वाचस्पत्यम्/वहति

विकिस्रोतः तः
पृष्ठ ४८६७

वहति पु० वह--अति । १ वायौ उणा० । २ गवि ३ सचिवे च

मेदि० ।

वहन न० वह--भावे ल्युट् । १ पुरभेदे त्रिका० २ प्रापणे । ३ गमने च ।

वहन्त पु० वह--झ । वायो सि० कौ० २ बाले उणा० ।

वहल पु० वह--अलन् । १ पोते हारा० २ दृढ़े त्रि० हेम० ।

वहलगन्ध न० वहलो दृढ़ो गन्धो यस्य । शम्बरचन्दने

राजनि० ।

वहलचक्षुस् पु० वहलानि चक्षुषीव पुष्पाण्यस्य । मेषशृङ्ग्यां

(गाड़रशिङ्गा) रत्नमा० ।

वहलत्वच पु० वहला दृढ़ा त्वचा यस्य । श्वेतलोध्रे राजनि० ।

वहला स्त्री वहलानि पुष्पादीनि मन्त्यस्य अर्श आद्यच् ।

१ शतपुष्पायां राजनि० । २ स्थूलैलायां भावप्र० ।

वहित्र न० वह--इत्र । १ पोते जलयाने त्रिका० । स्वार्थे

क । अत्रैवार्थे ।

वहिरङ्ग न० वहिः प्रकृतेर्वाह्यमङ्गं यस्य । व्याकरणोक्ते

प्रत्ययादिनिमित्तके प्रकृत्यवयवादिकार्य्ये । “असिद्धं
वहिरङ्गमन्तरङ्गे” व्या० परिभाषा ।

वहिरिन्द्रिय न० वहिर्देहाद्बाह्यस्य पदार्थस्य ग्राहक-

मिन्द्रियम् । शब्दादिबाह्यविषयग्राहकेषु श्रोत्रादिषु ।

वहिर्द्वार न० वहिःस्थं द्वारम् । तोरणे अमरः ।

वहिर्मुख त्रि० वहिः बाह्यविषये मुखं प्रवणता यस्य ।

बाह्यविषयासक्तमनस्के विषयासक्ते १ जने २ विमुखे च ।

वहिस् अव्य० वह--इमुन् । बाह्ये अमरः ।

वहैड़क पु० वह--अच् वहः एडुक इव वृहत् काण्डो यस्य ।

विभीतृकवृक्षे (वहेड़ा) राजनि० ।

वह्नि पु० वह--नि । १ अग्नौ २ चित्रकवृक्षे अमरः ३ भल्ला-

तके ४ निम्बूके राजनि० । तन्त्रोक्ते ५ रकारे च ।
“वर्गाद्यं वह्निसंस्थम्” इति श्यामास्तोत्रम् ।
वह्निभेदादिकं यथा
“जृम्भको दापकश्चैव विभ्रमभ्रमशोभनाः ।
आवसथ्याहवनीयो दक्षिणाग्निस्तथैव च । अन्वाहार्य्यो
गार्हपत्य इत्येते दश वह्नयः” । अन्यैरन्यथोक्तानि यथा
“म्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारका
बन्धकश्चैव द्रावकाख्यश्च सप्तमः । व्यापकः पावकश्चैव
श्लेष्मको दशमः स्मृतः” । शरीरस्थवह्नेः नामानि
यथा “वह्नयो दोषदुष्येषु संलीना दश देहिनः” ।
दोषदुष्याश्च यथा “वातपित्तकफा दोषाः दुष्या स्युः सप्त-
ञ्जतवः” शा० ति० । “मुख्याग्नयो यथा “गार्हपत्यो
दक्षिणाग्निस्तथैवाहवनीयकः । एतेऽग्नयस्त्रयो मुख्याः
शेषाश्चोपसदस्त्रयः” वह्नि० पु० । तत्र निषिद्धकर्माणि
यथा “नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन् ।
न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित् । न चैनं
पादतः कुर्य्यात् मुखेन न धमेद्वुधः । अग्नौ न निःक्षि-
पेदग्निं नाद्भिः प्रशमयेत्तथा । न वह्निं मुखनिश्वासै-
र्ज्वालयेन्नाशुचिर्बुधः । स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु
चिरं वसेत् । नापक्षिपेन्नोपधमेत् न सूर्पेण च
पाणिना । मुखेनाग्निं समुन्नीतं मुखादग्निरजायत”
कूर्मपु० १५ अ० । अग्निवैकृत्यं तस्य शान्तिश्च यथा
“अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरिन्धनः । न दीप्यते
चेन्धनवान् स राष्ट्रः पीड्यते नृपैः । प्रज्वलेदप्सु
मासं वा तथार्द्धञ्चापि किञ्चन । प्रासाद तोरणद्वारं
नृपवेश्म सुरालयम् । एतानि यत्र दह्यन्ते तत्र
राजभयं भवेत् । विद्युता वा प्रदह्यन्ते तत्रापि नृपते-
र्मयम् । धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भवम् ।
विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित् ।
त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः । समिद्भिः
क्षीरवृक्षष्णां सर्षपैस्तु घृतेन च । दद्यात् सुवर्णञ्च तथा
द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च । एवं कृते
पापमुपैति नाशं यदग्निवैकृत्यभवं द्विजेन्द्र”! वह्निपु० १०५ अ० ।
६ तद्देवताके कृत्तिकानक्षत्रे ज्योतिपम् ।

वह्निकरी स्त्री वह्निं देहस्थवह्निं करोति उद्दीपयति कृ--ट

ङीप् । १ धातकीवृक्षे (धाइफुल) शब्द० । २ वह्न्युद्दीपके
त्रि० ।

वह्निकाष्ठ न० वह्नेर्दाह्यदाहायानुकूलं काष्ठम् शा० त० । दाहागुरुणि राजनि० ।

वह्निगन्ध पु० वह्नौ दाहकाले गन्धो यस्य । यक्षधूपे शब्दच०

वह्निगर्म पु० वह्निर्गर्भे यस्य । १ वंशे २ शमीवृक्षे स्त्री शब्दर०

वह्निज्वाला स्त्री वह्नेर्ज्वालेव पीडाकारकत्वात् । १ धातकी-

वृक्षे राजनि० ६ त० । २ वह्निशिखायाम् ।

वह्निदीपक पु० वह्निं देहस्थवह्निं सेवनाद्दीपयति

दीपणिच्--ण्वुल् वह्निरिव दीप्यति दीप--ण्वुल् वा । १ कुसुम्भे
शब्दर० । २ अग्न्युद्दीपके त्रि० । ३ अजमोदायाम् स्त्री
राजनि० ।

वह्निनी स्त्री वह्निं तत्कान्तिं नयति नी--ड गौरा० । ङीष् । जटामांस्याम् रत्नमा० ।

वह्निपुष्पी स्त्री वह्निरिव तापकं पुष्पं यस्याः ङीप् । धातकी-

वृक्षे राजनि० ।

वह्निभोग्य न० ६ त० । वृते शब्दच० ।

पृष्ठ ४८६८

वह्निमन्थ पु० वह्नये वह्निजननाय मथ्यतेऽसौ मन्थ--कर्मणि

घञ् । १ गणिकारीवृक्षे जटा० । ६ त० । २ वह्नेर्मन्थने
राजनि० ।

वह्निमित्र पु० वह्निर्मित्रं यस्य । १ वायौ शब्दच० ६ त० । तत्रैव न० ।

वह्निरेतस् पु० वह्नौ निषिक्तं रेतो येन । १ शिवे वह्नौ हि

निषिक्तात् शिववीर्य्यात् गङ्गादिसंक्रमेण कार्त्तिकेयो-
त्पत्तिः पुराणप्रसिद्धम् । ६ त० । २ काञ्चने च ।

वह्निलोहक न० वह्नेः प्रियं लोहं धातुः स्वार्थे क । कांस्ये राजनि० ।

वह्निवधू स्त्री ६ त० । १ अग्निभार्य्यायां स्वाहायाम् २ स्वाहा-

त्मके मन्त्रे च । वह्निजायादयोऽप्यत्र ।

वह्निवर्ण न० वह्नेरिव वर्णोऽस्य । रक्तोत्पले शब्दच० ।

वह्निवल्लभ पु० वह्नेर्वल्लभ उद्दीपकत्वात् । सर्जरसे (धुना) त्रिका०

वह्निवीज न० वह्नेर्देहस्थवह्नेर्वीजमिव उद्दीपकत्वात् ।

१ जीरके ६ त० । वह्निदेवताके तन्त्रोक्ते २ रकारे च ।
३ निम्बूके राजनि० ४ हेमच० ।

वह्निशिख न० वह्नेरिव रक्तत्वात् शिखाऽस्य । १ कुसुम्भे

अमरः । २ फलिन्यां ३ कलिकारीवृक्षे ४ धातक्याञ्च स्त्री
राजनि० ६ त० । ५ अग्निशिखायां स्त्री ।

वह्निसख पु० ६ त० । १ वायौ । देहस्थवह्नेरुद्वीपके २ जीरके राजनि० ।

वह्य न० वह--यत् । १ शकटे २ वाहनमात्रे च हेमच० ।

३ मुनिपत्न्यां स्त्री उणा० ।

वा सुखाप्तौ अक० गतौ सेवने च सक० चुरा० उभ० सेट् ।

वापयति ते अवीवपत् त ।

वा गमने हिंसने (सूचने) च अदा० पर० सक० अनिट् । वाति अबासीत् ।

वा अव्य० वा--का । १ विकल्पे २ सादृश्ये ३ अवधारणे ४

समुच्चये अमरः । एष्वर्थेषु गणरत्ने उदाहृतं यथा (विकल्पे)
यवैर्वा व्रीहिभिर्वा यजेत । (उपमाने) सिन्धौ वाधो
मण्डलं गोर्वा रसः” द्वन्द्वे (अवधारणे) “सा वा शम्भो-
स्तदीया वा मूर्त्तिर्जलमयी मम” न तृतीयेत्यर्थः । (समुच्चये)
वायुर्वा दहनो वा । ५ वितर्के ६ पादपुरणे च मेदि०

वांशिक पु० वंशी तद्वादनं शिल्पमस्य ठक् । वंशीवादनशीले जटा०

वांशी स्त्री वंशे भवः अण् ङीप् । वंशरोचनायाम् राजनि०

वाक पु० वच--घञ् । १ वचने “नमोवाकं प्रशास्महे” उत्तरराम-

त्तरितम् । पृषो० सान्तत्वम् । ग्रन्थभेदे “वाकोवाक्येति-
हासेत्यादि” छान्दोग्यम् । “वाकोवाक्यम् उक्तिप्रत्यु-
क्तिरूपम्” भा० । वकस्येदम् तेषां समूहो वा अण् ।
३ वकसम्बन्धिनि त्रि० । ४ वकसंघे न० अमरः ।

वाकुची खी वाति क्विप् वाः कुच--वडोचे क गौरा० ङीप्

कर्म० । (हाकुच) १ ओषधिभेदे २ सोमराज्यां राजनि० ।

वाक्कीर पु० वाचा कौतुकवाचा कीर इव प्रियत्वात् ।

श्यालके शब्दर० ।

वाक्छल न० गौत० सूत्रोक्ते छलभेदे “अविशेषाभिहितेऽर्थे

वक्त्रभिप्रायादर्थान्तरकल्पनम् वाक्छलम्” गौ० सू० ।
शक्त्या एकार्थशाब्दबोधतात्पर्य्यकशब्दस्य शक्त्याऽर्था-
न्तरबोधतात्पर्य्यकत्वकल्पना वाक्छलम्” वृत्तिः । यथा
लेपालादागतोऽयं नवकम्बलवत्त्वात् इत्युक्ते कतोऽस्व
सवसंख्यकाः कम्बला इत्युक्तिः ।

