वाचस्पत्यम्/स

विकिस्रोतः तः
Jump to navigation Jump to search
← वाचस्पत्यम्/ष वाचस्पत्यम्/स
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ह →


पृष्ठ ५१७४

सकार ऊष्मवर्णभेदः तस्योच्चारणस्थानं दन्तमूलं तस्योच्चारणे

आभ्यलरप्रयत्नः विवृते जिह्वाग्रेण अद्धंस्पर्शनेन चोचा-
र्य्यमाणत्वात् अर्द्धस्पृष्टम् । बाह्यपयत्ना विवारश्वासा-
घोषाः महाप्राणञ्च अस्य ध्येयरूपं यथा “सकारं शृणु
चार्वङ्गि! शक्तिवीजं परात्परम् । कोटिविद्युल्लताकारं
कुण्डलीत्रयसयुतम् । पञ्चदेवमयं देवि! पञ्चपाणा-
त्मकं सदा । रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा”
कामधेनुत० । तस्याधिष्ठातृदेवतारूपं यथा “शुक्लाम्बरां
शुक्लवर्णां द्विभुजां रक्तलीचनाम् । श्वेतचन्दनलिप्ताङ्गी
मुक्ताहारोपशाभिताम् । गन्धर्वगोयमानाञ्च सदानन्दमयीं
पराम् । अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम् ।
एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारत०
अस्य वाचकशब्दाः “साहंसः सुयशा विष्णुर्भृग्वीश-
श्चन्द्रसंज्ञकः । जगद्वीजं शक्तिनामा सोहं वेशवती भृगुः ।
प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्वलः । दक्षपा-
दोऽमृतं ब्राह्मी परमात्मा परोऽक्षयः । सुरूपा च
गुणेशो गौः कलकण्ठो वृकादरी । प्राणाद्या च परा देवी
लाक्ष्मीः सोमो हिरण्यपू । दुर्गोत्तारणसम्मोहा
जीवो मूर्त्तिर्मनोहरः” वर्णाभिधा० । मातृकान्यामे
ऽस्य दक्षपाद न्यास्यता । काव्यादो प्रयोगे फलं सुखम्
“सः सौख्यं हस्तु स्वंदम्” वृ० र० टी० । षोपदेशधातूनां
प्रयागे दन्त्यादित्वम् “सकारजः षकारश्चेत्युक्तेः सति
निमित्ते पुनः षत्वम् ।

पु० सा--ड़ । १ विष्णो एकार्थसंग्रहः । २ सर्पे ३ ईश्वरे शब्दर०

४ । वहगे पुंस्त्री० एकाक्षरकोषः । समासे पूर्वपदस्थः
५ सहार्थे ६ समानार्थे च यथा सषित्क” सरूप इत्यादि ।
“सोऽन्तगुरुः कथितोऽन्तलघुस्तः” छन्द० शास्त्रक्ते
७ अन्तगुरुके आदिलघुद्वयके ८ वर्णगणे पु० । सगणोऽप्यत्र ।

संक्षेप पु० सम् + क्षिप--घञ् । भूयसीऽर्थस्याल्पवाक्यादिना-

प्रकाशने भरतः । ल्युट् । तत्रार्थे न० । सर्वत्र समः स्थाने
झरिपरे वा परसवर्णः पञ्चमवर्णः ।

संक्षोभ पु० सम् + क्षुभ--घञ् । चाञ्चल्ये क्षोभे च वा ङ ।

संग्राहिन् पु० सम् + ग्रह--णिनि । १ कुटजवृक्षे राजनि० ।

२ सञ्चयकारके ३ धारके च । वा ङ् सङ्ग्राहीति रूपम् ।

संघ पु० सम् + हन--ड नि० । १ समूहे २ जन्तुसमूहे च अमर

अस्य वा ङ् । सङ्घ इति वा रूपम् ।

संघट्ट पु० सम् + घट्ट--भावे अच् । १ अन्योन्यविमर्दे २ गठने च

“मृदाहरणसंघट्ट प्रतिढाह्वानमेव च” ति० त० । ३ लताया
स्त्री शब्दच० । ल्युट् । तत्रार्थे न० ।

संघर्ष पु० सम् + घृष--घञ् । १ अन्योन्यदृढ़संयोगे २ स्पर्द्धायां

३ संमर्दने च शब्दर० वा ङ् ।

संज्ञ न० सम् + ज्ञा--क । १ पीतकाष्ठे कालीयके गन्घदध्ये

शब्दच० । सम् + ज्ञा--अङ् । २ चेतनायां ३ बुद्धौ
४ आख्यायां ५ हस्ताद्यैरथसूचने च स्त्री अमरः । ६ गायत्र्यां
७ सूर्य्य पत्न्याञ्च स्त्री मेदि० । वा ञ् । ८ संहतजानुके
त्रि० माहसाङ्गः ।

संज्ञज्ञापन सम + ज्ञा--णिच्--पुक् मारणे ह्रस्यः ल्युट् ।

१ मारणे अमरः । २ ज्ञापने न ह्रस्वः । क्तिन् । संज्ञप्ति-
रप्यत्र स्त्री हेमच० वा ञ् ।

संज्ञासुत पु० संज्ञायाः सूर्य्यपत्न्याः सुतः । शनैश्चरे ।

संज्ञु त्रि० सहते जानुनी यस्य जानुस्थाने ज्ञुः । संहत-

जानुके अमरः । वा ञ् ।

संज्वर पु० सम् + ज्वर--अप् । अग्निजाते तापे अमरः वा ञ् ।

संमर्द पु० सम् + मृद--घञ् । अन्योन्यदृढ़संयोगरूपे संक्षर्षे वा मः

संय पु० स + यम्--ड । कङ्काले शब्दमा० ।

संयत त्रि० सम् + यम--क्त । १ बद्धे अमरः २ कृतशास्त्रोक्तनि यमे च ।

संयत् स्त्री संयम्यतेऽत्र सम् + गम--आधारे क्विप् तुक् च ।

१ युद्धे अमरः । कर्त्तरि क्विप् । २ संयमनकर्त्तरि त्रि० ।

संयत्वर पु० सम् + यम--क्वरप् तुक्च । १ जन्तुसमूहे २ वाग्यते

त्रि० संक्षिप्तसा० ।

संयद्वर पु० ६ त० । नियन्तृणां वरे नृपे उणादि० ।

संयद्वाम पु० वामं संयाति सम् + या--शतृ पृषो० पूर्वनिपतिः ।

अक्षिपुरुषे “एतं हि अक्षिणि पुरुष संयद्वाम इत्या
चक्षते एतं हि सर्वाणि वाम न्यभिमंयन्ति” छ न्देग्योप० ।

संयन्तृ त्रि० संयच्छति सम् + यम--तृच् । नियन्तरि ।

संय(या)म पु० सम् + यम--घञ् वा वृद्धिः । व्रताङ्गतया पूर्व-

दिनकर्त्तव्ये १ नियमभेदे अमरः २ इन्द्रियनिग्रहे ३ बन्धने च

संयमन न० सम् + यम--ल्युट् । १ बन्धने २ व्रतभेदे मेदि० ३ च

तुःशाले गृहे च भरतः । यम--णिच्--ल्यु । ४ यमे पु०
“वैवस्वतः संयमनः” श्रुतिः ।

संयमनी स्त्री संयम्यते वध्यतेऽत्र सम् + यम--आधारे ल्युट् ।

यमाधिकृतपुर्य्याम् मेदि० “अन्येऽपि ये संयमिनः संयम-
न्यामुशन्ति ते” काशीख० ८ अ० । यमसभावर्णनं भा० स०
८ अ० दृश्यम् । संयमननगरपरत्वे न० “एतत् संयमनं पुण्य-
मतीवाद्भुतदर्शनम्” भा० व० १६३ अ० ।

संयमिन् पु० सम् + यम--णिनि न वृद्धिः । १ हुनिमेदे धरणिः

२ इन्द्रियसंयमयुते त्रि० गीता ।

संयाव पु० सम्यक् घृतादिभिर्यूयते मिश्र्यते गोधूमचूणाद्यत्र

सम् + यु--आधारे घञ् । “संयावस्तु घृतक्षीरगुड़गोधूम-
पाकजः” इत्युक्ते घृतादिना पक्वगोधूमचूर्णे शब्दच० ।

संयुज् त्रि० सम्यक् युनक्ति सम् + यज--क्विन् । १ गुणाढ्ये

त्रिका० २ संयुक्ते च ।

संयुक्त त्रि० सम् + युज--क्त । १ संयोगयुते पदार्थे २ अचानन्तरिते हल्वर्णे च पा० ।

संयुग न० संयुज्यतेऽत्र सम् + युज--क न्यङ्क्वा० जस्य गः ।

युद्धे अमरः । तत्र साधु० खञ् । सांयुगीन रणेसाधौ ।

संयुत त्रि० सम् + यु--क्त । संयुक्ते ।

संयोग पु० सम् + युज--घञ् । १ मेलने क्रियाजन्ये द्रव्याश्रिते

गुणभेदे २ सम्बन्धमात्रे च “अप्राप्तयोस्तु या प्राप्तिः सैव
संयोग ईरितः । कीर्त्तितस्त्रिविधख्येष आद्योऽम्यतर
कर्मजः । तथोभयोः कर्मजन्यो भवेत् संयोगजोऽपरः ।
आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः । मेषयोः
सन्निपातोयः स द्वितीय उदाहृतः । कपालतरुसंयोगात्
संयोगस्तरुकुम्भयोः । तृतीयः स्यात् कर्मजोऽपि द्विधैव
परिकीर्त्तितः । अभिघातो गोदनश्च शब्दहेतुरिहादिमः ।
शब्दाहेतुर्द्वितीयः स्यात्” भाषा० “उदयात् प्राक्
दशम्यास्तु शेषः संयोग उच्यते । उपरिष्टात् प्रवेशस्तु तस्मात्
तत् परिवर्जयेत्” ति० त० उक्ते उदयात् प्राक्दशम्याः
शेषे च ।

संयोगपृथक्त्व न० संयोगेन फलसम्बन्धभेदेन पृथक्त्वं

नानारूपत्वं यत्र । एकस्यैव कर्मणो नित्यानित्यत्वप्रतिपा-
दके मीमासकोक्ते न्यायभेदे स च त त्त्वबो० दर्शितो यथा
पृष्ठ ५१७५
“अग्नीषोमीयपशौ श्रूयते “खादिरे पशुं वघ्नाति
खादिरं वीर्य्यकामस्य यूपं कुर्वीत” । अत्र पशुबन्धनाय-
यूपोविहतः स च नित्यत्वेनावश्यकः यागसाधनत्वात्
पशुकामनावतश्च अन्योयूपोविहितः स च कामनाधीन-
त्वान्नावश्यकः । अत्र संसयः किं काम्य एव खादिरो
नित्येऽपि स्यात् उत एकः खादिरः क्रतुपुरुषोभयार्थः
उत काम्य एव खादिरो नित्यस्त्वन्यकाष्ठनिर्मित इति ।
तत्र काम्यनित्यप्रयोगाङ्गता न सम्भवति कामनाधीनत्वेन
तस्यानावश्यकत्वात् नित्यश्चावश्यकः नह्येकस्यावश्यकत्व
मनावश्यकत्वञ्च सम्भवति विरोधात् । तस्मात् काम्य एव
खादिरः नित्यश्चान्यकाष्ठनिर्मितः । तदुक्तं शास्त्रदीपि-
कायाम् एतदधिकरणीयोदाहरणान्तरे “दघ्ना जुहोति
दध्नेन्द्रियकामस्येत्यधिकृत्य “पूर्वाधिकरणन्यायात् काम्यत्वेन
श्रुतं दधि । अनित्यार्थसुपादेयमतोऽन्यन्नित्यमिष्यताम्” ।
अन्यद्द्रव्यान्तरं पूर्वाधिकरणन्यायात् प्रागुक्ताप प्रणय-
नन्यायात् । माधवाचार्य्योऽपि “नित्येऽग्निहोत्रे पूर्वाधि-
करणन्यायेन दधि न प्रयोक्तव्यं किन्तु अन्यदेव किञ्चित्
द्रव्यम्” इत्याह । ननु नित्येऽपि खादिर एव श्रूयते
णतो नित्य एकः स्वादिरः काम्यश्चान्यः स्वादिर इति
यूपद्वयं विधोयते अन्यथा नित्ये खादिरत्वःभिधानं व्यर्थं
स्यात् तथा च क्व विरोधः येनैकस्योभयार्थत्वे विरोधमा-
शङ्क्य समाहितमिति चेन्न स्वादिरेण वीर्य्यं कुर्य्यादित्यर्थ-
कत्वषर्य्यवसन्नं स्वादिरत्वाभिधानं व्यर्थमिति तस्मान्नित्ये
स्वादिराविधानात् काम्य एव स्वादिरः नित्यस्तु काष्ठान्तरीय
इति प्राप्ते आह “एकस्य तूभयत्वे संयोगपृथक्त्वम्” सू०
संयोगः सम्बन्धः एकस्य खादिरस्य नित्यत्वकाम्यत्वो-
भयरूपत्वे संयोगस्य पशुसम्बन्धस्य पृथकत्वं परस्परनिरपे-
क्षेण पृथगभिधानं नियामकमिति शेषः । अयम्भावः
यदि द्वयोरेकस्य वाकाङ्क्षा तदा द्वयोरेकवाक्यता इह
तु उभयमेव निराकाङ्क्षं तथा हि नित्यवाक्यं यूपस्य
पशुबन्धनसम्यन्धे अलौकिकं किमपि नापेक्षते पशुबन्धन-
दृष्टफसत्वात् च्चाम्बर्वाक्यामनुपन्यस्याभिधानाच्च । काम्यवा-
क्यमपि आश्रयसम्बन्धकरं किमपि प्रमाणं नापेक्षते
सन्निधानादेवाश्रयलाभे हि तथा स्यात् पृथक्पृथक्
संयोगस्य निरपेक्षेण वाक्यद्वयेनाभिधानात् कासनासत्त्वे
च खादिरं दृष्टफलद्वारा क्रतोरुपकरिव्यति पुरुषस्य वी
र्य्यमप्यावक्ष्यति । किस्त्वयं विशेषः कामनासत्त्वे तत्स-
हकारेण पुरुषार्थस्तदभावेन च कत्पर्थ इति । तदुक्तम्
“द्वयोरेकस्य वाकाङ्क्षा भवेद् यदि तयोस्ततः । प्रकल्प्येतै-
कवाक्यत्वं निराकाङ्क्षन्त्विहोभयमिति” तस्मादुभयार्था
खादिरतेति । ननु नित्य एव खादिरोऽस्तु खादिरमित्या-
दिनाऽङ्गस्य प्रशंसार्थं फलश्रुत्यर्थवादोऽस्तु यथा यस्य
पर्णमयी जुहूर्भवति न स पापश्लोकं शृणोति” इत्यत्रेति
किमेकस्योभयार्थत्वाङ्गीकारेणेति चेन्न तत्र जूहुप्राप्तावपि
तन्निष्यादकद्रव्यविशेषणामावात् तत्परिचायकत्वेनैव स्तु-
त्यर्थवादस्यौचित्यात् न चात्र तथा पूर्ववाक्यत एव
खादिरत्वप्राप्तौ पुनः खादिरपदापन्यासेनान्यस्य वीर्यसामर्थ्य-
कत्वबोधनेनैकप्रयोजनकत्वात् । एवं दध्ना जुहोति दध्ने-
न्द्रियकामस्य जुहूयादित्यादावपि उभयार्थता दध्नो बोध्या
उभयत्र दध्नः कीर्त्तनात्” ।

संयोगविरुद्ध न० संयोगेन विरुद्धम् । द्रव्यान्तरसंयोगेन

विरुद्धगुणाश्रये द्रव्यभेदे तच्च राजवल्लभेन दर्शितं यथा
“शाकाम्लपलपिण्याककुलत्थलवणामिषैः । करीरद-
धिमाषैश्च प्रायः क्षीरं विरुध्यते । प्राणहारी तु
हारीतो हरिद्रालवणैः शृतः । रुरोस्तैलानलैर्भृष्टं
विषं मायूरमामिषम् । वराहवसया भृष्टा बलाका तु
हरत्यसून् । संयुक्ता सैव वारुण्या कुल्माषैश्च विरु-
ध्यते । अविं कृसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत् ।
मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम् । कपोतः
सार्षपे भृष्टो घृतं कांस्ये दशाहिकम् । विषं घृतसमं
क्षौद्रं मधुना गगनाम्बु च । मूलकं माषसूपेन मधुना
च न भक्षयेत् । एकत्र सर्वमांसानि विरुध्यन्ते प्रस्परम् ।
रात्र्यन्धवीसर्पदकोदराणां विस्फोटिकोन्मादभगन्दरा-
णाम् । मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्याऽऽमवि-
षस्य चैव किलासकुष्ठग्रहणीगदानां शोथातिसारज्वर-
पीनसानाम् । सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं
प्रवदन्ति हेतुम् । विरुद्धाहारजान् रोगात् विगिहन्ति
विरेचनम् । वभनं शमनं वापि पूर्वं वा हितसेवनम्” ।

संयोजन न० सम् + युज--णिच्--आधारादौ ल्युट् । १ मैथुने

हारा० । २ सम्यग्योजने च ।

संयोजित त्रि० सम् + युज--णिच् क्त । कृतमेलने पदार्थान्तरेण कृतयोजने पदार्थे

संरम्भ पु० सम् + रभ--घञ्--मुम् च । १ कोपे शब्दर० ।

२ आटोपे त्रिद्वा० । ३ लत्साहे मेदि० ४ वेगे च “अव्र्ष्टिसं-
रम्भमिधाम्बुहम्” इति कुमारः ।

संराधन न० सम् + राध--ल्युट् । १ सव्यक् मेवने २ सम्यक् चिन्तने च ।

संराव पु० मम् + रु--धञ् । शब्दे अमरः ।

पृष्ठ ५१७६

संरूढ त्रि० सम् + रुह--क्त । १ प्रौढ़े २ जाताङ्कुरे च मेदि० ।

संरोध पु० सम + रुध--घञ् । १ रोधने २ क्षेपे च मेदि० ।

संलग्न त्रि० सम् + लग--क्त । मिलिते ।

संलय पु० संलीयते इन्द्रियव्यापारोऽत्र सम् + ली--आधारे

अच् । १ निद्रायां हेमच० । भावे अच् । २ प्रलये च ।

संलाप पु० सम् + लप--घञ् । १ परस्परकथने अमरः । प्रीत्या

अन्योन्याक्तिप्रत्युक्तिभ्यां २ भाषणे ३ रहसि कथने च ।

संवत्सर पु० संवसन्ति ऋतवोऽत्र सम् + वस--सरन् । १ वत्सरे

ज्यातिषोक्ते इदादिपञ्चक न्तर्गते २ वत्सरभेदे च । इदावत्स-
रशब्दे ९०६ पृ० दृश्यम् ।

संवत् अव्य० सम् + वय--क्विप् यलोपे तुक् । विक्रमादित्यराज्यावधिके तत्प्रवर्त्तितवत्सरे ।

संवदन न० सम् + वद--ल्युट् । १ आलोचने २ वशीकरणे च

मेदि० । सम् + वन्--ल्युट् । संवननमप्यत्र रामाश्रमः ।

संवर न० सम् + वॄ--करणे अप् । १ जले । कर्त्तरि अच् ।

२ दैत्यभेदे ३ मत्स्यभेदे ४ मृगभेदे च पुंस्त्री० ।

संवर्त्त पु० सम्यक् वर्त्त्यते परावर्त्त्यतेऽत्र सम् + वृत--णिच्-

आधारे अच् । १ प्रलयकाले अमरः । २ स्मृतिकारकमुनिभेदे
३ कर्षफलवृक्षे मेदि० ४ मेधे शब्दच० ५ मेघनायकभेदे च ।
“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् । आवर्त्तं
विद्धि संवर्त्तं पुष्करं द्राणमम्बुदम् । आवर्त्तो निर्जलो
मेघः संवर्त्तश्च बहूदकः । पुष्करो दुष्करजलो द्रोणः
शम्यपपूरकः” ज्या० त० ।

संवर्त्तक न० सम् + वृत--णिच्--ण्वुल् । १ बलदेवलाङ्गले

२ बाडवानले पु० हेमच० । ततः अस्त्वर्थे अच् । ३
बलदेवे शब्दर० ।

संवर्त्तकिन् पु० संवर्त्तकं लाङ्गलभेदोऽस्त्यस्य इनि । बुलरामे त्रिका० ।

संवर्त्तिका स्त्री सम्यकवर्त्तिका मम् + वृत--ण्वुल् टापि अत

इत्त्वं वा । १ दीपादेः शिखायां २ पद्मादेः केसरसमीपस्थे
दले अमरः ३ नवपत्त्रे मधुसूदनः ।

संवर्द्धक त्रि० सम् + वृध--णिच्--ण्वुल् । सम्माननाकारिणि

हेमच० २ वृद्धिकारके च ।

संवलित त्रि० संस + वच--क्त । मिलिते ।

संवसघ पु० सीवसत्यम्मित् मम् + वस--आघारे अथच् ।

ग्रामे जनममूहनिवासस्थाने अमरः ।

संवह पु० मम्यक् वहति सम + वह--अच् । सप्तवायुमध्य-

वर्त्तिनि वायुमदे आवहशब्दे १६४ पृ० दृश्यम् ।

संवार पु० सम + वञ् । शिक्षाग्रथोक्ते वर्णोश्वारणार्थे

गलनिलसंकोधात्मक बाह्यपयत्नमेदे २ सङ्गोपने च ।

संवास पु० संवसत्यत्र सम् + वस--घञ् । १ गृहे शब्दच० ।

पुरवासिनां पुराद्वहिर्वामयोग्ये अनावृते २ स्ताने जटा० ।

संवाह पु० संवाहयति सम् + वह--अच् । अङ्गसंमर्दके

भृत्थे जटा० । ण्वुल् । संवाहक तत्रैव ।

संवाहन न० सम् + वह--णिच्--ल्युट् । १ भारादेवांहने २ अङ्ग

संमर्दने च मेदि० ।

संविग्न त्रि० सम् + विज--क्त । १ उद्विग्ने

इष्टवस्तुलाभाय तदप्राप्त्या भयादिना वा जातौत्कण्ठे ।

संवित्ति स्त्री सम् + विद--क्तिन् । १ ज्ञाने शब्दमा० २ प्रतिपत्तौ

३ चेतनायां ४ अङ्गोकारे ५ बुद्धौ च मेदि० ।

संविद् स्त्री सम् + विद--सम्प० क्विप् । १ ज्ञाने २ प्रतिपत्तौ

मेदि० । ३ सम्भाषायां ४ बुद्धौ ५ क्रियाकरणे ५ युद्धे
६ अङ्गीकारे च अमरः । ७ नामनि ८ आचारो ९ सङ्कते
१० तोषे ११ समाधौ च शब्दच० ।

