपरः ।।
प्रसन्नमाननमुरः समं यत्र समुन्नतम् ।। १९ ।।
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् ।।
रङ्गावतरणे ह्येतत्तथा पुष्पाञ्जलौ भवेत् ।। 3.23.२० ।।
पादो विरचितस्त्र्य ( श्र) स्रस्तदन्योपसृतः समः ।।
पादास्तलान्तरन्यस्तास्त्रिकमीषत्समुन्नतम् ।। २१ ।।
अवहित्थं समाख्यातं स्थानमेतन्नरोत्तम ।।
विलासलीलालावण्यशृङ्गारात्मनिरूपणे ।। २२ ।।
स्थानमेतत्प्रयोक्तव्यं वरमार्गावलोकने ।।
समस्थितो यत्र पादस्त्वन्यः पादस्तलाचितः ।। २३ ।।
तालैरनियतैरेष स्थानको हि विधीयते ।।
सूचीविद्धमविद्धं वा तदश्वक्रान्तमिष्यते ।। २४ ।।
शाखावलम्बस्तबकोच्चये च विघूर्णनेत्रासनसम्प्रलापे ।।
स्वभावसंलापविधौ च कार्यं स्थानं त्विदं यादववंशमुख्य ।। २५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० उत्थितादिस्थानकवणर्नो नाम त्रयोविंशतितमोऽध्यायः ।। २३ ।।
3.24
मार्कण्डेय उवाच ।।
शिरसः प्रथमं कर्म गदतो मे निबोध तत् ।।
स्वभावादृजुनोर्वामक्षेपेणाकस्मिकं सकृत् ।। १ ।।
संज्ञोपदेशपृच्छासु स्वभावाभाषणे भवेत् ।।
बहुशः कथितं यच्च तदा कम्पितमिष्यते ।। २ ।।
(रोषतर्जनतर्केषु प्रतिज्ञासु च दृश्यते ।।
शिरसो रेचनं यत्तु शनैस्तद्युतमिष्यते ।। ३ ।।)
विषादे विस्मये चैव प्रतिषेधे तदिष्यते ।।
विधुतं नामतः प्रोक्तं तथा पार्श्वविकम्पनैः ।। ४ ।।
शीतग्रस्ते ज्वरार्ते च मत्ते च त्वरिते भवेत् ।।
मण्डलारम्भणे चैव भवेत्तु परिगर्हितम् ।। ५।।
साधने विस्मये हर्षे लीलायां च तदिष्यते ।।
सकृदुद्वाहितं चोर्ध्वं तदुद्वाहितमिष्यते ।।६।।
उच्छ्राये दर्शने गर्वे तत्तथोर्ध्वनिरीक्षणे ।।।
आक्षिप्तं सकृदेव स्यादवव्रतमधोगतम् ।। ७ ।।
सन्देहालापसंज्ञासु तत्तथा वाहनादिषु ।।
किञ्चित्पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् ।। ८ ।।
मूर्च्छिते व्यथिते चैव सञ्चिते दुःखिते भवेत् ।।
( उत्क्षिप्तबाहुशिखरं तथाचितशिरोधरम् ।। ९ ।।
निकुञ्चितं च तद्गर्वे विलासे च प्रयोजयेत् ।।
परावृत्तपरावृत्तं कार्यं पृष्ठनिरीक्षणे ।। 3.24.१० ।।)
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः ।।
आशु दिव्यार्थयोगे च कार्यं तच्च प्रयोक्तृभिः ।। ११ ।।
अधोमुखस्थितं चापि बुधाः प्राहुरधोगतम् ।।
लज्जायां च प्रमाणे च दुःखे तच्च प्रयोजयेत् ।। १२ ।।
सर्वतो लोलनाच्चैव परिलोलितमुच्यते ।।
व्याधिते मूर्च्छिते मत्ते भवेत्तु परिलोलितम् ।। १३ ।।
एतत्तु शिरसः कर्म कथितं ते नराधिप ।।
अञ्चितं रेचितं मुक्तं विवृतं चतुरं तथा ।। १४ ।।
प्रसारितं तथा स्तब्धं ग्रीवाकर्मणि निर्दिशेत् ।।
अञ्चितं किञ्चिदेकांशं लोलनाद्रेचितं तु तत् ।। १५ ।।
रेचितं भ्रमणान्मुक्तं विवृतं चलितं च तत् ।।
मधुरं चतुरं प्रोक्तमायतं स्यात्प्रसारितम् ।। १६ ।।
स्तब्धं स्तब्धं तथा प्रोक्तं शिरःकर्मानुगामि च ।।
