वाचस्पत्यम्/व्रत

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४९९५-४९९६

व्रत न० व्रज--घ जस्य तः । १ भक्षणभेदे उणादि० २ पुण्य-

साधने ३ उपवासादिनियमभेदे च
व्रतञ्च सभ्यक्सङ्कल्पजनितानुष्ठेयक्रियाचिशेयरूपं तच्च
प्रवृत्तिनिवृत्त्युभयरूपं तत्र दूष्यविशेषभोजनपूजादिकं
प्रवृत्तिरूपम् उपवासादिकञ्च निवृत्तिरूपं तच्च नित्यं नैमि-
त्तिकं काम्यञ्च । नित्यमेकादश्यादिव्रतम् नैमित्तिकं
चान्द्रायणादिव्रतं काम्यं तत्तत्तिथ्युपवासादिरूपं “सत्त्वके
ससाधनं कर्म कर्त्तव्यमधिकारिणा । निष्कामेण
सवीर! काम्यं कामान्वितेन च” भविष्यपु० । सम्यक् प्रवम
कल्पादिना संसाधनं यथाविहितं साधनं यस्य । अधि
कारिणा अर्थिना समर्थेण विदूषा चेत्यर्थः । तत्र व्रता-
रम्भकालः हेमा० व्र० दर्शितो यथा
अथ व्रतारम्भकालः । तत्र सत्यब्रतः “उदयस्था तिथिर्य्या
हि न भवेद्दिनमध्यभाक् । सा खण्डा न व्रतानां
स्यादारम्भे च समापने” इति । एतद्व्यतिरिक्ताया-
मखण्डायां प्रारम्ममाह वृद्धवशिष्ठः “अखण्डव्यापि-
मार्त्तण्डा यद्यखण्डा भवेत्तिथिः । व्रतप्रारम्भणन्तस्या-
मनष्टगुरुशुक्रयुगिति” । तिथिर्यद्यनष्टगुरुशुक्रयुक्
अनस्तमितगुरुशुक्रयुक्ता तस्यां व्रतमारम्भणीयमित्यर्थः,
इदमुपलक्षणम् । गुरुशुक्रयोर्बाल्ये वार्द्धक्येऽपि व्रतन्नार-
म्भणीयमित्यर्थः । तथा च वृद्धमनुवृहम्मती “अग्न्या-
धानं प्रतिष्ठाञ्च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्ग-
चूडाकरणमेखलाः । माङ्गल्यमभिषेकञ्च मलमासे
विवर्जयेत् । वाले वा यदि वा वृद्धे शुक्रं वास्तङ्गते गुरौ ।
मलमास इवैतानि वर्जयेद् देवदर्शनम्” इति । गार्ग्यो-
ऽपि “नामान्नप्राशनञ्चौड़ं विवाहं मौञ्जिवन्धनम् ।
निषक्रमं जातकर्मापि काम्यं वृषविसर्जनम् । अस्तगे च
गुरौ शुक्रे बाले वृद्धे मलिम्लुचे । उद्यापनमुपारम्भं
व्रतानां नैव कारयेद्” इति । लल्लः “नीचस्थे वक्र-
संस्थे व्यतिचरणगते बालवृद्धास्तगे वा संन्यासो देवयात्रा
व्रतचरणविधिः कर्णवेधस्तु दीक्षा । मौञ्जीबन्धोऽथ
चूडा परिणयनविधिर्वास्तुदेवप्रतिष्ठा वर्ज्याः सद्भिः प्रय-
त्नात् त्रिदशपतिगुरौ सिंहराशिस्थिते च” इति ।
नीचलक्षणन्तु ज्योतिःशास्त्रे “सूर्य्यादिषूच्चमजगोमुकराः
कृमात् स्युः । स्त्रीकर्किमीनवणिजोस्तगमञ्च नीचम्”
इति । उच्चस्थानात् सप्तमं नीचमित्यर्थः । तथा च
नीचस्ये गुरौ मकरगते इत्यर्थः । शौनकः “पूर्त्तागार-
विवाहयागगमनं क्षौराद्यकर्णव्यधं विद्यादेवविलो-
कनोपवयवं दीक्षापरीक्षा व्रतम् । स्नानं तीर्थगमं रणं
पुरमहादानप्रतिष्ठापनम् । सिंहस्थे विबुधार्चिते न
शुभदं कर्त्तुस्तथा सूर्य्यगे” । अस्तलक्षणन्तु ब्रह्मसि-
सिद्धान्ते “रविणासत्तिरन्येषां ग्रहाणामस्त उच्यते ।
ततोऽर्वाक् बार्द्धकं विद्यादूर्द्ध्वं बाल्यं प्रकीर्त्तितम्” इति ।
एतयोरवधिः ज्योतिःशास्त्रेऽनेकविधोदर्शितः “बालः
शुक्रो दिवसदशकं पञ्चकञ्चैव वृद्धः पश्चादह्नस्त्रितय-
मुदितः पक्षमौढ्यः क्रमेण । जोवो वृद्धः शिशुरपि
लदा पक्षमन्यैः शिशू तौ वृद्धौ प्रोक्तौ दिवसदशकञ्चा-
परैः सप्तरात्रम्” इति । एतेषां पक्षाणां व्यवस्था देशा-
न्तरविषया आपद्विषया वा । तथा च गार्ग्यः “शुक्रो
गुरुः प्राक्पराक् चैव वालो बिन्ध्ये दशावन्तिषु सप्त-
रात्रम् । वङ्गेषु हूणेषु च षट् च पञ्च शेषे च देशे
त्रिदिनं वदन्ति” इति । वराहमिहिरोऽपि “वहवो
दर्शिताः काला ये बाल्ये वार्द्धकेऽपि च । ग्राह्यास्तत्रा-
धिकाः शेषा देशभेदादुतापदि” इति ।
व्रतानां मानसादिभेदस्तत्र दर्शितो यथा
वराहपुराणे “अहिंसा सत्यसस्तेयं ब्रह्वचर्य्यमकल्-
मषम् । एतानि मानसान्याहुर्व्रतानि व्रतधारिणाम् ।
एकभक्तं तथानक्तमुपवासादिकञ्च यत् । तत्सर्वं
कायिकं पुंसां व्रतं भवति नान्यथा” । उपवासोऽत्राहो-
रात्राभोजनम्, आदिशब्दादियाचितादि । तथा
“किञ्चिद् व्रत वा क्रियते पूज्यते यत् त्रिलोचन! । विप्रे-
भ्योदीयते सर्वमेतज्जन्मतरोः फलम्” ।
व्रतभेदफलादिकं तत्रोक्तं यथा गरुड़पुराणे
“तपोगतिर्हि भूतानां तप एव परायणम् । तपसा
विजिता लोकास्तपसा निर्वृतिः सताम् । तपसा धूत०
पाप्मानो निर्वाणं परसङ्गताः । तपसा परमायुश्च
शान्तिं वापि तथाप्नुयात् । तपसा विन्दते लोकानखि-
लानपि पूरुषः । तपसा परमृच्छन्ति निर्वाणमपि
शाश्वतम् । तपसा चैहिकीं सिद्धिं विपुलासपि विन्दति ।
लभन्ते च सुतादींस्तु तपसा मर्त्यजातयः । अक्षयञ्च
धनञ्चापुस्तपन्तश्च नरा भुवि । व्रतीपवासूनियमैः शरीरोत्ता-
पनन्तपः । उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ।
“एतद्वीरासनं प्रोक्तं महापातकनाशनम् । एकभक्तेन
चेकेन तथैवासाचिचेन च । उपवासेन चैकेन पादकृच्छः
प्रकीर्त्तितः” । कूर्मपुराणे “व्रतोपवासनियमैर्होमब्राह्म-
णतर्पणैः । आराधय महायोर्गेर्योगिनां हृदिसंस्थि-
तम्” । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तम!
अर्च्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतीपवास-
नियमैर्होमैः स्वाध्यायतर्पणैः । तेषां वै रुद्रसायुज्य
सामीप्यञ्चातिदुर्लभम् । सलोकता च सारूप्यं जायते
तत्प्रसादतः” । गरुड़पुराणे “धुन्धुमारस्तु राजर्षिर्लेभे
पुत्रशतं पुरा । दानेन नियमेनैव तपसा च व्रतेन च ।
सगरो नाम राजर्षिर्दिक्षु सर्वासु विश्रुतः । पुत्राणाञ्च
शत प्राप्तं तेन राज्ञा महात्मना । तथा दशरथो राजा
व्रतेषु निरतः सदा । यज्ञदानतपीयोगैः सन्तुष्टः पुरु-
षोत्तमः । स्वयं पुत्रत्वमापेदे तस्य राज्ञो महात्मनः ।
जनको नाम राजर्षिस्तपीव्रतनिधिः स्वयम् । ऐश्वर्य्यम-
तुलं प्राप्य योगिनां गतिमाप्तवान् । एवमेव महाराज!
राजानो ब्राह्मणास्तथा । ऐश्वर्य्यलक्षणं प्रापुर्गतिं वै
व्रतविभवात् । अतः कुरुष्व सततं तपःसञ्चयमात्मवान् ।
व्रतोपवासनिरतस्त्रीर्थानि नृपसत्तम!” । तथा “विनि-
ग्रहञ्चेन्द्रियाणां कुर्वीत नियमात्मवान् । उपवासजप,
ध्यानतीर्थस्नानादिकैरपि । व्रतैर्यज्ञेन दानेन तपसा
तीर्थसेवया । अनेकजन्मसंसिद्धिमेनःक्षपयति द्विजः” ।
व्रतादीनां चातुर्वर्णसाधारणत्वाभिधानात् द्विजग्रहण-
सत्र वर्णमात्रोपलक्षणार्थम् । न चैवं सति शूद्रस्य
यज्ञेऽनधिकाराद्यज्ञशब्दविरोध इति वाच्यम् । यजेरने-
कार्थत्वेन देवतापूजाद्यर्थसम्भवात् । “कायिकं मानसञ्चैव
वाचिकञ्च त्रिधा मतम् । यज्ञोदानं तपश्चैव वैदतस्तच्छृ-
णुष्व मे । अहिंसा व्रतचर्य्या च तपः कायिकमुच्यत ।
वाचिकं सत्यवचनं भूतद्रोहविवर्जितम । मानसं मनसः
शान्तिः सर्ववैराग्यलक्षणम्” । आदित्यपुराणे “व्रतोपवा-
सान् खलु यो विधत्ते दारिद्य्रपाशं स भिनत्ति चाशु ।
व्रतोपवासेषु रतस्य पुंसश्चैवापदः शान्तिमुशन्ति तज्ज्ञाः”
ब्रतसामान्यधर्मास्तदधिकारिणश्च तत्र दर्शिता यथा
स्कन्दपुराणे “निजवर्णाश्रमाचारनिरतः शुद्धमानसः ।
व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः । अलुब्धः
स्मत्यवादी च सर्वभूतहिते रतः । व्रतेष्वधिकृतो राजन्न-
न्यथा विफलः श्रमः । श्रद्वावान्न्यायभीरुश्च मददम्भवि-
वर्जितः । व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः ।
समः सर्वेषु भूतेषु शिवभक्तो जितेन्द्रियः । व्रतेष्वधिकृतो
राजन्नन्यथा विफलः श्रमः । पूर्वं निश्चित्य शास्त्रार्थ
पृष्ठ ४९९७
यथावत् कर्मकारकः । अवेदनिन्दको धीमानधिकारी
व्रतादिषु” । महाभारते “श्राद्धकर्म तपश्चेव सत्यमक्रोध
एव च । स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ।
आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप!” देवलोऽपि
“व्रतोपवासनियमैः शरीरोत्तापनैस्तथा । वणाः सर्वेऽपि
मुच्यन्ते पातकेभ्यो न संशयः” इति । तदेवं वचनसन्द-
र्भेणोक्तनियमवतां चतुर्णामपि वर्णानां स्त्रीपुंसाधारण्येन
व्रतेष्वधिकार इति प्रतिपाद्यते । तथा च भारते(गीता)
“मामुपाश्रित्य कौन्तेय! येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्याश्च शूद्राश्च तेऽपि यान्ति पराङ्गतिम्” इति ।
तत्रायं परोविशेषो यत् स्त्रीणां भर्त्तुराज्ञां विना न
खातन्त्र्येण व्रतादिष्वधिकार इति । तथा च मार्कण्डेय-
पुराणे “नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपो-
पणम् । भर्तृशुश्रूषयैवैता लोकानिष्टान् व्रजन्ति हि ।
यद्देवेभ्यो यत्र पित्रादिकेभ्यः कुर्य्याद्भर्त्ताभ्यर्चनं सत्क्रि-
याञ्च । तस्यार्द्धं वै सा फलं नान्याचत्ता नारी भुङ्क्ते
भर्तृशुश्रूषयैव । धर्मार्थकामसंसिद्धौ भवेद्भर्तुः सहायिनी” ।
आदित्यपुराणे “नास्ति स्त्रीणा पृथग्यज्ञो न व्रतं
मास्युपोषणम् । पतिं शुश्रूपते यत्तु तेन स्वर्गे महीयते ।
पत्युरभ्यधिकं नारी नोपवासव्रतञ्चरेत् । अनायुष्यं द्विज
श्रेष्ठ! प्रत्युस्तस्यास्तदुच्यते । देवताराधनं कुर्य्यात् कामं
वा ब्राह्मणोत्तमः । नारी पतिव्रता नाम प्राप्यानुज्ञान्तु
भर्तृतः । नारी खल्वननुज्ञाता पित्रा भर्त्त्रा सुतेन वा ।
विफलं तद्भवेत्तस्या यत्करोत्यौर्द्धदेहिकम्” । पित्रेति
कन्यात्वे । भर्त्रेति सौभाम्यदशायाम् । सुतेनेति
वैघव्यदशायाम् । और्द्धदेहिकं व्रतादि । “अथ वा सर्वसु०
वसृज्य पतिपूजनतत्परा । केशवाराधनं कुर्य्यात् साध्वी
स्त्री पुरुषर्षभ! । तेनैव स्वर्गमाप्नोति यत् किञ्चिन्मनसे-
च्छति । अफल सर्वमेव स्यात् भर्त्त्रनुज्ञां विना कृतम् ।
केशवाराधनं यच्च तथापि सफलं स्त्रियः” । हरिवंशे
“ब्रतीत्वधर्मचरणं यस्या नित्यमखण्डितम् । पुण्यकानां
विधिस्तस्याः पुराणे परिकीर्त्तितः । दानोपवासपुण्यानि
सुकृतान्यप्यरुन्धति! । निःफलान्यसतीना हि पुण्यकानि
तथा शुभे” । पुण्यकानि व्रतानि । “या नार्चयन्ति
भर्त्तारं योनिदुष्टाश्च याः स्त्रियः । योनिदोषात् पुण्य-
फलं नाश्नान्त निरयङ्गताः । साध्व्यो जगद्धारयन्ति
सुशालाः पतिदेवताः । अनन्यधर्मनित्याश्च सतां पन्थानमा-
श्रिताः । अवाग्दुष्ठाः शौचयुक्ताः धृतिमत्यः शुचि-
व्रताः । सततं साधुवादिन्यो धारयन्ति जगत् श्वलु ।
व्याधितः पतितो वापि निर्द्धनो वा कथञ्चन । न वक्तव्यः
स्त्रिया भर्त्ता धर्म एष सनातनः । अकार्य्यकारिणं वापि
निर्गुणं स्त्री पतिं तथा । तारयत्येव साध्वी सा
तथात्मानं शुभानने! । योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं
हतैय सा । वागदष्टे विहितं सद्भिः प्रायश्चित्तं पुरा-
तनैः । भर्त्तुश्छन्देन कर्त्तव्यं व्रतकं सर्वदा स्त्रिया ।
उपवासोऽपि वा सत्ये! काङ्क्षन्त्या तु शुभां गतिम् ।
कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् । तिर्य्य-
ग्योनिसहस्रेषु पच्यते योनिविभ्रमात् । यदि स्यान्नाम
मानुष्यं स्त्री लभेदसती सती । चण्डालयोनौ दुर्मेधा
जायते कुक्कुरानना । भर्त्ता देवः सदा स्त्रीणां स्त्रीभि-
र्दृष्टः सनातने । यस्या हि तुष्यते भर्त्ता सा सती
धर्मचारिणी । कोतूहलहतानान्तु स्त्रीणां लोको न
शोभनः । भर्त्तर्य्येव मनो यासां सद्भावेन व्यवस्थितम् ।
कर्मणा मनसा वाचा पतिं नातिचरन्ति याः । ताषां
पुण्यफलं सौम्ये! पुण्यकैः समुदाहृतम् । पुण्यकाना
विधिं कृत्स्नं स्वर्लोकं प्रति शोभने! । निबोध स
हि सर्वो हि दृष्टोऽयं तपसा मया । स्नात्वा स्त्री प्रात-
रुत्थाय पतिं विज्ञापयेत् सती । उपवासार्थमथ वा व्रत-
कार्य्ये धृतव्रते! । स्पृष्ट्वा कराभ्यां चरणौ सततं सत्त-
मस्य च । गृहीत्वौदुम्बरं पात्रं सकुशं साक्षतं तथा ।
गोशृङ्गं दक्षिणासिच्य प्रतिगृह्णीत तज्जलम् । ततो
भर्त्तुः सती दद्यात् स्नातस्यप्रयतस्य च । आत्मनाऽथ
निसेक्तव्यं ततः शिरसि तज्जलम् । त्रैलोक्ये सर्वती-
र्थेषु स्नानमेतदुदाहृतम् । उपवासेषु कर्त्तव्यमेयद्धि
व्रतकेषु च । स्वानमेतद्धि सामान्यं स्त्रीणां पुंसाञ्च
भामिनि! । अरुन्धति! मया दृष्टं तपसा हरतोषकम् ।
अशून्यं विद्धि शयनमासनञ्च तथाविघम् । स्वयं
प्रक्षालनं चापि पादयोरनुशब्दितम्” । अनशब्दितं व्रतो-
पयोगितया कथितम् । “अश्रुप्रपातो रोषश्च सलहस्य
कृतिः सति! । उपवासात् व्रताद्वापि सद्योभ्रंशयति
स्त्रियम् । शुक्लमेव सदा वासः पशस्तं चन्द्रसम्भवे! ।
अन्तर्वासोऽपरञ्चैव उपवासव्रते तथा । पादुकार्थस्तृणैः
कार्य्यः सर्वदा व्रतके सति! । उपवासेऽपि च विधिरेष
एव प्रकीर्त्तितः । अञ्जनं रोचनञ्चापि गन्धान्
सुमनसस्तथा । व्रतके चोपवासे च नित्यमेव विवर्जयेत्” ।
“रोचनं कुङ्क मादिना, मुच्चोज्वलीकरणम् । “दन्तकाठ
पृष्ठ ४९९८
शिरः स्नानमुद्वर्त्तनमथापि वा । विवर्जितां मृदं सर्वां
शौचार्थन्तु विधीयते । तिलामलफलैर्नित्यं श्रीफलैश्च
समाचरेत् । प्रक्षालनञ्च शिरसः सदा मृण्मिश्रितैर्जलैः ।
शिरसाऽभ्यञ्जनं सौम्ये! नैवमेतत् प्रशस्यते । न पादयोर्न
मात्रस्य स्नेहेनेति स्थितिः स्मृता । गोयानमुष्ट्रयानञ्च
कथञ्चिदपि नाचरेत् । खरयानञ्च सततं व्रते चाप्युप-
वासके । नदीजलं प्रस्ववजं शस्तं वै सोमनन्दिनि! ।
शुभे तड़ागे वाप्यादौ विस्तीर्णे जलजाप्लुते । गत्वा
स्नानं प्रशस्तन्तु सदैव खलु सर्वथा । अलाभे त्ववरुद्धा
स्त्री घटस्नानं समाचरेत् । नवैश्च कुम्मैः स्नातव्यं विधि-
रेष सनातनः । स्नानञ्च कार्य्यं शिरसा तपःफलमवा-
प्नुयात्” । भविष्यत्पुराणे “क्षमा सत्यं दया दानं
शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्ज-
नम् । सर्वव्रतेष्वयं धर्मः सामान्यो दशकः स्थितः” ।
अत्र क्षमादीनां स्वतन्त्रतया चतुर्वर्गसाधनत्वेन विहि-
तानां व्रताङ्गतयाऽभिधानं खादिरं वीर्य्यकामस्येत्यादि-
वत् संयोगपृथक्त्वन्यायादुपपन्नम् । मत्स्यपुराणे
“तस्मात् कृतोपवासेन स्नानमभ्यङ्गपूर्वकम् । वर्जनीयं प्रय-
त्नेन रूपघ्नं तत्परं नृप!” । यत्तूक्तं गरुड़पुराणे-
“गन्धालङ्कारवस्त्राणि पुष्पमालानुलेपनम् । उपवासे न
दुष्यन्ति दन्तधावनमञ्जनम्” इति यच्च व्यासोक्तम्
“दन्तधावनपुष्पाणि व्रतेऽपि स्युर्न्न दुष्यति” । तदेतत्स-
भर्तृकोपवासविषयम् । भविष्यत्पुराणे “अञ्जनञ्च
सताम्बूलं सिन्दूरं रक्तबाससी । बिभृयात्सोपवासापि अवैध-
व्यकरं परम् । विधवा यतिमार्गेण कुमारी वा
यदृच्छया” पद्मपुराणे “गर्भिणी सूतिकादिश्च कुमारी वाथ
रोगिणी । यदा शुद्धा तदान्येन कारयेत् प्रयता
स्वयम्” । गर्भिण्यादिरुपवासे कर्त्तव्ये नक्तं कुर्य्यात् ।
सूतकादिभिरशुद्धा अन्येन व्रतं कारयेत् । प्रयता शुद्धा,
स्वयं कुर्य्यात्, पूंसोऽप्येष विधिः लिङ्गस्याविवक्षितत्वात्
तदेवं स्त्रीणां कन्यादशायां पित्रादेराज्ञया, विन्नानां
भर्तूराज्ञया, विधवानां पुत्राद्याज्ञयैव व्रताधिकारोनान्य-
येति सिद्धम् । अग्निपुराणे “व्रीहिषष्टिकमुद्गाश्च
कलायाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोघू-
माद्या व्रते हिताः । कूष्माण्डालाबुवार्त्ताकीपालङ्क्य
ज्योत्स्नकाख्यजेत् । चरुर्मैक्ष्यं शक्तुकणाः शाकन्दधि
घृतं मधु” । श्यामाकाः शालिनीवारा शाकं मूलपत्रादि-
कम् । “हविष्यव्रतनक्तादावग्निकार्य्यादिकं हितम् ।
मधु मांसं विहायान्यद् व्रते च हितमीरितम्” । व्र० ख०
दयादीनामुपवासगुणतयातदङ्गत्वम् एका० त० दर्शित यथा
व्रते गुणानाह गोतमः “दया सर्वभूतेषु क्षान्तिरनसूया
शौचमनायासो मङ्गलमकार्पण्यमस्पृहा चेति” ।
दयादिलक्षणान्याह वृहस्पतिः “परे वा बन्धुवर्गे वा मित्रे
द्वेष्टरि वा सदा । आत्मवद्वर्त्तितव्य हि दयैवैषा प्रकी-
र्त्तिता” । परे उदासीने । आपत्सु रक्षितव्यन्त्विति
कल्पतरौ पाठः । आत्मवदितिव्यक्तमाह दक्षः “यथै-
वात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता । सुखदुःखानि
तुल्यानि यथात्मनि तथा परे” । वृहस्पतिः “बाह्ये
चाध्यात्मिके चैव दुःखे चोत्पादिते कचित् । न कुप्यति
न वा हन्ति सा क्षमा परिकीर्त्तिता । न गुणान्
गुणिनो हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते
साऽनसूया प्रकीर्त्तिता । अभक्ष्यपरिहारस्तु संसर्गश्चाप्य-
निन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्ति-
तम् । शरीरं पीड्यते येन सुशुभेनापि कर्मणां । अत्यन्तं
तन्न कुर्वीत अनायासः स उच्यते । प्रशस्ताचरणं नित्य-
मप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वद-
र्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना ।
अहन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम् ।
यथोत्पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना । परस्य
चिन्तयित्वार्थं साऽस्पृहा परिकीर्त्तिता” । देवीपुरा-
णम् । “तद्ध्यानं तज्जषः स्नानं तत्कथाश्रवणादिकम् ।
उपवासकृतो ह्येते गुणा प्रोक्ता मनीषिभिः” ।
व्रतकालविवेकेऽत्र विशेष उक्तो यथा “दीर्घकालानुपा-
लनीयतत्तदितिकर्त्तव्यताकलापोपहितनियतसङ्कल्पविषयो
व्रतमिति व्रतलक्षणम् । व्रतानां सङ्कल्पसम्भवत्वमाह मनुः
“सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रता-
(पुंस्त्वमार्षम्) नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः” ।
व्रतारम्भप्रतिष्ठाकालमाह ज्योतिषम् “गुरोर्भृगोरस्तबाल्ये
बार्द्धक्ये सिंहगे गुरौ । गुर्वादित्ये दशाहे तु वक्रिजीवा-
ष्टविंशके । दिने, प्राग्राश्यनायातातिचारिगुरुवत्सरे
प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके । कल्पाद्य
द्भुत सप्ताहे नीचस्थेज्ये मलिम्लुचे । मानुतलङ्घितवे
मासि क्षये राहुयुते गुरौ । पौषादिकचतुर्मासे चरणा-
ङ्कितवर्षणे । एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये ।
तृतीयेन तु सप्ताहे माङ्गल्यानि जिजीविषुः । विद्यारम
कर्णवेधौ चूड़ापनयनोद्वहान् । तीर्थयानमनावृत्तं तथा
पृष्ठ ४९९९
नादिसुरेक्षणम् । परीक्षारामयज्ञांश्च पुरसरणदीक्षणे ।
व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे
देवकूपादेर्वर्जयन्ति च । द्वात्रिंशद्दिवसश्चास्ते जीवस्य
भार्गवस्य च । द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश
क्रमात् । अस्तात् प्राक् परयोः पक्षं गुरोर्बार्द्धकबालते ।
पक्षं वृद्धो महास्ते तु भृगुर्बालो दशाहिकः । पादास्ते
तु दशाहानि वृद्धो बालो दिनत्रयम्” । सिंहस्थ गुरौ
विशेषस्तु ज्योतिःकौमुद्याम् “गण्डक्या उत्तरे तीरे
गिरिराजस्य दक्षिणे । सिंहस्थं मकरस्थञ्च गुरुं यत्नेन
वर्जयेत्” इति । अथ व्रतानुष्ठानं तत्र देवलः “अभुक्त्वा
प्रातराहारं स्नात्वाचम्य समाहितः । सूर्य्यादिदेवताभ्यश्च
निवेद्य व्रतमाचरेत्” । अत्र प्रातर्व्रतमचारेदित्यन्वयः
ततश्चाहारमभुक्त्वा इति पूर्वदिने एकभक्त कृत्वा इत्य-
र्थकम् दिवारात्रिभोजनद्वयस्यैकतरनिवृत्त्यैकतरत्याव-
सीयमानत्वात् । गृहोतवताकरणे छागलेयः “यो
गृहीत्वा व्रतं मोहात् माचरेत् काममोहितः जीवन्
भवति चाण्डालो मृतः श्वा चैव जायते” । अत्र प्राय-
श्चित्तणाह शान्तपुराणम् “लोभान्लोहात् प्रमादाद्वा
व्रतभङ्गो भवेद्यदि । उपवासत्रयं कुर्य्यात् कुर्य्याद्वा
केशमुण्डनम् । प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्” ।
शब्दः समुच्चये तेन मुण्डनञ्च कुर्य्यादित्यर्थः । प्रमादात्
सकृदकरणे प्रतिप्रसवमाह देवलः “सर्वभूतभयं व्याधिः
प्रमादो गुरुशासनम् । अव्रतघ्नानि कथ्यन्ते सकृदेतानि
शास्त्रतः” । आरम्भानन्तरमशौचं न प्रतिबन्धकम् “व्रतय-
ज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न
स्यादनारम्भे तु सूतकम्” विष्णूक्ते । व्रतारम्भः सङ्कल्प
एव तत्रैवोक्तः । आरब्धव्रतस्य समापनं विना मरणे
तत्फलप्राप्तिरपीत्याहाङ्गराः “योयदर्थं चरेद्धर्ममसमाप्य-
मृतो यदि । स तत्पुण्यफलं प्रेत्य प्राप्नोति मनुरव्रवात्” ।
प्रेत्य परलोके । अशक्तौ जलादिपाने दोषाभावमाह
बोधायनः “अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्व्राह्मणकाम्या च गुरोर्वचनमौषधम्” । गर्भिण्यादौ
विशेषमाह शाम्बपुराणम् “गर्भिणी सूतिकः नक्तं
कुमारी च रजस्वला । यदा शुद्धा तदान्येन कारयेत् क्रि-
यते तदा” । अशुद्धा पूजादिकं कारयेत् कायिकमुपवा-
सादिकं सदा अशुद्धाशुद्धा वा स्वयं कुर्य्यात् । उपवासा-
शक्तौ नक्तं कुर्वीत । उपवासेष्वशक्तानां नक्तं
भोजनमिव्यते” इति वचनात् । व्रतदिने वज्यान्याह हा-
रीतः “पतितपाषण्डनास्तिकसम्भाषानृताभिधानादिक
सुपवासदिने वर्जयेत्” । तथा कूर्मपुराणम् “बहिर्ग्रामा-
न्यजं सूतिं पतितञ्च रजस्वलाम् । न स्पृशेन्नाभिभाषेत
नेक्षेत हरिवासरे” । व्रतानुष्ठानकालश्च तत्तत्तिथि-
विहितपूजाप्रधानकालपूर्वाह्णे प्राप्ततिथिर्ग्राह्या यथा
नरसिंहपुराणम् “दैवकृत्यन्तु पूर्वाह्णे मनुष्याणाञ्च
मध्यमे । अपराह्णे पितॄणाञ्च कार्य्याण्येतानि यत्नत” इति
तथा श्रुतिरपि पूर्वाह्णो वै देवानां मध्यन्दिनं मनुष्याणा-
विति” । उभयदिने पूर्वाह्णलाभे विशेषवचर्न विना युन्मा-
दिवचनाद्व्यवस्था” । संक्रान्तिनिमित्तं तत्तत्संक्रान्तिपुण्य-
काल एव कार्व्यम् । त्रुटेः सहस्रभागो यः स कालो
रविसंक्रमः” इत्युक्तेः संक्रान्तिकालस्यातिसूक्ष्मत्वेन कर्मा-
नर्हतया संक्रान्तिपदस्य लक्षणया तत्परत्वात् । अत्र तु
“वृश्चिकस्य तु संक्रान्त्यां पुत्रकामा व्रतं चरेत्” इति
मविष्यपुराणीयेन कार्त्तिकेयव्रतस्य संक्रान्तिविहितत्वे-
ऽपि “सायंकाले समारोम्ब प्रातःकाले विसर्जयेत्” इति
भविष्यपुराणीयेन पूजाया रात्रिमात्रकर्त्तव्यत्वाभिघा-
नात् तदङ्गोपवासस्य चाहोरात्रसाध्यतया पुण्यकाले
तदसम्भवात् तद्युक्ताहोरात्र एव कर्त्तव्यत्वम् । ततश्च
संपूर्णार्द्धरात्रात् परं वृश्चिकसंक्रान्तौ परदिने पूर्वयाम-
द्वयस्य पुण्यकालत्वेन तद्युक्ताहोरात्र एव कार्त्तिकेयव्रतं
कर्तव्यम् दिवा तदङ्गस्नानादेः व्रतत्वेन प्रातरोरम्भार्ह-
त्वात् तदङ्गोपवासस्य प्रातरारम्भार्हत्वाच्च । उक्तान्यव्रतेषु
युम्मवचनेन शुक्लपक्षकृष्णपक्षादिभेदेन वा तिथिविवेकोक्ता
व्यवस्थाऽनुसरणीया ।
व्रतप्रतिष्ठाकालश्च पूर्वोक्तेन “गुरोर्भृगोरस्तवाल्ये वार्द्धक्ये
सिंहगे गुरौ” इत्यादिवचनोनोक्तगुरुशुक्रास्तमयादिभिन्नः
शुद्धसमय एव कालः । तत्र “सर्वेषूक्तेषु कर्तव्या प्रतिष्ठा
विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फल-
मुच्यते” इति हयशीर्षपञ्चरात्रीयवचनेऽकरणे निष्-
फलत्वश्रुतेः प्रतिष्ठा नित्या सा च न व्रताङ्गं किन्तु
कर्मान्तरम् । “समाप्ते तु वते तत्र प्रतिष्ठा
तदनन्तरम्” ब्रह्मपुराणात् । इत्थञ्च तद्दिनेऽशौचादौ यथा
न आर्त्तानुष्ठानं तथा समयाशुद्धावपि नानुष्ठानम् । यत्तु
“समाप्ते तु व्रते तत्र प्रतिष्ठा तदनन्तरम् । न कालनि-
यमस्तत्र तत्र विघ्ने पराव्दिके” इति तत्सम्पूर्णदिवसे
समयाशुद्धावपि प्रतिष्ठाविधायकं सचनं तत कामधेनु-
कल्पतरुकारादिभिरलिखितत्वादनाकरम् । यदव व्रत
पृष्ठ ५०००
मासवर्षादिकालविशेषनियन्त्रितं काम्यं तस्यैव प्रतिष्ठा यत्
पुनर्नित्यं कालविशेषानियन्त्रितञ्च न तस्य प्रतिष्ठा पूर्वोक्त
हयशीर्षीये काम्यफलार्थिभिरित्यनेन काम्यस्यैव प्रतिष्ठा-
विधानात् कालविशेषानियन्त्रिते तदसम्भवात्” ।
व्रतभेदाश्च नानापुराणोक्तास्तत्र हेमा० व्र० स्वण्डोक्ता
अकारादिवर्णाद्यक्षरपूर्वकशब्दानुसारेणात्र कर्त्तव्यकाल-
सहिताः प्रदर्श्यन्ते तेषामितिकर्त्तव्यता तु तत्र दृश्या
  • अक्षयतृतीयाव्रतं भविष्योत्तरोक्तम् । “वैशाखस्य सितामेकां
तृतीयामक्षयां शृणु । तस्यां स्नानं जपो होमः स्वा-
ध्यायः पितृतर्पणम् । दानञ्च क्रियते किञ्चित् तत् सर्वं
स्यादिहाक्षयम् । आदिः कृतयुनस्येयं युगादिस्तेन
कथ्यते । सर्पपापप्रशमनी सर्वसौख्यप्रदायिनी” ।
  • अक्षयफलावाप्तिफलकाख्यतृतीयाव्रतं विष्णुधर्मोत्तरोक्तम् ।
“वैशाखशुक्लपक्षे तु तृतीयायामुपोषितः । अक्षयं
फलमाप्नोति सर्वस्य सुकृतस्य तु । सा तथा कृत्तिकोपेता
विशेषेण च पूजिता । तत्र दत्तञ्च जप्तञ्च सर्वमक्षयमुच्यते ।
अक्षया सा तिथिस्तस्मात्तस्यां सुकृतमक्षयम् । अक्षतैः
पूजितोविष्णुस्तेन सा चाक्षया स्मृता । अक्षतैस्तु नरः
स्नातो विष्णोर्दत्त्वा तथाऽक्षतान् । सक्तून् सुसंस्कृतांश्चैव
हुत्वा चैव तथाक्षतान् । विप्रेषु दत्त्वा तानेव तथा
सक्तून् सुसंस्कृतान् । पक्वान्नन्तु महाभाग! फलमक्ष-
यमश्नुते । एकामप्युक्तां कृत्वा च तृतीयां भृगुनन्दन! ।
एतावत्तु तृतीयानां सर्वासान्तु फलं लभेत्” ।
  • अखण्डैकादशीव्रतं वामनपु० उक्तम् । “मासि चाश्वयुजे
ब्रह्मन्! यदा पद्मजसन्निधिः । नाभ्यां निर्य्याति जगता-
मीशितुश्चक्रधारिणः । तस्मिन् रम्ये शुभे काले या
शुक्लैकादशी भवेत् । तस्यां सम्यग्यजेद्विष्णुं येन खण्डं
प्रपूर्य्यते” । येन विष्णुप्रपुजनेन खण्डमसम्पूर्णं धर्मा-
दिभिः परिपूर्णम्भवतीत्यर्थः” ।
  • अग्निचतुर्थीव्रतं विष्णुधर्मोत्तरोक्तम् । “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतं तव । । चतुरात्मा हरिः प्रोक्तसत्वारश्च
हुताशनाः । आहिताग्निर्द्विजो यस्य विद्यतेऽग्निचतु-
ष्टयम् । सोपवासश्चतुर्थ्यान्तु शुक्लपक्षस्य फाल्गुने ।
अभ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितम् । तणै दद्याद्
द्विजेन्द्राय तिलप्रस्थानि षोड़श । सुवर्णञ्च सुवर्णञ्च
वस्त्रं घृततुलामपि” । सुवर्णं कर्षान्थूनम् “एवं संवत्सरं
कृत्वा व्रतमेतदतन्द्रित । सर्वकामसमृद्धस्य यज्ञस्यलफ-
मश्नते” ।
  • अघोराख्यचतुर्दशीव्रतं भविष्योत्तरे “भाद्रे मास्यसिते पक्षे
अघोराख्याचतुर्दशी । तामुपोष्य नरोयाति शिवलोकम-
यत्नतः” ति० त० ।
  • अङ्गारकचतुर्थीव्रतं मत्स्यपु० उक्तम् । “चतुर्थ्यङ्गारकदिने
यदा भवति भारत! । मृदा स्नान तदा कुर्य्यात् पद्मरा-
गविभूषितः । अग्निर्मूर्ध्ना दिवो मन्त्रं जपंस्तिष्ठेदुदङ्-
मुखः । शूद्रस्तुष्णींजपन् जोपमास्ते भोगविवर्जितः” ।
  • अचलासप्तमीकृत भविष्योत्तरोक्तम् । “माघस्य सितसप्तम्यां
सर्वकामफलप्रदम् । रूपसौभाग्यजननं स्नानं कुरु
वरानने! । कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम् ।
रात्र्यन्ते चालयेथास्त्वं दत्त्वा शिरशि दीपकम् ।
माघस्य सितसप्तग्यामचलञ्चालितञ्च यत् । एकभक्तेन
सन्तिष्ठेत् षष्ठ्यां सम्पूज्य भास्करम् । सप्तम्यां तु व्रजेत्
प्रातः सुगम्भीरजलाशयम्” ।
  • अदारिद्र्यषष्ठीव्रतं स्कन्दपु० उक्तम् । “षष्ठी नाम तिथिर्याज्या
सामान्या दैवतैरपि । एकभक्तेन नक्तेन तथैवायाचितेन
च । उपबासेन दानेन तैलक्षारविवर्जितः । अयं हि
भगवान् देवो भास्करश्च परद्युतिः । येन शीघ्रेण
दृश्येत तदगुह्यं कथताम्यहम् । मोपनीयं व्रतं दिव्यमि ह
लाके फलप्रदम् । यस्मिन् कृते व्रते चैव दरिद्रो
न भयेत् कुले । षष्ठीतिथिं समुद्दिश्य ब्राह्मणस्य च भोजनम् ।
शाल्योदनञ्च पयसि कृत्वा च शर्करायुतम् । बाहुल्य-
घृतसंयुक्तं वर्षमेकं प्रदापयेत् । कुले तस्यैव ये जाता
ये भविष्यन्ति मानवाः । इह तणैव ये सन्ति तान्
दारिद्र्यं न गच्छति” ।
  • अनघाष्टमीव्रत भविष्योत्तरोक्तम् । “कृष्णाष्ठम्यां मार्गशीर्षे
दाम्पत्यं दर्भनिर्मितम् । अनघं चानघीञ्चैव बहुपुत्रैः
समन्वितम् । स्थापयित्वा शुभे देशे गोमयेनानुलेपिते ।
स्नात्वा समर्चयेत् पुष्पैः सुगन्धैश्चानुलेपनैः । ऋग्वेदेनोक्त-
मन्त्रैश्च दण्डकं मनसा स्मरन् । अनघं वासुदेवन्तु पत्नो
तस्यास्थिसम्भवा । प्रद्युम्नादिपुत्रवर्गं हरिवंशे
यथोदितम् । वर्षमेकं ततः कृत्वा इदं तदनघ स्मृतम्” ।
  • अनङ्गत्रयोदशीव्रतं भविष्योत्तरोक्तम् । “अनङ्गो भगवान्
शम्भुस्तेजोमूर्त्तिरगोचरः । स एव देवोयेनास्यां तेनानङ्ग-
त्रयोदशी । प्रसिद्धा समनुप्राप्ता नित्या सर्वफलप्रदा ।
मार्गशीर्षेऽमले पक्षे त्रयोदश्यां समाहितः । स्नानं नद्यां
तडागे वा गृहे वा कूपतोऽपि वा । कृत्वाभ्यर्च्य
महादेवं विधानाच्छशिभूषणम् । लिङ्कं स्वायम्भुवं भूतमभावे
पृष्ठ ५००१
यत्प्रतिष्ठितम् । तदनङ्गमिति प्रोक्तं पूजयेद्भक्तितोव्रती” ।
एतत् व्रतं तदवधि वर्षसाध्यम् ।
  • अनङ्गत्रयोदशीव्रतं कालोत्तरोक्तम् । “चैत्रशुक्लत्रयोदश्याम-
नङ्गं तु पटे लिस्वेत् । नीलदूर्वाङ्कुरश्यामं हस्तमात्रं
प्रमाणतः । रतिप्रीत्युभयोपेतं पौष्पसायकचापधृक् ।
पटेषु सुस्थितः कार्य्यः सर्वैश्चाप्सरसां गणैः” ।
  • अनन्तचतुर्द्दशीव्रतं भविष्योक्तम् “अनन्तव्रतमप्यन्यत्तिथाव-
स्यामनुत्तमम् । सर्वपापहरं नृणां स्त्रीणां चैव युधि-
ष्ठिर! । शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे भवेत् । तस्या-
नुष्टानमात्रेण सर्वपापाद्व्यपोहति” ।
  • अनन्ततृतीयाव्रतं पद्मपु० उक्तम् । “शृणुष्वावहिता देवि!