संविदा स्त्री संविद्यतेऽनया सम् + विद--क्विप् टाप् । भुङ्ग {??}रं

(सिद्धि) “संविदासवयोर्मध्ये संविदैव गरीयभी” तन्त्रम् ।

संविदित त्रि० सम् + विद--क्त । १ अङ्गीकृते २ सम्यग्ज्ञात च ।

संविद्व्यतिक्रम पु० संविदाऽङ्गीकारस्य व्यतिक्रमा यत्र ।

कृताङ्गीकारस्योल्लङ्घनहेतुके विवादभेदे वीरमि० तन्निरूपणं
यथा “तस्य स्वरूप व्यतिरेकस्खेन दर्शयति” नारदः
“पाषण्डनैगमादीनां स्थितिः समय उच्यते । समयस्या-
नपाकम तद्विवादपदं स्मृतमिति” । पाषण्डाः वैदिक-
मार्गद्वेषिणः क्षपणकादयः । नैगमाः सार्थिका वणिज
इति मदनरत्ने । नैगमाः षेदप्रामाण्याभ्यु पगन्तारः
पाशुपतादय इति मिताक्षरायाम् । आदिशब्देन विद्वद्-
ब्रह्मणसमूहादीनां ग्रहणम् । समयस्यानपाकर्म
व्यतिक्रमः संमयापरिपालनमिति यावत् तद्व्यतिक्रम्य-
माणं विवादपदम्भवतीत्यर्थः । तद्रूपयोग्यार्थमाह
वृहस्यतिः “वेदविद्याविदा विप्राः तेषां वृत्ति०
प्रकल्पयेत्” इति । याज्ञवल्क्योऽपि “राजा कृत्वा पुरे
स्थानं ब्रह्मण्यं न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद् ब्रू-
यात् स्वघर्मः पाल्यतामिति” । ब्रह्मणानां समूहो ब्रह्म-
ण्यम् । “ब्राह्मणमानववाड़वाद्यदिति” पा० सूत्रेण यत् ।
विद्या वेदा तिसृणां विद्यानां समाहारस्त्रिविद्यम् ।
त्रिविद्यमधीते इति । तेषां वृत्तिं प्रकल्ययेदित्यस्या-
ऽर्थो वृहस्पतिनैव विवृतः “अनाच्छेद्यकरास्तेभ्यः प्रद-
द्याद् गृहभूमिकाः । युक्तभाव्यश्च नृपतिर्लेखयित्वा
स्वाशासनम्” इति । अनाच्छेद्यकराः अग्राह्य-
कराः । एतदुक्तम्भवति । आगामिनृपतिभिरग्राह्य-
पृष्ठ ५१७७
कराः तेभ्यो सिसृष्टकराश्च गृहभूमिकाः प्रदद्यादिति ।
एवं नियुक्तैर्यत्कर्तव्यं तदाह याज्ञवल्क्यः “निजधर्मा-
विरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन सरक्ष्यो
धर्मो राजकृतश्च यः” इति । निजधर्माविरोधेन श्रौ-
तस्मार्त्तकर्माविरोधेन सामयिकः समयान्निष्पन्नो यो धर्मो
गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन
रक्षणीयः । यश्च राज्ञा कृतो निजधर्माविरोधेनैव यः
सामयिको धर्मो यावत्पथिकम्भोजनन्देयमस्मदरातिम-
ण्डले तुरगादयो न प्रस्थापनीया इत्येवंरूपः सोऽपि
यत्नेन रक्षणीय इत्यर्थः । वृहस्पतिरपि “नित्यं नैमि
त्तिकं काम्यं शान्तिकम्पौष्टिकन्तथा । पौराणां कर्म
कुर्य्युस्ते सन्दिग्धे निर्णर्य तथेति” । पौराणां पुरवासि-
नामित्यर्थः । एवं राजनियुक्तसमुदायविशेषस्य कार्य्य-
विशेष उक्तः । सर्वसमुदायाताञ्च कार्य्यमाह स एव
“ग्रासश्रेणिगणानाञ्च सङ्केतः समयक्रिया । बाधाकाले
तु सा कार्थ्या धर्मकार्य्ये तथैव च । चाटचोरभये वाधाः
सर्वसाधारणाः स्मृताः । तत्रोपशमनं कार्य्यं सर्वेश्चैकेन
केनचिदिति” । गणानाञ्चेत्यत्र चशब्दः पाषण्डनैग-
मादीनां समुच्चयार्थः । ततशच गणपाषण्डनैगमादीनां
लमयकरणमन्तरेण यद्युपद्रवो दुःपरिहरः धर्मकार्य्यं च
दुःसाध्यन्तदा पारिभाषिकी समयक्रिया सर्वोर्मलितैः
कार्य्या । चाटोवृकः । चाटचोरादिभ्यो भये प्राप्ते
तदुपशमनं सर्वैः कार्व्यमित्यर्थः । धर्मकार्य्यमपि सम्भूय
कार्य्यमित्युक्तं तेनैव “मभाप्रपादेवगृहतटाकारामसं
स्कतिः । तथाऽनाथदरिद्राणां संस्कारो यजनक्रिवा ।
कुलायननिरोधश्न कार्य्यमस्माभिरंशतः । यत्रैतल्लिखितं
पत्रे धर्म्या सा समयक्रिया । पालनीयाः समस्तैस्तैर्यः
समर्थो विसंवदेत् । सर्वस्वहरणं दण्डस्तस्य निर्वासनं
युरादिति” । समा मण्डपः । प्रपा पानीयशालिका ।
आरासः उपवनम । संस्कतिः जीर्णोद्धारः । संस्कार
उपनयनादिकः प्रेददहमादिकश्च । यजनक्रिया
सोमयागादिकर्त्तृभ्यो दानम । कुलायननिरोधः । कुलायनस्य
दुर्भिक्षाद्यपगमपर्यन्तस्य धारणम् । कुल्यायनविरोधश्चेति
कल्पतरौ पाठः । कुल्यायननिरोधः कुल्यायाः प्रवर्त्तन-
मप्रतिसन्धश्च । एवं कृता समुयक्रिया न केवलं सयुदायि-
भिरेव पालनीया अपि तु राज्ञापि इत्याह नारदः
“पाषण्डनैगनश्रेणिपूगव्रातगणादिषु । संरक्षेत् समयं
राजा ष्टुर्गं जनपदे तथेति” । पाषण्डा । वेदोक्तलिङ्ग-
धारणव्यतिरिक्ताः सर्वे लिङ्गिमः । तेषु विहित-
भिक्षाचरणाद्याः सन्ति । नैगमाः सार्थिका वणिक्-
प्रभृतयः । तेषु सकञ्चुकसन्देशहरपुरुषतिरस्कारिणो
दण्ड्या इत्येवमादयोबहवः समया विद्यन्ते । अथ वा
नैगमाः आप्तप्रणेतृत्वेन ये वेदप्रामाण्यमिच्छान्त पाशु-
पतादयः । श्रेणयः एकशिल्पोपजीविनः । तास्विदभनयैव
श्रेण्या विक्रेयमित्येवमादिकाः समया वरीवर्त्तन्ते ।
पूगा हस्त्यश्वारोहादयः । व्रातगणशब्दयारर्थमाह
कात्यायनः “नानायुधधरा व्राताः समवेतास्तु
कीर्त्तिताः । कुलानां हि समूहस्तु गणः सम्परिकीर्त्तितः”
इति । पूगे व्राते वास्त्रमुत्सृज्य समरे न गन्तव्यमित्ये-
वमादयः समया वर्त्तन्ते । गणे तु पञ्चमे दिने पञ्चमे
वर्षे वा कर्णवेधः कर्त्तव्य इत्येवमादि समयः समस्ति ।
गणादीत्यत्रादिशब्देन ब्रह्मपुरीनिविष्टस्य महाजनादेः
परिग्रहः । तत्र गुरुदक्षिणाद्यर्थमागता माननीय
इत्यादिः समयोऽस्ति । दुर्गे तु धान्यादिकं गृहीत्वा अन्यत्र
न तद्विक्रेयमित्यादिरस्ति समयः । जनपदे तु क्वचि-
द्विक्रेतृसकाशाच्छुल्कग्रहणमित्याद्यनेकविधः समयो
वरोवर्त्तते । तदेवं समयजातं यथा न भ्रश्यति तथा
राजा कुर्य्यादित्यर्थः । समूहादिपुरुषविषये विशेषमाह
वृहस्पतिः “कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् ।
विश्वासं कृत्वा यः कुर्य्युः कार्य्याणि समनन्तरम्” इति ।
कोशेन देवतास्नानोदकपानेन । लेख्यक्रियया समयप-
त्रेण । मध्यस्थैः प्रतिभूभिः कार्य्याणि समूहतार्य्याणि ।
एतदक्तं भवति । समुदायिभिः परस्परं समयातिक्र-
माभावाय कोशादिभिर्विश्वासमुत्पाद्य सामयिककार्य्याणि
कर्त्तव्यानीति । कात्यायनोऽपि “समूहानां तु यो धर्म-
स्तेन धर्मेण ते सदा । प्रकुर्युः सर्वकर्माणि स्वधर्मेषु
व्यवस्थिताः” इति । सामयिकधर्मनिजधर्मानतिक्रमेण
सर्वकार्य्याणि समुदायिनः कुर्युरित्यर्यः । याज्ञवल्क्योऽषि
“निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि
यत्नेन संरक्ष्यी धर्मो राजकृतश्च यः” इति । निजघर्मावि-
रोधेनेत्यनेन निजधर्माविरोधी सामयिको धर्मा यथा
सन्व्यावन्दनवेलायां सर्वैरेव स्वव्यापारप्ररिहारेण,
राजभवनं प्रत्यागन्तव्यं यो नायास्यति प्रथमसाहसं दण्ड्यः
इति नासौ रक्ष्य इत्यर्थादुक्तम् । कात्यायनोऽपि
“अवरोधेन धर्मस्य निर्जितं राजशासनम् । तस्यैवाचरणं
पूर्वं सर्त्तव्यन्तु नृपाज्ञयेति” । धर्मस्य श्रौतस्मार्त्तादि
पृष्ठ ५१७८
धर्मस्य निर्जितं कृतमित्यर्थः “राज्ञा प्रवर्त्तितान् धर्मान्
यो नरो नानुपालयेत् । गर्ह्यः स पापो दण्ड्यश्च लोप
यन् राजशासनम्” इति । विचित्रबुद्धिभिः समुदा
यिभिरनेकैरैकमत्येन कार्य्यकरणासम्भवात् द्वित्राः पञ्च
वा कार्य्यचिन्तकाः कर्त्तव्या इत्याह वृहस्पतिः “द्वौ
त्रयः पञ्च वा कार्य्याः समूहाहतवादिनः । कर्त्तव्यं
वचनन्तेषां ग्रामश्रेणिगणादिभिरिति” । कार्य्यचिन्त-
केषु हेयोपादेयान्दर्शयति स एव “विद्वेषिणो व्यसनिनः
शालीनालसभीरवः । लुब्धातिवृद्धबालाश्च न कार्य्याः
कार्य्यचिन्तकाः । शुचयो वेदधर्मज्ञाः दक्षा दान्ताः
कुलोद्भवाः । सर्वकार्य्यप्रवीणाश्च कर्त्तव्याञ्च महात्तमाः”
इति । शालीनाः अधृष्टाः कार्य्यचिन्तकाः स
मुदायकार्य्यसाधकविचारकाः । कार्य्याचिन्तकानामपि
समूहहितवादिनां वचनं सर्वैः समूहिभिः कार्य्यामि-
त्याह याज्ञवल्क्यः “कर्त्तव्यं वचनं सर्वैः समूहहित-
वादिनाम्” इति । समूहप्रतिकूलस्य प्रथमसाहसं
दण्ड इत्याह स एव “यस्तत्र विपरीतः स्यात् स दाप्यः
प्रथमं दमम्” इति । प्रथमं पूर्वसाहसम् । कात्यायनो-
ऽपि “युक्तियुक्तं वचो हन्याद् वक्तुर्योऽनवकाशतः ।
अयुक्तञ्चव यो व्रूयात् स दाप्यः पूर्वसाहसम्” इति ।
वृहस्पतिरपि “यस्तु साधारणं हिंस्यात् क्षिपेत्त्रैविद्यमेव
वा । सन्धिक्रियां विहन्थाच्च स निर्वास्यस्ततः पुरात्”
इति । साधारणम् समुदायग्राह्यं दण्डादि द्रव्यम् ।
हिंस्यात् । दण्ड्यादेः साहाय्यकरणान्नाशयेत् क्षिपेत् वा
तिरष्कुर्य्यादित्यर्थः । समूहिनामप्यधर्मेण द्वेषादिना
कार्य्यकरणे दण्डमाह स एव “बाधां कुर्युर्य एकस्य
सम्भूता द्वेषसंयुताः । राज्ञा तु विनिवार्यास्ते शास्या
श्चैवानुवन्धतः” इति । अनुबन्धतः निग्रहतारतम्यानु
सारेण । मुख्यानाम्नपराक्षविशेषे दण्डविशेषमाह याज्ञ-
वल्क्यः “गणद्रव्यं हरेद्यस्वु स विदं लङ्घवेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्” इति । मुख्य
दण्डने समूहस्यैवाधिकारः । अतएव कात्याद्धनः “साह-
सी भेदकारी च गणद्रव्यविनाशकः । उच्छेद्याः सर्व
एवैते विख्याप्यैव नृपे भृगुरिति” । नृपे विख्याप्य
गणेनोच्छेद्या इत्यर्यः । समूहाशक्तौ तस्य दण्डो राज्ञा
विधयः । अतएव ममुः “यो ग्रामदेशमङ्घननां कृत्वा
सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्र-
वाद्धयेत् । निगृह्य दापयेच्चैगं समयष्यभिवारिणम् ।
चतुःसुवर्णान् षण्णिष्काश्छतमानञ्च राजतम् । एवं
दण्डविधिं कुर्य्याद्धार्मिकः पृथिवीपतिः । ग्रामजातिसमू-
हेषु समयव्यभिचारिणाम्” इति । एतेषां प्रवासन-
चतुः सुवर्णषण्णिष्कशतमानरूपाणाञ्चतुर्णां दण्डानाञ्चाति
विद्यागुणाद्यपेक्षया व्यवस्था कल्पनीया । यत्तु कञ्चि-
देतेषाञ्चतुर्णां दण्डानां क्रमेण ब्राह्मणादिचतुर्वर्ण-
विषयत्वमित्याह तदज्ञानविलसितम् । एतादृशव्यवस्थायां
प्रमाणाभावात् । ब्राह्मणस्य प्रवासन क्षत्रियादीनाञ्च-
तुःसुवर्णादि दण्ड इत्यस्यानुचितत्वाच्च । मर्मोद्घाटका-
दीनां पुरान्निर्वासनमेव दण्ड इत्याह वृहस्पतिः “अरु-
न्तुदः सूचकश्च भेदकृत्साहसी तथा । श्रेणिपूगनृपद्विष्टः
क्षिप्रं निर्वास्यते ततः” इति । अरुन्तुदः मर्मोद्घाटकः ।
सूचकः पिशुनः । पिशुनौ खलसूचकावित्यभिधानात् ।
भेदकृत् समुदायिषु वैमत्यकृत् । समूहस्थानान्निर्वास्यते
समूहेनेति शेषः । न च समूहस्य दण्डकरणेऽनधिकारात्
समूहेनेति शेषकरणमयुक्तमिति वक्तव्यम् । पूर्वोक्तकात्या-
यनवचनेन समुहस्यैव मुख्यदण्डनेऽधिकारस्य प्रतिपा-
दितत्वात् “पूगश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्धिग्दण्डपरित्यागं प्रकुर्युः पापकारिणम् । तैः
कृतं यत् सधर्मेण निग्रहानुग्रहं नृणाम् । तद्राज्ञ
मनुमन्तव्यं निसृष्टार्था हि ते स्मृताः” इति वृहस्पति-
नामभिधानाच्च । वाग्दण्डः पापिष्ठोऽसीत्यादि
भाषणम् । धिग्दण्डोधिक्त्वामिति भाषणम् । परित्यागोऽस-
द्व्यवहार्य्यत्व करणं निर्वासनं वा । उभयत्रापि लोके
परित्यागशब्दप्रयोगदर्शनात् । एतच्चार्थदण्डादेरुपलक्ष-
णार्थम् । निग्रहानुग्रहमित्येतेन पुनः साम्येनाभि-
धानात् निसृष्टार्था अज्ञातकार्याः । नारदोऽपि “पृथग्-
गणांस्तु ये भिन्द्युस्ते विनेया विशेषतः । आवहेयुर्भयं
घोरं व्याधिवत्तेह्युपेक्षिता” इति । गणान् श्रेण्यादि-
रूपान् । वृहस्पतिरपि “तत्र भेदमुपेक्षां वा यः कश्चित्-
कुरुते नरः । चतुःघवर्णं षणिष्कांस्तख दण्डो विधी-
यते” इति । मुवर्णचतुष्टयषण्णिष्कयोः शक्त्यादितारत-
न्यानुनारेण गुणवदगुणवद्विषयत्वेन वा व्यवस्वा मन्तव्या ।
पाषण्डादिसवसमूहेषु राज्ञा यथा वर्त्तितव्यन्तदाह
नारदः “यो धर्मः कर्म यच्चैषामुपव्याटविधिश्च यः ।
यच्चैषां प्रत्युपादानमभुमत्येत् तत्तथेति” । धर्मः सत्य-
वदनादिः । कर्म प्रातःप्रर्धु षितमिक्षादनादिः उपस्यन-
बिधिः षमूहकार्थार्थं मृदङ्गादिध्वनिमाकर्ण्यं मण्ड-
पृष्ठ ५१७९
पादौ मेसनम् । प्रत्थुपादानञ्जीवनाय तापसवेषपरि-
ग्रहः । एषां पाषण्डिनामित्यर्थः । अन्यदपि राजकृत्य
माह स एव “प्रतिकूलरु यद्राज्ञः प्रकृत्या च मतञ्च यत् ।
बाधकञ्च यदर्थानां तत्तेम्बोऽपि निवर्त्तयेत्” इति ।
यद्राज्ञः प्रतिकूलम् “यथा यस्य राज्ञर्स्तु कुरुते शूद्रोधर्म
विवेचगम् । तस्य प्रक्षुभ्यते राद्रं बलं कोशश्च नश्यति”
इति । एवञ्च सार्थिकादिशूद्रविवादे घर्मविवेचनं
च यद्राज्ञ इत्यस्योदाहरणम्मन्तव्यम् । प्रकृत्या स्वभा-
वत एव मतम् अवज्ञातार्थं पाषण्डादिषु ताम्बू-
लभक्षणादिकम् । यच्चार्थानां वाधकन्धननाशकचौरादि-
संबाधादिकं तत्तेभ्योऽपि निवर्त्तयेत् । यथा ते न कुर्वन्ति
तथा कुर्व्यादित्यर्थः । अन्यदपि निवर्त्त्यमाह स एव
“दोषंवत्करणं यत्स्यादनाभ्रायप्रकल्पितम् । प्रवृत्तमपि
तद्राजा श्रेयस्कामो निवर्त्तयेत्” । लोमादिदोषवत्करण
श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्डा-
दिभिः प्रकल्पितम् । तद्बहुकालप्रवृत्तमपि राज्ञा
निवर्त्तनीयमित्यर्थः । त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्या-
दिष्वतिदिशति याज्ञवल्क्यः “श्रोणिनैगमपाषण्डिगणा-
नीमप्ययं विधिः । भेदञ्चैषां नृपोरक्षेत् पूर्ववृत्तिं च
पालयेत्” इति । समूहकार्यार्थमागताय यद्राज्ञा समूह
पूजार्थं दत्तन्तद्यदि समूहायासौ न ददाति तदा
तद्दत्तं एकादशगुणं दाप्य इत्याह स एव “समूहकार्य्य
आयातान् कृतकार्यान् विसर्जयेत् । सदानमानसत्कारैः
पूजयित्वा महीपतिः । समूहकार्य्यं प्रहिता यल्लभेत
तदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम्” ।
इति । यल्लभेत समूहसम्भाननार्थमिति शेषः । यतो
राजदत्तं सर्वसाधाराणमतो यथांशतो विभागं कृत्वा ग्राह्यं
निस्वादिभ्यो वा दातव्यमित्याह वृहस्पतिः “ततो लभ्येत
यत्किञ्चित् सर्वेषामेव तत्समम् । षण्मासिकं मासिकं वा
विभक्तव्यं यथांशतः । देयं वा निःस्पवृद्धान्घस्त्रीयाला
तुररोगिषु । सान्तानिकादिषु तथा धर्म एव सतातनः”
इति । एकस्य पुरुषस्य षण्मासनिर्वाहाय पर्य्याप्तं कुटु-
म्बस्य वैकस्य षण्मासनिर्वाहाय पर्य्याप्तं, लब्धं वा यथां-
शतः स्वस्वांशानुरूपेण विभजनीयन्निस्वादिभ्यो वा
देयमिति तात्पर्यार्थः राजप्रसादलब्धवदृणमपि सर्वेषां
सममित्पाह स एव “यत्तैः प्राप्तं रपितं वा गणार्थं वा
वा ऋणं कृतम् । राजप्रसादलब्धञ्च सर्वेषामेव तत्समम्”
इति । अयमर्थः । तैः समूहकार्य्यार्थं प्रहितैर्यत्सीमा-
विवादावधिं क्षेत्रारामादिकं धर्माधिकरणे त्यायतः
पाप्तम् । यच्च परैरपह्रियमाणं रक्षितं यच्च लमूहप्रयो-
जनार्थमुपात्तमृणम्, यच्च राजप्रसादलब्धं तत् सर्वं
सर्वेषां समुदायिनां सममिति । गणकृतमृणं सर्वेषां
सममित्यस्य क्वचिदपवादमाह कात्यायनः “गणमुद्दिश्य
यत्किञ्चित् कृत्वर्णं भक्षितं भवेत् । आत्मार्थं विनियुक्तं
वा दैयं तैरेव तद्भवेत्” इति । तैः मुख्यैः । ये तु समुदा-
यानुग्रहात्तदन्तर्भावं प्राप्ताः ये च समुदायक्षोभादिना
ततो बहिर्भूतास्तान् प्रत्याह स एव “गणानां श्रेणि-
वर्गाणां गताः स्युर्य्येऽपि मध्यताम् । प्राकृतस्य घनर्णस्य
समाशाः सर्व एवेति । तथैव भोज्यवैभव्यदानधर्मक्रि-
यासु च । समूहस्थोऽंशभागी स्यात् प्राग्गतस्त्वंशभा-
ङ्नत्विति” ।

संविधान न० सम् + वि + धा--ल्युट् । १ उपाये २ आयोजने ३ रचनायाञ्च ।

संविषा स्त्री स मर्दितं विषं यथा प्रा० ब० धातुजस्य उत्तर-

पदलोपः । अतिविषायाम् (आतैच्) शब्दच० ।

संवीक्षण न० सम्यग्वीक्ष्यते अन्विष्यते वा सम् + वि + ईक्ष--भावे

ल्युट् । १ सम्यग्दर्शने २ इष्टवस्तुईलाभाय अग्वेषणे च ।

संवीत त्रि० सम् + व्येञ्--क्त । १ आवृते २ रुद्धे च अमरः ।

सम् + वि + इण--क्त । ३ सङ्गते ।

संवृत त्रि० सम् + वृ--क्त । १ आवृते २ कृतगोपने ३ संवाहरूपे वर्णोच्चारणाभ्यन्तयत्ने च

संवेग पु० सम् + विज--घञ् । १ भयादिना त्वरायाम् अमरः

२ सम्यग् वेगे च ।

संवेद पु० सम् + विद--घञ् । ज्ञाने अमरः । स्वार्थे णिच्युच् । संवेदनाप्यत्र स्त्री ।

संवेश पु० सम्यक् विशत्यत्र सम् + विश--आधारे घञ् । १

निद्रायाम् अमरः । संपूर्वकस्य तस्य निद्रार्थकत्वात्तथात्वम् ।
यथा “संविष्टः कुशशयने निशां निनायेति” रधुः ।
२ पीठे हेमच० ३ स्त्रीरतिबन्धभेदे मेदि० ।

संवेशन न० सम् + विश--णिच्--ल्युट् । रतिक्रियायां हेमच०

तदुत्तरं हि निद्राधिक्येन तस्या निद्राहेतुत्वात्तषात्वम् ।

संव्यान न० संवीयते सम् + व्येञ्--कर्मणि ल्युट् । १ उत्त-

रीयवस्त्रे अमरः । २ वस्त्रमात्रे मेदि० ।

संशप्तक पु० सम्यक् शप्तमङ्गीकारो यस्य कप् । प्रतिज्ञाय

संग्रामादनिवर्त्तिनि सैन्ये नारायणीये सैन्यभेदे
च तेषां प्रतिज्ञा यथा “ब्राह्मणांस्तर्पयित्वा च निष्क-
न्दत्त्वा पृथक् पृथक् । गाश्च वासांसि च पुनः
समाभाव्य परस्परम् । प्रज्वाल्य कृष्णवर्त्मानमुपगम्य रणे
व्रतम् । तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृड़निलयाः ।
पृष्ठ ५१८०
शृण्वतां सर्वभूतानामुच्चैर्वाचोवभाषिरे । ते च चनञ्जय-
वधे प्रतिज्ञाञ्चापि चक्रिरे । ये वै लोकाश्चानृतिनां ये
च वै ब्रह्मवातिनाम् । मद्यपस्व च लोका ये गुरु-
दाररतस्य च । ब्रह्मस्वहारिञ्चश्चैव राजपिण्डापहा-
रिणः । शरणागतं वा त्यजता याचमानं तथा घ्नतः ।
अगारदाहिनाञ्चैव ये च गां निघ्नतामपि । अपकारिणाञ्च
ये लोका ये च ब्रह्मद्विवामपि । स्वभार्य्यामृतुकालेषु यो
मोहान्नाभिगच्छति । श्राद्धर्मथुनिकानाञ्च ये चाप्यात्मा
पकारिणाम् । न्यासापहारिणां ये च श्रुतं नाशयताञ्च
ये । क्लीवेन युध्यमानानां ये च दीनानुसारिणाम् ।
नास्तिकानाञ्च लोका येऽग्निमातृपरित्यजाम् । ताना-
प्नुयामहे लोकान् ये च पापकृतामपि । यद्यहत्वा वयं
सर्वे निवर्त्तेम धनञ्जयम् । तेन चाभ्यर्दितास्त्रामुङ्खिबे
महि पराङ्मुखाः । यदि त्वमुकरं लोके कर्म कुर्य्याम
संयुगे । इष्टान् लोकान् प्राप्त याम वयमद्य न संशयः ।
एवमुक्त्रा ततो राजंस्तेऽम्यवर्त्तन्त संयुगे । आह्वयन्तो-
ऽर्जुनं वीराः पितृजुष्टां दिशं प्रति” भा० द्रो० १७ अ० ।

संशय पु० सम् + शी--अच् । सन्देहे एकस्मिन् धर्मिणि भावा-

भावयोः विरुद्धधर्मद्वयस्य वा सन्देहे । यथा पर्वतो
वह्निमन्नि वा, अयं स्थाणुर्वा पुरुषोवेति । “स संशयो
भवेद्या धीरेकत्रानावभावयोः । साधारणादिधर्मस्य ज्ञानं
स शयकारणम्” भापा० “एकधर्मिकविरुद्धभावाभ वप्र
कारकं ज्ञानं संशयः इत्यर्थः । साधारणेति ।
उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणम् । यथा
उच्चैस्तरत्वं स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न बेति
सन्दिग्ध । एवम् असाधारणज्ञानं तत्कारणम् । यथा
शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्यो
ण वेति सन्दिग्धे । विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्या
दिशब्दात्मिका न संशयकारणस् । शब्दव्याप्तिज्ञानादि-
नाख् निश्चयमात्रजनकत्वस्वाभाव्यात् । किन्तु तत्र शब्देन
कोटिद्वयज्ञानं जन्यते । संशयस्तु तत्र मानस एवेति ।
एवं ज्ञाने प्रामाण्यसंशयाद् विषयसंशय इति । एवं
व्याप्यसं शयादपि व्यापकसंशय इत्यादिक बोध्यम् । किन्तु
स शये धर्मिज्ञानं धर्मीन्द्रिसन्निकर्षो वा कारणमिति”
सि० मु० । “समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपमश्यनु-
पलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः” न्यायसू०
“समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति स्था-
णुपुरुषयोः समानं धर्ममारोहपरिणाहो पश्यन् पूर्व-
दृष्टञ्च तयोर्विशेषं बुभुत्समानः किंस्विदित्यन्यतरन्नाव-
धारयति यदनवधारयति तदनश्चधारणं ज्ञानं सशयः
समानयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभे इत्येषा
बुद्धिरपेक्ष्या संशयस्य प्रवर्त्तिका वर्त्तते, तेन विशेषापेक्षो
विमर्शः संशयः । अनेकधर्मोपपत्तेरिति समानजातीय-
मसमानजातीयञ्चानेकं तस्यानेकस्य धर्मोपपत्तेर्विशेष-
स्योभयथा दृष्टत्वात् समानजातीयेभ्योऽसमानजातीयेभ्य-
श्चार्था विशेष्यन्ते । शन्धवत्त्वात् पृथिवी अबादिभ्यो
विशेष्यते गुणकर्मभ्यश्च, अस्ति च शब्दे विभागजत्वं
विशेषः, तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः विशेषस्वो-
भयथा दृष्टत्वात् किं द्रघ्यस्य सतो गुणकर्मभ्यो विशेष
आहोस्विद्गुणस्य सत इति अथ कर्मणः सत इति विशे-
षापेक्षा अन्यतमस्य व्यवस्थापकं धर्मन्नोपलभे इति बुद्धि-
रिति । विप्रतिपत्तेरिति व्याहतमेकार्थदर्शनं विप्रति-
पत्तिः व्याघातो विरोधोऽसहभाव इति । आस्त्यात्मे-
त्येकं दर्शनम् नास्त्यात्मेत्यपरम्, व च लद्भावासद्भावौ
सहैकत्र सम्भवतः, न चान्यतरसाधको हेतुरुपलभ्यते
तत्र तत्त्वानवधारणं संशय इति । उपलब्ध्यव्यवस्थातः
स्वल्वपि सच्चोदकमुपलभ्यते तड़ानादिषु मरीचिषु
वाऽविद्यमानमुदकमिति ततः क्वचिदुपलभ्यमाने तत्त्वप्यवस्या
पकस्य प्रमाणस्यानुपलब्धेः किं सदु पलभ्यते अथासदिति
संशयो भवति । अनुपलब्ध्यव्यवस्थातः सच्च नोपकभ्यते
मूलकीलकोदकादि, असच्चानुत्पन्नं विरुद्धं वा, ततः क्वचि-
दनुपलभ्यमाने संशयः किं सन्नोपलभ्यते लतासदिति
संशयो भवति विशेषापेक्षा पूर्ववत्, पूर्वः समानोऽनेकश्च
धर्मो ज्ञेयख्यः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे, एतावता
विशेषेण पुनर्वचनम्, समानधर्माधिगमात् समानधर्मोप-
पत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति, स्थानवर्ता लक्षणवच-
नमिति ससामम्” वा० भा० । “संशय इति सक्ष्यनिर्देशः
विमर्श इत्यत्र विशब्दो विरोधार्थः मशिर्ज्ञानार्थः एकस्मिन्
धर्मिणीति पूरणीयं तेन एकधर्मिणि विरोधेन भावा-
भावप्रकारकं ज्ञानं संशयः तत कारणमुखेन विशेस-
लक्षणान्थाह समानेत्यादि उपपत्तिर्ज्ञानं तथा च
समासस्य विरुद्धकोटिद्वयसाधारणधर्मस्य ज्ञानादित्यर्थः ।
अनेकधर्मः असाधारणधर्मः तज्ज्ञानादित्यर्थः । तथा च
साधारणधर्मवद्धर्सिज्ञानजन्योऽसाधारणधर्भवर्भवल्लर्मिज्ञानज-
न्यश्चेत्यर्थः, विप्रातिपत्तिर्विरुद्धकोटिद्वयोपरधावतः शब्द-
रखादित्यर्थः यदापि शब्दरव ग संशयकत्वं तपापि”
पृष्ठ ५१८१
शब्दात्काटिद्वयोपस्थितौ मानसः सशय इति वदन्ति ।
उपलब्धेर्ज्ञानस्य अनुपलब्धेर्व्यतिरकज्ञानस्य याऽव्यवस्था
मधिमयकत्वानिर्द्धारण प्रामाण्य संशय इति फलितोऽर्थः,
नन्ये तु उपलब्ध्यव्यवस्था प्रामाण्यसंशयः अनुपलब्धिर्वि-
रोधिभ्वामः तदव्यवस्था ततः संशय इत्याहुः । वस्तुतस्तु
ग्रामाण्यसंशयस्य न संशयहेतुत्वं किं त्वगृहीतापामाण्य-
कश्चाव्रस्य विरोधितया सति प्रामाण्यसंशये तज्ज्ञान-
स्थाचिरोधितया साधाणधर्मदर्शनादित एव संशयोत्पत्ति-
रिति । उपलब्धीत्यादिकं तादृशस्थले संशयो न भवतीत्ये-
तावन्मात्रपर चकारो व्याप्यसंशयस्य व्यापकशसंशयहेतुत्वं
समुच्चिवोतीति वदन्ति विशेषापेक्षः कोटिस्मरणसापेक्षः ।
वस्तुतस्तु संशयधारावाहिकत्वं स्यादत आह विशेषेति
विशेषं विशेषदर्शनम् अपेक्षते विअवार्त्तकर्वंन तथा च
विशेषदर्शननिवर्त्त्यत्वकथनमुखेन विशेषादर्शन्यसंशय
इत्मुक्तम” वृतितिः स च संशयो द्विविधः यथोक्तम
“द्विविधः संशयो वहिर्विषयकोऽन्तर्विषयकश्च बहिर्वि-
षयश्चोऽपि दृश्यामानधर्मिकोऽदृश्यमानधर्मिकश्च तत्र
डश्यषानधार्मको यथा ऊर्द्धत्वविशिष्टस्य धर्मिणो दर्शनात्
अयं रवाणुः पुरुषो येति । अदृश्यमानधर्मिको यथा
अरण्ये झाटाद्यन्तरिते योगवंयादिविषाणमात्रदर्श-
नात् अयं गौर्गवयो वेति । वस्तुतस्तत्रापि विषाणधर्मिक
एव सन्देहो विषाणभिदं गोसम्बन्धि गवयसम्बन्धि
संति विवक्षामात्राद्द्वैविध्याभिधानम् । यत् सामान्यं
संशयाहेतुस्तढनेकत्र दृष्टं संशायकम एकत्र धर्मिणि वा
दृष्टं संशयहेतुरित्यत्र प्रथमां विधामाह” उप० वृत्तिः ।
“इद्रन्तु वोध्यं संशयश्च प्रत्यक्षरूपः सन्निकर्षजन्यत्वात्
अतएवोक्तं “परीक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धा-
न्तादिति” । संशये च उभयप्रकारतानिरूपिता विशेष्यता
एकैव । समुच्चये तु विशेष्यताद्वयमिति” गढाधरः ।

संशयसम पु० जात्युत्तरभेदे “सामान्यदृष्टान्तयौरैन्द्रियकत्वे

समाने नित्याब्नुअत्यासांधर्म्यात् संशयसमः” न्यायसू० ।
“अनित्यः शब्दः प्रयत्यात्रानान्तरायत्वात घटवष्टित्युक्ते
हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्ननान्तरीयकस्त्रे अ
ख्येवास्य नित्येन सामास्येन साधर्म्यमैन्द्रियकत्वसस्ति
च घटेनानित्येन । अतो लित्यानित्यसाधर्म्यादनिवृत्तः
संशय इति” वा० भा० ।

संशयस्थ त्रि० संशये तिष्ठति स्था--क । संशययुक्ते ।

संशयात्मन् पु० संशय आत्मनि यस्य । मन्दिग्धान्तःकरणे

“संशयात्मा विनश्यतीति” “संशयात्मा निबध्यते” ।

संशयालु त्रि० संशय + अत्यर्थे आलुच् । संशययुक्ते हेमच०

संशयितृ त्रि० सम् + शी--तृच् । संशयकर्त्तरि हेमच० ।

संशरण न० संशीर्य्यतेऽनेन सम् + शॄ--करणे ल्युट् ।

रणारम्भे शब्दमा० ।

संशित त्रि० सम्स् + शो ओरते इत्त्वम । १ सम्पादितव्रतविषयकयत्ने २ तद्वति त्रि० सै० कौ० ।