अञ्चितं स्याद्विलासादौ रेचितं मण्डलेक्षणे ।। १७ ।।
मुक्तं मूर्च्छादियोगेषु विवृत्तं ललितादिषु ।।
सौम्यभावे तु चतुरं दृष्टौ कार्यं प्रसारितम् ।। १८ ।।
स्तब्धं शीतेऽथ वा व्याधावविकारि स्वभावतः ।।
विबुद्धं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ।। १९ ।।
विवृत्तं च तथैवर्जुकर्मण्यस्य विनिर्दिशेत् ।।
व्यावृत्तं स्याद्विबुद्धाख्यं निवृत्तं पिहितं भवेत् ।।3.24.२०।।
अवाङ्मुखमवाभुग्नं निभुग्नं चोर्ध्वगं तु तत् ।।
भुग्नं स्यादानतं किञ्चिन्निवृत्तं विवृतं भवेत्।। ।।२१।।
ऋजुस्वभावसंस्थं च तयोः कर्माणि चक्षते ।।
विरुद्धवारणे कार्यं मैवमित्येवमादिषु।।२२।।
विनिवृत्तमसूयायामीर्ष्याकोपकृतेषु च ।।
विभुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ।। २३ ।।
भुग्नं तु लज्जिते योज्यं यतीनां तु स्वभावतः ।।
निवृत्तं वापि कर्तव्यं हास्यशोकभयादिषु ।। २४ ।।
ऋजुस्वभावसंस्थाने कर्तव्यं यदुनन्दन ।।
आभुग्नमथ निर्भुग्नं तथा चैव प्रकंपितम् ।। २५ ।।
उद्वाहितं समं चैव पञ्चरोधः प्रकीर्तितम् ।।
धार्यते यच्च निर्भुग्नं तदा भुग्नं प्रकीर्तितम् ।। २६ ।।
शस्त्रक्षते विघाते च हृद्रोगे च तदिष्यते ।।
स्तब्धं च निम्नपृष्ठं च निर्भुग्नं नाम तत्स्मृतम् ।। २७ ।।
स्तम्भे सविस्मये माने विषादे च तथेष्यते ।।
उरसस्तूर्ध्वविक्षेपः प्रकम्पितमिहोच्यते ।। २८ ।।
हसिते रुचिते कार्यं श्रमे व्याधिभये तथा ।।
उद्वाहितं यदूर्ध्वं तु तदुद्वाहितमुच्यते ।। २९ ।।
ऊर्ध्वं निगमिते कार्यं जृम्भितेषु प्रयोगतः ।।
चतुरस्रं समं नाम विज्ञेयं सौष्ठवेषु तत् ।। 3.24.३० ।।
समुन्नतं नतं चैव प्रसारितविवर्तिते ।।
तथापसृतमेवं हि पार्श्वयोः कर्म पञ्चधा ।। ३१ ।।
कटिपार्श्वभुजांसान्तैरुन्नतैः स्यात्ससुन्नतम् ।।
कटी यत्र सुनिर्भुग्ना पार्श्वं तद्द्विनतं भवेत् ।। ३२ ।।
प्रसारणादुभयतः पार्श्वयोः स्यात्प्रसारितम् ।।
परिवर्तनात्त्रिकस्यापि विवर्तितमिहेष्यते ।। ३३ ।।
अस्य चैवोपगमनाद्भवेदपसृतं पुनः ।।
नतं त्वपसृते कार्यं चोन्नतं तूपसर्पिते ।। ३४ ।।
प्रसारिते प्रहर्षादौ त्रासे चापसृते पुनः ।।
विवर्तितं विवर्ते च कारणं पार्श्वमुच्यते ।। ३५ ।।
क्षामं निम्नं च पूर्णं च संप्रोक्तमुदरं त्रिधा ।।
क्षामं तु हसिते कार्यं तथा चैव विजृम्भिते ।। ३६ ।।
व्याधिते तपसि श्रान्ते क्षुधार्ते निम्नमेव च ।।
पूर्णं निःश्वसिते चैव ह्यारोग्ये ललितं तथा ।। ३७ ।।
प्रकम्पिता च च्छिन्ना च निवृत्ता रेचिता तथा ।।
उद्वाहिता चैव कटिर्नृत्ते पञ्चविधा स्मृता ।। ३८ ।।
तिर्यग्गता गता क्षिप्रं विज्ञेया वप्रकम्पिता ।।
मध्यस्थबलनाच्चैव च्छिन्ना संपरिकीर्तिता ।। ३९ ।।
पराङ्मुखस्याभिमुखी निवृत्ता परिकीर्तिता ।।
सर्वतोभ्रमणाच्चैव रेचितेत्यभिधीयते ।। 3.24.४०।।.