तथैवानन्तपुण्यकृत् । नराणामथ नारीणामाराधनमनु-
त्तमम् । नभस्ये वाथ वैशाखे मार्गशीर्षेऽथ वा पुनः ।
शुक्लपक्षे तृतीयायां स्रातः सन् गौरसर्षपैः । गोरोच-
नाऽथ गोमूत्रं मुस्तागोशकृतं दधि । चन्दनेन च
संसिश्र्य ललाटे तिलकं न्यसेत् । सौभाग्यारोग्यकृद्-
यस्मात् सदा च ललिताप्रियम् । प्रतिपक्षतृतीयायां
पुमान् वाथ सुवासिनी । धारयेद्रक्तवस्त्राणि कुसुमानि
सितानि च” ।
  • अनन्तद्वादशीव्रतं विष्णुरहस्योक्तम् । “द्वादश्यां शुक्लपक्षे च
मासि भाद्रपदे नरः । नैवेद्यगन्घपुष्पाद्यैरर्चयेज्जलशा-
यिनम् । न चाऽऽलपेद्विकर्मस्थान् पाषण्डान् पतितान्न-
रान् । स्नात्वा जपन्ननन्तेति शतमष्टोत्तरं बुधः । व्रजं-
स्तिष्ठन् स्वपन् भुञ्जन् बुध्यन् प्रस्खलिते क्षुते । वेदनार्त्तः
अरेन्नित्यमनन्तं मनसा गिरा । व्रतमेतद्विधानेन कुर्य्यात्
संवत्सरं नरः” ।
  • अनन्तपञ्चमीव्रतं स्कन्दप्रभासोक्तम् । “यो नरः पूजयेद् नागं
पञ्चम्यां फाल्गुने सिते । पञ्चोपचारविधिना मिताहारो
जितेन्द्रियः । न तं दशन्ति फणिनो दश वर्षाणि पञ्च
च । विषं न क्रमते तस्य कुले मातृकूलेऽपि च ।
तस्मात् तं पूजयेद् यत्नात् पञ्चम्याञ्च विशेषतः” ।
  • अनन्तफलसप्तमीव्रतं भविष्योक्तम् । “शुक्लपक्षे तु सप्तम्यां
मासि भाद्रपदेऽच्युत! । प्रणम्य शिरसा देवं पूजयेत्
सप्तवाहनम् । पुष्पधूपादिभिर्वीरः कुतप्रानाञ्च तर्पणैः” ।
कुतपानां ब्राह्मणादीनाम् । “पाषण्डादिभिरालापम-
कुर्वन्नियतात्मवान् । विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत
वाग्यतः । तिष्ठन् ब्रवन् प्रस्थितश्च क्षुतप्रस्खलिता-
दिषु । आदित्यनामस्मरणं कुर्य्यादुच्चारणं तथा । अने-
नव विधानेन मासान् द्वादश वै क्रमात् । उपोष्य
पारणे पूर्णे समभ्यर्व्य जगद्गुरुम् । पुण्येन श्रवणेनेह
प्रणमेत् पुष्टिमाप्तुयात् । एवं यः पुरुषः कुर्य्यादादित्या-
राधनं शुचिः नारी वा स्वर्गमभ्येत्य सानन्त्यं
फलमश्नुते” ।
  • अनोदनसप्तमीव्रतं भविष्योक्तम् । “शुक्लपक्षे तु वैशाखे
षष्ट्यां सम्यपुपोषितः । पूजयेद् भास्करं भक्त्या पुष्प-
धूपादिलेपनैः । येन तत् पूजयेद्देवं स विधिः कथ्यते
तव । तदा वैश्रवणो येन विधिनाऽपूजयन्नृप । दन्तखाद्यं
भवेद् यद्धि तदोदनमिति स्मृतम् । भक्ष्वं चूष्यं तथा लेह्य-
मोदनन्त्रिः प्रकीर्त्तितम् । तोयं चाऽनोदनै प्रोक्तं
तस्मात् तत्परिवर्ज्जंयेत् । तत् परिवर्जयेदिति तच्छब्देन
चोदनः परामृगते तस्मादोदनमेव वर्जयेन्न तु पेयमपि
तस्यातोदनत्वात्” । “इत्येषानोदना नाम सप्तमी
मरतर्षभ । । यामुपोष्प नरी भक्त्या धनधान्यमवाप्नुयात्” ।
  • अपराजितासप्तमीव्रतं भविष्यपु० “मासि भाद्रपदे शुक्ला
सप्तमी या गणाधिप! । अपराजितेति विख्याता
महापातकनाशिनी । चतुर्थ्यामेकभक्तन्तु पञ्चम्यां नक्तमादि-
शेत् । उपवासस्तथा षष्ठ्यां सप्तम्यां पारणं भवेत् । प्रा-
रणान्यत्र चत्वारि कथितानि मनीषिभिः । पुष्पाणि
करवीराणि तथा रक्तञ्च चन्दनम् । धूपक्रिया गुग्गुलुना
नैवेद्यं गुड़पूपकाः । नभस्यादिषु मासेषु विधिरेष प्रकी-
र्त्तितः” । इदं व्रतं वर्षसाध्यम् ।
  • अमावस्याव्रतं कूर्मपु० उक्तम् । “अमावस्यामनुप्राप्य ब्राह्म-
णाय कुटुम्बिने । यत् किञ्चित् वेदविदुषे दद्यादुद्दिश्य
शङ्करम् । प्रीयतामीश्वरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति” ।
  • अभीष्टसप्तमीव्रतं विष्णुधर्मोत्तरोक्तम् । सप्तम्याम् इत्युपक्रमे
“पूजयित्वा समुद्रांश्च द्वीपान्नव तदा नरः । पातालांश्च
महाभाग! भुवमाप्नोत्यभीप्सिताम्” ।
  • अमुक्तभरणसप्तमीव्रतं भविष्याक्तम् । “भद्रे! भाद्रषदे मासि
सप्तम्यां सलिलाशये । स्नात्वा शिवं मण्डलके लेखयित्वा
तथाम्बिकाम् । भक्त्या सम्पूज्य समयं कुर्य्याद्बद्ध्वा करे
गुणम् । यावज्जीवं मयात्मा तु शिवस्य विनिवेदितः” ।
  • अरुन्घतीव्रतं स्कन्दपु० उक्तम् । “अरुन्धतीव्रतं वक्ष्ये सदा
सौभाग्यदायकम् । येन चीर्णेन वै सम्यक् नारी सौभा-
ग्यभाजनम् । जायते रूपसम्पन्ना पुत्रपौत्रसमन्विता ।
वलन्तर्त्तुं समासाद्य तृतीयायां सुरर्षभ! । ञ्चानं कृत्वा
पृष्ठ ५००२
तु विधिवत्त्रिरात्रापोषिता सती । मिथुनानि
च चत्वारि समाहूय यतव्रता । पूजवेत् पुष्पताम्बूलैश्चन्दनैश्च
तथाक्षतैः” ।
  • अर्कव्रतं भविष्योक्तम् । “सप्तम्यां च तथा षष्ठ्यां पक्षयोरुभ-
योरपि । योऽव्दमेकं नक्तभोजी नियतात्मा जिते-
न्द्रियः । यत्पुण्यं परमं प्रोक्तं सततं सत्रयाजिनाम् ।
सत्यवादिषु यत् पुण्यं यत् पुण्टमृतुगामिनाम् । तत्फलं
सकलं प्राप्य मम लोकमुपैति सः” ।
  • अर्कसप्तमीव्रतं ब्रह्मपु० उक्तम् । “अर्कसंपुटसंयुक्तमुदकप्रभृतिं
पिवेत् । क्रमाद् वृद्या चतुर्षिंशमेकैकं क्षियते पुनः ।
द्वाभ्यां संवत्सराभ्यां तु समाप्य नियषोभवेत् । सर्व-
कामप्रदा ह्येषा प्रसीदत्यर्कसप्तमी” ।
  • अर्कसम्पुटसप्तमीव्रतं भविष्य पु० “काल्गुनामलपक्षस्य षष्ठ्यां
सम्यगुपोषितः । पूजवेद्भास्करं स्नात्वा पुष्पगन्धानुलेपनैः ।
अर्कपुष्पैर्भषहावाहो! गुग्गुलेन सुगन्धिना । सितेन
भूषयन् देवं चन्दनेम दिवाकरम् । गुड़ोदनञ्च नैवेद्यं
पलानां त्रितयं रयेः । एवं पूज्य दिवा भानुं रात्रौ
तस्याग्रतः स्वपेत्” ।
  • अर्काष्टमीव्रतं लविष्योत्तरोक्तम् । “यदाष्टम्यां शुक्लपक्षे
रविवारोऽभिजायते । उपोष्या सा प्रयत्नेन तेनैव
विधिना नृप! । अर्चयेद्देवदेवेशं सह देव्या महेश्वरम् ।
विशेष एव एवात्र शिवस्य नयनेस्मितम् । भानुं सम्पू-
जयेद् मक्त्या गन्धपुष्पाक्षतैः शुभैः । शिवञ्च सितपुष्पैस्तु
रक्तपुष्पैस्तथाम्बिकाम् । रत्नैरक्तसितैर्दिव्यैर्भक्तिमानर्चयेद्-
विभुम् । कुङ्कुमेनालभेद्देवी चन्द्रनेन महेश्वरम्” ।
  • अर्द्धश्रावणिकव्रतं ब्रह्माण्डपु० उक्तम् । “प्राप्ते तु श्रावणे
मासि शुक्लपक्षे मनोहरे । संस्याप्य पार्वतीं देवीं
पूजवेद्भक्तिशक्तितः । मासं यावन्नियमतः संस्मरन् पार्वतीं
हृदि । श्वेतार्घ्यैः श्वेतकुसुमैः श्वेतचन्दनकेन च । गन्धै-
र्धूपैश्च नैवेद्यैर्यथाकालोद्भवैः फलैः । अर्घ्यं दद्यात्
फलेनैव कुसुमाक्षतचन्दनैः । नमोऽर्द्धश्रावणि! देवि!
सर्वषापक्षयङ्करि! । गृहाणार्व्यं हि देवेशि! शङ्करेण
सलं मम्” ।
  • अर्द्धीदयव्रतं स्कन्दपु० उक्तम् । “माघामायां व्यतीपात
आदित्ये विष्णुदैवते । अर्द्धोदयं तमित्याहुः सहस्रार्कग्रहैः
समम् । पुराकृतं षसिष्ठेन जामदग्नेन सुव्रत! । सनका-
द्यैमेनुषयैश्च बहुभिर्बाहुजैरश्रुतैः । अन्यैः शतसहस्रैश्च
दृष्टं भवति कुम्भज! । दानानां यज्ञतीर्थाना फलं येन
कृतं भवेत् । माघमासे कृष्णपक्षे पञ्चदश्यां रवेर्दिने ।
वैष्णवेन च ऋक्षेण व्यतीपाते सुदुर्लभे” । वैष्णवर्क्षं
श्रवणम् “पूर्वाह्णे सङ्गमे स्नात्वा शुचिर्मूत्वा समाहितः ।
सर्वपापविशुध्यर्थं नियमस्थो भवेन्नरः । त्रिदैवत्यं व्रतं
देवाः करिष्ये भुक्तिमुक्तिदम् । भवन्तु सन्निधौ मेऽद्य-
त्रयोदेवास्त्रयोऽग्नयः” ।
  • अलवणतृतीयाव्रतं भविष्योक्तम् । “छवंविधा प्रिययुक्ता
शुचिसम्भोजना सती । सोपबासा तृतीयायां लवणं
परिवर्जयेत्” । सोपवासेति व्रतारम्भे द्वितीयायां कृतो-
पवासा तृतीयायां लवणं परिवर्जयेत् “सा संगृह्णीत
वै भक्त्या व्रतमामरणान्तिकम् । गौरी ददाति
सन्तुष्टा रूपसौभाम्यमेव च । लावण्यलवणं हृद्यं श्लाघ्यं
पुंसां मनोऽनुगम् । पतिं मनोरमं नारी भत्तां भार्य्यां
मनोरमाम् । गौरीव्रतेन लभते राजन्! लवणवर्जनात्”
  • अविघ्नविनायकचतुथीव्रतं वराहपु० “अथ विघ्नहरं
राजन्! कथयामि तवानघ! । येन सम्यक् कृतेनेह न
विघ्नमुपजायते । चतुर्य्या फाल्गुने मासि ग्रहीतव्यं
व्रतन्त्रिदम् । नक्ताहारेण राजेन्द्र! तिलान्नं पारणं
स्मृतम्” । पारणं नक्तभोजनम् “तदेव वह्नौ होतव्यं
ब्राह्मणाय च तद्भवेत् । चतुर्मासघ्रतञ्चैव कृत्वेत्यं पञ्चमे
तथा । सौवर्णं राजतं वापि कृत्वा विप्राय दापयेत्” ।
  • अवियोगतृतीयाव्रतं कालिकापु० उक्तम् । “अवैधव्यप्रदं
स्त्रीणामवियोगव्रतन्त्विदम् । मार्गशीर्षे सिते पक्षे स्राता
शुक्लान्धरान्विता । दृष्ट्वा चन्द्रं द्वितीबायां नक्तं भुञ्जीत
पायसम् । आचम्य च शुचिर्भूत्वा दण्डवच्छङ्करन्नमेत् ।
मुदान्विता समस्कृत्य विज्ञाप्य परमेश्वरम्” ।
  • अवियोगद्वादशीव्रतं मविष्यपु० “शुक्ले प्रौष्ठपदे मासि द्वा-
दश्यां समुपोषितः । म्नात्वा जलाशये स्वच्छे शुक्लाम्ब-
रधरः शुचिः । जलान्ते मण्डलं कृत्वा गोमयेनातिशो-
भनम् । गोधूमचूर्णैस्तनृध्ये सलक्ष्मीकं जनार्दनम् ।
लेखयित्वा हरं गौरीं सावित्रीं ब्रह्मणा सह । राज्ञा
(चन्द्रेण) सह रविं राजंस्त्रैलोक्योद्द्योतकारकम् ।
गन्धपुष्पैस्तथाधूपैर्नैवेद्यैर्भक्तितोऽर्चयेत् । अवियोगव्रतं
पार्थ! मन्त्रेणानेन तद्गतः । अवियोगाद् दृढ़मना
शिरस्याधाय केशवम्” ।
  • अध्यङ्गसप्तमीव्रतं भविष्यपु० “शुद्धपक्षे तु सप्तम्यां मासि
भाद्रपदेऽष्युत! । प्रणम्य शिरसा देवं पूजयेत् सप्तवा-
हनम् । पुष्पधूपादिभिर्वीर! कुतपनिञ्चि तर्मणैः ।
पृष्ठ ५००३
पाषण्डादिभिरालापमकुर्वन्नियतात्मवान् । विप्राय
दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्ययतः । तिष्ठन् ब्रुवन्
प्रस्थितश्च क्षुतप्रस्खलितादिषु । आदित्यनामस्मरणं कुर्य्या-
दुच्चारणं तथा । अनेनैव विधानेन मासान् द्वादश वै
क्रमात् । उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् ।
पुण्येन श्रवणेनेह प्रणमेत् पुष्टिमाप्नुयात् । एवं यः
पुरुषः कुर्य्यादादित्याराधनं शुचिः । नारी वा स्वर्गम-
भ्येत्य सानन्त्यं फलमश्नुते” । शुक्लपक्षे समभ्यर्च्य पुष्प-
धूपादिभिः शुचिः । श्रावणे मासि सप्तम्यां देवाग्रं सप्त-
वाहनम् । प्राप्येह विपुलं देवं धर्मानन्तरमक्षयम् ।
अमूत्र लोकमायाति दिव्यं खगपतेः शुभम्” । इत्यादि
  • अशून्यशयनद्वितीयाव्रतं भविष्यपु० “चातुर्मास्ये भवेद्राजन्!
वर्षायां व्रतसुत्तमम् । श्रावणस्य द्वितीयायां कृष्णपक्षे
नराधिप! । श्रावणादिकार्त्तिकान्तं कुर्य्यात् तत् व्रतमुत्त-
मम् । पुष्पं धूपञ्चनैवेद्यं दीपमालां विशेषतः” । “ततो
भाद्रपदे मासे यवदानं ददाति च । ततश्चाश्विद्वितीयायां
शय्यादानं विशेषतः । न तस्य शून्यं शयनमपुत्रो न
भवेन्नरः । ततश्च कार्त्तिके मासि द्वितीयायां नराधिप! ।
शर्करास्वण्डस्वाद्यानि दधिक्षीरघृतानि च । उपहारं
भगवते दद्यात् सर्वं प्रयत्रतः” इत्यादि ।
  • अशोकत्रिरात्रवूतं भविष्योत्तरोक्तम् । “तच्छृणु त्वमशो-
काख्यं त्रिरात्रव्रतमुत्तमम् । मासि मार्गशिरे चैव ज्यैष्ठे
भाद्रपदे तथा । शुक्लपक्षे पञ्चदश्यामेकभक्तन्तु
कारयेत् । ततः प्रातःसमुत्थाय स्नानं कुर्य्यात् ततो व्रती” ।
  • अशोकपूर्णिमाव्रतं विष्णुधर्मोत्तरोक्तम् । “अशोकपूर्णिमा-
मेतां शृणुष्व गदतो मम । उपाष्यास्यां नरः शोकं
नाप्नोति स्त्री तथापि वा । फाल्गुनामलपक्षस्य पौर्ण-
मास्यां भृपोत्तम! । मृज्जलेन नरः स्नात्वा दत्त्वा
शिरसि वै मृदम् । मृत्प्राशनं ततः कृत्वा कृत्वा च
स्थण्डिलं मृदा । पुष्पैर्गन्धैः समभ्यर्च्य भूधरं नाम
नामतः । घरणोञ्च तथा देवीमशोकेति च कीर्त्तयेत् । यथा
विशोका घरणिः कृतकृत्या जनार्दनात् । तथा मां
सर्वशोकेभ्यो मोचयाशेषधारिणि!” ।
  • अशोकप्रतिपद्व्रतं भविष्योत्तरोक्तम् “अश्वयुक्शुक्लपक्षस्य
प्रथमेऽह्नि दिनोदये । णशोकं पूजयेत् वृक्षं प्ररूढ़शुभ-
पल्लवम् । प्ररूढ़ैः सप्तधान्यैश्च गुणकैर्मोदकैः शुभैः ।
फलैः कालोद्भवैर्दिव्यैर्नारिकेलैः सदाड़िमैः । घूपदीपा-
दिना तत्र पूजयेत्तरुमुत्तमम् । अशोकं पाण्डवश्रेष्ठ!
शोकं नाप्नोति कुत्रचित् । पितृभ्रातृपतिश्वश्रूसुत
जामातृणां तथा” ।
  • अशोकाष्टमीव्रतं लिङ्गपुराणोक्तम् “अकोककलिकाश्चाष्टौ ये
पिबन्ति पुनर्वसौ । चैत्रे मासि तथाष्टम्यां न ते
शोकमवाप्नयुः” । अत्र पुनर्बसुयोशः प्राशस्त्यार्थः । कूर्मपुरा-
णेऽपि “अशोकस्याष्टकलिका मन्त्रेणोक्तेन भक्षयेत् ।
शोकं नैवाप्नुयान्मर्त्त्यो रूपवानपि जायते” । “शुक्ला-
ष्टम्यां तु संप्राप्ते मासि भाद्रपदे तथा । दूर्वाप्रतानं
सुश्वेतमुत्तराशाभिगामिनम् । पूजयेद्गृहमानीय गन्ध
माल्यानुलेपनैः । फलमूलैस्तथा चैव दीपं धूपैर्विसर्ज-
येत् । अग्निपक्वं तथा सर्वं निवेद्य च कथञ्चन । भोक्त-
व्यञ्च तथा ब्रह्मन्! वह्निपक्वविवर्जितम् । दूर्वाङ्कुरस्थां
सम्पूज्य विधिना यौवने प्रियम् । यौवनं स्थिरमाप्नोति
यत्र यत्राभिजायते । अष्टमीषु च सर्वासु पूजनीयाप्य-
शोकिका । गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ।
तस्मिन्नहनि या भुङ्क्ते नक्तमिन्दुविवर्जिते । भवत्यथो
विशोका सा यत्र यत्राभिजायते । अष्टमीषु च सर्वासु
नचेच्छुक्लेति वै मुने । प्रोष्ठपद्यामतीतायां या स्यात्
कृष्णाष्टमी द्विज! । तस्यामवश्यं कर्त्तव्यं देवीं पूज्य
यथाविधि” । इदं व्रतान्तरम् ।
  • अहिंसाव्रतं पद्मपु० “वर्जयित्वा पुमान्मांसमव्दान्ते गोप्रदो
भवेत् । तद्वद्धेममृगं दत्त्वा सोऽश्वमेधफलं लभेत् ।
अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत्” ।
  • आग्नेयव्रतं भविष्योत्तरोक्तम् । “सकृन्नवम्यां भक्तेन पूजयेद्
बिन्ध्यबासिनीम् । पुष्पैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि ।
पूजयित्वा ततो विद्यात् पञ्जरं सुकसंयुतम । हेमं
विप्राय दद्याद् यः स वाग्मी जायते नरः । सकृद्भक्तेन
नक्तेन अग्निलोकप्रदायकम्” ।
  • आज्ञासंक्रान्तिव्रतं स्कन्दपु० “सङ्क्रान्तिदिवसे पुण्ये प्रार-
भेन्नियमं व्रते । पद्ममष्टदलं कृत्वा कुङ्कुमेन तु
भास्करम् । पूजयन्मन्त्रमुच्चार्य्य विधिवद् गुरुसन्निधौ ।
आज्ञा तेजस्करी यत्ते प्रमादीप्तियशस्करी । आज्ञां
सर्वत्रगां देव! भम देहि नामोऽस्तु ते । पूज्यैवं कुङ्कु-
मेनाथ दद्याद् विप्राय भोजनम् । उद्यापने तु
चण्डांशुं सौवर्णं सरथं तथा । एकचक्रञ्च सप्ताश्वमरुणेन
समन्वितम् । यः कुर्य्याद्विधिनानेन आज्ञासंक्रान्तिभुत्त-
माम् । अथाज्ञाऽस्खलिता लोके सूर्य्यतस्तस्य जायते” ।
  • आदित्यव्रतं भविष्यपुराणोक्तम् “योऽव्दमेकं प्रकुर्वीत नक्त
पृष्ठ ५००४
हि मद्दिने नरः । ब्रह्मचारी जितक्रोधो ममार्चन-
परः खग! । संवत्सरान्तमासाद्य मद्भक्तांश्च द्विजो-
त्तमान् । भोजयित्वा व्रती ब्रूयात् प्रीयतां मे
दिवाकरः । यश्च भक्तिसमायुक्तो मम लोकं स गच्छति ।
स च भानुकृतं लोकं ध्रुवं सम्प्राप्नुयान्नरः । ये त्वादित्य-
दिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः । सप्तजन्मानि ते
प्राप्ताः सम्भवन्ति विरोगताम् । वैराग्यमिह वै प्राप्य
मम लोकं व्रजन्ति ते । उपवासन्तु कुर्वन्ति ये त्वादित्य-
व्रते सदा । जपन्ति तु महाश्वेतामीप्सितं लभते
फलम् । विशेषादादित्यदिने जपमानो गणाधिपान् ।
षड़क्षरं महाश्वेतं जपन् वैरोचनं पदम्” ।
  • आदित्यशयनव्रतं आदित्यपु० “आदित्यशयनं नाम यथावच्छ-
ङ्करार्चनम् । येषु नक्षत्रयोगोऽत्र पुराणज्ञाः प्रचक्षते ।
यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत् । सूर्य्यस्य वाथ
संक्रान्तौ ला तिथिः सर्वकामिको । उमामहेश्वरस्या-
र्च्चामर्चयेत् सूर्य्यनामभिः । सूर्य्यार्चां शिवलिङ्गञ्च उभवं
पूजयेत्ततः । उमापते रवेर्वापि न भेदः क्वचिदिष्यते ।
यस्मात् तस्मान्नृपश्रेष्ठ! गृहे शम्भुं समर्चयेत्” इत्यादि ।
  • आदित्यनन्दादिव्रतं भविष्यपु० “द्वादश्यां हस्तभे वारो
आदित्यस्य महात्मनः । नन्दो भदूस्तथा सौम्यः कामदः
पुत्रदस्तथा । जयो जयन्तो विजय आदित्यानामुपास्थितः ।
हृदयो रोगहा चैव महारोगविनाशनम् । मालती-
कुसुमानीह श्वेतचन्दनमुत्तमम् । धूपं गुग्गुलुश्रेष्ठेन
नैवेद्यं पूपमेव तु । दत्त्वा पूपांस्तु विप्राय ततो भुञ्जीत
वाग्यतः” ।
  • आनन्दव्रतं मत्स्य पु० “चैत्रादिचतुरो मासान् जले कुर्य्याद-
याचितम् । व्रतान्ते मणिकन्दद्यान्नववस्त्रसमन्वितम् ।
तिलपात्रं हिरण्यञ्च ब्रह्वलोके महीयते । कल्पान्ते
भपतिर्नाम्ना ह्यानन्दव्रतमुच्यते” ।
  • आनन्दपञ्चमीव्रत भविष्यपु० “पञ्चमी दयिता राजन्!
नागानां नन्दवर्द्धिनी । पञ्चम्याः किल नागानां भवती-
त्युत्सवो महान् । वासुकिस्तक्षकश्चैव कालियो मणिभ-
द्रकः । धृतराष्ट्रश्चैरावतः कर्कोटकधनञ्जयौ । एते प्रय-
च्छन्त्यभयं प्राणिनां प्राणदाः सदा । पञ्चम्यां स्नापय-
न्तीह नागान् क्षीरेण ये नराः । तेषां कुले प्रयच्छन्ति
अभयं प्राणदक्षिणाम्” ।
  • आनन्दानवमीव्रतं भविष्यपु० “आनन्दा नन्दिनी नन्दा
महानन्दा महीपते! । तथाद्या नवमी पुण्या पञ्चसी
महती स्मृता । फाल्गुनामलपक्षस्य नवमी या
महीपते! । आनन्दा सा महापुण्या सर्बपापहरा शुभा ।
कृत्वैकभक्तं पञ्चम्यां षष्ठ्यान्नक्तं तथा नृप! । अयाचि-
तन्तु सप्तम्यामुपवासः परेऽहनि । य एवं पूजयेद्भक्त्या
नबम्यां विधिवन्नृप! । सोपवासोऽर्चयेद् देवीं धूपं दद्यात्
तथागुरुम् । मासैश्चतुर्भिरादीयं द्वितीयं पारणं शृणु!” ।
आदीयम् आद्यम् “भोजयेद् विप्रकन्याश्च नवम्यां ब्रह्म-
णस्त्रियः । मासि मासि महाबाहो! यथा शक्त्या
यथाविधि । आषाढ़े श्रावणे मासि मासि भाद्रपदे तथा ।
तथाचाश्वयुजे मासि पूज्या भगवती विभो! । कृत्वैकभक्तं
पञ्चम्यां षष्ठ्यां नक्तं तथा नृप! । अयावितं तु सप्तम्या-
मुपवासः परेऽहनि । सोपवासो नवम्यां तु पूजयेदविधि-
वच्छिवाम् । सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते” ।
  • आयुधव्रतं विष्णुधर्मोत्तरोक्तम् । “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतन्तव । शङ्खचक्रगदापद्मचतुरात्मा प्रकी-
र्त्तितः । वासुदेवः स्मृतः शङ्खः चक्रं सङ्कर्षणस्तथा ।
प्रद्युम्नश्च गदा पद्ममनिरुद्धो जगद्गुरुः । श्रावणादिषु
मासेषु वहिःस्नातस्तु नक्तभुक् । तेषान्तु पूजनं कुर्य्यात्
प्रतिमासमनुक्रमात् । गन्धमाल्यनमस्कारदीपधूपान्न-
सम्पदा । ततस्तु कार्त्तिकस्यान्ते समाप्ते तु तथा व्रते ।
ब्राह्मणान् भोजयेद्भक्त्या दद्याच्छ्रक्त्या च दक्षिणाम् ।
कांस्यपात्रञ्च सघृतं ससुवर्णं तथैव च । कृत्वा व्रतं
मासचतुष्टयञ्च प्राप्नोति लोकं त्रिदशेश्वरस्य । मानुष्यमा-
साद्य तथैव पश्चात् वसुन्धरेशो भवतीह वीरः” ।
  • आरोग्यव्रतं विष्णुधर्मोत्तरोक्तम् । “प्रोष्ठपद्यामतीतायां प्रति-
पत्प्रभृति क्रमात् । यादवञ्च दिवाऽर्च्चायामनिरुद्धं
प्रपूजयेत् । पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत्” ।
पूर्वोक्तेन रूपावाप्तिव्रतोक्तेन “सारसैरर्चयेद् देवं जातो-
पुष्पैदिंने दिने” । सारसैः कमलैः “घृतेन जुहुहाद् वह्निं
घृतं दद्याद् द्विजातये । भोजनं गोरसप्रायं तथा विप्रांश्च
भाजयेत् । त्रिरात्रोपोषितः सम्यगाश्वयुज्यान्ततो नरः” ।
अपरं वराहपु० “अथापरं महाराज व्रतमारग्यसंज्ञि-
तम् । कथयामि परं पुण्यं सर्वपापप्रणाशनम् । तस्यैव
माघमासस्य सप्तम्यां समुपोषितः । पूजयेद्भास्करं देवं
विश्वरूपं सनातनम् । आदित्य! भास्कर! रवे! भानो!