संशितव्रत त्रि० संशितं सम्यक् सम्पादितं घ्रतमनेन ।

सम्यक्सम्पादितव्रते ।

संशुद्धि स्त्री सम + शुध--क्तिन् । १ सम्यक्शोधने २ देहादिमार्जने च रत्नभा० ।

संश्च(श्व)त् सम् + श्यु--श्वि--वा वा० डति । कुहके उणादि० ।

संश्यान त्रि० सम् + स्यौ--क्त न सम्प्र० । सङ्कुचिते ।

संश्रय पु० सम् + श्रि--भावे अच् । आश्रये ।

संश्रव पु० सम्--श्रु--अप् । अङ्गीकारे अमरः । घञ् ।

संश्रावीऽप्यत्र पु० ।

संश्रुत त्रि० सम + श्रु--क । १ अङ्गीकृते अमरः । २ मम्यकश्रुते ।

संश्लिष्ट त्रि० सम् + श्लिष--क्त । १ आखिङ्गिते २ सम्बद्धे च ।

संश्लेष पु० सम् + श्लिष--घञ् । १ आखिङ्गने अमरः २ सम्पन्ध-

मात्रे च ।

संसक्त त्रि० सम् + सन्ज--क्त । १ मिलिते २ संबद्धे ३ अव्यव-

हिते अमरः ४ समन्ताद्विस्तीर्णे च “पान्तेषु श्वंसक्त-
नमेरुशास्यजिति” कुमारः ।

संसद् स्त्री संसीदत्यात्याम् सुम् + सद--सम्प्र० आधारे क्विप् । सभायां अमरः ।

संसरण न० सम् + सृ--ल्युट् । स्वादृष्टनिबद्धदेस्वीकाररूपे

१ संसारे २ असंवाधमेनागने ३ घण्टापथे अमरः ।
४ रणारम्भे मेदि० । ५ सङ्गतौ शब्दच० ।

संसर्ग पु० सम् + सृज--घञ् । १ सम्बब्धे विभागानन्तरं “यत्तव

धनं तन्मनेति” कृतसमयेन एकत्राबस्थानरूपे २ धनसम्बन्धे
च पापिष्ठसंसर्गस्य पापभदे कालभेदेन पातित्यादिजन-
कत्वं प्र० वि० दर्शितं यथा
“तत्र पातकिस अगस्य पापहेतुत्वमाह मनुः “ब्रत-
हत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातका-
न्याहुः संसर्गश्चापि तैः मह” इति । ननु तैः सहेति
निर्देशात् मह्यपातकिसंसर्गस्थैव पापहेतुत्वं लभ्यते न तु
पातक्यन्तरसंसर्गस्य प्रायश्चित्तमपि महापातकिसंस
एव मनुना दर्शितं यथा मनुः “एषां पापकृताम्भुक्तः
चतुर्णासपि निष्कतिः । पतितैः सम्प्रयुक्त्रानामिमाः
शृणुत निष्कृतीः । यो येन पतितेनैषां संसर्शं याति
सानवः । स तस्यव व्रतं कुयात् तत्संसर्गविशुद्धये” इति
पृष्ठ ५१८२
अत्र चतुर्णामित्यनेन ब्रह्महत्यादिमहापातकचतुष्टय-
मुपसांहृत्य यो येन पतितेनेत्युक्तं महापातकपरमेव ।
उच्यते “प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेनं वा ।
न संसर्गं व्रजेत् सद्भिः पायश्चित्तेऽकृते द्विजः ।
एनखिभिरनिर्णिक्तैर्नार्थं किञ्चित् समाचरेत् । कृतनिर्णे
जनांश्चैव न जुगुपसेत कर्हिचित्” इति मनुना सामा-
न्थतः पापिष्ठसं सगस्य निषिद्धत्वात् निषिद्धाचरणात्
पापोत्पत्तिः पापिष्ठसंसर्ग एव दर्शिता प्रायश्चित्तमपि
सामान्थेन दर्शितम् “यो येन पतितेनैषां संसर्गम्” इति
निर्देशात् चतुर्णामिति हिंसाऽभक्ष्यभक्षणतेयागम्या-
गमनाख्यप्रकारचतुष्टयानां न तु ब्रह्महत्यादिविशेषार्थं
लधीयसामपि हिसाभक्ष्यभक्षणस्तेयागम्यागमनादीनाम्
मनुना पूर्वसुक्तत्वात अपि च संसर्गपापस्मृत्या श्रुतिः
कल्प्यमाना पापिष्ठसंश्चगीं पापी भवतीति सामान्यस्मृति-
रेव कल्पानीया लाघवात् होलाकाधिकरणन्याय एवात्र
जागर्त्ति । विष्णुनापि सामान्येनैव स्मृते “यश्च येन पा
पात्मना सह संसृजेत् स तस्यैव प्रायश्चित्तं कुर्य्यात्” ।
गोतमोऽप्याह “ब्रह्महसुरापगुरुतल्पगमातृपितृयोनि-
सम्बन्धागस्तेनाभक्ष्यभक्षकनास्तिकनिन्दितकर्माभ्यासपति-
तात्यागाऽपतितत्यानिनः पतिताः पातकसंयोजकाश्च
तैश्चाब्दं समाचरन्” । अत्र पतितात्यागेति सामान्थेनैव
दर्शयति । तैश्चाव्दं समाचरन्निति द्वितीथसं सर्गिणो-
ऽपि पतितत्वमुक्तम् । नन्वेकग्रामनिवासादिनापि
पतितेन संसर्निणः पतितत्वं स्यात् न संसर्गविशेषाणां
निधेधात् निषिद्धपतितसं सर्नात् पततीति श्रुतिः कल्प्या ।
के ते संसर्गप्रकारा इत्याह वृहस्पतिः “एकशय्यासनं
षङ्क्तिर्भाण्डपक्वन्नमिश्रणम् । याजनाध्यापनं योनि-
रनया च सह भोजनम् । नवधा सङ्करः प्रोक्तो न कर्त्त
व्यीधमैः सह । उत्तनीरुत्तमैनित्यं कर्त्तव्यस्तु समेन वा”
एकशव्याशयनैकपीठाद्युपयेशनैकपङ्क्तिभोजनपक्वान्नादि-
सम्यन्धिभाण्डमिश्रणपक्वन्नमिश्राख्याः पञ्च लघुसं-
सर्गाः । तथा याजनं पतितेन ऋत्विजा यजनं
यजजानस्य, पतितयजमानार्त्विज्यकरणमृत्विजश्च । अध्या-
यगं ओअतितमाणवकवेदाध्यापनमाचार्य्यस्य, पतिताचार्य्याद्वा
वेदाध्यबनं माणवकस्य । योनिः योनिसम्बन्धः स च
पतितपुरुषसम्भागः स्त्रियाः, पतितस्त्रीसम्भोगो वा पुरु-
तस्य, तथा पतितकन्यापरिणयनं वरस्य, पतितवरपरि-
खयनं वा कन्यायाः । तथा च मनुः “नैतैरपूतैर्विधि
वदापद्यपि हि कर्हिचित् । ब्रह्म्यान् यौनांश्च सन्ध-
न्धानाचरेत् ब्राह्मणः सह” । जिकनकल्पतरुकारादयस्तु
पतितवराय कन्यादानं दातुः, पतिताद्दातुरादानं वा
कन्याया वरस्य, सर्वत्र व्यवहितयीनिसम्बन्ध, योनि-
सम्बन्धस्य स्त्रीपुरुषमात्रनिष्पाद्यत्वात् नात्र दातृवरयोः
साक्षात् योनिसभ्बन्धः दानपतिग्रहलक्षणिप्ययं
सम्बन्धो दातृसम्प्रदानयोर्योन्यन्तर्भावात् यौन इत्युच्यते
प्रायश्चित्तगौरवार्थः । किन्त्वयमनार्षः प्रायश्चित्तविशे
षाश्रवणात् अनुपादेयश्च पतितजाता कन्या पतितैव
वक्ष्यते तत्परिणयनं पतितकन्यापरिणयनमेव नात्र व्यव-
हितयोनिसम्बन्धः । सह भोजनं स्वस्यान्नस्य परस्य
वा एकपात्रे भोजनं नोच्छिष्टभोजनम् उच्छिष्टेन
सहोच्छिष्टभोजनात् तस्य लघुत्वात् एते चत्वारो गुरु-
संसर्गाभवन्ति एवं मिलित्वा नव संसर्गाः । नन्वेक
यानालापगात्रस्पर्शनिश्वासहाध्ययनादिकमपि संसर्गा-
न्तरमस्ति तत्कथं नवविधत्यं यथा पराशरः “आसना-
च्छयनाद्यानात् भाषणात् सह भोजनात् । संक्रामन्ति
हि पापानि तैलबिन्दुरिवाम्भसि” । भाषणमपि अन्यो-
न्यसंकथनं सहभोजनमेकपङ्क्तिभोजनं लघुसंसर्गसा-
हचर्य्यात् । तथा देवलः “संलापस्पर्शनिश्वाससहशय्या-
सनाशनात् । याजनाध्यापनात् यौनात् पापं संक्रमते
नृणाम्” । सहाशनमेकपङ्क्तिभोजजनम् । तथा छा{??}-
लेयः “आलापात् गात्रसंस्पर्शात् निश्वासात् सहभोज-
नात् । सहशय्यासनाध्यायात् पापं संक्रमते नृणाम्” ।
सहाध्यायः पतितेन ब्रह्माचारिणा सहैकस्माद्गुरोरध्यय-
नम् । सत्यं नवधेत्यत्र प्रकारवाचिना धाप्रत्ययेन प्रकारा-
न्तरं सूचितम् अन्यथा नवेत्युक्तं स्यात् । तेन तदन्नभोजन
तत्संस्पृष्टान्नभोजनतत्प्रतिग्रहादीनामुपसंग्रहः । नन्व-
नेकवचनेषु पापसंक्रान्तिः श्रूयते पूर्वदेशत्यागेन देशा-
न्तरसम्बन्धे संक्रान्तिशब्दस्य सुख्यत्वात् मूलपापकर्त्तुः
पापषरिच्छेदे भूते किमर्थं प्रायश्चित्तामुष्ठानमिति ।
तथा हारीतः “हन्यादशुद्धः शुद्धन्तु शुद्धोऽशुद्धन्तु
शोघयेत् । मशुद्मग्र तमोभूतः शुद्धवासेन शुद्ध्यति” । तथा
च मनुः “अद्धाद भ्रूष्णदा मार्ष्टि पत्यौ मार्य्यापचा-
रिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्पि-
षम्” । मार्ष्णीति प्रोञ्छयति संक्रामयतीत्यर्थः । तथा
यमः “दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।
यो यस्यान्नमिहाश्नाति श्च तस्काश्नाति किल्विषम्” । तत्र
पृष्ठ ५१८३
किल्विषम् अश्नाति इव्यनेनापि पापाभावो गम्यते ।
उच्यते न पूर्वपापव्यक्तेराश्रयत्यागेन आश्रयान्तरसम्बन्धः
सम्भवति गुणस्य तद्रूपादर्शनेनायोग्यत्वात् किन्तु तत्तुल्य-
व्यक्तिसम्बन्धे गौणोऽयं संक्रान्त्यादिशब्दः । तथा च
देबलः “बान्धवोऽपि पृथग् भूत्वा तत्पापं नाप्नुयात्
क्वचित् । पृथग्जनोऽपि संयोगात् भजते तुल्यदोष-
ताम्” । तत्पापं तज्जातीयं पापमित्यर्थः । तुल्यदोषतां
तत्समानपापतामित्यर्थः । “शुद्धोऽशुद्धन्तु शोधयेदिति” यत्र
ब्राह्मणादिसम्पर्क एव पापक्षयहेतुस्तत्र वोद्धव्यम् ।
यथोशनाः “कृतलक्षणैर्दर्शनस्पर्शनसम्भाषणानि वर्जयेत्”
इत्युक्त्वा “सम्भाषणे घ्राह्मणसम्भाषणमित्यादि” ।
कृतलक्षणो राज्ञा कृतपापचिह्नः । किन्तु यदि पापिष्ठस्या-
न्यसंसर्गः पापक्षयहेतुस्तदेतरप्रायश्चित्तवदिदमपि केनापि
मुनिना प्रायश्चित्तरूपतया पठितः स्वात् प्रत्युत निषेध
एव श्रूयते यथा मनुः “प्रायश्चित्तीयतां प्राप्य दैवात्
पूर्वकृतेन वा । न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते
द्विजः” इति । किञ्च “मिश्रितस्तेन सोऽव्दान्ते स्वयञ्च
पतितो भवेदिति” ष्ठेबलवचने चशब्दान्मूलपापकर्तुरपि
पापस्थितिरवगम्यते मूलुषापकर्त्ता पतितः स्वयमपि पतति
इत्यर्थः । इदानीश्चा कियता कालेन कतमस्य संसर्गस्य
पतितसाम्यापादनमिति निरूप्यते । तत्र देबलः “पति-
तेन सहोषित्वा जानन् संवत्सरं नरः । मिश्रितस्तेन
सोऽव्दान्ते स्वयञ्च प्रतितो भवेत् । वाजनं योनिस-
म्बन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतन्त्येते
पतितेन न संशयः” । यानादिलधुसंसर्गैः ज्ञानकतैः
संवत्सरेण पतति याजनादिभिर्गुरुभिः सद्यः
पततीत्यर्थः । तथा बौधायनः “संवत्सरेण पतति
पतितेन सहाचरन् । याजनाध्यापनाद् यौनात् सद्यो न
शयनासनात्” । शयनादिना सद्यापातनिषेधात्
साकाङ्क्षस्य संवत्सुरेण पततीत्यस्य शयनादिना सम्बन्धः ।
याजनादिपदं सहनोजनमप्युपलक्षयति । विष्णुः ।
“आसं वत्सरात् पतति पतितेन सहाचरन् । सह
यानासनाभ्यां यौनात् जौवात् मौखात् सम्बन्धात् । सद्य
एव” । यानासनाभ्यामिधि खसुसंसर्गोपलक्षणम् ।
यौनात् इत्याधि सहभोजगोपलक्षणम् । कूर्मपुराणे
श्चासः “घ्रह्ममा मद्यापः स्तेनो गुरुतस्पग एव च ।
महापातकिनस्त्वेते यश्च तैः सह संवसेत् । संवत्सरन्तु
पतितैः संसर्गं कुरु तु यः । यानशय्यासनैर्नित्यं जा-
नन् वै पतितो भवेत् । एभिर्वचनैर्याजनादिना सद्यः
पातो यानादिना ज्ञानतः संवत्सरेणेत्यवगम्यते । ननु
याजनादिना संवत्सरेण पतति न तु यानादिनेत्याह
मनुर्बिष्णुश्च “संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनात् न तु यानासनाशनात्” ।
यानासनाशनादुत्पन्नसंयोगमाचरन्नित्यर्थः । तथा पैठोनसिः
“संवत्सरेण प्रतति पतितेन सहाचरन् । याजनाध्या-
पनात् यौनात् नत्वेवं शयनासनात्” । अत्र मवदेवकल्प-
तरुकारादयः देवलबौधायनादिवचनैर्याजनादीनां सद्यः
पातहेतुत्वावगतेः मनुपैठीनसिवचनयोर्नत्विति मध्यपठि-
तस्य पूर्वेण याजनादिना सम्बन्धो न तु परेण याना-
दिना, याजनाध्यापनात् न तु संवत्सरेण पतति किन्तु
यानादिभिरित्याहुः । तदसङ्गतम् सुमन्तुवचनविरो-
धात् यथा पतितानभिधायाह सुमन्तुः “यश्चैतैर्यौन-
मौखस्रौवाणां सम्बन्धानामन्यतमेन सह संवत्सरं
सम्पर्कमियात् नस्याप्येतदेव प्रायश्चित्तं विदध्यात्” इयात्
कुर्य्यात् एतदेव द्वादशवार्षिकव्रतम् इत्यर्थः । अत्र याजना-
दीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते । तथा
हारीतः “संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनादेकशय्यैकभोजनात्” । एकभोजनमे-
कपात्रे कालभेदेन भोजनं जलपानञ्च । तथा वृहस्पतिः
“षाण्मासिके तु संयोगे याजनाध्यापनादिना ।
एकत्राशनशय्याभिः प्रायश्चित्तार्द्धमाचरेत् । तथा वत्सरसं-
सर्गे योनियुक्ते विशेषतः । पूर्वोक्तेन विधानेन पतित-
व्रतमाचरेत्” । अनेन याजनादिना षाण्मासिकसंसर्गे
प्रायश्चित्तार्द्धं वदता वत्सरेण समूर्णप्रायश्चित्तमर्थादु-
क्तम् उत्तरवचने पुनः स्फटीकृतम् । योनियुक्तपदेन
याजनादीनामप्यु पसंग्रहः । एकत्राशनशव्यादिरिति पाठो-
ऽनाकारः राज्ञाऽलिखितत्वात् । जिकगादयस्तु यदि
प्रत्येकं विभक्तिनिर्देशात् भोजनं कृत्वा पतति
योनिसम्बन्धं कृत्वा पततीति एवं सम्बन्धोऽभिधीयते
तदा कृत्वा पततीति पदथोरन्वयावृत्तितात्पर्य्यावृ-
त्तिभ्याम् आस्तां वाक्यभेदः चत्वारि वाक्यानि स्थुः ।
अतः कृत्वेति पदेन तन्त्रेण वाजनादिकर्मचतुष्टमादाय
पततीति सम्बन्धे वोधिते न वाक्यमेदः संवत्सरपदेन
पृथगुपद्वीतानामपि कृन्तेति पदेन तन्त्रेणोपनयनात् ।
दर्शपौर्णमासाभ्यां स्वर्गकामी यजेतेत्याग्नेयादियागषट्-
कानामिव । अत एकवाक्यानुरोधाद्याजनादीनां तन्त्रेण
पृष्ठ ५१८४
समुच्चितोपनीतानां पततीत्यनेन सम्बन्धे बोधिते
याजनादीनां समुच्चितानां सद्यः पातहेतुत्वं पूर्वोक्तसुमन्त्वा-
दिवचनादेकैकेषां संवत्सरेणैव अत्रैवसंसर्गत्रय चतुमि-
र्मासैः संसर्गद्वयेऽष्टभिर्मासैर्भागहारेण पातहेतुत्वमूह-
नायम् । तन्न कृत्वेति पदस्य याजनादिकर्मत्वेऽशक्तत्वात्
किन्त्वन्विताभिधानलभ्यं तत् तदा च निरपेक्षाणामेवा-
न्विताभिधानप्राप्तत्वादनुषङ्गाधिकरणन्यायान्न तन्त्रता
सत्यपि तन्त्रताभिधाने न समुच्चयः सर्वेभ्यो दर्शपौर्णमा-
सावित्यत्रेव समुच्चयबोधकस्य द्वन्यसमासादेरभावात् । न
वा तन्त्रतायां समुच्चयो नियतः गर्गाभैज्यन्तां सप्तदश-
प्राजापत्यान् पशूनालभेदित्यत्र व्यभिचारात् पततीति
पाठस्य राज्ञाऽलिखितत्वाच्च कथं पततीति पदावृत्तिः ।
न च सुमन्तुवचने याजनादीनामन्यतमेन वत्सरेण
पातावगमादर्थान्मिलितैः सद्यः पात इति कल्पनीयं
निरपेक्षश्रुतिविरोधात् वक्ष्यमाणप्रकारेण वचनद्वयसामञ्जस्य
सम्भवात् । उच्यते । गुरुलघुभेदेन द्विविधं याजनादिकं
भवति तत्र गुरुणा ज्ञानकृतेन याजनादिना एकैकेन सद्यः
प्रातः तेनैवाज्ञानकृतेन वारद्वयाभ्यासात् । लघुयाजना-
दावज्ञानकृते वत्सरेण पातः तस्मिन्नेव ज्ञानकृते वत्सरा-
र्द्धेनेति व्यवस्था । तथा हि याजनं योनिसम्बन्धमित्यत्र
देवलवचने पतितेन सहोषित्वा पूर्ववचने जानन्निति
पटसम्बन्धाज्ज्ञानकृतत्वं दर्शितम् । गुरुत्वं च देवलवचने-
नैव याजनाध्यापनयोरुपसंहाराद्दर्शितम् । यथा देवलः
“आचार्य्याद्व्रतनियमशुश्रूषादिभिस्त्रयीविद्योपादानसध्य-
यनंतस्य चाचारान्वयः प्रक्रमसामर्थ्यभक्तिशीलशुश्रूषोप-
नताय शिष्यय प्रदानसध्यापनम् । पशुक्षीराज्यपुरो-
डाशसोमौषधिचरुप्रभृतिभिर्हविर्भिः खदिरपलाशाश्वत्थ-
न्थग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखलमुषल-
कुठारखनित्रयूपदारुचमदर्भग्रावपवित्रपात्रभाजनादिभिर्द्र-
ज्योपरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिरृत्विम्भिः काम्य
नैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां वज्ञानां
समापर्न यजनम् एतेन याजनं व्याख्यातग्” । प्रक्रमः
वृद्यभः । अत उपनयनपूर्वकमध्यापनं ज्योतिष्टोमादियज्ञानां
याजनं च गुरु, तत्साहचर्य्याद्यौनं परिणयनरूपं गुरु
मन्त्रहोमादिमाध्यत्वात्, स्तेयादिना पतितान्यब्राह्नण्याग-
मनं वा ब्राह्मणस्य, तदप्रेक्षया पतितस्वब्राह्मणीगमन-
पतित शूद्रागमनयोर्लघुत्वात् । सह भोजनं पतितान्नस्य
पतितेन सहैकपात्रे भोजनं गुरु । उपसयनं विना वेदा-
ध्यनम्, अष्टकादियज्ञयाजनं पतितस्वब्राह्मणीगमनं
अपतितान्नस्य पतितेन सहैकपात्रे भोजनं पतितोच्छिष्टभो-
जनं वा पूर्वोक्तयाजनाद्यपेक्षयालघु । देवसवचने ज्ञानतो
गुरुणा याजनादिना संबत्सरेण पतमिति गम्यते ।
ज्ञानतः सकृत्कृतेन येन पतनं तेनाज्ञानतो वारद्वया-
भ्यासेन । अज्ञानतो वत्सरेण येन पतनं तेन चानतः
षण्मासैरिति वचनद्वयसामञ्जस्यं तथा च लगुयाज-
नविषये संवर्त्तः “एभिः संसर्गमायाति यः कचित्
काममोहितः । षणमासानव्ढमेकं वा ब्रह्महत्याव्रत-
ञ्चरेत्” । कल्पतरुकारस्याप्येष स्वरसः । अतएव कूर्म-
पुराणं “याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यःपतेत् जानन् सह भोजनमेव च । अज्ञाना-
दथ वा मोहात् कुर्य्यादध्यापनं द्विजः । संवत्सरेण पतति
सहाध्ययनमेव च” । अत्र पूर्ववचनं गुरुयाजनादिपरं
द्वितीयवचनं लघुयाजनाद्यर्थम् । न च ज्ञानाज्ञानाभ्या०
मेव सद्योवचनसंवत्सरवनयोः सामञ्जस्त्यं भविष्यत्र
किं गुरुलघुव्यवस्थापनेनेति वाच्यं ज्ञानकृतादज्ञासकृत-
स्यार्द्धम् अज्ञानकृताच्च ज्ञानकृतस्य द्वैगुण्यं युक्तं यतः
“स्यात्त्वकामकृते यत्तद्द्विगुणं बुद्धिपूर्वके” इति वचनात्
अत्यन्तविप्रकर्षस्यादृष्टत्वाच्च । देवलेन याजनादिवचनस्य
गुरुयाजनादावुपसं हृतत्वान्मनुवचने चार्थाल्लघुयाजनाद्य-
वगतेस्तस्मादुक्तैव व्यवस्था । अथ गुरुसं सर्गकालं निरू-
ष्याधुना लघुसंसर्गकालो निरूप्यते । तत्र भवदेवेनोक्तं
याजनादिम्यो लघूनां यानासनशयनैकपङ्क्तिभोस्वनानां
चतुर्णां लघुतराणाञ्चालापस्पर्शनिश्वासानां मिलित्वा
मप्तानां ज्ञानती वत्सरेण पातहेतुत्वमज्ञानतो वत्सरद्वयेनेति
तदेतत्प्रमाणशून्यं द्वन्द्वानर्देशादेरभावात् । जिकनस्तु
“आसंवत्सरात् पतति पतितेन सहाचरन् । सह यागा-
सनाभ्यामिति” विष्णुवचने द्वयोर्द्वनिर्देशात् यानास-
नादीनाञ्चतुर्णां मध्यादयेन केनचित् संसर्गद्वयेन वत्स-
रेण पात एकैकशस्तु वत्सरद्वयेन एभ्योऽपि संलापादे-
र्लघुस्रात् सहथानादेर्द्विगुणकालेन साम्यापादकत्वम्
एतच्च ज्ञानतः “जानन् संवत्सरं नर” इति वचनात्
अज्ञानादेतद्द्विगुणकालेतेति । तन्न त्रयाणामपि द्वन्द्वनि-
र्देशात् । यथा मनुः “संवत्सरेण पतति पतितेन
सहाचरन् । याजनास्यापनाद् यौनात् न तु यनिशनासनात्” ।
यथा याजनादिना प्रत्येकमज्ञानाद्वत्सरेण पातः तथा न
यानादिभिः एभिघ मिसितैर्ज्ञानादित्यर्धः । तथा स
पृष्ठ ५१८५
कूर्मपुराणे “ब्रह्माह्वा मध्यपस्तेनो गुरुतल्पग एव च ।
महापातकिनस्त्वेते यश्च तैः सह संवसेत् । संवत्सरन्तु
पतितैः ससंर्गं कुरुते तु यः । यानशय्यासनैर्नित्यं
जानन् वै पतितो भवेत्” । तथा वृहस्पतिः “षाण्मासिके
तु संयोगे याजनाध्यापनादिना । एकत्रासनशय्याभिः
प्रायश्चित्तार्द्धमाचरेत्” । अत्रासनशय्यापदेन लघुसंसर्गा-
न्तरे लक्ष्यते अन्यथा यहुवचनानुपपत्तेः । यथा प्रोद्गा-
तृर्णा भक्ष्यः फलचमसः इत्यत्र प्रोद्गातृशब्दस्य प्रोद्गार्त्र
प्रीद्गातृपरत्वमुक्तम् । यदा र्वेकत्रासनशय्यादिरिति
पाठस्तदादिशब्दात संसर्गान्तरलाभः अयन्त्वपपाठः रा
ज्ञाऽलिखितत्वात् । उच्यते । यानादीनां लघुसंसर्गाणां
समुच्चितानां पातजेतुत्वं द्वन्द्वनिर्देशात् त्रयाणां द्वन्व
निर्देशी वहुषु बचनेष्ववगम्यते । अत्र च यानादीनाम-
नियतश्रवणात् लाघवात् एभिस्त्रिभिः लघुसंसर्गैर्वत्स-
रेण पततीत्येकैव श्रुतिः कल्पनीया सह यानासनाभ्या-
मित्यत्र महशब्दादेककालत्वमवगभ्यते एककाले चैकपी-
ठाद्युपवेशनं स्पर्शनिश्वासालापलधुतरसंसर्गत्रयनियत-
मतस्तदप्यर्थादेव गम्यते एभिस्त्रिभिर्लघुतरसंसर्गैरेको
लघुसंसर्गः समानः अतस्तत्रापि लघुससर्गत्रयमेव मन्वादि-
वचनेषु सहशब्दाभावात् कालपभेदेन सततपतितोप-
भुक्तासनाद्युपवेशनं ग्राह्यमतस्त्रिभिलघुसंसर्गेर्वत्सरेण
साम्यम् एतच्च ज्ञानतः “जानन् संवत्सरम्” इति देबलवच-
नात् अज्ञानतो वत्सरद्वयेन एकैकशो ज्ञानाद्वत्सरत्रयेण
अज्ञानात् वत्सरषट्केन संलापादीनाम् एकैकयानादिसमा-
नत्वात् ज्ञानती वत्सरत्रयेण पातः । अज्ञानतो वत्सरषट्-
केन ज्ञानादेकैकशी वत्सरनवकेन । अज्ञानादेकैकशोऽष्टा-
दशभिर्वत्सरैरित्यर्थः । ननु संलापादीनां कथं याना-
दिभ्यो लघुत्वम् । उच्यते लघु प्रायश्चित्तश्रवणात्
यथोशना “छतलक्षणकैर्दर्शनसम्भाषणादीनि वर्जयेत् दर्शने
ज्योतिषां दर्शनं स्पर्शने हृदयालम्भनं सम्भाषणे ब्राह्मण-
सम्भाषणमपां स्पर्शनञ्चोति” कृत्रलक्षणकैः पर्तितैः
पदादिचिह्नितैः, दर्शनञ्च न संसर्गः प्रकरणेऽपाठात् पतितस्य
र्शनमत्र परम्परया ग्राह्यं साक्षात् स्पर्शने स्नानश्रवणात्
तथा मनुः “दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकान्तथा ।
शवं तत्स्पृष्टिनं चेव स्पृष्ट्वा स्नानेन शुध्यति” । पतितान्न-
भीजनपतितद्रव्यप्रतिग्रहयोश्च प्रत्यक ज्ञानतः षड्भि-
र्मासैरज्ञानाद्वर्षेण पातिषापादकत्वं यथा पातितानमिधा-
याह संवर्त्तः “एभिः संसर्गमायाति यः कश्चित् काम-
मोहितः । षण्मासानव्दमेकं वा ब्रह्महत्याव्रतञ्चरेत्” ।
न चास्य ज्ञानाज्ञानकृतयोनसंसर्गविषयत्वम् अविशेष-
श्रुतेर्यौनतुल्यत्वादेतयोः तथा च पतितान्नभोजनस्य
सवत्सरेण पातहेतुत्वमाह देबलः “स वत्सरेण पतति
पतितेन सहाचरन् । भीजनासनशय्यादि कुर्वाणः सार्वका-
लिकम्” । भोजनं तदन्नभोजनं सार्वकालिकमनवच्छिन्न
भोजने च तथा दर्शनात् प्रतिग्रहेऽपि तथात्वमूहनीयं
तयोः समानत्वदर्शनात् साम्ये हेतुसाह वृहस्पतिः
“पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृहा च । मासो-
पवंसं कुर्वीत चान्द्रायणमथापि वा” । मासोपवासो ज्ञा-
नाभ्यासे तत्र च पञ्चदश धेनवः । चान्द्रायणमज्ञानाभ्यासे
तत्र सार्द्धसप्त धेमवः । गृहं गत्वेति अनेकसंवत्सरेणेति ।
तथा मनुः “चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य
च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति” । तथा
रजकादीनभिधायाह यमः “भुक्त्वा चैषां स्त्रियो गत्वा
पीत्वापः प्रतिगृह्य च । कृच्छ्रमव्दं चरेज्ज्ञानादज्ञानादै-
न्दवद्वयम्” । पतितान्नभक्षणप्रायश्चित्तात् पतितस्पृष्टा-
न्नभक्षणप्रायश्चित्तार्द्धेन ह्रासदर्शनादत्रार्द्धहानिः तेन
ज्ञानतः पवितस्पृष्टान्नभोजने संवत्सरेण साम्यमज्ञानती
वत्सद्वयेनेति । तथा प्रचेताः “प्रतितान्नन्तु यी भुड्क्ते
सप्ताहसुदके वसेत् । पानीयपानतश्चै कुशवारि पिबे-
त्त्र्यहम्” । सप्ताहोदकवासे धेनुद्वयं वक्ष्यते एतत्
सकृदज्ञानविषयं सकृज्ज्ञानकृतपतितस्पृष्टान्नभक्षणे शङ्घः
“भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् । अर्द्धो-
च्छिष्टे स्मृतः पादः पाद आमाशने तथा” । “अमेध्य-
पतितचाण्डालपुक्कशरजस्वलाबधूतकुणिकुष्ठिकुनखिस्पृष्टा-
न्नानि भुक्त्वा कृच्छ्रमाचरेत्” । पातकिस्पृष्टपाकान्नभो-
जने तु संसर्गस्य किञ्चिद्व्यवधानात् पादहानिः तेन ज्ञा-
नतः सपादवत्सरेणाज्ञानतः सार्द्धवत्सरद्वयेन साम्यम् ।
पातकिसकीर्णपाकान्नभोजने तु ततोऽपि व्यवहितत्वाद-
परपादहानिः । तेनात्र ज्ञानकृते सार्द्धवत्सरेणाज्ञानतो
वत्सरत्रयेण साम्यम् । पतितामान्नभक्षणे पतितसिद्धान्न-
भक्षणस्य चतुर्थभागः एवं पतितपानीयपानेऽपि
चाण्डालान्नभक्षणे तथा दर्शनात् । “यथा विष्णुः चाण्डा-
लान्नं भुक्त्वा त्रिरात्रमुपवहेत् सिद्धान्नं भुक्त्वा पराकः” ।
इति अत्रान्नमामान्नम् उत्तरत्र सिद्धान्नदर्शनात् पराके च
द्वादशोपवासाः । तथा प्रचेताः: “पतितान्नन्तु यो भुङ्क्ते
सप्ताहमुदके वसेत् । पानीयपानतश्चैव कुशवारि त्र्यहं
पृष्ठ ५१८६
पिवेत्” । त्रिरात्रोपवासे चतुर्विंशतिपणलभ्यं काञ्चनं
देयम् । एतदेव कुशवारिपाने किञ्चिदूनं देयम् । पतितो-
च्छिष्टभक्षणे तु पतितान्नभक्षणाद्द्वैगुण्येन पापाधि-
क्यम् । यथाङ्गिराः “चाण्डालपाततादीनामुच्छिष्टान्नस्य
मक्षने । द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण
शुध्यति” । एतत् सकृदज्ञानविषयम् । पराके पञ्च धेनवः ।
सकृदज्ञानकृतपतितान्नभोजने धेनुद्वयं प्रचेतोवचने
व्याख्यातम् । तेन ज्ञानतः पतितोच्छिष्टान्नभक्षणे
मासत्रयेण पतितसाम्यम् अज्ञानतो मासषट्केन । उच्छिष्टान्न-
भक्षणवदुच्छिष्टप्रोञ्छनेऽपि व्यवस्था “उच्छिष्टभोजन
ञ्चैव तथा तस्य च मार्जनम्” इति देवलवचने
साहचर्य्यदर्शनादिति । अत्र कृतानेकपातकपुरुषसंसर्गादे-
कैव पापव्यक्तिरुत्पद्यते न भिन्ना कल्पनागौरवापत्तेः ।
पुरुषापराधस्य च संसर्गलक्षणस्य निमित्तकारणस्य तद्वि-
शिष्टात्मनःसंयोगस्यासमवायिकारणस्यैकत्वात् । प्राय-
श्चित्तन्तु गुरुसंसर्गस्यैव करणीयं गुरुणा प्रायश्चित्तेन
लघुनः पापस्य क्षयाभिधानात् । तथानेकमहापातकि-
पुरुषसंसर्गपापव्यक्तिभेदेऽपि देशकालकर्त्रैक्ये तन्त्रताया
उक्तत्वात्तन्त्रेणैव प्रायश्चित्तम् । जिकनस्तु युगपदनेक-
ब्राह्मणबधवद्युगपदनेकपातकिसंसर्ग एव तन्त्रता ।
क्रमकृते तु ब्राह्मणबधवदावृत्तिरेव प्रायश्चित्तस्येति तन्न
ब्रह्मवधेऽपि क्रमकृते प्रायश्चित्ततन्त्रताया उक्तत्वात् ।
युगपदनेकव्रह्मबध एव ज्ञानाज्ञानाभ्यां विशिष्टमरणयाव-
ज्जीवव्रतसक्षणप्रायश्चित्तभेदेन तन्त्रताऽभावस्य श्रीभहा-
देवपादैर्दर्शितत्वात् । इह तु तद्वत् प्रायश्चित्तवैशिष्ट्ये
प्रमाणं नास्ति तथा शुद्धस्वेव महापातकिनोऽपि पातक्य-
न्तरसंसर्गे पापसुत्पद्यते एव आवृत्तवह्मधवद्धेतोश्च
समत्वात् । अत्यथा पातकिनश्चाण्डालान्नभक्षणेऽप्यदोषः
स्यात् । तथा प्रतिक्षणं पूर्वपूर्वोत्पन्नपापव्यक्तिसहकृती-
त्तरोत्तरसंसर्गादन्यान्या एव पापव्यक्तयो महत्य उत्पद्यत्ते
पूर्वापूर्वा चोत्पद्यैव विनश्यति वत्सरेणैव मूलपापकर्तृपाप-
सुमानदुरितापूर्वव्यक्तिरुत्पद्यते । सा च सम्पूर्णनरकं-
फला वत्सराभ्यन्तरेऽल्पाल्पनरकफलिका अतएव प्रायश्चित्त-
वाक्यमप्येकम् । न तु भिन्नभिन्नाः समानाः पापघ्यक्तयः
समदायात् सम्पर्णनरकं फलम् । सम्पूर्णनरकफलस्य
ब्रह्मवथादावेकपापव्यक्तिफलत्वदशनादिति” । अत्रेदं
योध्यम् । महापातकिससर्गस्यैत् कलौ पापहंतुत्वं
नान्यपासंसर्गस्य यथोक्तं पराशरेण “कृते सम्भाष-
णात् पापं त्रैतायाञ्चैव स्पर्शनात् । द्वापरे चान्नमादाय
कलौ पतति कर्मणा” । कलौ सम्भाषणादिना न पातित्य
किन्तु कर्त्तुरेव कर्ममात्रेणैव पातित्यं न संस्पर्शनादिना ।
“आलापात् गात्रसंस्पर्शादित्यादि” पराशरवचनं महापा-
तकिविषयमिति पराशरभाष्ये माधवाचार्य्य आह स्म ।

संसर्गाभाव पु० संसर्गेण सम्बन्धेनावच्छिन्नप्रतियोगिताको-

भावः । ध्वंसप्रागभावात्यन्ताभावरूपे भेदभिन्ने १ अमावे
२ सम्बन्धाभावे च “प्रागभावस्तश्रा ध्वंसोऽप्यन्ताभावःएव
च । एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते” भाषा० ।
संसर्गाभावत्वं च अन्यीन्याभावभिन्नाभावत्वं तत्र अन्योन्याभा-
वस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपतया
तद्भिन्नस्य संसर्गाभावत्वोक्तेः । तादात्म्यातिरिक्तसंसगाव-
च्छिन्नप्रतियोगिताकत्वेन संयर्गाभावस्य यौगिकताऽपि ।
संसर्गप्रतियोगिकाभावत्वं तु न लक्षणं तथात्वे खण्ड-
नकारोक्तं दूषणमापतेत् तथा हि अभावस्य संसर्ग-
प्रतियोगिकत्वे घटादिप्रतियोगिकत्वं वाध्येय द्रव्यगुण-
कर्मणां समवायिकारणेषु संसर्गस्य संमवायसम्बन्धरूप-
तया तस्य नित्यत्वेन ध्वंसाधारे तत्संसर्गाभावस्य
असम्भवात् । समवायावच्छिन्नप्रतियोगिताकत्वेन बोधने
तु प्रतियीग्यसत्त्वदशायां समवायस्य नित्यत्वेन तबुद्धेरस-
म्भवात् । संसर्गाभावश्च नञादिनिपातेन धातुना च
बोध्यते तत्र निपातेन प्रातिपदिकार्थाभावस्य बोधने
अनुयोगिनि सप्तम्यपेक्षा यथा गेहे घटो नास्तीति ।
विभक्त्यर्थसं सर्गाभावस्यं धात्वर्थादौ बोधने तु नायं नियमः
यथा गगनं न पश्यति न कलञ्जं भक्षयेदित्यादौ तत्र
दर्शने गगनकर्मत्वस्य कलञ्जभक्ष बलवदनिष्टासाधनत्वस्य
नञा संसर्गाभावस्य बोधनान्न तत्र सप्तम्यपेक्षेति विवेकः ।
कणा० सू० वृत्त्योश्चान्यथोक्तं यथा
“नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रति-
षेधः” कणा० सू० “गेहे घटस्य यः संसर्गः संयोगस्य
प्रतिषेधः स च यदि कदाचिदपि न घटस्तदात्यन्तभाव
एव भविष्यतः प्रागभाबो भूतस्य प्रध्वंसाभावः, तर्हि
घटसंसर्गो गेहे नास्तीति प्रतीत्या भवितव्यमति चेत्
प्रतीत्या भवितव्यमित्यस्य कोऽर्थः यदि तद्विषयया प्रतीत्या
भवितव्यमित्पपादनार्थस्तदेष्टापत्तिः अथ तदुल्लेस्यि-
न्येति तदा गेहे इत्यधिकरणोश्लेखस्यैव संसर्गोल्लेखप-
र्य्यवसानमाधारत्वस्यैव धर्मसम्बन्धाकारत्वात् तत किं
घटस्तत्राख्ये? अस्त्येवेति कोऽर्थस्तत्र समवेतः संउउक्तो वा
पृष्ठ ५१८७
वाद्यः समवेतघटस्य तत्राभावात् न । द्वतायः संयोगस्य
निषेधात् नन्वेवं घटादीनां केवलान्वयित्वप्रसङ्गः तत्सं-
यागसमवायान्यतरस्यैव सर्वत्र निषेधादिति चेन्न तदभय-
निषेधस्यैव घटनिषेधात्मकत्वात् तत् का घटस्तत्संयोगश्चे-
त्येकं तत्त्वं येन घटस योगनिषेधो घटस्तत्संयोगश्चे-
किं घटस्तत्संयोगसमवायावेकं तत्त्वं येन तद्विधिरेव
घटविधिः स्यात् न हि तौ यत्र निषेध्येते तत्र घटान्वयो
येन केवलान्वयित्वं तस्य स्यात् तथा च यस्य यो विधि-
स्तन्निषेध एव तन्निषेध इति । यद्धा घटस्य समवायितया
गेहेऽत्यन्ताभाव एव स एव गेहे घटो नास्तीति प्रतीति
विषयः कपाले संयोगितयैव । एवं सति केवलान्वय्यत्य-
न्ताभावप्रतियोगितया घटोऽसन स्यादिति चेत् भवेदेवं
यदि संयोगित्वसमवायित्वाभ्यां सर्वत्रासन् स्यादिति” ।