वाक्पति पु० ६ त० । १ वृहस्पतौ अमरः २ पुष्यनक्षत्रे च

वाचः पतिरिव । ३ निर्दोषोद्धतवचनयुक्ते रायमुकुटः ।

वाक्पथ पु० वाचः पन्थाः विषयः अच्समा० । वाक्यविषये

वाक्पारुष्य न० वाचा कृतं पारुष्यम् । १ वाक्यकृते पारुष्ये

तद्विषके २ विवादभेदे च । तद्विवृतिः वीरमि० उक्ता यथा
“तस्य च स्वरूपमाह नारदः “देशजातिकुलादीवामा-
क्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्षारुष्यं
तदुच्यते” इति । आक्रोशः आक्षेपः भर्त्सनमिति यावत्
कलहप्रियाः गौड़ा इति देशाक्रोशः । अत्यन्तलोलुपा
ब्राह्मणा इति जात्याक्रीशः । “क्रूरचरिता वैश्वामित्रा
इति कुलाक्षेपः । न्यङ्गं निकृष्टाङ्गमवद्यञ्च तदुभययुक्तं
यदुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यमित्यर्थः । तस्य
त्रैविध्यमाह स एव “निष्ठुराश्लीलतीव्रत्वादपि तत् त्रिविधं
स्मृतम् । गौरवानुक्रमात्तस्य दण्डीऽपि स्यात् कमाद्गुरु-
रिति” निष्ठुरादीनां स्वरूपमाह स एव “साक्षेपन्निष्ठुरं
ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहु-
र्मनीषिणः” इति । धिङ्मूर्ख! जाल्म! इत्यादि
साक्षेपम्भाषणं निष्ठुरम् । न्यङ्गसंयुतं अवद्यम्भगिन्या-
दिगमनसंयुतम् अश्लीलम् । पतनीयैः सुरापानादिभि-
रुपाक्रोशैस्तीव्रं वाक्पारुष्यमित्यर्थः । कात्यायनोऽपि
“यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् । अभूतैर्वाथ
भूतैर्वा निष्ठुरा वाक् स्मृता तु सा । न्यग्भावकरणं
वाचा क्रोधात्तु कुरुते यदा । वृत्तदेशकुलानान्तु
अश्लीला सा बुधैः स्मृता । महापातकयोक्त्री च
रामद्वेषकरी च या । जातिभ्रंशकरी वाथ तीव्रा सा
प्रथिता तु वागियि ।” कल्पतरौ न्यङ्गावगूरणमिति
पठित्वा निकृष्टाङ्गप्रकाशनेन तिरस्करणमिति व्याख्या-
तम् । न्यग्भावकरणमिति तु माधवादिसंमतः पाठः ।
प्रथममध्यमोत्तममेदेन त्रैविध्यमाह वहस्पतिः “दो
पृष्ठ ४८६९
ग्रामकुलादीनां क्षेपः पापेन योजनम् । द्रव्यं विना
तु प्रथमं वाक्पारुष्यं तदुच्यते । भगिनीमातृसम्बन्ध-
मुपपातकशंसनम् । पारुष्यं मध्यमं प्रोक्तं वाचिकं
शास्त्रवेदिभिः । अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यमुत्तम “प्रोक्तं तीव्रं मर्माभिघट्टनमिति ।” द्रव्यं
विनेत्यत्र द्रव्यशब्दोऽभिधेयपरः । तेनोच्यमानार्थव्यति-
रेकेणैवंविधमभिधानं वाक्पारुष्यमित्यर्थः इति कल्प
तरौ । द्रव्यं विना द्रव्यवैशिष्ट्यं विनेति मदनरत्ने ।
अभिघट्टनं उत्पाटनम् । निष्ठुराक्रोशे दण्डमाह
याज्ञवल्क्यः “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रिय
रोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदशा
निति । अन्यथास्तोत्रन्निन्दास्तुतिः । न्यूनाङ्गाः
करादिरहिताः । न्यूनेन्द्रियाः नेत्रादिरहिताः । रोगिणः
कुष्ठ्यादयः अर्द्धत्रयोदशान् अर्द्धाधिकद्वादशपणानि-
त्यर्थः । एतत् सवर्णविषयम् । अतएव वृहस्पतिः
“समजातिगुणानान्तु वाक्पारुष्ये परस्परम् । विनयो-
विहितः शास्त्रे पणा अर्द्धत्रयोदशाः” इति । “विष्णुरपि
“समवर्णाक्रोशे द्वादश पणान्दण्ड्य इति” । परस्परमिति
शेषः । मनुनारदावपि “समवर्णे द्विजातीनां द्वादशैव व्यति-
क्नमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेदिति” । शङ्ख
तिखितावपि “समवर्णव्यतिक्रमे द्वादशपणा यथारूप-
विशिष्टाक्षेप्रेषु विशिष्टस्य चतुर्विंशतिरविशिष्टस्यातिक्रमे
च विशिष्टस्य ततोऽर्द्धमिति । अत्र द्वादशसार्द्धद्वादशयो-
रुत्कृष्टानुत्कृष्टत्वेन व्यवस्था । कात्यायनोऽपि” “यो
मुणान् कीर्त्तयेत् क्रोधान्निर्गुणे वा गुणज्ञताम् । अन्य
संज्ञानियोजो च वाग्दुष्टं तन्नरं विदुरिति” “नारदोऽपि
“दुष्टस्यैव तु यो दोषान् कीर्त्तयेत् क्रोधकारणात् ।
अन्यायदेशवादी च वाग्दुष्टं तन्नरं विदुरिति” “अत्र
कोधकारणादित्यनेन दुष्टपरित्यागार्थं दोषकीर्त्तने न दोष
इति सूचितम् । अतएवोक्तं कात्यायनेन “यत्र स्वात्परि-
हारार्थं पतितस्तेन कीर्त्तितः । वचनात्तत्र न स्यात्तु दोषो
यम विभावयेदिति” “वचनात् दोषकीर्त्तनात् । यत्रा-
मियोगादौ पातित्यादिकं साधयेत्तत्रापि वचनाद्दोषो न
स्यादिति यत्र विभावयेदित्यस्यार्थ उक्तः स्मृतिचन्द्रिका-
याम् । अत्रापि दण्डपारुष्यन्यायेन युगपत्प्रवृत्तयो-
र्दण्डतुल्यत्वं अयुगपत्प्रवृत्तयोः पूर्वप्रवृत्तस्य दण्डाधि-
क्यमिति द्रष्टव्यम् । जातिगुणकृते विशेषे दण्डवैषम्य-
माह तिः “नयोः ममो दण्डोन्यूनस्य -
णोदमः । “उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्पर-
मिति” । हीनस्योत्तनाक्षेपे द्विगुणः उत्तमस्य हीना-
क्षेपेऽर्द्धपरिमितोदण्ड इत्यर्थः । याज्ञवलक्योऽपि
“अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रण-
यनं कार्यं वर्णजात्युत्तराधरैरिति” “अर्द्धः सार्द्धद्वाद०
शपणात्मक इत्यर्थः पूर्ववाक्ये “पञ्चविंशतिको दम” इति
पञ्चविंशतेः प्राकृतत्वात् । वर्णा ब्राह्मणादयः । जातयो
मूर्द्धावसिक्तादयः । ते च ते उत्तराधराश्च वर्णजात्यु-
त्तराधरास्तैरन्योन्याक्षेपे क्रियमाणे दण्डस्य प्रणयनम्
ऊहनीयं ज्ञातव्यम् । उत्तराधरभावमालोच्य दण्डः
कल्पनीय इत्यर्थः । तमेव कल्पनीयं दण्डं प्रदर्शयति
मनुः “शतं व्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।
वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु बधमर्हति । विप्रः पञ्चा-
शतं दण्ड्यः क्षत्त्रियस्यामिशसने । वैश्ये स्यादर्द्धपञ्चा-
शच्छूद्रे द्वादशको दम इति ।” वृहस्पतिरपि क्षिपन्
विप्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति” । शङ्ख-
लिखितावपि “आक्रोशे ब्राह्मणस्य क्षत्त्रियः पणशतं
दण्ड्यः, शतार्द्धं वैश्यस्य पञ्चविंशतिं शूद्रस्येति” ।
वृहस्पतिरपि । “विप्रः शतार्द्धं दण्ड्यस्तु क्षत्त्रियस्याभिशंसने ।
विशस्तथार्द्धं पञ्चाशच्छूद्रस्यार्द्धत्रयोदश । सच्छूद्रस्या-
यमुदितो विनयोऽनपराधिनः । गुणहीनस्य पारुष्ये
ब्राह्मणो नापराघ्नुयात् । वैश्यस्तु क्षत्तिया-
क्रोशे दण्डनीयः शतम्भवेत् । तदर्द्धं क्षत्त्रियो वैश्यं
क्षिपन् विनयमर्हति । शूद्राक्रोशे क्षत्त्रियस्य पञ्चविंश-
तिको दमः । वैश्यस्य चैतद्द्विगुणः शास्त्रविद्भिरुदा-
हृतः । वैश्यमाक्षारयन् शूद्रोदाप्यः स्यात् प्रथमं
दमम् । क्षत्त्रियं मध्यमञ्चैव विप्रमुत्तमसाहसमिति ।”
जिह्वाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः । तथा च
स एव “धर्मोपदेशकर्त्ता च वेदोदाहरणान्वितः ।
आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते” इति
शूद्र इत्यनुषङ्गः । आपस्तम्बोऽपि “जिह्वाछेदनं शूद्र-
स्वार्यं धार्मिकमाक्रोशतः” इति । गौतमोऽपि “शूद्रो
द्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुप्याभ्याम-
ङ्गम्मोच्यो येनोपहन्यादिति” । अभिसन्धाय बुद्धिपूर्वं
वाचातिक्रम्य अभिहत्य उग्रेण दण्डेन ताड़यित्वा अङ्ग-
मोच्यो येनाङ्गेनाभिहन्यते तेन वियोजमीय इत्यर्थः ।
गुर्वाद्याक्रोशे त्वाहतः शङ्खलिखितौ “तथाऽधिकृतान्
विप्रान् गुरुश्च निवासनम्मुण्डनं ताड़नं वा गोमयानुलेपनं
पृष्ठ ४८७०
खरारोहणं दर्पहरणं वा दण्डो वेति । दण्डः कार्षा-
पणशतरूपः । अतएव विष्णुः “गुरूनाक्षारयन् कार्षा-
पणशतमिति” । पुत्रादिभिर्मात्रादीनामाक्रोशे दण्डमाह
मनुः “मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।
आक्षारयन् शतन्दाप्यः पन्थानञ्चाददद्गुरोरिति” ।
भ्रातरं ज्येष्ठभ्रातरम् । एतच्च साफराधेषु मात्रादिषु
निरपराधायां जायायामिति मिताक्षरायामभाणि ।
श्वश्र्वाद्यधिक्षेपे दण्डमाह वृहस्पतिः “क्षिपन्
शश्व्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति ।” वाह्वा-
दिच्छेदन निष्ठुरभाषाभिभाषणे दण्डमाह याज्ञवल्क्यः
“बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्त-
दर्द्धिकः पादनासाकर्णकरादिष्विति ।” बाह्वादिविनाशे
वाचिके करिष्यामीति वाचा प्रतिपादितं शत्यः शतपरि-
मितो दण्डः । पादादिभङ्गं करिष्यामीत्याक्षेपे पञ्चा-
शत्परिमितो दण्ड इत्यर्थः । एवंवादिनोऽशक्तस्य
दशपणा दण्डनीया इत्याह स एव “अशक्तस्तु वदन्नेवं
दण्डनीयः पणान्दशेति ।” यः पुनः शक्तोऽशक्तस्य
बाह्वादिभङ्गाक्षेपं करोति न केवलं स दण्ड्यः किन्तु
अशक्तक्षेमार्थं प्रतिभुवमपि दापनीय इत्याह स एव
“तथा शक्तः प्रतिभुवन्दाष्यः क्षेमाय तस्य त्विति” । अश्ली-
लभाषणे दण्डमाह स एव “अभिगन्तास्मि भगिनीं
सातरं वा तवेति ह । शपन्तन्दापयेद्राजा पञ्चविंशतिकं
दममिति ।” तीव्राक्रोशे दण्डमाह स एव “पतनीय
कृते क्षेपे दण्डमुत्तमसाहसम् । उपपातकयुक्ते तु
दाप्यः प्रथमसाहसमिति ।” पतनीयैः पातित्यहेतुमि-
र्ब्रह्महत्यादिभिः । उपपातकानि गोबधादीनि ।
मनुरपि “ब्राह्मणक्षत्त्रियाभ्यान्तु दण्डः कार्य्यो विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः । विट्-
शूद्रयोस्त्वेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं
दण्डस्येति विनिश्चयः । पापोपपातवक्तारो महापातक-
शंसकाः । आद्यमध्योत्तमान्दण्डान्दद्युस्त्वेते यथाक्रम-
मिति ।” विष्णुरपि “परस्परपतनीये क्षेपे कृते तूत्तम-
साहसं उपपातकयुक्तन्तु मध्यमम् त्रैविद्यवृद्धानांक्षेपे
जातिपूगानाञ्च ग्रामदेशयोः प्रथममिति” । देशाद्याक्रोशे
दण्डमाह वृहस्पतिः “देशादिकं क्षिपन्दाप्यः
पणानर्द्धत्रयोद्रश । पापेन योजयन् दर्पाद्दाप्यः प्रथमसाह-
सम् । एष दण्डः समाख्यातः पुरुषापेक्षया मया ।
समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिरिति ।” याज्ञ-
वल्क्योऽपि “मध्यमो जातिपूगानां प्रथमो ग्रामदेशयो-
रिति ।” राज्ञ आक्रोशे दण्डमाह नारदः
“अवक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वा-
च्छेदाद्भनेच्छुद्धिः सर्वस्वहरणेन वेति ।” याज्ञवल्क्योऽपि
“राज्ञोऽनिष्टप्रवक्तारन्तस्यैवाक्रोशकन्तथा । तन्मन्त्रस्य
च भेत्तारञ्छित्त्वा जिह्वाम्प्रवासयेदिति ।” सत्यदोषा-
भिधानेऽपि वाक्पारुष्यदण्डोऽस्त्येव तथा च नारदः
“पतितं पतितेत्युक्त्वा तथा चौरेति वा पुनः । वचना-
चुल्यदोषः स्यान्मिथ्याद्विर्दोषतां व्रजेदिति ।” मनुनारदा-
वपि “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन्दाप्यो दण्डङ्कार्षापणाबरमिति ।”
विष्णुरपि “काणखञ्जादीनान्तथ्यवाच्यपि कार्षापणद्वय-
मिति ।” एतच्च दुर्वृत्तविषयमिति माधवीये विद्यारण्य-
श्रीपादैरभ्यधायि । मिथ्यावदनशीलानां दण्डमाह
कात्यायनः “अनृताख्यानशीलानाञ्जिह्वाच्छेदो विशो-
धनमिति ।” हारीतोऽपि “मिथ्याभाषिणां मेलका-
नाञ्च राजा जिह्वाञ्छिन्द्याद्दण्डयेद्वेति” मेलको भक्षकः ।
कस्यचिद्वाक्पारुष्यकृतोऽर्द्धदण्डमाहोशनाः “मोहात्-
प्रमादात्सङ्घर्षात् प्रीत्या वोक्तं मयेति यः । नाहमेवं
पुनर्वक्ष्ये दण्डार्द्धन्तस्य कल्पयेदिति ।”

वाक्य न० वच--ण्यत् चस्य कः । “वाक्यं स्याद् योग्यताका-

ङ्क्षासत्तियुक्तः पदोच्चयः” इत्युक्ते १ पदसंघे सा० द० । २ स्वार्थ-
बोधसमाप्ते पदसमुदाये वैयाकरणाः ।

वाक्ष स्पृहायां भ्वा० पर० सक० सेट् इदित् । वाङ्क्षति अवाङ्क्षीत् ।

वागीश पु० वाचामोशः । १ वृहस्पतौ “वागीशाद्याः

सुमनस” इति न्यायमाला । २ सरस्वत्यां स्त्री “वागीशा
हृदये यस्य” इति भाग० टीकोपक्रमे श्रीधरः । ३ पुष्यर्क्षे च

वागीश्वर पु० ६ त० । १ वृहस्पतौ २ गुरौ च ३ तत्पत्न्यां

स्त्री ङीष् “वागीश्वरीमृतुस्नातां फुल्लेन्दीवरलोचनाम् ।
वागीश्वरेण संयुक्ताम्” इति तन्त्रम् । ४ सरस्वत्यां स्त्री
ङीप् ५ मञ्जु घोषे पु० त्रिका० ।

वागुजी स्त्री वाचा गुज्यते ध्वन्यते गुज--क गौरा० ङीष् । सोमराज्याम् अमरः ।

वागुरा स्त्री वा--हिंसने उरच् गन् च । मृगथार्थं मृगबन्ध-

नपाशादौ अमरः ।

वागुरावृत्ति पु० वागुरा मृगबन्धनपाशादिरेव दृत्तिर्जीविका यस्य । व्याधे ।

वागुरिक पु० वागुरा प्रहरणं यस्य वागुरयाचरति वा टक् ।

व्याधे अमरः ।

वाग्गुद पुंस्त्री० पक्षिभेदे त्रिका० गुडहरके तज्जातिप्राप्ति-

र्मनुनोक्ता “गोधा गां वाग्गुदो गुड़म्” हत्वेति शेषः
पृष्ठ ४८७१

वाग्गुलि पु० राज्ञां ताम्बूलदातरि रत्नमाला ।

वाग्डम्बर पु० ६ त० । १ वाक्यस्तोमे २ बहुलवाक्ये च ।

वाग्दण्ड पु० वाचो वागिन्द्रियस्य दण्डः संयमनम् । १

मित२ भाषणे ३ वाक्यसंयमे च ।

वाग्दत्ता स्त्री वाचा दत्ता । विधिना वाक्यमात्रेण दातुं

कृतसङ्कल्पायां कन्यायाम्” वाचा दत्ता मनोदत्तेति उद्वा० त०

वाग्दरिद्र त्रि० ६ त० । मितभाषिणि शब्दमा० ।

वाग्दान न० ३ त० । कन्याया वाङ्मात्रेण दाने “ततो

वाग्दानपर्य्यन्तं यावदेकाहमेव च” शु० त० ।

वाग्दुष्ट त्रि० वाचा दुर्वचनेन दुष्टः । शुद्धेऽपि पस्तुन्य-

शुद्धरूपतया कथनेन दूषिते । “वाग्दुष्टं भावदुष्टं च
वर्जयेदिति” स्मृतिः ।

वाग्देवता स्त्री वाचां देवता । सरस्वत्यां “वाग्देवता

चरितचित्रितचित्तसद्मा” जयदेवः । वाग्देव्यादयोऽप्यत्र ।

वाग्मिन् त्रि० वाच् + अस्त्यर्थे ग्मिमि चस्य कः तस्य लोपः ।

१ प्रशस्तवाक्यवक्तरि अमरः । २ वृहस्पतौ पु० मेदि० ।
४ विष्णौ पु० विष्णुस० ।

वाग्य त्रि० वाचं यच्छति यम--ड । १ वाग्दरिद्रे शब्दमा० २ निर्वेदे ३ कल्ये अजयः ।

वाग्यत त्रि० वाक् वागिन्द्रियव्यापारोयता येन ।

मौनघारिणि मुनौ अमरः “वाग्यतस्त्रिसवनं चरेत्” स्मृतिः ।

वाग्यम त्रि० वाचं तद्व्यापारं यच्छति यम--अच् । मुनौ

अमरः ।

वाङ्मती स्त्री “हिमाद्रेस्वङ्गशिखरात् प्रोद्भूता वाङ्मती

नदी” इत्युक्ते नदीभेदे । सा च मिथिलादेशसन्नि-
कृष्टतया वहति ।

वाङ्मय त्रि० वाक्स्वरूपम् मयट् चस्य कः तस्य ङः । १ वाक्य-

स्वरूपे शास्त्रे । २ वाक्यजनिते पापभेदे च । “पारुष्यमनृतञ्चैव
पैशुन्यञ्चापि सर्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतु-
र्विधम्” मनुः । तथा “परुषवचनमपवादः पैशुन्यमनृतं
वृथालापो निष्ठुरवचनम् वाङ्मयानि षट् । परेषां
देशजातिकुलविद्याशिल्परूपवृत्ताचारपरिच्छदशरीरकर्मजी-
विनां प्रत्यक्षदोषवचनं परुषम । “यच्चान्यत् क्रोधस-
न्तापत्राससंजननं वचः । परुषं तच्च विज्ञेयं यच्चान्यच्च
तथाविघम् । चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्म-
णेति च । प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते” ।
तेषामेव परुषवचनानामपरोक्षमुदाहरणम् अपवादः ।
गुरुनृपतिवन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं दोषो-
पाख्यानं पैशुन्यम् । अनृतं द्विविधं असत्यमसंवाद-
श्चेति “देशराष्ट्रप्रसङ्गाच्च परार्थपरिजल्पनात् । नर्महास-
प्रसङ्गाच्च भाषणं व्यर्थभाषणम् । गुह्याङ्गामेध्यसंज्ञानां
भाषणं निष्ठुरं विदुः । यदन्यद् वा वचो नीचस्त्रीपुंसो-
र्मिथुनाश्रयम् । इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य
भाषणात् । इह चामुत्र च क्रूरमनर्थं प्रतिपद्यते” । प्रशं-
सयानिन्दनं प्रशंसानिन्दनम् । अत्र चतुर्विधषड्विधयो-
रविरोधः । समक्षत्वासमक्षत्वभेदानादरेण पारुष्याप-
वादयोरैक्यात् निष्ठुरस्य परुषान्तर्भावाच्च । असम्बद्ध-
प्रलापव्यर्थभाषणयोः पर्य्यायत्वान्नार्थान्तरम्” ति० त० ।

वाङ्मुख न० ६ त० उपन्यासे प्रथमवाक्योपक्रमे अमरः ।

वाचंयम त्रि० वाचां यच्छति वाचा + यम--ख मुम् ह्रस्वस ।

१ मितभाषिणि । २ मौनावलम्बिनि मुनौ पु० अमरः ।

वाच पुंस्त्री० वच--णिच--अच् । (वाचा) इति ख्याते मत्स्य-

भेदे राजवल्लभः स्त्रियां ङीष् ।

वाचक त्रि० वक्ति अभिधावृत्त्या बोधयति वच--ण्वुल् ।

“साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः” इत्युक्ते
१ शब्दभेदे २ कथके त्रि० । वाचयति वच--णिच्--ण्वुल् ।
३ पुराणादिपाठके पु० “वाचकः पूजितो येनेति” पुरा०
“ब्राह्मणं वाचकं विद्यान्नान्थवर्णजमादरात् । श्रुत्वान्य-
वर्णजाद्राजन्! वाचकान्नरकं व्रजेत्” । तथा “देवार्च्चा-
मग्रतः कृत्वा ब्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं
कुर्य्याद्वाचकः कुरुनन्दन! । पुनर्बघ्नीत तत्सूत्रं न मुक्त्वा
धारयेत् क्वचित् । हिरण्यं रजतं गाश्च तथा कांस्योपदो-
हनाः । दत्त्वा तु वाचकायेह श्रुतस्याप्नाति तत् फलम्” ।
कांस्योपदोहनाः कांस्यक्रोडाः “वाचकः पूजितो येन
प्रसन्नास्तस्य देवताः” । तथा “ज्ञात्वा पर्वसमाप्तिच्च पूजये-
द्वाचकं बुधः । आत्मानमपि विक्रीय य इच्छेत् सुफलं
क्रतुम्” । तथा “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं
तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् । बुध्यमानः
सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप! । ब्राह्मणादिषु
सर्वेषु ग्रन्थार्थं चार्पयेन्नृप! । य एवं वाचयेद् ब्रह्मन्
म विप्रो व्यास उच्यते” । तथा “सप्तस्वरसमायुक्तं काले
काले विशाम्पते! । प्रदर्शयन् रसान् सर्वान् वाचयेद्
वाचको नृप” ति० त० ।
वाचकलक्षणादि हेमा० दा० नन्दिपु० उक्त यथा
“वाचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामनाः ।
अभ्यस्ताक्षरविन्यासो वृत्तशास्वविशारदः । शब्दार्थवित्
पृष्ठ ४८७२
प्रगल्भश्च विनीतो मेधया पुनः । गीतिज्ञो वाक्य-
लश्राव्यः स्वरेणाखिलभाषकः” इत्युपक्रमे एवंविधा-
नतो वाच्यं वाचकेन विपश्चिता । तपःशमात्मकं मर्वं
स्वर्गादिफलसाधकम् । शनैर्विबोध्य वै वाच्यमध्यात्मादि
च यद् भवेत् । क्रुद्धोक्तियुद्धसंक्षोर्भ धारावर्त्तोन
(वेगेन) वाचयेत् । सरागं ललितैर्वाक्यैर्वाचयेत् वृद्धसङ्गमे ।
नानावृत्तानुरूपेण लालित्येन च वाचयेत् । सर्गाध्याये
समाप्ते च कथापर्य्यन्त एव वा । प्रशस्तशब्दसंयोगे कुर्य्या-
दिति विरामणम् । समाप्तौ वाचक्रो भीष्म! ब्रूयादेवं
विचक्षणः । अवधार्य्य जगच्छान्तिमन्ते शान्त्युदकं
सृजेत् । सुश्रुतं सुश्रुतं ब्रूयादस्तु व्याख्यातमित्यदः ।
लोकः प्रवर्त्ततां धर्मे राजा चास्तु सदा जती । धर्मवान्
धनसम्पन्नो गुरुश्चात्र निरामयः । इति प्रोच्य
यथाऽऽयातं गन्तव्यं च विभावतः ।