सूर्य्य! दिवाकर! । प्रभाकरेति संपूज्यो देवः सर्वेश्वरो-
विभुः । षष्ठ्यां चैव कृताहारः सप्तम्यामुपवासकृत् । अष्ट-
म्याञ्चैव मुञ्जीत एष एव विधिः क्रमः । अनेन वत्सरं
पृष्ठ ५००५
पूर्णं विधिना योऽर्चयेद्रविम् । तस्यारोग्यं धनं धान्यमिह
जन्मनि जायते । परत्र च सुखं स्थानं यद्गत्वा न निवर्त्तते” ।
  • आरोग्यदशमीव्रतं गरुड़पु० “व्रतमेतन्महाबुद्धे! कार्य्यमा-
रोग्यमिच्छता । सर्वकार्य्यार्थमेतद्धि लिप्सुना जीवितं
चिरम् । उपवासश्च कर्त्तव्यो नवम्यामिह सुव्रत ।
दशम्यां तु कृतस्नानो मङ्गलायतनं हरिम् । देवत्तिन्दि-
रया सार्द्धं ध्यात्वा च जगतां पतिम् । शङ्कचक्र
गदापद्मशार्ङ्गासिधरमुत्तमम्” । इन्दिरया लक्ष्म्या
“फलैर्धूपैश्च पुष्पैश्च पायसेन समर्चयेत्” ।
  • आयुर्व्रतं मरुडपु० “अतस्तच्छान्तिजननमायुःप्रदमनाकुलम् ।
सर्वसौख्यप्रदं भद्रं तादृग्ब्रतमिहोच्यते । चतुर्दश्यां
शुचिः स्नात्वा दन्तधावनपूर्वकम् । पौर्णमास्यान्तथा कृत्वा
देवपूजां समाचरेत् । मण्डलं चतुरस्रन्तु कारयेत् कुसुमा-
क्षतैः । तस्मिन् श्रीशं श्रियं देवीमर्चयेत् सुसमाहितः” ।
  • आयुःसंक्रान्तिव्रतं स्कन्दपु० “अथान्यां सम्प्रवक्ष्यामि आयुः-
संक्रान्तिमुत्तमाम् । संक्रान्तिदिवसे पूज्य पूर्ववच्च दिवाक-
रम् । कांस्यं क्षीरघृतं दद्यात् सहिरण्यं स्वशक्तितः ।
मन्त्र एष पृथग्दाने पूजा सैव प्रकीर्त्तिता । सक्षीरं
सुरभोजातं पीयूषसमरूपघृक् । आयुरारोग्यमैश्वर्य्यं
मम देहि द्विजार्पितम् । अनेन विधिना सम्यक् सर्वं
दद्यादतन्द्रितः” ।
  • आशादित्यव्रतं स्कन्दपु० “त्रासमाश्वयुजं प्राप्य यटादित्य-
दिनं भवेत् । तदा व्रतमिदं ग्राह्यं नरैस्त्रोभिर्विशेषतः ।
यावत् र्सवत्सरं तावद्विधिनानेन पुत्रक! । गोमयेन क्षितौ
कुर्य्यात् मण्डलं वर्त्तुलं पुनः । रक्तपुष्पैरक्षताद्यैरर्घ्यं
तत्र प्रदापयेत् । यथाशा विमलाः सर्वाः सूर्य्य! भास्कर-
भानुभिः । तथाशां सफलां मह्यं कुरु नित्यं
मयार्चितः । एवं यः कुरुते सम्यक व्रतमेतनुत्तमम् ।
आशादित्येति विख्यातं तस्य पुण्यफलं महत् । इत्यादि
  • आश्रमव्रतं विष्णुधर्मोत्तरोक्तम् । “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतं तदा । चैत्रस्यामलपक्षे तु सोपवासो
जितेन्द्रियः । चतुर्थ्यां वासुदेवस्य कृंत्वा संपूजनं शुभम् ।
काञ्चनं दक्षिणां दद्यात् द्विजाय ब्रह्मचारिणे । तथा
सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम्”
  • आषाढ़व्रतानि महाभारते “आषाढ़मेकभक्तेन स्यित्वा
मासमतन्द्रितः । बहुधान्यो बहुधनो बहुपुत्रश्च जायते ।
आषाढमेकभक्तेन पूजयेद्विष्णुतत्परः” ।
  • इन्द्रपौर्णमासाव्रतं भविष्योत्तरोक्तम् । “त्रिंशत्संपूज्य दम्पत्या-
न्युपवासी विभूषणैः । पौर्णमास्यामवाप्नोति मोक्षमिन्द्रः
ब्रतादिह” ।
  • ईशानव्रतं कालिकापु० “अथोपोष्य चतुर्देश्यां गुरोर्दिने ।
पूजयेद्विधिनानेन लिङ्गं सार्वं निबोघ मे । ब्रह्माणः
पश्चिमे भागे वामे लिङ्गस्य वै हरिम् । खखोल्कं
दक्षिणे रौद्रमीश्वरं प्राग्दिशि स्थितम्” । खखोल्कमर्थक्
  • ईश्वरव्रतं भविष्यपु० “ईश्वरस्य चतुर्दश्यां सर्वैश्वर्य्यसमन्वि-
तः । बहुपुत्रो बहुधनस्तथा स्यान्नात्र संशयः । मूलम-
न्त्रस्वसंज्ञाभिरङ्गमन्त्राश्च कीर्तिताः । पूर्ववत्पद्मपत्रस्थः
कर्त्तव्यश्च तिथीश्वरः । गन्धपुष्पोपहारैश्च यथाशक्ति
विधोयते । पूजाऽशाद्येन शाद्येन कृतापि तु फलप्रदा ।
आज्यधारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः । पूर्वोक्तफ-
लदो होमः कृतः शान्तेन चेतसा” । एतद्व्रतं वैश्वानर
प्रतिपद्व्रतवद्व्याख्येयम्” ।
  • उदकसप्तमीब्रतं भविष्यपु० “उदकप्रभृतिं पीत्वा क्रियते
या तु सप्तमो! सा ज्ञेया सुखदा वीर! सदेवोदकस-
प्तमी” ।
  • उभयद्वादशीव्रतं भविष्योत्तरोक्तम् । “श्रेष्ठं व्रतानां सर्वेषा-
मुभयद्वादशीब्रतम् । तत्तेऽह संप्रवक्ष्यामि समाहित-
मनाः शृणु! । ततोऽपराह्णे सन्तर्प्य कृतमन्ध्यादिकः
शुचिः । प्राप्याज्ञां वेदविदुषः पुराणज्ञात् जितेन्दियात् ।
संपूज्य देवदेवेशन्दन्तधावनपूर्बकम् । कुर्य्याच्च नियमं पार्थ
गुरुदेवाग्निसन्निधौ । एकादश्यां निराहारः स्थित्वा
हमपरेऽहनि । भीक्ष्यामि पुण्डरीकाक्ष! शरणं मे
भवाच्युत! । इत्युक्त्वाथ गुरुं नत्वा पूजयित्वा जनार्दनम ।
मूमौ स्वपेज्जितक्रोधः शब्दादिविषयोज्झितः । अनेन
विधिना मासि तस्मिन् कृष्णामुपोषयेत् । द्वादशीं पुरुष-
व्याघ्र! ध्यायन् सङ्कुर्षणं विभुम् । प्राग्वत्सर्वं ततः कृत्वा
ब्राह्मणाय निवेदयेत्” । इदञ्च ब्रतं मार्गशीर्षादिकार्त्ति-
कान्तद्वादशमाससाध्यं तच्च उभयपक्षयोः कार्य्यम् ।
  • उभयनवमीव्रतं भविष्यपु० “योऽव्दमेकं प्रकुर्वीत नवम्यां
नक्तमादरात् । इह भोगानवाप्याग्र्यान् परत्र च दिवं
व्रजेत् । पौषे मासे च सम्प्राप्ते यः कुर्य्यान्नक्तभोजनम् ।
जितेन्द्रियः सत्यवादी कामक्रोधविवर्जितः । पक्षयार्न-
वमीं यत्नादुपवासेन पालयेत्” । इदं व्रतं वर्षसाध्यम् ।
  • उभयसप्तमीव्रतं भविष्यपु० “पौषे मासे च सप्तम्यां यः
कुर्य्यान्नक्तभोजनम् । जितेन्द्रियः सत्यवादी स्नातो गो
मूत्रगोरसैः । पक्षयोः सप्तमीं यत्नादुपवासेन यो नयेत् ।
पृष्ठ ५००६
त्रिसन्ध्यमर्च्चयेद्भानुं शाण्डिलेयञ्च सुव्रत!” । तदवधिवर्ष-
साध्यम् । व्रतान्तरं विष्णुधर्मोत्तरोक्तम् “अनेनैव विधानेन
प्रतिमासन्तु यो नरः । सप्तमीद्वितयं कुर्य्याद्यावत्
संवत्सरं रवेः । सोऽश्वमेधमवाप्नोति सूर्य्यलोकं
च गच्छति । कुलमुद्धरते राजन्! सर्वान् कामानुपाश्नुते” ।
  • उमामाहेश्वरतृतीयाव्रतं भविष्योत्तरोक्तम् । “लोके
हितार्थं पार्वत्या उभामाहेश्वरव्रतम् । समाख्यातं पुरा
पार्थ! नाद्यापि प्राथतं भुवि । मार्गशीर्षे सिते पक्षे
तृतीयायां समाहिता । कृतोपवासा राजेन्द्र! सर्वभो-
गविवर्जिता । संवेष्ट्य श्वेतवस्त्रेण शिवं रक्तेन
चाम्बिकाम् । पश्चाद्धं दहेन्नारी भक्तिभावेन भाविता ।
भोजयेच्छिवभक्तांश्च ब्रह्मणान् वेदपारगान् । भक्तेभ्यो
दक्षिणां दद्याद्भक्त्या शाठ्यविनाकृताम्” । कृतोपवासा
सङ्कल्पितोपवासा “हैमीमुमां रजतपिण्डमयं महेशम्
रोप्ये सुरूपवृषभे समुपस्थितौ तौ । संपूज्य रक्तसित-
वस्त्रयुगोपगूढौ नारी भवत्यविधवा सुतसौख्ययुक्ता ।
पौर्णमास्याममावास्यां चतुर्दष्याष्टमीषु च । नक्तमव्दन्तु
कुर्वीत हविष्यैर्ब्रह्मचारिणी । उमामहेशप्रतिमां हेम्ना
कृत्वा सुशोभनाम् । राजतीं वापि कर्षार्द्धे स्नापयित्वा
घृतादिभिः । गन्धपुष्पैरलङ्कृत्य वस्त्रयुग्मैश्च शोमनैः ।
भक्षभोज्यैरशेषैश्च वितानध्वक्षचामरैः । भोजयेच्छिवभक्तांश्च
दीनानाथान् प्रतर्पयेत्” । व्रतान्तरं शिवधर्मोत्तरोक्तम् ।
“अष्टम्याञ्च चतुर्दश्यां नियतब्रह्मचारिणी । वर्षमेकं
न भुञ्जीत महीभीगजिगीषया । वर्षान्ते प्रतिमां कृत्वा
पूर्ववद्विधिमाचरेत् । स्नानार्घ्यैस्तद्व्रतं प्राप्य पूर्वोक्तांस्तु
गुणान् लभेत्” । अत्राप्यु मामहेश्वर प्रतिमा कर्त्तव्या ।
पूर्बवदिति पूर्बव्रतोक्तवदित्यर्थः । देवीपु० व्रतान्तरं “यदीच्छसि
सुभर्त्तारमिह जन्मन्यथापरे । कन्या कुर्य्यान्नृपश्रेष्ठ!
विष्णुना कथितं व्रतम् । सर्वपापहरं पुण्यं सर्वकामफल-
प्रदम् । उमामहेश्वरं नाम कर्त्तव्यं विधिना यथा ।
प्रोठाश्विने तथा मासे गृगे भाग्ये १२ऽथ वा मुने! ।
मैत्रे १७ शाक्रे १८ऽथ वा कार्य्य मष्टम्याञ्चाथ शाङ्करे” ६ ।
व्रतान्तरं भृगुसंहितोक्तम् । “उमामाहेश्वरं नाम या
च स्त्री कुरुते व्रतम्” इति पक्रमे “उमामाहेश्वरी कार्य्या
प्रतिमा काञ्चनीद्भवा । त्रिकर्षस्य तदर्द्धस्य कर्षस्यापि
मितस्य च । द्रव्यशाठ्यं न कर्त्तव्यं सर्वथा फलकाम्यया ।
स्थापयेत् श्वेतवस्त्राक्षे राजते वृषभे शुभे । व्याघ्राजिने
सुविस्तीर्णे संस्थाप्याभ्यर्च्य यत्नतः । सोपवासा च कुर्य्यात्तु
चतुर्दश्यां समाहिता । शैवं साहस्रकं होमं गौर्य्या
होमञ्च यत्नतः । प्राप्ते प्रभातसमये स्नात्वा संपूज्य पूर्ब-
वत् । आहूय वेदविद्वांसं ब्राह्मणं पूज्य भक्तितः! । अर्च-
येत् प्रतिमां शम्मोः कर्मदोषापशान्तये । वाक्येन ब्रा-
ह्मणं तोष्य ततः पारणमाचरेत्” ।
  • उलकानवमीव्रतं भविष्योत्तरोक्तम् । “उल्काख्या नवमी
राजन्! कथयामि निबोध ताम् । या काश्यपेन
कथिता तारकस्यार्त्ति नाशिनी । अश्वयुक्शुक्लपक्षे या
नवमी लोकविश्रुता । नद्यां स्नात्वा समभ्यर्च्य पितृदेवान्
यथाविधि । पश्चात् संपूजयेद्दवीं चामुण्डां भैरव-
प्रियाम् । पुष्पैर्धूपैः सनैवेद्यैः मांसमत्स्यसुरासवैः ।
पूजयित्वा स्तवं कुर्य्यान्मन्त्रेणानेन मानवः” । सौरपु० “व्रतेन
येन देवेन्द्र! प्रसीदत्याशु पार्वती । तच्चोल्कानवभीसंज्ञं
शृणु! सर्वफलप्रदम् । तस्यां नवम्यां सर्वाणी महिषा-
दीन् महासुरान् । जघान समरे शत्रून् तेन सा
नवमी प्रिया । अश्वयुक्शुक्लस्य नवम्यां प्रयतात्मवान् ।
स्नात्वाभ्यर्च्य पितॄन् देवान् मनुष्यांश्च यथाक्रमम् । जपेत्
पश्चान्महादेवीं महिषासुरघातिनीम् । पुष्पैर्धूपैः
सनैवेद्यैः पयादधिफलादिभिः । भक्त्या संपूजयित्वैवं देवीं
सम्प्रार्थयेत्ततः” ।
  • ऋतुव्रतं विष्णुधर्मोत्तरोक्तम् । “अथातः संप्रवक्ष्यामि
षण्मूर्त्तेरर्च्चनं परम् । वसन्ते पूजयेन्नित्यं द्वौ मासौ मुनि-
पुङ्गव! । फलैः पुष्पैः कषायैस्तु ग्रीष्मे ग्रैष्मैश्च पूजयेत् ।
मधुरेण महाराज! प्रावृट्काले ऋतुं यजेत् । अनेन
पूजयेन्नित्यं शरदं लवणेन च । कट्वम्लेन च हेमन्तं तिक्तेन
शिशिरं तथा । नक्ताशनस्तथा तिष्ठेत् पञ्चकं वर्जयेद्र-
सम् । ब्राह्मणान् भोजयेच्चापि प्रभूतवसनादिमिः । संवत्-
सरमिदं कृत्वा व्रतं परमपावनम् । अश्वमेधमवाप्नोति
राजसूयञ्च विन्दति । चैत्रे समारभ्य सिते तु षष्ठीं
सम्पूजयेद्यस्त्वृतुषटकमेवम् । कृतोपवासः स नरो यथोक्तं
लभेत् फलं शाश्वतमेव शीघ्रम्” ।
  • ऋषिपञ्चमीव्रतं ब्रह्माण्डपु० “शृणु राजन्! प्रवक्ष्यामि
व्रतानामुत्तमं व्रतम् । ऋषिपञ्चमीति विख्यातं सर्वपाप-
हरं परम् । नभस्ये शुक्लपक्षे त यदा भवति पञ्चमी ।
नद्यादिषु तदा स्नानं कृत्वा नियममेव च । विधाय
नित्यकर्मादि गत्वा द्वारवतीमृषीन् । म्नापयेद्विधिवद्भक्त्या
पञ्चामृतरसैः शुभैः” । द्वारवतीं, अग्निहोत्रशालां
धूमनिर्गमद्वारैर्बहुभिर्युतत्वात्” । ऋषयोऽत्र सप्तर्षयः ।
पृष्ठ ५००७
  • एकभक्तव्रतं विष्णु धर्भोक्तम् । “चैत्रं विष्णुपरो मासमेक-
भक्तेन यः क्षिपेत् । सुवर्णमणिमुक्ताढ्यं गार्हस्थ्यं
समवाप्नुयात् । अहिंस्रः सर्वभूतेषु वासुदेवपरायणः ।
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् । अतिरात्रस्य
यज्ञस्य ततः फलमवाप्नुयात् । यस्तु संवत्सरं पूर्णमेक-
भक्तो भवेन्नरः । अहिंसः सर्वभूतेषु वासुदेवपरायणः ।
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् । पौण्डरी-
कस्य यज्ञस्य ततः फलमाप्नुयात् । दश वर्षसहस्राणि
स्वर्गलोके महीयते । तत्क्षयादिह चागत्य माहात्म्यं
प्रतिप्रद्यते” ।
  • ऐश्वर्य्यतृतीयाव्रतं विष्णुधर्मोक्तम् । “तृतीयायां तथाभ्यर्च्य
ब्रह्मविष्णुमहेश्वरान् । पृथक् पृथक् नाममन्त्रैर्नैवेद्यादि
निवेटयेत् । त्रीन् लोकांश्च तदा नाम सम्यक् संपूजये-
न्नरः । ऐश्वर्य्यं महदाप्नोति गतिमग्र्याञ्च विन्दति” ।
  • कदलीव्वतं भविष्योत्तरोक्तम् । “शुक्ले पक्षे चतुर्दश्यां मासि
भाद्रपदे नृप! । देयमर्घ्यं वरस्त्रीभिः फलैर्नानाविधै-
स्तथा । विरूढैः सप्तधान्यैश्च दीपालक्तकचन्दनैः ।
दधिदूर्वाक्षतैर्वस्त्रैर्नैवेद्यैर्घृतपाचितैः । जातीफलैः
पूगफलैर्लवङ्गकदलीफलैः । तस्मिन्नहनि दातव्यं स्त्रीभी-
रम्याभिरप्यलम् । मन्त्रेणानेन चैवार्घ्यं तच्छृणुष्व
नराधिप! । चित्तस्था कदली नित्यं कदली कामदा-
यिनी । शरीरारोग्यालावण्यं देहि देवि! नमोऽस्तुते” ।
  • कन्दुचतुर्थीव्रतं देवीपु० “माघभासे तु सम्प्राप्ते चतुर्थी
कन्दुसंज्ञिता । सोपोष्या तु सुरश्रेष्ठ! ततो राज्यं
भविष्यति । सर्वोपहारसम्पन्नं सर्वोपस्करमाहरेत् । कन्दु-
पक्वं फलं शाकं लबणं गुड़शर्वरा । खण्ड कुस्तुम्बरी
जीरं धान्यानि विविधानि च । दातव्यानि रघुश्रेष्ट!
कन्यकानान्तु भक्तितः” ।
  • कपिलाषष्ठीव्रतं स्कन्दपु० “प्रौष्ठपदोऽसिते पक्षे षष्ठी भौमेन
संयुता । व्यतीपातेन रोहिण्या सा षष्ठी कपिला
स्मृता” । प्रोष्ठपदो, भादूपदस्य स चात्र दर्शान्तोग्राह्यः,
रोहिणीयोगस्य तत्रैव सम्भवात्” ।
“द्वितीया (अन्या) तु महापुण्या दुर्लभा व्रतिनः
क्वचित् । षष्ठी संवत्सरस्यान्ते सा पुनस्तेन संयुता ।
चैत्रवैशास्वयोर्मध्ये सिते पक्षे शुभोदया । वैशाखे-
ऽपि च राजेन्द्र! द्वारवत्यां परा स्मृता । यदि हस्ते
सहस्रांशुस्तदा कार्य्यं व्रतं ब्रधैः । अस्वां चैव हुतं
दत्तं यत्किञ्चित् प्रतिपादितम् । तस्य सर्वस्य पुण्यस्य
संख्यां वक्तुं न शक्यते । यस्मिन् काले भवेदेतैर्गुणैः
षष्ठो युता तदा । पंञ्चम्यामेकभक्तन्तु कुर्य्यात्तत्र
विचक्षणः । षष्ठ्यां प्रातः समुत्थाय कृत्वादौ दन्तधावनम्”
इत्यादि ।
  • करणव्रतं ब्रह्माण्डपु० “शृणु राजन्! प्रवक्ष्यामि
करणव्रतमुत्तसम् । ववाख्यं बालवञ्चैव कौलवन्तैतिलङ्गरम् ।
बणिजं विष्टिरित्याहुः करणानि पुराविदः । माघमासे
तु सम्प्राप्ते शुक्लपक्षे यदा भवेत् । ववाभिधानकरणमुप-
वासस्तदा मवेत् । एवं सप्त विधेयानि बवाख्यान्यथ
सप्तमे । बवे तु करणे प्राप्ते पूर्वं पूर्वं समाचरेत् ।
ब्राह्मणान् भोजयेच्चात्र सप्तसंख्यान् सदक्षिणम् । अथैवं
बालवादीनि विष्ठ्यन्तानि यथाक्रमम् । उषित्वा सप्त
सप्तैव पूर्वोक्तविधिना नृप! । समापयेद्व्रतं भूरिगोभूहेमा-
दिदानतः । एवंकृते व्रते राजन्! राजसूयाश्वमेधयोः ।
समस्तं फलमाप्तोति सुखं कीर्त्तिं महाश्रियम्” ।
  • कमलसप्तमीव्रतं पद्मपु० “अतःपरं प्रवक्ष्यामि व्रतं
कमलसप्तमीम् । यस्य संकीर्त्तनादेव तुष्यतीह दिवाकरः ।
वसन्तामलसप्तम्यां स्नातः सन् गौरसर्षपैः । तिलपात्रे तु
सौवर्णं निधाय कमले रविम् । वस्त्रोपवीताभरणगन्ध-
पुष्पैरथार्चयेत्” ।
  • कल्किद्वादशीव्रतं धरणिव्रतोक्तम् “तद्वद्भाद्रपदे मासि शुक्ल-
पक्षे तु द्वादशीम् । सङ्कल्प्य विघिना देवमर्चयेत्
परमेश्वरम् । नमोऽस्तु कल्किने पादौ हृषीकेशाय वै
कटिम् । म्लेच्छप्रध्वंसनायोरू जगन्मूर्त्तिस्तथोदरम् ।
श्रीकण्ठायेति कण्ठन्तु खड्पाणीति वै भुजौ ।
स्वनाम्ना शङ्खचक्रे तु विश्वमूर्त्तेस्तथा शिरः । एवमभ्यर्च्य-
मेधावी प्राग्वत्तस्याग्रतो घटम् । विन्यस्य कल्किनं
देवं सौवर्णं तत्र धारयेत्” ।
  • कल्पवृक्षव्रतं पद्मपु० “त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्प-
पादपम् । पलादूर्द्धं यथाशक्त्या तण्डुलं सूर्पसंस्थितम्” ।
सूर्पं द्रोणद्वयम् “दत्त्वा ब्रह्मपदं याति कल्पवृक्षव्रती
स्मृतम्” ।
  • कल्याणसप्तमीव्रतं पद्मपु० “सौरधर्मं प्रवक्ष्यामि पार्थ!
कल्याणसप्तमीम् । तस्या विधानं वक्ष्यामि यथावदनुपू-
र्बशः । यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत् । सा
तु कल्याणिनी नाम विजया च निगद्यते । प्रातर्गव्येन
पयसा स्नानमस्यां समाचरेत् । शुक्लाम्बरघरः पद्मम-
क्षतैः परिकल्पयेत् । प्राङ्मुखोऽष्टदलं मध्ये तद्वृत्तञ्च
पृष्ठ ५००८
सकर्णिकम् । सर्वेष्वपि दलेष्वीशं विन्यसेत् पूर्वतः
क्रमात्” इत्यादि ।
  • काञ्चनपुरीव्रतं गरुड़पु० “काञ्चनाख्या पुरी नाम व्रतं त्रैलो-
क्यपावनम् । शुक्लतृतीया कृष्णा च एकादश्यऽथ
पूर्णिमा । संक्रान्तिर्वा महाभागे कुहूर्वा चाष्टमी तिथिः ।
पर्वस्वेतेषु दातघ्या काञ्चनाख्या पुरी शुभा” ।
  • कामव्रतं भविष्यपु० “पुष्पादितस्त्रयोदश्यां कृत्वा नक्तं मधौ
मधौ । अशोककाञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम् ।
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति । कल्पं विष्णु
पुरे स्थित्वा विशोकः स्यात् पुमान् नृप! । एतत्
कामव्रतं नाम सदा शोकविनाशनम्” ।
  • कामदासप्तमीव्रतं भविष्यात्तरोक्तम् । “फाल्गुनामलपक्षस्य
सप्तम्यां च घनाघन! । उपोसितो नरो नारी समभ्यर्च्य
तमोपहम् । सूर्य्यनाम जपन् भक्त्या भावयुक्तो जिते-
न्द्रियः । तिष्ठन्नुपविशंश्चैव सूर्य्यमेवानुकीर्त्तयेत् ।
ततोऽन्यदिवसे प्राप्ते अष्टभ्यां नियतो रविम् । स्नात्वा
सम्यक् समभ्यर्च्य दद्याद्विप्राय दक्षिणाम्” ।
  • कामदेवव्रतं विष्णुधर्मोक्तम् । “शुक्लपक्षे महाराज! त्रयो-
दश्यामुपोषितः । पूजयेत् कामदेवन्तु वैशाखात्
प्रभृति प्रभो! । गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा ।
दद्याद् ब्रतान्ते विप्राय गन्धवस्त्रयुगं तथा” । “कृत्वा
व्रतं वत्सरमेतदिष्टमासाद्य नाकं सुचिरं मनुष्यः ।
भानुष्यमासाद्य भवत्यरोगः सुखान्वितोरूपसमन्वितश्च” ।
  • कामधेनुव्रतं वह्निपु० “कार्त्तिकः खलु मासो वै सर्वदेवमयो
महान् । कृष्णपक्षे विशेषेण तत्र पञ्च दिनानि तु ।
पुण्यानि तेषु यद्दत्तमक्षयं सर्वकामिकम्” इत्युपक्रमे
अमावस्यादिषु तत्र विशेषमुक्त्वा “नन्दा सुनन्दा
सुरभी सुशीला सुमनास्तथा । निर्गता मथ्यमानाब्धौ
ऊषः स्नानं शुभप्रदम्” । कामधेनोराविर्भावभावित-
स्वदेहात् ऊषः प्रशस्तमित्यर्थः “तत्र स्नात्वा समभ्यर्च्य
धेनुं पूज्य प्रयत्नतः । गोदानफलमाप्तोति नरो विगत-
कलमषः । एकादश्यामुपोष्याथ नरो दिनचतुष्टयम् ।
वृवन स्नापयेद्विष्णुं गव्येन पयसापि वा । नक्ताशी
नोरसैर्हव्यैः पूजयेन्मधुसूदनम् । गन्धपुष्पैः सनैवेद्यैर्ब-
स्त्रालङ्कारकुण्डलैः । तस्मात्त्वमत्रैव च कामधेनुं तद्याः
ममुद्दिश्य तु केशवन्तु । विप्राय वै सर्बगुणाय यत्र
कत्वा व्रतं कृत्स्नमतो हरेस्तु” ।
  • कामव्रतं पद्मपु० “कामं पूज्य त्रयोदश्यां सुरूपो जा-
यते ध्रुवम् । इष्टां रूपवतीं भार्य्यां लभेत् कामांश्च
पुष्कलान् । मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः” ।
  • कामषष्ठीव्रतं वराहपु० “कामव्रतं महाराज! शृणु मे
गदतोऽधुना । येन कामाः समृध्यन्ते मनसा चिन्तिता
अपि । षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् ।
माथमासे सिते पक्षे पञ्चम्यां नक्तभोजनः । षष्ठ्यान्तु
प्राशयेद्धीमान्! फलमेकन्तु पार्थिव! । ततो भुञ्जोत
यत्नेन वाग्यतः शुद्धमोदनम् । ब्राह्मणैः सह राजेन्द्र!
अथ वा केवलं फलम् । तमेकं दिवसं स्थित्वा सप्तम्यां
पारणं नृप! । अग्निकार्य्यं च कुर्वीत गुहरूपेण
केशवम् । पूजयित्वा विधानेन वर्षमेकं व्रतं चरेत्” ।
  • कामावाप्तिव्रतं विष्णुधर्मोत्तरोक्तम् । “कृष्णपक्षे चतुर्दश्यां
महाकालमथार्च्चयेत् । तस्मात्काममवाप्नोति यथेष्टं नात्र
संशयः” ।
  • कार्त्तिकमासव्रतं नारदोक्तम् । “माहात्म्यमभिधास्यामि मास
स्यास्य वरानने! । येन ते जायते भक्तिर्भक्त्या येनार्च्यते
हरिः । कार्त्तिके कृच्छ्रसेवी यः प्राजापत्यरतोऽपि वा ।
षडद्वादशाहं पक्ष वा मासं वा वरवर्णिनि! । क्षपयित्वा
नरो याति तद्विष्णोः परमं षदम् । एकभक्तोऽथ वा
नक्ते तथा सुभ्रु! अयाचिते । कृते नरैद्धैराप्राप्तिर्भवेद्
वै दीपमालया । तस्मिन् हरिदिनं पुण्यं तथा वै
भीष्मपञ्चकम् । प्रवोधनीं नरः कृत्वा जागरेण
समन्विताम् । न मातुर्जठरे याति अपि पापान्वितो नरः” ।
  • कार्तिकेयषष्ठीव्रतं भविष्योत्तरम् “मार्गशीर्षे सिते पक्षे षष्ठी
भरतसत्तम! । पुण्या पापहरा ज्ञेया शिवगीता
गुहप्रिया । निहत्य तारकं षष्ठ्यां गुहस्तारकराजवत् ।
रराज तेन दयिता कार्त्तिकेयस्य सा तिथिः । स्नानदा-
नादिकं कर्म तस्यामक्षयमुच्यते । येऽस्यां पश्यन्ति
गाङ्गेयं दक्षिणाशां समाश्रितम् । ब्रह्महत्यादिपापैस्ते
मुच्यन्ते नात्र संशयः । तस्मादस्यां सोपवासः कुमारं
पर्णसम्भवम् । राजतञ्च महाराज मृण्मयञ्चाथ दारु-
जम् । कारयित्वार्थसारेण कामामर्षविवर्जितः ।
अपराह्णे ततः स्नात्वा सम्यगाचम्य बुद्धिमान् । पद्मासनस्थं
गाङ्गेयं ध्यायंस्तिष्ठेच्च शक्तितः” ।
  • कालरात्रिव्रतं कालिकापु० “साधु भक्तोऽसि धर्मज्ञ!
कालरात्रिव्रतं मम । शृणु! वक्ष्याम्यहन्तेऽद्य
कर्त्तर्व्यं विधिवद्यथा । मासि चाश्वयुजेऽष्टम्यां शुक्ल-
पक्षे जितेन्द्रियः । सत्यवाक् स्थिरचित्तात्मा नियमस्थो
पृष्ठ ५००९
भवेत्सुधीः । कालीव्रतमिदं ख्यातं कर्त्तव्यं सत्कुलो-
द्भवैः” । कालरात्रि काली ।
  • कालाष्टमीव्रतं वामनपु० “नभस्ये मासि च तथा या स्यात्
कृष्णाष्टमी शुभा । युक्ता मृगशिरैणैव सा तु कालाष्टमी
स्मृता । तस्यां सर्वैकलिङ्गेषु तिथौ स्वपिति शङ्करः ।
वसन्तसन्निधाने तु तत्र पूजाऽक्षया स्मृता” । इदं व्रतं
भाद्रादिवर्षसाध्यम् ।
  • कीर्त्तिव्रतं पद्मपु० “अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र
वाग्यतः । एकभक्तं नरः कुर्य्यादष्टम्यां वै विमत्सरः ।
व्रतान्ते विप्रमिथुनं पूज्य धेनुत्रयान्वितम् । वृक्षं
हिरण्मयं दद्यात् सोऽश्वमेधफलं लभेत् । दिवि देवविमा-
नस्थो गीयतेऽप्सरसाङ्गणैः । एतत्कीर्त्तिव्रतं नाम
भूमिकीर्त्तिप्रदायकम्” ।
  • कुक्कुटीव्रतं भविष्योक्तं २०६३ पृ० ति० त० दृश्यम् ।
  • कुबेरतृतीयाव्रतं भविष्यपु० “तृतीयायान्तु वित्तेशं वित्ताद्यो
जायते ध्रुवम्” । पूजयित्वेति शेषः “क्रयादिव्यवहारे
च लाभो दिव्यगुणो भवेत्” ।
  • कुमारषष्ठीव्रतं कालोत्तरोक्तम् । “चैत्रशुकलात् समारभ्य
व्रतार्थमधुनोच्यते । उपोष्य विधिना षष्ठीं विशेषात्
षण्मुखं यजेत्” ।
  • कुम्भीव्रतं स्कन्दपु० “एकादश्यां कार्त्तिकस्य शुकौपक्षे तु
कारयेत् । कुम्भ्यादिनरकेभ्यस्तु उद्धरेत् स्वमशेषतः ।
प्रयत्नात् कार्त्तिके मासि बिष्णारग्रे तु जागरम् । सुशु-
कलैकादशीं रात्रौ विशेषादर्चयन्ति च । चतुरस्रं
चतुर्द्धारं गोमयेनोपलिप्य च । चतुर्भिः शालिगोधूमवर्णकै-
रुपशोभितम् । स्नात्वा नारायणं पूज्य स्थण्डिले प्रति-
मासु च । हुत्वा दिशां वलिं दत्त्वा विधानमवधारयेत् ।
दीपमालान्वितं गन्धपुष्पाद्यैः पूजयेत्ततः । कुम्भीं देव
मयीं ध्यात्वा मुच्यते सर्वकिल्विषै” ।
  • कूर्मद्वादशीव्रतं धरणीव्रतोक्तम् “पौषमासस्य या पुण्या द्वादशी
शुक्लपक्षतः । तस्यां प्रागिव सङ्कल्पं कुर्य्यात् स्नानादिकाः
क्रियाः । निर्वर्त्याराधयेद्रात्रावेकादश्यां जनार्दनम् ।
पृथङमन्त्रैर्द्विजश्रेष्ठ! देवदेवं जनार्दनम् । कूर्म्माय
पादौ प्रथमन्तु पूज्य नारायणायेति कटिं हरेस्तु ।
मङ्कर्षणायेत्युदरं हरेस्तु उरो विशोकाय भवाय
कण्ठम । सुवाहवे चैव भुजौ शिरश्च नमो विशालाय
रथाङ्गशङ्खौ । खनाममन्त्रैश्च सधूपगन्धैर्नानानिवेद्यै-
र्विविधै फलैश्च । अभ्यर्च्य देव कलश तदग्रे संस्थाप्य
माल्यास्तृतदामकण्ठम् । तं रत्नगर्भन्तु पुरेव कृत्वा
स्वशक्तितो हेममयञ्च देवम् । समन्दरं कूर्मरूपेण कृत्वा
संस्थापयेत्ताम्रपात्रे घृतस्य । पूर्णे घटे पर्य्यथ सन्निवे-
श्याथो ब्राह्मणायैव सर्वं तु दद्यात्” । घृतस्य पूर्णे
ताम्रपात्रे समन्दरं कूर्मरूपं निधाय घटोपरि निवेश्य
प्रभाते दद्यादित्यर्थः” ।
  • कृच्छ्रव्रतानि विष्णुरहस्ये “सुपुण्ये कार्त्तिके मासि देवर्षि-
पितृसेविते । क्रियमाणे व्रते नॄणां स्वल्पेऽपि स्यान्महा-
फलम् । कृत्स्नः सवत्सरः पुण्यस्तस्माद्वर्षासु पूजितः ।
वर्षायाः कार्त्तिकः पुण्यः कार्त्तिकाद्भोष्मपञ्चकम् ।
नैवेद्यं पुष्पधूपञ्च अर्चनं सुविलेपनम् । दत्त्वैकका-
र्त्तिके विष्णोः फलं सांवत्सरं लभेत् । अतः कार्त्ति-
कमासाद्य सदैव शुभकाङ्क्षिभिः । हरिमुद्दिश्य कर्त्तव्य”
सुशक्त्या सुकरं व्रतम् । कार्त्तिकस्यासिते पक्षे वायु-
भक्षश्चतुर्दशीम् । समुपोष्य नरो भक्त्या पूजयेद्
गरुड़ध्वजम् । उपवासस्तु कर्त्तव्यो वारिमध्ये स्थितेन च ।
जलकृच्छ्रमिदं कृत्वा विष्णुलोकं व्रजेन्नरः । दशम्यां प०
ञ्चगव्याशी एकादश्यमुपाषितः । अर्चयेच्चाच्युतं देवं
नियतश्च व्रतञ्चरेत् । कार्त्तिकस्यासिते कृत्वा नरो
देवव्रतञ्चरेत् । दामोदरं समभ्यर्व्य देवो वैमानिको भचेत् ।
अपः क्षीरं दधि घृतं सप्तम्यादिचतुर्दिनम् । कार्त्तिक-
स्यासिते पीत्वा एकादश्यामुपोषितः । कृच्छ्रं पैतामहं
नाम कुर्वन् संपूजयेद्धरिम् । प्राप्नोति परमं विष्णोः
स्थानं त्रैलोक्यपूजितम् । त्रिरात्रं षयसः पानमुपवास-
परस्य च । षष्ट्यादौ कार्त्तिके शुक्ले कृच्छ्रो माहेन्द्र
उच्यते” इत्यादि ।
  • कृच्छ्रचतुर्थीव्रतं स्कन्दपु० “मार्गशीर्षे शुभे मासि सिते
पक्षे तु षण्मुखम् । चतुर्थ्यां नियमं गृह्य विघ्नेशं
पूज्य भक्तितः । पुष्पेर्गन्धैश्च नैवेद्यैः लड्डुकैश्च सुसं-
स्कृतैः । पललैस्तिलपिष्टैश्च तथ सोहानकैः प्रभुम् ।
पूजयित्वा विधानेन प्रार्थयेत्तत्र मानवः” ।
  • कृत्तिकाव्रतं भविष्योत्तरोक्तम् । “कार्त्तिक्यां पौर्णमास्यान्तु
गृह्णीयात् कृत्तिकाव्रतम् । षट् मासांस्तु व्रतं
यावदिदं सञ्चिन्त्य चेतसि । पारणे पारणे चापि पुराणज्ञे
द्विजोत्तमे । उद्यापनं प्रयच्छत यथा विभवसारतः ।
कृत्तिकासु स्वयं सोमः कृत्तिकासु वृहस्पतिः । यदा स्यात्
सोमयारेण सा महाकात्तिकी स्मृता । ईदृशी बहुभि-
र्वर्षैर्बहुपुण्यंन लभ्यते । लब्धापि न वृथा नेया य-
पृष्ठ ५०१०
दीच्छेच्छेय आत्मनः । अन्यापि कार्त्तिकी पार्थ!