संसर्गिन् त्रि० सम् + सृज--घिनुण् । १ संसर्गयुक्ते विभागा-

नन्तरम् (यत्तव धनं तन्ममेति) कृतसमयेन एकत्रावस्था
नरूपसंसर्गयुक्ते २ भ्रात्रादौ ३ सम्बद्धे च ।

संसार पु० संसरत्यखात् सम् + सृ--घञ् । १ मिथ्याज्ञानजन्य

संस्काररूपवासनायां २ देहारम्भकादृष्टभेदे ३ स्वादृष्टोपनि-
वद्धदेहपरिग्रहे च आधारे घञ् । ४ विश्वे । भावे घञ् ।
५ सङ्गतौ । संसारगतिप्रकारः शा० सू० भा० दर्शितो यथा
“तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणा-
भ्याम् सू० पञाश्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रद-
र्श्यते, वैराभ्यहेतोस्तस्माज्जुगुप्सेताति चान्ते श्रवणात् ।
जोवो मुख्यप्राणभचिवः सेन्द्रियः समनस्को विद्याकर्म-
पूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यते
इत्येतदवशगतम् । “अथैनमेते प्राणा व्यगिसुमायन्ति”
इत्येवमादेः “अन्यन्नवतरं कल्याणतरं रूपं कुरुते” इत्ये
वमन्तात् संसारप्रकारणस्थाच्छब्दात्, धर्माषर्मफलोपभोग-
सम्भवाच्च । स किं देहवीजैर्भूत सूक्ष्मरसम्पारष्वक्तो
गच्छति आहोस्वित् सम्परिष्वक्त इति चिन्त्यते । किन्ता-
वत् प्राप्तं असम्परिष्वक्त वति । कुतः करणोपादमवदुभू-
तोपादानस्याश्रुतत्वात् । “स एतास्तोजोभात्राः सनभ्याद-
दानः” इत्यत तेजोमात्वाशब्दोन करणापा संवादानं सङ्की-
र्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात् । नैवस्यूनमातो-
पादानसङ्कीर्तनमस्ति । सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव
देह आरभ्रव्यात्सत्रव सन्ति । ततश्च तासा नयन निष्प्रयो-
जनं, तस्मादसम्पारिष्वक्ता यातोत्येवं प्राप्ते पठत्याचार्यः
“तदन्तरप्रतिपत्तौ रहति सम्परिष्वक्तः” इति! तदवर-
प्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः सम्परिष्वक्तो रंहति गच्छ-
तीत्थवगन्तव्यम् । कुतः प्रश्ननिरूपणाभ्याम् । तथा हि
प्रश्नः “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो
भवन्ति” इति । निरूपणञ्च प्रतिवचनं द्युपर्जन्यपृथिवीपुरु-
षयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपा
आतीरुक्त्वा “इति तु पञ्चम्यामाहुतावापः पुरुषवचसा
भवन्ति” इति । तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रज-
तीति गम्यते” । सा० का० तत्प्रकारो दर्शिता यथा
“संसरति निरुपभीगं भावेरधिवासित लिङ्गम्” का०
“नन्वस्त्वेतदेव शरीरं भागायतन पुरुषस्य, कृतं दृश्यमानेन
षाट्कौशिकेन शरारणत्यतआह संसरतीति उपात्तमुपात्तं
षाट्कौशिकं शरीरं जहाति हायं हायं चोपादत्ते,
कस्मात्? निरुपभोगं यतः षाट्कौशिकं शरीरं विना
हक्ष्मं शरीरं निरुपभोगं, तस्मात् संसरति । ननु धर्मा-
धर्मनिमित्तः ससारः न च सूक्ष्मशरीरस्यास्ति तद्योगः,
तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्मज्ञाना-
ज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्य्याणि भावास्तदन्विता बुद्धिः
तदन्वितञ्च सूश्मशरीरमिति तदपि भावैरधिवासितं यथा
सुरभिचम्पकसम्पर्काद्वस्त्रं तदामीदवासितम्भवति तस्मा-
द्भावैरेवाधिवासितत्वात् संसरति । कस्मात् पुनः प्रधान-
मिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह
लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्व-
मिति भाबः । स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न
संसरति कृतं सूक्ष्माशरीरेणाप्रामाणिकेनेत्यत आह”
“चित्रं यथाश्रयमृते स्याण्वादिभ्योविना यथा छाया ।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रय लिङ्गम्” का० “लिङ्ग-
नात् ज्ञापनास् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न
तिष्ठति । जन्मप्रयाणान्तराले वद्ध्यादयः प्रत्युत्पन्नधरीर-
श्रिताः प्रत्युत्पन्नपञ्चदन्मात्रवत्त्वे सति बुद्ध्यादिस्यात्
दृश्यमःनशरीरवृत्तियुद्ध्यादवत् । पिना विशेवैरिति
सूक्ष्मैः शरीरैत्यर्थः । आगमश्चात्र भवति “अङ्गुष्ठ-
मात्रं पुरुषं निश्चकर्ष यमीवआदिति” । न्यङ्गौमात्रत्वेन
सूक्ष्मतामुपलक्षयति आत्मतो निष्कर्मासम्भवेन सूक्ष्ममेव
शरीरं गूरुमस्तदपि हि पुर सम अशारीरे शेते” त० कौ० ।

संसारगुरु पु० ६ त० । १ कासदेवे तिका० २ सगाततौ च ।

संसारचक्रन समारक्रमिव । पुनपनर्जन्मभरक्षात्म्के

जीवस्य व्यापारभेदे तूमकमणा देहग्रहणानन्तरं तत्र०-
पर्भुकोसानकर्मणो नाशे मरणं तढनन्तरं च स्वकर्मानुसा-
पृष्ठ ५१८८
रेण देवतिर्य्यगादिभावापत्तिरित्येवं सततगतागतप्रचुर-
त्वात् संसारस्य चक्रतुल्यत्वात् तथात्वम् । तदेतत्
विष्णुपु० संसारचक्रनिरूपणे निरूपितं तत्र दृश्यम् ।

संसारमार्ग पु० ६ त० । योनिद्वारे त्रिका० । तत एव हि

वहिर्निमने मायामुग्धतेति तस्य तथात्वम् ।

संसारिन् त्रि० संसरति अदृष्टवशात् देहभेदमनुगच्छति मम् +

सृ--णिनि । शरीराभिमानिनि जीवे ।

संसिद्ध त्रि० सम्यक् स्वभावेन वा सिद्धः सम + सिध--क्त ।

१ स्वभावसिद्धे २ सम्यग्निष्पन्ने च ।

संसिद्धि स्त्री सम् + सिध--क्तिन् । १ स्वभावे प्रकृतौ २ सम्यग्

निष्पत्तौ । सम्यक्सिद्धिर्यत्र । ३ मुक्तौ च “कर्मणैव हि
संसिद्धिमाश्रिताजनकादयः” गीता ।

संसृति स्त्री सम् + सृ--क्तिन् । १ संसारे २ प्रवाहे च त्रिका० । ३ सङ्गतौ शब्दच० ।

संसृष्ट पु० सम् + सृज--क्त । विभागानन्तरं मैत्र्यात् पुनः

स्वस्वधनेषु कृतसंसर्गयुते भ्रात्रादौ “विभक्तो यः पुनः
पित्रा भ्रात्रा चैकत्र संस्थिताः । पितृव्येणाथ वा प्रीत्या
स तु संसृष्ट उच्यते” “वृहस्पतिपरिगणितव्यतिरिक्तेषु
संसर्गकृतो विशेषो नादरणीयः परिगणनानर्थक्यात्”
दायभा० । तद्धनविभागस्तत्र दर्शितो यथा “विभक्ताः
सह जीवन्तो विभजेरन् पुनर्यदि । समस्तत्र
विभागः स्यात् ज्यैष्ठ्यं तत्र न विद्यते” मनुः । “समस्तत्रेति
सवणेर्भ्रातृसंसर्गाभिप्रायेण ब्राह्मणक्षत्त्रिययोस्तु पूर्वकॢ-
लुप्तभागानुसारेण भागव्यवस्था बोद्धव्या । पूर्वकॢप्तज्यै-
ष्ठाशनिषेधमात्रपरं हि समवचनम् अतएव वृह०
“विभक्ता भ्रात्ररो ये तु संप्रीत्यैकत्र संस्यिताः । पुतर्वि-
भागकरणे तेषां ज्यैष्ठ्यं न विद्यते” इति ज्येष्ठांशभात्रं
निषेधति न तु भागसाम्यम्” दायभा० । तत्र भ्रात्रधि-
कारे विशेषस्तत्रोक्तो यथा “अन्योदर्य्यस्तु संसृष्टी नान्न-
दर्य्यधनं हरेत् । अससृष्ट्यपि चादयात् संसृष्टो नान्य-
मातृजः” याज्ञ० अस्यायमर्थः । “संसृष्टी पुनरन्योदर्य्यः
प्रथमं हरेत् न पुनरन्योदर्य्यमात्रम् । प्रथग्रं च हरन्
ओदरं बाधित्वैव वा तेन सह वेत्यपेक्षायामुक्तम् असंसृ-
ष्ट्यपि सोदरो गृह्णीयात् सोदरपदमनुवर्त्तते (“सोदरस्य
तु सोदरः इति वचनात्) । नान्यमातृज एव संसृष्टीं
गृह्णीनात् संसृष्टपदमेव वा सीदरमभिधत्ते अतएव
बृहद्याज्ञ० “सोदरो नान्यमातृजः” इति जितेन्द्रि-
येण लिखितम् । तथा च पूर्वार्द्धस्य संसृष्टीत्यनुवर्त्तते
न च केवलमन्योदर्य्य एव संसृष्टी गृह्णीयात् किन्त्वसं-
सृष्ट्यपि सोदरो गृह्णीयादित्यर्थः । तन असंसृष्टिना
सोदरेण संसृष्टिना चासोदरेण विभज्य ग्रहीतव्यमतएवा-
पिशब्दं प्रयुक्तवान्” दायभा० । “तस्मात् सोदरासोदरमात्र
सद्भावे सोदराणामेव । सोदराणामेव मध्ये एकस्य
संसृष्टत्वे तस्यैव असंसृष्टसोदरसंसृष्टासोदरसद्भाव च
द्वयोरेव सापत्रमात्रसद्भवे प्रथमं संसृष्टस्य तदभावे चासं-
सृष्टासादरस्येति दायमा० एव भ्रातृपुत्रेऽपि । २ वमना-
दिना संशुद्धे मादि० ३ संयुक्ते च । भावे क्त । ४ सम्बन्धे ।

संसृष्टि स्त्री सम् + सृज--क्तिन् । १ संसर्गे २ अलङ्कारभेदे अलङ्का-

रशब्दे ४०५ पृ० दृश्यम् ।

संसृष्टिन् पु० संसृष्टमनेन इष्टा० इनि । संसृष्टभ्रात्रादौ “संसृष्टस्य तु संसृष्टी” याज्ञ० ।

संस्कर्त्तृ त्रि० सम् + कृ--तृच्० सुट च । १ संख्वारकारके २ पाचके

च “संस्कर्त्तौ चोपहर्त्ता च षडेते घातकाः स्मृताः” मनुः ।

संस्कार पु० सम् + कृ--सुट् च । सतोगुणान्तराधानरूपे १

प्रतियत्ने यथा अलङ्कारादेरस्त्रादेर्वस्त्रादेश्च उद्दीपनलिशा-
नमार्जनादयः, दर्पणादेर्निर्मलीकरणादिः ब्राह्मादेश्च
यज्ञाङ्गतासम्पदानाय वैदिकमार्गेण प्रोक्षणादिः । स च
“संस्कारः पुंस एवेष्टः प्रोक्षभ्य क्षणादिषु” कुसुमा०
उक्तेः पुरुषस्यैव धर्मः” न्यायभतम् । प्रोक्षिता
एव ब्रीहयः पुरोडाशाय कल्पन्ते नाप्रोक्षिता इति
प्रोक्षणादिजन्यसंस्कारोयज्ञाङ्गपुरडाशेष्विति द्रव्यधर्मः
मीमांसकाः । एवं स्नालाचमनादिजन्याः संस्कारा देहे
उत्पद्यमाना अपि” तदभिमानिजीवे कल्प्यन्ते इति
वेदान्तिनः । २ स्मृतिहेतौ अनुभवजत्ये आत्मवृत्तिगुणभेदे
पृथिव्यादिचतुष्टयस्थे ३ वेगाख्ये गुणे, यथावस्थिततया-
स्थापनप्रयोजफे स्थितिस्थापनाख्ये ४ गुणभेदे च
“संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने । मूर्त्त-
मात्रे तु वेगः स्यात् कर्मजो वेगजः क्वचित् । स्थिति-
स्थापकसंस्कारः क्षितौ केचिच्चतुर्प्वपि । अतीन्द्रियः स
विज्ञेवः क्वचित् स्मन्देऽपि कारणम् । भावनाख्यस्तु
संस्कारो जोववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य
निश्चपः कारणं भवेत् । स्मरणे प्रत्यनिज्ञायामप्यसौ हेतु-
रुच्यत” भाषा० “नित्यः संस्कारो नास्ति वेगस्तु द्विविधः
कर्मजवेगजभेदात् तत्र शरादौ नोदनजनितेन कर्मणा
वेगो जन्यते तेग च पूर्वकर्मनाशादुत्तरं कर्म एवमुत्तरो-
त्तरमपि कर्म जायते । वेगं विना कर्मणः कर्मान्तरा-
जनकत्वात् “षूर्वकर्मनाशे उत्तरकर्मोत्पत्तिश्च न स्यात् ।
यत्र वेगवता कपालेन जनिते घटे वेगो जन्यते तत्र
पृष्ठ ५१८९
वेगजो वेगः । स्थितिस्थापकसंस्कारश्चातीन्द्रियः
आकृष्टशाखादीनां परित्यागे यत् पूर्वदेशगमनं तत्र स्थिति-
स्थापकोहेतुः । उपेक्षानात्मकानश्चयेन भावनाख्यसंस्कारो
जन्यते स च स्मरणे प्रत्यभिज्ञायां च हेतुः जीववृत्तिः
रतीन्द्रियश्च स च चरमफलनाश्यः क्वचित्ंरोगादिनाश्यः
क्वचित् कालनाश्यः” सि० मु० अन्ये तु समानविषयकं
स्मरणमेव संस्कारनाशकम् अतएव “जायते च पुनः-
पुनःस्मरणाददृढ़तमसंस्कारः” इति दीधिकृत् इत्याहुः ।
संस्कारत्वं तु न जातिरिति चषकादौ व्यवस्थापितम् ।
५ शास्त्राभ्यासजन्यव्युत्पत्तौ, व्याकरणोक्तदिशा शब्दानां
६ साधनप्रकारे, विप्रादीनां वैदिककर्मार्हत्वप्रयोजके ७ गर्भा-
धानादौ क्रियाकलापे ८ पाके च । विप्रादीनां देहसं-
स्काराश्च अष्टाचत्वारिंशत् तच्छब्दे ५१० पृ० दर्शिताः ।
हूदानीन्तनानां तु गर्भाधानाद्याविवाहान्ताः दशविधाः
प्रसिद्धाः । तेषां च देह दोषनाशकता यथोक्तं हारीतेन
“गर्भाधानवदुपेतो ब्रह्मगर्भं संदंदाति पुंसवनात् पुंसी-
करोति फलस्थापनात् मातापितृजपाष्मानमपोहति
रेतोरक्तमर्भोपघातः पञ्चगुणो जातकर्मणा प्रथममपो-
हति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूड़ाकर-
णेन चतुर्थं स्नापनेन पञ्चममेतैरष्टाभिः संस्कारैर्गर्भा-
पष्ठातात् पूतो भवति” । “स्नापनं समावर्त्तनम्”
उपतयनस्य वेदग्रहणार्थत्वम् विवाहस्याग्निसाध्यस्मार्त्त-
कार्यार्थत्वमितिविषेकः अतो दशविधाः । “गर्भाधानमृतौ
पुंसः करणं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सीमन्तः
प्रसवे जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि
निष्कमः । षष्ठेऽन्नप्राशनं मासि चूड़ा कार्य्यायथाकु-
लम् । एवमेनः शमं यति वीजगर्भसमुद्भम्” याज्ञ० ।
अत्र जातकर्मनिष्क्रामावधिकौ संस्कारौ बीजादिदोषनि-
वारकतयोक्तौ । अग्निस्थापनार्थश्च पञ्चविधः भूसस्कारः
गृह्ये दर्शितः ते च समूहनमुपलेपनमुल्लेस्यनं सिकतो-
द्धरणमभ्युक्षणञ्चेति । दीक्षणीयतान्त्रिकमन्त्रसंस्काराश्च
द्रशविधाः दीक्षा० त० दर्शिता यथा
शारदायाम् “मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धि-
दायिनः । जननं जीवन पश्चात्ताड़नं बोधनं तथा ।
अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपनं
गुप्तिर्दशैता मन्त्रसंस्क्रियाः मन्त्राणां, मान्त्रिकायन्त्रादु-
द्धारो जननं स्मृतम् प्रणवान्तरितान् कृत्वा मन्त्रवर्णान्
जपेत् सुधीः । एतज्जीवन२ मित्याहुमन्त्रतन्त्रविशारदाः ।
मन्त्रवर्णान् समालिख्य ताड़येच्चन्दनाम्भसा । प्रत्येकं
वायुना मन्त्री ताड़न ३ तदुदाहृतम्” । वायुना वायु-
वीजन “यमित्यनेन तं मन्त्री प्रसूनै करवीरजैः ।
तन्मन्त्राक्षरसंख्यातैहन्याद् यान्तेन बोधनम् ४” । यान्ते न
रमिमनन इति “स्वतन्त्रोक्तविधानेन मन्त्रो मन्त्रार्ण-
संख्यया । असत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धय । स्वतन्त्रो
विधानेन मूर्ध्नि तोयेन देशिकः । नमोऽन्तं मन्त्रमुच्चार्य्य
तदन्ते देवताभिधाम् । द्वितीयान्तामहं पश्चादभिषिञ्चा-
म्यनेन तु । तौयैरञ्जलिबद्धैश्चाप्यनिषिञ्चेत् स्वमुर्द्धनि ५” ।
स्वतन्त्रोक्तविधानेन पुरश्चर्य्याप्रकरणोक्तविहिताञ्जलिना
इत्यभिहितेन “सभिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण
निर्दहेत् । मन्त्रे मलत्रयं मन्त्री विमलीकरण ६ न्त्विदम्” ।
मलत्रयं मायिकं कार्मिणं मानसरूपम् “तारव्योमाग्नि-
मनुयुग्दन्तो ज्योतिर्मनुर्मतः” । तारः प्रणवः व्योम
हकारः अग्नीरेफः मनुरीकारः तद्युक्तोदन्तोऽनुस्वारः ।
तेन ओम् ह्रौं इतिमन्त्रः । “कुशोदकेन मन्त्रेण प्रत्यर्ण
प्रोक्षणं मनोः” । प्रत्यर्णं प्रत्यक्षरम “तेन मन्त्रेण विधि-
वदेतदाप्यायन ७ मतम् । मन्त्रेण वारिणा मन्त्रतर्पणं
तर्पणं ८ मतम्” । मन्त्रेण मूलमन्त्रेण । “मूलमन्त्रं
समुच्चार्य्य तदन्ते देवताभिधाम् । द्वितीयान्तामहं पश्चात्त
र्पयामि नमोऽन्तकम्” । इति पुरश्चर्य्योक्षक्रमेण लिखितम-
न्त्राधाररूपयन्त्रे । “तारमायारमायोगोमनोर्दीपन ९
मुच्यते” । तारः ओम् माया ह्रीं रमा श्रीम् “जप्यमा-
नस्य मन्त्रस्य गोपन १० न्त्ववकाशनम् । संस्कारा
दशसंख्याताः मर्वतन्त्रेषु गोपिताः । यान् कृभा सम्प्र-
दायालं मन्त्री वाञ्छितमश्नुते” ।
देवप्रतिष्ठाङ्गसंस्काराश्च देवताप्रतिष्ठाशब्द ३७२३ पृ० दृश्याः ।
अन्येऽपि तत्तत्क्रत्वङ्गसंस्कारास्तत्तद्ग्रन्थे दृश्याः ।

संस्कारवर्जित त्रि० ३ त० । १ गर्भाधामादिसंस्काहीने

२ शास्त्रदौ व्युत्पत्तिहीने च संस्कारहीनादयोऽप्यत्र ।

संस्कृत त्रि० सम् + कृ--क्त सुट् च । १ कृतसंस्कारे पदार्थे

व्याकरणलक्षणाधीनसधिनयुक्ते २ शब्दे ३ पक्वे ४ मूषिते
५ शास्त्रभेदे मेदि० ६ शोधिते जटा० ।

संस्तर पु० सम् + स्तॄ--अप् । १ यज्ञे २ शथ्यायां हेमच० ३ पल्ल-

वादिरचितशय्यायां च “नबपल्लवसंस्तरे यथेति” कुमारः

संस्तव पु० स्म् + स्तु-अप् । १ परिचये अमरः २ सम्यकस्तुतौ च

संस्ताव पु० संस्तूयतेऽत्र सम् + स्तु--घञ् । यज्ञार्थ संस्ता-

वकविप्राणां वासभसौ अमरः ।
पृष्ठ ५१९०

संस्तुत त्रि० सम् + स्तु--क्त । १ षरिचिते २ सम्यक्स्तुते च ।

संस्त्र्याय पु० सम् + स्त्र्यै--घञ् । १ संचाते २ निविड़संयोग-

रूपे सन्निवेशे अमरः । ३ विस्तृतौ ४ संस्थाने च मेदि०
करणे धञ् । ५ गृहे हेमच० ।

संस्थ त्रि० सन् + स्था--क । १ अवस्थिते मेदि० २ मृते शब्दर०

३ चरे पु० मेदि० ४ निवारके ५ व्यवंस्थिते ६ व्यक्तौ ७
क्रतुप्रकारभेदे ८ समाप्ते च हेमच० । ९ प्रकारे “नैमित्तिकः
प्राकृतिको नित्य आत्यन्तिकोलयः । संस्थेति कविभिः
पोक्तश्चतुर्धाऽस्य स्वभावतः” इत्युक्ते १० प्रलये च ।

संस्था स्त्री सम् + स्था--अङ् । १ न्याय्यपथावस्थितौ अमरः ।

२ स्थितौ ३ नाशे मेदि० ४ यज्ञभेदे ५ व्यवस्यायां ६ व्यक्तौ
७ सादृश्ये ८ प्रान्ते च ।

संस्थान न० सम् + स्था--ल्युट् । १ चतुष्पथे अमरः । २ सन्नि-

वेशे मेदि० ३ आकारे ४ अवयष्यारम्भकसंयोगभेदे ५ मृत्यौ
६ चिह्ने अजयः । ७ सम्यक्स्थितौ च ।

संस्थित त्रि० सप् + स्था--क्त । १ मृते अमरः २ अम्यक्स्यिते च

संस्पर्शा स्त्री संस्पृश्यते सम् + स्पृश--कर्मणि घञ् टाप् ।

रजनीगन्धावृक्षे अमरः ।

संस्फाल पु० सम्यक् स्फाल स्फरणं यस्य । मेथे त्रिका० ।

संस्फुट त्रि० सम् + स्फुट--क । विकशिते शब्दच० ।

संस्फेट न० सम् + स्फुट--आधारे घञ् पृषो० । युद्धे भरतः

संस्फोट पु० सम् + स्फुट--आधारे घञ् । युद्धे अमरः ।

संहत त्रि० सम् + हन--क्त । १ दृढसन्धौ अमरः । २ मिलिते

३ दृढ़े मेदि० । ४ परार्थं मिलिते “संहपरार्थत्वादिति”
साङ्ख्यसू० । ४ दृढ़संयोगयुक्ते ५ सम्यग् हते च । भावे क्त ।
६ संघाते न० ।

संहतल पु० सं हतं संहननं सङ्गातं लाति--ला--क । मिलितपाणिद्वये अमरः ।

संहतपुष्पिका स्त्री संहतानि द्वढसंयुक्तानि पुष्पाण्युखाः

कप् अत इत्त्वम् । मिश्रेयायां राजनि० ।

संहतजानु त्रि० संहदे जानुनी यस्य । लग्नजानुके अमरः

वा कप् । तत्रार्थे ।

संहति स्त्री सम् + हन--क्तिन् । १ समूहे अमरः । २ सम्यग्-

हनने च ।

संहनन न० संहन्यते परार्थं संस्रज्यते सम् + हन--ल्युट् । १ देहं अमरः २ सङ्घाते ३ बधे च ।

संहर्ष पु० सम्यक् हर्षः प्रा० सम् + हृष--घञ् वा । १ आनन्दे

२ स्पर्द्धावाञ्च संहृष्यत्यनेन करणं धम् । ३ पाथो मेदि० ।

संहार पु० सम् + हृ--घञ् । १ प्रलये हेमच० २ गीशे ३ संक्षपे

४ नरकभेदे अमरः । ५ वितर्जने ६ कासिकाभैरवभेद पृ
जटा० । “असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्त एव च ।
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः” तन्त्रसा० ।

संहारमुद्रा स्त्री संहारार्था विसर्जनार्था मुद्रा । तन्त्रोक्ते

मुद्राभेदे तल्लक्षणम् “अधोमुखे वामहस्ते ऊर्द्ध्वास्यं
दक्षहस्तकम् । क्षिप्त्वाङ्गुलीरङ्गलीभिः संगृह्य
परिवर्त्तयेत् । प्रोक्ता संहारमुद्रैवमर्पणे तु प्रशस्यते”
पदार्था० धृतवाक्यम् । अर्पणे आत्मनि देवार्षणे” ति० त० ।

संहिता स्त्री सम्यक् हितं प्रतिषाद्यं यस्याः । १ मन्वादि-

प्रणीते धर्मशास्त्रे २ पुराणे ३ इतिहासादौ ४ कर्मकाण्ड-
प्रतिपादके वेदभागे च संहितापाठप्रकारस्तु ति० त०
मत्स्यसूक्तोक्तः चण्डीशब्दे २८५० पृ० दर्शितः । “परः
सन्निकर्षः सहिता” पा० उक्ते ५ पूर्वापरवर्णयोः अत्यन्तसन्नि-
कर्षे तत्र नियमविशेषः स्पर्य्यते “संहितैकपते नित्या
नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा
विवक्षामपेक्षते” ।

संहूति स्त्री सम् + ह्वेञ्--क्तिन् । बहुमिः कृते आह्वाने अमरः ।

संहृत त्रि० सम् + हृ--क्त । १ कृतसंहारे २ सङ्कुचिते च ।

संहृति स्त्री० सम् + हृ--क्तिन् । संहारे ।

संह्राद पु० सम् + ह्रद--घञ् । शब्दभेदे ।

संह्रादिन् त्रि० सम् + ह्रद--णिनि । शब्दायह्वाने ।

संह्लाद पु० सम् + ह्लद--घञ् । आनन्दभेदे ।

सकण्टक पु० सह कण्टकेन सहस्य षः । १ करञ्जभेदे (नाटा-

करमचा) रत्रमा० । २ शेबाले गब्दच० । ३ कण्टकयुक्ते त्रि०

सकर्ण त्रि० सह कर्णेन श्रवणेन तद्व्यापारेण वा । १ श्रुति-

शीले जटा० २ कर्णयुक्ते च ।

सकर्म्मक त्रि० सह कर्मण सहस्य सः कप् । ह्याकरणोक्ते

कर्मयुक्तक्रियाबोधके धातौ “फलव्यापारयोरेकनिष्ठता-
यामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः”
इत्युक्तदिशा धातोः सकमकत्वमवसेयम् ।

सकल त्रि० सह कलया अवयवमात्रया चतुषष्ठ्या कलाभिर्वा

सहस्य सः । १ समूर्णे २ समग्रे अमरः ३ कलार्साहते च

सकारण त्रि० सह कारणेन । कार्य्ये ।

सकाश पु० कशनं पीड़नं काशः कश--घञ् सह काशेन । अन्तिके समीपे ।

सकुरुण्ड पु० सह समानः कुरुण्डेन । साफरण्डक्षे राजनि०

सकुल पुंस्त्री० सह समानं कुलमस्य । १ शकुलमत्स्यं (शल)

स्प्रोत्वे ङीष् । २ समानवंशे त्रि० ।

सकुल्य त्रि० समाने कुले मवः यत् । अशौचविषये स्मावव-

ध्यूर्द्ध्वाधस्तनाष्टमपुरुषमात्रे “दशाहेन सपिद्धास्त शध्यन्ति
प्रेतसूतके । त्रिरात्रेण सकुल्यास्तु स्यत्वा शुध्यन्ति
बान्धवाः” वृह० । सपिण्डशब्दे दृश्यम् ।
पृष्ठ ५१९१

सकृत् अव्य० एक + नि० । १ एकवारे अमरः । २ विष्ठायां स्त्री अन्ये ।

सकृत्प्रज पुंस्त्री० सकृत् एकवारं प्रजायते प्र + जन--ड ।

१ काके अमः स्त्रियां ङीष् । २ एकवारजातापत्ये च ।

सकृत्फला स्त्री सकृत् फलति फल--अच् । कदलीवृक्षे राजनि०

सकृद्गर्भ पु० सकृद् गर्भो यस्य । खेसरे राजनि० एकवार

गर्भवत्यां स्त्रियां स्त्री ।

सकृद्वीर पु० कर्म० । एकवीरवृक्षे राजनि० ।

सक्त त्रि० सन्ज--क्त । १ आसक्ते २ अव्चिरते च हेमच० ।

सक्तु पु० सन्ज--तुन् किच्च । भ्रष्टयवादिचूर्णे (छातु) शब्दच०

“मेषादौ सक्तवी देया वारिपूर्णा च गर्गरी” ति० त० ।

सक्तुफला(ली) स्त्री सक्तव इव क्षुद्राणि फलान्यस्याः वा

ङीप् । शमावृक्षे अमरः ङीबन्तः तत्रार्थे शब्दर० ।

सक्थि न० सन्ज--किथन् । १ क्तरौ अमरः २ शकटावथव-

भेदे च उणादि० । बहु० स्वाङ्गे अच्--समा० ।
मृगसक्थ इत्यादि ।

सखण्डोपाधि पु० कर्म० । बहुपदार्थथटिते धर्मे यथा इन्द्रियत्वदेहत्वादिघर्मः ।

सखि त्रि० सह समानं ख्यायते ख्या--डिन् नि० । सौहार्द्द-

युक्ते अमरः । सखायौ सख्या सख्युरित्यादि ।

सखी स्त्री सखि + स्त्रीत्वे ङीप् । १ सहचर्य्यां हेमच० २

वायस्यायाम् अमरः ।

सख्य न० सख्युर्भावः यत् । १ मित्रतायां २ सौहार्दे च ।

सगन्ध पु० सह गन्धेन लेशेन वा सहस्य सः । १ ज्ञातौ त्रिका०

२ गन्धायुते त्रि० ।

सगर पु० सह गरेण विषेण जातः । १ सूर्य्यवंश्ये नृपभेदे

“सगरात् सागरोजातः” इति पुराणम् । स च सुबाहु-
नामराजतः यादव्यां जातः ततसपत्न्या गरदाने-
ऽपि स न समार तत्कथा “तस्या (और्वस्या) श्रमे
च सा गभं सुषुवे ज्वलनप्रभम् । व्यजायत महाबाहु-
र्गरेणैव सह द्विज! । सगरो नाम तेनाभूत् बालको-
ऽतिमनोहरः” पद्मपु० १३ अ० । २ विषयुक्ते त्रि० ।

सगर्भ पु० सह समानो गर्भोऽस्य । १ सहोदरे भ्रातरि

शब्दर० । सह गर्भेण । २ गर्भयुक्ते मध्यवर्त्तिसूक्ष्मपत्त्र
युक्ते कुशदूर्वादौ त्रि० स्त्रियां टाप् ।

सगर्भ्य पु० समाने गर्भे भवः यत् सहस्य सः । सहोदरे भ्रातरि ।

सगोच न० सह सनानं गोत्रम् सहस्य सः । १ कुले शब्दच०

सह समं गोत्रमस्य । २ ज्ञातौ त्रि० अमरः ।

सग्धि स्त्री अद--क्तिन् नि० सहग्न्ध्या सहस्य सः । सगभोजने

अमरः ।

सङ्कट त्रि० सम + कटच् सम् + कट--अच् वा । १ अल्पावकाशे

स्थाने अमरः । २ संबाधे ३ दुःखे “नरोमुच्येत सङ्क-
टादिति” देवीमा० । ४ देवीभेदे स्त्री ज्योतिषोक्ते
दशाभेदे च स्त्री टाप् । दशाशब्दे ३४८४ पृ० दृश्यम् ।