वाचन न० वच--णिच्--स्वार्थे वा णिच्--ल्युट् । १ पठने २ कथने

च युच् । पठने स्त्री ।

वाचनिक त्रि० वचनेन निर्वृत्तम् ठक् । वाक्यनिष्पादिते पापादौ ।

वाचस्पति पु० ६ त० अलुक्समा० । १ वृहस्पतौ । २ पुष्यन्क्षत्रे च

वाच्(चा) स्त्री उच्यतेऽसौ अनया वा वच--क्विप् नि० वा

टाप् । १ वाक्ये अमरः २ वागिन्द्रिये च ।

वाचाठ त्रि० वाक् + कुत्सायां वाहुल्येऽस्त्यर्थे आटच् भत्वात्

न कः । कुत्सितबहुभाषिणि अमरः । आलच् ।
वाचालोऽप्यत्र ।

वाचिक त्रि० वाचा कृतम् वाच् + ठक् भत्वात् न कः । वाक्य-

निष्पादिते पापादौ वाङ्मयशब्दे दृश्यम् । २ वाक्या-
रम्भभेदे । “आलापश्च विलापश्च संलापश्च प्रलापकः ।
अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः । अपदेशोपदेशौ
च निर्देशो व्यपदेशकः । कीर्त्तिता वचनारम्भा द्वाद-
शामी मनीषिभिः” उज्ज्वलमणिः ।

वाचोयुक्ति स्त्री ६ त० अलुक्स० । १ वाचादर्शितयुक्तौ २ वाक्यनैर्मल्ये च ।

वाच्य न० वच--भावे ण्यत् न कः । १ दूषणे २ प्रतिपादने

धरणिः । २ कथने च । कर्मणि ण्यत् । ४ दूष्ये
५ प्रतिपाद्ये अभिधया बोध्यार्थे च सा० द० ।
“नचाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्य-
वाचकभावोऽयमक्षपादादिशब्दवत् । विभीतकेऽप्यक्षशब्दो
यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते
शकटाङ्गवत्” म० त० भट्टवा० ।

वाछ कामे भ्वा० पर० सक० सेट इदित् । वाञ्छति अवाञ्छीत् । भावे--अ । वाञ्छा ।

वाज न० वज--घञ् । १ अन्ने २ घृते ३ जले ४ यज्ञे च मेदि० ।

५ शरपक्षे अमरः ६ वेगे पु० ८ निस्वने ९ पक्षे पु० मेदि०
१० मुनौ पु० विश्वः ।

वाजपेय पुंन० वाजमन्नं घृतं वा पेयमत्र । यागभेदे कात्या० श्रौ० तत्प्रकारादि दृश्यम् ।

वाजपेयिन् पु० वाजपेय + अस्त्यर्थे इनि । १ वाजपेययाग-

कर्त्तरि उपचारात् २ तद्वंश्ये च ।

वाजसन पु० वाजमन्नं सनोति ददाति सन--अच् ।

१ विष्णौ विष्णुस० । २ शिवे भा० आनु० १७ अ० ।

वाजसनि पु० राजस्य अन्नस्य सनिर्दानं येन । सूर्य्ये

“आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इत्युक्ते-
स्तस्य वृष्टिद्वारा अन्नदातृत्वात् तथात्वम् ।

वाजसनेय पु० वाजसनेः सूर्य्यस्य छात्रः ढक् । याज्ञ-

वल्क्ये “आदित्यानीमानि शुक्लानि यजूंपि वाजसने-
येन याज्ञवल्क्येनाख्यायन्ते” वृहदारण्य० श्रुतिः ।
अस्यार्थः । आदित्यादधीतान्यादित्यानि शुक्लानि
शुद्धानि । इयमत्र आख्यायिका । व्यासशिष्यो
वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो
यजुर्वेदमध्यापयत् । तत्र दैवात् केनापि हेतुना क्रुद्धो
वैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति ।
स योगसामर्थ्यान् मूर्तां विद्यां विधायोद्ववाम ।
वान्तानि यजूंपि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायन-
शिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षन् । तानि यजूषि
वुद्धिमालिन्यात् कृष्णानि जातानि । ततो दुखितो
याज्ञवल्क्यः सूर्य्यमाराध्यान्यानि शक्लानि यजूषि
पाप्तवान् । तानि च जाबालगौधेयकाण्वमाध्यन्दिनादिभ्यः
पञ्चदशशिष्येभ्यः पाठितवान्” वेददी० । “एवंस्ततः
स भगवाम् वाजिरूपधरो रविः । यजूंष्ययातयामानि
सुनयेऽदात् प्रसादतः । यजुर्भिरकरोच्छाखा दशपञ्चशतै-
र्विभुः । जगृहुर्वाजसन्यस्ताः । काण्वमाध्यन्दिनादयः”
भाग० १२ । ६ । ६७ श्लो०

वाजसनेयिन् पु० ब० व० । वाजसनेयेन प्रोक्तमधीयते इनि ।

यजुर्वेदशाखाभेदाध्यायिषु विप्रादिषु । २ तदुक्तरीत्या
कर्मार्हेषु शूद्रेषु च “शूद्रा वाजसनेयिमः” म० मा० त० ।

वाजिदन्त पु० वाजिनां दन्त इव पुष्पमस्य । १ नासते रत्नमा०

कप् । वाजिदन्वक तत्रैव ।

वाजिन् पु० वाजः वेमः पक्षो वा अस्त्यस्य इनि । १ घोटके

२ वाणे ३ वासके च शब्दर० । ४ वेभवति त्रि० स्वियां
ङीप् । मा म । ५ अश्वगन्धायथ ६ प्राठक्याम् स्त्री
राजनि० । ७ देवभेदे पु० । वाजिनशब्दे दृश्यम् ।
पृष्ठ ४८७३

वाजिन पु० वाजिभ्यो देयम् अण् । आमिक्षानिःसृतजले

“तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो
वाजिनम्” इति श्रुतिः ।

वाजिपृष्ठ पु० वाजिन इव पृष्ठमस्य । अम्लानवृक्षे शब्दच० ।

वाजिभक्ष पु० भक्ष्यते भक्ष--कर्मणि घञ् ६ त० । चणके

राजनि० ।

वाजिभोजन पु० वाजिभिर्भुज्यते भुज--कर्मणि ल्युट् । मुद्गे राजनि० ।

वाजीकरण न० अवाजी वाजीव क्रियतेऽनेन वाजिन् + च्वि

कृ--ल्युट् । “यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरत-
क्षमम् । तद्वाजीकरणं ख्यातम्” इत्युक्ते वीर्य्यवृद्धि-
करणे औषधभेदे । सुश्रुते दृश्यम् ।

वाञ्छा स्त्री वाछि--अ । इच्छायाम् इष्टसाधनताधीजंन्ये-

ऽभीष्टविषये चित्तवृत्तिभेदे अमरः ।

वाट पु० वट--घञ् । १ पथि २ वृतिस्थाने च मेदि० गौरा० ङीष्

४ वास्तुभूमौ ५ कुट्यां स्त्री मेदि० । ६ वाट्यालके शब्दर० ।

वाटिका स्त्री वट--ण्वुल् । १ वास्तुभूमौ (वेड़ियाला) २ क्षुपे

३ हिङ्गुपत्र्याञ्च शब्दच० ।

वाट्या स्त्री वाट्यै हिता तत्र साधुर्वा यत् । (वेड़ियाला) क्षुपभेदे रत्नमा० ।

वाट्याल पु० वाटीमलति भूषयति अल--अण् । (वेड़ियाला)

क्षुपभेदे शब्दर० गौरा० ङीष् तत्रैव स्त्री । ण्वुल् ।
वाट्यालक तत्रैवार्थे पु० शब्दर० ।

वाड़ आप्लावे भ्वा० आ० अक० सेट् चङि न ह्रस्वः । वाडते अवाडिष्ट ।

वाढ़ न० वह--क्त नि० । १ अतिशये २ तद्युक्ते त्रि० अमरः ।

पृषो० मुम् । वाढ़म् ३ प्रतिज्ञायां ४ स्वीकारे च अव्य०
अमरः ।

वाण पु० वण--घञ् । १ शरे अमरः २ गवां स्तने ३ दैत्यभेदे

४ केवले मेदि० ५ वह्नौ त्रिका० ६ काण्डावयवे विश्वः
७ भद्रमुञ्जे राजनि० कादम्बरीग्रन्थकारके ८ कविभेदे च
“पञ्चवाणस्तु वाणः” इति प्रसन्नराघवम् । ९ नीलझिण्ट्यां
पुंस्त्री० अमरः । अस्योष्ठ्यादित्वमिव्यन्ये ।

वाणपुर न० ६ त० । शोणितपुरे (कोट्टरी) पुराख्ये पुरभेदे शब्दर० ।

वाणबार पु० वाणं परमुक्तशरं बारयति चु० बृ--अण् ।

योधादेश्चोलाकारे सन्नाहे कवचे शब्दच० ।

वाणहन् पु० वाणं तन्नामासुरं हतवान् हन--ताडने भूते

क्विप् । श्रीकृष्णे वाणजिदादयोऽप्यत्र ।

वाणि स्त्री वण--इख् वा ङीप् । १ वयने अमरः २ वयनदण्डे

देमनि हेमच० । ५ वाक्ये ६ तद्देवतायान्न अमरः ङीप् ।

वाणिनी स्त्री वल--णिनि ङीप् । १ नर्त्तक्यां २ छेके ३ मत्त-

स्त्रियाम् हेमच० । वाण + अस्त्यर्थे इनि । ४ शरयुते त्रि० ।

वात गतौ सेवायां सुखीकरणे च सक० अद० च० उभ० सेट् ।

वातयति ते अववातत् त ।

वात पु० वा--क्त । स्पर्शमात्रविशेषगुणके भूतभेदे १ पवने अमरः ।

अनिलशब्दे १६४ पृ० दृश्यम् । २ देहस्थे धातुभेदे च ।
६ गन्तरि त्रि० । जारे ५ धृष्टनायके च “प्रभातवाता
हतीति” भट्टिः । ६ वातजन्ये रोगभेदे भावप्र० यथा
“कषायकटुतिक्तकप्रमितरूक्षलघ्वन्नतः पुरःपवनजा-
गरप्रतरणाभिघातश्रमैः । हिमादनशनात् तथा
निक्षुवनाच्च धातुक्षयात् मलादिरयधारणात् मदनशोक
चिन्ताभयैः । अतिक्षतजमोक्षणात् गदकृतातिमांस
क्षयादतीव वमनान् नृणामतिविरेचनादामतः । पयोद-
समये दिनक्षणदयोस्तृतीयांशयोर्जरामतिगतेऽशिते
शिशिरसंज्ञकालेऽपि च । देहे स्रोतांसि रिक्तानि
पूरयित्वाऽनिलो वली । करोति विविधान् रोगान् सर्वाङ्गै-
काङ्गसंश्रयान्” । प्रमितञ्चात्र वैपरीत्ये प्रापसर्गस्तेन
अपरिमितमित्यर्थः । प्रकर्षेण मितमत्यल्पं वा लघ्वन्नम्
अतिपुराणं शाल्यादि । कतिचिदन्नानि नवान्यषि
वातलानि यत आह गुणरत्नमालायाम् “नीवार-
स्त्रिपुटः सतीनचणकः श्यामाकमुद्गाढ़कीनिष्पावाश्च
मकुष्ठकश्च वरठामङ्गल्यकः कीद्रवः” । एते वातकरा इति
शेषः । नीवारः प्रसाधिका (चीना) इति लोके । त्रि-
पुटः (खसारी) । सतीनः कलायः । निष्पावो
राजमाषः । (वरवटी) इति लोके । मकुष्टकः (माढा) इति
लोके । वरठा वरटिका (वररै) इति लोके । मङ्गल्यकः
(मसूरी) इति लोके । पुरःपवनः प्राग्वातः,
आमतः आमेन मार्गावरणात् । यत उक्तम् वायोर्द्धा
तुक्षयात् कोपो मार्गस्यावरणेन चेति” । पयोदसमये
वर्षासु । जरामतिगतेऽशिते भुक्तेऽजीर्णताङ्गते ।
देहे स्रोतांसीत्यादिना संप्राप्तिरुक्ता । कषायादिभि-
र्हेतुभिर्वर्षादौ समये हेतुभते बली अनिलः प्रवृद्धो वायुः
करोति विविधान् रोगान् । ते रोगाः कथ्यन्ते “शिरो-
ग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः । जिह्वास्तम्भो
गद्गदत्वं मिन्मिनत्वञ्च मूकता । वाचालता प्रलापश्च
रसानामनभिज्ञता । बाधिर्य्यं “कर्णनादश्च स्पर्शाज्ञत्वं
तथार्दितम् । मन्यास्तम्भोऽत्र वणितो बाहुशोषोपना-
डकः । चर्विता चैव विक्षाची ऊर्द्धवात उदीरितः ।
पृष्ठ ४८७४
आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला । “तूणी च
प्रतितूणी च वह्निवैषम्यमेव च । आटोपः पार्श्वशूलञ्च
त्रिकशूलं तथैव च । मुहुश्च मूत्रलं मूत्रनिग्रहो
मलगाढता । पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परम् ।
कलापखञ्जता चापि खञ्जता पङ्गुता तथा । क्रोष्ठुशीर्षक
खल्यौ च वातकण्टक एव च । पादहर्षो पाददाह
आक्षेपो दण्डकाभिधः । वातपित्तकृताक्षेपस्तथा दण्डा
पतानकः । अभिघातकृताक्षेप आयामो द्विविधः
स्मृतः । आन्तरश्च तथा याह्यो धनुर्वातश्च कुब्जकः ।
अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः । कम्पस्तम्भो
व्यथातीदो भेदश्च स्फुरणं तथा । रौक्ष्यं कार्श्यञ्च
कार्ष्ण्यञ्च सैत्यं लोम्नाञ्च हर्षणम् । अङ्गमर्द्दोऽङ्ग-
विभ्रंशः सिरासङ्कीच एव च । अङ्गशेषाश्च भीरुत्वं
मोहश्चञ्चलचित्तता । निद्रानाशः स्वेदनाशो वलहानि-
स्तथैव च । शुक्रक्षयो रजोनाशो गर्भनाशः
परिश्रमः । एत एवाशीतिसंख्यारोगा योगेन रूढितः ।
बातव्याधीतिनामानो मुनिमिः परिकीर्त्तिताः” । एत
एव शिरोग्रहादय एव । योगेन वातेन वाताद्व्या-
धिर्वातव्याधिरिति निरुक्त्या तदा वातज्वरादिष्वपि
प्रसङ्गः स्यादत आह रूढितः प्रसिद्धितः शिरोग्रहा-
दयोऽशीतिरेव वातव्याधिसंज्ञाः प्रसिद्धा न तु वातज्वरा-
दयः” । तल्लक्षणादिकं तत्र दृश्यम् ।

वातक पु० वात इव चञ्चलः इवार्थे कन् । १ असनपर्ण्याम्

स्वार्थे क । २ जारे च ।

वातकर्म्मन् न० वातानां कर्म । अपानेन मरुत्त्यागे पर्दने ।

वातकिन् त्रि० वातोऽस्त्यस्य इनि कुक् च । वातरोगयुक्ते

अमरः स्त्रियां ङीप् ।

वातकेतु पु० वातस्य केतुरिव । धूलौ रजसि त्रिका० ।

वातगुल्म पु० वातेन गुल्म इव । १ वातुले त्रिका० । २

वातनिमित्ते गुल्मरोगभेदे गुल्मशब्दे २६२६ पृ० दृश्यम् ।

वातघ्नी स्त्री वागं रोगभेदं हन्ति--हन--टक् ङीप् । १

सालपर्ण्याम् (सालपानि) २ अश्वगन्धायां ३ शिमुड़ीक्षुपे च
राजनि० ।

वातचक्र न० वृ० स० २७ अ० उक्ते पूर्वादिवातानां कालभेदेन

शुभाशुभमूचके वहनभेदे
“पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्चन्द्रार्कांशु-
सटाभिघातकलितो वायुर्यदाकाशतः । नैकान्तस्थित-
नीलमेघपटलां शारद्यसंवर्धितां वासन्तोत्कटसस्वमण्डि-
ततलां विद्यात्तदा मेदिनीम् । यदाग्नेयो वायुर्मलय-
शिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गे
प्रवसति । तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला
स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम् । ताली-
पत्रलतावितानतरुभिः शाखामृगान्नर्तयन् योगेऽस्मिन्
प्लवति ध्वनन्सुपरुषो वायुर्यदा दक्षिणः । सर्वोद्योग-
समुन्नताश्च गजवत्तालाङ्कुशैर्घट्टिताः कोनाशा इव
मन्दवारिकणिकान्मुञ्चन्ति मेघास्तदा । सूक्ष्मैलालवलीलव-
ङ्गनिचयान् व्याघूर्णयन् सागरे भानोरस्तमये प्लवत्य-
विरतो वायुर्यदा नैरृतः । क्षुत्तृष्णामृतमानुषास्थिशकल-
प्रस्तारभारच्छदा मत्ता प्रेतबधूरिवोग्रचपला भूमिस्तदा
लक्ष्यते । यदा रेणूत्पातैः प्रविकटसटाटोपचपलः
प्रवातः पश्चार्धे दिनकरकरापातसमये । तदा सस्योपेता
प्रवरनृवराबद्धसमरा धरा स्थाने स्थानेऽप्यविरतवसार्मास-
रुधिरा । आषाढ़ीपर्वकाले यदि किरणततेरस्तकालोप-
पत्तौ वायव्यो बद्धवेगः प्लवति घनरिपुः पन्नगादानुकारी ।
जानीयाद्वारिधाराप्रमुदितमुदितां मुक्तमण्डूककण्ठां
सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यमेनामिवोर्वीम् ।
मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ वात्यामो-
दिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः । विद्युद्भ्रान्ति-
समस्तकान्तिकलनामत्तास्तदा तोयदा उन्मत्ता इव
नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः । ऐशानो यदि
शीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्नागागुरुपारि-
जातसुरभिर्वायुः प्रचण्डध्वनिः । आपूर्णोदकयौवना
वसुमती सम्पन्नसस्याकुला धर्मिष्ठाः प्रणतारयो
नृपरयो रक्षन्ति वर्णांस्तदा” ।