समुपोष्या विधानतः । तस्या विधानं राजेन्द्र! शृणु-
ष्वैकाग्रमानसः । कार्त्तिके शुक्लपक्षस्य पौर्णमास्यां
दिनोदये । नक्तेन नियमं कुर्य्याद् दन्तधावनपूर्वकम् ।
उपवासेन वा शक्त्या ततः स्नात्वा जलाशये” इत्यादि ।
  • कृष्णचतुर्दशीव्रतं भविष्यपु० “बालवृद्धातुराणाञ्च भोगिनां
स्त्रीषु वालिशे । विधानन्तेषु वक्ष्यामि मुच्यते ते यथा
सुत! । भूतायां फाल्गुने कुर्य्यात् कृष्णपक्षेऽतिभक्तितः ।
दरिद्राणामनाथानामक्षमाणां विशेषतः । सर्वकामप्रदं
कृष्णचतुर्दश्यां शिवव्रतम् । रात्रौ विशेषपूजा तु
महास्रपनसंयुता । महादीपद्वयं देयं शतमष्टोत्तरं पुनः ।
सघृतं गुग्गुलं धूपं शिवं प्रशुपतिं यजेत् । खण्डखा-
द्यान्यनेकानि भक्ष्याणि विविधानि च । यथा समर्प्ययेत्
भक्त्या वित्तशाद्यं विना सुत! रात्रौ जागरणं कार्य्यं
शिवस्याग्रे शिवं जपेत्” । शिवधर्भोक्तम् “नारी
चोपवसेदब्दं वृष्णामेकाञ्चतुर्दशीम् । वर्षान्ते प्रतिमां कृत्वा
शालिपिष्टमयीं शुभाम् । गीतानुलेपनैर्माल्यैः पीतवस्त्रैस्तु
पूजयेत् । पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत्” ।
  • कृष्णद्वादशीव्रतं वराहपु० “एकभक्तेन नक्तेन तथैवायाचितेन
च । उपवासेन दानेन न निर्द्वादशिको भवेत् ।
मार्गशीर्षस्य मासस्य श्रुतं सर्वं त्वया ब्रुध! । अश्रीयान्मा-
सिमास्येवं कुर्य्यात्संवत्सरं व्रती । नामानि देबदेवस्य
केशवस्य पृथक् पृथक् । कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठो-
ऽथ जनार्दनः । उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः ।
योगेशः पुण्डरीकाक्षोमासनामान्यनुक्तमात्” । विष्णुध-
र्मोत्तरोक्तम् “माघ्यान्तु समतीतायां द्वादशी या भवेन्-
नृप! । ततः प्रभृति कर्तव्यं व्रतमेतदुपोषिता । द्वाद-
शीषु च कृष्णासु नाम कृष्णस्य कीर्त्तयेत् । तेनैव नाम्ना-
कर्त्तव्यौ जपहोमौ तथैव च । तिलैर्निवेदनं कार्य्यं
होमः कार्य्यस्तथा तिलैः । पौष्यान्तु समतीतायां कृष्णा
या द्वादशो भवेत् । तस्यां व्रतावसाने तु तिलान् दद्याद्
द्विजातिपु । सुवर्णञ्च महीपाल! रक्तवस्त्रं तथैव च ।
संवत्सरमिदं कृत्वा व्रतं मनुजपुङ्गव! । तिर्य्यग्योनिं
न चाप्तोति म्यर्गलोकञ्च गच्छति । यावज्जीवं व्रतमिदं
यः करोति समाहितः । न स दुःखमवाप्नोति नारकं
मनुजोत्तम! । यत्र वैतरणी दुर्गा क्षुरधारा सपर्वता ।
पायानां यातना यत्र तत्रासौ न गमिष्यति” ।
  • कृष्णव्रत प्रध्मपु० “एकादश्यां तु नक्ताशी मञ्चकं विनिवे द
येत्” । विप्रायेति शेषः “कृत्वा मर्त्ये च सौवर्णं स
विष्णोः पदमाप्नुयात् । एतत् कृष्णव्रतं नाम कल्पान्ते
सुखलाभकृत्” ।
  • कृष्णषष्ठीव्रतं भविष्योत्तरोक्तम् । “कृष्णषष्ठ्यां प्रयत्नेन कृत्वा
नक्तं विधानतः । मासो मार्गशिरस्यादावंशुमानिति
पूजयेत् । विधिवत् प्राश्य गोम्त्रमनाहारो निशि
स्वपेत् । अतिरात्रस्य यज्ञस्य फलं प्राप्तोति मानवः” ।
इत्यादि तदवधिवर्षसाध्यमिदम् ।
  • कृष्णाष्टमीव्रतं देवीपु० “कृष्णाष्टम्यां विधानं वै निखिलं क्रि-
यते यथा । क्रमेण मे तथा ब्रूहि तत् कर्त्तव्यं सुरे-
श्वर” । ईश्वर उवाच “हेमन्ते त्वथ सम्प्राप्ते मासि
मार्गशिरे तथा । नक्तं कृत्वा शुचिर्भूत्वा गोमूत्रं प्रा-
शयेन्निशि” । नक्तं कृत्वा नक्तमनुकल्पम् “आहरेद्वाशनं
यत्र यथान्नञ्च तथाशयेत् । तेन नक्तं समुद्दिष्टं प्राशिता
प्राशितेन च” इति । तेन नक्तं समुद्दिष्टं प्राशितेन-
चेति क्वचित्प्राशितेन क्वचिदप्राशितेनेत्यर्थः ।
“कृष्णाष्टम्यां विधानं वै शङ्करं पूज्य भक्तितः । अतिरात्रस्य
यज्ञस्य फलमष्टगुणं भवेत् । स्मरेच्च शाङ्करं नाम सायं
रात्रौ दिवा यथा” इत्यादि । तदवधि वर्षसाध्यम् “कृष्णा-
ष्टम्यां चैत्रमासे स्नातो नियतमानसः । कृष्णमभ्यर्च्य
पूजाञ्च देवक्यां कुरुतेतुयः । निराहारो जपन्नाम कृष्णस्य
जगतः पतेः । उपविश्य जपन् स्नातः क्षुतप्रस्खलिता-
दिषु । पूजायाञ्चापि कृष्णस्य सप्तवारान् प्रकोर्त्तयेत् ।
पाषण्डिनो विकर्मस्थान् नालपेन्नैव नास्तिकान् । प्रभाते
वाम्बुना स्नातो दद्याद्विप्राय दक्षिणाम् । भुञ्जीत
कृतपूजश्च कृष्णस्यैव जगत्पतेः” इत्यादि । इदं तदवधि वर्ष-
साध्यम् । भविष्योत्तरोक्तम् । “कृष्णाष्टमीव्रतं पार्थ!
शृणु पापहरं परम् । धर्मस्य जननं लोके रुद्रप्रीति-
करं परम् । मार्गशीर्षेऽथ वै मासि दन्तधावनपूर्ब-
कम् । उपवासस्य नियमं कुर्वन्नक्तस्य च व्रती” ।
समर्थासमर्थभेदेन व्यवस्थितो विकल्पः । इत्यादि तदवधि
वर्षसाध्यमिदम् । व्रतान्तरं कृष्णाष्टमीशब्दे दृश्यम् ।
  • कृष्णैकादशीव्रतं विष्णुधर्मोत्तरोक्तम् । “एकादशी तथा
कृष्णा फाल्गुने मासि भार्गव! । छन्दोदेवस्य कर्त्तव्या
पूजा धमंभृताम्बर । पूजनाच्छन्ददेवस्य येनायं गुणवर्जि-
तम् । न प्राप्नोति तथा प्रीतिं गुणवन्तं न संशयम्” ।
  • कोकिलाव्रतं भविष्योत्तरोक्तम् । “आषाढ़पौर्णमास्यान्तु
सन्ध्याकाले ह्युपस्थिते । सङ्कल्पयेन्मासमेकं श्रावणीप्रभृति
पृष्ठ ५०११
ह्यहम् । स्नानं करिष्ये नियता ब्रह्मचर्य्ये स्थिता
सती । भोक्ष्यामि नक्तं भूशय्याङ्करिष्ये प्राणिनान्द-
याम् । इति सङ्कल्प्य पुरुषो नारी वा ब्राह्मणान्तिके ।
प्राप्यानुज्ञान्ततः प्राह्णे सर्वसामग्रिसंयुतः” इत्यादि ।
  • कोटीश्वरीतृतीयाव्रतं स्कन्दपु० “शृणु भद्रे! परं गुह्यं
सर्बकामफलप्रदम् । दुर्भगाणाञ्च नारीणां सौभाग्यकरणं
परम् । लक्षेश्वरीति विख्यातं ततः कोटीश्वरीव्रतम् ।
तृतीया शुक्लपक्षे तु मासि भाद्रपदे भवेत् । तस्यां ब्रतं
तु संग्राह्यं यावद्वर्षचतुष्टयम् । उपवासेन कर्त्तव्यं
वर्षे वर्षे तु सुन्दरि! । अखण्डानां तण्डुलानां तिलानां
वा सुलोचने! । लक्षमेकं विरच्याथ क्षिपेत् पयसि
शोभने । क्षीरसंमिश्रितैः कार्य्या देव्यामूर्त्तिः सुलोचना ।
कृत्वा तु पुष्पप्राकारं पुष्पमालाभिमण्डितम् । संस्थाप्य
पार्वतीं देवीं पूजयेद्भक्तिशक्तितः” इत्यादि ।
  • कौमुदीव्रतं विष्णुरहस्योक्तम् । “मासि चाश्चयुजे शुक्ल
एकादश्यामुपोषितः । गृह्णीयात् तु व्रतं श्रेष्ठं कौमुदाख्यं
महाफलम् । अहिंसकः शुचिर्भूत्वा धौतवासा जिते-
न्द्रियः । द्वादश्यामर्चयेत् स्नात्वा वासुदेवं जगद्गुरुम्” ।
  • क्षेमव्रतं विष्णुधर्मोत्तरोक्तम् । “यक्षाणां राक्षसानाञ्च
चतुर्दश्याञ्च पूजनम् । कृत्वा क्षेममवाप्नोति क्रियासा-
फल्पमेव च” ।
  • गणपतिचतुर्थीव्रतं भविष्यपु० “चतुर्थ्यान्तु महाराज!
निराहारो व्रतान्वितः । दत्त्वा तिलान्नं भुङ्क्ते यः
खयं भुङ्क्ते तिलोदकम्” । दिवा निराहारो रात्रौ
भूङ्क्ते इति विरोधपरिहारः । वर्षद्वये समासिद्धि-
र्व्रतस्य तु यदा भवेत् । विनायकस्तस्य तुष्टो ददाति
फलमीप्सितम्” ।
  • गन्धव्रतं शिवधर्मोक्तम् “पौर्णमास्यामुपवसेद्वदमेकं
सुयन्त्रितः । वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् ।
सुविचित्रैर्महायानैर्दिव्यगन्धविभूषितैः । युगकोटिशतं
साग्रं शिवलोके महीयते” ।
  • गलन्तिकाव्रतं शिवरहस्योक्तम् “पवित्रतोययुक्तैर्यः कुम्भैः
ग्रीष्मे शिवोपरि गालयेद् यः पयोधारां स ब्राह्मपद-
मश्नुते” ।
  • गायत्रीव्रतं गरुड़पु० “अथोत्तमं परं ब्रह्मन्नपरं शृणु!
भद्रदम् । चतुर्दश्यां महाभाग! सर्वरोगार्त्तिशान्तये ।
ज्वरगुल्मप्लीहशूलकुष्ठातिसारसंयुतः । मर्त्ये नित्यमिदं
कार्य्यं तदार्त्तिव्यप्रनुत्तये । स्नात्वा तु धृतसङ्कल्पः सर्व-
कामविवर्जितः । आदित्यमुपतिष्ठेत गायत्रीञ्च०
जषन्मुहुः । उदयात् पूर्वमारभ्य यावदस्तं गतो रविः ।
निराहारो जितक्रोधो तावत्तिष्ठेत् समाहितः ।
रवावस्तङ्गते देवमर्चयेत् पुरुषोत्तमम् । उपोष्य विधिवत् ।
स्नात्वा तथा पर्वणि सुव्रतः” । पर्वणि, पौर्णमास्याम् ।
एतच्च शुक्लचतुर्दशीव्रतं, पुराणे शुक्लपक्षस्य व्रतप्रकरणे
पठितत्वात् ।
  • गुड़तृतीयाव्रतं भविष्यपु० “गुड़पूपास्तु दातव्या मासि भाद्र-
पदे तु या । तृतीया पायसेनापि वामदेवस्य प्रीतये” ।
  • गुणावाप्तिव्रतं विष्णुपु० “अतःपरं प्रवक्ष्यामि चतुर्मूर्त्ति-
व्रतं तव । द्विधा तु देवदेवस्य मूर्त्तिर्भवति यादव ।
थोरा सौम्या शिवा चान्या घोरा भवति पावका ।
शिवा चाग्निपतिर्यस्मादग्नीषोमात्मकं जगत् । द्विधा
घोरा विनिर्दिष्टा द्विधा सौम्या ततः पुनः । घोरा
वह्निश्च सूर्य्यश्च सौम्या सोमजलाधिपौ । तेषां च पूजनं
कार्य्यं प्रतिपत्प्रभृति क्रमात् । शुक्लपक्षात् तथारभ्य
फाल्गुनस्य द्विजोत्तम! । आदित्यं पूजयेद्राजन्! प्रथमे-
ऽह्नि परः शुचिः । द्वितीयेऽह्नि तथा वह्निं तृतीयेऽह्नि
जलाधिपम् । चतुर्थेऽह्नि शशाङ्कञ्च यथावन्मानवोत्तमः” ।
  • गुरुव्रतं भविष्योक्तम् “अनुराधास्वथाचार्य्यं देवानां पूज्य
भक्तितः । पूर्वोक्तक्रमयोगेन सप्त नक्तान्यथाचरेत् ।
हैर्म हेममये पात्रे स्थापयेच्च वृहस्पतिम् । पीताम्बर-
यु गच्छन्नं पीतयज्ञोपवीतकम् । पादुकाच्छत्रसहितं
सुदण्डं सकमण्डलुम् । संपूज्य पुष्पनिकरैर्धूपैर्दीपा-
क्षतादिभिः । खण्डखाद्योपहारञ्च द्विजाय प्रतिपादयेत्” ।
  • गुर्वष्टमीव्रतं भविष्यपु० “मासि भाद्रपदे राजन्! शुक्लपक्षे
यदाष्टमी । गुरुवारेण संयुक्ता सा तिथिर्द्धर्मवर्द्धिनी ।
सम्पूर्णा सर्वपापर्घ्नी प्रेतयोनिविनाशनी । गृह्णीया-
न्नियमं सम्यक् दन्तधावनपूर्वकम् । एकभक्तेन राजेन्द्र!
तस्यां देवी वृहस्पतिः । स्नानं नद्यां तड़ागे वा गृहे वा
नियमात्मना । सौवर्णं कारयेज्जीवं राजतं वा
नरोत्तम! तस्याभावे यथाशक्त्या श्रीखण्डेनापि कारयेत्” ।
  • गुह्यकद्वादशीव्रतं भविष्योत्तरे “द्वादश्यां गुह्यकानर्च्य
पललाक्षतसंयुतैः । हैमं विप्राय वै दद्यादुपवासपरायणः ।
एतद्वै गुह्यकं प्रोक्तं व्रतं पापहरं शुभम्” ।
  • गृहपञ्चमोव्रतं भविष्योत्तरे “सर्वौषध्युदकस्नातः पञ्चम्यां
पूज्य पद्मजम् । सर्वोपस्करदानञ्च यः करोति गृहा-
श्रमे । गृहाटोदूखलं शूर्पं शिलां स्थालीञ्च पञ्चभीम्” ।
पृष्ठ ५०१२
गृहाटः पेषणयन्त्रमुदूखलं धान्यकण्डकम् । “उदकुम्भञ्च
पूर्णञ्च एतेषामनुगञ्च यत् । एतानि गृहिणां गेहे
प्रस्थाप्य पुरुषोत्तम! । उपस्करकृते नारी न सीदति
कदाचन । एतद्गृहव्रतं नाम मर्वसौख्यप्रदायकम्” ।
  • गोपदत्रिरात्रव्रतं भविष्योक्तम् “पार्थ! भाद्रपदे माभि शुक्ल-
पक्षे दिनोदये । तृतोयायां चतुर्थ्याञ्च श्रद्धया परिवत्-
सरम् । उपवासेन गृह्लीयात् व्रत नाम्ना तु गोपदम् ।
स्नात्वा नरोऽथ नारी वा पुष्पधूपविलेपनैः । दध्ना च
घृतमिश्रेण पिष्टकैर्वनमालया । अभ्यञ्जयेद्गवां शृङ्गे
सपुच्छे चैव भारत! । दद्याद्गवाह्निकं भक्त्या वासः पूर्वा-
पराहयोः । अनग्निपक्वं भुञ्जीयात् तैलक्षारविवर्जितम्” ।
  • गोपालनवमीव्रतं गरुड़पु० “तथा समुद्रगामिन्यां नवम्यां
स्नानमाचरेत् । शुचौ तत्पुलिने तीरे सिकताभिर-
लङ्कृते । वसुदेषसुतं विष्णुं गोपीगणनिषेवितम् ।
वनमालाचितोरस्कं वन्यपुष्पैरलङ्कृतम् । बर्हिबर्हकृता-
पीड़ं पीतकौषेयवाससम् । समानवेषैरतुलैः क्रीड़द्भिरि-
तरेतरम् । वृतं गोपकुमारैश्च नीलाकुञ्चितमूर्द्धजम् ।
ध्यात्वा देवं परं विष्णुं सर्वलोकेश्वरेश्वरम् । वन्यपुष्पैश्च
गन्धाद्यैः शुचिभिश्च यथाविधि” ।
  • गोमयादिसप्तमीव्रतं भविष्यपु० “यः क्षिपेद्गोमयाहारः द्वा-
दश सप्तमोः क्रमात् । राजेन्द्र! यावकाहारः शीर्णप-
र्णाशनोऽपि वा । क्षीराशीवैकभक्तो वा भिक्षाहारोऽथ
वा पुनः । जलाहारोऽथ वा भूत्वा पूजयित्वा दिवाकरम् ।
पुष्पापहारैर्विविधैः पद्मसौगन्धिकोत्पलैः । नानाप्रकारै-
र्गन्धैस्तु धूपैर्गुग्गुलचन्दनैः । शर्करापायसाद्यैश्च विचि-
त्रैश्च विभूषणैः । अर्च्चयित्वा नरश्रेष्ठ! हिरण्यान्ना-
दिभिर्नरः । यथोक्तफलमाप्नाति क्रतुभिर्मूरिदक्षिणैः ।
तदत्र प्राप्यते वीर! सप्तम्यां केवलं रवेः” ।
  • गौरीचतुर्थीव्रतं पद्मपु० “उमाचतुर्थ्यां माघे तु शुक्लायां
योगिनीगणैः । प्राग्भक्षयित्वा सृष्ट्वा च भूयः स्वाङ्गात्
स्वकैर्गुणैः । तस्मात् सा तत्र सपूज्या नरैः स्त्रीभि-
र्विशेषतः । कुन्दपुष्पैः ग्रयत्नेन सम्यग्भक्त्या
समाहितैः । कुङ्कुमालक्तकाभ्याञ्च रक्तसूत्रैः सकङ्कणैः ।
अर्घैः पुष्पैस्तथाधूपैर्दीपैर्वलिमिरव च । गुड़ार्द्रकाभ्यां
पनसलवलीभ्याञ्च घालकेश । पूज्या स्त्रियश्च विधवा-
स्तग्रा विप्राश्च घाभनाः । सौमाग्यवृद्धये पश्चात् भोक्तव्यं
बन्धभिः सहेति ।
  • गौरीव्रतं कारीनरोक्तम “गौरीघतमथो वक्ष्ये स्त्रीणां
सौभाग्यवर्द्धनम् । चैत्रशुक्लतृतीयायां गौरीव्रतं
समाचरेत् । जपोष्य तु प्रयत्नेन विधानमिदमाचरेत्” ।
  • गोवत्सद्वादशीव्रतं भविष्योत्तरे “संप्राप्ते कार्त्तिके मासि
शुक्लपक्षे नृपोत्तम! । द्वादश्यां कृतसङ्कल्पः स्नात्वा शुद्धे
जलाशये । नरो वा यदि वा नारी नक्तं सङ्कल्प्य
चेतसि । ततो मध्याह्नसमये कृत्वा देवाचनादिकम् ।
प्रतीक्षेतागमं भक्त्या गवां गोध्यानतत्परः । सवत्सां
तुल्यवर्णाञ्च शीलिनीं गां पयस्विनीम् । चन्दनादिभि-
रालिप्य पुष्पमालाभिरर्चयेत्” ।
  • गोविन्दद्वादशीव्रतं विष्णुरहस्ये
“द्वादश्यां भोजयेद्विप्रान् तेभ्यो दद्याच्च दक्षिणाम ।
प्रतिमासं तिथौ तस्या ङ्गोभ्या दद्याद्गवाह्निकम् । गवां
क्षीरेण संयुक्तं दध्ना वाऽथ घृतन वा । मृत्पात्रे च
समश्नीयादक्षारलवणं व्रती । संवत्सरमुपोष्यैव गोविन्द-
द्वादशीं नरः । पुनर्गोभ्यो यथा शक्त्या भूयो दद्या-
द्गवाह्निकम् । गोविन्दद्वादशी या तु उपोष्य विधिवन्नरः ।
प्राप्नोति विधिवद्दत्त्वा गोसहस्रस्य यत् फलम्” ।
  • चण्डिकाव्रतं मविष्योत्तरोक्तम् “अष्टम्यःञ्च चतुर्दश्यां पक्ष-
योरुभयोरपि । योऽब्दमेकं न भुञ्जीत चण्डिकाराधने
रतः । स याति परमं स्थानं यत्र सा चण्डिका स्थिता” ।
  • चतुर्दशीजागरणव्रतं कालिकापु० “कार्त्तिके शुद्धभूतायां
हरं स्नाप्य घृतादिभिः” । शुद्धभूतायां शुक्ल
चतुर्दश्याम् “समालभ्य न्यसेद्भूयः सौवर्णं वा प्रप्रञ्चकम् ।
सुरभिभिस्ततः पुष्पैरभ्यर्च्य गुग्गुलं दहेत् । नैवेद्यञ्च
पुनर्दत्त्वा वलिं वाह्ये विनिःक्षिपेत् । वितानं दोपमादर्शं
वस्त्रयुग्मं ध्वजास्तथा । धूपोत्क्षेपञ्च घण्टाञ्च दत्त्वा देवाय
शम्भवे । प्रदक्षिणं ततः कुर्य्याद्दण्डवद्भैरवस्य हि ।
ततस्तस्योपविष्टाच्च जागरं परिकल्पयेत्” ।
  • चतुर्दशीव्रतं भविष्योत्तरे “चतुर्दश्यां निराहारः
समभ्यर्च्य त्रिलाचनम् । पुष्पधूपादिनैवेद्यै रात्रौ
जागरणेन च । पञ्चगव्यं निशि प्राश्य स्वपेद्भूमौ विमत्सरः” ।
  • चतुर्दश्यष्टमीनक्तव्रतं भविष्योत्तरे “शृणु! नक्तोपवासस्य
पिधानं पाण्डुनन्दन! । येन विज्ञानमात्रेण नरो
मोक्षमवाप्नुयात् । येषु केषु च मासेषु शुक्लपक्षे
चतुर्दशीन । ब्राह्मणं भोलयित्वा तु पारभेत् श्रुतितो व्रतम् ।
मापि मासि भवन्ति द्वे अष्ठमी च चतुर्दशी । शिवा
र्चनरतो भूत्वा शिवध्यानैकमानसः । वसुधां भाजनं
कृत्वा भुञ्जीयान्तक्रभोजनम् । उपवासात्परं भौक्ष्यं भैक्ष्या
पृष्ठ ५०१३
तृपरप्रयाचिवम् । अयाचितात् परं नक्तं तस्मान्नक्तेन
भाजयेत् । देवैश्च भुक्त पूर्वाह्ल मध्याह्ने मुनिभिस्तथा ।
अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः । सर्व-
वेलामतिक्रम्य नक्तभीजी सदा भवेत् । हविष्यभोजनं
म्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशर्य्यां नक्त-
भोजी सदा भवेत्” ।
  • चतुर्मासी(चातुर्मास्य) व्रतं भविष्योत्तरे “शृणु पार्थ! प्रव-
क्ष्यामि गोविन्दशयनव्रतम् । कटिदानं समुत्थानं चतु
मांसीव्रतक्रमम् । मिथुनस्थे सहस्रांशौ स्वापयन्मधुसू-
दनम् । तुलां प्राप्ते महाराज! पुनरुत्थापयेच्च तम् ।
अधिशयिते च देवे एष एव विधिक्रमः । नान्थथा स्वाप-
वेत् कृष्णं नान्यथोत्थापयेत्तथा । आषाढ़स्य सिते पक्षे
एकादश्यामुपाषितः । स्वापयेत् प्रतिमां विष्णोः शङ्ख-
चक्रमदाधराम् । काञ्चनीं राजतीं ताम्रमयीं पित्तलजां
तथा । पीताम्बरधरां सौम्यां पर्य्यङ्के चाश्रिते शुभे ।
शुक्लवस्त्रपटच्छन्ने सोपधान सुपूजिते । प्रभाषेच्च ग्रतो
विष्णाः कृताञ्जलिपुटस्तथा । चतुरो वार्षिकान् मासान्
देवस्योत्थापनावधि । इमं करिष्ये नियमं निर्विघ्नं
कुरु मेऽच्युत! । स्त्री वा नरो वा मद्भक्तो धर्मार्थं सुदृ-
ढ़व्रतः । गृह्णायान्नियमानेतान् दन्तधावनपूर्बकान् ।
तेषां फलानि वक्ष्यामि तत्कर्तृणां पृथक् पृथक ।
मधुस्वरो भवेद्राजा! पुरुषो गुड़वर्जनात् । तैलस्य वर्जनादेव
सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागाच्छत्रुनाशमवा
यात् । मधूकतैतत्यागेन सौभाग्यमतुल लभेत् । योगा-
भ्यसी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् । कटुकाम्लतिक्त-
मधुक्षारकषायसञ्चयम् । यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यं
नाप्नुयात् क्वचित् । ताम्बूलं वर्जयेत् भोगी रक्तकण्ठश्च
जायते । घृतत्यामाच्च लाबण्यं सर्वस्निग्धतनुर्भवेत् ।
फलत्यागाच्च मतिमान् बहुपुत्रश्च जायते । शाकपत्राश-
नाद्भोगी अपक्वादमलो भवेत् । पादाभ्यङ्गपरित्यागाच्छि-
रोऽभ्यङ्गं विवर्जयेत् । दाप्तिमान् दीप्तकायेन सोऽपि
क्षोद्रपतिर्भवेत् । दधिदुग्धैकनियमी गोभक्ती गोपति-
र्भवेत् । इन्द्रातिथित्वमाप्नोति स्थालीपाकस्य वर्जनात् ।
लभते सङ्गतिं दीर्घां तैलपक्वस्य वर्जनात् । भूमौ प्रस्त-
रशायी च बिप्रो मुनिवरो भवेत् । सदा मुनिः सदा
योगो मधुमांसस्य वर्जनात् । निर्व्याधिर्नीरुगोजस्वी
सूरामद्यं विवर्जयन् । एवमादिपरित्यागात् धर्मः स्यात्
अभिनन्दन! । एकान्तरोपवासेन ब्रह्मलोके महीयते ।
धारणान्नखरोम्नाञ्च गङ्गास्रातफलं लभेत् । मौनव्रती
भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् । अयं चातुर्मास्य-
व्रतारम्भो गुर्वस्तमयादावपि कार्य्यः । यदाह वृद्ध-
गर्गः “न शैशवन्न मौद्यञ्च शुक्रगुर्वोर्न बालते” ।
“खण्डत्वं चिन्तयेच्चादौ चातुर्मास्यविधौ नरः । पादा-
भिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् । भूमो भुङ्क्ते
सदा यस्तु स पृथिव्याः पतिर्भवेत् । नमोनारायणा-
येति जपन्यज्ञफलं लभेत् । विष्णुपादाब्जसंस्पर्शाद्दिन-
पापात् प्रमुच्यते । पादोदकाभिषेकाद् वै गङ्गास्नानं
दिने दिने । पर्णेषु च नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ।
नित्यं शास्त्रसमाख्यानाल्लाकान् यस्तु प्रबोधयेत् । व्यास-
स्तुष्यति तस्याशु विष्णु लोकं स गच्छति । कृत्वा प्रेक्ष०
णकं विष्णोर्लोकमप्सरसां लभेत् । तोर्थाम्बुस्नापना-
द्विष्णानिर्मलं देहमाप्नुयात् । पञ्चगव्याशनात् पार्थ!
चान्द्रायणफलं लभेत् । अयाचितेन प्राप्नाति पुत्रान् धर्म्यान-
शेषतः । षष्ठान्नकालभोक्ता यः कल्पस्थायी भवेद्दिवि” ।
षष्ठान्नकालभोक्ता उपवासद्वयान्तरितैकभक्तः “शिलोञ्छि-
लेन भुञ्जानः प्रयागस्नानमाप्नुयात् । विष्णुदेवकुले कुर्य्या-
दुपलेपनमार्जने । कल्पस्थायी भवेद्राजा स नरो नात्र
सशयः । प्रदक्षिणशत यस्तु करोति स्तुतिपाठकः ।
हसयुक्तविमानेन स तु विष्णुपुरं व्रजेत् । गीतवाद्य-
करो विष्णोर्गान्धर्वं लोकमाप्नुयात् । यामद्वयं जलत्या-
गान्न रोगैरभिभूयते । गुड़व्रती नरो दद्याढद्भुतं ताम्र०
भाजनम् । सहिरण्यं नृपश्रेष्ठ! लवणस्याप्ययं विधिः” ।
  • चतुर्मूर्त्तिचतुर्थीव्रतं विष्णुधर्मात्तराक्तम् “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतं तव । वासुदेवांशकात् जाताः सर्वे
देवगणा नृप! । अधिकेन तु लेशेन साध्या जातास्तथा
सुराः । तत्रापि त्ताधिकांशेन चतुरात्मा हरिःस्मृतः ।
नरी नारायणश्चैव हरिः कृष्णश्च वीर्य्यवान् । चतुरात्मा
हरिर्जातो गृहधमल्य यादव! । आदित्येषु तु यावुक्तौ
मित्रारुणसंज्ञकौ । ताबेव नान्यौ जानीहि हरिकृष्णौ
च यादव । आदित्येषु यावुक्तौ शक्रविष्णू सुरोत्तमौ
तावेव सिद्धसाध्येषु नरनारायणौ पुनः । चैत्रशुक्लचतु-
र्थ्यान्तु सोपवासस्तु पूजयेत् । देवेशं चतुरात्मानं वित्त
शक्त्या नराधिप! । ब्रतमेतन्नरः कृत्वा पूर्ण्णद्वादशवत्स-
रम् । न दुगतिमवाप्नोति मोक्षोपायञ्च विन्दति” ।
  • अतुर्युगव्रत विष्णुधर्मोक्तम् “इदमन्यत् प्रवक्ष्यामि चतुर्युगव्रतं
तव । कृतादिकं चतुर्युगं पूजयेत् सुममाहितः । प्रथमे
पृष्ठ ५०१४
चैत्रशुक्लस्य दिने पूज्यं कृतं युगम् । श्वेतेन वस्त्र-
युग्मेन गन्धमाल्यादिना तथा । चैत्रशुक्लसमारम्भे
षथमेऽहनि पूजयेत् । कृतं शुक्लेन सर्वेण गन्धमाल्यादिना
द्विज! । द्वितीयेऽहनि रक्तेन तथा त्रेतान्तु
पूजयेत् । तृतीयेऽहनि पीतेन द्वापरं पूजयेद् बुधः ।
चतुर्थेऽहनि कृष्णेन तिष्यं संपूजयेद् युगम् । सिर्द्धार्थकैः
कुङ्कुमेन तथैव च हरिद्रया । तथैवामलकैः स्नानमम-
सैर्दिवसक्रमात् । क्षीरेण प्राणयात्रान्तु कुर्य्यात् प्रत्यह-
मेव च । कृत्वा व्रतं वत्सरमेतदेकं चतुर्युगं मोदति
नाकपृष्ठे । संपूज्य देवं युगमूर्त्तिसंज्ञं चतुर्युगं शास्ति
महीं समग्राम्” ।
  • चन्दव्रत वराहपु० “चन्द्रव्रतं पञ्चदश्यां शुक्लायां नक्तभो-
जनम् । दश पञ्च च वर्षाणि व्रतमेतत् समाचरेत् ।
अश्वमेधसहस्राणि राजसूयशतानि च । इष्टानि तेन
राजेन्द्र! एतद्व्रतं समाचरेत्” । पद्मपु० “चान्द्रायणञ्च
यः कृत्वा हैमञ्चन्द्रं निवेदयेत् । चन्द्रव्रतमिदं प्रोक्तं
चन्द्रलोकप्रदायकम्” ।
  • चन्द्ररोहिणीश्यनव्रतं पद्मपु० “रोहिणीचन्द्रशयनै सोम
व्रतमिहोत्तमम् । तस्मिन्नारायणस्यांशमर्चयेदिन्दुनामभिः ।
यदा सोमदिने युक्ता भवेत्पञ्चदशी क्वचित् । अथ वा ब्र
ह्यनक्षत्रं पौर्णमास्यां प्रजायते । तदा स्नानं नरः
कुर्य्यात् पञ्चगघ्येन सर्षपैः” ।
  • चन्द्रार्कव्रतं विष्णुधर्मोत्तरोक्तम् “अमावास्यान्तवेलायां
सोपवासो नरोत्तम! । पक्षद्वये पूजयन्ति चर्न्द्रावेकराशिगौ ।
आदित्यमष्टदलके शशिनं षोड़शारके । आदित्यं सर्व-
रक्तेव चन्द्रं शुक्लेन यादव! । माल्यादिना महाभाग!