सङ्कथा स्त्री सम् + कथ--भावे अ । परस्परकथने हेमच० ।

सङ्कटाक्ष पु० सङ्गटं संबाधमक्षति अक्ष--अण् । धववृक्षे विश्वः

सङ्कर पु० सम् + कॄ--कर्मणि अप् । १ सम्मार्जन्यादिभिः क्षिप्ते

रजसि अमरः । इतरजातिपुरुषेण इतरजातिस्त्रियां
२ जाते जातिभेदे । भावे अप् । ३ मेलने ४ परस्पराभावसा-
जाधिकरण्ये सत्येकाधिकरणवृत्तित्वे च स च जातिबा-
चकः । “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
रूपहानिरसंबन्धो जातिबाधकसंग्रहः” सि० मु० । यथा
भूतत्वाभाववति मनसि मूर्त्तत्वप्य सत्त्वात् मूर्त्तत्वाभा-
बवति च घगने भूतत्वस्य सत्त्वात् भूम्यादिभूतचतुष्टये
चोभयोः सामानाधिकरण्यात् तयोर्न जातित्वम् । वर्ण-
सङ्करजातिश्च नानाविधा दिङमात्रमत्रोच्यते “वक्ष्ये
सङ्करजात्यादि इत्युपक्रमे “विप्रान्मूर्द्ध्वावसिक्तो हि
क्षत्रियायां, विशः स्त्रियाम् । जातोऽम्बष्ठस्तु शूद्रायां
निषादः पार्षदोऽपि च” इत्यादि गरु० ९६ अ० । “स्त्रीषु
दुष्टासु वार्ष्णेव! जायते वर्णसङ्करः” गीता ।
५ अलङ्कारभेदे असङ्कारशब्दे ४०५ पृ० दृश्यम् । ६ संसर्गे
स्पर्शादिसम्बन्धे चण्डालादिसङ्करे भवनादिदहनादि तत्र
च प्रायश्चित्तादि पा० वि० उक्तं यथा
“अथ चाण्डालसङ्करप्रायश्चित्तम् । तत्र च्यवनः “चाण्डा-
ससङ्करेषु भवनदहनं पूरणं सर्वभाण्डभेदर्नं दारबाणाम्
तक्षणं शङ्खशुक्तिरजतचेलानामद्भिः प्रक्षालनं कांस्यता-
भ्राणामाकरशुद्धि । सौवीरपयोदधितक्राणां परित्यागः
शेषरसयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत्
बालवृद्धस्त्रीणामर्द्धं प्रायश्चित्तम् आषोडशाद्वालः सप्त-
त्यूर्द्धं स्थविरः चीर्णे प्रायश्चित्ते ब्राह्मणभोजनं
गोशतञ्च दद्यादभावे सर्वस्वम्” । पूरणं पूर्वमृत्तिकाकर्ष-
णेन मृत्तिकान्तरदानम् तक्षणं वास्यादिनांशवियोज-
नम् भाण्डभेदनं मृण्मयभाण्डभेदनम् । आकरे अग्ना-
वित्यर्थः अग्निसंयोगात्ताम्रादीनामुत्पत्तेः । शेषरसानां
लाक्षादाना यवसदूव्याणां च धान्यानां रक्षणम् ।
तथा च पराशरः “आकरे तु भवेच्छुद्विरारकूटे सकां-
पृष्ठ ५१९२
स्यके । जलशौचन्तु वस्त्राणां परित्यागस्तु मृण्मय ।
कुसुम्भगुड़कार्पासलवणं सह सर्पिषा । द्वारि कुर्वीत
धान्यानि गृहे दद्याद्धुताशनम् । हुताशज्वालासंस्पृष्टं
शुच तन्मनुरब्रवीत” । तेन रक्षणं घृतादीनाम् अग्नि-
ज्वालापवित्रीकृतानां कर्त्तव्यम् । एतच्च प्रायश्चित्तं
सद्यःपातहेतुयौनादिवर्जितैः संसर्गर्ज्ञानतो यावता
कालेन पातित्यं भवति अज्ञानतस्तावत्कालसंसर्गे सति
वेदितव्यम् इति तेन संवत्सरैकश्चाण्डालसम्बन्धे मासैक-
गोमूत्रयावकाहारः कर्त्तव्यः । अनेन च द्वादश धेनवो
मासोपवासात् पञ्चमभागापकर्षाद् । गोशतञ्च दक्षिणा ।
एतच्च प्रायश्चित्तं व्राह्मणकात्रियविशां तुल्यमेव । तथा
चापस्तम्बः “अन्त्यजातिरविज्ञातो निवसेद् यस्य वेश्मनि ।
स वै ज्ञात्वा तु काले तु कुर्य्यात्तत्र विशोधनम् । चान्द्रा-
यणं पराकं वा द्विजातीनां विशोधनम् । प्राजापत्यन्तु
शूद्राणां तथा संसर्गदूषणे । यैस्तत्र भुक्तं पक्वान्नं कृच्छ्रं
तेषां विधीयते । तेषामपि च यैर्भक्तं तदर्द्धं तेषुवि-
द्यते । तेषामपि च यैर्भुक्तं कृच्छ्रपादो विधीयते ।
कूपैकपानदुष्टानां तथा संसर्गदूषणे । उपवासेन शुद्धिः
स्यात् पञ्चगव्येन चैवाहि । बालापत्या तथा रोगी
गर्भिणी वृद्धएव यः । तेषां नक्तं प्रदातव्यं बालानां प्रहर-
द्वयम् । अथ वा क्रियमाणे तु येषामार्त्तिः प्रदृश्यते ।
शेषं सम्पादयेत्तेषां विपर्त्तिर्ने भवेत् यथा” । तत्र पूईर्वो-
क्तकालादल्पकालसङ्करे चान्द्रायणम् । स्वल्पतरे पराकः ।
शूद्रस्य प्राजापत्यम् । कूपैकपानदुष्टानामिति एकस्मि
न्नेव कूपे द्विजानां चाण्डालादीनां सहजलपानं
कुर्वतां संसर्गदुष्टानां सोपवासपञ्चगव्यं विशोधनमित्यर्थः ।
संवत्तः “चाण्डालसङ्करे विप्रः श्वपाके पुक्कशेऽपि
वा । गोमूवयावकाहारो मासार्द्धेन विशुध्यति ।
एतदपि स्वल्पकालसङ्करविषयं मासार्द्धयावकाहाराशक्तौ
षडधेनवः । सुमन्तुः “अगम्यागमनस्त्रीबधचाण्डालसम्प-
र्केषु कृच्छ्रत्रयम्” । एतदत्यन्तस्वल्पकालविषयं कृच्छ्रत्रया-
शक्तस्य धनुत्रयम् । तथा “अविज्ञातस्तु चाण्डालो
निवसेद यस्य वेश्मनि । विज्ञाते तूपसंन्यस्य द्विजाः कुर्यु-
रनुग्रहम्” इत्युपक्रम्याह पराशरः “दधिसर्पिःपयो
भुक्तं यदा गोमूत्रयावकम् । भञ्जोत सह भृत्यैस्तु त्रि-
सन्व्यमवगाहनम् । भावदुष्टं न भञ्जीत भोक्तव्यं
गोरसप्लुतम् । त्रिपलं क्षारदघ्रोश्च पलमेकन्तु सर्पिषः” । तथा
स पूतः सह भृर्थय कुर्य्याद्ब्राह्मणभोजनम् । अनडुत्-
सहितां गाञ्च दद्याद्विप्राय दक्षिणाम्” । दधिसर्पिःप्रयो
भुक्तं यद गोमूत्रयावक द्वादशाहं भुञ्जीतेत्यर्थः । तत्र
परिमाणामतषाम् त्रयाणामुक्तम् । चमकारादीनामावज्ञात
सङ्करे तु चाण्डालसङ्करप्रायश्चित्तस्य षष्ठी भागः
करणीयः चाण्डालस्पशप्रायश्चित्ताच्चर्मकारादिस्पर्शे प्राय-
श्चित्तस्य षष्ठभागदर्शनात् । यथा स्वल्पयमः “चाण्डालैः
श्वपचैः स्पृष्टो विणमूत्रे च कृते द्विजः । त्रिरात्रं सम्प्र-
कुर्वीत ऊर्द्ध्वोच्छिष्टः षडाचरेत्” । चर्मकारादिस्पर्श तुं
संवर्त्तः “एतः स्पृष्टस्तथोच्छिष्ट एकरात्र पयः पिबेत्”
देवलः “चाण्डालसंयोगे जातश्चाण्डाल एव स्यात्
ब्रह्याहत्योद्दिष्टं प्रायश्चित्तं वाषिंकं षाण्मासिकं कृच्छ्रं
वा ब्रह्यणस्य । चतुस्त्रिशध्येकमासाः शेषाणाम् ।
अविज्ञातचाण्डालसम्पर्के विद्यमान एव दम्पत्योः संयोगे
यो जातो ब्राह्मणः स वार्षिकं ब्रह्महत्याव्रतं प्राजापत्यं
वा षाण्मासान् कुर्य्यात् वार्षिकव्रह्मत्याव्रताशक्तौ पञ्च-
दश धेनवो देयाः । षाण्मासिकब्रह्महत्याव्रताशक्तावपी-
त्यर्थः । अस्पृश्यस्पर्शनप्रायश्चित्तमभिहितमिदानीं स्पर्श
एव निरूप्यते । किं साक्षात् स्पर्श एव स्पर्शशब्दस्यार्थः
उत परम्परास्पर्शोऽपि न प्रथमः परम्परया चाण्डा-
लस्पर्शे स्नानाद्यभावप्रसङ्गात् नापि द्वितीयः संयोगे
संयुक्तसंयोगे चैकस्पर्शपदप्रवृत्तिनिमित्ताभावात् आकाशा-
दिद्वारेण सर्वेषामेव तत्सम्भवाच्च किञ्चैवम् “औडुम्बरी
सर्वा वेष्टयितव्या औडुम्बरीं स्पृष्ट्वोद्गायेत्” इत्यत्र सर्व-
वेष्टनस्पर्शयोरविरोधः स्यात् उपस्पर्शस्यापि स्पर्शशब्दवा-
च्यत्वात् तथा च विरोधाधिकरणोदाहरणं भाष्यकार-
स्याप्यसङ्गतं स्यात् । तथा च वृद्धशातातपः “अशुचिं-
संस्पृशेद् यस्तु एक एव स दुष्यति । तत्स्पृष्टोऽन्योन
दुष्येत सर्वद्रव्येष्यं विधिः” । “तथा संहतानान्तु
पात्राणां यद्येकमुपहन्यते । तस्यैव शोधनं प्रोक्तं न
तु तत्स्पृष्टिनामपि” । उच्यते । सत्यम् उपस्पर्शो यद्यपि
न स्पर्शशब्दार्थस्तथाप्यत्र वचनादेकावयबिद्वारकपरम्यरा-
स्वर्शोऽपि ग्राह्यः । तथा चापस्तम्बः “एकशाखां समारू-
ढ़श्चाण्डालादिर्यदा भवेत् । व्राह्मणस्तत्र निवसन् स्नानेन
शुचतामियात्” । आदिशब्दादुदक्यादीनां ग्रहणम् ।
शाखाग्रहणमेकावयव्युपलक्षणार्थं तेनकपाषाणादरपि
ग्रहणम् । तथा स एव “एकवृक्षं समारूढ़ौ चाण्डाल-
ब्राह्मणी यदि । फलं भक्षयतस्तत्र प्रायश्चित्त कथ
भवेत् । ब्रह्मणानप्यनुज्ञाप्य सवासाः स्नानमावरेत् । अ-
पृष्ठ ५१९३
होरात्रोषिती भूत्वा पञ्चगव्येन शुध्यति” । तथा स
एव “एकशाखां समारूढ़ः फलान्यश्नात्यसौ यदि ।
प्रायश्चित्तं त्रिरात्रं स्यात् पञ्चगव्यं विशोधनम्” । अत्र
व्यवधानसन्निभानाभ्यामेकरात्रत्रिरात्रे । चानविषयं
चैतदुभयम् । तथा च ब्रह्मपुराणम् “विप्रण्डालस-
हितो यत्रकस्मिन् वनस्पतौ । अज्ञानात्तु फलं भङ्क्ते
चरेत्तत्राघमर्षणम्” । उपस्पर्शत्वात् । “पाद आमाशने
तथेति” पुर्वोक्तापस्तम्बेन न विरोधः । तथाचापस्तम्ब
“मूढ़ः स्रस्तरे वा संस्पृशन् अप्रयतान् प्रयतो मन्येत” ।
तृणस्रस्तरादी चाण्डालादिभिः सहावस्थितोऽपि स्पृश-
न्नपि तान् प्रयतत्वमात्मनो मूढ़ो मन्येत वस्तुतस्तु
अशुचिरेवासौ इति पूर्ववाक्योपात्तं स्नानमेव कुर्य्यात्
तथा “तृणकाष्ठादिषु निखातेष् च” । संक्रमादौ निखा-
तेषुतृणकाष्ठेषु चाण्डालेन सहाबस्थितोऽप्यशुचिरेव तथा
“प्रोक्ष्य वास उपयोजयेत्” । न सचेलं स्नानमित्यर्थः ।
अयमेव विशेषः साक्षात्स्पर्शादस्य । अतोवचनादेकावय-
विद्वारा परम्परास्पर्शे स्नानादिकनिति । नौकादिषु न
दोष इत्याह पराशरः । “रथ्याकर्दमतोयानि नावः
पन्थास्तृणानि च । स्पर्शनान्न प्रदुष्यन्ति पक्वेष्टकचितानि
च” । तृणसमूहः पक्वेष्टकचितानि मठादीनि । नन्वेवं
याज्ञवल्क्यवचनविरोधः तद यथा “उदक्याशौचिभिः
स्नायात् संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि लपेच्चैव
गायत्री मनसा स्मरन्” । अत्र परम्परयोदक्यया
अशुचिभिश्च स्पर्शे आचमनमवगम्यते । तथा “शवं तत्स्पृष्टि-
नाञ्चैवेति” मनुवचते तत्स्पृष्टीत्यभिधीयते तदनर्थकं
स्यात् चाण्डालादिस्पृष्टस्पष्टिनीरपि स्नानाभ्युगमात्
“शवस्पृष्ट्युपस्पर्शे सर्वोदकस्पर्शाच्छुद्धिरिति” गौतम-
विरोधः “शवस्पृर्शे दिवाकीर्त्तिम्” इत्यादि वृहस्पतिव-
चन “शवस्पृशञ्च स्पृष्ट्वेत्यादिविष्णुवचनाभ्याञ्च विरोधः
व्यात तच्छब्देन सर्वेषामेव चाण्डालादीनां परामर्शात्
एषु सर्वेषु शवस्प्ष्टिग्रहणात । उच्यते । एकशाखां
समारूढ़ इत्याद्यापस्तम्बवचनं वर्त्तमानाशुचिसंसर्गिस्पर्श-
विषय याज्ञवल्क्यादिवचनञ्चातौतस सर्गिस्पर्शविषयमि
त्यविरीधः । अतएव “संस्पृश्याशुचिसंस्पृष्टं तृतीयं
वापि मानवः । हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्य
शुध्यति” इति देवलबचनमपि वर्त्तमानाशुचिसं सर्गि-
स्पृष्टी मूलाभूताशुच्यपेक्षया तृतीयो भवति तं स्पृष्ट्वा
खाचमनमात्रं चतुर्थे नेत्यर्थः । अतीतविषये द्वितीयमेव
स्पृष्ट्वाचमनमिति व्यवस्थितविकल्पवाचिवाशब्दार्थः । तृती-
यस्पर्शे न किञ्चित् । चाण्डालादिस्पर्शविषयञ्चैतत्
अतीतान्त्यजस्पर्शविषये तु द्वितीय एव नाचमनम् । तथा च
शातातपः “अशुचिं संस्पृशेद् यस्तु एक एव स
दुष्यति । तत्स्पृष्टोऽन्योन दुष्योत्तु सर्वद्रव्येष्वयं विधिः” ।
एतल्लशुनाद्यशुचिद्रव्याधऊर्द्ध्वोच्छिष्टस्पर्शविषयमपि ।
अत्रापि वर्त्तमानान्त्यजसंसर्गिस्पर्शे साक्षात्स्पर्श इवाच-
मनमेवेति सर्वमुपपन्नम्” ।
पराशरेणाऽत्र कश्चिद्विशेष उक्तो यथा
“उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन । अनिधा-
यैव तद्द्रव्यमाचान्तः शुचितामियात् । मार्जनोपा-
ञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम् । सम्मार्जनेनाञ्जनेन
सेकेनील्लेखनेन च । दाहेन च भुवः शुद्धिर्वासेनाप्यथ
वा गवाम्” । अत्रापि लघुगुरुसंसर्गविषयभेदात् व्यवस्था ।
“नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रा-
ह्मणान्तरितं भोक्ष्यमाकराः सर्व एव हि” ।

सङ्करी स्त्री सङ्कीर्य्यते सम् + कॄ--कर्मणि घ गौरा० ङीष् ।

नवदूषितकन्यायां मेदि० ।

सङ्करीकरण न० सङ्करः क्रियतेऽनेन च्वि + कृ--करणे ल्युट् ।

पापभेदे तत्स्वरूपप्रायश्चित्तादिकं प्रा० वि० दर्शितं यथा
“अथ सङ्करीकरणापात्रीकरणमलावहप्रायश्चित्तम् ।
तत्र मनुः “खरोष्ट्राश्वमृगेभानामजाविकबधस्तथा । सङ्क-
रीकरणं ज्ञेयं मीनाहिमहिषस्य च । निन्दितेभ्यो
धनादानं बाणिज्य शूद्रसेवनम् । अपात्रीकरणं ज्ञेय-
मसत्यस्य च भाषणम् । कृमिकीटवयोहत्यामद्यानुगत-
भोजनम् । फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्” ।
मद्यानुगतभोजनं मद्यपानसमये यदुपस्थापितं फलमू-
लादि । अधैर्य्यं गीतश्रवणादि “अल्पेऽप्यचये अत्यन्तवैर-
कृत्यमिति” कल्पतरुः । “सङ्करापात्रकृत्यासु मासं
शोधनमैन्दवम् । मलिनीकरणीये तु तप्तः स्यात् यावक-
स्त्र्यहम्” । तथा विष्णुः “ग्राम्यारण्यानां पशूनां
हिंसा सङ्कीर्णकरम् । सङ्कीर्णकरणं कृत्वा मासमश्नोत
यावकम् । कृच्छ्रातकृच्छ्रमथ वा प्रायश्चित्तन्तु कारयेत् ।
निन्दितेभ्यो धनादानं बाणिज्यं कुशीदजीवनम्” । असत्यं
शूद्रसेवनमित्यपात्रीकरणं कृत्वा तप्तकृच्छेण शुद्ध्यति ।
“शीतकृच्छ्रेण वा भूयोमाहासान्तपनेन वा” । “पक्षिणां
जलचराणाञ्च घातनं कृमिकीटघातनं मद्यानुगतभोजन-
मिति मलावहानि” “मलिनीकरणीये तु तप्तकृच्छ्र स-
पृष्ठ ५१९४
माचरेत् । कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विमोधनम् ।
अत्र सङ्करीकरणे सकृत्करणे मासवकम अभ्यासे
कृच्छ्रातिकृच्छम् । अत्यन्ताभ्यासे चान्द्रायणम् । अपात्री-
करणे च सकृत्करणे तप्तकृच्छ्रं चतुरहसाध्यम् ।
शीतकृच्छ्रो वा शीतकृच्छ्रे तप्तकृच्छ्रेतिकर्त्तव्यतैव किन्तु
तदेव द्रव्यमत्र शातलमिति विशेषः । अभ्यासे तु
महासान्तपनम् अत्यन्ताभ्यासे चान्द्रायणम् । मलावहेतु सकृ
दाचरणे त्र्यहयावकम् अभ्यास तु तप्तकृच्छ्रम् अत्यन्ता
भ्यासे कृच्छ्रातिकृच्छ्रमिति यथायोग्यमूह्यम् । एषु च
तुर्षुयत्र यत्र प्रायश्चित्तविशेषो नोक्तस्तत्रैव एष बोद्धव्यः” ।

सङ्कर्षण पु० संकृष्यते गर्भात् गर्भान्तरं नीयतेऽसौ सम् +

कृषयुच् । १ यलदेवे अमरः । तत्कथा हरिवं० ५८ अ०
“सप्तमो देवकीगर्भः योऽंशः सौम्यो ममाग्रजः । स
संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् । सङ्कर्षणात्तु
गर्भस्य स तु सङ्कर्षणो युवा । भविव्यत्यग्रजो भ्राता मम
शीतांशुदर्शनः” निद्रात्मिकां विष्णुमायां प्रति भगवदुक्तिः ।
भावे ल्युट् । २ आकर्षणे ३ स्थानान्तरनयने च न० ।

सङ्कलन न० सम् + कल--ल्युट् । १ एकत्रस्यीकरणे २ योजने

(ठिकदेथा) लीला० ३ संग्र्हे च ।
योजनं च नानासङ्ख्यासूचकाङ्कानामेकसङ्ख्यापादकाङ्ककरणं
तच्च द्विविधं शुद्धसङ्कलनं भिन्नसङ्कलनञ्च तत्र शुद्धसङ्क-
लनं तु “कार्य्यः क्रमादुत्क्रमतोऽथ वाङ्कयोगो यथास्थान-
मथान्तरं वा” लीला० उक्त्या यथास्थानम् एकादिस्थाने
एकाद्यङ्कयोग एव दशशतादिस्थाने दशशताद्यङ्कयोगः ।
भिन्नसङ्कालनञ्च छेदसहिताङ्कयोजनम् । तत्रांशसमवर्णनं
तत्रोक्तं यथा “अन्योन्यहाराभिहतौ हरांशौ राश्यीः
समच्छेदविधानमेवम्” ।
न्यासः (३१) (१५) (१३) समच्छेदे जातम् (४५१५) (३१५) (५१५)
“योगोऽन्तरं तुल्य हरांशकानां कल्प्यो हरो रूपमहार
राशेः” इत्युक्तदिशा योजने जातम् (५३१५) एवं प्रभा-
गभागानुबन्धभागापवाहेषु समच्छेदकरणं तत्र दृश्यम् ।

सङ्कलित त्रि० सम् + कल--क्त । १ योजिते २ रेखादिना संवृते

अमरः । ३ संगृहीते च भावे क्त । ४ संयीजने न० ।

सङ्कलितैक्य न० ६ त० । “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः

किल सङ्कलितैक्यम्” लीला० उक्ते एकाद्यङ्कानां यीगे

सङ्कल्प पु० सम् + कृप--घञ् गुणे रस्य लः । १ अभीष्टसिद्धये

(इदमित्थमेव कार्य्यम) इत्येवंरूपे मतमोव्यापारभेदे अ-
मरः । २ कर्मसाधनाय अभिलापवाक्ये “सङ्कल्पेन विना-
राजन्! यत् किञ्चित् कुञ्चित् कुरुते नरः । फलस्याल्पाल्पकं तस्य
धर्मस्यार्द्धक्षयो भवेत्” ब्रह्मपु० । धर्मस्य अर्द्धक्षयोक्तेः
फलस्याल्पाल्पकत्वमप्यर्द्धपरत्वं युक्तं धर्माधीनत्वात्
फलस्य । “आशास्य च शुभं कार्यमुद्दिश्य च मनोगतम्”
अगस्त्यपूजने उक्तम् “मनोगतं शुभफलमाशास्य मनसा
सङ्कल्प्य, उद्दिश्य वाचा अभिलप्य, कार्यं कर्मणा
उपपाद्यम्” ति० त० रघु० । “मनसा सङ्कल्पयति वाचा
अभिलपति कर्मणा चोपपादयति” हारीतः । तत्प्रकारो यथा
“शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा । सङ्कल्पो
नैव कर्त्तव्यो मृण्मयेन कदाचन । गृहीत्वौदुम्बरं पात्रं
वारिपूर्णं गुणान्वितम् । दर्भत्रयं साग्रमूलं फलपुष्प-
तिलान्वितम् । जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः ।
साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम्” भविष्यपु० ।
अत्र केवलहस्तनिषेधस्तु पात्रान्तरसद्भावविषयः
एकहस्तपरो वा एका० त० रघु० । मानससङ्कल्पश्च द्विविधः
भावाभावविषयभेदात् तत्राद्यः मयैतत्कर्त्तव्यमित्येवरूपः
द्वितीयः मयैतन्न कर्त्तव्यमित्येवं रूपः । तत्र पूजादिसङ्क-
ल्पोभावविषय उपवासादिसङ्कल्पोऽभावविषय इति भेदः ।
ध्यम् । “सङ्कल्पभूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।
व्रतानियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः” एका० त० ।

सङ्कल्पजन्मन् पु० सङ्कल्पात् जन्म यस्य । १ कामदेवे हला०

सङ्कल्पजादयोऽप्यत्र । सङ्कल्पजातमात्रे यज्ञादौ च त्रि०

सङ्कल्पयोनि पु० सङ्कल्पोयोनिरुत्पत्तिकारणं यस्य ।

कामदेवे “सङ्कल्पयोनेरभिमानभूतमिति” कुमारः ।

सङ्कसूक त्रि० सम् + कस--ऊकन् । १ अस्थिरे अमरः । २ मन्दे

सि० कौ० ३ दुर्बले उणादि० । ४ सङ्कीर्णे ५ अपवादशीले
च संक्षिप्तसा० ।

सङ्कार पु० सम् + कॄ--कर्मणि बा० घञ् । १ सम्मार्ज्जनादिक्षि-

प्तधूल्यादौ शब्दर० । २ नवदूषितकन्यायां स्त्री मेदि०
गौरा० ङीष् । भावे घञ् । ३ अग्निचटत्कारे मेदि० ।

सङ्काश त्रि० सम्यक् काशते काश--अच् । १ सदृशे “तरुणा-

दित्यसङ्काशमिति” तन्त्रम् । अत्रार्थे निभादिवदस्य
नित्यसमासता । २ अन्तिके च विश्वः ।

सङ्किल पु० सम् + किल--क । वह्नेरुल्कायां त्रिका० ।

सङ्कीर्ण त्रि० सम् + कॄ--क्त । बहुजनसङ्घर्षेण निरवकाशे

१ स्थाने भरतः । २ मिलितनानाजातीये उणा० ३ व्याप्ते
४ मिश्रिते ५ सङ्कटे अजयः । एकत्र ६ निसितयोः पर-
पृष्ठ ५१९५
स्परविजातीययोश्च । इतरवर्णेन इतरवर्णस्त्रियां जाते
७ जातिभेदे पु० ८ अशुद्धे अमरः । ९ मिश्रितरागे सङ्गीत०

सङ्कीर्त्तन न० सम् + कीर्त्त--ल्युट् । १ स्तुतौ २ देवादेर्नामो-

च्चारणे ३ गानेन देवगुणाद्युत्कीर्त्तने च “श्रीकृष्णरस-
सङ्गीतं वीणाध्वनिसमन्वितम् । कुरु वत्साघुनात्रैव
शृण्वन्तु मुनयः सुराः । गोपीनां वस्त्रहरणं परं
रासमहोत्सवम् । ताभिः सार्द्धं जलक्रीड़ां हरेरुत्कीर्त्तनं
कुरु । कृष्णसङ्कीर्त्तनस्थाने ये च नृत्यन्ति वैष्णवाः । तेषां
पादरजः स्पर्शात् सद्यः पूता वसुन्धरा” नारदपञ्चरात्रम् ।

सङ्कुचित त्रि० सम् + कुच--क्त । १ कृतसङ्कीचे २ संक्षिप्ते

३ अप्रफुल्ले च हेमच० । ४ सुप्ते राजनि० ।

सङ्कुल न० सम् + कुल--क । १ परस्परवराहते “यावज्जीवमहं

मौनी ब्रह्मचारी च मे पिता । माता तु मम बन्ध्यैव
पुत्त्रहीवः पितामहः” इत्येवं वाक्ये अमरः । २
परस्पपरहननरूपे युद्धे ३ बहुजनादिभिः संबाधेन निरव-
काशे स्थाने ४ सङ्कीर्णे त्रि० अमरः ।

सङ्केत पु० सम् + कित--घञ् । मनोगतभावव्यञ्जनाय कृते

हस्तादिचालनरूपे १ व्यापारे (इसारा) त्रिका० । “अस्ना-
च्छब्दादयमर्थोबोध्यः, अयं शब्दः अमुमर्थं बोधयतु वा”
इत्येवंशब्दनिष्ठे २ अर्थबोधनाशक्तिविशेषे सङ्केतश्च
जात्यादिचतुष्के इति वैयाकरणाः ।
“शब्दैरेव प्रतीयन्ते जातिदूव्यगुणक्रियाः । चातुर्विध्या-
दमीषान्तु शब्द उक्तश्चतुर्विधः” काव्यादर्शः । “सङ्केतो
गृह्यते जातौ गुणद्रव्यक्रियासु च” हरिः “जातिदू-
व्यगुणस्पन्दैर्धर्मैः सङ्केतवत्तया । जातिशब्दादिभेदेन
चातुर्विध्यं परे जगुः” वैयाकरणमतम् शब्दश० प्र०
उक्तम् । “रूढ़ं सङ्केतवन्नास सैव संज्ञेति कीर्त्त्यते”
शब्दश० । शक्तिशब्दे ५०७६ पृ० दृश्यम् । ३ प्रियसङ्ग-
मार्थे गुप्तस्थाने च ।

सङ्केतित त्रि० सङ्केतो जातोऽस्य तार० इतच् । सङ्केतयुते

वाच्ये अर्थे “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स
वाचकः” काव्यप्र० ।

सङ्कोच पु० सम् + कुच--घञ् । बहुविषयकवाक्यस्याल्पविषय-

कतया १ व्यवस्थापने सामान्यशब्दस्य २ विशेषपरतायाम्
श्राद्धवि० ३ जड़ीभावे ४ बोधे ५ बन्धे च मेदि० । सम् +
कुच--अच् । ६ मत्स्यभेदे पुंस्त्री० मेदि० स्त्रियां ङीष् ।
७ कुङ्कुमे न० अमरः ।

सङ्कोचनी स्त्री सम् + कुच--ल्यु--गौरा० ङीष् । लज्जःलुलतायां रत्नमा० ।

सङ्क्रन्दन पु० सङ्क्रन्दयत्यसुरान् सर् + क्रन्द--णिच्--ल्यु ।

१ इन्द्रे अमरः । भावे ल्युट् । २ सम्यक्क्रन्दने न० ।

सङ्क्र(क्रा)म पु० सङ्क्रामत्यनेन सम् + क्रम--घञ् वा

वृद्धिः । १ जलबन्धनस्थाने (साँको) अमरः “आत्मानं
सङ्क्रमं कृत्वेति” स्मृतिः । भावे घञ् । २ रव्यादेः
राश्यन्तरसञ्चारे धरणिः । “त्रुटेः सहस्रभागो यः
सकालो रविसंक्रमः” ति० त० । ३ एकत्रस्थितवस्तुनः तत्
स्थानत्यागेनान्यत्रगमने च ।

सङ्क्रमण न० सम् + क्रम--ल्युट् । १ सङ्क्रान्तौ २ रव्यादीनां राश्यन्तरगमने च ।

सङ्क्रान्त त्रि० सङ्क्रान्तिरस्यास्ति अच्, सम् + क्रम--क्त वा ।

१ सङ्क्रान्तियुक्ते २ सङ्कमकमणर्त्तरि ३ प्राप्ते दायरूपेण
भर्त्त्रादित आगते स्त्रिया ४ प्राप्तधने च । दायभा० मते
स्त्रीणां संक्रान्तधते उषभोगमात्रं तन्मरणे स्वपत्यादि
दायादानां तद्धनम् “भुञ्जीतामरणात् क्षान्ता दायादः
ऊर्द्ध्वमाप्नुयुः” कात्या० वचनात् । मिता० मते स्वदा-
यादानामिति विवेकः ।

