वाचस्पत्यम्/ॠ
तारानाथ भट्टाचार्य
पृष्ठ १४५८
- ॠ
ॠ ॠकारः स्वरवर्णविशेषः मूर्द्धन्यः स च दीर्घः उदात्तानु-
- दात्तस्वरितभेदात् त्रिचिधः नुनः अनुनासिकानुनासिकभेदेन
- प्रत्येकं द्विधेति षट् । मातृकान्यासे वामनासायां तस्य
- न्यस्य तया वामनासाशब्देनाप्यभिधेयता । तस्य कामधेनु-
- तन्त्रे ध्येयस्वरूपमुक्तं यथा । “ॠकारं परमेशानि!
- स्वयं परमकुण्डलीम् । पीतविद्युल्लताकारं पञ्चदेवमयं
- सदा । चतुर्ज्ञानमयं वर्ण्णं पञ्चप्राणयुतं सदा । त्रि-
- शक्तिसहितं वर्णं प्रणमामि सदा प्रिये!” । अस्य प्लुत-
- त्वोक्तिश्चिन्त्या दीर्घस्य द्विमात्रत्वेन त्रिमात्रोच्चार्य्यप्लुता-
- द्भिन्नत्वात् आकारभेदाच्च ।
ॠ गत्यां क्र्यादि० प्वादि० पर० सक० सेट् । प्वादि०
- श्नाप्रत्यये ह्रस्वः । ऋणाति ऋणीतः ऋणन्ति । ऋणीयात्
- ऋणातु ऋणीहि । आर्ण्णात् आर्णीताम् आर्णन् ।
- आरीत् । आर! आरतुः । अरिता । ईर्य्यात् ।
- अरिष्यति । आरिष्यत् । अरितव्यः अरणीयः आर्य्यः ।
- अरिता । ऋणन् । ईर्ण्णः । अरः ।
ॠ अव्य० ॠ--क्किप् बा० इत्वाभावः । १ वाक्यारम्भे २ रक्षायां
- मेदि० । ३ निन्दायां ४ भये च शब्दरत्ना० । ५ देवमातरि
- ६ दानवमातरि ७ स्मृतौ ८ गतौ च स्त्री० वक्षसि न० मेदि० ।
- ९ भैरवे १० दनुजे पु० मेदि० ।
- इति वाचस्पत्ये ॠकारादिशब्दार्थसङ्कलनम् ।
- ऌ
ऌ ऌकारः स्वरवर्ण्णभेदः स च दन्तमूलीयः । उदात्तानुदात्त-
- स्वरितभेदात् त्निविधः अनुनासिकाननुनासिकभेदात्
- प्रत्येकं पुनर्द्विधेति षड्विधः । तस्य मातृकान्यासे दक्ष-
- गण्डे न्यस्यतया तच्छब्देनाप्यभिधानम् । तस्य ध्येयरूपं
- कामधेनुतन्त्रे उक्तं यथा । “ऌकारश्चञ्चलापाङ्गि!
- कुण्डली परदेवता । अत्र ब्रह्मादयः सर्व्वे त्रयोऽस्ति सततं
- प्रिये! । पञ्चदेवमयं वर्ण्णं चतुर्ज्ञानमयं सदा । पञ्च
- प्राणयुतं वर्ण्णं तथागुणत्रयात्मकम् । विन्दुत्रयात्मकं वर्ण्णं
- पीतविद्युल्लता यथा” । अस्य प्लुतत्वोक्तिश्चिन्त्या एकमात्र
- त्रिमात्रत्वाभ्यां तयोर्भेदात् । तकाररहितस्तु द्वादशानां
- बोधक इति सि० कौ० ऋशब्दे विवृतिः ।
ऌ अव्य० ऋगतौ ऋ--क्विप् तुगभावः लत्वम् । १ देवमातरि
- २ भूमौ ३ पर्व्वते च मेदि० ।
- इति बाचस्पत्ये ऌकारादिशब्दार्थसङ्कलनम् ।
|
- ल्ल
ॡ ॡकारः तन्त्रमते मुग्धबोधमते च स्वरवर्ण्णभैदः पा० मते
- तस्य दीर्घत्वं नास्ति तेन उदात्तानुदात्तस्वरित भेदात्
- अनुनासिकानुनासिकभेदाच्च षड्विधः । अत्रेदं बोध्यम्
- ऌवर्ण्णस्य दीर्घत्वाभावेऽपि “ऌति ॡवा” वार्त्ति० उक्तेः
- लकारद्वययुत ऌवर्ण्णएव तत्र विधेयः तत्र लकारद्वयरूपव्य-
- ञ्जनद्वयस्य एका मात्रा अचश्चापरा इति द्विमात्रत्वं तेन
- होॡकारः इत्यादौ दीर्घत्वव्यवहारः । मुग्धबोधे ऌत्रय-
- मित्युक्तिरपि एकमात्रद्विमात्रत्रिमात्रत्वभेदापेक्षया । तेन
- न विरोधः । अतएव शिक्षायां “दुस्पुष्टश्चेति विज्ञेय
- ऌकारः प्लुतएव वेति” ऋकारऌकारयोः दुःस्पृष्टत्वोक्तिः ।
- दुःस्पृष्टत्वञ्च ईषत्स्पृष्टत्वं तस्य रकारलकारादित्वे एव
- सम्भवति “अचोऽस्पृष्टायणस्त्वीषन्नेमस्पृष्टाःशलस्तथा”
- शिक्षाणां यवरलानामीषत्स्पृष्टत्वोक्तेः । “तेन ऋकार
- ऌकारयोरीषत्स्पृष्टत्वात् दुःस्पृष्टत्वम् । एवं सर्वसामञ्जस्ये
- ऌवर्णस्य न दीर्घत्वकल्पनमिति सूक्ष्ममीक्षणीयम् । अस्य
- च लकारद्वयघटितत्वात् दन्त्यता । अन्ते च स्वरवर्णयोगात्
- अस्पृष्टत्वम् । तस्य च उदात्तादिभेदैः षड्विधत्वमपि ।
- मातृकान्याशे च तस्य वामगण्डे न्यस्यता तेन तच्छब्देना-
- प्यस्याभिधानम् । कामधेनुतन्त्रे तस्य ध्येयस्वरूपमुक्तम्
- यथा “ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम् । पञ्चदेवा-
- त्मकं वर्णं पञ्चप्राणात्मकं तथा । ऋणत्रयात्मकं वर्णं
- तथाविन्दुत्रयात्मकम् । चतुर्वर्गप्रदं देवि! ध्यायेत्
- परमकुण्डलीम्” ।
ॡ अव्य० ऋ--रस्य लः । १ देवनार्याम् २ दैत्यस्त्रियाम् ३
- दनुजमातरि ४ कामधेनुमातरि च स्त्री एकाक्षरकोषः ।
- ५ महादेवे पु० एकाक्षरकोषः ।
- इति वाचस्पत्ये ॡकारादिशब्दार्थसङ्कलगह् ।
|