होमयेत् तिलतण्डुलान् । घृतक्षीरयुतान् राजन्!
तथार्चयेद्यथाविघि । व्रतान्ते ब्राह्मणेन्द्राय! कनकं प्रति-
पादयेत् । रंजतं वा महाभाग! य इच्छेद्भूतिमात्मनः ।
कृत्वा व्रतं वत्सरमेतदिष्टं दद्याच्च दोपान् विधिवत् प्रभू-
तान् । चान्द्रं पदं प्राप्य विवर्द्धते सदा धनान्वितः
स्यात् लिदिवे इहैव” ।
  • चम्पाषष्ठीव्रतं स्कन्दपु० “यदि लभ्येत जीवेऽह्नि दैवेन
नृपसत्तम । षष्ठी भाद्रपदे शुक्ला वैधृतेन् रुमन्विता ।
विशाभा भोमयोगेन सा चम्पेतीह विश्रुता । देवासुर-
मनुष्याणां दुर्लभा षष्टिहायनी । कृते त्रेतायां पञ्चा-
शद्धायनो द्वापरे पुनः । चत्वारिंशत् कलौ त्रिंशद्धायनी
दुर्लभा ततः” ।
  • चान्द्रायणव्रत ब्रह्मपु० “अथ शुक्लचतुर्दश्यां पौषमासे
समाहितः । चान्द्रायणव्रतं मासं ग्राहयेत् सर्वपापजित् ।
पूर्णेन्दुपौर्णमास्यान्तु पूजयेत् प्रत्यहं जलैः” ।
  • चित्रभानुसप्तमीव्रतं भविष्यपु० “सप्तम्यां पूज्य ऋक्षेशं चित्र-
भानुं दिवाकरम् । रक्तैश्च गन्धकुसुमैर्महदारोग्य
माप्नुयात्” ।
  • चैत्रभाद्रमाथतृतीयाव्रतं भविष्योत्तरे “चैत्रे मासि तृती-
यायां दन्तधावनपूर्वकम् । उपवासस्य नियमान् गृह्णी-
याद्भक्तिभावतः । अञ्जनं च सताम्बूलं सिन्दूरं रक्तवा-
ससी । बिभृयात् सोपवासापि अवैधव्यकर परम् ।
बिधवा गतिमार्गेण कुमारी च यदृच्छया । कुर्य्यादार्य्यार्च-
नविधिं श्रूयतामत्र च क्रमः । विधिर्भाद्रपदे ह्येष सर्वसौ-
ख्यप्रदायकः । सप्तधान्यविधानेन शूर्पस्यां पूजयेदुमाम्”
  • चैत्रशुक्लप्रतिपद्विहितं तिलकव्रतम् भविष्यपु० “वसन्ते
किंशुकाशोकशोभिते प्रतिपत्तिथिः । शुक्लातस्यां प्रकु-
र्वीत स्नानं नियममास्थितः । नारी नरो वा राजेन्द्र!
संतर्प्य पिटृदेवताः । नद्यास्तीरे तड़ागे वा गृहे वा
तदलाभतः । पिष्टातकेन विलिखेद्वत्सरं पुरुषाकृतिम् ।
ततः प्रभृत्यनुदिनं तिलकालङ्कृतं मुखम् । धार्य्यं
सेवत्सरं यावच्छशिनेव नभस्तलम् । एवं नरो वा नारी
वा ब्रतमेतत् समाचरेत् । सदैव पुरुषव्याघ्र! भोगान्
भुवि भुनक्त्यसौ” ।
  • जयन्तीसप्तमीव्रतं भविष्यपु० “माथस्य शुक्लपक्षे तु सप्तमी
या त्रिलोचना । जयन्ती नाम सा प्रोक्ता पुण्या
पापहरा तथा । उपोष्या येन विधिना शृणुतं पार्व-
तीप्रिय! पारणानि तु चत्वारि कथितानि
च पण्डितैः । पश्चम्यामेकमक्तन्तु षष्ठ्यां नक्तं प्रकीर्त्तितम् ।
उपवासस्तु सप्तम्यामष्टम्यां पारणम्भवेत्” इत्यादि इदं
वर्शसाध्यम् ।
  • जयपौर्णमासीव्रतं भविष्यपु० “पौर्णमासी महाराज!
सोमस्य दयिता तिथिः पूर्णमासी भवेद् यस्यां पूर्ण-
मासी ततः स्मृता । तस्यां तु स्रोतसि स्नात्वा सन्तर्प्य
पितृदेवताः । आलिख्य मण्डले सोमं नक्षत्रैः सहितं
विभुम् । पूजयेत् कुसुमैर्हृद्यैर्नैबेद्यैर्थृतपाचितैः । शुक्ल-
वस्त्रैर्दक्षिणाभिः पूजयित्वा क्षमापयेत् । शाकाहारेण
मुन्यन्नैर्नक्तं भुञ्जीत वाग्यतः” इत्यादि ।
  • जयापञ्चमीव्रतं भविष्यपु० “माहात्म्यमपि वक्ष्यामिं पञ्चम्यास्तवे
भारत! । जयेति या च विख्याता ब्रतिना जयदा-
पृष्ठ ५०१५
यिनो । यस्माज्जया जयाशब्दं कुर्वन्ति व्रतिनो बुधाः ।
परिपूर्णं व्रतं यस्यां सा ज्ञेया जयपञ्चमी । जया च
विजया चैव जयन्ती पापनाशिनी” जया, कार्त्तिक-
शुक्लपञ्चमी” ।
  • जयावाप्तिव्रतं विष्णुधर्मोत्तरोक्तम् “आश्वयुज्यामतीतायां
प्रतिपत्प्रभृतिक्रमात् । पूर्ववत् पूजयेद्देवं लोकनाथं
त्रिविक्रमम्” । पूर्ववदिति रूपावाप्तिव्रतवत् “त्रिरा-
त्र्यन्ते तु कार्त्तिक्यां यद्याद् भक्षणमुत्तमम् । सर्वशस्य-
धरङ्कृत्वा शक्त्या रत्नैरलङ्कृतम् । कृत्वा व्रतं भासमिदं
यथोक्तं प्राप्नोति लोकं सुचिरं नृवीर । तत्रोष्य कालं
सुचिरं मनुष्यः प्राप्नोति सर्वत्र जयं त्रिलोक्याम्” ।
  • जयासप्तमीव्रतं भविष्यपु० “जया च विजया चैव जयन्ती
चापराजिता । महाजया च नन्दा च भद्रा वामा
प्रकीर्त्तिता । शुक्लपणस्य सप्तम्यां नक्षत्रं पञ्चतारकम् ।
यदा भवेत् तदा ज्ञेया जयानामेति सप्तमी” । पञ्चतारक-
मिति रोहिण्यश्लेषामघाहस्ताश्च । तस्यां दत्तं हुतं
जप्तं तर्पणं देवपूजनम् । सर्वं शतगुणं प्रोक्तं पूजा-
ञ्चापि दिवाकर । हंसे हस्त प्रारूढ़े शुक्ला या
सप्तनी परा” । हंसः सूर्य्यः “वर्षमेकन्तु कर्त्तव्यं बिधि-
नानेन भास्करम् । सौवर्णं कारयेद्भक्त्या द्विभुजं पद्म
धारिणाम् । पारणत्रितयं तस्यां क्रियते गोपतेः पुरः” ।
  • जातित्रिरात्रव्रतं भविष्योत्तरे “ज्वैष्ठे मासि च कर्त्तव्यं
त्रयोदश्यान्तु पाण्डव! । नियमश्च ग्रहीतव्य आचार्य्या
नुज्ञया ततः । कृत्वैकभक्तं द्वादश्यामुपवासत्रयञ्चरेत् ।
मण्डपं कारयेत् तत्र सपताकं मनोहरम् । तत्र जातिः
प्रकर्त्तव्या स्वर्णाद्विभवसारतः । रौप्यपुष्पाणि कार्य्याणि
वंशपात्रे मिथापयेत् । तत्र देवास्त्रयः पूज्या ब्रह्मविष्णु,
महेश्वराः । सपत्नीकाः शुभैः पुष्पैः फलैश्च विविधैस्तथा” ।
  • जामदग्न्यद्वादशीव्रतं धरणीव्रतोक्तम् “वैशाखस्यैवमेवन्तु
संकल्पविधिना नरः । तद्वत् स्नानं मृदा कृत्वा ततो देवालयं
व्रजेत् । तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः ।
जामदग्न्याय पादौ तु उदरं सर्वधारिणे” इत्यादि ।
  • ज्ञानावाप्तिव्रतं विष्णुधर्मोक्तम् “भगवन्! कर्मणा केन
बुद्धियुक्तो भवेन्नरः । एतदेव मनुष्याणां मनुष्यत्वमुदा-
हृतम्” । मार्कण्डेय उवाच । “चैत्र्यान्तु समतीतायां
यावन्मासं दिने दिने । पूर्ववत् पूजयेद्देवं नृसिंहमप-
राजितम्” । पूर्ववदिति चैत्रमासोक्तरूपावाप्तिव्रतव-
देकभक्तवहिःस्नानभूशव्यादिकं कर्त्तव्यमित्यर्थः । “होमञ्च
प्रत्यहं कुर्य्यात् तथा सिद्दार्थवैर्नृप! । ब्राह्मणान्
भोजयेच्चात्र तथा त्रिमधुरं नृप!” । त्रिमधुरं मधुघृत-
शर्कराः “वैशाख्यां कनकन्दद्यात् त्रिरात्रोपोषितो नरः ।
ज्ञानावाप्तिप्रदन्त्वेतद्व्रतं बुद्धिविवर्द्धनम् । कृत्वा व्रतं
मासमिदे यथोक्तमासाद्य नाकं सुचिरं मनुष्यः । मानु-
ष्यमासाद्य तु बुद्धियुक्तो ज्ञानेव युक्तश्च तथा भवेच्च” ।
  • ज्येष्ठाव्रत भविष्योत्तरे “मासे भाद्रपदे शुक्लेपक्षे ज्येष्ठा
यदा भवेत् । रात्रौ जागरणं कृत्वा गीतवादित्रनिः-
स्वनैः । एवंविधविधानेन एभिर्मन्त्रैः सुपूजयेत् । एह्येहि
त्वं महाभागे! सुरासुरनमस्कृते! । ज्येष्ठे त्वंसर्वदे-
वानां मत्समापे सदा भव” ।
  • ज्यैष्ठव्रतानि महाभारते “ज्येष्ठामूलन्तु वै मासमेकभक्तस्तु
यः क्षिपेत् । ऐश्वर्य्यमतुलं श्रेष्ठं पुमान् स्त्री वाभिजा-
यते” । विष्णुधर्मे “कृष्णार्पितमना ज्यैष्ठमेकभक्तेन
यः क्षिपेत् । अहिंस्रः सर्वभूतेषु वासुदेवपरायणः” ।
  • तपश्चरणसप्तमीव्रतं भविष्योत्तरे “शृणुष्वावहितो भूत्वा
युधिष्ठिर! तपोव्रतम् । मार्गशोर्षादिमासेषु कर्त्तव्यं भूति-
मिच्छता । तस्मिन् स्थितो व्रते विप्रो बह्वृचो
वेदपारगः । ब्रह्मवित् कृष्णसप्तम्यां दद्यादर्घ्यं महीतले ।
ऋग्वेदवर्गत्रितयं पठित्वा सूर्य्यवल्लभम्” इत्यादि ।
  • तपोव्रतं पद्मपु० “माथे निशार्द्रवासाः स्यात् सप्तम्यां
गोप्रदो भवेत् । स्वर्गलोकमवाप्नोति तपोव्रतमिहोच्यते” ।
  • ताम्बूलसंक्रान्तिव्रतं स्कन्दपु० अथान्यां सम्प्रवक्ष्यामि ताम्पू-
लाख्यामनुत्तमाम् । विधानं पूर्ववत् कुर्य्याद्धान्यसंक्रान्तिवच्च
तत् । ताम्बूलचन्दनाद्यञ्च प्रगृह्याज्ञां द्विजोत्तमात् ।
यावत् संवत्सुरं पूर्णं रात्रौ रात्रौ ततः षरम् ।
ताम्बूलं भक्षयेद् विप्रान् कारयेच्चैव नान्तरम् । वत्स-
रान्ते तु कमलं कृत्वा चैव तु काञ्चनम् । पत्रकोशञ्च
कुर्वीत तथा पूगीफलालयम्” इत्यादि ।
  • तारकद्वादशीव्रतं भविष्योत्तरे “कथं तत् कृष्ण! कर्त्तव्यं
तारकद्वादशीव्रतम् । पापोऽपि सद्गतिं प्राप्तो यत्प्रभा-
वात् स्वगध्वज!” । कृष्ण उवाच “मार्गशीर्षे सिते पक्षे
गृहीत्वा द्वादशीव्रतम् । अकृत्तिमे जले स्नानमपराह्णे
समाचरेत् । प्रणम्य भास्करं भक्त्या कृत्वा देवार्चनं तथा” ।
  • तिथिनक्षत्रवारव्रतानि कालोत्तरे “नक्षत्रतिथियोगेन
तिथीनां वारयोगतः । पुनरेव प्रवक्ष्यामि ब्रतानि तु
यथास्थितम् । रोहिण्याञ्चाष्टमीयोगो यदा भवति
सौम्यके । विशेषपूजा कर्त्तव्या पुत्रकामेण यत्नतः । पुष्ये
पृष्ठ ५०१६
शुक्लचतुर्दश्यां गुरुयोगो यदा भवेत् । अथ वा
सोमसंयोगो विशेषात् पूज्य शङ्करम् । पायसं घृतसंयुक्तं
शिवाय विनिवेदयेत् । धूपदीपोपहाराद्यैः पूर्वबत्
पूजयेच्छिवम् । प्राशनन्तु घृत कार्य्यं सर्वकामप्रद व्रतम् ।
आदित्यरेवतीयोगश्चतुदेश्यां यदा भवेत् । अष्टम्यां वा
मघायोगो शिवं संपूज्य पूर्ववत् । तिलास्तु प्राशने
शस्ता आदित्यव्रतमीरितम् । आरोग्यं जायते तस्य
पुत्रवन्धुगणैः सह । रोहिणीचन्द्रयोगश्च चतुर्दश्यां
यदा भवेत् । अष्टम्यां सोमसयोगात् तदा चन्द्रव्रतं
चरेत् । प्रागुक्तेन विधानेन शिवं संपूज्य यत्नतः । दधि
क्षीरन्तु नैवेद्यं प्राशनं क्षीरमेव च । कीर्त्तिमारोग्य-
भैश्वर्य्यं प्राप्नुयान्नानृतं वचः । अश्विनीभौमसंयोगश्चतु-
र्दश्यां यदा भवेत् । अष्टम्यां भरणीयोगस्तदा
भौमव्रत चरेत् । सपूज्य परया भक्त्या शिवं पञ्चोपचा-
रतः । रक्तोत्पलप्राशनन्तु साम्राज्यं प्राप्नुयाच्छुभम् ।
रोहिणीबुधसंयोगश्चतुर्दश्यां यदा भवेत् । अष्टम्यां
वा समासेन बुधव्रत समाचरेत् । शिवा पूज्या विधा-
नेन महास्नानपुरःसरम् । महावर्त्तिसमीपे तु प्राशनं
पायसंघृतम् । पुत्रार्थदाराश्च यशो वर्द्धते तस्य नान्यथा ।
रेवतीगुरुसंयोगश्चतुर्दश्यां यदा भवेत् । अष्टम्यां
तिष्यसंयोगाद् गुरुव्रतं तदा चरेत् । प्राशनं कपिलाज्यन्तु
ब्रह्मारससमन्वितम् । वागीशत्वमवाप्नोति व्रतस्यास्य
पभाबतः । श्रवणं भार्गवयुतं चतुदश्यां यदा भवेत् ।
शक्रव्रतं तदा विद्धिपुनर्वस्वष्टमी यदा । संपूज्य
परमेशानं यथाविभवविस्तरैः । प्राशनं मधु चैवात्र कर्त्तव्यं
संयतात्मना । महाफलमवाप्नोति व्रतस्यास्य प्रभावतः ।
भरणीशनियोगस्तु चतुर्दश्यां यदा भवेत् । आर्द्रायोग-
स्तथाष्टम्यां तदा शनिव्रतं चरेत् । शिवं संपूज्य विधिवत्
प्राशनं सस्यमेव च । शनिरेकादशस्थो हि फलं य
च्छति शोभनम् । विरुद्ध नश्यते वत्स! तदर्थं व्रत-
माचरेत् । हेमकुप्यप्रवालञ्च कम्बलन्तु क्रमेण च ।
शङ्खञ्च तीक्ष्णलौहञ्च क्रमाद् यत्नन दापयेत् । यथा
सम्भवतो वत्स! आचार्य्याय प्रयत्नतः” ।
  • तिथियुगलव्रत यमस्मृतौ “द्वेधाष्टम्यौ तु मासस्य
चतुर्दश्यौ तु द्वे तथा । अमावस्यापौर्णमास्यौ सप्तम्यौ-
द्वादशाद्वयम् । संवत्सरमभुञ्जानः सततञ्च जितेन्द्रियः ।
ब्रह्मचर्य्य फलं यच्च यत्फलं सत्रयाजिनाम् । ऋतुगाभि
फल यच्च तदवाप्नोत्यभोजनात्”
  • तिन्दुकाष्टमीव्रतं भविष्यपु० “ज्यैष्ठे मासि द्विजश्रेष्ठ! शुक्ला-
ष्टम्यां त्रिलोचनम् । यः पूजयति देवेशमोशलोकं ब्रज-
न्नरः । ज्यैष्ठे मासि तथाषाढ़े श्रावणे च तथा परे ।
पूजयेच्चतुरोमासान् नीलोत्पलकदम्बकैः । त्रिपुरान्तकरं
शम्भुं त्र्यम्बकान्धकसूदनम् । गन्धानाञ्च कदम्बन
पूजयेत् गुग्गुलेन च । टेम्बुरुकफलं विप्र! प्राशयेत्
कायशाधनम्” टेम्बुरुकन्तिन्दुकफलम्” ।
  • तिलदाहीव्रतं स्कन्दपु० “विधिना केन कर्त्तव्यं तिल
दाहीव्रतात्तमम् । कस्मित्मासे तिथौ चैव विधिना केन
तद्भवेत्” श्रीभगवानुवाच “पौषमासे च या कृष्णा तिथि
रेकादशी शुभा । तामुपोष्य तदा स्नानं कृत्वा नारायणं
जपेत्” इत्यादि ।
  • तिलद्वादशीव्रतं विष्णुधर्मोक्तम् “माघमासे तु सम्प्राप्ते
आषाढ़र्क्षं भवेद् यदि । मूलं वा कृष्णपक्षस्य द्वादश्यां
नियतव्रतः । गृह्णीयात् पुण्यफलदं विधानं तस्य मे
शृणु! । देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ।
कृष्णनाम्ना तु सम्पूज्य एकादश्यां महामतिः ।
उपाषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् । संस्तूय
नाम्ना तेनैव कृष्णाख्येन पुनः पुनः । दद्यात्तिलांस्तु
विप्राय कृष्णां मे प्रोयतामिति । स्नानप्राशनयोः
शस्तास्तथा कृष्णतिला मुने! । विष्णुप्रीणनमन्त्रैश्च समाप्ते
वर्षपारणे । कृष्णकुम्भास्तिलैः सार्द्धे पक्वान्नेन च
संयुताः । छत्रोपानद्युगैः सार्द्धं संवीता रत्नगर्भिणः ।
ब्राह्मणानां प्रदेयास्ते यथावन्माससंख्याया” इत्यादि ।
विष्णुधर्मे व्रतान्तरम् “माघ्यान्तु समतीतायां श्रवणेन
तु संयुता । द्वादशी या भवेत् कृष्णा प्रोक्ता सा
तिलद्वादशी । तिलैः स्नानं तिलैर्होमं नैवेद्यं तिलमोदकैः ।
दीपैश्च तिलतैलेन तथा देय तिलोदकम् । तिलाश्च
देया विप्रेषु तस्मिन्नहनि पार्थिव । उपवासदिने
राजन्! हातव्याश्च तथा तिलाः । उपोषितनापरेऽह्नि
होतव्यश्च विशेषतः । इन्घनञ्च प्रदातव्यं ब्राह्मणेषु तथा
नघ! । तिलप्रस्थं तदा हुत्वा सोपवासो जितेन्द्रियः ।
न दुर्गतिमवाप्नोति नात्र कार्य्या विचारणा” इत्यादि ।
  • तीब्रव्रत सौरपु० “अथात्मचरणौ भित्त्वा शिवक्षेत्रे वसेन्नरः ।
देहान्ते शिवसायुज्य लभते नात्र संशयः” ।
  • तुरगसप्नमीव्रतं विष्णुधर्मोत्तरे “चैत्रमासस्य सप्तम्यां शुक्ल-
पक्षे नराधिप! । गोमयेनोपलिप्ते तु मृदा कुर्य्यात् तु
सण्डलम । तत्राष्टपत्रं कमलं कर्चव्यं वर्णकैः शुभै
पृष्ठ ५०१७
कृतोषवासस्तन्मध्ये भास्करं पूजयेन्नरः । व्रते समाप्ते
दातव्यास्तुरगा ब्राह्मणाय तु । प्राप्याश्वमेधस्य फलं
यथावल्लोकानवाप्याथ पुरन्दरस्य । उपोष्य राजन्!
मुचिरञ्च काल सायुज्यमायाति दिवाकरस्य” ।
  • तुष्टिप्राप्तिवृतीयाव्रतं विष्णुधर्मोत्तरे “तृतीया श्रावणे कृष्णाया
च श्रवणसंयुता” । श्रावणोऽत्र पौणेमास्यन्तोमासो ग्राह्यः
अतः श्रवणकृष्णवृतीयायाः श्रवणयुक्तत्वं न दुर्घटम् ।
“तस्यां संपूज्य गोविन्दं तुष्टिमग्र्यामवाप्नुयात्” ।
  • तेजःसंक्रान्तिव्रतं स्कन्दपु० “अथान्यां सम्प्रवक्ष्यामि तेजः-
संक्रान्तिमुत्तमाम् । संक्रान्तिवासरं प्राप्य स्नानं कृत्वा
विचक्षणः । शालितण्डुलसंयुक्तं कारणं कारयेच्छु-
भम् । तन्मध्ये दीपकं स्थाप्य प्रज्वलन्तं स्वतेजसा ।
तन्मुखे मादकं स्थाप्य ब्राह्मणाय निवेदयेत् । अर्घ्यञ्च
पूर्ववत् कार्य्यमेकभक्तन्तु पूर्ववत् । संवत्सरे तु संपूर्णे
कुर्य्यादुद्यापनं बुधः” इत्यादि ।
  • त्रयादशद्रव्यकमप्तमीव्रतं भविष्योत्तरे “भानोर्दिने सिते
पक्षे अतीते चात्तरायणे । सव्रोहिभिस्तिलयवान् सह
माषमुद्गैर्गोधूममांसमधुमैथुनकांस्यपात्रैः । अभ्यञ्जना-
ञ्जनशिलातलचूर्णितानि षष्ठीव्रती परहरेदहनीष्ट-
सिद्ध्यै । देवान् पितृन् मुनिगणान् सजलाञ्जलीभिः
सन्तर्प्य पूज्य गगनाङ्गनहस्तदोपम । हुत्वानले
तिलयवान् बहुशोघृताक्तान् भूमौ स्वपेत् हृदि निधाय
दिनेशविम्बम् । यानि त्रयोदशदिनैरिह वर्जितानि
द्रव्याणि तानि परिहृत्य दिने च षष्ट्याम् । संप्राश्य
शुद्धचणकानिह वर्षमेकं प्राप्नोति भारत! पुमान्
मनसेप्सितानि” ।
  • त्रिगतिसप्तमीव्रतं भविष्यपु० “सप्तम्यां शुक्लपक्षे तु फाल्-
गुन्यां यो यजेन्नरः । जपेद्बलीति नाम भक्त्या पुनः
पुनः । देवार्चनं वाष्टशतं कृत्वैवं तु जपेच्छुचिः ।
स्नातः प्रस्यानकाले तु उत्थाने स्खलिते क्षुते ।
पाषण्डान्! पतितांश्चैव तथैयान्त्यावसायिनः । नालापयेत्
तथा भानुमर्चयेच्छद्धयान्वितः । इदञ्चोच्चारयेद्भानोर्म-
नसा ध्यानतत्परः । हंस हंस कृपालो! त्वं अगतीनां
गतिर्भव । संसारार्णवमग्नानां त्राता भा दिवाकर ।
एक प्रसाद्योपवासं कृत्वा नियतमानसः । पूर्वाह्णे एव
वान्येद्युः सकृत् प्रास्यार्जुनीयकम्” आर्जुनीयक, गोशकृ-
द्गाश्रयम्
  • त्रिविक्रषतृतीयाव्रतं विष्णुधर्मोत्तरं “शुक्लपक्षे तृतीयायां
सोपवासो जितेन्द्रियः । मण्डलत्रितयं कुर्य्याद् वर्णकेन
पृष्ट्वक् पृथक् । मण्डलं दक्षिणं भागे श्वेतं कुर्य्यात्
ततो नरः । रक्तं मध्ये रवेः कुर्य्यात् तादृक्श्वेतं ध्रुवस्य
तु । विष्णोः पदत्रयं तेषु पूज्यं स्यात् मण्डलेन तु ।
भूमौ तु प्रथम पादं द्वितोयं सूर्थभण्डले । तृतीये तु
ध्रुवे देवे पूजयेत् प्रयतः शुचिः” ।
व्रतान्तरं विष्णुधर्मोत्तरे “द्वितोयञ्च प्रवक्ष्यामि शृणु!
त्रैविक्रम ब्रतम् । भूमिस्तु प्रथमः पादः अन्तरिक्षं
तथा परः । तृतीयो दिवि विज्ञेया देवदेवस्य चक्रिणः ।
भुवः पतिः स्मृता वह्निरन्तिरिक्षस्य चानलः । दिशां-
पतिस्तथा सूर्य्यस्तस्य विष्णोः पदत्रयम् । ज्यैष्ठे-
शुक्लतृतीयायां सोपवासा जितेन्द्रिय । कल्ये कूपजले
स्नाता वह्निं संपूजयेन्नरः । एतत् सवत्सरं कृत्वा
नरस्त्रैविक्रमं व्रतम् । सर्वकामसमृद्धस्य यज्ञस्य फलमश्रुतं” ।
व्रतान्तरं विष्णुधर्मोत्तरे “वक्ष्यामि ते महाभाग!
तव त्रैविक्रमव्रतम् । तृतीय नृपशार्दुल! तन्मे
निगदतः शृणु! । ज्यैष्ठे शुक्लतृतीयायां नरः
सम्यगुपोषितः । भुवः सम्पूजन कुर्य्याद्धूपमाल्यानुलेपनैः ।
दोपैः रत्नैश्च विविधैर्दद्याद् विप्रेषु दक्षिणाम् ।
वीजपूणांनि पात्राणि सहिरण्यानि भक्तितः । पूजैवमन्त-
रिक्षस्य मास्याषाढ़े विधीयते । दक्षिणा तत्र दातव्या
तथा वासायुग द्विजे । दिवः पूजा च कर्त्तव्या श्रा-
वण प्राग्वदेव तु । छत्रञ्चोपानहं युग्म दक्षिणा
तत्र दापयेत् । एवं मासत्रयेणेह पारणं प्रथमं भवेत् ।
मासत्रयेण चान्येन ततो मासत्रये पुनः । ततो
मासत्रये चान्यटवमन्यन्नचान्यथा । विज्ञेथमित्थं धर्मस्य
पारणानां चतुष्टयम्” इत्यादि ।
  • त्रिविक्रमत्रिरात्रशतव्रतं विष्णुरहस्ये “यत्त्विरात्रशतं कुर्य्यात्
समुद्दिश्य जनार्दनम् । कुलानां शतमादाय स याति
भवनं हरेः । नवम्यादिसिते पक्षे नरोमार्गशिरस्य च ।
प्रारभेत त्रिरात्राणां शतं तु विधिवत् ब्रती । श्रद्धधानो
जितक्रोधो नित्यस्नायी क्षमान्वितः । अभ्यर्चयेत् सदा
विष्णुं कर्मणा मनसा गिरा । अष्टोत्तरसहस्रन्तु शतं
वानुदिनं जपेत् । अष्टम्यामेकभक्ताशी दिनत्रयमुपा-
वसेत् । एकादश्यां शुचि स्नाती वासुदेवार्चने रतः । द्वा-
दश्यां पूजयेद्देवं गन्धमाल्यविलेप्तनैः । नैवेद्यधूपदीपा-
र्द्यैर्गीतनृत्यैश्च केशवम् । अनेन विधिना कृत्वा त्रिरा-
त्राणां शतं नरः । निर्वापयेत् ततो भक्त्या विशेषबि-
पृष्ठ ५०१८
धिना व्रतम् । संप्राप्ते कार्त्तिके मासि व्रतमेतदनुत्तमम्” ।
प्रतिमासं त्रिरात्रद्वयमिति पञ्चाशता मासैः शतं
तच्चाधिमासद्वतयोताच्चतुर्भिर्वर्षैरिति कार्त्तिके समाप्तिः ।
  • त्रिविक्रमव्रतं विष्णुधर्मोत्तरे “करोति केशवप्रीत्यै कार्त्तिकं
मासमाप्तवान् । पूर्वे वयसि यत्तेन जानताऽजानतापि वा ।
पापमाचरितं तस्मान् मुच्यते नात्र संशयः । अनेनैव विधा
नेन मार्गशीर्षेऽपि माधवम् । समर्भ्यर्च्यैकभक्तं वै
वर्णिभ्यो यः प्रयच्छति” इत्युपक्रमे । त्रैमासिकं व्रतमिदं यः
करोति नरेश्वर! । सविष्णुप्रीणनात् पाषैर्लघुभिः
परिमुच्यते । द्वितीये बत्सरे राजन्! मुच्यते चोपपातकैः ।
तद्वत् तृतीयेऽपि कृतं महाषातकनाशनम् । ब्रतमेत-
न्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् । त्रिभिः संवत्सरै-
श्चैव प्रददाति फलं नृणाम् । त्रिभिर्मासैस्त्र्यवस्थाभि-
स्त्रिविधात् पातकान्नृप! । त्रीणि नामानि देवस्य
मोचयन्ति त्रिवार्षिकैः । यतस्ततो ब्रतमिदं त्रिविक्रममुदा-
हृतम् । सर्वपापप्रशमनं केशवाराधनं परम्” ।
सौरत्रिविक्रमव्रतं भविष्योत्तरे “समभ्यर्च्यजगन्नाथं
देवमर्कमथापि वा । एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणा-
र्पणम् । करोति भास्करप्रीत्यै कार्त्तिकं मासमाप्तवान् ।
पूर्वे वयसि यत्तेन जानताऽजानताऽपि वा । पापमाच-
रित तस्मान् मुच्यते नात्र संशयः । व्रतमेतन्नरैस्त्रीभि-
स्त्रिमिर्मासैरनुष्ठितम् । त्रिभिः संवत्सरैश्चैव प्रददाति
फलं नृणाम् । त्रिभिर्मासैस्त्र्यवस्थासु त्रिविधात्
पातकान्नृप! । त्रीणि नामानि देवस्य मोचयन्ति त्रिवार्षि-
कात् । यतस्ततो व्रतमिदं त्रिविक्रममुदाहृतम् । सर्व-
भूतप्रशमनं भास्कराराधनं परम्” ।
  • त्र्यम्बकव्रतं पद्मपु० “चतुर्दश्यान्तु नक्ताशी समान्ते गोयुग-
प्रदः । स शैवं पदमाप्रोति यजन्त्रैयम्बकं व्रतम्” ।
  • दशादित्यव्रतं ब्रह्माण्डपुरा० “वक्ष्ये सौरव्रतं पुण्यं दुर्द्दशा-
न्तकरं परं । दशाकरं हि भूतानां मनोरथकरं परं ।
भानुवारे सिते पक्षे दशम्यां चैव नारद! । प्रातः काले-
ऽथ मध्याह्ने म्नानं कुर्य्याद्यथाविधि” इत्यादि ।
  • दशावतारव्रतं विष्णुपु० “एकादश्यां निराहारो द्वादश्यां
पुरुषोत्तमम् । अर्चयेद् ब्राह्मणमुखे स गच्छेत्परमं पदम् ।
एषा तिथिर्व्वैष्णवी स्याद्द्वादशीशुक्लपक्षगा । तस्या-
माराधयेद्देवं प्रयत्नेन जनार्दनम्” ।
  • दान्यत्थाष्टमोव्रतं भविष्यपु० “कार्त्तिके मासि विप्रेन्द्र! पुत्र-
कामो नरोसुने! । अष्टम्यां कृष्णप्रक्षस्य पूजयेद्विधिवद्द्विज!
उमाञ्च तां सतीं देवीं विधियद्ब्रह्मसत्तम! । य एतत् कुरुते
भक्त्या उमामहेश्वर व्रतम् । समैकमेवं विप्रेन्द्र! स याति
परमां गतिम्” । समैमेकं संवत्सरम् “चतुर्भिः
पारणैरेवं समैकमेक कीर्त्तितं बुधैः । प्रथमन्तु त्रिभिर्मासैः
पारणं कार्त्तिकादिभिः । कार्त्तिके मार्गशीर्षे तु पौषे
मासि तथा परे । उन्मत्तकस्य पुष्पैस्तु फलैर्भक्ष्यैरने कशः” ।
  • दिवाकरव्रतं भविष्यपु० “आदित्यवारं हस्तेन युक्तं गृह्णीत
पाण्डव! । ततः प्रत्यादित्यदिनं सप्त वारान् प्रषू-
जयेत् । एकभक्तेन नक्ताशी ब्राह्मणान् पूजयेत् दिवा ।
दक्षिणां तु यथा शक्त्या दद्यात् विप्राय भक्तितः”
  • दीप्तिव्रतं पद्यपु० “सन्घ्यादीपप्रदो यस्तु समां तैलञ्च
वर्जयेत् । समान्ते दीपकान् दद्याच्चक्रं शृलञ्च काञ्चनम् ।
वस्वयुग्मञ्च विप्राय स तेजस्वी भवेदिह । रुद्रलोकमवा-
प्नोति दीप्तिव्रतमिदं स्मृतम्” ।
  • दुर्गन्धदौर्भाग्यनाशनत्रयोदशीव्रतं भविष्योत्तरे “ज्यैष्ठे मासि
सिते पक्षे त्रयोदश्यां युधिष्टिर! । स्रात्वा पुण्यनदीतीये
पूजयेछुभदेशजम्” इत्यादि ।
  • दुर्गानवमीव्रतं भविष्यपु० “नवम्यां तु सिते पक्षे नियतः
सञ्जितेन्द्रियः । मासि चाश्वयुजे वीर! कार्त्तिके
कार्त्तिकोत्तरे । पुष्ये च पूजयेद् दूर्गां जातिपुष्पैर्विधा-
नतः । धूपार्थं गुग्गुलं दद्यान्नैवेद्यं गुड़पूपकान् ।
दुर्गेति नाम जप्तव्यं प्रयतोऽष्टशतं नृप! । माघे च
फाल्गुने मासि चैत्रे चैत्रोत्तरे नृप! । शुक्लपक्षे तु
अष्टम्यामुपवासपरायणः” इत्यादि वर्षसाध्यम् ।
  • दुर्गाव्रतं देवीपु० “देवीव्रतं प्रवक्ष्यामि सर्वकामप्रसाधनम् ।
श्रावणे शुक्लपक्षे तु अष्टम्यां वायुभोजनः । स्नात्वा
सार्द्धपुटोभूत्वा जितक्रोधः क्रियान्वितः । देवीं सस्नाष्प
तोयेन पुनःक्षीरेण वारिणा । ततौ गुग्गुलधूपञ्च सतु
रुष्कन्तु दापयेत्” इत्यादि तदवधिवर्षसाध्यम् ।
  • दूर्वागणपतिचतुर्थीव्रतं सौरपु० “चीर्णमेतद् व्रतं सर्वैः पुरा-
कल्पे षड़ानन! । चतुर्थी या भवेदुक्ता नभोमासस्य
पुण्यदा । तस्यां व्रतमिदं कुर्य्यात् कार्त्तिक्यां वा षड़ा-
नन ! । गजाननं चतुर्वाहुमेकदत्तं विपाटिनम् ।
तथा हैमीमथो दूर्वां तदाधारे व्यवस्यिताम्” ।
तदाधारे, विघ्नेशासने “संस्थाप्य विघ्नहन्तारं कलसे ताम्र-
भाजने । वेष्टितं रक्तवस्त्रेण सर्वतो भद्रमण्डले ।
पूजयेच्छुक्लकुसुमैः पत्रिकामिश्च पञ्चभिः । विल्वपत्रमषा-
मार्गः शमी दूर्वा हरिप्रिया । सोपोष्या तु सुरश्रेष्ठ!