निश्चितोद्वाहनाच्चैव तथैवोद्वाहिता मता ।।
नीच वामनकुब्जानां गतौ कार्या प्रकम्पिता ।। ४१ ।।
व्यायामे त्वथ संप्राप्ते व्यावृत्तप्रेक्षितेषु च ।।
छिन्ना कार्या कटिस्तज्ज्ञैर्निवृत्ता वर्तितेषु च ।। ४२ ।।
रेचिता रेचिते कार्या अन्या लीलागते त्रिधा ।।
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा ।।४३ ।।
विवर्तनं च पञ्चैव ऊर्वोः कर्माणि निर्दिशेत् ।।
नमनोन्नमने पारन्त्योर्महीपृष्ठेद्भुते यदा ।। ४४ ।।
स्थिता पादतलाग्रेण कम्पितं तत्तदिष्यते ।।
गच्छेदभ्यन्तरं जानु शनैर्यद्वलितं तु तत् ।। ४५ ।।
स्तम्भनं चापि विज्ञेयमपवृत्तक्रियाकुलम् ।।
वलिताविद्धभावं स्यादुद्वर्तनमथापि च ।। ४६ ।।
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्र निवर्तितम् ।।
गतिष्वधमपात्राणां कम्पितं संप्रयोजयेत् ।। ४७ ।।
वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे ।।
भीमोर्धसविषादेषु स्तम्भनं संप्रयोजयेत् ।। ४८ ।।
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं तथा ।।
विवर्तनं च कर्तव्यं संक्रमादिपरिक्रमे ।। ४९ ।।
आवर्तितं नतं क्षिप्तं चोद्वाहितमथापि च ।।
परिवृत्तं तथा पञ्च जङ्घाकर्माणि निर्दिशेत् ।। 3.24.५० ।।
आवर्तितं तु व्यत्यासाद्वामदक्षिणजङ्घयोः ।।
जान्वोराकुञ्जनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः।।५१।।
विक्षेपाच्चैव जंघायाः क्षिप्तमित्यभिधीयते ।।
उद्वाहितं तु विज्ञेयमूरूद्वाहनकर्मणा ।। ५२ ।।
प्रतीपनयनं यत्र परिवृत्तं तदिष्यते ।।
आवर्तनं प्रयोक्तव्यं विदूषकपरिक्रमे ।। ५३ ।।
नतं चापि हि कर्तव्यं स्थानासनगतादिषु ।।
क्षिप्तं व्यायामयोगेषु ताण्डवेषु प्रयोजयेत् ।। ५४ ।।
तथा चोद्वाहितं कार्यमाविद्धगमनादिषु ।।
ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः ।। ५५ ।।
उद्घाटितसमश्चैव......,.संचरः ।।
अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः ।। ५६ ।।
स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते ।।
यस्य पादस्य करणात्स तद्धटित उच्यते।। ।। ५७ ।।
कार्योऽनुरक्तकरणे (चैव) प्रचारे ललिते तथा ।।
( स्वभावरचितो भूमौ समस्थानः समः स्मृतः ।। ५८ ।।
एष कार्यः सदा पादः स्वभावाभिनयाश्रयः ।।
उत्क्षिप्ता तु भवेत्पार्ष्णिः पादेऽग्रतलसंचरे ।। ५९ ।।
निक्षिप्तरेचिते भ्रान्ते पादे यस्ताडितो भवेत् ।।
ललितश्चायमेव स्यात्पादो रेचितसंज्ञितः ।। 3.24.६० ।।