वाततूल न० वातेन उड्डीयमानं तूलम् । (वुडिरसुता)

आकाशे उड्डीयमाने सूत्रे हारा० ।

वातध्वज पु० वातो ध्वज इव यस्य १ मेघे शब्दमा० । ६ त० । २ धूलौ ।

वातपोथ पु० वातं रोगभेदं पुथ्यति हिनस्ति पुथ--अण् ।

पलाशवृक्षे अमरः ।

वातप्रमी पुंस्त्री० वातं प्रमिणोति प्र + मा--ई किच्च । १ शीघ्रगे मृगे (वाओटा) अमरः ।

वातमज पुंस्त्री० वातमनुलक्ष्य अजति अज--अच् व्यभावः ।

मृगभेदे जटा० स्त्रियां ङीष् ।

वातमृग पुंस्त्री० वातानुगो मृगः शाक० । शीघ्रगे मृगभेदे जटा० स्त्रियां ङीष् ।

वातरक्त न० वातजं दुष्टं रक्तम् रुधिरं यत्र । रोगभेदे

“लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः । क्लिन्न-
शुष्काम्बुजानूपमांसपिण्कमूलकैः । कुलत्थमाषान-
पृष्ठ ४८७५
ष्पावशाकादिपललेक्षुभिः । दध्यारनालभौवीरशुक्ततक्र-
सुरासवैः । विरुद्धाध्यशनक्रौधदिवास्वप्नातिजागरैः ।
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।
स्थूलाना सुखिनां चापि प्रकुष्येद्वातशोणितम् ।
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य” ।
क्षारो यवक्षारादिः । अजीर्णभोजनैः अजीर्णाय
भोजनैः अतिमात्रभोजनैरित्यर्थः । क्लिन्नादीनि मांसस्य
विशेषणानि । क्लिन्नं शटितम् । शुष्कमातपे शोषितम ।
अम्बुजं मत्स्यादिमांसम् । आनूपं गौड़ादिपूर्वदेशजं
मासम् । पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव ।
निष्पावः (वोड़ा) शाकम् । शाकं पत्रशाकम् । आदिश-
ब्देन वृन्ताकादीनि फलशाकानि गृह्यन्वे । पललं
शटितत्वादिदोषरहितमपि मांसं वातशोणितं
प्रकोपयेत् । शटितादि तु मांसं विशेषतो वातशोणितं
प्रकोपयेत् । आरनालं सन्धानभेदः । शुक्तं सन्धान-
भेदः । सौवीरं सन्धानभेदः । तक्रं चतुर्थांशजल-
युक्तं वस्त्रपूतं दधि । सुरा सन्धानभेदः । आसवः
सन्धानभेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् ।
“अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते” । अतिजागरो-
निशि । प्रायशः बाहुल्येन । सुकुमाराणाम् अल्पतर-
कायव्यापाराणाम् । अथ वा । मिथ्याहारविहा-
रिणाम् अयथाहारबिहाराभ्यां स्थूलानां सुखि-
नाञ्च रक्तवृद्ध्या हस्ताश्वाष्ट्रैर्गच्छतः यतो वायुर्विव-
र्द्धते रुधिरञ्चाधो गच्छति । हस्त्यादय उपलक्षणानि ।
पद्भ्यामप्यतिचलतः । अश्नतः विदाह्यन्नम् । विदाहि
निष्पावकुलत्थसर्षपशाकादि । मंविदाहाशनस्य ।
सविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि भुञ्जा-
नस्येत्यर्थः । अध्यशनमुक्त्वाप्येतद्वचनं विदन्धाजीर्ण-
भोजनस्य विशेषतो हेतुत्वार्थम् । पश्चात् वातशो-
णितं प्रकुप्येदित्यनेनान्वयः । एतेषां कारणानां मध्ये
केनञ्चिद्वायः केनचिदुभयमपि प्रकुप्येत् । संप्राप्ति-
माह “कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं स्रस्तं
पादयोश्चीयते तु । तत् संपृक्तं वायुना दूषितेन तत् प्रा-
वल्यादुच्यते वातरक्तम्” । पूर्वोक्तैर्हेतुमिः कृत्स्नं
समस्तं रक्तं विदहति अत्र दहधातुरविवक्षितकर्मकः ।
तेन विदहति विदग्धं भवतीत्यर्थः तच्च दुदरक्तम् ।
स्रस्तम् अधोगतम् पादयोश्चीयते सञ्चितं भवति । तद्रु-
धिरं दूषितेन स्वहेतुना संपृक्तं मिलितं वातरक्तम्
उच्यते । नमु चैतस्य संप्राप्तिरुक्ता सुश्रुतेन “शीघ्रं
रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु वातः ।
क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्त-
माशु” । अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमिति
ष्यपदेष्टुमुचितं भवत्यत आह तत्प्राबल्यादिति ।
तस्य वातस्य दोषत्वेन प्राधान्याद्वातरक्तमिति व्यप-
दिश्यते । पूर्वरूपमाह “स्वेदोऽत्यर्थं न वा कार्श्यं
स्पर्शाज्ञत्वं क्षतेऽतिरुक् । सन्धिशैथिल्यमालस्यं सदनं
पिड़कोद्गमः । जानुजङ्घोरुकट्यंसहस्तवादाङ्गम-
न्धिषु । निस्तोदस्फुरणं भेदो गुरुत्वं सुप्तिरेव च ।
कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत् ।
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम्” । आथाधि
कृतवातस्य रक्तस्य लक्षणमाह “वातेऽधिकेऽधिकं तत्र
शूलस्फुरणतोदनम् । शोथस्य रौक्ष्यं कृष्णत्वं श्या-
वतावृद्धिहानयः । धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्ग-
ग्रहोऽतिरुक् । शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः” ।
तत्र पादयोः शूलादिकमधिकम् यत आह सुश्रुतः
“स्पर्शोद्विग्नौ तोदभेदप्रशोफौ स्वापोपेतौ वातरक्तेन
पादाविति” । अत्र सुप्तिः स्पर्शाज्ञता । अधिकरक्तं
वातरक्तमाह “रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचि-
भायते । सिग्धरूक्षैः समं नैति कण्डूतक्लेदसम-
न्वितः” । अधिकपित्तं तदाह “पित्ते विदाहः संमोहः
स्वेदो मूर्च्छामदस्तथा । स्वर्शासहत्वं रुग्दाहः शोथपाकौ
भृशोष्णता” । विदाहश्च पादयोरेव वोद्धव्यः यत आह
सुश्रुतः “पित्तासृग्भ्यामुग्रदाहो भवेतामत्यर्थोष्णौ रक्त-
शोथौ मृदू च” । पादाविति शेषः । अधिककफं
तदाह “कफाधिक्ये तुं गुरुता सुप्तिः स्निग्धत्वशीतता” ।
गुरुतादयः पादयोरेव यत आह सुश्रुतः कण्डू-
नन्तौ स्वेदशीतौ सशोथौ पीनस्तब्दौ श्लेष्मदुष्टे तु
रक्ते” । अप्रतिक्रियमाणवातरक्तस्य उपद्रवानाह
“अस्वप्नारोचकश्वासमांसकोर्थाशरोग्रहाः । मूर्च्छा च
मन्दरुग् तृष्णाज्वरमोहप्रकोपकाः । हिक्कामगुल्म
वीसर्पपाकतोदभ्रभक्लमाः । अङ्गुलीवक्रतास्फोटदाह
मर्मग्रहार्बुदाः” मांसकोथो मांसगलनम् । असाध्यत्वा-
दिकमाह “एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वापि यत् ।
अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ।
एकदोषनुगं साध्यं नवं याप्यं द्विदोषजम् । त्रिदोषज-
मसाध्यं स्याद्यस्य च ल्युरुपद्रवाः” ।
पृष्ठ ४८७६

वातरक्तघ्न पु० वातरक्तं रोगभेदं हन्ति हन--टक् । कुक्कुर-

वृक्षे (कुकुरसोङ ।) शब्दच० ।

वातरक्तारि पु० ६ त० । (गुलुञ्च) ख्यातायां लतायाम् शब्दच० ।

वातरङ्ग पु० वातस्येव सततं रङ्गश्चलनमस्य । चलदले अश्वत्थ-

वृक्षे अमरः ।

वातरायण पु० वा--क्विप ततस्तरप् वातरमयनं यस्य णत्वम् ।

१ उन्मत्ते २ प्रयोजनशून्ये पुरुषे ३ काण्डे ४ करपात्रे
५ कूटे ६ परसंक्रमे मेदि० । ७ सरलद्रुमे च शब्दर० ।

वातरूष पु० वातेन रूष्यते रूष--घञ् । १ वातुले २ उत्कोचे

३ इन्द्रचापे च मेदि० ।

वातर्द्धि पु० वातस्य अद्धिर्यतः । १ काष्ठलोहनिर्मितमात्रे

त्रिका० ६ त० । २ वायुवृद्धौ स्त्री ।

वातल पु० वातं रोगभेदं लाति ला--क । १ चणके शब्दच० ।

२ वायुकारके द्रव्ये त्रि० ।

वातव्याधि पु० वातेन देहस्थधातुभेदेव जनितो व्याधिः

शाक० । वातरोगे वातशब्दे दृश्यम् ।

वातशीर्ष न० वातस्य शीर्षमिव । वस्तौ राजनि० ।

वाताटः पु० वात इवाटति अट--अच् । १ सूर्य्याश्वे त्रिका०

२ वातमृगे शब्दर० ।

वाताण्ड पु० मुकरोगविशेषे तस्य लक्षणं यथा

“वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य लंवृतः तस्य
मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः” माधवकरः ।

वाताद पु० वाताय वातनिवृत्तयेऽद्यतेऽसौ अद--घञ् ।

(वादाम) फलप्रधानवृक्षे भावप्र० ।

वातापि पु० अगस्त्यनाशिते इल्वभातरि असुरभेदे । “आतापिर्भ-

क्षितो येनवातापिश्च महायलः । समुद्रः शोषितो वन
स मेऽनस्त्यः प्रसीदतु इति भोजनान्ते पाठ्यमन्त्रः ।

वातापिसुदन पु० वातापि रकदयति हिनस्ति सूद--ल्यु ।

अगस्थे मुनौ त्रिका० भा० ब० १९८० अ० तत्कथा । दृश्या ।

वातामोदा स्त्री वातेनामोदो यस्याः । कस्तूर्य्याम् शब्दमा०

वातायन न० वातस्यायनं गतिर्येन । १ गवाक्षं अमरः ।

वातस्येव शीघ्रमयनं गतिरस्य । अश्वे पुंस्त्री० त्रिका०
स्त्रियां ङीष् ।

वातायु पु० वातमयते अय--उण् । हरिणे अमरः

वातारि पु० वातस्य रोगमेदस्यारिः । १ एरण्डवृक्षे २ शत

मूल्यां ३ शेफालिकायां ४ यवान्न्यां ५ भार्ग्यां ६ स्नुह्यां
७ विड़ङ्गे ८ शूरण ९ भल्लातके १० मतकालां ११ पुत्र-
दात्रीवृक्षे च राजनि ।

वाताश्व पु० वात इव शीघ्रगोऽश्चः । आजानेये उत्तम

हये त्रिका० ।

वाति पु० वा--क्तिच् । १ वायौ २ सूर्य्ये ३ चन्द्रे च रभसः ।

वातिक पु० वातादागतः ठक् । देहस्थधातुजन्ये रोगभेदे

राजनि० ।

वातिग पु० वातिं वायुं गच्छति गम--ड । १ वार्त्ताकौ २

धातुवादिनि त्रि० मेदिग गम--अच । वातिगमोऽप्यत्र शब्दर०

वातिङ्गण पु० वातिं देहस्थवातं सेवनात् गणयति गण--खच्

मुम् च । वार्त्ताकौ त्रिका० ।

वातीय न० वाताय वातनिवृत्तये हितः छ । काञ्जिके शब्दच०

वातुल पु० वातानां सभूहः उलच् । वातसमूहे भरतः ।

वातुलि पुंस्त्री० वा--उलि तुट् च । (वादुड़) ख्याते खगे

हारा० ।

वातूल त्रि० वात + अस्त्यर्थे ऊलच । १ वातरोमयुक्ते उन्मत्ते

अमरः । समूहार्थे ऊलच् । २ वातसमूहे न० भरतः ।

वातोना स्त्री वातमूनयति ऊन--अण् । १ गोजिह्वाक्षुपे

राजनि० वातेनोनः । २ वायुहीन त्रि० ।

वात्या स्त्री वातानां समूहः यत् १ वातसमूहे अमरः

“वितत्य वात्यामयचक्रचंक्रमान् नैष० ।

वात्सक न० वत्सानां समूहः वुञ् । वत्ससंघे अमरः ।

वात्सल्य न० वत्सलस्य भावः ष्यञ् । पुत्रादिस्नेहानुगुणे

रसभेदे उज्ज्वलमणिः “यशोदा वत्सले स्मृता” ।

वात्स्य पु० वत्सस्यापत्यं यञ् । गोत्रप्रवर्त्तके मुनिभेदे ।

वात्स्यायन पु० वत्सस्य गोत्रापत्यं युवा वत्स + यञ् ततो यूनि

फल । १ युनि वत्सगोत्रापत्ये । २ न्यायसूत्रभाष्यकारके
पक्षिक्षाख्ये मुनौ पं त्रिका० ।

वाद पुंस्त्री वद--घञ् । १ तत्त्वबुभुत्सया कथने “प्रमाणतर्कसाध-

नोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रति-
पक्षपरिप्रहो वादः इति २ तौतमोक्ते विचारात्मके
वाक्यभेदे । “वादः प्रवदतामहम्” गीता ।

वादन न० वद--णिच्--कर्मणि ल्युट् । १ मृदङ्गादिवाद्ये

भावे ल्युट् । मृदङ्गादिताडनरूपे २ व्यापारे ।

वादर न० वदरायाः कार्पास्याः विकारः अण । कार्पास-

ऊत्रनिर्मिते वस्वादौ । वदरशब्दस्य ओष्ठ्यादित्वमित्यन्ये ।

वादरङ्ग पु० वादरं वदरासम्बन्धिपत्रादिसादृश्यं गच्छति मम

खच् डिच्च अश्वत्थवृक्षे वृक्षे त्रिता० ।

वादरत त्रि० वादे (विवादे रतः रम--क्त । अनुदिनविवाद-

शीले
पृष्ठ ४८७७

वादरा स्त्री वातं वायुं राति ददाति रा--क पृषो० तस्य दः

कापांस्याम् शब्दर० ।

वा(बा)दरायण पु० व(बा)दरीप्रधानं स्थानं वाबादरं तदयनं

स्थानं यस्य । नित्यं व(ब)दरिकाश्रमवासिनि १ वेदव्यासे ।
स्वार्थे इञ् । वा(बा)दरायणिरप्यत्र शब्दच० । अपत्ये
इञ् । वा(बा)दरि व्यासपुत्रे शुकदेवे ।