पृष्ठ ५०१९
ततो राज्यं भविष्यति । सर्वोपहारसम्पन्नं सर्वोप-
स्करमाहरेत् । कन्दुपक्वं फलं शाकं लवणं गुड़शर्करा ।
खण्डं वुस्तुम्बरी जीरं धान्यानि विविधानि च ।
दातव्यानि रघुश्रेष्ठ! वन्यकानान्तु भक्तितः” ।
  • दूर्वात्रिरात्रव्रतं पद्यपु० “शृणु! दूर्वात्रिरात्रस्य विधिं कात्-
र्स्न्येन सुव्रत! । मासि माद्रपदे चैव शुक्लपक्षे त्रयोदशीम् ।
त्रिरात्रं समुपोष्यन्तु यावत् पूर्णा तिथिर्भवेत् ।
उमामद्देश्वरं देवं सावित्रीं धर्ममेव च । दूर्वामूले तु संस्थाप्य
मण्डपं कारयेत्ततः” इत्यादि ।
  • दूर्वाष्टमीव्रतं भविष्यपु० “ब्रह्मन्! भाद्रपदे मासि शुक्ला-
ष्टम्यामुपोषितः । पूजयेच्छङ्करं भक्त्या यो नरः श्रद्धया-
न्वितः । स याति परमं स्थानं यत्र देवस्त्रिलोचनः ।
गणेशं पूजयेद्यस्तु दूर्कया यो हि तं मुने! । कृत्वोप-
वासं सप्तम्यामष्टम्यां पूजयेच्छिवम् । दूर्वासमेतं विप्रेन्द्र!
दध्यक्षतफलैः शुभैः” । व्रतान्तरं दूर्वाष्टमीशब्दे दृश्यम् ।
  • दवमूर्तिव्रत विष्णधर्भोत्तरोक्तम् “ईशानञ्च तथा वह्निं विरू
पाक्षं समीरणम् । जानीहि यदुशार्दूल! दैवमूर्तिचतु-
ष्टयम् । तेषान्तु रूपनिर्माणं कृत्वा तानर्च्चयेद् बुधः ।
गन्धमाल्यनःस्कारदीपघूपान्नसम्पदा । चैत्रशुक्ले
महाभाग! प्रतिपताभृतिक्रमात् । कौप--नादेय ताड़ाग-
कासारैः स्नानमाचरेत् । दध्ना तिलैर्यवैर्होमो धृतेन च
तथा भवेत् । कर्पूरं वुङ्कुमञ्चैव तथैवागुरुचन्दनम् ।
ब्राह्मणेषु प्रदातव्यं तथा राजन्! दिनक्रमात् । दिनत्रयं
तथाऽश्नीयात् सायं प्रातरथार्चितम् । दिनमेकन्तु नाश्नी-
यात् व्रतचारी नरे त्तमः । एतत् संवत्सरं कृत्वा व्रतं
पुरुषसत्तम । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते” ।
  • देवव्र त पद्मपु० “नक्तम{??}दञ्च{??}त्वा तु गवा सार्द्धं कुटु-
म्बिने । हैमञ्चक्रं त्रिशूलञ्च दद्याद्विप्राय वाससी ।
प्रणम्य मक्त्या शक्रश्च प्रियतां शिववेशवौ । एतद्देवव्रतं
नाम महापातकनाशनम् । यस्तु संवत्सरं पूर्णमेक-
भक्तो भवेन्नरः । अहिंसः सर्वभूतेषु बासुदेवपरायणः ।
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् । पौण्डरिकस्य
यज्ञस्य ततः फलमवाप्नुयात् । दशवर्षसहस्राणि स्वर्गलोके
महीयते । तत्क्षयादिह चागत्य माह त्म्यं प्रतिप-
द्यते” । कालोत्तरे व्रतान्तरं “वृहस्पति मघायोगश्चतुर्दश्यां
यदा मवेत् । उषोष्य पूजयेत्तस्यां देवदेवं महेश्वरम् ।
महास्नानप्रकारेण महावर्त्तिपुरःसरम् । अङ्गरागश्च-
न्दनेन शुक्लपुष्पैः प्रपूजयेत् । धूपस्तु सफलो देयः मधुना
चन्द्रसंयुतः । सितवस्त्राणि वस्तञ्च आचय्याय प्रदाष-
येत् । जातीफलैः प्राशनञ्च रात्रौ जामरणं हितम् ।
एतद्देवव्रतं नाम आयुःश्रीकीर्तिवर्द्धनम्” ।
  • देवीव्रतं पद्मपु० “पयोव्रतं पञ्चदश्यां व्रतान्ते गोयुगप्रदः ।
लक्ष्मोलोकमवाप्नोति देवीवतमुदाहृतम्” देवीपु० व्रतान्तरं
“क्षीराशी कार्त्तिके यस्तु देव्या भक्तिरतो नरः ।
शाकपाचकनक्ताशी प्रातःस्नायी शिवारतः । पूजयेत्तिलहोमस्तु
मधुक्षीरघृतादिभिः । कार्य्यस्तु देवीमन्त्रेण शृणु पुण्य-
फलं हरे” इत्यादि ।
  • द्वादशसप्तमीव्रतं भबिष्योत्तरे “माथमासात् समारभ्य शुक्ल-
पक्षे युधिष्ठिर! सप्तन्यां कृतसङ्कल्पो वंषमेकं व्रती भवेत्”
मासभेदे नियमभेदास्तत्रोक्ता दृश्या० ।
  • द्वाढ़शसाध्यतृतीयाव्रतं विष्णुधर्मोत्तरे “मनोऽनुमन्ता प्राणश्च
नरयानश्च वीय्यवान् । वित्तिर्हयो नयश्चैव हंसो
नारायणस्तथा । प्रभवो विष्णुर्विश्वश्च साध्या द्वादश
जज्ञिरे । तृतीयायां महाभाग! पूजयेत्तानुपोषितः” ।
प्रत्येकतृतीयायां यावद्वर्षं सोपवास इति शेषः ।
  • द्वादशादित्यव्रतं विष्णुधर्मोत्तरे “धाता मित्रोऽर्यमा पूषा
शक्रोऽंशोवरुणोभगः । त्वष्टा विवस्वान् सबिता विष्णु-
र्द्वादशकस्तथा । पूजयेद् द्वादशादित्यान् शुक्लपक्षे
उपोषितः । भार्गशीर्षादथारभ्य द्वादश्यां नियतव्रतः” ।
  • द्वादशीव्रतं कूर्मपु० “एकादश्यां निराहारो द्वादश्यां पुरु-
षोत्तमम् । अर्चयेद् ब्राह्मणमुखे स गच्छेत्परमं पदम् ।
एषा तिथिर्वैष्णवी स्याद् द्वादशी शुक्लपक्षगा । तस्यामा-
राधयेद्देवं प्रयत्नेन जनार्दनम्” ।
  • द्वीपव्रतं विष्णुधर्मोत्तरे “अथातः संप्रवक्ष्यामि द्वीपव्रतमनु-
त्तमम् । चैत्रशुक्लात्तथारभ्य प्रत्यहं दिनसप्तकम् । जम्बू-
शाककुशक्रौञ्चशाल्मलिद्वीपसंज्ञितम् । गोमेदं पुष्कर-
ञ्चैव प्रत्यहं पूजयेत् क्रमात् । नित्यमेव मृदा स्नानं
बहिरेव समाचरेत् । अधःशायी भवेन्नित्यं तदेव दिनसप्त-
कम्” इत्यादि ।
  • धनसंक्रान्तिव्रतं स्कन्दपु० “धनमंक्रान्तिमाहात्म्यं शृणु स्कब्द!
विधानतः । यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
संक्रान्तिवासरं प्राप्य शुचिर्भूत्वा समाहितः । कलशं
निर्व्रणं गृह्य वारिपूर्ण निधापयेत् । सुवर्णयुक्तन्तं कृत्वा
प्रेतिमासन्तु दापयेत् । विधिनानेन वर्षान्ते प्रीयतां मे
दिवाकरः” ।
  • धनावाप्तिव्रतं धर्मोत्तरोक्तम् भगवन्! करमणा केन धनवान्
पृष्ठ ५०२०
पुरुषो मवेत् । पुत्रवान् देवलोकेषु पूज्यो भवति मानवः” ।
इति प्रश्ने “श्रावण्यं समतीतायां प्रतिपत्प्रभृति
क्रमात् । पूर्बवत् पूजयेद्विष्णुं देवं सङ्कर्षणं विभुम्” इत्यादि ।
  • धन्यव्रतं वराहपु० “अथातः सम्प्रवक्ष्यामि धन्यव्रतमनु-
त्तम! । येन सद्यो भवेद्धन्यो ह्यधन्योऽपि हि यो भवेत् ।
मार्गशीर्षेऽमले पक्षे प्रतिपद् या तिथिर्भवेत् । तस्यां
नक्तं प्रकुर्वीत रात्रौ विष्णुञ्च पूजयेत्” इत्यादि ।
  • धराव्रतं पद्मपु० “यो विंशतिपलादूर्द्ध्वं महीं कृत्वा तु
काञ्चनीम् । दिनं पयोव्रतं दद्याद्रुद्रलोके महीयते ।
धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम्” । दिनं देवानामुत्त-
रायणम् । पयोव्रतमित्यनन्तरं कृत्वेत्यनुसङ्गः । रुद्रो
देवता धरादानं पारणम्” इत्यादि
  • धर्मव्रतं विष्णुधर्मोत्तरे “शुक्लपक्षे दशम्यां तु सोपवासस्तु
भानवः । धर्मं सम्पूजयेद् देवं सर्वलोकसुखावहम्” ।
  • धान्यव्रतं स्कन्दपु “अथातः संप्रवक्ष्यामि धान्यव्रत-
मनुत्तमम् । यत् कृत्वा हि नरो राजन्! सर्बकामान-
वाप्नुयात् । अयने विषुवे चैव स्नानं कृत्वा विचक्षणः ।
व्रतस्य नियमं कुर्य्याद्ध्यात्वा देवं दिवाकरम् । रविन्ध्यात्वा
ततो दद्याद्धान्यप्रस्थं द्विजातये । प्रतिमासं पुनस्तद्वत्
पूज्यो देवः सहस्रपात् । एवं सदा प्रदातव्यं धान्यप्रस्थं
द्विजन्मने । एवं संवत्सरे पूर्णे कुर्य्यादुद्यापनक्रियाम्” ।
  • धान्यसप्तमीव्रतं भविष्यपु० “संपूज्य सितसप्तम्यां भानुं
धान्यानि सप्त च । ददाति नक्तभुक् गार्हं लवणेन
समग्वितम्” । गार्हं गृहस्योपकरणम् “स तारयति सप्ता-
न्यान् कुल्यानात्मानमेव च । सुत! धान्यव्रतं नाम
व्रतं धान्यसुखप्रदम्” ।
  • धामत्रिरात्रव्रतं पद्मपु० “त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां
भवनं शुभम् । आदित्यलोकमाप्तोति धामव्रतमिदं स्मृतम्”।
  • धाराव्रतं भविष्योत्तरोक्तम् “चैत्रारम्भात् पिषंस्तोयञ्जलधारां
प्रपातयेत् । वर्षान्ते घृतसंपूर्णान्दद्याद्वर्द्धनिकां नवाम् ।
एतद्धाराव्रतं नाम सर्वोद्वेगहरं परम् । कान्तिसौभाग्य
जननं सपत्नीदर्प्यनाशनम्” ।
  • जीनवमीव्रतं भविष्योत्तरे “पौषस्य शुक्लपक्षे तु नवमी
शङ्करी श्रुता । तस्यां स्नात्वा शुभैः पुष्पैरर्चनीया
हरेः स्वसा । कुमारी भगवान् देवी सिंहस्यन्दनगा
मिनी । ध्वजान् नानाविधान् कृत्वा पुरतस्तञ्च
पूजयेत् । मालतोकुसुमैर्दीपैर्गन्धधूपविलेपनैः । बलिभिः
पशुभिर्षेध्यैः सुरामांसस्रगिन्धनैः । दधिचन्दनचूर्णैश्च
फलैश्चानग्निपाचितैः । देवीं स्वर्णमयीं कृत्वा सिंहा-
रूढ़ां चतुर्भुजाम् । खड्षशक्तिधरां शूलधरां नेत्र-
त्रयान्विताम्” । (पूजयेतु)
  • ध्वजव्रतं विष्णुधर्मोत्तरोक्तम् “चैत्रे तु प्रत्यहं मासि गरुड़ं
पूजयेन्नरः । पीतेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विज! ।
वैशाखे च तथा मासि तालं संपूजयेत्सदा । नीलेन
गन्धनैवेद्यमाल्यवस्त्रादिना द्विज! । ज्यैष्ठे च प्रत्यहं
मासि मकरं पूजयेत् सदा । श्वेतेन गन्धनैवेद्यमाल्यवस्त्रा-
दिभिर्द्विज! । ऋष्यं संपूजयेद्देवं मास्याषाढ़े
यथाविधि । रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विज! ।
बहिः स्नानं तथा कुर्य्याद्वह्निसंपूजनं तथा । नित्यञ्च
कुर्य्याद्धर्मज्ञ! तथा ब्राह्मणभोजनम् । पारणार्थे तथा
कुर्य्यान्नक्तं तैलविवर्जितम् । अधःशावी तथा च स्याद् ब्रह्म-
चारी सदा भवेत् । व्रतमेतन्नरः कुर्य्यात् सम्यङ्मास
चतुष्टयम् । ब्राह्मणान् पूजयेच्छक्त्या आषाढ़े चरमेऽ-
हनि । वस्त्राण्युक्तानि धर्मज्ञ! दद्याद्विप्रेषु दक्षिणाम् ।
कृत्वैकं पारणं राजन्! स्वर्गलोके महोयते । द्वितीयं
पारणं कृत्वा शक्रलोके महीयते । तृतीशं पारणं कृत्वा
ब्रह्मलोके महीयते । कृत्वा तूर्य्यं पारणन्तु रुद्रलोके
महीयते । विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम् ।
ध्वजव्रतं द्वादश वत्सराणि कृत्वा नरा भार्गववंशसुख्य! ।
सायुज्यभायाति जनार्दनस्य देबस्य विष्णोः परमेश्वरस्य” ।
  • नक्तचतुर्थीव्रतं स्कन्दपु० “विनायकचतुर्थ्याख्य व्रत
वक्ष्यामि तेऽनघ! । धन्यं यशस्यमायुष्यं समीहितफल-
प्रदम् । बिव्नापशमनायालं सर्वसिद्धिप्रदायकम् । प्रियं
गणपतेर्नित्यमृषिभिश्चाप्युपासितम् । मार्गशुक्लचतुर्थ्यान्तु
ग्राह्यं व्रतमिदं महत् । नक्ताहारेण विप्रेन्द्र । तिलान्नं
पारणं स्मृतम् । तदेव वह्नौ होतव्यं ब्राह्मणाय ददेत्
सदा । नद्यां नदे वा तैवेद्यं विघ्नराजाय संयमी ।
पूजयेत् । गणपतिं रात्रौ गन्धेः पुष्पैयथाक्रमम्”
  • नक्षत्रपुरुषव्रतं भत्स्यपु० “नक्षत्रपुरुषं नाम परं नाराय-
णार्चनम् । पादौ हि कुर्य्याद्विथिवद्विष्णुनामानि
कीर्त्तयेत् । प्रतिमां वासुदेवस्य मूलर्क्षाद्यभिपूजयेत् । चैत्र-
मास समासाद्य कृत्वा ब्राह्मणवाचनम् । मूले नमो विश्व-
धराय पादावनन्तदेवाय च रोहिणीषु । जङ्घे च पूज्ये
वरदाय चैव द्वे जानुनी चाश्विकुमारकर्क्षे । पूर्वोत्तराषा-
ढ़युगे च पादौ नमा शिवायेत्यमिपूजनीय्यु” इत्यादि ।
पृष्ठ ५०२१
  • नक्षत्रार्थव्रतं देवीपु० अतःपरं प्रवक्ष्यामि रूपसौभाग्यका-
रकम् । नक्षत्रविधिगा वत्स! यथा तुष्यति शङ्करी ।
मृगादारभ्य मूलेन पादौ जातिस्रजा पुरा । पूजयेत्सो-
पवासस्तु नक्षत्रान्ते तु पारणम् । यवान्नं हविषा सिद्धं
ब्राह्म्ये जङ्घे प्रपूजयेत्” इत्यादि ।
  • नदीव्रतं विष्णुधर्मोत्तरे “चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्त-
कम् । ह्रदिनीं ह्रादिनीञ्चैव पावनीं चैव पूजयेत् । सोतां
चेक्षुं तथा सिन्धुं तथा भागोरथीं क्रमात् । वहिःस्नानं
तथा कुर्य्यान्नित्यं नक्ताशनो भवेत् । जले च जुहुयात्
क्षीरं शान्तात्मा च दिने दिने । क्षीरपूर्णाश्च दातव्या
वारिधान्यो द्विजातिषु । क्षीराशनश्च तिष्ठेत तत्तथा
दिनसप्तकम् । एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः ।
द्विजातिषु ततो दद्याद्रजतस्य पलं शुभम् । फाल्गुन-
स्यासिते पक्षे सप्तम्यां दिवसे क्रमात् । तं लोकमवाप्नोति
नरो यत्र पायसकर्दमाः” इत्यादि ।
  • नन्दव्रतं विष्णुधर्मोत्तरे “शुक्लपक्षे महाराजं त्रयोदश्यामु-
पोषितः । फाल्गुनात्तु समारभ्य नित्यं संपूजयेन्नरः” ।
महाराजन्तु धनदम् । “गन्धमाल्यनमस्कारदीपधूपा-
न्नसम्पदा । सुवर्णं ब्राह्मणेन्द्राय व्रतान्ते प्रतिपादयेत् ।
कृत्वा व्रतं वत्सरमेतदिष्टं पक्षेषु राजन्! सुचिरं ह्यु-
पोष्य । मानुष्यमासाद्य धनान्वितः स्यात् सौभाग्ययुक्तश्च
तथा विरोगः” ।
  • नन्दादिव्रतं भविष्योत्तरे “यस्त्वादित्यग्रहेशस्य वारो
देवस्य सुव्रतः । पूजयेत् स प्रियो नित्यं ख्यातो गोश्रुति-
भूषणः (शिवः) । यस्तु संपूजयेन्नित्यं पतङ्गं पन्नगाधिपम् ।
गन्धपुष्पादिधुपैस्तु स्तोत्रैर्वा विविधैस्तथा । सोपबासो
गणश्रेष्ठ! आदित्यग्रहणे शुचिः । जपमानो महाश्वेतां
स्वशाखोक्तग्रहाधिपम् । ब्राह्मणान् भोजयित्वा तु ततो
भुञ्जीत वाग्यतः । आदित्यग्रहयुक्तेऽस्मिन् वारे त्रिपुर-
सुदनः । तत्र कर्म कृतं पुण्यं तत्सर्वं शुभदं भवेत्” ।
  • नन्दाव्रतं देवीपु० “मासे नभसि संप्राप्ते नक्ताहारो जिते-
न्द्रियः । प्रातःस्नायी सदाध्यायी अग्निकार्य्यपरायणः ।
देवीं संपूजयेद्वत्स! बिल्वपुन्नागचम्पकैः । धूपन्तु गुग्गुल
दद्यान्नैवेद्यं घृतपाचितम् । क्षीरान्नं दधिभक्तञ्च अथवा
शाकयावकम् । जपञ्च कुर्य्यान्मन्त्रस्य सहस्रमथवा
शतम् । देव्यास्तत्र समर्प्ये तत् यावत् पूर्णं व्रतम्भवेत्” ।
  • नन्द सप्तमीव्रतं भविष्योत्तरे “या त भार्गशिरे मासि शुक्ल-
पक्षे तु सप्तमी । नन्दा सा कथिता वीर! सर्वानन्द-
करी शुभा । पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकी-
र्त्तितम् । सप्तम्यामुपवासञ्च कीर्त्तयन्ति मनीषिणः ।
मालतीकुसुमानीह सुगन्धं चन्दनं तथा । कर्पूरा-
गुरुसंमिश्रं धूपञ्चात्र विनिर्दिशेत् । दध्योदनं सखण्डञ्च
नैवेद्यं भास्करप्रियम् । तदेव दद्याद्विप्रेभ्यो ह्यश्रीयाच्च
स्वयं यथा” ।
  • नयनप्रदसप्तमीव्रतं भविष्यपु० “यो मार्गशीर्षे सितसप्तमे-
ऽह्नि हस्तर्क्षयोगे जगतः प्रसूतिम् । संपूज्य भानुं
विधिनोपवासो स्रग्गन्धधूषान्नवनोपहारैः । गृहीतगव्यं
प्रतियत्नपूजादानादियुक्तं ब्रतमव्दमेकम्” इत्यादि ।
  • नरकपूर्णिमाव्रत विष्णुधर्मोत्तरोक्तम् “प्रतिमासन्तु नामानि
पञ्चदश्यां जगत्पतेः । कृतोपवासः सुस्नातः पूजयित्वा
जगद्गुरुम् । उञ्चारयन्नरोयाति सुमुखेनैव गच्छति ।
यद्वा मासगतं नाम प्रीयतामिति कीर्त्तयेत् । केशवं
मार्गशीर्षे तु पौषे नारायणं तथा । माघवं माघमासे
तु गोविन्दमपि फाल्गुने । चैत्रे विष्णुञ्च वैशाखे
कीर्त्तयेन्मधुसूदनम् । ज्यैष्ठे त्रिविक्रमं देवं तथाषाढ़े
च वामनम् । श्रीधरं श्रावणे मासि हृषोकेशं
ततःपरम् । नाम भाद्रपदे तद्वत् ज्ञायते पुण्यकाङ्क्षिभिः ।
तद्वदश्वयुजे मासि पद्मनामेति कीर्त्तयेत् । दामोदरं
कार्त्तिके च सर्वान्तरति दुर्गतिम् । एवं मासक्रमे-
णैव यदि दातुं न शक्यते । तदा संवत्सरस्यान्ते दद्या-
च्चैव समागतम्” ।
  • नरसिंहचतुर्दशीव्रतं नरसिंहपु० “वैशाखशुक्लपक्षे तु
चतुर्दश्यां समाचरेत् । मज्जन्मसम्भवं पुण्यं व्रतं
पापप्रणाशनम् । वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकार-
कम् । महागुप्तमिदं श्रेष्ठमानुषैर्भवभीरुभिः । तेनैव
क्रियमाणेन सहस्रद्वार्दशीफलम् । जायते मत्सस्वा
वच्मि मानुषाणां महात्मनाम् । स्वातोनक्षत्रयागेन
शनिवारेण संयुते । सिद्धियोगस्य संयोगे वाणिजे करणे
तथा । पुण्यसौभाग्ययोगेन लभ्यते दैवयोगतः । सर्वै-
रैतेस्तु संयुक्तं हत्याकोटिविनाशनम् । एतदन्यतरे
योगे तद्दिनं पापनाशनम् । केवले तत् प्रकर्त्तव्यं
मद्दिने व्रतमुत्तमम् । अन्यथा नरकं याति यावच्चन्द्रदि-
वाकरौ । यथा यथा प्रवृत्तिः स्यात्पातकस्य कलौ युगे
तथा तथा प्रणश्यन्ति तदव्रतस्य प्रभावतः । मद्व्रतस्य
प्रभावेन मतिर्न स्याद् दुरात्मनाम् । विचार्य्येत्थं प्रक-
र्त्तव्यं माधवे मासि मद्व्रतम्” ।
पृष्ठ ५०२२
  • नरसिंहत्रयोदशीव्रतं नरसिंहपु० “गुरुवारे त्रयोदश्यामप-
राह्णे जलप्लुतः । तर्पयित्वा देवपितृन् ऋषींश्च तिल
तण्डुलैः । नरसिंहं समर्भ्यर्च्य यः करोत्युपवासकम् ।
सर्वपापविनिर्मुक्तोविष्णुलोके महीयते” ।
  • नरसिंहव्रतं गरुड़पु० “अथाष्टमीव्रतं ब्रह्मन्! प्रोच्यमानमिदं
शृणु! । भवविध्वं सनं नॄणां सर्वार्त्तिहरणं परम् ।
राजा वा राजपुत्रो वा यदि चेद्रिपुनाशनम् ।
तदाष्टम्यान्तु सुस्नातो यवाशञ्च पकारयेत् । कुर्य्यादष्टदलं
पद्मं तण्डुलैर्वा प्रसूनकैः । कर्णिकायामथेशानं
नरसिंहाकृतिं स्मात्” इत्यादि ।
  • नवम्याद्युपासव्रत मत्स्यपु० “नवमी चाष्टमी चैव पौर्णमासी
चतुर्दशी । यो भुङ्क्ते देवि । नैतेषु सुपर्वसु नरः स
माम् । गाणपत्यं स लभते निःसपत्नमनिन्दितम्” ।
  • नवरात्रिव्रतं देवीपु० “सौभाग्यार्थं स्त्रिया कार्य्यमाद्यैश्च
घनकाङ्क्षिभिः । महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठि-
तम् । कर्त्तव्यं देवराजेन्द्र! देवीभक्तिसमन्वितैः ।
कन्यासंस्थे रवौ शक्र! शुक्लादारभ्य नन्दिकाम्” । नन्दिकाम्
प्रतिपदम् “यवाशीत्यथवैकाशी नक्ताशीत्यथ वा पुनः ।
प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोम-
समासक्तः कन्यका भोजयेत् सदा । अष्टम्यां नवगेहानि
दारुजानि शुभानि च । एकं वा द्वित्रिभागेन
कारयेत् सुरसत्तम! । तस्मिन् देवी प्रकर्त्तच्या हैमी वा
राजती च वा । युद्धकालक्षणोपेतखड़गशूलेन
पूजयेत् । सर्वोपहारसम्पन्नवस्त्ररत्नफलादिभिः ।
कारयेद्रथदोलादिपूजाञ्च वलिदैविकीम्” इत्यादि ।
  • नागदष्टोद्धरणपञ्चमीव्रतं भविष्योत्तरे “उपोष्य पञ्चमीं सम्यक्
नागानां बलबर्द्धनम् । स्वमैकमेकं यावच्च विधानं शृणु
भारत! । समैकं संवत्सरम् “मासि भाद्रपदे राजन्!
शुक्लपक्षे तु पञ्चमी । सापि पुण्यतमा प्रोक्ता ग्राह्यासौ
गतिकाम्यया । चतुर्थ्यामेकभक्तञ्च तस्यां नक्तं प्रकी-
र्त्तितम्” । तस्यां पञ्चम्यामुपोष्येति दिवा भोजनवर्ज-
नात् “कुर्य्याच्चान्द्रमसं नागमथ वा कलधौतजम् ।
अथ दारुमयं भव्यं मृण्मयं वाप्यशक्तितः । चान्द्र-
मसं सौवर्णं कलधौतजं रूप्यभयम् । पञ्चम्यामर्चयेद्
द्भ्यक्त्या नागं पञ्चफणन्तथा । करवीरैस्तथा पद्मैः
जातीपुष्पैः सुगन्धिभिः । गन्धैर्धूपैः सनैवेद्यैः स्नाप्य
क्षोरादिभिर्नृप! । ब्राह्मणान् भोजयेत्पश्चात्
धृतपायसमोदकैः । अनन्तं वासुकिं शङ्खं पद्मं कम्बल-
मेव च । तथा कर्कोटगं नागं नागमश्वतरं नृप! ।
धृतराष्ट्रं शङ्खपालं कालियं तक्षकं तथा । पिङ्गलञ्च
महामागं मासि मासि क्रमाद् यजेत्” ।
  • नागपञ्चमीव्रतं भविष्यपु० “नागानिष्ट्वा तु पञ्चम्यां न
विषैरभिभूयते । स्त्रियं च लभते पुंत्रं परमां श्रियमा-
प्नुयात् । मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः ।
पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिथीश्वरः” । तिथी-
श्वरोऽत्र नागः गन्धपुष्पापहारश्च यथाशक्ति विधीयते ।
पूजाऽशाठ्येन शाठ्येन कृतापि तु फलप्रदा । आज्यधा-
रासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः । पूर्वोक्तफलदो होमो
यतः शान्तेन चेतसा । एतद्व्रतं वैश्वानरप्रातपद्वतवद्
व्याख्येयम्” ।
  • नागव्रतं कूर्मपु० कार्त्तिकशुक्लपक्षमुपक्रम्य “तिथौ युगाह्वया-
यान्तु समुपोष्य यथाबिधि । शङ्खपालादिनोगानां
शेषस्य च महात्मनः । पूजा कार्य्या पुष्पगन्धक्षीराप्या-
यनपूर्वकमिति” । युगाह्वयायाञ्चतुर्थ्यां प्रातर्मध्याह्न
व्यापिन्याञ्च कर्तव्यम्” तथा च स्कन्दपुराणे “प्रात-
र्मध्यन्दिने तत्र तत्रोपोष्य फणीश्वरान् । क्षीरेणाप्याय्य
पञ्चम्यां पारयेत् प्रयतो नरः । विषाणि तस्य नश्यन्ति-
न तं हिंसन्ति पन्नगाः” ।
  • नानाफलपूर्णिमाव्रतं विष्णुधर्मोत्तरे “प्राप्य पञ्चदशीं राम!