एष प्रदानसंचारे ललितोद्वहितं भवेत् ।।
उक्षिप्ताग्रतलः पादः कथितस्तु तथाञ्चितः ।। ६१ ।।
नानाभ्रमणकालेषु कार्यः पादोऽयमञ्चितः ।।
पादः कुञ्चितमध्योऽयं भवेत्कुञ्चितसंज्ञितः ।। ६२ ।।
अतिक्रान्ताभिगमने पादमेतत्प्रयोजयेत् ।।
एकपादप्रचारो यः स चारीत्येव संज्ञितः ।। ६३ ।।
द्विपादक्रमणं यत्र करणं नाम तद्भवेत् ।।
करणानां समायोगः खण्ड इत्यभिधीयते ।। ६४ ।।
द्वाभ्यां त्रिभिर्वा यदि वा चतुर्भिर्युक्तं भवेन्मण्डलमेव नाम्ना ।।
इत्यङ्गकर्माभिहितं ब्रवीमि निबोध राजंस्त्वमुपाङ्गकर्म ।। ६५ ।। ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अङ्गवर्णनं नाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।
3.25
।। मार्कण्डेय उवाच ।।
क्षान्ता भयानका हास्या करुणा ह्यद्भुता तथा ।।
रौद्रा वीरा च बीभत्सा विज्ञेया रसदृष्टयः ।। १।।
स्निग्धा हृष्टा च जिह्मा च क्रुद्धा भीता च लज्जिता ।।
तृप्ताथ विस्मिता सौम्या स्थायिभावेषु दृष्टयः ।। २ ।।
मलिना केकरा श्रान्ता चाभितप्ताथ विप्लुता ।। ।।। ३ ।।
विषण्णा शङ्किता चैव त्रस्ता शोका निमीलिता ।।
विभ्रान्ता कुञ्चिता शून्या मुक्तला च वितर्किता ।।
मदिरा ललिता म्लाना इत्येवं दृष्टिसंग्रहः ।। ४ ।।
षड्त्रिंशद्दृष्टयो ह्येता नामतोऽभिहिता मया ।।
सभ्रूक्षेपकटाक्षा तु कान्ता ज्ञेया समञ्जसी ।। ५ ।।
उदवृत्तपुटपक्ष्माग्रा चलत्तारा भयानका ।।
किञ्चिदाकुञ्चितपुटा हास्यविभ्रान्ततारका ।। ६ ।।
पतितोर्ध्वपुटा सास्रा करुणा नष्टतारका ।।
किञ्चित्कुञ्चितपक्ष्माग्रा किञ्चिदुद्वृत्ततारका ।। ७ ।।
समा विकसिता चैव साद्भुता दृष्टिरिष्यते ।।
उद्भूता कथिता रौद्रा भ्रुकुटी कुटिला तथा ।। ८ ।।
उत्फुल्लमध्या वीरा तु कथिता समतारका ।।
बीभत्सा कथिता दृष्टिरपाङ्गाक्षिप्ततारका ।।९।।
ध्यानादनिमिषा शान्ता ह्यधोमार्गविचारिणी ।।
व्याकोशमध्या मधुरा स्निग्धा प्रहसिता मता ।। 3.25.१० ।।
उत्फुल्लमध्या प्रचला हृष्टा पर्यन्तवीक्षिणी ।।
जिह्माधोगततारा च गूढा मग्ना निरीक्षिणी ।। ११ ।।
भ्रुकुटीकुटिला क्रुद्धा तथा निष्टब्धतारका ।।
आकुंचिता लज्जिता स्यात्तथा निश्चलतारका ।। १२ ।।
सत्त्वमद्भिरतीवेष्टा दृप्ता विकसिता भवेत ।।
समा विकसितापाङ्गा विस्मिता सा निगद्यते ।। १३ ।।
समा सौम्या विनिर्दिष्टा तथा च समतारका ।।
आकुञ्चितपुटा भीता रूक्षा व्यावृत्ततारका ।। १४ ।।
पुटौ प्रस्फुरितौ यस्या मलिना सा निगद्यते ।।