संक्रान्ति स्त्री सम् + क्रम--भावे क्तिन् । संक्रमणशब्दार्थे

संक्रान्तिपदार्थरविसंक्रान्तिनामभेदफलभेदादि मु० चि०
पी० धा० निरूपितं यथा
“घोरा १ ऽर्कसंक्रमणमुग्ररवौ हि शूद्रात्, ध्वाङ्क्षी २ विशो,
लघुविधौ च चरर्क्षभौमे । चौरान्, महोदरयुता ३
नृपतीन्, ज्ञमैत्रे मन्दाकिनी ४ स्थिरगुरौ सुखयेच्च, मन्दा । ५ ।
विप्रांश्च, मिश्रभभृगौ तु पशूंश्च मिश्रा ६ तीक्ष्णर्कजेऽ-
न्त्यजसुखा खलु राक्षसी ७ च । त्र्यंशे दिनस्य नृपतीन्
प्रथमे निहन्ति मध्ये द्विजानपि विशोऽपरके च शूद्रान् ।
अस्ते निशाप्रहरकेषु पिशाचकादोन्नक्तञ्चरानपि नटान्
पशुपालकांश्च । सूर्य्योदये सकललिङ्गिजनञ्च सौम्यया०
म्यायनं मकरकर्कटर्निरुक्तम् । षड़शीत्याननञ्चापमृयु-
क्वन्याझषे भवेत् । तुलाजौ विषुवं, विष्णुपदं सिंहालिगो
घटे । संक्रान्तिकालादुभयत्र नाड़िकाः पुण्या मनाः
षोड़शषोड़शोष्णगोः । निशीथतोऽर्वागपरत्र संक्रमे पूर्वा-
पराहान्तिमपूर्वभागकौ । पूर्णे निशीथे यदि संक्रमः स्या-
द्दिनद्वयं पुण्यमथोदयास्तात् । पूर्वं परस्ताद् यदि
याम्यसौम्यायने दिने पूर्वपरे तु पुण्ये । सन्ध्या त्रिनाड़ी-
प्रमितार्कबिम्बादर्द्धोदितास्तादधऊर्द्ध्वमत्र । चेद्याम्यसौव्ये-
अयने क्रमात्स्तः पुण्यौ तदनीं परपूर्वघस्रौ । थाभ्या-
यने विष्णुपदे चाद्या मध्यास्तुनाजायीः । षड़शीत्याकने
सौम्ये परा नाड्योऽतिपुण्यदाः” मु० चि० ।
पृष्ठ ५१९६
“तत्र ग्रहाणां प्राग्राशितोऽपरराशौ संक्रमणं संक्रान्ति-
रिति संक्रान्तिलक्षणं सा च द्विविधा मध्यमा स्पष्टा च ।
षट्कर्मसंस्कृतो मध्यमग्रहोराश्यन्तरं यदा संक्रानति
सा मध्यमसंक्रान्तिरुच्यते । यदा तु स्पष्टीकृतसंस्कार-
विशिष्टो ग्रहो राश्यन्तरं गच्छेत् सा स्पष्टसंक्रान्तिरु-
च्यते । तत्र मध्यममानस्य स्पष्टोकरणार्थत्वादेव तज्ज-
नितसंस्कारानुपयोगादत्रा तत्त्यागेन स्पष्टसं क्रान्तिरेव
गृह्यते । सापि द्विविधा सायनांशा निरयनांशा चेति ।
तत्र यदा सिद्धान्तगणनागतायनांशसंस्कृता ग्रहाराश्य-
न्तरगमनमुररीकुर्वते सा सायनांशसंक्रान्तिरुच्यते । यदा
त्वयनांशसंस्काररहिताग्रहाराश्यन्तरगास्तदा निरय-
नांशा संक्रान्तिरुच्यते । तत्रान्यासां चन्द्रांदिसंक्रान्तीनान्तु
“देवद्व्यङ्कर्त्तवोऽष्टाष्टौ नाड्योऽङ्काः खनृपाः क्रमात्” ।
वर्ज्याः संक्रामणेऽर्कादेः प्रायोऽर्कस्यातिनिन्दिता” इति
वर्ज्यधटीत्वमेव विवाहप्रकरणे वक्ष्यति न तु फलकथने
आसां संक्रान्तीनां कश्चिदुपयोगः । सूर्य्यसंक्रान्तीनान्तु
नक्षत्रवारसमयभेदेन ववादिकरणभेदेन च शुभाशुभफल-
कथनयोग्यता पुण्यकालता संक्रान्तिविशेषे वर्ज्यघटी-
न्यूनाधिकभावश्चास्तीत्यतो बहुवक्तव्यत्वात् स्वतन्त्रमेव
सूर्य्यसंक्रान्तिप्रकरणर रिप्सुर्नक्षत्रवारभेदेन फल तावत्
सार्द्धवसन्ततिलकयाह । घोरेति अर्कस्य सूर्य्यस्य
संक्रमणं निरयनाशा संक्रान्तिरुग्ररवावुग्रसंज्ञकनक्षत्रे
रविवारेऽर्कवारे वा स्यात् तदा घोरानाम्नी सा शूद्रान्
सुखयेत् सुखिन उत्पादयेत् । अत्रार्कसंक्रमणमिति
पदौपादानसामर्थ्यात् सूर्य्यसं क्रान्तिष्वेवायं विचारो नाखि-
लग्रहसंक्रान्तिष्विति फलितोऽर्थः ।
अथ लघुनक्षत्रे विधौ चन्द्रवारे वा सूर्य्यसंक्रान्तिर्ध्या-
ङ्क्षीनार्म्ना विशी वैश्यान् सुखयेत् । चरर्क्ष चरनक्षत्रे
भौमे मङलवारे वा संक्रान्तिर्महोदरयुता महोदरी-
नाम्नी चोरान् सुखयेत् ज्ञमैत्रे बुधे मैत्रसंज्ञकनक्षत्रे
वा संक्रान्तिर्मन्दाकिनीनाम्नी नृपतीन् राज्ञः सुखयेत् ।
स्थिरनक्षत्रे गुरुवारे वा संकान्तिर्मन्दानाम्नी विप्रान्
सुणयेत् । मिश्रनक्षत्रे भृगुवारे वा संक्रान्तिर्मिश्रनाम्नी
पशून् सुखयेत् । तीक्ष्णनक्षत्रे अर्कजे शनिवारे वा
संक्रान्तिः खलु निश्चयेन राक्षसीनाम्नी अन्त्यजांश्चाण्डालान्
सुखयतीत्यन्त्यजसुखा स्यादित्यर्थः । यद्राह कश्यपः
“घोराष्वाङ्क्षीमहोदर्य्यो मन्दा मन्दाकिनी तथा मिश्रा-
राक्षसिका सूर्य्यसंक्रान्तष्वर्कवासरात्” । वसिष्ठ “घो-
रोग्रर्क्षे ध्वाङ्क्षी लघुभे चरमे महोदरी मृदुभे । मन्दा-
किनी चरर्क्षे मन्दा मिश्रा मिश्रे च राक्षसी तीक्ष्णे” ।
अत्र छन्दीभङ्गस्त्वार्षः । देवीपुराणे “मन्दा ध्रुवेषु विज्ञेया
मृदौ मन्दाकिनी तथा । क्षिप्रे ध्वाङ्क्षीं विजानीया
दुग्रे घोरा प्रकीर्त्तिता । चरे महीदरी ज्ञेया क्रूरैरु
ग्रैस्तु राक्षसी । मिश्रिता चैव विज्ञेया मिश्रऋक्षैस्तु
संक्रमे” इति । रत्नमालायाम् “उग्रक्षिप्रचरे मित्रध्रुव-
मिश्राख्यदारुणैः । ऋक्षैः संक्रान्तिरर्कस्य घोराद्या क्रमशो
भवेत्” । नारदकश्यपौ “शूदूतस्करवैश्ये क्ष्मादवभूप-
गवां क्रमात् । अनुक्तानाञ्च सर्वेषां धरिद्याः सुखदाः
स्मृताः” । क्ष्मादेवाः ब्राह्यणाः अनुक्तानां चाण्डाला-
दीनाम् । ननूक्तं वक्ष्यमाणं वा शुभाशुभफलं सायनांश-
संक्रान्तितः कुतो न विचार्य्यते इति चेत् उच्यते
सायनांशसंक्रान्तेः स्नानदानजपादावेव कार्य्यं न सर्वत्र
यदाह पुलस्त्यः “स्नानदानजपश्राद्धव्रतहोमादिकर्मसु ।
सुकृतं चलसंक्रान्तावक्षयं पुरुषोऽश्नुते” इति । चलसं-
क्रान्तिः सायनांशसंक्रान्तिः । अतश्चलसंक्रान्तेः परिगणि-
तस्नानादिकविषयत्वादेव कृत्यान्तरेषु विवाहादिशुभकर्मसु
संक्रान्तिमासाङीकारे शुभाशुभफलकथनञ्च नास्या
उपयीग इति युक्तमुत्पश्यामः । इदं चाग्रे सम्यक्ततया
निर्णेष्यते” । “अथ दिनरात्रिविभागेन संक्रान्त्यशुभफल-
मुत्तरायणदक्षिणायनसंज्ञाञ्च सार्द्धवसन्ततिलकय्याह ।
त्र्यंशे इति अत्रार्कसंक्रमणमित्यनुवर्त्तते दिनप्रमाणं त्रि-
भिर्भक्तं घट्यात्मकस्तृतीयांशो भवति तत्र दिनस्य प्रथम
त्र्यंशेऽर्कसंक्रमणं नृपतीन् हन्ति मध्ये द्वितीयत्र्यंशे
द्विजान् ब्राह्मणान् हन्ति अपरके तृतीयत्र्यंशे वैश्यान्
इत्येवं सर्वेत्र व्याख्येयम् । अस्ते सूर्य्यास्तसमयेऽर्कसंक्रमणं
शूद्रान् । अथ रात्रिसं क्रान्तिफल तत्र रात्रिप्रथमप्रहरे
पिशाचकादीन् आदिशब्देन भूवादीन् । द्वितीयप्रहर
नक्तञ्चरान् राक्षसान् तृतीयप्रहरे नदान् नर्त्तकान्, चतुर्थ-
प्रहरे पशुपालकान् आभीरान् । सूर्य्योदयसमयकालेऽर्क-
संक्रमणं सकललिङ्गिजनं पाखण्डादिकं हन्तीत्यर्थः
“पाखण्डाः सर्वलिङ्गिन” इत्यभिधानात् । यदाहतुर्नार-
दकश्यपौ “पूर्वाह्णे नृपतीन् हन्ति विप्रान् मध्यदिने
विशः । अपराह्णेऽस्तगे शूद्रान् प्रदोषे च पिशाचकान् ।
निशि रात्रिञ्चरान्नाट्यकारानपररात्रके । गोचारिणश्च
सन्ध्यायां लिङ्गिनं रविसंक्रमः” इति । संक्रान्तेः क्रूर-
सौम्यवारपरत्वेन फलविशेषमाह वसिष्ठा रविरविज-
पृष्ठ ५१९७
समवारे संक्रान्तौ दिनकरस्य तन्मामे । पित्तकफा-
निलजामयनरपतिकलहस्त्ववृष्टिश्च । बुधगुरुसितचन्द्राहे
सति संक्रान्तावनामयं नॄणाम् । क्षितिपतिनिकरक्षेमं सस्य
विवृद्धिर्विधर्मिणां पीड़ा” । अत्र मेषसंक्रान्तौ विशेष-
माह कश्यपः “यदा मेषगतः सूर्य्यो भरण्यादिचतु-
ष्टये । सस्यवृद्धिर्भवेत्तत्र वृद्धिरार्द्राचतुष्टये । मघादि
दशके हानिः क्षेमं चानुक्तभेषु च” । अस्यार्थः । यस्मिन्
दिने मेषसंक्रमस्तद्दिने चन्द्रो यदि भरण्यादिनक्षत्रचतु-
ष्टये स्यात् तदा सस्यवृद्धिः एवमग्रेऽपि व्याख्येयम् ।
अथ जन्मनक्षत्रे संक्रान्तिफलं दीपिकायां “यस्य जन्म-
र्क्षमासाद्य रविसंक्रमणं भवेत् । तन्मासाद्यन्तरे तस्य रोगः
क्लेशो धनक्षयः” इति । तत्र शान्तिकमपि दिपिकाया-
मुक्तम् “तगरसरोरुहपत्रैरजनीसिद्धार्थलोधरसंयुक्तैः ।
स्नानं जन्मन्यृक्षे रविसंक्रान्तौ नृणां शुभदमिति” । अथ
संक्रान्तिषु वृष्टौ जातायां फलमुक्तम् वसिष्ठेन
“अजकन्याझषकर्किणि संक्रान्तौ यदि भवेद्वर्षम् । अतुलं क्षेम-
सुभिक्षं नृपसज्जनगोकुलक्षेमम् । घटचापसिंहमिथुन-
संक्रान्तौ यदि भवेद्वर्षम् । आमयडामरभूभृद्युद्धमनर्थं
त्ववृष्टिश्च । वृषवृश्चिकतुलमकरे वृष्टिः स्यात् संक्रमे
समये । विस्फोटामयतस्करपीडावृष्टिः कृशानुभयमिति” ।
अथ सौम्येति मकरकर्कटयोः संक्रान्तिश्चेत् तदा क्रमेण
सौम्ययाम्यायनं निरुक्तं कथितं मकरे उत्तरायणं कर्कटे
याम्यायनं स्यादित्यर्थः । यदाह नारदः “सौम्ययाम्यायने
नूनं भवतो मृगकर्किणि” इति । अथावशिष्टतादृशसंक्रा-
न्तीनां षडशीतिमुखादिकाः संज्ञा अनुष्टभाह षडशीतीति
धनुर्मिथुनकन्यामीनेषु संक्रान्तिश्चेत् तदा षडशीतिमुखा-
नाम्नी संक्रान्तिः, तुलामेषयोः संक्रान्तिर्विषुवनाम्नी ।
सिंहवृश्चिकवृषकुम्भेषु संक्रान्तिर्विष्णुपदाख्या । उक्तञ्च
नारदेन “स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया ।
षडशीतिमुखं ज्ञेयं द्विस्वमावेषु राशिषु । तुलाधराजयो-
र्ज्ञेयं विषुवं सूर्य्यसंक्रमः” । संज्ञाप्रयोंजनञ्च “याभ्यायने
विष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्ये
परा नाद्योऽतिपुण्यदाः” । इति ग्रन्थकृदग्रे वक्ष्यति ।
अत्र मनुः “संक्रान्तौ यानि दत्तानि हव्यकव्यानि
दातृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।
रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः । सप्तजन्मसु
रोगी स्यात् दुःखभागी हि जायते” इति शातात-
पोक्तेः स्नानदाश्राद्धादिकृत्यस्य संक्रान्तिकालेऽवश्यकर्त्त-
व्यता प्रतीयते तत्र श्राद्धादेरनेकक्षणसाध्यत्वादननुष्ठान
लक्षणमप्रामाण्यमापद्येत संक्रान्तिकालस्यातिसूक्ष्ममत्वात्
तदुक्तम् देवीपुराणे “सुस्थे नरे सुखासीने यावत्
स्पन्दति लोचनम् । तस्य त्रिंशत्तमोभागस्तत्परः
परिकीर्तितः । तस्माच्छततमोभागस्त्रुटिरित्यभिधीयते । त्रुटेः
सहस्रभागी यः स काली रविसंक्रमः” इति ।
देवलोऽपि “संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः”
इति पिशितेक्षणैः मनुष्यैः । अतोमुख्यकालानुपलब्धौ
गौणकालेऽपि कार्य्यं वचनप्रामाण्यात् । स च
गौणकालः प्रतिनिधिरित्यतो गौणकालमुषजातिकाच्छन्दः
पूर्वार्द्धेनाह संक्रान्तीति । गणितमार्गेण यः उष्णगोः
सूर्य्यस्य संक्रान्तिकाल आगतस्तत उभयत्र पूर्वतः
परतश्च षोडश नाड्यः पुण्यसम्पादकत्वात् पुण्या मताः
सम्मता सूर्य्यसंक्रान्तिसमयात् पूर्वं षोडश पश्चाच्च षोडश-
घटिकाः पुण्यकाल इति द्वात्रिंशद्घटिका भवन्तीत्यर्थः ।
तदाह वसिष्ठः “दिनपतिसंक्रमणात् प्राक् षोडश नाड्यश्च
पुण्यकालः सः । परतः षोडश नाड्यः सर्वत्र स्नानदान-
कार्य्येषु । ब्रह्मसिद्धान्तेऽपि “सक्रान्तेः प्राक्परस्ताच्च
सार्द्धाः षोडश नाडिकाः । त्रयस्त्रिंशत् संक्रमस्य
पुण्याः सर्वस्य नाडिकाः” । अनेन “संक्रान्तेः पुण्यका-
लस्तु षोडशोभयतः कलाः” इति स्मृतिवाक्ये “यैः पूर्वतः
परतश्चाष्टावष्टौ घटिकाः पुण्यकालं इत्येवं षोडशेति
व्याख्यातं तदपाकृतं भवति । किञ्चायमर्थोवासनासिद्धः
सूर्य्यसिद्धान्तेऽभिहितः “अर्कमानकलाः षष्ट्या गुणिता
भुक्तिभाजिताः । तदर्द्धनाड्यः संक्रान्तेरर्वाक् पुण्यं
तथा परे” । सिद्धान्तशिरोमणावपि “षष्टिघ्नबिम्बं ग्रह-
भूक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः
पुण्यतमा ग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते” । इति
वासना चेयं यदि ग्रहस्पष्टगतितुल्यकलाभिरहोरात्र-
मानरूपाः षष्टिघटिकालभ्यन्ते तदा ग्रहबिम्बकलाभिः
किमिति त्रैराशिकेन ग्रहे बिम्बकलानां षष्टिर्गुणको
जहाभुक्तिर्भाजको निष्पन्न इत्यर्थः । एवं सर्वग्रहाणामपि
संक्रान्तिः स्यात् तदुक्तं सिद्धान्त एव । अत्र तु विस्तरभया-
दनुपयुक्तत्वाच्च नास्माभिरलेखि । अतएव त्रिं शद्
एकत्रिंशत्सार्द्धद्वात्रिंशत्त्रयस्त्रिंशदादिभेदेन स्मृतिषु पुण्य-
घटिकाभिवधान स्पष्टीकृत्या भेदसंभवाद्भिन्नं तदेव सामा-
न्यतः संक्रान्तिषु द्वात्रिंशत् घटिकारूपः पुण्यकालो
निर्णीतः । देवीपुराणे तु मन्दादिसंज्ञाभेदात् पुण्यकाल-
पृष्ठ ५१९८
विशेष एवोक्तः “द्विचतुःपञ्चसप्ताष्टनपद्वादश एव च ।
क्रभेण घटिकाह्येतास्तत् पुण्यं पारमार्थिकम्” इति ।
अस्यार्थः मन्दायामन्तरालवर्त्तिघटिकाद्वयं मन्दाकिन्याञ्च-
तस्रो घटिकाः ध्वाङ्क्ष्यां पञ्च, घोरायां सप्त, महोदर्या-
मष्टौ, राक्षर्स्या नव, मिश्रायां दश” प्रागभिहितदेवीपुरा-
णोक्तमन्दादिसंज्ञावाक्यान्नक्षत्रजनितसंज्ञासु मन्दादिष्वयं
विचारो न वारप्रयुक्तास्वचनात् एवं संक्रान्तिषु पुण्य-
कालमभिधाय इदानी रात्रिसंक्रान्तौ विशेषमुपजा-
त्युत्तरार्द्धेनाह निशीथत इति । निशीथोऽर्द्धरात्रं तस्मा-
दवाक् पूर्वत्र अपरत्र पश्चाच्च सं क्रमे संक्रान्तिकाले सति
पूर्वापरयोरह्नोः क्रमेणान्तिमपूर्वभागौ पुण्यौ स्यातां
भागकाविति स्वार्थे कः । यद्यर्द्धरात्रात् प्राक्संक्रान्तिस्तदा
पूर्वदिनस्योत्तरार्द्धं पुण्यं यद्यर्द्धरात्रादुपरि संक्रान्ति
स्तदीत्तरदिनस्य पूर्वार्द्धमेव पुण्यमित्यर्थः । उक्तञ्च ब्रह्म-
सिद्धान्ते “भवनान्तं बिम्बमध्यं रात्र्यर्द्धात् प्रागुवेति
चेत् । स्नानदानादि मध्याहात् कुर्य्यादूर्ध्वं गते दिने ।
रात्र्यर्द्धादुपरि क्षेत्रं याति चेदन्यथार्यमा । अह्न्यागा-
मिनि मध्याह्नात् पूर्वं स्नानादि पुण्यदम्” । भवनं राशिः
बिम्बमध्यं रवेः, क्षेत्रं राशिः । वृद्धवसिष्ठोऽपि अह्नि-
संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्रौ संक्र-
मणे भानोर्दिनार्द्धं म्नानदानयीः । अर्द्धरात्रादधास्तस्मिन्
मध्याह्नस्योपरिक्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात्
प्रहरद्वयम्” इति । ननु रात्रौ शेषदिनसंक्रान्तौ वा रात्रावपि
घुण्यकालसत्त्वात् तदा स्रानादि कुतो न क्रियते यदर्थम-
यसुद्यम आरब्ध उच्यते “रात्रौ म्नानं न कुर्वीत दानं चैव
विशेषतः” इति सुमन्तुवाक्याद्रात्रौ म्नानाद्यधिकारास-
त्त्वात् । यत् तु नैमित्तिकं ग्रहणादिप्रयुक्तं तद्भवत्येव
“नैमित्तिकञ्च कुर्वीत म्नानं दानञ्च रात्रिषु” इति सुमन्तुवा-
क्यशेषात् “अर्द्धरात्रसमये संक्रमणे मकरकर्कयोश्च विशे
षमुपजातिकयाह । पूर्णे इति । “अर्द्धरस्त्रनिशीथौ द्वौ
द्वौ यामप्रहरौ समौ” इत्थभिधानादर्द्धरात्रो निशीथशब्द
वाच्यः तणिन्निशीथे पूर्णे रात्रिद्वितीयप्रहरान्तिमकलाव-
च्छिन्ने यदि संक्रमः स्यात् तदा प्रागपरं दिवद्वये पुण्य
मुक्तम् । उक्तञ्च वृद्धवसिष्ठेन “पूर्णे चेदर्द्धरात्रे तु यदा
संक्रमते रविः । प्राहुः दिनद्वयं पुण्यं मुक्त्वा मकरकर्क
टाविति” । ब्रह्मसिद्धान्तेऽपि “यद्यर्द्धरात्र एव स्यात्
संपूर्णे संक्रमो रवेः । तदा दिनद्वयं पुण्य म्नानदानादि
कर्मसु” । अत्र मुक्त्वा मकरकर्कटावित्य क्तं तत्रः मकरकर्क-
टयोस्तु कथमित्यत आहाथेति अथानन्तरमुदयास्तात्
सूर्य्योदयात् सूर्य्यास्ताच्च पूर्वं परस्ताच्च यदि याम्यसौम्य-
यने कर्कटमकरसंक्रान्ती भवतस्तदा पूर्वपरदिने पुण्ये
स्यातां यदि सूर्य्योदयात् पूर्वं कर्कटसंक्रमणं स्यात् तदा
पूर्वदिन एव पुण्यकालो न परदिने । तदाह वृद्धगार्ग्यः
“यदास्तमयवेलायां मकरे याति भास्करः प्रदोषे चार्द्ध
रात्रे वा स्नार्न दानं परेऽहनि । अर्द्धरात्रे तदूर्ध्वं वा
संक्रान्तौ दक्षिणायने । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते
रविः” इति । अस्तमयवेलाया इति पञ्चम्यन्तं पदं
वाशब्द इवार्थे । भविष्योत्तरपुराणेऽपि “कार्मुकन्तु
परित्यज्य मृगं संक्रमते रविः । प्रदोषे चार्द्धरात्रे वा कुर्य्या-
दहनि पूर्वतः” इति । प्रदोषलक्षणं स्कन्दपुराणे “त्रि
मुहर्त्तः प्रदोषः स्याद्रवावस्तं गते सति” इति ।
अथार्द्धोदयास्तादिति वचनस्याप्यवादमिन्द्रवज्राछन्दसाह
अर्द्धोति अर्द्धोदितादर्द्धास्ताच्चाध ऊर्द्ध्वं च क्रमात्त्रिघटि-
कास्ताभिः प्रमिता सन्ध्यासन्ध्याकालः स्यात् अर्द्धोदितार्क-
विम्बात्पूर्वं त्रिघटीप्रमिता प्रातःसन्ध्या तथार्द्धास्तादर्क-
बिम्बादुपरि त्रिनाड़ीप्रमिता सायसन्ध्येत्यर्थः । तदाह
वराहः “अर्द्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो
यावत् । तावत् सन्ध्याकालञ्चिह्नैरेतैः फलं ब्रूयादिति” ।
तत्प्रमाणमाह नारदः “अर्द्धास्तमनसन्ध्या हि घटिका
त्रयसन्मिता । तथैवार्द्धोदयात् प्रातर्घटिकात्रयस-
म्मिता” इति । स्कन्दपुराणेऽपि “उदयात् प्राक्तनी सन्ध्या
घटिकत्रयमुच्यते । सायसन्ध्या त्रिघटिका ह्यस्तादु-
परि भास्वतः” इति । अत्र सन्ध्यांलक्षणे अर्द्धास्तमिता-
नुदितवाक्यस्य स्कन्दपुराणीयवाक्यस्य च व्रीहिय-
यवद्विकल्पः । अथः सन्ध्यालक्षणप्रयोजनमाहात्रेति ।
अथ सन्ध्यायां पातःसन्ध्यायां सायंसन्ध्यायां च क्रमा-
च्चेदु याम्यसौम्ये अयने दक्षिणोत्तरायणे तदानीं
परपूर्वौ घस्रौ दिवसौ पुण्या याम्यसौम्ये अयने इत्यत्र
यदि प्रातःसन्ध्यायां दक्षिणायनप्रवृत्तिस्तदा सूर्योद
यादनन्तर सम्पूर्णमहः पुण्यं तथा यदि सायंस-
न्ध्यायामुत्तरायणप्रवृत्तिस्तदा सूर्य्यास्तात्पूर्वं सम्पूर्ण
महः पुण्यं स्यादिर्थः । यदाह नारदः “सूर्य्यस्योदय-
सन्ध्यायां यदि याम्यायनं भवेत् । तदोदयादहःपुर्ण्य
पूर्वाहः पूर्वतो यदि । सूर्य्यास्तमनसन्ध्यायां यदि
सौम्यायनं भवेत् । तदाहः पुण्यकालः स्यात् परतश्चोत्तरे-
ऽहनि इति । अत्र यद्युदयसन्ध्यातः प्राक्कर्कसंक्रम-
पृष्ठ ५१९९
स्तदा प्रागदिन एव पुण्यकालो नोत्तरदिने । तथा यद्य-
स्तसन्ध्यामतिक्रम्य मकरसंक्रान्तिस्वदोत्तरदिन एव पुण्य-
कालोनोत्तरदिने इति निष्कृष्टोऽर्थः । अतो वृद्धगार्ग्या
दिवाक्यनारदवाक्ययोः प्रदोषसन्ध्यापदोपादानेन सामान्य-
विशषमावोऽवगन्तव्यः । यत्तु हेमाद्रौ स्कन्दपुराणीयं
वाक्यम् “धनुर्मीनावतिक्रम्य कन्यां च मिथुनं ततः । पूर्वापर-
विभागेन रात्रौ संक्रमते यदा । दिनानान्ते पञ्च नाड्र्यस्तु
तदाः पुण्यतमाः स्मृताः । उदये च तथा पञ्च दैवे पित्र्ये
च कर्मणि” इति । तदपि सन्ध्याविषयकमेवेत्याहुरभि-
युक्ताः । वषुवे तु यथाश्रुतम् एवेति, अन्यदपि सन्ध्या-
लक्षणप्रयोजनं प्राक्सन्ध्यागर्जित इत्यादिषु वक्ष्यति ।
ननु नायमयनपुण्यकालोक्त्युद्यमः सफलः शास्त्रान्तर-
विरुद्धत्वात्तथा हि “अह्नि संक्रमणे पुण्यमहः कृत्स्नं
प्रकीर्त्तितम् । रात्रौ संक्रमणे भानोर्दिनार्द्धं स्नानदा-
नयोः । अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरिक्रिया ।
ऊर्द्धं संक्रमणे चोर्द्ध्वमुदयात् प्रहरद्वयम् । पूर्णे
चेदर्द्धरात्रे च यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं
मुक्त्वा मकरकर्कटौ” इति वृद्धवसिष्ठेनायनव्यतिरिक्तेषु
दशसु संक्रमेषु रात्रिगतेषु “यायाः सन्निहिता नाड्य-
स्तास्ताः पुण्यतमाः स्मृताः” इति कश्यपोक्तसामान्यवा-
क्याद्रात्रावेवानुष्ठानं प्रसक्तमहः संक्रम इत्यादिनाप्येत-
देवानुष्ठानं विहितं तस्यापि पर्युदासः क्रियते मुक्त्वा
मकरकर्कटाविति तस्मान् मकरकर्कटयोः संक्रमणे रात्रा-
वेवानुष्ठानं कर्त्तव्यमित्युक्तं भवति अतएवाह याज्ञव-
ल्क्यः “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु । स्नान-
दानादिकं कार्यं निशि काम्यव्रतेषु च” इति वसिष्ठोऽपि
“सुतजनने संक्रान्तावुपरागे चन्द्रसूर्ययोर्नियतम् । रात्रा
वपि कर्त्तव्यं स्नानं दानं विशेषतो नॄणामिति” सुमन्तुश्च
“ग्रहणोद्वाहसंक्रान्तियात्रार्त्तिप्रसवेषु च । श्रवणे
चेतिहासस्य रात्रौ दान प्रशस्यते” इति । एषु वाक्येषु
सामान्यवाचिनोऽपि संक्रातिपदस्य मकरकर्कटसंक्रान्ति-
परत्वमवसीयते यस्तु “रात्रौ स्नानं न कुर्वीत दानं चैव
विशेषतः” इति निषेधः स संक्रान्त्यन्तरे व्यवतिष्ठते
अतएवोक्तं कश्यपेन “स्नानं दानं ग्रहणवत् सौम्ययाम्या-
यनद्वये” इति । तस्मादयनसंक्रमे रात्रौ सत्यां तत्रैव
स्नानदानाद्यनुष्ठातव्यमितिः । अत्राहुः शास्त्रद्वयेन तुल्य-
बलत्वाद्विकल्पसिद्धौ तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था
दष्टव्या । तत्र गौर्जरास्तु कश्यपादिवाक्यमभ्युपेत्य रात्रा-
वयनसम्भवे सति रात्रौ एव स्नानदानादिकं कुर्वन्ति ।
दाक्षिणात्यास्तु वृद्धगार्ग्यादिवाक्यमङ्गीकृत्य दिवस एव
स्नानदानादि कुर्वन्तीत्यलमतिप्रसङ्गेन । यदा तु दिने
कर्कमकरसंक्रमस्तदा क्रमेण पूर्वोत्तरघटिकानियममाह वृद्ध
वसिष्ठः “अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने ।
त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः स्मृता” इति । उत्त-
रायणमतीतं सत् पुण्यं कर्कटायनमागामि पुण्यं तत्र
कर्कटसंक्रान्तेः प्राक्त्रिशत् घटकिः पुण्याः मकरे
तूत्तरविंशतिर्घटिकाः पुण्या इत्यर्थः । अत्र वाक्ये यद्यपि
दिनपदानुपादानं तथापि यदास्तमयवेलायामिति रात्रि
परविशेषवाक्यालोचनादिदं दिनपरं प्रतिभाति
तथसति केनापि हेतुना समीपथटीषु श्राद्धाद्यनुष्ठानासम्भवे
परमावधित्वेन त्रिंशदादयो घटिका अत्रानुज्ञायन्ते यदा
तु प्रतिबन्धस्तदा “यायाः सन्निहिता नाड्यस्तास्ताः पूण्य-
तमाः स्मृता” इति कश्योपोक्तेः समीपघटिकास्वेव
श्राद्धादि विधेयं “सन्निहितपरित्यागे कारणाभावादितिं
न्यायच्चि” । “अथ पूर्वापराः षोडश घटिकाः पुण्या
इति पूर्वं सामान्येनोक्तमिदानीं विष्णु पदादिषु स
क्रमेषु विशेषमनुष्ट भाह याम्यति । याम्यायने कर्कमं-
क्रान्तौ तथा विष्णुपदे वृषसिंहवृश्चिककुम्भसं क्रान्तिकाले
आद्याः नाड्यः प्रथमाः षोडशघटिकाः अतिपुण्टदाः
स्नानदानादावनन्तफलदाज्ञेयाः अपिमास्तु न तथेति
निष्कृष्टोऽर्थः । तुलाजयोस्तुलामेषयोः मध्या उभयतः
षोडश षोडश घटिकाः पुण्याः अथ वा षोडशैव घटिकाः
पुण्या । षडशीत्यानने मिथुनकन्याधनुर्मीनसंक्रान्तिषु
तथा सौम्ये मकरसंक्रातौ संक्रान्तिकाल त्परा अग्रिमाः
षोडश घटिकाः अतिपुण्यदाः प्रथमास्तु न तथेति निष्-
कृष्टोऽर्थः । यदाह श्रीपतिः याम्यायने विष्णुपदेतथादौ
दानाद्यनन्तं विषुवे च मध्ये । वदन्त्यतीते षडशीतिवक्त्रे
महर्षयः खल्वयने च सौम्ये” । तत्र कर्के प्रागेव
मकरसंक्रान्तौ पश्चादेव पुण्यकाल इति तु प्राङ्निरणायि ।
विष्णुपदे तु अग्रिमादिघटीनां पुण्यकाले तरतमभावः
“पुण्यायां विष्णुपद्यां च प्राकपश्चादपि षोडशेति” वृद्ध-
वसिष्ठोक्तेः । विषुवे तु सामान्यनिर्णय एवेति केचित्
दीपिकाटीकाकारस्त्वेवमाह “मेषे तुलायां संक्रान्ति
मध्य एव संक्रान्तिकालात्पूर्वमष्टौ घटिकाः परतश्चाष्टौ
घटिका पुण्य इति” । युक्तं चैतत् । विषुवे च मध्यपदो-
पदानान् मध्ये षोडश धटिकाः पुण्याः इत्युच्यते अस्पात्
पृष्ठ ५२००
कालान् मध्य इत्यपेक्षायां संक्रान्तिकालादेवेत्यतः पूर्व-
भष्टौ पश्चाच्चाष्टौ घटिकाः पुण्या इत्यर्थः । यत्तूक्तं
वृहस्पतिना “वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश” इति ।
तुलामेषसक्रान्तिकालात् प्राक्पश्चाच्च पञ्च पञ्च ष्टट्यः पुण्या
इत्युक्तम् यदप्युक्तम् आद्यन्तसापेक्षत्वान् मध्यशब्दस्य
गणितागतपुण्यकालघटिकानां मध्ये त्रिभागः स्थूलदृशा
दशघटिकात्मको भवतीति । “यायाः सन्निहिता नाड्य”
इति कश्यपोक्तेः । षडशीतिमुखेऽप्याद्याग्रिमघटीनां
पुण्यकाले तरतमभावः । यत्तु षडशीत्यां व्यतीतायां षष्टि-
स्तुल्यास्तु नाडिका” इति वृद्धवसिष्ठवाक्यं तत् प्राग्घ-
टीषु प्रतिवन्धवशात् श्राद्धादेरसम्भवे सत्यन्तिमघटीषु श्रा-
द्धादिक्रियाभ्यनुज्ञायाः परमावधिकालेयत्तार्थम् । इदं
सर्वं दिनसंक्रान्तिविषयं वेदितव्यम् “अह्नि सं क्रमणे
पुण्यमहः कृत्स्वं प्रकीर्त्तितम्” इति सामान्यवाक्यस्य
सौम्यायने विष्णुपदे इत्यस्य च विशेषवाक्यस्यैकवाक्यता ।
अतएव “रात्रौ संक्रमणे भानोर्दिनार्द्धं स्नानदानयोः”
इति रात्रिपरविशेषस्य सत्त्वाच्च । एवं निर्णीते पुण्यकाले
स्नानदानाद्यवश्यं विधेयमिति फलितोऽर्थः । तत्र स्ना-
नदानाद्यकुर्वतश्च प्रत्यवायमाह वसिष्ठः “इति सञ्चिन्त्य-
विनिर्णयमादेष्टव्यं सदैव दैवज्ञैः । विषुवत्यसने ग्रहणे
संक्रान्तौ पुण्यदिवसेऽपि । पितृतृप्तिं यो न कुरुते
दत्त्वा शापं व्रजति तस्य पिता । आगतगतसमयेऽपि च
करोति यद्दानजपहोमाद्यम् । ऊषरवापितवोज यद्वत्
तद्वच्च निष्फलं भवतीति” । अयते अयनघ्रवृत्त्याख्ये हल
संक्रमणे आगतसमये निर्णीते पुण्यकालातिक्रमसमये
स्नादि निष्फलमित्यर्थः । संक्रान्तिषु स्नानदानादेः
फलमाह भरद्वाजः “षडशीत्यां तु यद्दानं विषुवद्वितये
तथा । दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृशते” । वृद्ध-
वसिष्ठोऽपि “अयने कोटिः पुण्यानि सहस्रं यिषुवे
फलम् । षडशीत्यां सहस्रन्तु फलं विष्णुपदेषु च” इत्यल-
मतिप्रसङ्गेन । इति सूयसङ्क्रान्तिनिर्णयः । अथ नायं
केवलं सूर्यसङ्क्रमण एव पुण्यकालः किन्तु चन्द्रादीनां
ग्रहाणां नक्षत्रसङ्क्रमे राशिसङ्क्रमे च पुण्यकालो
भवति सोऽपि सोपपत्तिकः प्रसङ्गतः प्रोच्यते अस्माभिः
यदाह जैमिनिः “नक्षत्रराश्यो रविसङ्क्रमे स्युरर्वाक्
परत्रापि रमेन्दुनाद्यः १६ । पुण्यास्तथेन्दोस्त्रिघरापलै-
र्पुक् शुभैकनाडी १ । १३ सुनिभिः शुभोक्ता । नाद्ध्यश्चतस्रः
षपलाः कुजस्य ४ । १ बुधस्य तिस्रो मनवः पलानि ३१४
अब्ध्यब्धिनाड्यः पलसप्तयुक्ता गुरौ च ४४ । ७ शुक्रे
सपलाश्चतस्रः ४ । १ । द्विनागनाड्यः पलसप्तयुक्ताः ८२ । ७
शनैश्चरस्याभिहिताः सुपुण्याः । आद्यन्तमध्ये जपदा-
नहोमं कुर्वन्नवाप्नोति सुरेन्द्रधाम” । अस्यार्थः सूर्यस्य
नक्षत्रसंक्रमे राशिसंक्रमे च प्राक्परतश्च षोडश घटिकाः
पुण्याः एवं चन्द्रस्यैकधटी त्रयोदश पलानि । भौमस्य
चतस्रो घटिका एकं पलम् । बुधस्य तिस्रो घटिकाश्चतु-
र्दश पलानि, गुरोश्चतुश्चत्वारिंशत्घटिकाः सप्त पलानि
शुकस्य चतस्रो घटिकाः पलमेकं, शनेर्द्व्यशीतिघटिकाः
सप्त पलानि चोभयतः पुण्यकाल इत्थर्यः । अत्रोपपत्तिः ।
“भानोर्गतिः स्वदशभागयुतार्द्धिता वा बिम्बं विधोस्त्रिगु-
णितायुगशैलभक्ता ७४ । तिथ्यद्रि ७१५ हीनशशिभुक्तिरिषु
द्वि २५ भक्ता नन्दाक्षि २९ युग्भवति वा विधुविम्बमे-
वमिति” सिद्धान्तशिरोमण्युक्तप्रकारेण रविचन्द्रयोर्मा-
नकला आनेयाः “व्यङ्घ्रीषवः सचरणा ऋतवस्त्रिभा-
गयुक्ताद्रयो नव च सत्रिलवेषवश्च । स्युर्मध्यमास्तनुकलाः
क्षितिजादिकानां त्रिज्याशुकर्णविवरेण पृथग्विनिघ्ना ।
इति तत्रैवोक्ताः भौमादूनां मानकलास्तत्र क्रमेण
मानकलाः । तत्र “षष्टिघ्नविध्बं ग्रहभुक्तिभक्तं संक्रा-
न्तिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमाग्रहः
स्वसंक्रान्तिगोमिश्रफलं विधत्ते” इति भास्करोक्तदिशा
संक्रान्तिनाड्ग्यः स्युः तत्र ग्रहभुक्तयस्तेबैवीक्ताः
“नन्दाक्षाभुजगारवेः शशिगतिः खार्काद्रयः क्ष्माग्नयस्तुङ्ग-
स्याङ्गकलाः कुर्वेद ४४ विकलाः पातस्यरामाभवाः । माहे-
यस्य महीगुणारसकरा ज्ञस्येषुसिद्धारदाः पञ्चेज्यस्य
सितस्य षण्णवमिता अष्टौ शने र्द्वे कले” इति बुधशुक्रयोस्तु
संक्रान्तिघटिकानयने सूर्य्यगतिरेव हारः कल्प्यस्तद्गति-
तुल्यत्वात्तयोः, वासनाभाष्ये हि बुधशुक्रौ तु रवेरासन्ना-
वेव कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव
सदाव्रजन्तौ दृश्येते । ततस्तयोरपि रविभगणतुल्या एव
भगणा इत्युपपन्नमिति भास्करेणाभिहितत्वात् । पठ्य-
मानानुगतिस्तच्छीघ्रयोः शीघ्रफलानयानार्थं वासनासिद्ध-
जीर्णैः कल्पिता तदेवं ग्रहगतय इमास्त्रिप्रकारेण
साधिताः पुण्यकालघटिकाः सूर्य्यस्य यथा त्रिंशत् घटिका
एवं चन्द्रस्य द्वे धटिके षड्विंशतिप्रलानि भौमस्य
नवघटिकाश्चत्वारिंत्पलानि बुधस्य षट्घटिकाः विंशतिपलानि
गुरोरष्टाशीतिर्घटिका एवं शुक्रस्य नव घटिका अष्टौ
पलानि शनेः षष्ट्यधिकं शतं घटिकाः । पूर्वापरकालौ
पृष्ठ ५२०१
मिलित्वा पुण्यकाल इत्यर्थः । अत्र वासना प्रागुक्ता
एतदर्द्धा नाद्ध्य प्राक्परतश्चपुण्या । अत्र गणितागतघटी-
पलेषु लिखितजैमिनिवाक्ये च क्वचित् किञ्चित्पलभेदो
घटिकाभेदश्च सगतिस्पष्टकृतिवशतः । युक्तं चैतत् आकाशे
हि वेधादिना स्पष्टा एव स्वगा दृश्यन्ते न मध्यमाः
“दिनद्वयस्पष्टखगान्तरालकालः स्फुटस्तु स्फुटभुक्तिबिम्बै-
रिति” स्पष्टगत्यैव बिम्बसंक्रान्तिघट्यानयनमुचितम् उक्तञ्च
केशवार्केण “कुजादिकानामपि बिम्बलिप्ताः षष्ट्यागुणाः
स्वस्वजवेन भक्ताः । नाड्यादिकः संक्रमणान्तराल कालः
स्फुटस्तु स्फुटभुक्तिविम्बैरिति” अपिशब्दात् सूर्यचन्द्रम-
सोर्ग्रहणं तथा सति मध्यमाग्रेक्षया स्पष्टगतिबिम्बयो-
रुपचयापचयाम्यां साम्यैस्तत्तद्घटिकानामप्युपचयापच-
यसाम्यातिक्रमेणापतति तेषां चानियतत्वात्पद्ये उपनिब-
न्धायोगाज्जीर्णैर्नियतमध्यगत्या सूर्य्यादीनां ग्रहाणां
पुण्यकालघटीरानीयोपनिबन्धः कृतः । अत्र मत्कृतं
पद्यम् “नाड्यो रामगुणा ३३ रवेरथ विधोः षट्दोः
पलैर्युग्द्वयं २ । २६ भौमस्याब्धिपलैर्युतानव ९ । ४ विदो ६ । २०
युक्ताः पलैः खाश्विभिः । षण्णाद्ध्योऽष्टगजा ८८ गुरोरथ भृगो-
र्नन्दा ९ । ८ पलैरष्टभिः पुण्याः स्युः खनृपाः शने १६०
रुभयतो राश्यृक्षयोः संक्रमे । अतो यो जैमिनिवाक्ये
सार्द्धाश्चतस्रः पलसप्तयुक्ता गुरोरितिपाठो माधवादिभिरपाठि
तथा हेमाद्रिणापि द्विनागनाड्यः इति पदै नागा अष्टौ
द्विरावृत्ता नागा द्विनागाः षोडशनाडिकाः शनैश्चरसं-
क्रान्तौ पुण्यकाल इति यत् व्याख्यातवान् तदुभयमपा-
कृत भवति तथा रामचन्द्राचार्य्या अपि कालनिर्णयदीपि-
कायां हेमाद्र्यादिमूलकममुमर्थं स्वपद्येनोपानिबध्नात्
अतश्चिन्त्योक्तयोज्ञेयाः । तस्मात्सर्वग्रहाणां राशिनक्ष
त्रयोः संक्रान्तिषु पुण्यकालताप्यास्त । भास्करोऽपि “रवे-
स्तु ताः पुण्यतषाः” इतिवदंश्चन्द्रादिसंक्रान्तिषु नाड्यः
पुण्या इत्यसूचयत् । अतिशायने तमविष्ठनाविति
पाणिनिवचनात् “ग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते”
इति । सूर्य्यादिसंक्रान्तिसाधारणं तत्र सकलसंक्रान्तिषु
दिनरात्रिविष्णुपदादिभेदेन सूर्यसंक्रमवन्निर्णयोध्येयः ।
एतत्संक्रान्तिमान्यता हि गुर्जरदेशेऽस्तोत्यलं प्रसक्ता-
नुप्रसक्तेन । इति सकलग्रहसंक्रान्तिनिर्णयः” पी० धा०
करणभेदेऽर्कसंक्रान्तिफलं तत्रैव
नारदः “निविष्टो वणिजे विष्ट्यां वालवे च यवे गरे ।
कौलवे शकुनौ भानुः किंस्तुत्रे चोर्ङ्गसंस्थितः । चतुष्पा-
त्तैतिले नागे सुप्तः क्रान्तिं करोति सः । धान्यार्धवृष्टिषु समं
श्रेष्ठं हीनं भवेत्क्रमात्” क्रान्तिं संक्रान्तिम । रत्नमाला-
यामपि “चतुष्पदे तैतिलनागयोश्च सुप्तो रविः संक्रमणं
करोति । विष्ट्यां ववाख्ये च गराह्वये च स बालवाख्ये
बणिजे निबिष्टः । किंस्तुघ्ननाम्नि शकुनावपि कौलवाख्ये
चोर्द्ध्वस्थितस्य खलु संक्रमणं रवेः स्यात् । धान्यार्घवृष्टिषु
भवेत् क्रमशस्त्वनिष्टमध्येष्टतेति मुनयः प्रवदन्ति पूर्वे” इति ।
“संक्रान्तौ ग्रहणर्क्षं वा जन्मन्युभयपार्श्वयोः । नेष्टं
त्रयं षट्शुभदं पर्य्यायाच्च पुनःपुनः । हानिर्वृद्धिः स्थान-
हानिस्तथा प्राप्तिरिति क्रमात्” नारदेनोक्तम् ।
संक्रान्तेर्यन्नक्षत्रं ग्रहणनक्षत्रं वा यदि जन्मभं भवेदथ वा
ताभ्यामुभयपार्श्वगतं जन्मभं भवेत्तदा अनिष्टमेव नक्षत्रत्रयं
निषिद्धं तत्रो नक्षत्रषट्कं शुभं ततस्त्रिकेऽर्थहानिस्ततः षट्के
वृद्धिः ततस्त्रिके स्थानहानिस्ततः षट्सु वृद्धिः षट्सु स्थान०
प्राप्तिरिति । अतएव पठन्ति दाक्षिणात्याः “संक्रान्त्यधर-
नक्षत्राद्गणथेज्जन्मभावधि । त्रिकं षट्कं त्रिकं षट्कं त्रिकं
षट्कमिति क्रमात् । पन्थाभोगो व्यथा वस्त्रं हानिश्च
विपुलं धनम्” इति त्रिकं शुभं षट्कमशुभमिति फलितो-
ऽर्थः” पी० धा० । अधिकमयनसंक्रान्तिशब्दे ३३९ पृ० दृश्यम् ।
स्थूलतया मेषादौ रविसंक्रान्तेर्वारदण्डाद्यानयनप्रकारः
ज्यो० त० उक्तो यथा
“नवाष्टशक्र १४८९ हीनेन शकाव्दाङ्केन पूरिताः । भूर्वा-
णचन्द्रावेकाम्नी कुरामौ वेदयुग्मके । १ । १५ । ३१ । ३१ । २४
अङ्का अनुपलादेस्तु षष्ट्या लब्धाङ्कमिश्रिताः । दण्डात्
खाग्नी हयेषू च ३० । ५७ पलाद्धित्वा ततः पुनः । सप्ता-
वशिष्टा वाराः स्युस्ततो दण्डादिकाः परे । मेषस क्रमणे
भानोः सिद्धान्तस्फुटसम्मताः । भुजौ षड़िषूरामाग्नी २ ।
५६ ३३ कालोजातिर्गजावनी । ६ । २२ । १८ रामश्चन्द्रो-
ऽग्नियुम्मञ्च ३ १ २३ तर्कोऽङ्कदृक् नवाशुगौ । ६२९ ५९
द्वावङ्कदृग् वेदवाणा २ । २९ । ५४ अब्धिर्वाणशरौ सुराः ।
४ । ५५ । ३३ षस्मागवेदौ शून्येन्दू ६ ४८ १० एकं
शैलभुवौ शराः । १ । १७ । ५ । द्वौ षड़ग्नी तथा काला २ । ३६ ।
६ अब्धीरामः शराचनी । ४ । ३ । १५ । पञ्चाग्नीषू तथा
रुद्रा ५ । ५३ । ११ । मेषसंक्रमवारतः । अङ्कैर्योज्या
वृषादेस्तु वाराद्याः संक्रमे रवेः” ।
राशिभेदे संक्रान्तिनामभेद तत्संक्रमकाले स्वनक्षत्रस्य पुरुषा-
कृतिसंक्रान्तिचक्रस्थानविशेषस्थितौ फलभेदश्च तत्रोक्तो यथा
मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुला
पृष्ठ ५२०२
मेषे गोलमध्ये तथापराः । धनुर्मिथुनकन्यासु मीने च
षड़शीतयः । वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ।
मूर्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् । त्रितयं हस्त-
पादेषु महाविषुवभक्रमात् । मस्तके भूपतेः सौख्यं वदने
पटुता शुभे । हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ।
वामे करे महद्दुःखं सुखं पादे च दक्षिणे । भ्रमणं
वामपादे च कथितं विषुवत् फलम् । षड्मूर्ध्नि वदने पञ्च
चत्वारि हृदये तथा । त्रितयं करपादेषु पयोविषुवतः
क्रमात् । मानं मूर्ध्नि मुखे वैरं हृदये सुखसम्भवः ।
दोःपदोर्दक्षयोर्भोगस्त्रासश्च वामयोः स्वभे” जलविषुवफलम् ।
“शीर्षे पञ्च मुखे त्रीणि हस्तयोश्च त्रयं त्रयम् । हृदि
पञ्च शशी नाभौ गुदे च पादयोरसाः । उत्तरायणभा-
ज्ज्ञेयं स्वनक्षत्रस्थितेः फलम् । शीर्षेऽथ लाभो वदने
सुखानि दक्षे करेऽङ्घ्रौ हृदये च सौख्यम् । नाभौ शुभं
वामकरेऽर्थनाशो गुह्ये भयं वामपदे प्रवासः उत्तरा-
यणफलम् । “शीर्षे त्रीणि मुखे त्रीणि हृदये पञ्च
हस्तयोः । अष्टौ पादद्वयेऽप्यष्टौ दक्षिणायनसंक्रमात् । शीर्षे
मानो मुखे विद्या हृदये वित्तसञ्चयः । प्रवासः स्यात् करे
वामे भिक्षालाभश्च दक्षिणे । निष्फलं वामपादे च
किञ्चिल्लाभश्च दक्षिणे” दक्षिणायनफलम् । “ऋक्षे संक्रमणं
यत्र विष्णुपद्यां मुखे तु तत् । चत्वारि दक्षिणे वाहौ
त्रीणि त्रीणि पदद्वये । चत्वारि वामवाहौ च हृदये
पञ्च निर्दिशेत् । अक्ष्णोर्द्वयं द्वयं योज्यं मूर्ध्नि द्वे चैककं
गुदे” “रोगो भोगस्तथा यानं बन्धनं लाभ एव
च । ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात्”
विष्णुपदीफलम् “मुखे चैकं करे वेदाः पादयुग्मे द्वयं
द्वयम् । क्रोड़े वाणस्तथा वेदाः करे सव्येतरेऽपि च ।
द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा । द्वयञ्चैव तथा
गुह्ये षड़शीत्यां स्वभे स्थिते । मुखे दुःखं करे लाभः
पादयोर्भ्रमणं हृदि । कान्ता स्याद्बन्धनं वामे हस्ते
स्यात् स्त्रीयभेनॄणाम् । सम्मानो नेत्रयोश्चैव अपमानश्च
मस्तके । गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः”
षडशीतिफलम्” । गुरुसंक्रान्तिफलमुक्तं ज्यो० त० यथा
“शीर्षे चत्वारि राज्यं जलधिरपि करे दक्षिणे चापि
सौख्यं चैकं कण्ठे विभूतिं मदनशरसितं वक्षसि प्रीति-
सङ्गम् । पादस्थाः षट् च पीड़ा पुनरपि जलधिर्वाम-
हस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे
वाकपते संक्रमर्क्षात्” ।
संक्रान्तिपुण्यकालव्यवस्था ति० त० संक्षेपतो दर्शिता यथा
“तदयं संक्षेपः । दिनसंकमणे कृत्स्नं दिनं पुण्यं
षडशीति मुखे” इत्याद्युक्तं पुण्यतरं मन्दामन्दाकिनी-
त्यादि रूपेण त्रिचतुरादिघटिकाः पुण्यतमाः ।
दिनवृत्तोत्तरायणादिविहितविंशतिदण्डादीनां रात्रिप्रविष्ट-
भागस्यापि पुण्यत्वं रात्रिसंक्रमणे तु कलान्यून प्रथमा-
र्द्धगते तद्दिवसीयशेषयामद्वयं पुण्यम् । कालद्वयात्मक-
मध्यरात्रगते तद्दिवसीयतिथेरभेदे तद्दिवसीयशेषयामद्वयं
पुण्यं भेदे तु तद्दिवसीयशेषयामद्वयं परदिवसीयाद्यया-
मद्वयञ्च पुण्यम् । उभयदिने पुण्यकालेऽपि पूर्वदिनाकरण
एव परदिने तद्विहितं कार्य्यम् । तिथिभेदाभेदयोर्द-
क्षिणायने तद्दिवसीयशेषयामद्वयम् उत्तरायणे तु
परदिवसीयाद्ययामद्वयं पुण्यमिति मध्यरात्रीयकलोत्तर
शेषार्द्धरात्रसंक्रमणमात्रे तु परदिनाद्ययामद्वयं पुण्य-
मिति सन्ध्यासंक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे
रात्रेर्व्यवस्थितिः” । तत्प्रमाणं ति० त० दृश्यम् ।
संक्रान्तौ कालाशुद्धिदोषादिकं नास्ति यथोक्तं ति० त० स्कान्दे
“एकान्ततो मया प्रोक्ताः कालाः संक्रान्तिसंज्ञकाः । नैतेषु
विद्यतेऽनिष्टं यतश्चाक्षयसंज्ञिताः । अश्रद्धयापि यद्दत्तं
कुपात्रेभ्योऽपि मानवैः । अकालेऽपि हि तत्सर्वं सत्य-
मक्षयतां व्रजेत्” ।