तथा शुक्लाञ्च कार्त्तिकीम् । आरामगृहभित्तिं वै
उमेशौच समालिखेत् । तस्य द्वारि गृहे चाशु नानावर्णैस्तु
वर्णिकम् । गृहोपकरणे शक्त्या तयोश्चैवाभितो लिखेत् ।
पीतं यद्वाससाच्छाद्य सकटीमुखनासिकम् । ततस्तौ
पूजयेन्नारी स्नात्वा भर्त्तृपरा शुचिः” ।
  • नामतृतीयाव्रतं भविष्योत्तरे “उपवासस्य नियमं
गृह्णीयात् भक्तिभाविता । देवीं संवत्सरं यावत् तृतीया-
यामुपोषिता । प्रतिमासं करिष्यामि पारणञ्चापरे-
ऽहनि । तदविघ्नन मे यातु समाप्तिं व्रतमुत्तमम् ।
शरणं त्वां प्रपन्नास्मि दौर्भाग्यादुद्धरस्व माम् । एवं
सङ्कल्प्य विधिवत् कौन्तेय! कृतनिश्चया । भक्त्या नारी
ध्यानपरा स्नान कृत्वा जितेन्द्रिया । नद्यां तड़ागे
वाप्या वा गृहे वा नियतेन्द्रिया । पूजयेत् पार्वतीं
नाम्ना रात्रौ प्राश्य कुशोदकम् । प्रभाते भोजयेत्
विप्रान् शिवभक्तान् विशेषतः । पौषे मासे त्रतीयायां
निरिजां नाम पूजयेत् । गोमूत्रं प्राशयेद्रात्रौ प्रभाते
भोजवेद् द्विजान्” इत्यादि । भविष्यपु० व्रतान्तरम “गौरी१
पृष्ठ ५०२३
काली२ उमा३ भद्रा४ दुर्गा५ कान्तिः६ सरस्वती७ ।
मङ्गला८ वैष्णवी९ लक्ष्मीः१० शिवा११ नारायणी१२ क्रमात् ।
मार्गतृतीयामारभ्य पूजयेत् स्वर्गभाक् भवेत्” । मार्गशीर्ष-
तृतीयामारभ्य प्रतिमासमेकैकेन नाम्ना पूजयेदित्यर्थः
“अर्द्धनारीश्वरं रुद्रमथ वा उमाशङ्करम् । पूजयेद्विधि-
वन्नारी अवियोगमवाप्नुयात्” ।
  • नामद्वादशीव्रतं विष्णुरहस्ये “मार्गशीर्षे शुभे मासि शुक्ल-
पक्षे यतव्रतः । प्रथमञ्चैव गृह्णीयात् द्वादशीं विधि-
वन्नरः । कारयेच्च हरेर्यज्ञमाचार्य्याद्यैर्विधानतः । अर्च-
यित्वा हरिं तत्र लब्ध्वानुज्ञां द्विजन्मनः” इत्यादि ।
  • नामनवमीव्रतं भविस्यपु० “नवम्यां शुखपक्षे तु कृते नक्ते
विशेषतः । मासि चाश्वयुजे वीर! दुर्गादेवीति पूजयेत् ।
विल्वपत्रैस्तथाद्भिश्च द्रोणपुष्पैस्तु सर्वशः । गुग्गुलेनाथ
दुग्धेन भक्ष्यभोज्यैरनेकशः । परमान्नेन रत्नेन
महिषाजैर्विघातितैः । सम्प्रीणनं तथा कुर्य्याद्देव्या वै भक्ति-
माचरन् । भोजयित्वा नवम्यां तु ब्राह्मणानां तु
कन्यकाः । ब्राह्मणानां सुस्त्रियश्च यथा भवति शक्तितः ।
पञ्चगव्यं ततः प्राश्य नक्तं भुञ्जीत वाग्यतः । य एवं
पूजयेदत्र दुर्गां भक्त्या समन्वितः । सोऽश्वमेधसह-
स्रस्य फलं प्राप्य दिवं व्रजेत् । कार्य्यमाश्विनवत् सर्वं
कार्त्तिकेऽपि हि सत्तम! । कृत्वोपवासमष्टम्यां मासि
मार्गशिरे नृप! । नवम्यां पूजयेद्वस्तु शक्त्या भगवतीं
बुधः” इत्यादि । वर्षसाध्यमिदम् ।
  • नामसप्तमीव्रतं भविष्योत्तरे “चैत्रात् प्रभृति कर्त्तव्या
सर्वदा नामसप्तमी । घातेति मधुमासे तु पूजनीयो
दिवाकरः । अर्य्यमेति च वैशास्वे ज्यैष्ठे मित्रः प्रकी-
र्त्तितः । आषाढ़े वरुणो ज्ञेय इन्द्रो नभसि कथ्यते ।
विवस्वांश्च नभस्ये तु पर्जन्योऽश्वयुजि स्मृतः । पूषा
कार्त्तिकमासे च मार्गशीर्षे तु कथ्यते । भगः, पौषे
विवस्वांश्च त्वष्टा माथे तु कथ्यते । विष्णुस्तु, फाल्गुने
मासि पूज्यो वन्द्यश्च भास्करः । सप्तम्यां चैव सप्तम्यां
भोजयेद्भोजकान् बुधः” ।
  • निक्षुभार्कसप्तमीव्रतं प्रथमं भविष्यपु० “सूर्य्यभक्ता तु या
नारी ध्रुवं सा पुरुषो भवेत् । स्त्री चैवाप्युत्तमं नाथं
यत् कृत्वा लभते शृणु । निक्षुभार्कब्रतं भानोः
सदा प्रीतिविवर्द्धनम् । अवियोगकरं वीर! धर्मका-
मार्थसाधकम् । सप्तम्यामथ षष्ठ्यां वा संक्रान्तौ भानवे
दिने । हविषा हविषा होमं सोपवासः समाचरेत् ।
निक्षुभार्कस्य चैवार्च्चां कृत्वा स्वर्णमयीं शुभाम् ।
राजतीं वाथ वाक्षीं वा स्नापयेच्च घृतादिभिः” । निक्षुभा
सूर्य्यपत्नी तया सहितोऽर्कः । द्वितीयम् “या नार्य्यु-
पवसेदेवं कृष्णामेकान्तु सप्तमीम् । सा गच्छेत् परमं
स्थानं भानोरमिततेजसः । वर्षान्ते प्रतिमां कृत्वा
शालिपिष्टमयीं शुभाम् । पीतानुलेपनैमांल्यैः पीतवस्त्रैः
प्रपूजयेत् । पूर्वोक्तं निखिलं कृत्वा भास्कराय निवेदयेत् ।
सर्वभूमौ महीपालो घातुचामीकरप्रभः । वर्षकोटिसह-
स्राणि सूर्य्यलोके महीयते” । तृतीयम् “सप्तम्यां या
निराहारा भवेदव्दनियन्त्रिता । गजं पिष्टमयं कृत्वा
वर्षान्ते विनिवेदयेत् । विधाय राजतं पद्मं सुवर्णकृत-
कर्णिकम् । भक्त्या विन्यस्य तत्पृष्ठे सर्वं पूर्ववदाचरेत् ।
कामतोऽपि कृतं पापं भ्रूणहत्यादि यद्भवेत् । तत् सर्वं
गजदानेन क्षीयते नात्र संशयः” । चतुर्थम् “कृष्णपक्षे
तु माघस्य सप्तम्यां या दृढ़व्रता । वर्षैकमुपवासेन सर्व-
भोगविवर्जिता । वर्षान्ते सर्वगन्धोत्थं निक्षुभार्कं
निवेदयेत्” ।
  • निर्जलैकादशीव्रतं भविष्योक्तम् “वृषस्थे मिथुनस्थेऽर्के
शुक्ला ह्येकादशी भवेत् । ज्यैष्ठे मासि प्रयत्नेन सोपोष्या
जलवर्जितैः । स्नाने चाचमने चैव वर्जयित्वोदकं बुधः ।
उपभुञ्जीत दैवाद्यद्व्रतभङ्गोऽन्यथा भवेत् । उदयादु-
दयं यावद्वर्जयित्वा जलं बुधः । अप्रयत्वादवाप्नोति द्वा-
दश्यां द्वादशीपरः । ततः प्रभाते विमले द्वादश्यां स्ना-
नमाचरेत् । जलं सुवर्णं दत्त्वा तु द्विजातिभ्यो
यथाविधि । मुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशौ ।
एवं कृते तु यत् पुण्यं भीमसेन! शृणुष्व तत् । संवत्स-
रस्य या मध्ये एकादश्यो भवन्त्युत । तासां फलमवा-
प्नोति अत्र मे नास्ति संशयः” ।
  • नीराजनद्वादशीव्रतं भविष्योत्तरे “कार्त्तिके शुक्लपक्षस्य द्वा-
दश्यां रजनीमुखे । समुत्थिते विनिद्रे तु देवे दामो-
दरे तथा । दोषान्ते नरमालाभिरम्ये स्त्री वा
नुरन्तिके । जनयित्वा नवं विष्णुं हुत्वा मन्त्रैर्द्विजो-
त्तमैः । सार्द्धमानतपुष्पाभिर्दीपिकाभिर्हुताशनम् । कृत्वा
महाजनाः सर्वे हरिं नीराजयेच्छनैः । पुष्पैरभ्यर्चितं
देवं समालभ्य च चन्दनैः । बदरैः कर्वरैश्चैव त्रपुसै०
रिक्षुभिस्तथा । गन्धैः पुष्पैरलङ्कारैर्वस्त्रैरत्नैश्च पूजितैः ।
तस्यैवानुगतां लक्ष्मीं ब्रह्माणं चण्डिकां तथा ।
आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् । मातरः
पृष्ठ ५०२४
पितरो गावः सर्वा नीराजयेत् क्रमात् । गवां नीरा-
जनं कुर्य्यात् महिष्यादेश्च मण्डचम् । भ्रामयेत्त्रास-
येच्छब्दैर्घण्टावादनच्छादनैः” ।
  • नृसिंहद्वादशीव्रतं धरणीव्रतोक्तम् “तद्वत्तु फाल्गुने मासि
कृष्णपक्षे तु द्वादशी । उपाष्या प्रोक्तविधिना हरिमा-
वाहयेद् बुधः । नरसिंहाय पादौ तु गोविन्दायो-
दरं तथा । कटिं विश्वभुजे तद्वदनिरुद्वाय चोदरम् ।
कण्ठन्तु शितिकण्ठाय पिङ्गकेशाय वै शिरः । असुर-
ध्वं सनायेति चक्रवोध्रात्मने तथा । शङ्खमित्येव सम्पूज्य
गन्घपुष्पफलैस्तथा । रत्नगर्भं घटे स्थाप्य तं संपूज्य
विधानतः । द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत् ।
एवं कृते फलं प्राप्तं यत् पुरा पार्थिवेन च” इत्यादि ।
  • पक्षसन्धिव्रतं पद्मपु० “प्रतिपद्येकभक्ताशी सामन्ते
कपिलाप्रदः । वैश्वानरपुरं याति व्रतं वैश्वानरन्त्विदम् ।
पृथिवीं भाजनं कृत्वा यी भुङ्क्ते पक्षसन्धिषु ।
अहोरात्रेण चैकेनातिरात्रफलमश्नुते” ।
  • पञ्चघटपूर्णिमाव्रतं भविष्योत्तरे “पञ्च पञ्चदशीः स्थित्वा
एकभक्तेन मानवः । संपूज्य पूर्णिमां देवीं लिखितां चन्द-
नादिना” । पूर्णिमाप्रतिमा तु प्ररिभाषायां द्रष्टव्या ।
“ततः पञ्च घटान् पूर्णान् पयोदधिघृतेन च । मधुना
सितखण्डेन ब्राह्मणायोपपादयेत् । मनोरथान् पूरयस्व
यथा त्वं पूर्णिमा ह्यसि । पञ्चकु म्भप्रदानेन भूतानां
तुष्टिरस्तु मे । द्विजानेवं नमस्कृत्य सर्वान् कामानवा-
प्नुयात् । एतत् पञ्चवटं नाम व्रतं तुष्टिप्रदायकम्” ।
  • पञ्चपिण्डिकागौरीव्रतं स्कन्दपु० मागरख० “नभस्ये च सिते
पक्षे तृतीयादिवसे स्थिते । प्रातरुत्थाय पश्चाच्च भक्ष-
येत् दन्तधावनम् । ततश्च नियम कुर्य्यादुपवाससमुद्भ
द्भवम् । गौरीनाम समुच्चार्य्य अद्धापूतेन चेतसा । ततो
निशागमे प्राप्ते कृत्वा गौरीचतुष्टयम् । मृण्मयं यादृ-
शञ्चैव तदिहैकमनाः शृणु! । एका गौरो प्रकर्त्तव्या
पञ्चपिण्डा यथाचिता । प्रहरे प्रहरे प्राप्ते तासु पूजां
रेत्” । समाच
  • पञ्चमहापापनाशनद्वादशोव्रतं भविष्यपु० “यत् कृत्वा मुच्यते
लन्तर्प्रहतः पञ्चपातकात् । पञ्चपातकिनः प्रेतान्
पितॄंस्तारयते तथा । निशाकृदाप्यायनश्च पूर्णिमादेवता
इमाः । अगन्नाथो महीधारी देवेन्द्रो देवकोसुतः ।
चतुर्भुजो गदापाणिः सुरभीशः सुलोचनः । सर्व-
गतश्चक्रपाणिः शूरश्चाप्यसुरान्तकः । श्रीशश्च द्वादश
इमा देवताः परिंकीर्त्तिताः । स्वाहाकारान्वितैरेतैश्च-
तुर्थ्यन्तैश्च नामभिः । श्रावणादौ देवतानां पूजां च
कुरुते व्रती । श्रावणादेव कुर्वीत द्वादश्यां परिकीर्त्तिता ।
पूर्णिमायान्तु देवेभ्यः पायसञ्जुहुयात्ततः । अमावास्यां
देवतानां तिलमुद्गगुड़ोदकम् । पञ्च रत्नानि देयानि पञ्च-
पातकशान्तये । पञ्चम्र्त्तिं स्वर्णमयीं पञ्चामृतसमन्वि-
ताम् । भोजयेद् ब्राह्मणान् राजन्! पञ्चद्वादशसंख्यया” ।
  • पञ्चमहाभूतपञ्चमीव्रतं विष्णुधर्मोक्तम् “अतःपरं प्रवक्ष्यामि
पञ्चमूर्त्तेस्तथार्चनम् । पृथिव्यापस्तथातेजो वायुराकाश-
मेव च । एता वै देवदेवस्य कथिताः पञ्च मूर्त्तयः ।
चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ।
सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् । पञ्चमण्डलकाः
कार्य्याः पञ्चभिर्वर्णकैः पृथक् । पार्थिवं मण्डलं कार्य्यं
नीलवर्णं महीपते! । वारुणञ्च तथा श्वेतं रक्तमा-
ग्नेयमिष्यते । पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ।
समानवर्णगन्धैश्च पुष्पैस्तानर्चयेत् पृथक् । शक्त्या च
धूपदीपान्नैर्यथालाभमरिन्दम! । यवैर्माषैस्तिलैश्चैव
घ्वपायसेन च” । तेन
  • पञ्चमूर्त्तिव्रतं विष्णुधर्मोत्तरे “अथापरं प्रवक्ष्यामि पञ्चमूर्त्ति-
व्रतं तव । शङ्खचक्रगदापद्मं पृथिवीञ्च महाभूज! ।
गन्धैर्मण्डलिकां कृत्वा पञ्च पञ्चसु पूजयेत् । चैत्रशुक्ला
दिमां प्राप्य पञ्चमीप्रमृतिं नरः । सोपवासो वहिःस्नात-
स्तथा शुक्लाम्बरः शुचिः । गन्घमाल्यनमस्कारदीपधूपा-
न्नसम्पदा । सर्वेषां पूजनं कृत्वा जुहुयाज्जातवेदमि ।
सर्वेषामेव देवानां नामभिस्तु तथा गृहान् । ब्राह्मणान्
भोजयेच्चात्र तदा च सुरभोजनम् । संवत्सरमिदं कृत्वा
व्रतान्ते वस्त्रपञ्चकम् । पञ्च वेदविदां दद्यात् पञ्चवर्णं
नराधिप! । व्रतेनानेन चीर्णेन राजसूयफलं लभेत्” ।
  • पञ्चाग्निसाधनरम्भातृतीयाव्रतं भविष्योत्तरे “भद्रे कुरुष्व
यत्नेन रम्भाब्रतमनुत्तमम् । मनोऽभिलषित काम येन
प्राप्नोति शङ्करम् । ज्यैष्ठशुक्लतृतीयायां स्नाता नियमतत्-
परा । कुरु! पार्श्वेषु पञ्चाग्नोन् ज्वालामालाकुला-
कृतीन् । नार्हपत्यं दक्षिणाग्निं सम्यकाहवनीय-
कम् । पञ्चमं भास्करं तेज इत्येते पञ्च बह्नयः ।
इत्येषां मध्यमा भूत्वा तिष्ठ पूर्वसुखी सती । चतुर्मुखं
ध्यायमानं पङ्कजापरिसंस्थितम् । मृगाजिनच्छन्नकुचां
जटावल्कलधारिणोम् । सर्वामरणसम्पन्नां देवीमभि-
मुख कुम ।”
पृष्ठ ५०२५
  • पत्रव्रतं मविष्योत्तरे “ताम्बूलभक्षणादौ या गौरापत्रं
ददाति च” । गौरीपत्रं ताम्बूलपत्रम् “पूगचूर्णसमा-
युक्तं स्त्रियो वा पुरुषस्य वा । वर्षस्यान्ते तु सौवर्णं
फलपत्रन्तु राजतम् । मुक्ताफलमयं चूर्णं सम्पूर्णं वा
प्रयच्छति । न सा प्राप्नोति दौर्भाग्यं न दौर्गन्ध्यं
सुखस्य वा । एतत्पत्रव्रतं नाम गौरीलोकप्रदायकम्” ।
  • पदार्थव्रतं विष्णु धर्मोत्तरे “शुक्लपक्षे दशम्यां तु सोपवास-
स्तिथा नरः । मार्गशीर्षे तथारभ्य यावत् संवत्सरं भवेत् ।
गन्घमाल्यनमस्कारधूपदीपान्नसम्पदा । दिक्पालपूजनं
कुर्य्यात् दिशां संपूजनं तथा । गां वत्सरान्ते दद्याच्च तथैव
च पयस्विनीम् । ब्राह्वणाय महाभाग! तथा च
मनुजोत्तम! । एतद्व्रतं नरः कृत्वा यत्र क्वचन गच्छति ।
तत्रेष्टं काममाप्नोति पुत्रेष्टिफलमश्नुते । वाणिज्यसक्तश्च
नरः ससिद्धिं यायात् तथान्यां विजीगीषवश्च । विद्या-
र्थिनो वा रिपुनाशनं वा हितं पदार्थव्रतमेतदिष्टम्” ।
  • पद्मनाभद्वादशीव्रतं “तद्वदाश्वयुजे मासि द्वादशीं शुक्लपक्षि
णोम् । सङ्कल्प्याभ्यर्चयेद्देघं पद्मनाभं सनातनम् ।
पद्मनाभाय पादौ तु कटिंवै पद्मयोनये । उदरं सर्वदे-
वाय पुष्कराक्षाय वै उरः । अव्यपाय तथा बाहू प्राग्व-
दस्राणि पूजयेत् । प्रभवाय शिरः पूज्य प्राग्वदग्रे घटं
न्यमेत् । तस्मिन् हेममयं देवं पद्मनाभं तु विन्वसेत्” ।
पद्मनाभस्तु दक्षिणाधोहस्तादारभ्य सव्येन च शङ्खपद्मग-
दाचक्रधारी कार्य्यः” ।
  • पयोव्रतं पद्मपु० “वर्षमेकं भवेदयस्तु पञ्चदश्यां पयोव्रतः” ।
पञ्चदश्यामित्यमावास्यायां पुराणान्तरसंवादात् “समान्ते
श्राद्धकृद् दद्यात् यञ्च पञ्च पयस्त्रिनीः । वासांसि च
पिशङ्गानि जलकुम्भयुतानि च । स याति वैष्णवं लोकं
पितॄणां तारयेच्छतम् । जन्मान्तरे भवेद्राजा! पयोव्रत-
मिदं स्मृतम्” ।
  • पर्वनक्तव्रतं भविष्यपु० “योऽव्दमेकं प्रकुर्वीत नक्तं पर्वणि
पर्वणि” । पर्व पञ्चदशी ब्रह्मचारी जितक्रोधः
शिवाचेनरतः सदा । वत्सरान्ते च विप्रेन्द्र! शिवभक्तान्
समाहितान् । भोजयित्वा ततो ब्रूयात् प्रीयतां
भगवान् प्रभुः । एवंविधिसमायुक्तः शिवलोकञ्च गच्छति”
  • पवगाजनव्रतं पद्मपु० “पृथिवीभाजने भुङ्क्ते नित्य
पवसु यो नरः । अतिरात्रफलं देवि! अहोरात्रेण
विन्दति” । पृथिवीभान्नने भूमाबन्नं निधायेत्यर्थः शिवो-
ऽत्र देवता” ।
  • पातालव्रतं विष्णुधर्मोत्तरे “चेत्रमास दथ रभ्य कृष्णपक्षे
दिने दिने । पातालपूजनं कुर्य्यात् प्रतिपत्प्रभृति-
क्रमात् । रौक्षं भौमं स्निग्धभौमं पातालं नीलमृत्ति-
कम् । रक्तभौमं पीतभोम श्वेतकृष्णमृदावपि । सुवर्णै-
र्गन्धमाल्यैश्च नैवेद्येन च भूरिणा । घृतदोपप्रदानेन
वह्निसन्तर्पणेन च । एवं नक्ताशनः कृत्वा व्रतं संवत्-
सरं सदा । व्रतावसाने दद्यात् तु दीपकान् द्विज-
वेश्मसु” ।
  • पात्रव्रतं नरसिंहपु० “उपष्यैकादशीं शुक्लां माषमामेऽथ
पूर्णिमान् । कुर्य्याद्विधिमिमं सम्यक् सदा तस्य व्रजेत्-
पदम् । तद्द्विरूपप्रदञ्चैतद व्रत सौभाग्यदायकम् ।
पुत्रदं वेश्मदञ्चैव विधिना चरितं त्विदम् । व्रतस्यास्य
प्रवक्तारं समयुक्तं गुणान्वितम् । पूजयेद्भूमिकामोऽथ
पादुकाद्यैः सुभावितः । रुक्मप्राज्ययुतञ्चाथ पात्रं
नीलाञ्च गामपि । अभावे च तथा हेम्रः कर्षार्द्धेन तु
राजतम् । वस्त्रयुग्मं नवं सूक्ष्मं पुष्पप्रकरचित्रितम् ।
आश्रित्य तत्र तत् पात्रं शुचौ देशे निवेशयेत् । ततो
जागरणं कुर्य्यात् गोतवाद्यादिमङ्गलैः । प्रभाते तु
नयेत्पात्रं हरेरायतनं महत् । स्नाप्य क्षीरादिभिर्देवं
विष्णुं सम्पूज्य वै स्वयम् । निवेदयेत् तु तत्पात्रं प्रीय-
तामित्युदीरयेत्” ।
  • पापनाशनीसप्तमीव्रतं भविष्यपु० “शुक्लपक्षस्य सप्तम्यां यदा
ऋक्षङ्करो भवेत् । तदा पुण्यतमा प्रोक्ता सप्तमी
पापनाशिनी” । करो, हस्तः अयं हि योगो बहुले
श्रावणे मासि सम्भवति । “तस्यां सम्पूज्य देवेशं चित्र-
मानुञ्जगद्गुरुम् । सप्तजन्मकृतात्पापान्मुच्यते नात्र
संशयः । यश्चोपवासं कुरुते तस्यां नियतमानसः । सर्व-
पापनिर्मुक्तः सूर्य्यलोके महीयते । दानं यद्दीयते
किञ्चित् समुद्दिश्य दिवाकरम् । होमो वा क्रियते तत्र
तत् सर्वञ्चाक्षयं भवेत् । करर्क्षा सप्तमी कृष्णा तेनोक्ता
पापनाशिनी । अस्यां समभ्यर्च्य रविं याति सौमनसं
पुरम्” ।
  • पापमोचनव्रतं सौरपु० “विल्ववृक्षं समाश्रित्य द्वादशाह-
ममोजनम् । यः कुर्य्याद् भ्रूणहात् पापान्मुक्तो भवति
नारद!” ।
  • पापात्त्राणसक्रान्तिव्रतं स्कन्दपु० “वक्ष्यात्यपाषसंक्रान्तिं शृणु
स्कन्द! चिधानतः । संक्रान्त्यां नियतो भूत्वा तिलैः
श्वेतैः समन्वितैः । करक वर्द्धमानञ्च प्रतिमासं निवे
पृष्ठ ५०२६
दयेत्” । वर्द्धमानः शरावः । “मन्त्रेणानेन तु स्ना-
याद्भक्तिभावसमन्वितः । तिलो माम्पातु पापेभ्यस्तव देव
प्रसादतः । त्वञ्च मां रक्ष देवेश! वाङ्मनःकायकल्म-
षात् । उद्यापने च देवस्य सौवर्णमाषकेण तु । द्वि-
भुजा प्रतिमा कार्य्या रजतेनाथ कारयेत्” ।
  • प्रालीचतुर्दशीव्रतं भविष्योत्तरे “मासि भाद्रपदे पक्षे शुक्ले-
भूततिथऔ नृप! । तदा भक्त्या प्रदातव्यं वरुणाया-
र्घ्य मुत्तमम् । ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैस्त्रीभिस्तथैव
च । फलपुष्पैस्तथा वस्त्रेर्दीपालक्तकचन्दनैः । विरूढैः
सप्तधान्यैश्च दधिपिष्टाम्बुचन्दनैः । अनग्निपाकसिद्धैस्तै-
स्तिलतण्डुलमिश्रितैः । खर्जूरैर्नारिकेलैश्च बीजपूर्णावृपै-
स्तथा” । आतृपं (आता) फलविशेषः “द्राक्षादाडिमपू-
गैश्च पुष्पैश्चापि प्रपूजयेत् । संरुद्धशुद्धसलिलातिबलां
विशालां पालीमुपेत्य बहुभिस्तनुभिः कृतालोम् । ये पूजयन्ति
वरुणं सहितं समुद्रे तेषां गृहे भवति भूतिरनर्थगाधा” ।
  • पाशुपतव्रतं बह्निपु० “शिबं ये पूजयिष्यन्ति दानं दास्यन्ति
सुव्रताः । सवेपावविनिर्मुक्ता दिवमेष्यन्ति ते द्विजाः ।
यथा पशुपतिर्नित्य हत्वा सर्बमिदं जगत् । न
लिप्यते पुनः सोऽपि यो नित्यं व्रतमाचरेत् । इह जन्म
कृतं पापं पूर्वजन्म कृतञ्चयत् । व्रतं पाशुपतं नाम
कृत्वा हन्ति द्विजोत्तम! द्वादश्यामेकभक्ताशी त्रयोदश्या-
मयाचितम् । चतुर्दश्यां तथा नक्तं उपवासं परेऽहनि” ।
कालसंहितोक्तम् “रहस्यं यत् प्रवक्ष्यामि सर्वपापनिकृ-
न्तनम् । ब्रतं पाशुपतं श्रेष्ठं मया च शिरसि (वेदे)
श्रुतम् । कालश्चैत्रपौर्णमासी देशः शिवपरिग्रहः!
क्षेत्रारामादिरन्यो वा प्रशस्तः शुभलक्षणः । तत्र पूर्व-
त्रयोदश्यां सुस्नातस्तु कृताह्निकः । अतुलार्थं
समाचर्य्य संपूज्य प्रणिपत्य च । पूजां स्वशाणिकीं कृत्वा
शुक्लाम्बरधरः स्वयम् । शुव्लयज्ञोपवीती च शुक्लमा-
ल्यानुलेपनम् । दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य
च । प्राणायामत्रयं कृत्वा प्राङ्मुखोवाऽप्यु दङ्मुखः ।
ध्यात्वा देवञ्च देवीञ्च भूतविज्ञानवर्त्मना । ब्रतमेतत्
करोमीति भवेत्सङ्कल्प्य दीक्षितः । यावत् शरीरपातञ्च
द्वादशाव्दमथापि वा । तदर्द्धं वा तदर्द्धं वा
मासद्वाशकन्तु वा । तदर्द्धं वा तदर्द्धं वा मासमेकमथापि
बा । दिनद्वादशकं वाथ व्रतसङ्कल्पनं विधिः” । व्रतान्तरं
मलव्यपोहनं लिङ्ग पु० “कृत्वा कनीयसं लिङ्गं स्नाप्य
चन्दनवारिणा । चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं
शुभम् । कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम् ।
नवरत्नैस्तु खचितमष्टपत्रं यथाविधि । कर्णिकायांन्य-
सेल्लिङ्गं स्फाटिकं पीठसंयुतम् । तत्र भक्त्या
यथान्यायमर्चयेद्बिल्बपत्रकैः” ।
  • पितृव्रतं विष्णुधर्मोत्तरे “अतःपरं प्रवक्ष्यामि सप्तमूर्त्तिव्रतं
तव । चैत्रमासादथारभ्य प्रतिपत्प्रभृति क्रमात् । सुभा-
स्वरा वर्हिषदोऽप्यग्निष्वात्तास्तथैव च । क्रव्यादापहता-
श्चैव आज्यपाश्च सुकालिनः । पूजयेत् प्रत्यहं राजन्!
गन्धमाल्यानुलेपनैः । नैवेद्यं कृशरं कुर्य्यात् तिलानग्नौ
च होमयेत् । कृशरं भोजयेद्विप्रान् तिलान् दद्याच्च
दक्षिणाम् । नक्ताशनस्तथा तिष्ठेद्धविष्याशी नराधिप!
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम! । व्रतावसाने
दद्यात्तु रजतस्य फलं द्विजे । व्रतेनानेन चोर्णेन सप्त-
लोकगतिर्भवेत् । त्रिदशैः पूज्यमानस्तु कामचारी
विहङ्गमः” ।
  • पिपीतकीद्वादशीव्रतं ति० त० उक्तं वैशाखशुक्लद्वादश्यां कार्य्यम् ।
  • पुण्डरीकप्राप्तिव्रतं विष्णुधर्मोत्तरे “द्वादश्यां देवदेवेशं
षूजयित्वा जलाधिपम् । पुण्डरीकमवाप्नोति वरुणं
यादसाम्पतिम्” ।
  • पुत्रकामब्रतं पद्मपु० “नमस्यमासस्य तु पौर्णमास्याम् ।
भार्य्याद्वितीयः सहसा य एव पुत्रेष्टिमादौ स्वगृहेऽपि
कृत्वा । गच्छ्रेत्ततः सर्वसमृद्धियुक्तो होमैः सजाप्यैर्व-
लिना च रुदूम् । शैलेन्द्रकन्यागजवक्त्रयुक्तम् सद्भावशक्त्या
प्यथ वार्च्चयित्वा । संपूज्य विप्रानथ देवपूर्वान् कृतोप-
वासो जितरोषदोषः । ततः सहायानपि भोजयित्वा
भार्य्याञ्च पश्चात् स्वयमत्र भुङ्क्ते । तृप्ताञ्च भार्य्यामथ
गोपयित्वा प्रदक्षिणीकृत्य गुहां सुगुह्याम् । गृहांस्तु
गच्छेत्परिपूर्णकामो वृषः प्रहृष्टः कृतभोजतश्च ।
कथाश्च दिष्यास्त्वथ नन्दिनीश्च भार्य्यां ततः श्रावणयोः
प्रयुक्ताम् । क्षीरोदनं त्रिदिनं भोजयेच्च बन्ध्याञ्च भार्य्या-
मपि पुत्रकामाम् । ततो गृहे सर्वसमृद्धिकामः सन्तर्प्य
भार्य्यां प्रयतो विधाय । उमां शिवं नन्दिनं चार्चयित्वा
ततो भवेत् पुत्रवती च बन्ध्या” । व्रतान्तरं वृश्चिकसंक्रान्त्यां
कार्त्तिकपूजारूपम् ।
  • पुत्रप्राप्तिषष्ठीव्रतं विष्णुधर्मोत्तरे “वैशाखमासादारभ्य पञ्चम्यां
य उपोषितः । भवन्तं पूजयेत् षष्ठ्यां संवत्सरमतन्द्रितः ।
पुत्रार्थी प्राप्नुयात् पुत्रान् धनकामो धनी भवेत् ।
स्वर्गार्थी प्राप्नुयात् स्वर्गमपि तुष्टो तमात्मजः । स्तोत्रेण
पृष्ठ ५०२७
च मदीयेन ये स्तोष्यन्ति नराः प्रभो! । लोकद्वयेऽपि ते
कामान् प्राप्नुवन्ति मनःप्रियान् । कुमारश्च तथा स्कन्दो
विशाखश्च गुहस्तथा । चतुरात्मा विनिर्दिष्टो भगवान्
क्रौञ्चसूदनः । तमभ्यर्च्च्य नरः षष्ठ्यां पुत्रान् प्राप्नोत्य-
भीप्सितान्” ।
  • पुत्रप्राप्तिव्रत देवीपु० “ब्रह्मणा यो विधिः शक्रे कथितो
विजयावहः । जयेति पूर्णिमा तात! श्रावणस्य शुभा-
वहा” । शक्र उवाच “विजया या समाख्याता सर्वकामप्र-
सिद्धये । तामहं श्रोतुमिच्छामि तत्त्वतः सुरस-
त्तम!” । ब्रह्मोवाच “पुत्रार्थं राज्यविद्यार्थं
यशःसौभाग्यतोऽपि वा । विजयार्थं ग्रामकामो जयां
कुर्वीत पूर्णिमाम् । हैमं वा राजतं वापि खड्गं वा
अथ पादुके । प्रतिमां वापि कुवींत सर्वलक्षणसंयुताम्” ।
शाङ्कर्य्या इति शेषः “तामादाय शुभे ऋक्षे शुक्लवस्त्रवि-
भूषिताम् । यवशाल्यङ्कुरोपेतां पानपात्रविभूषिताम् ।
दीवीं सुशोभनां वस्त्रैः कल्पयेत्तत्र विन्यसेत्” ।
  • पुत्रसप्तमीव्रतं वराहपु० “मासि भाद्रपदे प्राप्ते शुक्लपक्षे सुरे-
श्वरः! । सप्तम्यामुषवासेन पुत्रप्राप्तिप्रद ब्रतम् । षष्ट्यां
चैव सुसंकल्प्य सप्तम्यां पूजयेद्धरिम्” ।
  • पुत्रीयब्रतं विष्णुधर्मोत्तरे “प्रौष्ठपद्यामतीतायां कृष्णपक्षा-
ष्टमी तु या । सोपवासोनरोऽष्टम्यां योषिद्वा तनया-
र्थिनी । स्नाता सरसि धर्मज्ञा तोयेऽवाप्यथ सारसे ।
पूजनं वासुदेवस्य यथा कुर्य्यात्तथा शृणु!” ।
  • पुत्रीयसप्तमीब्रतं विष्णुधर्मोत्तरे “मार्गशीर्षे शुभे मासि
शुक्लपक्षे द्विजोत्तम! । पुत्रीयां सप्तमीं राम! गृह्णीयात्
प्रयतः शुचिः । अथ वा पुत्रकामश्च विधिना येन तत्
शृणु” । पुत्रीयां पुत्रदाम् । “हविष्याशी शिरःस्नानं
कृत्वा भास्करपूजनम् । अधःशायी द्वितीयेऽह्नि गोवृषा-
णोदकेन तु । स्नात्वा संलिप्य च तथा शुभे देशे तु
मण्डलम् । तत्राष्टपत्रकमलं विन्यसेत् वर्णकैः शुभैः ।
तस्यैव कर्णिकामध्ये भास्करं चन्दनेन तु । रक्तेन
पूजयेद्देवं गन्घमाल्यानुलेपनैः” ।
  • पुत्रोत्पत्तिव्रतं आदित्यपु० “कुरु संवत्सरं स्नानं श्रवणे श्रवणे
मुने! सोऽपि पुत्रानवापाष्टौ चकार श्रद्धयान्धितः ।
पाराशर्य्यः सुतं लेभे व्रतस्यास्य प्रभावतः । एवमन्योऽपि
राजेन्द्रस्तावत् सिद्धिमवाप्नुयात् । पुत्रान् पौत्रांश्च लभते
सुखञ्चात्यन्तमश्नुते” ।
  • पुरश्चरणसप्तमीव्रतं स्कन्दपु० नागरखण्डे “माथमासे वरे पक्षे
मकरस्थे दिवाकरे । सप्तम्यां सूर्य्यवारेण व्रतमेतत्
समाचरेत् । पाषण्डैः पतितैः सार्द्धं तस्मिन्नहनि वर्ज्जयेत् ।
क्षपायत्वा नृपश्रेष्ठ! प्रभाते दन्तधावनम् । मन्त्रेणानेन
पानाच्च कर्त्तव्यो नियमो नृप! । पुरश्चरणकृत् पापात्
सप्तम्यां दिवसाधिप! । उपवासं करिष्यामि अद्य त्वं
शरणं मम । ततोऽपराह्णसमये स्नात्वा धौताम्बरः शुचिः ।
प्रतिमां पूजयेद्भक्त्या दिनाधिपसमुद्भवाम् । रक्तैः पुष्पै-
र्महावीरपादौ सम्पूजयेत्ततः” ।
  • पुष्पद्वितीयाब्रतं भविष्यपु० “कार्त्तिके शुक्लपक्षे तु द्विती-
यायां नराधिप! पुष्पाहारो वर्षमेकं वसेत् सुनियता-
त्मवान्” । कार्त्तिकशुक्लपक्षद्वितीयायां व्रतमारभ्यान्या-
स्यपि शुक्लपक्षद्वितीयास्वेव वर्षपर्य्यन्तं पुष्पाहारव्रतं
कुर्य्यादित्यर्थः । “कालप्राप्तानि यानि स्युर्हविष्यकुसु-
मानि तु । भुञ्जीत तानि दत्त्वा तु ब्राह्मणेभ्यो
नराधिप!” । हविष्यकुसुमानि पूजार्हाणि भक्षणे चावि-
रुद्धानि अश्विनौ चात्र नामभन्त्रेण पूजनीयौ तयोः
फलदातृत्वेन श्रवणात् । “सुवर्णस्य च पुष्पाणि गवा
सह ददाति यः । व्रतान्ते तस्य सन्तुष्टौ देवौ त्रिभु-
वनेश्वरौ । दत्तः कामांस्तथा दिव्यान्विमानमपि
तैजसम् । सुचिरं देवनारीभिर्लोकं रमयतोऽश्विनौ” ।
  • पूर्णिमाव्रतं विष्णुधर्मोत्तरे “या प्रेरयति कर्माणि लोकेषु
द्विजसत्तम! । तस्याः संपूजनं कार्य्यं शुक्लपञ्चदशीं सदा ।
माल्यानुलेपनैः शुक्लैर्धूपेन च सुगन्धिना । रक्तवस्त्र-
प्रदानेन दीपदानेन चाथ वा । वैदलैश्च तथा भक्ष्यैरपू-
पैश्च तथैव च । पूजयित्वा च तां देवीं भोक्तव्यं निशि
भार्य्यया । यदि पञ्चदशीं सर्वां न शक्नोति कथञ्चन ।
देव्याः संपूजनं कार्य्यं अवश्यमपि कार्त्तिके । उमान्तु
पूजयेद् या तु सा तु नारी पतिव्रता । सदा धर्मरता
नारी लोके भवति भार्गव!” । वह्निपु० व्रतान्तरम्
“श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः ।
प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषैः” ।
  • पृथिवीपञ्चमीव्रतं विष्णुधर्मोत्तरे “पञ्चम्यां पृथिवीं शुक्ले देवीं
संपूजयेन्नरः । तामवाप्नोति यत्नेन नात्र कार्य्या विचारणा”।
  • पौरन्दपञ्चमीब्रतं भविष्योत्तरे “तिलपिष्टमयं कृत्वा गजं
हैमविभूषितम् । कक्षाङ्कुशयुतं तद्वदारोहकसमन्धि-
तम्” । तद्वदिति अनन्तव्रतोक्तमत्र गजस्वरूपं गृह्यते ।
“नक्षत्रमालासहितं चामरापीड़धारिणम् । दशनाग्र-
पृष्ठ ५०२८
बद्बनेत्रं रक्तवस्त्रयुगावृतम् । ताम्रपात्र्यां कुण्डके वा
कृतदन्ताग्रमोदकम् । प्रदद्याद् द्विजदम्पत्योः पूज्य
मालाविभूषणैः । कर्णाभरणकं दद्यात् वस्त्रञ्च मलवर्जि-
तम् । कान्तारतारकं ह्येतत् कथितं हि युधिष्ठिर! ।
कान्तारगिरिदुर्गेषु तारयत्यपि दुःखितान् । इह
लोके परे चैतन्नात्र कार्य्या विचारणा । ये कुर्वन्ति
दिने पुण्ये व्रतं पौरन्दराह्वयम् । तेषां पौरन्दरे लोके
वासः स्यात् सुचिरं नृप!” दिने पुण्ये, पञ्चम्यां
ब्रकरणवशात् ।
  • प्रकृतिपुरुषद्वितीयाव्रतं विष्णुधर्मोत्तरे “पुरुषः प्रकृतिश्चोभौ
जगत् सर्वं प्रकीर्त्तितम् । अग्नीषोमात्मकं सर्वं तथा
तच्च प्रकीर्त्तितम् । वासुदेवश्च लक्ष्मीश्च तावेव परिकी-
र्त्तितौ । चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः ।
पौरुषेण च सूक्तेन वह्निं संपूजवेन्नरः” । सोपवास
इति प्रतिपदि कृतोप्रवासो द्वितोयायां वह्निं
पूजयेदित्यथः उपरिष्टाच्च क्षीरघृतभोजनस्य विहि-
तत्वात “गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा । लक्ष्मीञ्च
वरदं देवं पूजयेदुदकं हरिम् । श्रीसूक्तेन च धर्मज्ञ!