आकुञ्चितपुटा या तु दृष्टिराकेकरा भवेत् ।। १५ ।।
किञ्चिदुन्नामितपुटा शान्ता सा तु विधीयते ।।
अभितप्ता तथा मन्दा मन्दतारापुटा तु या ।। १६ ।।
विप्लुताविप्लुता प्रोक्ता स्रस्ता विस्फुरिता च या ।।
किञ्चिन्निष्टब्धतारा तु विषण्णा दृष्टिरुच्यते ।। १७ ।।
अनवस्थिततारा च शङ्किता परिकीर्तिता ।।
रूक्षा ललित तारा च प्रताख्या सभया भवेत् ।। १८ ।।
उत्फुल्ला तु विशोकाख्या तथा च निमिषेक्षणा ।।
अनवस्थितनेत्रा च विभ्रान्ता भ्रान्ततारका ।। १९ ।।
कुंचिता कुंचिता दृष्टिः किञ्चिदञ्चिततारका ।।
स्थिततारापुटा शून्या संक्षुब्धा समदर्शना ।। 3.25.२० ।।
प्रस्पन्दमानपक्ष्याग्रा मुकुला मुक्तला भवेत् ।।
उद्वृत्तपुटपक्ष्मा तु वितर्का स्तब्धतारका ।। २१ ।।
उत्फुल्ला मदिरा नाम तथा वलिततारका ।।
फुल्लितान्ता सलावण्या सस्मिता ललिता मता ।। २२ ।।
प्रलूनपक्ष्मा सा साग्रा ग्लानाख्या मुकुलीकृता ।।
कान्ता दृष्टिः कटाक्षे तु घातने तु भयानका ।। २३ ।।
हास्या हास्ये च विज्ञेया करुणा करुणे रसे ।।
स्वद्भुते चाद्भुता कार्या रौद्री रौद्रे विधीयते ।। २४ ।।
वीरा वीरे च कर्तव्या बीभत्सा च जुगुप्सिते ।।
शान्ता शान्ते तु निर्दिष्टा स्निग्धा स्निग्धावलोकने ।। २५ ।।
हृष्टा हृष्टे तु कर्तव्या जिह्मा कार्याभ्यसूयिते ।।
क्रुद्धा क्रुद्धे तु निर्दिष्टा भीता भीते तथा भवेत्।। ।। २६ ।।
लज्जिता लज्जिताख्या स्याद्दृप्तोत्साहगतेषु च ।।
विस्मिता विस्मये दृष्टिः सौम्या सौम्यावलोकने ।। २७ ।।
मलिना विरहे कार्या सम्भोगे केकरा भवेत् ।।
श्रान्ता श्रान्तस्य कर्तव्या निर्वेदे त्वभितप्तका ।। २८ ।।
विप्लुताख्या तु दैन्ये स्याद्विषादे तु विषण्णिका ।।
शंकिते शंकिता चैव त्रस्ते त्रस्ता विधीयते ।। २९ ।।
ज्ञाने विशोका च तथा स्पर्शे कार्या निमीलिता ।।
विभ्रान्ता विभ्रमे कार्या कुंचिता सूक्ष्मदर्शने। ।। 3.25.३० ।।
चिन्तान्वितस्य शून्या स्यान्मुक्तला घ्राणकर्मणि ।।
वितर्के तु वितर्का स्यान्मदे तु मदिरा भवेत् ।। ३१ ।।
स्त्रीणां हेलासु ललिता ग्लाने ग्लाना विधीयते ।।
उत्सेधश्च निमेषश्च प्रसारितविवर्तिते ।। ३२ ।।
आकुञ्चितं समं चैव स्फुरितं विहतं ततः ।।
ताडितं पुटयोः कर्म नवधा परिकीर्तितम् ।। ३३ ।।
समागमः पुटानां यः स निमेष इति स्मृतः ।।
विश्लेषश्चैव यस्ताभ्यां स उन्मेषः प्रकीर्तितः ।। ३४ ।।
प्रसारितौ पुटौ यत्र भवेत्तद्धि विवर्तितम् ।।