वादल न० वातं लाति गृह्णाति ला--क पृषो० तस्य दः । मधुयष्टौ शब्दच ।

वादाम न० वातममति हिनस्ति अम--अण् पृषो० तस्य मः ।

स्वनामख्याते फलभेदे भावप्र० ।

वादि त्रि० वद--इन् । विदुषि उणादिकोषः ।

वादिर न० वद--णिच्--किरच् । व(ब)दरीसदृशफलके वृक्षे शब्दर० ।

वादित्र न० वद--णिच्--इत्र । मृदङ्गादिवाद्ये अमरः ।

वादिन् त्रि० वदति वद--णिनि । १ वक्तरि २ अर्थिनि

३ वादकथाकर्त्तरि विचारस्थले ३ प्रथमपक्षप्रतिपादके च ।

वाद्य न० वद--णिच्--यत् । वादनीये मृदङ्गादौ अमरः ।

वंशशब्दे ततादिभेद उक्तस्तत्र
ततं यथा “अलाबनी ब्रह्मवीणा किन्नरी लघु
किन्नरी । विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती
जया । हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी ।
त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी । औड़म्बरी
पिनाकी च निवन्धः शुष्कलस्तथा । गदावारणहस्तश्च
रुद्रोऽथ शरमण्डलः । कपिलासी मधुस्यन्दी घोणेत्यादि
ततं भवेत्” । अलावनी यथा “कनिष्ठिकापरिध्यर्द्धि
मध्यच्छिद्रेण संयुतः । दशयष्टिमितो दण्डः खादिरो-
वैणवाऽथ वा । अधःकरमनानूर्द्धे छत्राबल्याभिशो-
भितः । नवाङ्गुलादपश्छिद्रोपरिचन्द्रार्द्धसन्निभाम् ।
निवेश्य तुम्बिकां भद्रालातुखण्डं निवेशयेत् । द्वादशा-
ङ्गुलविस्तारं दृढ़पक्वं मनोहरम् । तुम्बिकावेधमध्येन
दण्डच्छिद्रे तु निर्मिताम् । अलाबुमध्यगां डोवीं कृत्वा
स्वल्पान्तु काष्ठिकाम् । तथा संवेष्ट्य तन्न्मध्ये काष्ठिकां
भ्रामयेत्ततः । तथा स्यान्नश्चलालाबुर्वन्धश्च करभो-
परि । पञ्चाङ्गुलिषु संत्यज्यालाबुं स्वल्पाञ्च बन्धयेत् ।
केशान्तनिर्मिता पट्टमथी सूत्रकृताथ वा । समा सूक्ष्मा
दृढ़ा तत्र तन्त्रो देया विचलखैः । एतल्लक्षणसंयो-
गिन्थलावनी प्रकीर्त्तिता । विन्दुना न समुपेतं तुम्बं
निःक्षिप्य वक्षास । मध्यमानामिकाभ्याञ्च वाढ्या
दक्षिणपाणिना । तारे मन्द्रे च घोषे च त्रिस्थाने
विन्दुरिव्यते । तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन
धारयेत् । ततस्ताभिस्तु सर्वाभिः स्वरव्यक्तिर्विधी-
यते । त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः ।
अलाबन्यां स्थिता ज्ञेयाः सप्त षड्जादयः स्वराः ।
रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः । अंशन्यास
विभेदाच्च तथात्रापि विधीयते । इयमलावनी प्रोक्ता
मनःश्रवणरञ्जनी । प्रत्यक्षा सारदा देवी वीणारूपेण
संस्थिता” । शुषिरं वंशशब्दे उक्तम् । आनद्धं यथा
“आनद्धे मर्द्दलः श्रेयान् इत्युक्तं भरतादिभिः ।
मुरजपटहढक्काविम्बकोदर्पवाद्यं पणवघनसरुञ्जाला-
वजाह्वात्रवल्यः । करटकमठभेरी स्यात् कुढक्का
हुडुक्का झनसमुरलिझल्लीढुक्कलीदौण्डिशाना ।
डनुरुटमुकिमड्डु । कुण्डलीस्तङ्गुनामा रणमभिघटवाद्यं
दुन्दभी च रजश्च । क्वचिदपि ठुढुकी स्वात् दर्दुरं
चाप्युपाङ्गं प्रकटितमनुबन्धं वाद्यमित्थं जगत्याम् ।
त्रिपुरमथनकर्तुस्ताण्डवे तत् प्रयाणे ततमथ शुशि-
रञ्चानद्धमित्थं षनञ्च । मर्दलः खादिरः श्रेष्ठो हीनः
स्यादन्यदारुजः । रक्तचन्दनजी वाद्यो गभीरध्वनि
रुच्चकैः । सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते ।
त्रयोदशाङ्गुलं वाममथ वा द्वादशाङ्गुलम् । दक्षिणञ्च
भवेद्धीनमेकेनार्द्धाङ्गुलेन वा । करणामद्धवदनो मध्ये
चैव पृथुर्भवेत् । षण्मासीयो भवेत् शस्तस्तच्चर्म करणं
मतम् । मृत्तिकानिर्मितश्चैव मृरतः परिकीर्त्तितः ।
पातयेत् खरलिं वाद्ये वादनार्थञ्च मर्दले । विभूतिर्गै-
रिकं भक्तं केन्दुकेन च संमतम् । यद्वा चिपीटकं
देयं जीवनीसत्त्वमिश्रितम् । सर्वमेकत्र पिष्टन्तल्लेपः ।
खरलिरुच्यते । वामास्ये पूरिकां कृत्वा लेपं दद्याच्च
दक्षिणे । एवं मर्दलकः प्रोक्तः सर्ववाद्योत्तमो मतः ।
अस्य संयोगमासाद्य सर्वं वाद्यञ्च शोभते । एतदङ्गे
वीजकाष्ठे दलमर्द्धाङ्गुलं विदुः” । मर्दलः त्रयोदशाङ्गुल
वाममुखो द्वादशाङ्गुलदखिणमुस्वः । मुरजस्त्वष्टादशाङ्गुल
वाममुखः सप्तदशाङ्गुलदक्षिणमुखः मर्दलङरजयारयं
भेदः । पनं यथा । “अनुरक्तं विरक्तञ्च द्विविधं
घनवाद्यकम् । गीतानुगमनुरक्तं विरक्तं तालसंश्रयम् ।
करतालः कांस्यतालो जयघण्टोऽथ शुक्तिका । कम्बिका
पञ्च वाद्यञ्च पट्टतोयं च घर्घरं । झञ्झातालश्च
मञ्जीरकर्त्तर्य्युङ्कर इत्यपि । द्वादशैते मुनीन्द्रेण कथिता
धनसंज्ञकाः । त्रयोदशाङ्गुलव्यामौ शुद्धकांस्यविनि-
र्मितौ । मध्यमुखौ स्तनाकारौ तन्मध्ये रज्जुगुम्फितौ ।
पृष्ठ ४८७८
पद्मिनीपत्रसदृशौ कराभ्यां रज्जुयन्त्रितौ ।
करतालावुभौ वाद्यौ पाटैर्झनटकैरिति । यद्वा त्रयोदशयव-
व्यामं वक्रयबोन्मितम् । यवपञ्चकगम्भीरं मध्ये च
यवसप्तकम् । निभृतं वर्त्तुलं निम्नं यवत्रयमितं
ततः । पृष्ठतो मध्यदेशे च शिवलिङ्गसमाकृति ।
अत्थम्लपैष्टीनिर्दग्धशुद्धकांस्यविनिर्मितम् । संरक्ताङ्गुलि
सुस्निग्धसुदीर्घमधुरध्वनिम् । घनानुसारि संरक्तं
दृढ़ं शुष्कं मनोहरम् । काश्मीरादिसमुद्भूतं
तालमाहुर्मनीषिणः । सुनादं दक्षिणं तालं ततो हीनञ्च
वामकम् । कुर्वीत तद्द्वयं कार्य्यं तज्जन्त्यङ्गुष्ठयोर्गतम् ।
वाभहस्तस्थतालस्य मध्यमं सन्निनादितम् । तिर्य्यग्द-
क्षिणतालस्य परिध्यशेन तालयेत् । तालादौ
वादयेच्चैव प्लुतदीर्घलघुद्रुतैः” । अन्येर्षा लक्षणं
विस्तरभयान्नोक्तम् । “रुक्मिण्याः सत्यभामायाः कालि-
न्दीमित्रविन्दयोः । जाम्बवत्या नाग्नजित्या
लक्ष्मणाभद्रयोरपि । कृष्णस्याष्टमहिषीणां पुरोद्वाह-
महोत्सवे । ततं सुमिरमानद्धं घनञ्च युगपज्जनाः ।
अवादयन्नसंख्यातमिति पौराणिकी श्रुतिः । ततं
वाद्यन्तु देवानां गन्धर्वाणाञ्च शौषिरम् । आनद्धं राक्ष-
सानान्तु किन्नराक्षां घनं विदुः” सङ्गोतदा०

वाद्यभाण्ड न० कम० । वादनीयपात्रे ।

वा(बा)ध विघाते भ्वा० आत्म० सक० सेट् । वा(बा)धते

आवा(बा)पिष्ट । चङि न ह्रस्वः ।

वा(बा)ध पु० वा(वा)ध--घञ् । १ प्रतिरोधे २ प्रतिबन्धे न्या-

योक्ते स्वाभावबत्त्वेन ज्ञाने ४ हेत्वाभासभेदे । भावे अ ।
वा(बा)धाप्यत्र २ पीड़ायाञ्च स्त्री अमरः ल्युट् ।
वा(बा)धनमप्यत्रार्थे न० शब्दच० ।

वाधूक्य न० वध्वां साधु यत् कुक् च । विवाहे त्रिका० ।

वार्ध्रीणस पु० वार्द्धी नस + पृषो० । वार्द्धीनसे खड्गिनि च ।

वान न० वन--घञ् । १ शुष्कफले अमरः । २ शुष्के त्रि० मेदि० ।

वनस्येदं तत् समूहो वा अण् । ३ वनसम्बन्धिनि त्रि० । ४
तत्संघे न० । वे--भावकर्मादौ ल्युट् । ५ सीवनकर्मणि
६ कटे । वा--भावादौ ल्युट् । ७ गतौ मेदि० । ८
जलप्लुतवातोर्मौ ९ सुरङ्गायां १० सौरभे हेमच० ११ गोक्षीरजे
१२ तवक्षीरे राजनि० । १३ वर्त्तिकाखगे स्त्री जटा० ।

वानप्रस्य पु० वाने वनसमूहे प्रतिष्ठति स्था--क । १ मधूकवृक्षे

२ पलाशवृक्षे । वनप्रस्थ एव स्वार्थे अण् । “गृहस्थस्तु
यदा पश्येत् वलीपलितमात्मनः । पुत्रेषु दारान् नि-
क्षिप्य वनं गच्छेत् सहैव वा” इत्युक्ते ३ आश्रमभेदे मेदि० ।
स च द्विविधः पचमानः अपचमानश्च । तत्र पचमानः
अश्मकुट्टः । अपचमानस्तु दन्तालूखलिकः ।
तस्य धर्मो यथा “भूस्था मूलफलाशित्वं स्वाध्यायस्तप
एव च । संविभागो यथान्यायं धर्मोऽयं वनवासिनः ।
तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च । स्वा-
ध्याये चैव निरतो वनस्थस्तापसो मतः । तपसा
कर्षितोत्यर्थं यस्तु ध्यानपरो भवेत् । सन्न्यासीह
स विज्ञेयो वानप्रस्थाश्रमे स्थितः” गारुड़े ४९ अ०
याज्ञवल्क्य उवाच “वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तु
महर्षयः । पुत्रेषु भार्य्यां निःक्षिप्य वनं गच्छेत् सहैव
वा । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी ।
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा । भृत्यांस्तु
तर्पयेत् श्मश्रुजटालोमभृदात्मवान् । दान्तः स्त्रिष
वणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान् ध्यान-
शीलः सर्वभूतहिते रतः । अह्लो मासस्य षणां वा
कुर्य्याद्वान्नपरिग्रहम् । कृत्वा त्यजेदाश्वयुजे नयेत्
कालं व्रतादिना । पक्षे मासे तु वाश्नीयाद्दन्तोलूख-
लिको भवेत् । चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात्
फलादिना । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिले-
शयः । आर्द्रवासास्तु हेमन्ते योगाम्यासाद्दिनं नयेत् ।
१०२ अ० । “जटित्वम ग्नहोत्रित्वंभूशय्याऽजिनधारणम् ।
वने वासः पयोमूलनीवारफलवृत्तिता । प्रतिषिद्धा-
न्निवृत्तिश्च त्रिस्नानं व्रतधारिता । देवतातिथिपूजा
च धर्मोऽयं वनवासिनः । २१५ अ० । “एवं गृहाश्रमे
स्थित्वा द्वितीयभागमायुषः । वानप्रस्थाश्रमं गच्छेत्
सदारः साग्निरेव च । निःक्षिप्य भार्य्यां पुत्रेषु गच्छे-
द्वनमथापि । दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ।
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे । गत्वाप्यरण्यं
नियमांत्तपः कुर्य्यात् समाहितः । फलमूलानि
पत्राणि नित्यमाहारमाहरेत् । यदाहारो भवेत्तेन
पूजयेत् पितृदेवताः । पूजयेदतिथिं नित्यं स्नात्वा
चाभ्यर्चयेत् सुरान् । ग्रामादानीय वाश्नोयादष्टौ
प्रासान् समाहितः । जटाश्च विभृयान्नित्यं नखरो-
माणि नो त्यजेत् । स्वाध्यायं सर्वदा कुर्य्यात् नियच्छे-
द्वाचमन्यतः । अग्निहोत्रन्तु जुहुयात् पञ्च यज्ञान्
समाचरेत् । मुन्यन्नैर्बिविधैर्मेध्यैः शाकमूलफलेन वा ।
चीरवासा भवेन्नित्यं स्नायात् स्त्रिषवणं शुचिः । सर्व-
पृष्ठ ४८७९
भूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः । दर्शेन पौर्ण
मासेन यजेत नियतं द्विजाः! । पक्षेष्ट्या श्रावणे चैव
चातुर्मास्यानि चाहरेत् । उत्तरायणञ्च क्रमशो दक्षस्या-
यनमेव च । वासन्तशारदैर्मध्यैर्मुन्यन्नैः स्वयमा-
हरेत् । पुरोडाशं चरुं चेव विधिवन्निर्वपेत् पृथक् ।
देवत भ्यश्च तद्धुत्वा वन्थं मेध्यतरं हविः । शेषं
समुपभुञ्जीत लवणञ्ज स्वयंकृतम् । वर्जयेन्मधुमांसादि
भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मा-
तकफलानि च । न फालकृष्टमश्नीयात् उत्सृष्टमपि
केनचित् । न ग्रामजातान्यार्त्तो वा पुष्पाणि च
फलानि च । श्रावणे चैव विधिना वह्निं परिचरेत्
सदा । न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्ममो भवेत् ।
न नक्तं किञ्चिदश्नीयात् रात्रौ ध्यानपरो भवेत् ।
जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्म-
चारी भवेनित्यं न पत्नीमपि संश्रयेत् । यस्तु पत्न्या
वनं गत्वा नैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत
प्रायश्चित्ती भवेत् द्विजः । तत्र यो जायते गर्भो न
संस्पृश्यो द्विजातिभिः । न हि वेदाधिकारोऽस्य तत्त्व-
मप्येवमेव हि । अधः शयीत सततं सावित्रीजप-
तत्परः । शरण्यः सर्वभूतानां संविभागपरो भवेत् ।
परीवादं मृषावादं निद्रालस्ये च वर्जयेत् । एकाग्नि-
रनिकेतः स्यात् प्रोक्षितां मूमिमाश्रयेत् । मृगैः सह
चरेद्वासं तैः सहैव च सवसेत् । शिलायां शर्करायां
वा शयोत सुसमाहितः । सद्यःप्रक्षालको वा स्यात् मास
सञ्चयिकोऽपि वा । षण्मासनिचयो वा स्यात्
समानिचय एव वा । नक्तञ्चान्नं समंश्नीयात् दिवा
वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात् स्याद् वा
अष्टमकालिकः । चान्द्रायणवियानैर्वा शुक्ले कृष्णे
च वर्तयेत् । पक्षे पक्षे समश्नीयात् यवागूकथितां तथा ।
पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदां । स्वाभाविकैः
स्वयंशीणैर्वैखानसमते स्वितः । मूमौ वा
परिवर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् । स्थानासनाभ्यां
विहरेत् न क्वचिद्धैर्य्यमुत्सृजेत् । ग्रीष्मे पञ्चतपाश्च स्याद्
वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो
वर्त्तयंस्तपः । उपस्मृश्य त्रिषवणं पितृन् देवांश्च तर्प-
येत् । एकपादेन तिष्ठेत मरीचीर्वा पिबेत् सदा ।
पञ्चाग्निघूसपो वा स्वादूष्मपः सोमपोऽथ वा । पयः पिबेत्
शुक्लपक्षे कृष्णपक्षे तु गोमयम् । शीर्णपर्णाशनो वा
स्यात् कृच्छ्रैर्वा वर्त्तयेत् सदा । योगाभ्यासरतो वा
स्याद्रुद्राध्यायी भवेत् सदा । अथर्वशिरसापेतो वेदान्ता-
भ्यासतत्परः । यमान् सेवेत सततं नियमाश्चाप्य
तन्द्रितः । कृष्णाजिती सोपवीत्तः शुक्लयज्ञोपवीतवान् ।
अथ वाग्नीन् समारोप्य स्वात्यनि ध्यानतत्परः ।
चनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वेव
विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु
द्विजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्
वनेवसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् । विद्यावि-
शेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्था-
निकञ्चासौ कुर्य्यादनशनन्तथा । अग्निप्रवेशमन्यद् वा
ब्रह्मर्पणविधौ स्थितः । ये तु सम्यगिममाश्रम
शिवमाश्रयन्त्यशुभपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं
परं यान्ति चैव जगतोऽस्य संस्थितिम्” कूर्मपु० २६ अ०

वानर पुंस्त्री० वानं वनसम्बन्धिफलादिकं राति गृह्णाति

रा--क । स्वनामख्याते पशुभेदे अमरः स्त्रियां ङीष् ।

वानरप्रिय पु० ६ त० । क्षीरिवृक्षे रत्नमा० ।

वानराघात पु० वानराणामाघातो यत्र । लोध्रवृक्षे शब्दच०

वानरी स्त्री वानरस्य प्रियम् भक्ष्यत्वात् अण् ङीप् । १

शूकशिम्ब्याम् शब्दर० । वानर + स्त्रियां ङीष् । २ वामर-
योषिति ।

वानरेन्द्र पु० वानर इन्द्र इव । १ सुग्रीवे शब्दर० ६ त० । २ वानराधीशे वानरनाथादयोऽप्यत्र ।

वानल पु० वानं वनभावं निविड़तां लाति ला--क । (वावुइ)

तृणभेदे शब्दच० ।

वानस्पत्य पु० वनस्पतेरयम् प्रतिरूपः पुष्पाज्जातफलत्वात् ।

पुष्पजातफलके आम्रादौ वृक्षे अमरः ।

वानायु पु० वनायु + पृषो० । देशभेदे (आरव) शब्दर० ।

वानायुज पुंस्त्री० वानायुदेशे जायते जन--ड । घोटकभेदे च

(आरवी) अमरः स्त्रियां ङीष् ।

वानीर पु० वन--ईरन् स्वार्थेऽण् । १ वेतसे २ वञ्जुलवृक्षे अमरः ।

वानीरक पु० वानीर इव इवार्थे कन् । मुञ्जतृणे राजनि०

वानेव न० वने जसे भवः ढक् । कैवर्तीमुस्तके अमरः ।

वान्त त्रि० वम--क्त । उद्गीर्णे “वान्ताशीत्युच्यते बुधैः” उद्भटः ।

वान्तिहृत् पु० वान्तिं वमनरोगं हरति हृ--क्विप् । (मयपा)