सङ्ख्य न० संख्यायते परस्परनामोच्चारणं क्रियतेऽत्र सम् +

ख्या--घञर्थे क । १ युद्धे अमरः । अङ् । २ विचारे
स्त्री अमरः । एवं ३ सम्यग्बुद्धौ राजनि० ४ द्रव्याश्रिते
एकत्वद्वित्वादौ गुणभेदे च स्त्री टाप् । एकादिसंख्या-
वाचकस्य संख्यासंख्येयोभयपरता “द्व्येकयोर्द्विवचनै-
कवचने” इति पा० महाभाष्ये उक्ता । तेन घटानां
पञ्चेत्यपि स्यात् “वार्त्ताकुरेका गुणसप्तयुक्ता” इत्यादि
वैद्यके संख्यापरतया निर्देशोऽपि साधुः । किन्तु संख्यात्व
जातानेव शक्तिः संख्यायुक्ते निरूढ़लक्षणेति विवकः
तत्र एकादिदशान्ताः शब्दास्त्रिलिङ्गा विंशत्याद्यासु
नियतस्त्रीलिङ्गादिकाः । तत्रापि विंशत्यादिशब्दाना
बहुत्वसंख्यावाचकत्वेऽपि एकवचनान्ततैव । तदावृत्तै
बहुवचनान्ता अपि पञ्च विंशतयः षट् शतानीत्याष्टि ।
तेषां विशेषसंज्ञा लीला० दर्शिता यथा “एकदशशतस-
हस्रायतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जः (शङ्खः)
खर्वनिखर्वौ महापद्मशङ्कवस्तस्मात् । जलधिश्चान्त्य
मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञाः संख्याया व्यव-
पृष्ठ ५२०३
हारार्थं कृताः पूर्वैः” । व्रह्माण्डपु० नामान्तराण्युक्तानि
यथा “एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं
च नियुतञ्चैव कोटिरर्वुदमेव च । वृन्दः खर्वो
निखर्वश्च शङ्खपद्मौ च सागरः । अन्त्यं मध्यं परार्द्धञ्च
दशवृद्ध्या यथोत्तरम्” । संख्या च गणनव्यवहारे हेतुः
यथोक्तं “गणनव्यवहारे तु हेतुः सङ्ख्याभिधीयते ।
नित्येषु नित्यमेकत्वमनित्येऽनित्यमुच्यते । द्वित्वादयः
परार्द्धान्ता अपेक्षाबुद्धिजामता । अनेकाश्रयपर्य्याप्ता एते
तु परिकीर्त्तिताः । अपेक्षावुद्धिनाशाच्च तेषां नाशो
निरूपितः । अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरुच्यते” भाषा०
पर्य्याप्तिसम्बन्धेनैव अनेकाश्रिता समवायेन तु प्रत्येका-
श्रितेति बोध्यम् ।

सङ्ख्यात त्रि० सम् + ख्या--क्त । १ कृतसङ्ख्ये २ गणिते ३ सम्यक्-

ख्याते च तेन रात्रिशब्दस्य समासे अच् सख्या० । संख्या-
तरात्रः ।

सङ्खावत् पु० संख्या विचारणाऽस्त्यस्त मतुप् मस्य वः । १ पण्डिते अमरः । २ संख्यायुक्ते त्रि० ।

सङ्ख्येय त्रि० संख्यायतेऽसौ सम् + ख्या--वत् । १ गणनीये

२ संख्याकरणयोग्ये ।

सङ्ग पु० सन्ज--भावे घञ् । १ मेलने २ सम्यन्धे ३ विषयादिरागे

च “ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते” गीता ।

सङ्गणिका सम् + गण--भावे ण्वुच् । अप्रतिरूपकथायां त्रिका०

सङ्गत न० सम् + गम--भावे क्त । १ सौहार्दे २ सङ्गतौ च ।

कर्त्तरि क्त । ३ मिलिते त्रि० । ४ सङ्गतियुते ५ युक्तिसं-
सिद्धे अमरः ।

सङ्गति स्त्री सम् + गम--क्तिन् । १ सङ्गमे २ मेलने न्यायोक्ते

अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषये “सप्र-
सङ्ग उपोद्बातो हेतुतावसरस्तथा । निर्वाहकैककार्य्य-
त्वे षोढा सङ्गतिरिष्यते” इत्युक्ते ३ प्रसङ्गादौ पदार्थे च ।

सङ्गम पु० सम् + गम--घञ् ग वृद्धिः । १ सङ्गतौ २ स्त्रीपुं-

सयोः संभोगे पु० न० अमरः । ३ नद्यादेर्नदादियोतस्याने
च “गङ्गासागरसङ्गमः” इति पुराणम् ।

सङ्गर पु० सङ्गीर्य्यते सम् + गॄ--भावादौ अप् । १ आपदि २

प्रतिज्ञायां ३ युद्धे च अमरः । कर्त्तरि अच् । ४ क्रियाका
रके ५ विप्रे मेदि० ६ शमीवृक्षफले न० मेदि० ।

सङ्गव पु० सङ्गता गावो दाहनायात्र काले नि० । “प्रातः-

कालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु” इति दक्षीक्ते
प्रातःकालानन्तरं मुहूर्त्तत्रयात्मके कालभेदे ।

सङ्गिन् स्त्रि० सन्ज--वितुण् । सङ्गयुक्ते स्त्रियां ङीप् ।

सङ्गीत न० सम् + गै--क्त । १ दर्शनार्थे नाट्यगीतवाग्रतिके

हेमच० । २ तत्पतिपादकग्रन्थे च । कर्मणि क्त ।
३ सम्यग्गीते त्रि० । सङ्गीतशास्त्राणि च नानाविधानि तत्र
मूलग्रन्थकर्त्तारश्चत्वारः भरतहनुमत्सोमेश्वरकलनाथास्तत्र
हनूमद्ग्रन्थस्यैव लोकेऽधुना बहुलप्रचारः । तद्ग्रन्थत्य
च स्वराध्यायः रागाध्यायः तालाध्यायः नृत्याध्यायः
भावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति सप्ताध्यायः ।
सङ्गीतसारादौ विस्तरो दृश्यः ।

सङ्गीति स्त्री सम् + गे--क्तित् । १ सम्यग्ज्ञाने २ कालामे हलाः ।

सङ्गीर्ण त्रि० सम् + गॄ--क्त । स्वीकृते अमरः ।

सङ्ग्रह पु० सम + ग्रह--अप् । १ सञ्चये २ वह्वर्यकवाक्यानामेकत्र

सङ्कलने च “विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।
निबन्धीयः समासेन संग्रहं तं विदुर्बुधाः” । ३ वृहति
४ उत्तुङ्गे ५ ग्रहणे ६ संक्षेपे मेदि० ७ मुष्टौ विश्वः ८ स्वीकारे
९ महोद्योगे नानार्थरत्नमा० । १० व्याडिप्रणीते व्याकरण-
ग्रन्थभेदे “सङ्ग्रहेऽस्तमुमागते” वाक्यपदीयम् ।

सङ्ग्रहणी स्त्री सञ्चिता ग्रहणी । ग्रहणीरोगभेदे ।

सङ्ग्राम युद्धे अद० चु० उभ० सक० सेट् । सङ्ग्रामयति से

अससङ्ग्रामत् त । अस्याफलवत्कर्त्तर्य्यपि आ० इत्येके

सङ्ग्राम पु० सङ्ग्राम--भावे अच् । युद्धे अमरः ।

सङ्ग्रामपटह पु० ६ त० । रणवाद्यभेदे त्रिका० ।

सङ्ग्राह पु० संगृह्यते सम् + ग्रह--कर्मणि घञ् । फनकस्य

मुष्टिबन्धनस्थाने अमरः ।

सङ्ग्राहिन् पु० सम्यक् गृह्णाति मलम् सम् + ग्रह--णिवि ।

१ कुटजवृक्षे राजनि० । २ मलावष्टम्भके ३ संग्रहकारके
च त्रि० ।

सङ्घ पु० संघवत् सर्वम् । १ समातीयजन्तुसमूहे २ समूहे च अमरः । ३ संहते त्रि० ।

सङ्घचारिन् पु० सङ्घीभूय चरति चर--णिनि । १ समव्ये

हेमच० । २ सङ्घीभूयचारिणि जन्तुमात्रे त्रि० स्त्रियां ङीप्

सङ्घजीविन् पु० सङ्घेन जीवति जीव--णिनि । मंघोप-

जीविनि व्रातीने हेमच० ।

सङ्घट्ट पु० सम् + घट्ट--भावे अच् । १ परस्परसङ्घर्षणे २ गदृसेच ।

कर्त्तरि अच् । ३ लतायां शब्दर० । ४ चालके त्रि० ।

सङ्घट्टन न० सम् + घट्ट--ल्युट् । १ मेलने २ गठने ३ रत्तना-

याञ्च । युच् । तत्रैव स्त्री ।

सङ्घतल पु० सङ्घे संहते मिलिते तले यत्र । संयोजितप्रतलद्वये (योड़हात) अमरः

सङ्घपुष्पी स्त्री सङ्घननि संहांतानि पुष्पाण्यस्याः ङीप् ।

षातकी पुष्प्याम् (धाइ फुल) राजनि० ।
पृष्ठ ५२०४

सङ्घर्ष पु० सम् + घृष्--घञ् । १ परस्परघर्षणे २ स्पर्द्धायां ३

संसर्षे च शब्दर० ।

सङ्घशस् अव्य० सङ्घ + वीप्सार्थे--शस् । भूरिशः इत्यर्थे ।

सङ्घाटिका स्त्री सङ्घटयति सम् + घट--णिच्--ण्वुल् । १ युग्मे

२ कुट्टन्यां ३ जलकण्टके मेदि० । ४ घ्राणे विश्वः ।

सङ्घात पु० सम् + हन--घञ् । १ समूहे २ नरकभेदे अमरः ।

३ सम्यघनने मेदि० ४ दृढ़संयोगे ५ कफे च राजनि० ।

सङ्घातपत्त्रिका स्त्री सङ्घातयुक्तं पत्त्रमस्याः कप् अत

इत्त्वम् । शतपुष्पायां राजनि० ।

सचि(ची) स्त्री सच--इन् वा ङीप् । इन्द्राण्यां रामाश्रमः

सचिल्लक पु० सह क्लिन्नेन सहस्य सः कप् नि० । क्लिन्न-

नेत्रे (पिचुडियुक्तनेत्रे) शब्दच० ।

सचिव पु० सच--इन् तथा सन् वाति--क । १ सहाये

२ मन्त्रिणि अमरः ३२१ पृ० दृश्यम् । ३ कृष्णधुस्तूरे
राजनि० ।

सचिवामय पु० सचिवः सहाय आमयो यस्य । विसर्पे रोगभेदे राजनि० ।

सचीनन्दन न० ६ त० । वैष्णवसम्प्रदायप्रवर्त्तके नवद्वीपावि-

र्भूते वैष्णवाचार्य्यभेदे तदाविर्भावश्च “शाके मुनिव्योम-
युगेन्दुमाने(१४०७) पुण्ये तिथौ फाल्गुनपौर्णमास्याम् ।
त्रैलोक्यभाग्योदयपुण्यकीर्त्तिर्देवः सचीनन्दन
आविरासीत्” चैतन्यचन्द्रोदयः । अस्य कलौ गुप्तभगवदवता-
रत्वं वैष्णवामन्यन्ते तत्र न किञ्चित् प्रमाणमुपलभामहे

सचेतन त्रि० सह चेतनया सहस्य सः । विशिष्टज्ञानयुक्ते ।

सचेष्ट पु० सचते सच--अच् तथाभूतः सन् इष्टः । १ आम्रे

शब्दमा० । सह चेष्टया सहस्य सः । २ चेष्टान्विते त्रि० ।

सच्चारा स्त्री सन् चारो गात्रानुलेपने विष्वग्गतिरस्याः ।

हरिद्रायां शब्दच० ।

सच्चिदानन्द पु० सन् नित्यः चित् चैतन्यमानन्दः त्रिपद

कर्म० । १ नित्यज्ञानसुखमये ब्रह्मणि वेदा० । ६ ब० ।
२ तद्युते ईश्वरादौ त्रि० न्यायमतम् ।

सच्छूद्र पु० कर्म० । गोपनापितादौ शूद्रभेदे “सच्छूद्रौ

गोपनापिताविति” स्मृतिः ।

सजम्बाल त्रि० सह जम्बालेन सहस्य सः । पङ्कयुक्ते देशे अमरः ।

सजाति पु० समाना जातिरस्य समानस्य सः । सवर्णेन सवर्णाया

मूढ़ायाम् उत्पादिते पुत्त्रे । २ तुल्यजातौ त्रि०
“सवर्णेभ्यः सवर्णासु जायन्ते च सजातयः” मिता० स्मृतिः ।

सजातीय त्रि० समानां जातिमर्हति छ समानस्य सः ।

समानधर्मयुक्ते अमरः ।

सजुष् अव्य० सह जुषते क्विप् सहस्य सः । १ सहार्थे जुषा-

हलादौ र । सजुः उर्य्या० । “सजुःकृत्य रतिं वसेदिति”
भट्टिः । २ प्रीतियुक्ते ३ सेवायुक्ते च त्रि० ४ तापसे संक्षिप्तसा०