आकुञ्चिताभ्यां ताभ्यां तु ज्ञेयमाकुञ्चितं बुधैः ।। ३५ ।।
स्वभावपुटसंस्थानं समं तद्धि प्रकीर्तितम् ।।
पुटौ प्रस्फुरितौ यत्र स्फुरितं तदिहोच्यते ।। ३६ ।।
पुटावभिहितौ यत्र पिहितं नाम तद्भवेत् ।।
स्रस्तमूलौ पुटौ यत्र तद्धि ताडितमुच्यते ।। ३७ ।।
गन्धस्पर्शे तथानिष्टे ज्ञेयमाकुञ्चितं बुधैः ।।
विस्मयार्थे तथा वीरे तच्च कार्यं प्रसाधितम् ।। ३८ ।।
शृङ्गारे तु समं कार्यमभिघातेऽवताडितम् ।।
स्त्रीणां प्रणयरोषेषु स्फुरितं तदिहेष्यते ।।३९ ।।
शीते वातोष्णवर्षेषु विहितं कार्यमेव तु ।।
क्रोधे विवर्तितं कार्यं निमेषोन्मेषयोः समम् ।। ।। 3.25.४० ।।
वलनं भ्रमणं चैव चलनं संप्रणाशनम् ।।
विवर्तितं पाटनं तु विज्ञेयं विस्मितं तथा ।। ४१ ।।
उद्वर्तः प्राकृतं चैव तारकाकर्म चेष्यते ।।
मण्डलावर्तनं मध्ये पुटयोर्भ्रमणं स्मृतम् ।। ४२ ।।
वलनं गमनं तिर्यग्वलनाच्चलितं भवेत् ।।
आभ्यन्तरत आकर्षः प्रवेशात्संप्रवेशनम् ।। ४३ ।।
तथा चापाङ्गसंचारादुद्धर्षितमुदाहृतम् ।।
पातनं स्रस्तभावश्च निष्कामान्निष्क्रमं तथा ।। ४४ ।।
उद्वर्तनात्परावृत्तिः प्राकृतं तु स्वभावतः ।।
हास्ये तु वलनं कार्यं मदे भ्रमणमेव च ।। ४५ ।।
वीरे रसे स्याच्चलनं बीभत्से संप्रवेशनम् ।।
विवर्तितं तु शृङ्गारे पातनं करुणे रसे ।। ४६ ।।
भयानके निष्क्रमणं वीरे चोद्वर्तनं तथा ।।
प्राकृतं शेषभावे तु यथायोगं प्रयोजयेत्।।४७।।
समं साचीकृतं च स्यादनुवृत्तमतः परम् ।।
आलोकितं चाल्लोकितमवलोकितमेव च ।।४८।।
समतारं च सौम्यं च दृष्टिकर्म समं भवेत ।।
पक्ष्मान्तर्गततारं च साचीकृतमिहोच्यते ।।४९।।
रूपनिर्वर्तनायुक्तमनुवृत्तमिति स्मृतम् ।।
सहसा दर्शनं यत्स्यात्तदालोकितमिष्यते।।3.25.५० ।।
ऊर्ध्वमुल्लोकितं ज्ञेयं सर्वतो लोकितं तथा ।।
विलोकितं तु पार्श्वाभ्यां पृष्ठतश्चावलोकितम् ।।५१।।
दृष्टीनामनुगं चैव भ्रुवो कर्म प्रयोजयेत् ।।
यथा नेत्रं प्रसर्पेद्धि नानाभावरसाश्रयम् ।।५२।।
नेत्रस्यानुक्रमेणैव भ्रुवोस्तु चलनं भवेत् ।।
उत्क्षेपः पतनं चैव भ्रुकुटीचतुरं तथा ।। ५३ ।।
निकुञ्चितं कुञ्चितं च तथा स्वाभाविकं भवेत् ।।
भ्रुवोरुद्गममुत्क्षेपः पातनं पतनं भवेत् ।। ५४ ।।
द्वयोर्मूलोर्धविक्षेपाद्भ्रुकुटी परिकीर्तिता ।।
चतुरः किञ्चिदुच्छ्वासान्मधुरायतया भ्रुवा ।। ५५ ।।
एकस्या उभयोर्वापि स्यादुद्भग्नं त्रिकुञ्चितम् ।।
एकस्या ललितोद्योगाद्रेचितं नाम कीर्तितम् ।। ५६ ।।