ख्याते वृक्षे शब्दच० ।

वान्तिदा स्त्री वान्तिं छर्दिं ददाति दा--क । कट्कीवृक्षे राजनि०

वाप पु० वप--घञ् । १ तनवादेर्वीजादेश्च २ वपने ३ मुण्डने च ।

पृष्ठ ४८८०

वापदण्ड पु० उप्यतेऽयेन वप--करणे घञ् कर्म० । वेमनि

तन्तुवपनदण्डे अमरः ।

वापित त्रि० वप--णिच् क्त । १ वीजाकृते २ मुण्डिते मेदि० । ३ धान्यभेदे न० राजनि० ।

वापि(पी) स्त्री वप--इञ् वा ङीप् । “द्रोणात् दशगुणा

षापी” इत्युक्तलक्षणे १ जलाशयभेदे जलाशयशब्दे दृश्यम्
२ जनाशयमःत्रे च “वापीं स्नातुभितो गतासि” इति
काव्यप्र० । “यो वापीमथ वा कूपं देशे वारिविवर्जिते ।
खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्प
तरौ वायुपु० तज्जलगुणाः “वाप्यं गुरु कदुक्षारं पित्तल
कफवातजित्” राजवल्लभ । “वापीकूपतड़ागं वा
पासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनला-
निलनैरृते । आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म
कृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे! ।
स्थानस्य पःपके भागे वापीकूपतड़ानकम् । अग्निदाह
सदा कुर्याव समानुषचतुष्पदाम् । नैरृते पीयमा-
नन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं
पीत्वा पतिं गृह्णाति कामतः” देवीपु० ।

वापीह पुंस्त्री० वापीं तत्रस्थजलं जहाति हा--क । चातके

विहगे त्रिका० स्त्रियां ङीष् ।

वाप्य न० वाप्यां भाः यत् । १ कुष्ठौषधे अमरः । २ वापीमव

वप--ण्यत् । ३ वपनीये च त्रि० ।

वाम न० वा--मन् । १ धने मेदि० २ वास्तूके जटा० ।

३ मनोहरे ४ प्रदिकूले ५ सध्यभागस्थे त्रि० मेदि० । ६ अधमे त्रि०
सि० कौ० ७ सापदेहे न० । ८ कामदेवे ९ महादेवे तन्त्रोक्ते
नदाचारविरुद्धे १० मद्यादिपानरूपाचारे च पु० कुला-
चारशब्दे २१३४ पृ० दृश्यम् । ११ स्त्रीमात्रे स्त्री अमरः १२
दुर्गायां स्त्री । “वामं विरुद्धरूपन्तु विपरीतन्तु गीयते ।
वामेन सुखदा देवी वामा तेन मता बुधैः” देवीपु० ४५ अ० ।
“वामान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत् ।
श्मशानभैरवीं देवीमुग्रतारां तथैव च । उच्छिष्टभैरवीं
चण्डीं तारां त्रिपरमैररीम् । एतास्तु बासभावेन
यजेत् त्रिपुरभैरवीम् । सर्वत्र पितृदेवादौ यस्माद्भवति
दक्षिणः । देवी च दक्षिणा यस्मात्तस्मात् दाक्षिण्यमु-
च्यते । या पुनः पूज्यमाना तु देवादीनां तु पूर्वतः ।
यज्ञभावं स्वयं धत्ते सा वामा तु प्रकीर्त्तिता”
कालिकाषु० ७७ अ० ।

वामदेव पु० कर्म० । महादेवमर्त्तिभेदे अमरः ।

वामन त्रि० वम--णिच्--ल्युट्--ल्मु वा । १ दक्षिणदिगयजे

अमरः । २ अङ्कोदवृक्षे ४ वलिवञ्चनार्थे प्रादुर्भूते
हरेरवतारभेदे मेदि० तत्कथा हरिवं० २६१ अ० दृश्या ।
पाणिनिसूत्रस्य काशिकावृत्तिकारके ५ पण्डितभेदे च ।
६ ह्रस्वे त्रि० अमरः स्त्रियां ङीप् । “वामतीं मूर्त्तिमाददे” ।

वामलूर पु० वाम लुनाति लू--रक् । वलमीके अमरः ।

वामलोवना स्त्री वामे सुन्दरे लोचने यस्याः । स्त्रीभेदे

अमरः ।

वामवेध पु० वामः प्रतिकूनो वेधः । ज्योतिषोक्ते गोचरस्थ

ग्रहाणां स्वस्वराश्यवधिकस्थानविशेषस्थग्रहभेदकृते
योगभेदे “वामवेधविधिना त्वशोभना अप्यमी” इति ज्यातिषम्
गोचरशब्दे २६८३ पृ० दृश्यम् ।

वामाचार पु० वामः वेदादिविरुद्धः आचारः । तन्त्रोक्ते

मद्यमांसादिसेवनरूपे आचरणे । कुलाचारशब्दे दृश्यम्

वामापीडन पु० वामं यथा तथा आपीड्यते भूष्यतेऽनेन

आ + पीड--ल्युट् । पीलुवृक्षे शब्दच० ।

वामावर्त्त त्रि० वामेनावर्त्तते आ--वृत--अच् । १ वाममार्गेणा-

वृत्तिमति पदार्थे । भावे घञ् । २ वाममार्गेणावृत्तौ पु० ।

वामिल त्रि० वाम + अस्त्यर्थे स्वार्थे वा इलच् । १ दाम्भिके

२ वामे च मेदि० ।

वामी स्त्री वाम--गौरा० ङीष् । १ अश्व्याम् “अथोष्ट्रवामी-

शतवाहितार्थः” रघुः । २ शृगाल्यां ३ रासभ्यां
४ करभ्याञ्च मेदि० ।

वामोरू स्त्री वामौ सुन्दरौ ऊरू यस्याः ऊङ् । प्रशस्तारुयुतायां नार्य्याम् ।

वाय पु० वे--घञ् । वयने (वोना) ।

वायदण्ड पु० वायतेऽनेन वे--करणे घञ् । कर्म० । वेमनि वापदण्डे द्विरूपकोषः ।

वायवी स्त्री वायोरियं ण्य स्त्रियां ङीप् यलोपः । १ वायु-

सम्बन्धिन्थां स्त्रियां २ तच्छक्तौ ३ उत्तरपश्चिमायां दिशि
च जटा० ।

वायव्य त्रि० वायुर्देवताऽस्य वाय् + ण्य । १ वायुदेवताके पश्वादा

“वायव्यं श्वेतगालभेत” श्रुतिः । २ वायुसम्बन्धिनि च

वायस त्रि० वय एव अण् । १ काके वायं वपनं स्यति

सो--ग्र । २ अगुभवृक्षे ३ श्रीवासे च मेदि० ।

वायसविद्यिक त्रि० वायसाविद्यां वेत्ति ठक् । काकचेष्टा०

भेदेन सभाशुभाभिज्ञे ।

वायसादनी स्त्री वायनैः काकैरद्यते अद--ल्युट् ङीप् ।

१ काकतुरण्ड्यां २ महाज्योतिष्मत्याञ्च राजनि० ।

वायसाराति पु० ६ त० । पचके अमरः ।

वायसी स्त्री पायसस्यंयग्रण् प्रियत्वात् । १ काकोडुम्बरिका-

याम २ काकमाच्यां च मेदि० ३ महाज्योतिष्मत्यां ४
काकनासाया ५ काकतुण्ड्यां च राजनि० ।
पृष्ठ ४८८१

वायसेक्षु पु० वायसानामिक्षुरिव प्रियः । काशतृणे राजनि०

वायसोली स्त्री वायसमोड़ते ओड--उत्क्षेपे अच् डस्य लः

शक० गौरा० ङीष् । काकमाच्याम् शब्दर० । स्वार्थे क
तत्रैव ।

वायु पु० वा--उण् । १ स्पर्शगुणके पञ्चभूतमध्ये भूतभेदे

उत्तरपश्चिमविदिशाधिपतौ २ देवभेदे ३ देहस्थधातुभेदे च
अनिलसब्दे १६४ पृ० दृश्यम् ।

वायुगुल्म पु० वायुना गुल्म इव । अम्भसांभ्रमे त्रिका०

वायुदारु पु० वायुना दीर्य्यतेऽसौ दॄ--उण् । मेघे त्रिका० ।

वायुपुत्र पु० ६ त० । १ हनुमति २ भीमे च वायुसुतादयोऽप्यत्र

वायुफल न० वायुना फलति प्रतिफलति फल--अच् । १ इन्द्र-

चापे २ करकायां च मेदि० ।

वायुभक्ष पुंस्त्री० वायुं भक्षति भक्ष--अण् । १ सर्पे राजनि० ।

स्त्रियां ङीष् । ल्यु । वायुभक्षणोऽप्यत्र । वायुर्भक्ष्योऽस्य ।
वायुभक्ष्य तत्रार्थे पुंस्त्री० स्त्रियां टाप् ।

वायुवर्त्मन् न० । वायोर्वर्त्म सञ्चारमार्गो यत्र । आकाशे शब्दर० ।

वायुवाह पु० वायुना उह्यते वह--घञ् । घूमे हेमच० ।

वायुवाहिनी स्त्री वायुं देहस्थवायुं वाहयति सञ्चारयति

वह--णिच--णिनि । वायुसञ्चारिण्यां देहस्थसिरायाम्-
कायशब्दे १९१९ पृ० दृश्यम् ।

वायुसख पु० वायोः सखा महचरः अच्समा० । अग्नौ भरतः ।

वायुसखि पु० वायुः सखा यस्य । अग्नौ अमरः ।

वाय्वास्पद न० ६ त० । वायुसञ्चारस्थाने आकाशे धनञ्जयः ।

वार् न० चु० वृ--क्वप् । अप्सु अमरः ।

वार पु० वृ--घञ् । १ सङ्घे २ अवसरे अमरः । स्वयोग्यकाले

(पाला) “वारोऽङ्गराजस्वसुः” सा० ३ प० । ४ द्वारे ५ शिवे
६ कुब्जवृक्षे ७ क्षणे मेदि० । वार् + सघे अण् । ८ जलसघे
न० सूर्य्यादिग्रहाधिकृते ९ दिने पु० यथा रविवारः
रविस्यामिकं दिनम् । तदानयनञ्च सू० सि०
“मन्दादधः क्रमेण स्यश्चतुर्था दिवसाधिपाः । वर्षा
धिपतयस्तद्वत् तृतीयाश्च प्रकीर्त्तिताः । ऊर्ध्वक्रमेण
शशिनो मामानामधिपाः स्मृताः । होरेशाः सूर्य्यतनया-
दधोऽधःक्रमतस्तथा ।” सू० “शनेः मकाशादधःकक्षा-
क्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतया वारेश्वरा
भवन्ति । यथा शनिरविचन्द्रभौमबुधगुरुशका इति ।
वर्षस्व षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्म-
न्दादधः क्रमेण तृतीयसङ्ख्यका ग्रहा उक्ताः । चः
समुच्चयार्थे । तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरु-
सूर्य्यबुधा इति । चन्द्रात् सकाशादूर्द्धकक्षाक्रमेण
ग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः जथिताः ।
तत्क्रमश्च चन्द्रबुधशुक्ररविभौमगुरुशनथ इति । शनेः
सकाशादधोथः क्रमतः अधःक्रमेण होरेशाः “होरेति
लग्नं भगणस्व चार्धम्” इत्युक्तलग्नार्द्धभागात्मकहो-
राणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशति-
होराणामित्यर्थः । होरा सार्धद्विनाडिका । इति
षष्टिघटिकात्मकेऽहोरात्रे चतुर्विंशतिहोराणामि
त्यन्ये स्वामिनस्तथा मासेश्वरवदव्यवहिताः कथिताः ।
यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति ।
अत्र शनेः सर्वोर्द्धस्यत्वाच्चन्द्रस्य सर्बाधः स्थत्वात् ताभ्वा-
मध ऊर्ध्वक्रमः क्रमेणोक्तः अन्यग्रहस्यावधित्वाभ्युप-
गमे विनिगमनाविरहापत्तेः । न तु शनेराणा-
वधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं न
वा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्व-
खण्डोक्तानीततदीशैर्विरोधापत्तेः । अत्रोपपत्तिः ।
होरारूपलग्नानां क्रान्तिवृत्तेऽधाक्रमेण मेषादीनां सम्भवा-
दूर्ध्वकक्षातोऽधः क्रमेण होरेशत्वं युक्तम् । एवमहो-
रात्रे चतुर्विंशतिर्होराः । सप्ततष्टास्त्रयो होरेसा
गताः चतुर्थो होरेशो द्वितीयदिनप्रारम्भे स एव प्रथन-
होरेशत्वाद् द्वितीयदिने होरेशः । एवमुत्तरत्रापि ।
एवमेतद्वारक्रमेण सावनवर्षे त्रयो वारा अधिका इति पूर्व-
वर्षेशादग्रिमवर्षेशाऽधःकक्षाक्रमेण तृतीय उत्तरोत्तरम् ।
एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिका-
विति कक्षोर्ध्वक्रमे वारक्रमेणैकान्तरितत्वात् कक्षो-
र्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपस्रं मन्दादि-
त्यादि श्लोकदृयम्” रङ्गनाथः ।
वारप्रवृत्तिश्च दृशभेदात् भिन्नकालीना यथोक्तं सि० चि०
“अर्कोदयादूर्ध्वमधश्च ताभि प्राच्यां प्रतीच्यां दिशि
तत्प्रवृत्तिः । ऊर्ध्वं तथाऽधश्च कलाभिराभीरयाषुदग्दक्षिण-
गोलमात्रे” मू० । “प्राच्या ताभिर्घटीभिर्दनवारप्रवृत्ति-
रर्कोदयादूध्वम् भवति प्रतीच्यां तु तस्मादधः । यतो
लङ्कोदये वारादि अतएव च वारादुत्तरगोचस्थे
चरोर्ध्वघटिकामिरूर्ध्वम् यतस्तदा उन्मण्डलं क्षितिजा-
दूर्ध्वम् । दक्षिणे त्वधः अतस्तत्रीदयादधः वारप्रवृत्तिः”
प्रमिता० । “जगति तमोभूतेऽस्मिन् मृष्ट्यादौ भास्करादितिः
पृष्ठ ४८८२
सृष्टैः । यस्माद्दिनपवृत्तिर्दिनवारोऽर्कोदयात् तस्मत्” ।
श्रीपतिरपि “सृष्टेर्मुखे ध्वान्तमयेऽपि विश्वे ग्रहेषु
सृष्टेष्विनपूर्वकेषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य
तस्मादुदयप्रवृत्तिः । लङ्कोदग्याम्यसूत्रात् प्रथममपरतः
पूर्वदेशे च पश्चात् अध्वोत्थाभिर्घटीभिः सवितुरुदयतो
वासरे वा प्रवृत्तिः । ज्ञेया सूर्य्योदयात् प्राक् चरगकल-
भवैश्चामुभिर्याम्यगोले पश्चात् तैः सौस्यगोले युतिवियुति-
वशाच्चोभयोः स्पष्टकालः” । अन्योऽप्याह “केचिद्वारं
सवितुरुदयात् प्राहुरन्ये दिनार्द्धात् भानोरर्द्धास्तमय
समयादूचिरे केचिदेवम् । वारस्यादिं यवननृपतिर्दिङ्
मुह्रर्त्ते निशाया लाटाचार्य्यः कथयति पुनश्चार्द्धरात्रे स्व
तन्त्रे” । एवं मतभेदे व्यवस्था मलमा० उक्ता यथा “द्वो
तिथ्यन्तावेकवारे यत्र स स्यात् दिनक्षयः” कूर्मपु०
“एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” वसिष्ठः ।
कौर्मपुराणवासिष्ठवचनैकवाक्यतया सावनदिनवत् वारप्र-
वृत्तिः सूर्य्योदयावधिरेव मूर्य्यसि० “सूतकानां परिच्छेदो
दिनमासाव्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकी-
र्त्तिता” । अत्र दिनाधिपस्य रव्यादेर्भाग्यं दिनं
वाररूपं सावनगणनयोक्तम् यत्तु “रेखापूर्वापरयोः इत्या-
दिना ज्यातिषे वारप्रवृत्तिरुक्ता तत् ज्योतिषशास्त्रो
कालहोराज्ञानार्थम्” । वाराणां कृत्यविशेषविधा-
नार्थं संज्ञाभेदा यथा “चरः सौम्यो गुरुः क्षिप्रो
मृदुः शुक्रो रविर्ध्रुवः । शनिश्च दारुणो ज्ञेयो भौम
उग्रः शशी समः । चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं
मृदुध्रुवैः । दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्बुद्धका-
ङ्क्षिभिः” । इति सामान्यतोऽभिधाय “नृपाभिषेको-
ऽग्निकार्य्यञ्च सूर्य्यवारे प्रशस्पते । सोमे तु लेपयानं
च कुर्य्याच्चैव गृहादिकम् । सैमापत्यं शौर्य्ययुद्धं
शस्त्राभ्यासः कुजे तथा । सिद्धिकार्य्यञ्च गन्त्रञ्च यात्रां
चौ बुधे तथा । पठनं देवपूला च वस्त्र द्याभरणं गुरौ ।
कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रिया ।
स्थाप्यं गृहप्रवेशश्च गजबन्ध शगौ शुभः” गरुड़पु० ६२ अ०

वारक त्रि० वारयति वृ--णिच्--ण्वुल् । १ प्रवृत्तिनिराधके ।

२ अश्वभेदे ३ अश्वमतिविगेषे श पु० मेदि० । ४ कष्ट-
स्थाने ५ ह्रीवेरे न० हेमच० ।

वारकिन् पु० वारकः अस्त्यस्य इनि । १ चित्राश्वे २ पर्णा-

जावानि (वारुइ) ३ समुद्रे ४ शत्रौ च मेदि० ।

वारकीर पु० वारे कीर इव । १ श्यालके त्रिका० वार

ग्राहके ३ वाड़वे ४ यूकायां ५ वेणिवेधिन्यां ६ नीराजितहये
च मेदि० ।

वारङ्ग पु० चु० वृ--अङ्गच् । खड्गादिमुष्टौ (मुट) सि० कौ० ।

वारट न० चु० वृ--अटच् । १ क्षेत्रे त्रिका० २ क्षेत्रसमूहे शब्दर०

३ हंस्यां स्त्री हेमच० टाप् ।

वारण न० चु०--वृ--ल्युट् । प्रवृत्तिप्रतिरोधे १ निषेधे मेदि०

२ हस्तादिवारणे च जटा० । ३ गजे पुंस्त्री० अमरः
स्त्रियां ङीष् । ४ वाणवारे कवचे पुंन० शब्दच० ।