सज्ज त्रि० सस्ज--अच् । १ उद्युक्ते २ संनद्धे अमरः । ३ सम्भृते

विश्वः ४ निभृते शब्दर० । भावे अ । ५ आयोजने ६ वेशे च
स्त्री सतोजायते जन--ड । ७ साधुजाते त्रि० ।

सज्जन न० सस्ज--णिच्--ल्युट् । १ रणार्थं सैन्यस्थापने अमरः

२ घट्टे (घाटी) मेदि० । ३ आयोजने । सन् जनः । ४
सौजन्यवति जने पु० “निजाचारग्राहिणो ये कुर्वन्ति वेदस-
म्मतम् । पापाभिलाषरहिताः सज्जनास्ते प्रकीर्त्तिताः”
पद्मपु० “कुरु सज्जनरञ्जनमिति” उद्भटः । ५ सत्कुलोद्भवे
च पु० । सस्ज--णिच्--युच् । ६ नृपादीनामारोहणार्थं
गजभूषाकरणादौ स्त्री अमरः ।

सज्जित त्रि० सज्जा जातास्य तार० इतच् मस्ज् णिच्--कर्मणि

क्त वा । १ कृतवेशे २ भूषिते ३ संनद्धे च ।

सञ्च सञ्चीयतेऽत्र सम् + चि--ड । लेखनार्थे पत्रभेदे (साँच) । देवीपु० ।

सञ्चत् त्रि० सम् + चत--क्विप् । प्रतारके सि० कौ० ।

सञ्चय पु० सम् + चि--अच् । १ समूहे अमरः । २ संग्रहे च ।

ल्युट् । सञ्चयन । सङ्ग्रहे न० ।

सञ्चयिन् पु० सम् + चि--इनि । सङ्ग्रहकारके “सञ्चयी नावसीदतीति” पुराणम्

सञ्च(ञ्चा)र पु० सञ्चरत्यनेन सम् + चर--घञर्थे करणे क घञ्

वा । १ सेतौ रत्नमा० २ देहे हेमच० । भावे घञ् । ३
ग्रहादेः राश्यन्तरगमने ४ सम्यग्गतौ च ।

सञ्चाय्य पु० सञ्चीयतेऽग्निरत्र सम् + चि--ण्यत् नि० । यज्ञभेदे ।

सञ्चारिका स्त्री सञ्चारयति नायकयोर्वार्त्ताम् सम् +

चरणिच्--ण्वुल् । १ दूत्याम् अमरः । २ कुट्टिन्यां ३ युग्मे
४ घ्राणे च मेदि० ।

सञ्चारिन् पु० सम् + चर--णिनि । १ धूपे त्रिका० २ वायौ

शब्दच० । अलङ्कारोक्ते शृङ्गारादिरसाद्यनुगुणे ३ भाव
भेदे च भावभेदश्च व्यभिचारिभावः । “नानाभिनयसम्ब-
न्धात् मावयन्ति रसान् यतः । तस्माद्भावा अमी प्रोक्ता
स्थायिसञ्चारिसात्त्विकाः” । “व्यक्तः सञ्चारिणा तथेति”
सा० द० । ४ सञ्चारकारके त्रि० स्त्रियां ङीष् । “सञ्चारिणी
दीपशिखेवेति” रघुः । सा च ५ हंसपद्याञ्च राजनि० ।

सञ्चाली स्त्री सञ्चलति सम् + चल--ण गौरा० ङीष् ।

गुञ्जायां युक्तिकल्पतरुः ।

सञ्चित्रा स्त्री प्रा० स० । मूषिकपर्ण्यां शब्दर० ।

सञ्चित त्रि० सम् + चि--क्त । १ स हीते २ अनारब्धफलके कर्मभेदे च

पृष्ठ ५२०५

सञ्ज पु० सम् + जन--ड । चतुर्मुखे १ व्रह्मणि २ शिवे च मेदि०

३ छाग्यां स्त्री त्रिका० ।

सञ्जय पु० भारतप्रसिद्धे धृतराष्ट्रसारथिभेदे ।

सञ्जवन न० सम् + जु--युच् । परस्पराभिमुखतया स्थिते

चतुःशाले गृहे अमरः ।

सञ्जीवन न० सम् + जाव--ल्युट् । १ चतुःशालगृहे शब्दर० ।

२ सम्यक्पाणधारणे च । संजीवयति सम् + जीव--णिच्-
ल्युट् । ३ ओषधीभेदे स्त्री ङीप् ।

सट न० स्त्री सठ--अच् गृषो० ठस्य टः । १ व्रतिनां केशसङ्घाते

२ जटायाम् शब्दर० । ३ शिखायां ४ सिंहादेः केशरे च
मेदि० “सटच्छटाभिन्नघनेनेति” माघः ।

सटाङ्क पुंस्त्री० सटा अङ्को यस्य । सिंहे शब्दर० स्त्रियां ङीष् ।

सटि(टी) स्त्री सठ--इन् वा ङीप् पृषो० । १ शट्यां शब्दरत्ना०

स्वार्थे क । २ गन्धपत्त्रवृक्षे राजनि० । सठ--इन् ङीप् ।
पृषो० । सटीत्यत्र । ठान्तः तत्रार्थे राजनि० ।

सट्वा स्त्री सठ--व पृषो० । १ पक्षिभेदे २ वाद्ये संक्षिप्तसा० ।

सठ श्वठार्थे गतौ संस्कारे असंस्कारे च चुरा० उभ० सक०

सेट् । साठयति ते पोपदेशत्वमेव न्याय्यम् ।

सणसूत्र न० शणसूत्र + पृषो० । शणसूत्रे रायमुकुटः ।

सण्डिश पु० संदश + पृषो० । सन्दशे (साँड़ासि) “सण्डिशैरप-

कृष्यन्ते नरैर्याम्यैर्मुखात्ततः” मार्कण्डेयपु० १४ अ० ।

सण्डीन न० सम् + डी--क्त । पक्षिणां सङ्गत्य गमनरूपे गति०

भेदे अमरः ।

सत् त्रि० अस--शतृ । १ सत्ये २ साधौ २ पूजिते ४ धीरे ५ प्रशस्ते

६ विद्यमाने च अमरः । स्त्रियां ङीप् । सा च ७
पतिव्रतायां स्त्रियां ८ दक्षकन्याभेदे “सती सती योगवि-
सृष्टदेहेति” कुमारः । ९ सौराष्ट्रमृदि हेमच० १० ब्रह्मणि
न० “ओंतत्सदितिर्निर्देशो व्रह्मणस्त्रिविधः स्मृतः” इति
गीता । ११ आदरे अव्य० “सदसती आदरानादरयो-
रिति” पाणिनिः उप० स० “सत्कृत्य” सि० कौ० । पतिव्र-
तापरत्वे संज्ञात्वात् तस्याभावः त्व “त्वतलोर्गुणवचनस्य”
पा० न ह्रस्वः सतीत्वम् “तेन नारद! नारीणां सतीत्व-
मुपजायते” पुराणम् ।

सतत न० सम् + तन--क्त समोऽन्त्यलोप । १ निरन्तरे २ तद्वति

त्रि० अमरः ।

सतत्त्व न० सह सदृशं तत्त्वेन । १ स्वभावे हेमच० २ यथार्थे “सतत्त्वताऽन्यथा प्रथा” वेदा० प० ।

सतानन्द पु० गौतमपुत्रे अहल्यागर्भजे मुनिभेदे शब्दच० ।

सतीन पु० सतीं नयति नी--ड । १ वंशभेदे शब्दच० (क्षुद्र

मटर) २ कलायभेदे भरतः । स्वार्थे क । तत्रैव अमरः ।

सतीर्थ्य पु० समाने तीर्थे गुरौ वसति यत् समानस्य सः ।

परस्परैकगुरुके छात्रे अमरः । ६ ब० । निर्यकारोऽप्यय-
मत्रार्थे ।

सतील पु० सतीं लक्षयति लक्ष--ड । (क्षुद्रमटर) १ कलाये व्याड़िः । २ वंशे हारा० ३ वायौ रायमु० ।

सतीलक पु० सतीलैव कायति कै--क, सह तिलेन तिलचि

ह्नेन कप् पृषो० दीर्घः । १ वंशे (क्षुद्रमटर) २ कलायभेदे
च अमरः ।

सतीला स्त्री सह तिलेन तिलचिह्नेन सहस्य सः पृषो० दीघः । कलायभेदे (तेओडा) अमरः ।

सतेर पु० सन--एर तान्तादेशः । सतुषे संक्षिप्तसा० ।

सत्कदम्ब पु० नित्यक० । केलिकदम्वे शब्दच० ।

सत्कर्तृ पु० सत् + कृ--तृच् । १ विष्णौ विष्णुस० २ सत्कारके त्रि० ।

सत्कर्म्मन् न० कर्म० वेदादिविहिते यागादौ कर्मणि ।

सत्काञ्चनार पु० कर्म० । रक्तकाञ्चने शब्दच० ।

सत्काण्ड पुंस्त्री० सत्काण्डं शब्दष्यापारोऽस्य । चिल्ले शब्दच० स्त्रियां ङीष्

सत्कार पु० सत् + कृ--घञ् उप० स० । १ सम्भानने २ पूजने च ।

सत्कार्य्यवाद पु० ६ त० । कार्य्यस्य सत्त्वनिर्णायके वादे

कथाभेदे स च वादः उत्पत्तिशब्दे ११०८ पृ० दृश्यः ।

सत्कृत त्रि० सत् + कृ--क्त । १ पूजिते २ कृतसम्माने च ।

सत्क्रिया स्त्री सत् + कृ--श । १ सत्कारे २ सम्मानने ३ पूजने च

सत्तम त्रि० अतिशयेन सन् तमप् । अतिशयसाधौ अमरः ।

सत्ता स्त्री सतोभावः तल् । १ द्रव्यगुणकर्मवृत्तौ २ जातिभेदे

“द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते” भाषा० । जाति-
शब्दे ३० ९३ पृ० दृश्यम् । ३ विद्यमानतायाञ्च विद्यमा-
नत्वं च कालसम्बन्धः । आत्मधारणानुकूलव्यापार इति
शब्दिकाः “आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः” हरिः ।
तत्र विद्यमानता च वेदान्तमते त्रिविधा पारमर्थिकी १
ब्रह्मणः त्रैकालिकाबाध्यत्वरूपा व्यावहारिकी १ घटादीनां
सा च तत्त्वज्ञाननाश्या प्रातीतिकी ३ शुक्तिरजतादेः सा
चाधिष्ठानसाक्षात्कारनाश्या । ब्रह्मसत्तयैव सर्वेषां
सक्ताव्यवहारः सदुत्पन्नत्वात् इति वेदान्तिनः ।

सत्त्र न० सद--ष्ट्र । १ स्थाने २ यज्ञभेदे ३ सदादाने ४ आच्छा-

दने ५ अरण्ये ६ कैतवे मेदि० ७ धने ८ गृहे ९ दाने १०
सरसि नानार्थकोषः । सदादानञ्च सदक्षिणं सततान्नदानम् ।
यज्ञभेदश्च द्वादशाहादिसाध्यः ज्योतिष्टोमादिः यथोक्तं
कात्या० श्रौ० १२ । १ । ४ । सूत्रभाष्यादौ “द्वाढ़शाहः सत्त्र-
महीनश्च” सू० “सत्त्ररूपः अहीनरूपश्च भवति द्विविधः ।
पृष्ठ ५२०६
आसत उपयन्तीति सत्त्रस्य सिङ्गं यजते इत्यहीनस्य ।
अत्र विशेषमाह “द्वादशाहमृद्धिकामा उपेयुरिति तथा
त्रयोदशरात्रमासीरन्निति सत्त्रलिङ्गम् द्वादशाहेन प्रजाकामं
याजयेदित्यहीनलिङ्गम् । अस्यामुकथनप्रयोजनम् सत्त्रे
सत्रात्मको धर्मो दातृत्वेन प्रवर्त्तते अहीने चाहीना-
त्मकः । “उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य” सू०
उभयत इत्यादावन्तेऽतिरात्रो यस्य तदुभयतोऽतिरात्रम्
उपरिष्टात् अन्तएव । “यजमानाः सर्वे सत्त्रेषु” सू० ।
कर्त्तारो भवन्ति य ऋत्विजस्ते यजमाना इत्यनेनार्त्वि-
जीनान् पदार्थान् लक्षणयानूद्य यजभानाः कर्तृत्वेन
विधीयन्ते । “अदक्षिणानि च स्वामियोगात्” सू० ।
सत्राणि भवन्ति न हि कश्चिदात्मनैवात्मानं परिक्री-
णाति । अत्र हि स्वामिन एवार्त्विज्यम् अनुपपन्न-
आत्मपरिक्रयः “गृहपतिर्याजमानमयुक्तत्वात्” सू०
याजमानं यत्कर्म तद्मृहपतिः करोति कर्मान्तरे तस्या-
युक्तत्वात् इतरेषां चाध्वर्य्यवादिषु योगात् । “दर्श-
नाच्च” सू० दृश्यते चायमर्थः तस्माद् यदि बहवो प्रय-
च्छेयुरिति । “सर्वे संस्कारान्” मू० यद्यत्संस्कारकं
याजमानं यथा वपनादि तत्सर्वे कुर्युः तेन हि
यजमाना । संम्क्रियन्ते । “दर्शने वचनात्” सू० यत्तु दर्श-
नमुक्तम् तद्वचनम् गृहपतये एकस्मै दनिमुक्तम् वचनं
किमिव न कुर्य्यात् । “अविभवति गृहपत्यन्वारम्भ” सू०
न संभवत्यनेककर्तृके पदार्थे वेदबन्धनाग्न्यन्वाधानादौ
गृहपतेरन्वारम्भः सर्वैः कर्त्तव्यः । “पदार्थेष्वेकः
कृतत्वात्” सू० यत् पुनः क्रत्वभिनिर्वृत्त्यर्थमेव कर्म यथा
पात्रासादनमाज्यावेक्षणं वा तत्रावास्यैव कर्तृत्वम्
कृतत्वात् पदार्थस्य । परार्थे यजमानकर्तृके आज्या-
वेक्षणादौ एको गृहपतिः कुतः कृतत्वात् एकेनापि कृतः
कृत एव यतः । “अग्निं चेष्यमाणाः समारोह्य गृहपति-
र्मध्ये मन्यत्यर्धश इतरे दक्षिणोत्तराः” सू० समारोह्येति
च पूर्वकासतामात्रे ल्यबादेशो न समानकर्तृकतायाम् ।
“गृहपत्याहवनीयेऽङ्गारप्रासनम्” सू० । “तत्र प्राजा-
पत्यः पशुः” सू० । तत्र विहारे प्राजापत्यः पशुर्भवति ।
पुनर्ग्रहणाच्चाहर्गणे प्राजापत्यस्य नियमः तथा चाश्वमेधे
नियमदर्शनं भवति प्राजपत्यमालभेतेति । तत्र साधा-
रणीकृते विहारे । “आज्येन पत्नीसंयाजा गृहपति-
वर्जम्” सू० ।

सत्त्रम् अव्य० सद--त्रम् । १ सहार्थे जटा० । त्रा । सत्त्राप्यत्रार्थे अमरे पाठान्तरम् ।

सत्त्रशाला स्त्री ६ त० । अन्नजलादेर्दानार्थे कल्पिते गृहे

हेमच० ।

सत्त्राजित् पु० सत्त्रेणाजयति लोकान् आ + जि--क्विप् । श्रीकृष्णश्वशुरे सत्यभामाजनके राजभेदे ।

सत्त्रि पु० सद--बा० त्रि । १ मेघे २ गजे ३ जयशीले त्रि०

ठणादिकोषः ।

सत्त्रिन् पु० सत्त्वं गृहं यज्ञो वा विद्यतेऽस्य इनि । १ गृहपतौ अमरः २ गृहस्थे च ।

सत्त्व न० सतोभावः त्व । १ सांख्यसिद्धे प्रकाशादिसाधने

प्रकृत्यवयवे पदार्थे प्रकृतिशब्दे दृश्यम् “सत्त्वं लघु प्रका-
शकमष्टम्” सां० का० । अयं द्वितकारः पृषो० एकतकारः ।
२ द्रव्ये ३ प्राणेषु ४ व्यवसाये ५ बले ६ स्वभावे ७ पिशाचादौ
शब्दच० ८ चित्ते मेदि० “सत्त्वे तप्यमाने तत्संक्रान्तः
पुरुषोऽपि तप्यत इव” पात० भा० । ९ रसे १० आयुषि
१ १ धने । १२ आत्मनि च शब्दच० १३ सत्तारूपे १४
जातिभेदे १४ विद्यमानतायाञ्च द्वितकारः । १५ जन्तुषु पु० न०
अमरः ।

सत्पत्त्र न० सत् शोभनं पत्त्रम् । १ पद्मस्य नबदले शब्दच० ।

कर्म० । २ सुन्दरदले त्रि० ।

सत्पथ पु० कर्म० अच्समा० । शोभनमार्गे अमरः २ वेदादिविहिताचारे च ।

सत्पुत्त्र पु० कर्म० वेदादिविहितकार्य्यकर्त्तरि पुत्त्रे “पुन्नाम्नो

नरकाद् यस्मात्त्रायते पितरं सुतः । मुखसन्दर्शनेनापि
तदुत्पत्तौ यतेत सः” वृहस्पत्युक्तनरकतारणाय
“ऋणमस्मिन् सन्नयति अमृतत्वञ्च विन्दति । पिता
पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्” इति वसिष्ठोक्त-
र्णापनयनाय च यत् पश्येदिति नियमविधानं
तदकृतपुत्रकार्य्यपुत्रपरम् । सत्पुत्रस्तु मुखदर्शनं विनापि
नरकनिस्तारकः । तथा च विष्णुपु० “सत्पुत्रेण तु
जातेन वेनोऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात्त्रातः स
तेन सुमहात्मना” । ब्रह्मपुराणेऽपि “समुत्पन्नेन भो
विप्राः सत्पुत्रेण महात्मना । त्वातः स (वेनः) पुरुष-
व्याघ्रः पुन्नाम्नो नरकात्तदा” शु० त० ।

सत्प्रतिग्रह पु० सद्भ्यः प्रतिग्रहः । साधुदत्तधनस्य प्रतिग्रह

“सप्त वित्तागमा धर्म्या दायोलाभः क्रयोजयः । विभागः
सम्प्रयोगश्च सत्प्रतिग्रह एव च इति स्मृतिः ।

सत्प्रतिपक्ष पु० कर्म० । तुल्यविरोधिनि १ प्रतियोगिनि २ न्या-

योक्ते हेतुदोषे हेत्वाभासभेदे । स च बाधोपस्थिति
समर्थपरामर्शकालीनसाध्यसिद्धिसमर्थपरामर्शविषयः । यस्य
साध्याभावसाधकं हेत्वन्तरं विद्यते सः । यथा शब्दो-
नित्यः श्रावणत्वाच्छब्दत्ववत् । शब्दोऽनित्यः कार्य्यत्वात्
पृष्ठ ५२०७
पटवत् । अन्ये तु अगृहोताप्रामाण्यकसाध्यवत्त्वेनोप-
स्थितिविश्रय इति वदन्ति । साध्याभावध्याप्यवत्पक्षः ।
साध्यवदन्यत्वव्याप्यवत्पक्षः । पक्षनिष्ठः साध्याभावयाप्यः
पक्षनिष्ठः साध्यवद्भेदव्याप्यो वा । साध्यवदवृत्तिव्या-
प्यवत्पक्षः । पक्षनिष्ठः साध्यवदवृत्तिव्याप्यः । पक्षवृत्त्य
भावप्रातयोनित्वष्याप्यवत्साध्यम् । साध्यनिष्ठः पक्षवृ-
त्त्यभावप्रतियोगित्वव्याप्यो वा । “विरुद्धयोः परामर्शो
हेत्वोः सत्प्रतिपक्षिता” भाषा० । तुल्यबलयोरेव सत्प्र-
तिपक्षत्वं नातुल्यबलयोः तेनैकतरत्र तर्कादिवलसत्त्वे
तस्यैवान्यतरवाधकतेति बाध्यम् ।

सत्फल पु० सन्ति शोभनानि फलान्यस्य । १ दाड़िमक्षे

शब्दच० । २ सुफलयुते त्रि० ।

सत्य न० सत हित यत् । १ सत्ययुगे २ शपथे ३ याथार्थ्येच

४ तद्वति त्रि० मदि० । “ययार्थकथनं यच्च सर्वलोकसुख-
प्रदम् । तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययः” पद्मपु०
सर्वलोकसुखप्रदमिति न लक्षणघटक सत्यस्याप्यप्रियत्वे
कथननिषेधात् अतएव मनुनोक्तं “सत्यं ब्रूयात् प्रियं
ब्रूयात् न ब्रूयात् सत्यमप्रियम्” । ५ अश्वत्थवृक्षे ६ नान्दी-
मुखश्राद्धीयदेवभेदे च पु० “इष्टिश्राद्धे क्रतुर्दक्षः सत्यो
नान्दीमुखे वसुः” श्रा० त० धृतवचनम् । ७ सिद्धान्ते शब्दर० ।
शफथरूपसव्यापालने दाषो यथा कृत्वा शफथरूपं यः
सत्यं हन्ति न पालयन् । स कृतघ्नः कालसूत्रे वसेदेव
चतुर्युगम् । सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ।
ततः शूद्रा महाव्याधिः सप्तजन्मखतः शुचिः” ब्रह्मवै०
प्र० ३८ अ० । ८ परमात्मनि “सत्यं ज्ञानमानन्दं व्रह्मेति”
श्रुतिः । ९ श्रीरामे पु० शब्दर० । १० विष्णो “औत्तमेऽप्य-
न्तरे विष्णुः सत्यः सहस्वधोत्तरैः । सत्यायामभवत् सत्यः
सत्यरूपो जनार्दनः” कूर्सपु० ४८ अ० । ११ तन्मातरि
स्त्री । १२ तपोलोकादूर्द्ध्वस्थे लोके सत्यलोकशब्दे दृश्यम् ।
सन्ति पृथिव्यप्तेजांसि च त्यौ वाय्वाकाशौ च समा० द्व०
नि० ड समा० द्वितकारः । १३ भूतपञ्चके “सञ्च त्यच्च
भूतपञ्चकं तं सत्त्यमित्याचक्षते” श्रुतिः । सत्यत्वञ्च त्रिकाला-
वाध्यत्वमिति वेदान्तिनः यथार्थज्ञानविषयत्वं सत्यत्वमिति
नैयायिकाः । सन्धिसन्ध्यशाभ्यां सहितसत्ययुगमानं
दैवमानेन १२०० वर्षाः मानुष्यमानेन १७२८०० वर्षाः ।

सत्यङ्कार पु० सत्य + कृ--घञ् नि० मुम् । “मयैतत् अवेश्यं

केयमित्येवम्” सत्यकरणे सत्यापने (वायनादेओया) अमरः

सत्यतपस् पु० सत्यं तपोऽस्य । मुनिभेदे तस्यंव दुर्वाससो

वरेण वेदव्यासरूपेणाविर्भावः तत्कथा वराहपु० ।

सत्यघृति पु० शतानन्दपुत्रे ऋषिभेदे मत्स्यपु० ४८ अ० ।

सत्यनारायण पु० कर्म० । संक्रान्त्यादिषु पूज्ये नारायण-

मूर्त्तिभेदे स्कन्दपु० रेवा० ४ अ० तत्कथा दृश्या ।

सत्यपुर न० सत्ययुक्तं पुरम् । विष्णुलोके ।

सत्यफल पु० सत्यं सदातनं फलमस्य । विल्ववृक्षे राजनि० ।

सत्यभामा स्त्री सत्राजितोनृपसुतायां श्रीकृष्णस्य भार्य्याभेदे

शब्द च० ।

सत्यभारत पु० वेदव्यासे त्रिका० ।

सत्यम् अव्य० सत् + यमु । स्वीकारे ।

सत्ययुग न० सत्यप्रधानं युगम शाक० त० । सत्यप्रचुरे प्रथमे युगे

सत्ययौवन पु० सत्यं यौवनमस्य । विद्याधरे देवयोनिभेदे जटा०

सत्यरत त्रि० ७ त० । सत्यवाक्यासक्ते हरिश्चन्द्रनृपपितरि

पु० मत्स्यपु० १२ अ० ।

सत्यलोक पु० सत्यप्रचुरो लोकः । ऊर्द्ध्वस्थसप्तलोकमध्ये

सर्वोपरिस्थे तपोलोकादूर्द्ध्वस्थे लोके ।
“षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुन-
र्मारका यत्र ब्रह्मलोकाभिधः स्मृतः” विष्णुपु० अं ७ अ०

सत्यवचस् पु० सत्यं वचोऽस्य । १ मुनौ अमरः । २ सत्यवचन-

युक्ते त्रि० । सत्यवचनादयोऽप्यत्र ।

सत्यवत् पु० सत्यं विद्यतेऽस्य मतुप् मस्य वः । १ सावित्री-

पतौ नृपभेदे भा० व० २९३ अ० । २ मुनिभेदे च । ३ सत्ययुक्ते
त्रि० स्त्रियां ङीप् । सा च ४ व्यासस्य मातरि शब्दर० ।
५ नारदपत्न्यां ६ ऋचीकमुनिपत्न्यां मेदि० कालिकापु०
८४ अ० ।

सत्यवतीसुत पु० ६ त० । सत्स्यगन्धापुत्त्रे व्यासे मुनिभेदे शब्दर० ।

सत्यवाच् पु० सत्या वाक् यस्य । १ ऋषौ शब्दच० । २ काके

त्रिका० । तस्य शब्देन हि शुभाशुभनिश्चयेन तस्य
तथात्वम । ३ सत्यवदनशीले त्रि० ।

सत्यवादिन् त्रि० सत्यं वदति वद--णिनि । यथार्थवाक्य वक्तरि ।

सत्यव्रत पु० सत्यं व्रतमस्य । १ त्रिशङ्कुनामके राजभेदे

मत्स्यपु० १२ अ० । २ सत्यतत्परे त्रि० ।

सत्यसङ्गर सत्यः सङ्गरः प्रतिज्ञा यस्य । १ कुबेरे त्रिका० । २ सत्यप्रतिज्ञे त्रि०

सत्यसन्ध त्रि० सत्या सन्धा सन्धान यस्य । १ सत्याभिसन्धौ

सत्यसन्धस्य तप्तपरशुग्रहण छान्दोग्ये दर्शितम्
३ श्रीरामे ४ तदनुजे भरते ५ जनमेजयनृपे च प० शब्दर० ।

सत्या स्त्री १ रामपत्न्यां २ व्यासमातरि सत्यवत्यां शब्दर० ।

३ दुर्गायां ब्रह्मवै० पु० प्र० । ४ द्रो पद्यां शब्दच० ।
पृष्ठ ५२०८

सत्याकृति स्त्री सत्य + डाच् + कृ--क्तिन् । (अवश्यमेतन्मया-

क्रेयम्) इत्येवं प्रतिज्ञारूपे सत्यकरणे (वायनादेओया)
अमरः ।

सत्याग्नि पु० ६ ब० । अगस्त्यमुनौ शब्दर० । तज्जठरानलस्य

समुद्रादिसर्वभक्षणेऽपि अवाधितत्वात् तथात्वम् ।

सत्यानृतं न० सत्यसहितमनृतं यत्र । बणिग्वृत्तौ बाणिज्येअमरः

सत्यापन न० सत्य + णिच्--पुक्च ल्युट् । सत्याकृतौ अमरः

युच् । सत्यापनाप्यत्र स्त्रा ।

सत्योद्य त्रि० सत्यमुद्यं यस्य वद--क्यप् । १ सत्यवादिनि शब्द-

माला । कर्म० । २ सत्यवाक्ये न० ।

सत्र सम्बन्धे सन्तृतौ च अद० चु० आ० सक० सेट् । सत्रयते

अससत्रत । सत्रापयते इत्यन्ये अनेकाच्कत्वात् अषोपदेशत्वेन
सति निमित्ते न षत्वम् ।

सत्र न० सत्र्यते सन्तन्यते सत्र--अच् घञ् । १ बहुदिनसाध्ये

यज्ञभेदे २ श्रीकृष्णश्वशुरे नृपभेदे च ।

सत्राजित् पु० सत्रेणाजयति लाकान् आ + जि--क्विप् ।

श्रीकृष्णश्वशुरे राजभेदे ।

सत्रिजातक न० पक्वमांसभेदे “मांसं बहुघृते भृष्टं सिक्त्वा

चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं
तदुच्यते । तदेव धृततक्राढ्यं सुस्रिग्धं सत्रिजातकम्”
शब्दर० ।

सत्वर न० सह त्वरया सहस्य सः । १ शीघ्रे २ त्वरान्विते त्रि० अमरः ।

सथूत्कार न० सह थूत्कारेण सहस्य सः । अम्बुकृते सनिष्ठेवे

कथने ।

सदंशक पु० सह दंशेन सहस्य सः कप् । १ कर्कटके राजनि० २ दंशयुक्ते त्रि० ।

सदंशवदन पुंस्त्री स ह दंशेन दंशाकारेण सहस्य सः

तथाभूतं वदनमस्य । कङ्कबिहगे राजनि० स्त्रियां ङीष् ।

सदञ्जन न० कर्म० । पुष्पाञ्जने रीतिजाते अञ्जनभेदे शब्दच० ।

सदन न० सीदत्यस्मिन् + सद--आधारे ल्युट् । १ गृहे अमरः ।

२ जले मेदि० । भावे ल्युट् । ३ स्थितौ न० ।

सदय पु० सन् अयः कर्म० । १ साधुशुभावहविधौ । सह

दयया । सहस्य सः । २ दयान्विते अमरः ।

सदस् स्त्री न० । सीदत्यस्याम् सद--असि । सभायाम् अमरः

सदस्य पु० सदसि साधुर्वसति वा यत् । यज्ञादौ न्यूनाति-

रिक्तताविपर्य्ययपरिहारार्थं १ विधानदर्शिनि अमरः ।
२ मभसिदि त्रि० अमरः ।

सदा अव्य० सर्वस्मिन् काले दाच् सादशः । सर्वस्मिन् काले इत्यर्थे अमरः ।

सदागति पु० सदा गतिरस्य । १ वायौ २ सर्वदागतियुक्ते

त्रि० ३ सूर्य्ये ४ निर्वाणे ५ सदीश्वरे मेदिनिकोषकारः ।

सदाचार पु० कर्म० ६ त० वा “सरस्वतीदृषद्वत्योर्देवनद्योर्य-

दन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षत ।
तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां
सान्तरलानां स सदाचार इष्यते” इति मनूक्तदेशप्रचलिते
आचारे “साधवः क्षीणदाषाश्च सच्छब्दः साधुवाचकः ।
तेषामाचरणं यत्तु सदाचारः स उच्यते” इत्युक्ते
साधूनां २ शुभाचरणे च । सदाचारनिरूपणम् आचारशब्दे
६ ३२ पृ० दृश्यम् । विप्रस्य चातुराश्रम्यमुक्त्वा
“गार्हस्थ्य ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः । क्षत्रिय-
स्यापि गदिता य आचारो द्विजस्य हि । वैखानसत्वं
गार्हस्थ्यमाश्रमद्वितयं विशः । गार्हस्थ्यमुत्तमं त्वेकं
शूद्रस्य क्षणदाचर! । स्वानि वर्णाश्रमोक्तानि धर्माणीह
न हापयेत् । यो हापयति तस्यासौ परिकुप्यति
भास्करः । कुपितः कुलनाशाय देहरोगविवृद्धये । वर्ष्माशु
पतते तस्य नरस्य क्षणदाचर! । तस्मात् स्वधर्मं न हि
सन्त्यजेच्च न हापयेच्चापि तथात्मबंशम् । यः सन्त्यजे-
च्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरश्च”
वामनपु० १४ अ० ।

सदातन पु० सदा भवः सदा + ट्युल् तुटच् । १ विष्णौ त्रिका० २ नित्ये त्रि० अमरः स्त्रियां ङीप् ।

सदातोया स्त्री सदा तोयानि पेयानि यस्याम् । १ करतोया-

नद्याम् २ एलापर्ण्याञ्च शब्दच० । सदानीराशब्दे दृश्यम्

सदात्मन् त्रि० सन् साधुरात्मा चित्तं यस्य । साधुचित्ते ।

सदादान पु० सदा दानं मदजलं त्यामो वा यस्य । १

ऐरावते गजे २ गणेशे ३ गजे मेदि० ४ सर्वदात्यागिनि त्रि० ।

सदानन्द पु० सदा आनन्दो यस्य । १ सदाशिवे २ अनवरता-

नन्दयुक्ते त्रि० ।

सदानर्त्त पुंस्त्री० सदा नृत्यति नृत--अच् । १ खञ्जनविहगे

शब्दच० स्त्रियां ङीष् । २ सदा नृत्ययुते त्रि० ।

सदानीरा स्त्री सदा नीरं पेयमस्याः । करतोयानद्याम्

अमरः । “अथादौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला ।
सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी” स्मृत्युक्तेः
तन्नदीजलस्य सदापेयत्वात् तस्यास्तथात्वम् ।

सदापुष्प पु० सदा पुष्पं यस्य । १ नारिकेलवृक्षे शब्दमा० ।

२ रक्तार्के स्त्रा रत्नमा० ङीप् । २ सदापुष्पयुक्ते त्रि० ।

सदाप्रसून पु० सदा प्रसूनमस्य । १ रोहितकवृक्षे २ अर्क-

वृक्षे ३ कुन्दे च राजनि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/स&oldid=85322" इत्यस्माद् प्रतिप्राप्तम्