यथास्थिते स्वभावस्थे भ्रुवोः कर्म निबोध मे ।।
समुत्क्षेपस्तु लीलायाः कारुण्यात्पातनं भवेत् ।। ५७ ।।
क्रोधे च भ्रुकुटी ज्ञेया शृङ्गारचतुरं तथा ।।
क्षामं कृशं तु विज्ञेयं फुल्लं विकसितं भवेत् ।। ५८ ।।
सम्पूर्णं पूर्णमित्युक्तं कम्पितं परिधूनितम् ।।
शृङ्गभिन्नं कुञ्चितकं सरोमाञ्चं तथाविधम् ।। ५९ ।।
प्राक्कृतं तु स्वभावस्थं मन्दं प्रोक्तं मनीषिभिः ।।
क्षामं दुःखे तु कर्तव्यं फुल्लं हर्षे प्रयोजयेत् ।। 3.25.६० ।।
पूर्णं तुष्टे तु कर्तव्यं तथा रोषे च कम्पितम् ।।
हास्ये त्वाकुञ्चितं स्पर्शे सरोमाञ्चं विधीयते ।। ६१ ।।
प्राकृतं तु स्वभावस्थं त्वर्थयोगेन योजयेत् ।।
नता मन्दा विकृष्टा च सोच्छ्वासा कूणितानता ।। ६२ ।।
स्वाभाविके च कर्तव्या प्रयोगे नासिका बुधैः ।।
नतानता तु विज्ञेया मन्दा नतपुटा भवेत् ।। ६३ ।।
विकृष्टा कुञ्चिता चोर्ध्वं सोच्छ्वासा वायुपूरिता ।।
संकूणनात्कूणिता स्यात्स्वभावस्था स्वनासिका ।। ६४ ।।
नता तु रुचिते कार्या मन्दा शोके विधीयते ।।
तीव्रगन्धे विकृष्टा तु सोच्छ्वासा तु तथा प्रिये ।। ६५ ।।
विकूणिता जुगुप्सायां शेषा स्वाभाविकी मता ।।
कूणनं खण्डनं छिन्नं मुकितं समता तथा । ६६ ।।
जिह्वाधरोष्ठमदं च दन्तकर्मणि कारयेत ।।
कुट्टनं भक्तवच्छेदं खण्डनं तु विघट्टनम् ।। ६७ ।।
छिन्नं निकृतमेव स्याच्छुक्क्तिं विद्धमेव च ।।
व्याधौ तु कुट्टनं कार्यमुत्साहे खण्डनं भवेत् ।। ६८ ।।
छिन्नं क्रोधे परं हास्ये समं शेषेषु कारयेत् ।।
विवर्तनं तथा कम्पो विमर्शोऽथ विगूहनम् ।। ६९ ।।
संदृष्टश्च समुद्रश्च कर्माण्यधरजानि च ।।
सृक्का सुवक्रकरणं विवर्तितमिति स्मृतम् ।। 3.25.७० ।।
वेपनं चापि विज्ञेयमधरस्य तु कम्पने ।।
यो निष्क्रमोऽधरस्याथ स विसर्ग इति स्मृतः ।। ७१ ।।
अन्तःप्रवेशनं चैव विनिगूहितमुच्यते ।।
दन्तोष्ठपीडनाच्चैव संदष्टकमिति स्मृतम् ।। ७२ ।।
पिण्डिताभ्युद्गतश्चैव समुद्गक इति स्मृतः ।।
विवर्तितमसूयायां रोषे कम्पितमिष्यते ।।
भयानके विसर्गश्च कर्षणेऽथ निगूहनम् ।। ७३ ।।
ततोन्मादविकारेषु सन्दष्टं वीररौद्रयोः ।।
समुद्गमनकम्पायां शेषे कार्यं स्वभावजम् ।। ७४ ।।
उपाङ्गकर्माभिहितं तथैतं मया समासेन नरेन्द्रचन्द्र ।।
कार्यः प्रयत्नोऽत्र सदा बुधेन यस्मादुपाङ्गाश्रयमेव नृत्यम् ।। ७५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे उपाङ्गिकवर्णनो नाम पञ्चविंशतितमोऽध्यायः ।। २५ ।।