वारणबुषा स्त्री वारणं पुष्णाति पुष--क पृषो० पस्य बः ।

कदल्याम् अमरः ।

वारणवल्लभा स्त्री ६ त० । कदल्याम् त्रिका० ।

वारमुख्या स्त्री वारे वेश्यावृन्दे मुख्या । बहुजनसत्-

कृतायां वेश्यायाम् अमरः ।

वारंवारम् अव्य० वृ--णमुल् द्वित्वम् । पौनःपुन्ये ।

वारयितृ पु० चु० वृ--तृच् । १ पत्यौ हला० । २ वारण-

कर्त्तरि त्रि० ।

वारयोषा स्त्री वारस्य जनसमूहस्य योषा साधारणत्वात् ।

वेश्यायाम् । ६ त० । वारबध्वादयाऽप्यत्र हेमच० ।

वारलोक पु० वार्जलम् अलीकं यत्र । (वावुइ तुलसी) क्षुपे

शब्दर० ।

वारवाण पुंन० वार्य्यते वृ--घञ् वारो वार्य्यो वाणे यस्य । कवचे अमरः ।

वारवाणि स्त्री वारं समूह वणते वण--इण् वा ङीप् ।

वेश्यायाम् त्रिका० ।

वारवृषा स्त्री वारं जलसंषं वर्षत्यत्र वृष--क । १ धान्ये २ कदल्यां शब्दर० ।

वारवेला स्त्री ६ त० । सूर्य्यादिदिनविशेषे वर्ज्यकालभेदे

“कृत ४ मुनि ७ यम २ शर ५ मङ्गल ८ राम ३ र्तुषु ६ भास्कारादि-
पामार्द्धो । प्रभवति हि वारवेला न शुभा शुभकार्य्यकर-
णार्यज्यो० त० ।

वारांनिधि स्त्री वारां जलराशीनां विधिराधारः नि + धाकि अलुक् सभा० । समुद्रे शब्दर० ।

वाराणसी स्त्री वरणा च असी न सोसात्वेनास्त्यस्या अण्

पृषो० काशीपुर्य्यां हेम० । पर्पा० वराणस्यप्यत्र । वरणाशब्दे
४८४९ पृ० दृश्यम् ।

वाराह पु० वराहस्येदं प्रियत्वात् अण् । १ महापिण्डीतकवृक्षे राजनि० । २ वराहसम्बन्धिनि त्रि० ।

वाराहकर्णो स्त्री वराहस्यायं वाराह इव कर्णः पत्त्र-

मस्याः ङीप् । अश्वगन्धायाम् राजनि० ।

वाराहपत्री स्त्री वाराहस्तत्कर्ण इव धत्त्रमस्याः ङीप्

अश्वगन्धायाम् राजनि० ।
पृष्ठ ४८८३

वाराहाङ्गी स्त्री वाराहमिवाङ्गमस्याः ङीप् । दन्तीवृक्षे

भावप्र० ।

वाराही स्त्री वराहस्येयमण् ङीप् । अष्टमातृकामध्ये

१ वराहशक्तौ “यज्ञवराहमतुलं रूपं या विभ्रता हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम्” देवीमा०
“वाराही नारसिंही च” श्यामास्तवः । २ योगिनीभेदे
वृहन्नन्तिकेश्वरपु० । ३ वराहक्रान्तायाम् अमरः ४ वराह-
योषिति च ५ श्याभाखगे राजनि० ।

वाराहीकन्द पु० (चामरालु) ख्याते कन्दभेदे “वाराहीकन्द

एवान्यैश्चर्म्मकार लुको मतः । अनूपे स भवेद्देशे
वराहैव लोमवान्” भावप्र० ।

वारि न० वृ--इण् । १ जले अमरः २ ह्रीवेरे च हेमच० ।

वार्य्यतेऽनया वृ--णिच्--इन् वा ङीप् । ३ गजवन्धन्याम्
अमरः । “वाय्यर्गलाभङ्ग इव प्रवृत्त” रघुः । ४ वाचि
५ सरस्वत्याम् च स्त्री ङीबन्तः ६ कलस्यां धरणिः ७ वन्दौ
च मेदि० ।

वारिकण्टक पुंन० वारिणः कण्टक इव । शृङ्ग टके जटा०

वारिकर्णी स्त्री वारिणि कर्ण इव पत्त्रमस्याः ङीप् ।

१ कुम्भ्याम् (पाना) शब्दर० स्वार्थे क । तत्नैव ।

वारिकर्पूर पुंस्त्री वारिणि कर्पूर इव । इल्लिशमत्स्ये

त्रिका० स्त्रियां ङीष् ।

वारिकुब्ज पु० वारिणि कुब्ज इव वक्राकृतित्वात् । शृङ्गाटके

शब्दर० । स्वार्थे क । तत्रैव त्रिका० ।

वारिक्रमि पु० ६ त० । जलौकायां त्रिका०

वारिचत्वर पु० वार्य्येव चत्वररूपमस्याधारत्वात् । कुम्भिकायाम् त्रिका० ।

वारिचर पुंस्त्री० वारिषु चरति चर--अच् । १ मत्स्ये

२ जलचरजन्तुमात्रे त्रि० स्त्रियां ङीप् ।

वारिचामर न० वारिणश्चामरमिव शोभाहेतुपुञ्जाकृतित्वात् । शैवाले त्रिका०

वारिज न० वारिणि जायते जन--ड । १ पद्मे २ लवङ्गे

३ गौरसुवर्णे ४ लवणभेदे च राजनि० । ५ शङ्खे हेमच०
६ शम्बूके पु० शब्दच० । ७ जलजातमात्रे त्रि० ।

वारितस्कर पु० वारिणः तस्कर इवापहारकत्वात् । १ सूर्य्ये

२ मेघे शब्दमा० । ३ मुस्तके च ।

वारित्रा स्त्री वारिणस्त्रायते त्रै--क । छत्त्रे त्रिका० ।

वारिद न० वारि ददाति दा--क । १ मेघे २ मुस्तके च अमरः ।

३ जलदातरि त्रि० ४ वालायां स्त्री शब्दच० ।

वारिधि पु० वारीणि धीयन्तेऽस्मिन् धा--आधारे कि ।

१ समुर्द्र शब्दर० वारिनिध्यादयोऽप्यत्र जलांधारे २ घटादौ च

वारिपर्णी स्त्री वारिणि पर्णान्यस्याः ङीप् । कुम्भिकायाम्

(पाना) अमरः ।

वारिपालिका स्त्री वारीणि पालयति आस्तरणेन

पालण्वुल् । कुम्भिकायाम (पाना) शब्दमा० ।

वारिपृश्नी स्त्री वारिणि पृश्निः पर्णमस्याः ङीप् । कुम्भि-

कायाम् (पाना) शब्दमा० ।

वारिबदरा स्त्री वारिसमीपभवा बदरेव । प्राचीनामलके त्रिका० ।

वारिबालक न० वारिणो बालक इव । ह्रीवरे हारा० ।

वारिभव न० वारिणे नेत्रजलाय वारिणि वा भवति प्रभवति

वा भू--अच् । १ स्रोतोऽञ्जने राजनि० । २ जलभवमात्रे त्रि०

वारिमसि पु० वारि जलं म सरिव नीलतापादकं यस्य ।

१ मेघे त्रिका० २ मुस्तके च ।

वारिमूली स्त्री वारिणि मूलमस्याः ङीप् । कुम्भ्याम् (पाना) त्रिका० ।

वारिरथ पु० वारिणि रथ इव गमनसाधनत्वात् । भेलके त्रिका०

वारिराशि पु० वारीणां राशयोऽत्र । १ समुद्रे त्रिका० ।

६ त० । २ जलसमूहे च ।

वारिरुह न० वारिणि रोहति रुह--क । १ पद्मे राजनि० २ जलजातमात्रे त्रि० ।

वारिवदन न० वारियुक्तं वदनं यस्मात् । प्राचीनामलके

तत्सेवने हि मुख वारिनिस्रावः ।

वारिवर न० वारि वृणोति वृ--अच् । वरमर्दके जटा० ।

वारिवल्लभा स्त्री वारि वल्लभमस्याः जनकत्वात् । विद र्य्याम् राजनि० ।

वारिवाह पु० वारीणि वहति वह--अण् । १ मेघे

२ मुस्तके च अमरः । ण्वि । वारिवाड़प्यत्र भत्वे वार्यूहः ।

वारिश पु० वारिणि समुद्रजले शेते शी--ड । विष्णौ त्रिका० ।

वारीश पु० ६ त० । १ समुद्रे २ वरुणे च । वारिनाथा-

दयोऽप्यत्र ।

वारु पु० वारयति रिपून् वारि--उण् । विजयकुञ्जरे हारा० ।

वारुण न० वरुणस्येदमण् । १ जले २ वरुणसम्बन्धिनि त्रि० ।

स देवताऽस्य अण् । २ वरुणदेवताके त्रि० । ४ शततारके न० ।

वारुणि पु० वरुणस्यापत्यम् इञ् । अगस्त्वमुनौ त्रिका० ।

वारुणी स्त्री वरुणो देवतास्य वरुणस्येदं वा अच् ङीप् ।

१ पश्चिमलिशि २ मदिरायाम् हेमच० । ३ शतभिघातारायां ।
४ गण्डदूर्वायाम् ५ दूर्वायां मेदि० । ६ इन्द्रवारुण्यां राजनि०
७ वरुणस्त्रियां ८ शतभिषानक्षत्रयुक्तचैत्रकृष्णत्रयोदस्यां च
स्कन्दपुराणे । “वारुणेन समायुक्ता मधौ कृष्णा त्रयो-
दशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा”
वारुणं शतभिषा । “शनिवारसमायुक्ता सा
महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटि
पृष्ठ ४८८४
सूर्य्यग्रहैः समा । शुभयोगसमायुक्ता शनौ शतभिषा
यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत्”
“अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासपक्ष-
तिथ्युल्लेखानन्तरं महावारुणीमहामहावारुण्यावुल्लेख-
नीये श्राद्धे पार्वणादिसंज्ञाल्लेखवत् पौर्णमास्यमावा-
स्ययोः पक्षाल्लेखवच्च ति० त० । अत्र वारघटितत्वात् सावन-
दिनमेव ग्राह्यम् “सृतकानां परिच्छेदो दिनमासाब्दपा-
स्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तितः” सृ० सि०
उक्तेः । कोर्मपाद्मयोः “द्वौ तिथ्यन्तावेकवारे यत्र
स्मात् स दिनक्षयः” । बशिष्ठः “एकस्मिन् सावने
त्वह्नि तिथीनां त्रितवं यदा । तदा दिनलयः प्रोक्तस्तत्र
साहस्रिकं फलम्” इत्येतयोर्वचनयोरेकवाक्यतयापि
तथावगम्यते । रखापूर्वपरयोरित्यादिकन्तु ज्योतिः-
शास्त्रोक्तं कालहोरादिज्ञानार्थमिति । अत्र “संक्रा-
न्तिषु व्यतीपाते ग्रहणं चन्द्रसूर्य्ययोः । पुष्ये स्नात्वा
च गङ्गायां कुलकोटीः समुद्धरेत्” । इति ब्रह्मा-
ण्डपुराणात् ग्रहणमात्र त्रिकोटिकुलोद्धरणवि-
धानात् ततोऽधिकेषु वारुण्यादिषूत्तरोत्तरगुरुषु
महामहावारुण्यदिषु यत् त्रिकोटिकुलोद्धरणमुक्तं तदुद्ध-
रणगततारतम्येनाविरुद्धम् “यं यं क्रतुमधीते च
तस्य तस्याप्नुयात् फलम्” याज्ञवल्क्योक्ताध्ययनात्
यथा तत्तद्याराकरणेऽधिकफलम् अतएव शिष्टाना-
मादरोऽपि तथेति । नचात्र “स्नानं कुर्वन्ति याना-
र्य्यश्चन्द्रे शतभिषां गते । सप्तजन्म भवेयुस्ता दुर्भगा-
विधवाध्रुवम् । “त्रयोदश्यां तृतीयायां दशम्याञ्च
विशेषतः । शद्रविट्क्षत्रियाः स्नानं नाचरेयुः
कथञ्चन” इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रा-
दीनाञ्च स्नाननिषेध इति वाच्यम् “भोगाय क्रियते यत्तु
स्नानं यादृच्छिकं नरैः । तन्निषिद्धं दशम्यादौ नित्य
नैमित्तिके न तु” इति हेमाद्रिधृतवचनेन रागप्राप्त-
स्नान एव निषेधात् नक्षत्रेऽपि तथाकल्पनात् ।
अत्र त्रयोदश्यां पूर्णायां पूवाह्णातरकाले नक्षत्रादिसत्त्वे
परदिने पूर्वाह्ण तिथिनक्षत्रलाभेऽपि पूर्वदिन एव
स्नानम् । तथा च कालमाधवीये नारदीयम
आदित्योदयवलाया आरभ्य षष्टिनाडिकाः । तिथिस्तु सा हि
शुद्धा स्यात् सार्वतिथ्या ह्ययं विधिः” अत्र पूर्वतिथेः
शुद्धत्वाभिधानातु ततपरतिथेरशुद्धत्वाभिधानं प्रतीयते ।
रात्रावपि वारुण्यादिषु गङ्गायां स्नानम् । “दिवा रात्रौ
च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः । स्नात्वाऽश्वमेधजं
पुण्यं गृहेऽप्युद्धृततज्जलैः” । गृहस्थरत्नाकरे देवलः
“महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम् । तस्यां
स्नानं न कर्त्तव्यं काम्यनैमित्तिकादृते” । अत्र
सहानिशायामपि काम्यनैमित्तिकं स्नानं प्रतीयते” । ति० त० रघु०

वारेन्द्री स्त्री देशभेदे (वारेन्द्रभूमि) (राजसाही) वङ्गदेश

प्रदेशभेदे ।

वार्च त्रि० वारि चरति चर--ड । जलचरे हंसादौ ।

वार्णिक पु० वर्णस्तल्लेखनं शिल्पमस्य ठञ् । लेखके शब्दच०

वार्त्त न० वृत्ति + अण् । १ आरोग्ये २ असारे ३ निरामये

४ वृत्तिशीले च त्रि० अमरः । ५ दुर्गायां “पश्वादिपाललाद्देवी
कृषिकर्मान्तकारणात् । वर्त्तनाद्धारणाद्वापि वार्त्ता सैव
प्रगीयते” देवीपु० । ६ वृत्तौ कृषिकर्मणि ७ जनश्रुतौ
अमरः । ८ वृत्तान्ते ९ वातिङ्गणे मेदि० । १० कालकर्त्तृके
भूतनाशने च स्त्री “अस्मिन् महामोहमये कटाहे
सूर्य्याग्निना रात्रिदिनेन्धनेन । मासर्तुदर्वीपरिघट्टनेन
मूतानि कालः पचतीति वार्त्ता” इति भा० व० यक्षप्रश्नः ।

वार्त्ताक पु० वार्त्तमारोग्यमाकयति गमयति अक--णिच-

अण् । वार्त्ताकौ त्रिका० । भावप्र० स्त्रीत्वमस्योक्तं ङीप

वार्त्ताकु स्त्री वार्त्तमारोग्यमाकयति गमयति अक--णिच्-

उण् । वृन्ताके (वेगुन) शब्दच० । “अग्निप्रदा १ मारुत-
नाशिनी २ च शुक्रपदा ३ शोणितवर्द्धिनी ४ च । हृल्लास-
कासारुचिनाशिनी च ५ । ६ । ७ । वार्त्ताकुरेषा गुणसप्त-
युक्ता । सा बाला कफवातघ्नी पक्वा सक्षारपित्तला ।
सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी । अङ्गारपक्वा
वार्त्ताकः किञ्चित् पित्तकरी मता । कफमेदोऽनिल-
हरा सरा लघुतरा परा” राजव० । “वृन्ताकं स्वादु-
तीक्ष्णोष्णं कटुपाकमपित्तलम् । ज्वरवातनलासघ्नं
दीपनं शुक्रलं लघु । तद्बालं कफपित्तघ्नं वृद्धं पित्त-
करं गुरु । वृन्तार्कं पित्तलं किञ्चिदङ्गारोपरिपाचि-
तम् । कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम् । तदेव
हि गुरु स्निग्धं सतैलं लवणान्वितम् । अपरं श्वेत-
वृन्ताक कुक्कुटाण्डसमं भवेत् । तदर्शःसु विशेषेण हितं
हीनञ्च पूर्वतः” भावप्र० । तत्रार्थे पु० त्रिका० ।

वार्त्तायन पु० वार्त्ताया अयनं येन । प्रवृत्तिज्ञे चरे हेमच०

वार्त्तावह पु० वार्त्तामावहति आ + वह--अण् । १ कृषि-

वाणिज्याजीविनि वणिग्भेदे अमरः २ वृत्तान्तवाहके त्रि०
पृष्ठ ४८८५

वार्त्तिक न० दात्तरूपेण कृतो ग्रन्थः ठक् । “उक्तानुक्त-

दुरुक्तार्थव्यक्तकारि तु वार्त्तिकम्” इत्युक्ते सूत्रानुक्ता-
द्यर्थाविष्कारके ग्रन्थभेदे हेमच० । वार्त्तायां तद्धरणे
नियुक्तः ठक् । २ चर त्रि० । वृत्तिः कृष्यादिः प्रयो-
जनमस्य ठञ । ३ वैश्ये ४ वर्त्तिकाखगे पुंस्त्री० स्त्रियां
ङीष् । राजनि० ५ वार्त्ताकौ शब्दर० । ६ खगभेदे (वटेल)
स्त्री हारा० ।

वार्दर न० वारे जलाय दीर्य्यते दृ--अप् । १ दक्षिणावर्त्त-

शङ्क्षे २ काकचिञ्चायाम् ३ कृष्णलावीज ४ भारत्यां मेदि०
५ कृमिजे ६ आम्रवीजे च । वारेव दरम् । ७ जले च विश्वः ।

वार्दल न० वार्दल्यतेऽत्र दल--आधारे क्र । १ दुर्दिने २ मस्या-

धारे पु० मेदि० ।

वार्द्धक न० वृद्धानां समूहः तस्य भावः कर्म वा वुञ् । १ वृद्धस

मूदे वृद्धस्य २ भावे ३ कर्मणि च मेदि० ।

वार्द्धक्य न० वृद्धस्य भावः कर्म वा ष्यञ् कुक् च । वृद्धत्वे

अमरः ।

वार्द्धि पु० वारि जलानि धीयन्तेऽत्र धा--कि उप० । समुद्रे त्रिका० ।

वार्द्धिभव न० वार्द्धो समुद्रे भवति भू--अच् । सामुद्रलवर्ण

राजनि० । २ समुद्रभवमात्रे त्रि०

वार्द्धुषि पु० वृद्ध्या जीवति इण् वृद्धेर्वृधुषिभावः । वृद्ध्याजीवे

अमरः । स्वार्थे क तत्रैव । “समार्घं धान्यमादाय महार्घं
यः प्रयच्छति । स र्व वार्द्धुषिको नाम हव्यकव्यवाह-
ष्कृतः” स्मृतिः । वृद्धिश्च वृद्धिशब्दे वक्ष्यते तत्रोक्तानयमा-
तिक्रमेण अनापदि स्वयमन्यद्वारा वा स्वाच्छ्यन्द्येन
यो व्यवहरति तस्यैव प्रायश्चित्तम् आपदि तु स्वयं करणे
नियमातिक्रमे च न दोषः” प्रा० वि० ।