तथार्चन्मनुजोत्तमम्” । हरिसोमौ वह्निं जलकुम्बञ्च
प्रतिष्ठाप्य परुषमग्निं बासुदेवञ्चैकोपरि पूजयेत्” इत्यादि ।
  • प्रजापतिव्रतं “अथ वटोर्व्रतम् इत्युपक्रमे “नेक्षेतोद्य-
न्तमादित्यमित्यादिकमुक्तम्” ।
  • प्रतिपद्क्षीरपाणव्रतं भविष्यपु० “कार्त्तिक्यामथ सप्तम्यां
वैशाख्यां वा युगादिषु । नियमोपवासं प्रथमं ग्रहयेत
विधानवित्” । कार्त्तिके वैशाखे वा मासि प्रतिपत्तिथौ
व्रतस्यारम्भः । युगादितिथिव्रतस्य माघवैशाखभाद्र-
पद कार्त्तिकेष्वन्यतमे आरम्भः “या तिथिर्नियमं कर्तुं
शक्या समनुगच्छति । तस्यां तिथौ विधानं यत्तन्नि-
बोध जनाधिप! । नियमोपवासं प्रथमं ग्राहयेद् विधि
वन्नरः । यदा वै प्रतिपद्यादौ गृह्णीयान्नियमं नृप! ।
चतुर्दश्यां कृताहारः सङ्कल्प्य परिकल्पयेत् । अमावास्यां
न भञ्जीत त्रिकालं स्नानमाचरेत् । पवित्राणि जपेन्नित्यं
गायर्त्नी शिरसा सह । अर्च्चयित्वा विधानेन गन्ध-
माल्यैर्द्विजोत्तमान् । शक्त्या क्षीरं प्रदद्यात् तु ब्रह्मा
मे प्रीयतां विभुः । तेतो भूञ्जीत गोक्षीरमनेन विधिवा
नृप! । एष एव विधिः प्रोक्तः सर्वासु तिथिषु नृप” ।
  • प्रतिमाव्रतं कालोत्तरे “अधुना तु प्रवक्ष्यामि प्रतिमाव्रत-
मुत्तमम् । महास्नानं महावर्त्तिदीपमालाशतं तथा ।
विलेपनं कुङ्कुमेन धूपं वै गुग्गुलेन तु । शतेनाष्टोत्तरे-
णैव नैवेद्यं पयसा घृतम् । तालमात्रा चतुर्विंशत् त्रि-
नेत्रा च चतुर्भुजा । शूलासियुग्धनुर्वाणा नानाभ-
रणभूषिता । शालिपिष्टमयो कार्य्या वृषपृष्ठे च
शोभना । चामरैर्वीज्यमानन्तु शिवं तत्र प्रकल्पयेत् । दर्प
णञ्चैव ताम्बूलं व्यजनं पादुकासनम् । वैजयन्तीध्वज
यानमाचार्य्याय प्रयत्नतः । मासि मासि प्रकर्त्तव्यं
चतुर्दश्यां दिने दिने । कार्त्तिकन्तु समारभ्य यावदाश्वयु-
जावधि । एतद् ब्रतोत्तमं नाम प्रतिमाव्रतमीरितम्” ।
  • प्रदोषव्रतं भविग्यपु० “त्रयोदश्यान्तथा रात्रौ सोपहारं
त्रिलोचनम् । इष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकै” ।
  • प्रभाव्रतं पद्मपु० “पक्षोपवासी यो दद्याद्विप्राय कपिला-
द्वयम् । ब्रह्मलोकसवाप्नोति देवासुरसुपूजितः । तदन्ते
राजराजः स्यात् प्रभाब्रतमिदं स्मृतम्” ।
  • प्राजापत्यव्रतं पद्मपु० “कृच्छ्रान्ते गोयुगं दद्यात् भोजनं
शक्तितः पदम् । विप्राणां शाङ्कर याति प्राजापत्यमिदं
स्मृतम्” शाङ्करं पदं यातीत्यन्वयः । कृच्छ्रशब्दे दृश्यम् ।
  • प्राप्तिव्रतं पद्मपु० “वत्सरं त्वेकभक्ताशी सभक्ष्यफलकुम्भदः ।
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्” ।
  • फलव्रतं पद्मपु० “महाफलानि यस्त्यक्त्वा चतुर्मास्यां द्विजा-
तये । हैमानि कार्त्तिके दद्याद् गोयुगेन समं नरः ।
सितवस्त्रयुगेनाथ सम्पूर्णाज्यघृतेन च । एतत् फलव्रतं
नाम सर्वकामफलप्रदम्” ।
  • फलतृतीयाव्रतं पद्मपु० प्रभासख० “फलवृतीयां या नारी
कुरुते तत्र भाविता । वर्षमेकं सिते पक्षे देवीं पूज्य
विधानतः । फलानि ब्राह्मणे दद्यादभीष्टानि च यानि
तु । फलानि वर्जयेत् नक्तमत्रात्ति सुरसुन्दरि! ।
निष्पावानाढ़कीं मुद्गान् माषांश्चैव कुलत्थिकान् ।
मसूरान् राजमांषाश्च गोधूमांस्त्रिपुटांस्तथा । चणकान्
वर्त्तुलान् वापि मुकुटान् शक्तितोऽत्ति यः । नरा वा
यदि वा नारी यावद्गौरीव्रतं चरेत् । तस्याः पुण्यफलं
वक्ष्ये कथ्यमानं शृणष्व मे । धनं धान्यं गृहे तस्य
न कदाचित् क्षय व्रजेत् । दुःखिता दुर्भगा दीना सदा
जन्मनि नो भवेत् । कथानकञ्च श्नोतव्यं देव्या माहात्मृ
संयुतम् । कृतपातकनाशाय सर्वकामसमृद्धये” ।
  • फलषष्ठीव्रतं भविष्यात्तरे “अन्यामपि पवक्ष्यामि फलषर्ष्ठ
शुभां तथा । यामुपोष्प नरः पाषैर्निसक्त० फलभा
भवेत् । मार्गशीर्षे सिते पक्षे पञ्चम्यां नियमस्थितः
पृष्ठ ५०२९
कृत्वा दन्तधावनं तु स्वपेद्रात्रौ विमत्सरः । ततः प्रभाते
विभले कारयित्वा तु काञ्चनम् । कमलञ्च फलन्त्वेकं
स्वशक्त्या शाठ्यवर्जितः । ततस्तु सङ्गमे स्नातो मध्याह्ने
कृतनित्यकः । आगत्य भवनं देवं पूजयित्वा जगद्गु-
रुम् । कृत्वा तु कमलं पात्रे सफलं शर्करान्वितम् ।
औडम्बरे मृणमये वा यथाशक्त्या नृपोत्तम! । पूजयेत्
पुष्पधूपाद्यैर्नैवेद्यैर्विविधैः फलैः” इत्यादि ।
  • फलभंक्रान्तिव्रतं स्कन्दपु० “अथान्यामपि ते वच्मि
फलसंक्रान्तिमुत्तमाम् । संक्रान्तिवासरं प्रांप्य स्नानं कृत्वा
तु पूर्ववत् । संपूज्य पूर्ववद्भानुं पुष्पधूपादिना तथा ।
शकरासहितं पात्रं फलाष्टकसमन्वितम् । संक्रान्तिवासरं
प्राप्य ब्राह्मणाय निवेदयेत् । तदन्ते तु रविं कुर्य्यात्
सुवर्णेन च नारद! । कुम्भस्योपरि संस्थाप्य गन्धपुष्पैः
प्रपूजयेत् । फनाष्टकं ततो दद्याद् भक्ष्यभोज्यसमन्वितम्” ।
  • फलसप्तमीव्रतं भविष्यपु० “अथ भोद्रपदे मासि सिते पक्षे
महीपते! । कृत्वापवासं सप्तम्यां विधिवत् पूजयेद्रविम् ।
माहेश्वरेण विधिना पूजयेदत्र भास्करम् । अष्टम्यां तु
पुनः प्रातः पूजयित्वा दिवाकरम् । दद्यात् फलानि
विप्रेभ्यो मार्त्तण्डः प्रीयतामिति । स्वर्जरं नातिकेलञ्च
मातुलङ्गफलानि च । ब्राह्मणान् भोजयित्वा तु
फलाहारः स्वयं भवेत् । पूर्वमेकन्तु सम्प्राश्य सुसूक्ष्मं
फलमादरात् । मन्त्रेण भरतश्रेष्ठ! ततः शेषाणि भक्षयेत्” ।
पद्मपु० “अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् ।
यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत् । मार्गशीर्षे
शुभे मासि पञ्चम्यां नियतव्रतः । षष्ठ्यामुपोष्य कमलं
कारयित्वा तु काञ्चनम् । शर्करासंयुक्तं दद्यात् ब्राह्मणाय
कुटुम्बिने । रूपन्तु काञ्चनं कृत्वा फलस्यैकस्य धर्मवित् ।
दद्याद्विकालवेलायां भानुर्मे प्रीयतामिति । भक्त्या तु
विप्रान् संपूज्य सप्तम्यां क्षीरभोजनम् । कृत्वा कुर्य्यात्
फलत्याग यावत्स्यात् कृष्णसप्तमी । तामुपोष्य विधिं
कुर्य्यादनेनैव क्रमेण तु । तद्वद्धेमफलं दद्यात् सुवर्ण-
कमनान्वितम् । शर्करापात्रसंयुक्तं वस्त्रमालाविभूषितम् ।
मंवत्सरमनेनैव विधिनोभयसप्तमोम् । उपोष्य दद्यात
क्रमशः सूर्य्यमन्त्रमुदीरयेत्” इत्यादि ।
  • फाल्गुनव्रतं महाभारते “भगदेवन्तु योमासमेकभक्तेन
विक्षिपेत् । ऐश्वर्य्यमतुलं श्रेष्ठं पुमान् स्त्री वा प्रप
द्यने । स्त्रियो वल्लभतां यान्ति तस्याश्चैव भवन्ति ते” ।
विष्णुधर्मे “क्षपयेदेकभक्तेन शुश्रूषुर्य्यश्च फाल्गुने” ।
शुश्रूषुः विष्णुशुश्रूपापरः “सौभाग्यं स्वजनानाञ्च
सर्वषामेव सोन्नतिः । अहिंसृः सर्वभूतेषु वासुदेवपरा-
यणः । नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् ।
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात्” ।
  • वाणिज्यलाभव्रत विष्णुधर्मोत्तरे “काम्यं कर्म समाचक्ष्य
वाणिज्यं येन सिध्यति । कृषिञ्च वहुलाञ्चैव कर्मणा
केन वाश्नुते” । पुष्कर उवाच “मूलेषूपोषितः कुर्य्यादिद
कर्म पुरोहितः । उपोषितस्य धर्मज्ञ! यजमानस्य
नित्यशः । प्राप्तासु पूर्वाषाढ़ासु प्राङ्मुख स्नापयेन्नरम् ।
युग्मैर्वैतसमूलैश्च शङ्खमुक्ताफलैस्तथा । मणिभिश्च
यथालाभं कनकेन तथैव च । अकालमलैः कलशैश्चतुर्भि-
र्भृगुनन्दन! । कृत्वैतत् सिद्धिषाप्नाति वाणिज्ये नात्र
संशयः । समुद्रयाने च तथा कर्षणे च न सीदति ।
नीलानि सप्त वामांसि दक्षिणा चात्र शस्यते । शङ्खं
सुवर्णं रूप्यञ्च तथा मुक्ताफलानि च । हर्त्र कर्त्र
द्विजेभ्यस्तु सर्वमेतद्विधीयते” ।
  • बुद्धद्वादशीव्रत धरणीव्रते “एवमेव श्रावणे तु मासि संकल्प्य
द्वादशीम् । अर्च्चयेत्परमेशानं गन्धपुष्पनिवेदनैः । बुद्धाय
पादौ संपूज्य श्रीधरायेति वै कटिम्” । “एवमभ्यर्च्च्य
मेधावी तस्याग्रे पूर्ववद्घटम् । स्थापयेत्तत्र सौवर्णं बुद्धं
कृत्वा विचक्षणः” । बद्धस्वरूपमुक्तं पुराणान्तरे “बुद्धस्तु
द्विभुजः कार्य्योध्यानस्तिमितिलोचा” इति । “तमप्येवन्तु
संपूज्य ब्राह्मणाय निवेदयेत् । अनेन विधिना पूर्व
द्वादशी समुपोषिता । शुद्धोदनेन, बुद्धोऽभूत् स्वयं पुत्रो
जनार्दनः । महतीञ्च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः ।
भक्त्वा राज्यश्रियं सोऽथ गतिं परमिकां गतः” ।
  • बुधव्रतं भविष्योत्तरे “विशाखासु बुधं प्राप्य सप्त नक्तानि
चाचरेत् । बुधं हेममय कृत्वा स्थापितं कांस्यभाजने ।
शुक्लमाल्याम्बरधरं शुक्लगन्धानुलेपनम । गुड़ोदनोप-
हारन्तु ब्राह्मणाय निवेदयेत्” ।
  • बुधाष्टमीव्रतं भविष्योत्तरे “शृणं पाण्डव! यत्नेन बुधा-
ष्टम्यां विधिं शुभम् । यदा यदा सिताष्टम्यां बुधवारो
भवेद्यदि । तदा तदेव सा ग्राह्या एकभक्ताशनैर्नृभिः ।
म्नात्वा नद्या तु पूर्वाह्णे गृहीत्वा करकं नवम् ।
जलपूणं सहेमानं कृत्वा खाद्यैः समन्वितम् । दद्माद्विप्राय
तं गत्वा गृहं चैव क्रमण तु । अष्टम्यष्टविधानेन विचि-
त्रान्नैः पृथक् पृथक् । प्रथमा मोदकैर्भक्ष्यैः द्वितोया
धामकैस्तथा । तृतीया घृतपूरौश्व चतुर्थी वटकैर्नृप ।
पृष्ठ ५०३०
पञ्चमी शुभ्रकासारैः षष्ठी सोहानकैः शुभैः । अशोक-
वर्त्तिभिः शुभ्रेः सप्तमी चातिवाहयेत् । अष्टमी फ
णितापूर्णै खण्डवेष्टेर्युधिष्ठिर! । एवं क्रमेण कर्त्तव्याः
सुहृत्स्वजगबन्धवैः । सहैकत्र स्थितैर्भोज्यं भोक्तष्यं
प्रीतिपूर्वकम् । उपाख्यानान्तमासाद्य भोजनं सहसा
त्यजेत् । तावदेव हि भोक्तव्यं यावत् सा कथ्यते कथा ।
नतोभूत्वा बुधस्याग्रे आचम्य च समाहितः । विप्राय
वेदविदुषे वाचकाय प्रदापयेत् । साक्षतं सहिरण्यं च
जातरूपमयं शुभम् । अर्चितं चर्च्चितं गन्धैः पुष्पैर्धूपैः
सुगन्धिभिः । पीतवस्त्रैः समाच्छन्नं बुधं सोमात्मजं
तथा । मापकेण सुवर्णस्य तदर्द्धार्द्धेन वा कृतम्” इत्यादि
  • ब्रह्मव्रतं भविष्यपु० “ब्रह्माणञ्च द्वितीयायां संपूज्य ब्रह्म-
चारिणम् । भोजयित्वा तु विधिना सर्वासां पारगो
भवेत् । मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः ।
पूर्ववत्पद्मपत्रस्थः कर्त्तव्यश्च तिथीश्वरः” । तिथीश्वरो
ब्रह्मा ।
  • ब्रह्मकूर्च्चब्रतं ब्रह्मपु० “उपोषितश्चतुर्दश्यां पञ्चदश्यामन-
न्तरम् । पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम् ।
ब्रह्मकूर्चमिदं कुर्य्यादुक्तप्रशमनाय वै । पक्षान्ते त्वथ वा
कार्य्यं मासमध्येऽथ वा पुनः । ब्रह्मकूर्चं नरः कुर्य्यात्
पौर्णमासीषु यः सदा । तस्य पापं क्षयं याति दुर्भुक्तादि
न संशयः । मासेन द्विर्न्नरः कृत्वा ब्रह्मकूर्चं
समाहितः । सर्वपापविनिर्मुक्तो यथेष्टाङ्गतिमाप्नुयात् ।
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च । योगभूतं
परिचरन् केशवं सहसाप्नुयात्” ।
  • ब्रह्मण्यप्राप्तिव्रतं विष्णु धर्मोत्तरे “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतं तव । शक्रकीनाशवरुणधनाध्यक्षा यदूत्तम! ।
चतुरात्मा विनिर्दिष्टो वासुदेवो जगत्पतिः । तेषान्तु
रूपनिर्माणं कृत्वा तानर्चयेद् बुधः । गन्धमाल्यनम-
स्कारदीपधूपान्नसम्पदा । आद्येऽह्नि चैत्रशुक्लस्य यजेत
त्रिदशेश्वरम् । द्वितीयेऽह्नि यमं देवं तृतीये सलिला-
धिपम् । चतुर्थेऽह्नि धनाध्यक्ष प्रत्यहं स्नानमाचरेत् ।
नदीप्रदेशमासाद्य देवदिक्प्रवहक्रमात् । यवैस्तिलैस्तथा-
ज्येन होमः स्यात् तिलतण्डुलैः । रक्तं पीतं तथा
कृष्णं श्वेत वस्त्रं दिनक्रमात् । शुभमेतद् व्रतं कृत्वा
पूर्णसंवत्सरं नरः । नाकलोकमवाप्नोति यावदाभूत-
संप्लवम्” ।
  • बह्मव्रतं पद्मपु० “ब्रह्माणं काञ्चनं कृत्वा तिलराशिसम
न्वितम् । त्र्यहं तिलप्रदो भूत्वा वह्निं सन्तर्प्य च
द्विजान् । संपूज्य विप्रदम्पत्यं माल्यवस्त्रविभूषितम् ।
शक्तितस्त्रिपलादूर्द्ध्वं विश्वात्मा प्रीयतामिति । पुण्येऽह्नि
दद्यात्स परं ब्रह्म यात्यपुनर्भवम् । एतद् ब्रह्मव्रतं ना म
निर्वाणफलदं नृणाम्” ।
  • ब्रह्मसावित्रीव्रतं भविष्योत्तरे “श्रूयतां पाण्डवश्रेष्ठ! सावि-
त्रीव्रतमादरात् । कथयामि यथा चीर्णं तया सत्या युधि-
ष्ठिर! । इत्युपक्रमे “त्रयोदश्यां भाद्रपदे दन्तधापूववर्न
कम् । त्रिरात्रं नियमं कुर्य्यादुपवासस्य भक्तितः । अशक्ता
च त्रयोदश्यां नक्तं कुर्य्याज्जितेन्द्रिया । अयाचितं
चतुर्दश्यां पौर्णमास्यामुपोषणम् । नित्यं स्नात्वा महानद्यां
तड़ागे निर्झरेऽपि वा । विशेषतः पूर्णमास्यां स्नानं
सर्षपमृज्जलैः । गृहीत्वा बालुकां पात्रे प्रस्थमात्रां
युधिष्ठिर! । अथ वा धान्यमादाय यवशालितिला-
ढकम् । ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते । सावि-
त्रीप्रतिमां कृत्वा ब्रह्मणश्चैव शोधनम् । सौवर्णीं मृण्-
मयीं वापि स्वशक्त्या रौप्यनिर्मिताम् । रक्तवस्त्रयुगं
दद्यात् सावित्र्या, ब्रह्मणः सितम् । सावित्रीं ब्रह्मणा-
सार्द्धमेवं भक्त्या प्रपूजयेत्” इत्यादि ।
  • ब्राह्मण्यावाप्तिब्रतं प्रभासख० “ज्यैष्ठस्य पौर्णमास्यान्तु
दम्पती यस्तु भोजयेत् । परिधाय यथा शक्त्या दौर्भा-
ग्यैर्मुच्यते नरः । गन्धपुष्पोपहारैश्च षौर्णमास्यान्तु
योऽर्चयेत् । ब्राह्मण्यं जायते तस्य सप्तजन्मनि सुन्दरि!” ।
  • भर्तृप्राप्तिव्रतं भविष्यपु० “वसन्ते शुक्लपक्षस्य द्वादशी या
मवेच्छुभा । तस्यामुपोष्य विधिवत् सश्रीकं हरिमर्च-
येत् । पर्य्यङ्कास्तरणं कृत्वा नानास्तरणसंयुतम् । तत्र
लक्ष्म्या युतं देवं रौप्यं कृत्वा निवेदयेत् । तस्योपरि
ततः पुष्पैर्मण्डपं कारयेद् बुधः । नृत्यवादित्रगीतैश्च
जागरं तत्र कारयेत् । एवं कृत्वा प्रभाते तु दापयेत्
ब्राह्मणाय तम् । वेदवेदाङ्गयुक्ताय संपूर्णाङ्गाय धीमते ।
ब्राह्मणांश्च तथा भोज्य व्रतमेतत् समाप्यते । व्रतस्यान्ते
ततो विष्णुर्भर्त्ता वै भवति धुवम्” ।
  • भद्रकालीब्रतं विष्णुधर्मोत्तरे “नवम्यां सोपवासस्तु भद्रकालीं
प्रपूजयेत् । शुक्लपक्षे महाराज । कार्त्तिकात् प्रभृति
क्रमात् । गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा । संवत्-
सरान्ते संपूज्यं व्रतान्ते ब्राह्मणाय तु । वस्त्रयुग्मं नरो
दत्त्वा यथेष्टं काममाप्नुयात् । विधिना पूजयेत् कन्यां
भदूकालीं नराधिप! । नवम्यामाश्विने मांसि शुक्लपक्षे
पृष्ठ ५०३१
नरोत्तम!” । पुस्कर उवाच “पूर्वोत्तरे तु दिग्भागे
लिखेत् वास्तुमनोहरे । भद्रकालीं नृपगृहं चित्रवस्त्रै-
रलङ्कृतम् । भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद् द्विज!” ।
  • भद्रचतुष्टयव्रतं भविष्यपु० “शृणु राजन्नवहितो भद्राणां
विस्तरं परम् । कथयिष्ये न कथितं यन्मया कस्यचित्
पुरा । शुक्ला मार्गशिरस्यादौ चतस्रस्तिथयो वराः ।
द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा । एकभक्ता-
शनस्तिष्ठेत् प्रतिपदि जितेन्द्रियः । प्रभाते तु द्विती-
यायां कृत्वा यत् करणीयकम् । प्रहरे वै समधिके गते
स्नानं समाचरेत् । मृद्गोमयं तु संगृह्य मन्त्रैरेभिर्विच-
क्षणः” । “स्नात्वा चैव ततो नाम द्वितीयादौ चतुर्दिने ।
नमः कृष्णाच्युतानन्तहृशीकेशेति च क्रमात् । चतुर्दिने
द्वितीयादिदेवमभ्यर्चयेद् व्रती । प्रथमेऽह्नि स्मृता पूजा
पादयोश्चक्रपाणिनः । नाभिपूजा द्वितीयेऽह्नि कर्त्तव्या
विधिवन्नरैः । पुरद्विषस्ततीयेऽह्नि पूजां वक्षसि विन्यसेत् ।
चतुर्थेऽह्नि जगद्वातुः पूजां शिरसि विन्यसेत्” इत्यादि ।
  • भद्रातृतीयाव्रतं पद्मपु० “कार्त्तिकादि तृतीयायां प्राश्य
गोमूत्रयावकम् । नक्तञ्चरेदव्दमेकं तदन्ते गोप्रदो भवेत् ।
गौरीलोके वसेत् कल्पं ततो राजा भवेदिह । एतद्
भद्राव्रतं नाम सर्वकल्याणकारकम्” ।
  • भद्रासप्तमीव्रतं भविष्यपु० “शुक्लपक्षे तु सप्तम्यां नक्षत्रं
सवितुर्भवेत् । सदा प्राप्यमशेषेण सदा तां भद्रतां ब्रजेत् ।
सवितृनक्षत्रं हस्ता । “चतुर्थ्यामेकभक्तन्तु पञ्चम्यां नक्त-
मादिशेत् । षष्ठ्यामयाचितं प्रोक्तं उपवासस्ततः परम्” ।
“अनेन विघिना यस्तु कुर्य्याद्वै भद्रसप्तमोम् । भद्रा
ददाति सप्तम्यां भद्रं तस्य व्रतं भवेत् । तस्य भद्राः सर्व
एव गच्छन्ति ज्ञातयः सदा । तदशक्तः फलं तस्यां
विधिना केन दीयते । व्योमभद्रमिति प्रोक्तं देवचिह्नं
मनोरमम् । शालिपिष्टमयं प्रोक्तं चतुःकोणं
मनोरमम् । गव्येन सर्पिषा युक्तं खण्डशर्करयान्वितम् ।
चतुर्जातकचूर्णेन द्राक्षाभिश्च विशेषतः” ।
  • भवानीतृतीयाव्रतं पुद्मपु० “आलेपनञ्च यः कुर्य्यात् तृतीयायां
शिवालये । समान्ते धेनुदो याति भवानीब्रतमित्युत” ।
  • भवानीव्रतं लिङ्गपु० “पौर्णमास्याममावस्यां वर्षमेकमतन्द्रिता ।
उपवासरता नारी नरो वा द्विजसत्तमाः! । वर्षान्ते
सर्वगन्धाद्यां प्रतिमाञ्च निवेदयेत् । सा भवान्यास्तु
सायुज्यं सारूप्यं वाथ सुव्रता । लभते नात्र सन्देहः
सत्यं सत्यं मुनी धराः!”
  • माद्रपदव्रतं महाभारते “प्रौष्ठपादन्तु यो मासमेकाहारो
भवेन्नरः । धनाढ्यस्फीतमतुलमैश्वर्य्यं प्रतिपद्यते ।
राजसूयस्य यज्ञस्य फलं दशगुणं लभेत्” ।
  • भानुव्रतं पुद्मपु० “सप्तम्यां नक्तभुक् दद्यात्समान्ते गां
सकाञ्चनाम् । सूर्य्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्” ।
  • भास्करव्रतं कालिकापु० “कृतोषवासः षष्ठ्यान्तु सम्यम्यां यस्तु
मानवः । करोति विधितः श्राद्धं भास्करः प्रोयतामिति ।
सर्वरोगविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्” ।
  • भीमद्वादशीव्रतं पद्मपु० “यद्यष्टम्यां चतुर्दश्यां द्वादशीष्वथ
भारत! । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ।
ततः पुण्यामिमां भैमीं सर्वपापप्रणाशनीम् । उषोष्य
विधिनानेन गच्छ विष्णोः परं पदम् । माघमासस्य
दशमी यदा शुक्ला भवेत्तदा । घृतेनाभ्यञ्जनं कृत्वा
तिलैः स्नानं समाचरेत् । तथैव विष्णुमभ्यर्च्य नमो
नारायणेति व” इत्यादि । “शृणु राजन्! प्रवक्ष्यामि
व्रतानामुत्तमं व्रतम् । यामुपोष्य न दुःखानां भाजनं
भजते जनः । माघमासे सिते पक्षे द्वादशी पावनी
स्मृता । तस्यां जलार्द्रवसन उपोष्य सुखभाग् भवेत्” ।
“भीमाख्या द्वादशी चेति कृतकृत्या नरा यतः । एषा
पुलस्त्यमुनिना कथिता कुरुनन्दन! । यश्चैनां कथितां
यत्नात् कुर्य्याद्वा भक्तिभावतः । सर्वपापविनिर्मुक्तो
विष्णुलोके महीयते । दरिद्रेणापि वा पार्थ! वित्त-
शाठ्यं विवर्जयेत् । विष्णुभक्तेन कर्त्तव्या संसारभय-
भीरुणा । भीमेन या किल पुरा समुपोषितत्वाद्रात्रौ
गलत्स्थिरसुशीतलवारिधारा । तां द्वादशीं त्रिदश-
वेद्यमुखां स्मरेद् यः सम्यक् समाचरति याति स विष्णु-
लोकम्” ।
  • भीमव्रतं पद्मपु० “मासोपवासो यो दद्याद्धेनुं विप्राय
शीभनाम् । सर्वेश्वरपदं याति भीमव्रतमिदं स्मृतम्” ।
  • भीष्मपञ्चवव्रतं नारदपु० “प्रवक्ष्यामि महापुण्यं व्रतं व्रत-
वतां वर! । भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम् ।
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् । व्रतस्यास्य
गुणान्वक्तुं कः शक्तः केशवादृते । व्रतञ्चैतन्महापुण्यं
महापातकनाशनम् । अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्म-
पञ्चकम् । कार्त्तिकस्यामले पक्षे स्नात्वा सम्यग्यतव्रतः ।
एकादश्यान्तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम् । प्रातः
स्नात्वा विधानेन मध्याह्ने च तथा व्रती । नद्यां निर्झर-
गर्त्ते वा समालभ्यञ्च गोमयम् । यवव्रीहितिलैः सम्यक
पृष्ठ ५०३२
पितॄन् सन्तर्पयेत् क्रमात् । स्नात्वा मौनं ततः कृत्वा
धौतवासा दृढ़व्रतः” । इत्यादि “अर्चयित्वा हृषीकेश-
मेकादश्यां समाहितः । त्रिःप्राश्य गोमप सम्यक्
एकादश्यामुपावसेत् । गोमुत्रं मन्त्रवद्भूयो द्वादश्यां
पूजयेद् व्रती । क्षीरञ्चैव त्रयोदश्यां चतुर्दश्यां तथा
दधि । संप्राश्य कायशुद्ध्यर्थं लङ्घनीयञ्चतुर्दिनम्” ।
प्राशनं, होममन्त्रण । “पञ्चमे तु दिने स्नात्वा विधिवत्
पूज्य केशवम् । भोजयेद् ब्राह्मणान् भक्त्या तेभ्यो
दद्याच्च दक्षिणाम् । तथोपदेष्टारमपि पूजयेद् वस्त्रभूषणैः ।
ततो नक्तं समश्नीयात् पञ्चगव्यपुरःसरम् । एवं सम्यक्
समाप्यं स्यात् यथोक्तं व्रतमुत्तमम् । सर्वपापहरं पुण्यं
प्रख्यातं भोष्मपञ्चकम् । जन्मप्रभृति यन्मांस त्यक्त्वा पुण्य-
मवाप्नुयात् । तत्फलं समवाप्नोति संत्यज्य भीष्मपञ्चके ।
मद्यपो यः पिवेन्मद्यं जन्मतोमरणान्तिकम् । तद्भीष्मप-
ञ्चके त्यक्त्वा सम्प्राप्नोत्यधिकं फलम्” ।
  • भूभाजनव्रतं पद्मपु० “संवत्सरन्तु यो भुङ्क्ते नित्यमेव
ह्यतन्द्रितः । निवेद्य पितृदेवेम्थः पृथिष्यामेकराद्भवेत्”
यो भुङ्क्ते पृथिव्यामित्यन्वयः ।
  • भूमिव्रतं कालोत्तरे “शुक्लपक्षे चतुर्दश्या यदा तिथ्यार्क-
सङक्रमः । पूजयेत् पूर्वविधिना उपवासेन शूलिनम्” ।
पूर्वविधिना लिङ्गव्रतोक्तेनेत्यर्थः । “कुङ्कुमेनाङ्गरा ।
गन्तु गन्धपुष्पैः प्रपूजयेत् । पायसं घृतसंयुक्तं कुर्य्यात्
प्रस्थप्रमाणतः । भूमिदानं प्रकर्त्तव्यं शिवभक्ताय यत्नतः ।
अनेन व्रतमुख्येन पृथ्वीपालत्वमाप्नुयात् । एतद्भूमिव्रतं
नाम पृथ्वीपालस्तु कारयेत्” ।
  • भोगसंक्रान्तिव्रतं स्कन्दपु० “वक्ष्येऽहं भोगमंक्रान्तिं सर्व-
लोकविवर्द्धनीम् । सक्रान्तिवासरं प्राप्य योषितस्तु
समाह्वयेत् । कुङ्कुमं कज्जलञ्चैव सिन्दूरं कुसुमानि च ।
सुगन्धीनि च सर्वाणि ताम्बूलं शशिसंयुतम्” ।
शशिमंयुतं कर्पूरमंयुतम् “तण्डुलान् फलसंयुक्तान् प्रदद्याच्च
विचक्षणः । अन्यान्यपि हि वस्तूनि भोगसाधनकाने
च । दद्यात् प्रहृष्टमनसा मिथुनेभ्यः प्रयत्नतः ।
भोजयित्वा यथा शक्त्या वस्त्रयुग्मं प्रदापयेत् । एव संवत्-
सरस्यान्ते रविं सम्पज्य पूर्ववत् । स्वर्णशृङ्गीं रौप्य-
खरां सर्वोपस्करसंयुताम । धेनुं स दक्षिणां दद्यात्
सपत्नोमद्विजातये । एवं यः कुरुते भक्त्या भोगसंक्रा-
न्तिमादरात् । स्यात् सुखी सर्वमर्त्त्येपु भोगो जन्मनि
जन्मनि”
  • भोगावाप्तिव्रतं विष्णुधर्मोत्तरे “ज्यैष्ठ्यान्तु समतीतायां
प्रतिपत्प्रभृतिक्रमात् । पूर्ववत् पूजयेद्देवं विश्वरूपधरं
हरिम्” । अत्रापि पूर्ववदिति रूपावाप्तिव्रतवदित्यर्थः
“कृत्वा व्रतान्ते च तथा त्रिरात्रं दत्त्वा सुयुक्तं शयनं
द्विजाय । स्वर्लोकमासाद्य चिरं नरेन्द्र! मानुष्यमासाद्य
च भोगवान् स्यात्” ।
  • भौमवारव्रतं स्कन्दपु० “भौमोऽयमैश्वरः पुत्रः पृथिव्यां
जनितो महान् । रूपेणैव सदा रम्यो वरदानाद्दिवौ-
कसाम् । अस्यैव दिवसे प्राप्ते ताम्रपात्रं सुशोभनम् ।
परिपूर्णं गुड़ेनैव वर्षमेकं प्रदापयेत्” ।
  • भौमव्रतं भविष्योत्तरे “स्वात्यामङ्गारकं गृह्य क्षपयेन्नक्त-
भोजनः । सप्तमे त्वथ संप्रप्ते स्थापितं ताम्रभाजने ।
हैमं रक्ताम्बरच्छन्नं कुङ्कुमेनानुलेपनम् । नैवेद्यं शुभ्रक
मारं पूज्य पुष्पाक्षतादिभिः । मन्त्रेणानेन त दद्यात्
ब्राह्मणाय कुचुम्बिने” । पद्मपु० “ग्रहाणामधिपं भौमं
पूजयेद्भौमवासरे । मङ्गलो भूमिपुत्रश्च ऋणहर्त्ता
धनप्रदः । स्थिरामनो महाकायः सर्वकामार्थसाधकः ।
लोहितो लोहिताङ्गश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदा भूमिनन्दनः । अङ्गारको
यमश्चैव सर्वरोगापहारकः । सृष्टिकर्त्ता प्रहर्त्ता च
सर्भकामफलप्रदः । एतानि कुजनामानि प्रातरुत्थाय
यः पठेत् । ऋणं न जायते तस्य धनं प्राप्नोत्यसशयम् ।
त्रिकोणञ्च सदा कार्य्यं मध्ये छिद्रं प्रकल्पयेत् । कुङ्कुमेन
सदा लेख्यं रक्तचन्दनकेन च । कोणे कोणै प्रकल्प्यानि
त्रीणि नामानि भूमिप! । आरं वक्रं भूभिजञ्च रक्त-
गन्धैश्च पूजयेत् ।
  • मङ्गलाव्रतं देवीपु० “आश्विने चाथ माघे वा चैत्रे वा श्रा-
वणेऽपि च । कृष्णादारभ्य कर्त्तव्यं व्रतं शुक्लावधिं
चरेत्” । शुक्लावधिं शुक्लपक्षावधिम् । एतच्चोक्त-
मासेष्वेव वक्ष्यमाणप्रकारेण कृष्णाष्टम्यामारभ्य शुक्ला-
ष्टमीं यावत् कर्त्तव्यम् “अष्टमीमाश्विनीं कृष्णामेकभक्तेन
कारयेत् । मङ्गलारूपिणीं देवीमथ वा रुरुघातिनीम् ।
पूजयेन्नवभेदेन गन्धमाल्यनिवेदनैः । नवभेदेन नवकृत्वो
गन्धघर्षणेन । “कन्यका भाजयेद् वत्स! देवीभक्तांश्च
मानवान् । अथ वा नवरात्रञ्च सप्तपञ्चत्रिकं हि वा ।
एकभक्तेन नक्तेनायाचितोपोषितैः क्रमात्” । नवरात्र-
मेकभक्तेन सप्त नक्तेन पञ्चायाचितेन तिस्र उपवामे-
नेति क्रमः । अष्टमीमन्ते कृत्वा नवादिगणन पूर्त-
त्रासमर्थस्यैते पक्षाः “क्षपयेताश्विने शक्र! यावत्च्छुक्ला
तु अष्टमी । पूजयेन्मङ्गलां तत्र मण्डले विधिवत्कृते ।
सर्वसम्भारसम्पन्ने सर्वसिद्धिविधायके । सर्वकामानवाप्नु-
यात्” इत्यादि ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/व्रत&oldid=57847" इत्यस्माद् प्रतिप्राप्तम्