- शिरः स्नानमुद्वर्त्तनमथापि वा । विवर्जितां मृदं सर्वां
- शौचार्थन्तु विधीयते । तिलामलफलैर्नित्यं श्रीफलैश्च
- समाचरेत् । प्रक्षालनञ्च शिरसः सदा मृण्मिश्रितैर्जलैः ।
- शिरसाऽभ्यञ्जनं सौम्ये! नैवमेतत् प्रशस्यते । न पादयोर्न
- मात्रस्य स्नेहेनेति स्थितिः स्मृता । गोयानमुष्ट्रयानञ्च
- कथञ्चिदपि नाचरेत् । खरयानञ्च सततं व्रते चाप्युप-
- वासके । नदीजलं प्रस्ववजं शस्तं वै सोमनन्दिनि! ।
- शुभे तड़ागे वाप्यादौ विस्तीर्णे जलजाप्लुते । गत्वा
- स्नानं प्रशस्तन्तु सदैव खलु सर्वथा । अलाभे त्ववरुद्धा
- स्त्री घटस्नानं समाचरेत् । नवैश्च कुम्मैः स्नातव्यं विधि-
- रेष सनातनः । स्नानञ्च कार्य्यं शिरसा तपःफलमवा-
- प्नुयात्” । भविष्यत्पुराणे “क्षमा सत्यं दया दानं
- शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्ज-
- नम् । सर्वव्रतेष्वयं धर्मः सामान्यो दशकः स्थितः” ।
- अत्र क्षमादीनां स्वतन्त्रतया चतुर्वर्गसाधनत्वेन विहि-
- तानां व्रताङ्गतयाऽभिधानं खादिरं वीर्य्यकामस्येत्यादि-
- वत् संयोगपृथक्त्वन्यायादुपपन्नम् । मत्स्यपुराणे
- “तस्मात् कृतोपवासेन स्नानमभ्यङ्गपूर्वकम् । वर्जनीयं प्रय-
- त्नेन रूपघ्नं तत्परं नृप!” । यत्तूक्तं गरुड़पुराणे-
- “गन्धालङ्कारवस्त्राणि पुष्पमालानुलेपनम् । उपवासे न
- दुष्यन्ति दन्तधावनमञ्जनम्” इति यच्च व्यासोक्तम्
- “दन्तधावनपुष्पाणि व्रतेऽपि स्युर्न्न दुष्यति” । तदेतत्स-
- भर्तृकोपवासविषयम् । भविष्यत्पुराणे “अञ्जनञ्च
- सताम्बूलं सिन्दूरं रक्तबाससी । बिभृयात्सोपवासापि अवैध-
- व्यकरं परम् । विधवा यतिमार्गेण कुमारी वा
- यदृच्छया” पद्मपुराणे “गर्भिणी सूतिकादिश्च कुमारी वाथ
- रोगिणी । यदा शुद्धा तदान्येन कारयेत् प्रयता
- स्वयम्” । गर्भिण्यादिरुपवासे कर्त्तव्ये नक्तं कुर्य्यात् ।
- सूतकादिभिरशुद्धा अन्येन व्रतं कारयेत् । प्रयता शुद्धा,
- स्वयं कुर्य्यात्, पूंसोऽप्येष विधिः लिङ्गस्याविवक्षितत्वात्
- तदेवं स्त्रीणां कन्यादशायां पित्रादेराज्ञया, विन्नानां
- भर्तूराज्ञया, विधवानां पुत्राद्याज्ञयैव व्रताधिकारोनान्य-
- येति सिद्धम् । अग्निपुराणे “व्रीहिषष्टिकमुद्गाश्च
- कलायाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोघू-
- माद्या व्रते हिताः । कूष्माण्डालाबुवार्त्ताकीपालङ्क्य
- ज्योत्स्नकाख्यजेत् । चरुर्मैक्ष्यं शक्तुकणाः शाकन्दधि
- घृतं मधु” । श्यामाकाः शालिनीवारा शाकं मूलपत्रादि-
- कम् । “हविष्यव्रतनक्तादावग्निकार्य्यादिकं हितम् ।
|
- मधु मांसं विहायान्यद् व्रते च हितमीरितम्” । व्र० ख०
- दयादीनामुपवासगुणतयातदङ्गत्वम् एका० त० दर्शित यथा
- व्रते गुणानाह गोतमः “दया सर्वभूतेषु क्षान्तिरनसूया
- शौचमनायासो मङ्गलमकार्पण्यमस्पृहा चेति” ।
- दयादिलक्षणान्याह वृहस्पतिः “परे वा बन्धुवर्गे वा मित्रे
- द्वेष्टरि वा सदा । आत्मवद्वर्त्तितव्य हि दयैवैषा प्रकी-
- र्त्तिता” । परे उदासीने । आपत्सु रक्षितव्यन्त्विति
- कल्पतरौ पाठः । आत्मवदितिव्यक्तमाह दक्षः “यथै-
- वात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता । सुखदुःखानि
- तुल्यानि यथात्मनि तथा परे” । वृहस्पतिः “बाह्ये
- चाध्यात्मिके चैव दुःखे चोत्पादिते कचित् । न कुप्यति
- न वा हन्ति सा क्षमा परिकीर्त्तिता । न गुणान्
- गुणिनो हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते
- साऽनसूया प्रकीर्त्तिता । अभक्ष्यपरिहारस्तु संसर्गश्चाप्य-
- निन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्ति-
- तम् । शरीरं पीड्यते येन सुशुभेनापि कर्मणां । अत्यन्तं
- तन्न कुर्वीत अनायासः स उच्यते । प्रशस्ताचरणं नित्य-
- मप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वद-
- र्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना ।
- अहन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम् ।
- यथोत्पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना । परस्य
- चिन्तयित्वार्थं साऽस्पृहा परिकीर्त्तिता” । देवीपुरा-
- णम् । “तद्ध्यानं तज्जषः स्नानं तत्कथाश्रवणादिकम् ।
- उपवासकृतो ह्येते गुणा प्रोक्ता मनीषिभिः” ।
- व्रतकालविवेकेऽत्र विशेष उक्तो यथा “दीर्घकालानुपा-
- लनीयतत्तदितिकर्त्तव्यताकलापोपहितनियतसङ्कल्पविषयो
- व्रतमिति व्रतलक्षणम् । व्रतानां सङ्कल्पसम्भवत्वमाह मनुः
- “सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रता-
- (पुंस्त्वमार्षम्) नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः” ।
- व्रतारम्भप्रतिष्ठाकालमाह ज्योतिषम् “गुरोर्भृगोरस्तबाल्ये
- बार्द्धक्ये सिंहगे गुरौ । गुर्वादित्ये दशाहे तु वक्रिजीवा-
- ष्टविंशके । दिने, प्राग्राश्यनायातातिचारिगुरुवत्सरे
- प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके । कल्पाद्य
- द्भुत सप्ताहे नीचस्थेज्ये मलिम्लुचे । मानुतलङ्घितवे
- मासि क्षये राहुयुते गुरौ । पौषादिकचतुर्मासे चरणा-
- ङ्कितवर्षणे । एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये ।
- तृतीयेन तु सप्ताहे माङ्गल्यानि जिजीविषुः । विद्यारम
- कर्णवेधौ चूड़ापनयनोद्वहान् । तीर्थयानमनावृत्तं तथा
|