वार्द्धुषिन् त्रि० वृद्धि + अस्त्यर्थे इनि प्रकृतेः नि० वार्धुषि

भावः । वृद्ध्याजीविनि भा० आ० ४८२६ श्लो० ।

वार्द्धुष्य न० वार्द्धुषेर्भावः ष्यञ् । धान्यादेर्वर्द्धनोपाये (वाड़ि

देया) त्रिका० ।

वार्द्धीनस पुंस्त्री० वारि जलानि धयति धा--क्विप् वार्द्धीः

नासा नासिका यस्य नसादेशः । १ गण्डके त्रिका०
स्त्रियां ङीष । “त्रिप्लवं त्विन्द्रिवक्षीणं श्वेतं वृद्धमजा-
पतिम् । वार्द्धीनसः प्राच्यतऽसौ हव्ये कव्ये च सत्कृतः”
इत्युक्ते २ छागभेदे “वार्द्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी”
सनुः । ३ पक्षिभेदे च “रक्तपादो रक्तशिरा रक्तचञ्चुविह-
ङ्गमः । कृष्णो वर्णेन च तथा पक्षी वार्द्धीनसो मतः
मार्क० पु० अयं आद्धाङ्गम् । वलिदानाङ्गं कलिका पु० ६६ अ०
उक्तो यथा “नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः ।
वार्द्धीनसः स्यात् पक्षीशो मम विष्णोरतिप्रियः” । पृषो०
वार्ध्रीणमोऽप्यत्र ।

वार्भट पुंस्त्री० वारि भट इव कुम्भीरे त्रिका० स्त्रियां ङीष् ।

वार्मण न० वर्मणां समूहः अण् न टिलोपः । कवचसमूहे

अमरः ।

वार्मिण न० वर्मिणां समूहः अण् न टिलोपः । कवचिसमूहे शब्दर० ।

वार्मुच् पु० वारि जलानि मुञ्चति मुच--क्विप् । १ मेथे शब्दर०

२ मुस्तके च ।

वार्शिला स्त्री वार्जाता शिला शाक० । करकायां शब्दच० ।

वार्षक न० पृथिवीभागभेदे । “दशधा विभजन् क्षेत्रमकरोत्

पृथिवीमिमाम् । इक्ष्वाकुज्येष्ठद्रायादो मध्यदेशमवाप्तवान् ।
क्रोष्टवे वार्षकं क्षेत्रं रणवृष्टिर्बभूव ह” अग्निपु० ।

वार्षिक त्रि० वर्षे वर्षासु वा भवः ठञ् । १ वत्सरभवे २ वर्षा-

कालभवे च । ३ त्रायमाणलतायां न० मेदि० तत्रार्थे स्त्री
राजनि० स्त्रीत्वे ङीप् । ४ वर्षे वर्षे कर्त्तव्यायां पूजायां
स्त्री ङीप् । “शरत्काले महापूजा क्रियते या च
वार्षिकी” देवीमा० ।

वार्हत न० वृहत्याः फलम् अण् तस्य न लुप् । वृहतीकले अमरः ।

वार्हद्रथ(थि) पु० वृहद्रथस्यापत्यमण् इञ् वा । वृहद्रथ-

राजपुत्रे जरासन्धे नृपे त्रिका० अणन्तः शब्दर० ।

वार्हस्पत्य न० वृहस्पतिना प्रोक्तमधीते पत्यन्तत्वात् यक् ।

१ चार्वाके रत्नमा० । तेन पोकं तस्येदं वा यक् ।
२ नीतिशास्त्रे ३ वौद्धागमे च । ४ वृहस्पतिसम्बन्धनि त्रि० ।
५ वर्षभेदे गुरुवर्षशब्दे २६१९ पृ० दृश्यम स देवताऽस्य यक् ।
४ तद्देव ताके त्रि० ६ पुष्यनक्षत्रे न० शैषिकोऽण् । वार्ह-
स्पत ततसम्बन्धिनि त्रि० स्त्रियां ङीप् ।

वालव पु० वल--घञ् वालश्चलनं वाति गच्छति वा--क ।

तिथ्यर्द्धात्मके द्वितीये करणे ज्यो० त० ।

वाल्क न० वल्केन निर्वृत्तमण् । वलकजातेवस्त्रे । वाल्कल अप्यत्र न०

वाल्मिकि पु० वल्मीके भवः इञ् पृषो० । रामायण-

ग्रन्थकर्त्तरि मुनिभेदे द्विरूपको० ।

वाल्मीक(कि) पु० वल्मीके भवः अण् इञ् वा । भार्गवे

प्राचेतसे मुनिभेदे जटा० ।

वावदूक त्रि० वद--यङ् लुक्--ऊकञ् । बहुवदनशीले वक्तरि अमरः ।

वावय पु० वय--यङ्लुक्--अच् । (वावुइ) तुलसीभेदे शब्दच०

वावृत संभक्तौ द्रि० आत्म० सक० सेट् क्त्वा वेट् । वावृत्यते

अवावर्त्तिष्ट । “ततो वावृत्त्यमाना सा” भट्टिः ।

वावृत्त त्रि० वावृत--क्त । कृतवरणे ।

पृष्ठ ४८८६

वाश तिरश्चां शब्दे अक० आह्वाने सक० दि० आत्म० सेट्

ऋदित् चङि न ह्रस्वः । वाश्यते अवाशिष्ट । “उद्वाश्य-
मानः पितरम्” भट्टिः ।

वाशा स्त्री वां कासनतिं श्यति शो--क । वासके शब्दर०

स्वार्थे क ह्रस्वे अत इत्तत्त्वम् । वाशिका तत्रार्थे शब्दच० ।

वाशिंत न० वाश--भावे क्त । १ तिरश्चां शब्दे अमरः

२ आह्वाने च ।

वाशिता स्त्री वाश--क्त । १ करिण्याम् २ स्त्रीमात्रे च अमरः

वा(सि)शिष्ठ न० वशि(सि)ष्ठस्येदम् अण् तेन प्रोक्तं वा

अण् । वशिष्ठप्रणीते १ उपपुराणभेदे २ योगशास्त्रभेदे च ।
३ वशि(सि)ष्ठसम्बन्धिनि त्रि० । ४ गोमत्यां नद्यां स्त्री
हेमच० ङीप् ।

वाश्र न० वाश--रक् । १ गृहे २ चतुष्पथे च । ३ दिवसे पु० मेदि० ।

वाष्प(स्प) पु० वा--प ष(सु)क् च । १ ऊष्मणि २ लोहे मेदि०

३ चक्षुर्जले च अमरः । संज्ञायां कन् । ४ मारिषशाके
(नटिया) पुंस्त्री० शब्दर० वा गौ० ङीष् । वाष्पी + (स्पी)-
स्वार्थे क । वाष्पि(स्पि)काप्यत्र अमरः ।
“मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः ।
मारिषो मधुरः शीतो विष्टम्भी पित्तकृद् गुरुः ।
वातश्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित् । रक्तमार्षो
गुरुर्नादिसक्षारो मधुरः सरः । श्लेष्मलः कटुकः
पाके स्वल्पदोष उदोरितः” भावप्र० ।

वास सुरभीकरणे अद० चु० उभ० सक० सेट् । वासयति ते अववासत् त ।

वास पु० वस--निवासे आच्छादने वा आधारकर्मादौ घञ् ।

१ गृहे २ वस्त्रे ३ अवस्थाने हेमच० । वास--अच् । ४ वासके
शब्दर० । तत्रार्थे स्त्रीत्वमपि तत्र टाप् । ५ सुगन्धे
च । स्थानभेदेऽवस्थाननिषेधी यथा
“तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते । पुंसो ये
नाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु च वसेत् प्राज्ञः
श्रेयोऽर्थी पापपुद्धिपु । ये त्वेवमभिजानन्ति वृत्तेनाभि-
जनेन च । तेषु साधुषु व स्तव्यं सवासः श्रेयसे मतः”
मात्स्ये २८ अ० । “धार्मिकैरावृते ग्रामे न व्याधिबहुले
भृशम् । न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ।
हिमवद्बिन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् । मुक्त्वा
समुद्रयोर्देशं नान्यत्र निवसेत् द्विजः । अर्द्धक्रोशा-
न्नदोकूलं वर्जयित्वा द्विजोत्तमः । नान्यत्र निवसेत् पुण्यं
नान्त्यजग्रामसन्निधौ । न संवसेच्च पतितैर्न चण्डालैर्न
पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः”
कूर्मपु० १५ अ० । “धनिनः श्रोत्रियो राजा नदी वैद्यश्च
पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्” चाणक्य

वासक पु० वास--ण्वुल् । स्वनामख्याते वृक्षे “येन तेन

प्रकारेण वासकः कासनाशकः” इति वैद्यकम्
“वासकः कासहृत् स्वर्य्यः कफपित्तास्रनाशनः । तिक्त-
स्तवरको हृद्यो लघुः शीतस्तृड़र्त्तिहृत । श्वासकाम
ज्वरच्छर्दिमोहकुष्ठक्षयापहः” भावप्र० । २ गानाङ्गवि-
शेषे यथा “मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च ।
चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा” । केषा-
ञ्चिम्मते नामान्तरम् । “विनोदो वरदश्चैव नन्दः
कुमुद एव च । चत्वारो वासकाः प्रोक्ता गीतवाद्य-
विशारदैः” सङ्गीतदा० ।

वासकसज्जा स्त्री “कुरुते मण्डनं या तु सज्जिते

वासवेश्मनि । सा तु वासकसज्जा स्यात्” इत्युक्तलक्षणे
नायिकाभेदे वाससज्जाप्यत्र सा० द० ।

वासकर्णी स्त्री वासं देववासं कर्णयत्यत्र कर्ण--आधारे अच्

गौरा० ङीष् । यज्ञशालायाम् शब्दर० ।

वासगृह न० वासयोग्यं गृहम शाक० । मध्यगृहे अमरः ।

वासत पुंस्त्री० वास--अतच् । गर्दभे शब्दर० । स्त्रियां ङीष् ।

वासतेयी स्त्री वसतये हिता ढक् । १ रात्रौ त्रि० । २ वसति-

योग्ये त्रि० “वनेषु वासतेयेषु” भट्टिः । स्त्रियां ङीप् ।

वासन न० वास--ल्युट् । १ सुरभीकरणे २ धूपने ३ वारि-

धान्याम् ४ वस्त्रे मेदि० ५ वासस्थाने शब्दर० ६ ज्ञान च
धरणिः वस--णिच्--ल्युट् । ७ निक्षेपाधारे निक्षेपार्थे
मुद्राङ्किते पात्रे च । “वासनस्थमनाख्याय समुद्रं यन्नि-
धीयते” नारदः । “वासनं निक्षेपाधारभूतं सम्पुटादिकं
समुद्रग्रन्थ्यादियुक्तम्” व्य० त० रघु० । वस--णिच् भावे
ल्युट् । ८ क्षेपणे च ।

वासना स्त्री वासि--युच् । १ प्रत्याशायां २ ज्ञाने मेदि०

३ स्मृतिहेतौ संस्कारे जटा० । ४ सुरभीकरणे च ।
मिथ्याज्ञानजन्ये ५ संस्कारभेदे दोषशब्दार्थे । ६
आलयविज्ञानानामेकसत्तानवर्त्तिनां तत्तत्प्रवृत्तिविज्ञानजनन-
शक्तौ बौद्धाः । ७ गणितशास्त्रप्रसिद्धे ग्रहस्पष्टीकरणाद्यु
पयोगिनि संस्कारभेदे च ।

वासन्त पुंस्त्री० वसन्तस्येदम् वसन्ते भवः वा अण् । वसन्त

प्रिये १ उष्ट्रे मेदि० । २ कोकिले च राजनि० स्त्रियां ङीष् ।
वसन्तभवे ३ मलयवायौ ४ मुद्गे त्रिका० । ५ कृष्णमुद्गे
हेमच० । ६ मदनवृक्षे च शब्दर० । ७ तत्कालभवे त्रि० ।
पृष्ठ ४८८७
स्त्रियां ङीप् सा च ८ यूथ्या ९ माधवीलतायां
धरणिः । १० पाटलायां विश्वः ११ नवमल्लिकायां भावप्र० ।
“वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित्”
भावप्र० । १० वसन्तकाले कर्त्तव्यदुर्गापूजायाम् । भविस्यपु०
“मीनराशिस्थिते सूय्ये शुक्लपक्षे नराघिप! ।
सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा” भविष्यो-
त्तरे “चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये ।
पूजयेद्विधिवद् दुर्गां दशम्याञ्च विसजयेत्” कालकौमुद्यां
ज बालिः “चेत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये ।
पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा । नानाविधैश्च बलिभि-
र्मेषादैर्दोषवर्जितैः । विचित्राभरणैः पार्थ! पट्टवस्त्रा-
दिभिस्तथा । एवं यः कुरुते पूजां वर्षे वर्षे विधानतः ।
ईप्सितान् लभते कामान् पुत्रपौत्रादिकान्नृप!” इति ।
अत्र निरुपपदमासशब्दसङ्केतात् भविष्यपुराणवचने
मीनराशिस्थित इति मीनस्थरव्यारब्धचान्द्रमासीय-
तिथिपरम् । सौररव्यारब्धत्वे कदाचित् सप्तम्यादि-
तिथित्रयालाभात् तद्वर्षे तत्कृत्यलोपः स्यात् न
चेष्टापत्तिः भविष्यपुराणे सदापदोपादानात् जावालि-
वचने वर्षे वर्षे इत्युपदानाच्च नित्यत्वम् । एतद्विवृतं
कालविवेके । एवं जाबालिशेषवचनपरार्द्धे पुत्रादिरूप
फलश्रवणात् काम्यत्वञ्च । ततश्च काम्यतया पूजने कृते
प्रसङ्गान्नित्यसिद्धि । “सिताष्टम्यान्तु चैत्रस्य पुष्पेस्तत्काल
सम्भवैः । अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन
पूजनम् । न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः”
इति कालिकापुराणवचनात् केवलाष्टमीकल्प उक्तः ।
चैत्रमासमधिकृत्य “नवम्यां पूजयेद्देवीं महिषासुर-
मर्दिनीम् । कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतपणैः ।
दमनैर्मुरपत्रैश्च विजयाख्यपदं लभेत्” इत्यनेन केवल-
नवमीकल्प उक्तः । व्यवस्था तु शारदीयपूजाप्रक-
रणोक्ता ग्राह्या । विशेषस्तत्र बोधनप्रक्रिया नास्ति बाधि-
ताया बोधनासम्भवात् इति प्राग्विवृतम् । होमादि-
कञ्च पूर्ववज्ज्ञेयमिति दिक्” दुर्गोत्सवविवेकः । तत्काल-
पूज्यत्वात् दुर्गापि वासन्तीत्युच्यते ।

वासयोग पु० वासेन गन्धेन योगो यत्र (आविर) चूर्णभेदे

अमरः ।

वासर पुंन० । वस--अरण् । १ दिवसे अमरः । २ नागभेदे पु० मेदि० ।

वासव पु० वसुरेव स्वार्थेऽण् वसूनि सन्त्यस्य अण् वा ।

१ इन्द्रे वसोरपत्यं स्त्री अण् ङीप् । २ व्यासमातरि
मत्स्यगन्धायाम् स्त्री हेमच० । ३ धनिष्ठानक्षत्रे न० ज्यो

वासवदत्ता स्त्री वासवदत्तामधिकृत्य कृतो गन्थः अण्

आख्यायिकायां तस्य लुक् । १ वासवदत्ताचरिताख्यापके
ग्रन्थभेदे ३ त० । ३ इन्द्रदत्ते त्रि० ।

वासस् न० वस--आच्छादने असि णिच्च । १ वस्त्रे अमरः २ पत्रभेदे राजनि० ।

वासाखण्ड न० चक्रदत्तोक्ते औषधभेदे

“तुलामादाय वासायाः पचेदष्टगुणे जले । तेन पादाव-
शेषेण पाचयेदाढ़कं भिषक् । चूर्णानामभयानाञ्च
खण्डाच्छुद्धं तथा शतम् । द्वे पले पिप्पलीचूर्णात्
सिद्ध्वशीते च माक्षिकात् । कुड़वं पलमात्रन्तु चातुर्जातं
सुचूर्णितम् । क्षित्या विलोड़ितं खादेद्रक्तपित्ती क्षत-
क्षयी । कासश्वासपरीतश्च यक्ष्मणा च प्रपीड़ितः”

वासाखण्डकुष्माण्डक न० चक्रदत्तोक्ते औषधमेदे

“पञ्चाशच्च पलं स्विन्नं कुष्माण्डात् प्रस्थमानतः ।
ग्राह्यं पलशतं खण्डं वासाक्वाथाढके पचेत् । मुस्ता-
घात्री--शुभाभार्गी--त्रिसुगन्धैश्च कार्षिकैः । ऐलेयविश्व-
धन्याकमरिचैश्च पलांशिकैः । पिप्पलीकुड़बञ्चैव मघु
मानीं प्रदापयेत् । कासं श्वासं क्षयं हिक्कां रक्तपित्तं
हलीसकम् । हृद्रोगमम्लपित्तञ्च पीनसञ्च व्यपोहति”

वासागार न० वासयोग्यमगारम् शाक० । वासयोग्ये गृहे

गृहमध्ये त्रिका० ।

वासाघृत न० चक्रदोक्ते घृतभेदे

“वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि
चास्याः । प्रदाय कल्कं विपचेद् घृतं तत् सक्षौद्रमा
श्वेव निहन्ति रक्तम्” ।

वासाद्यघृत न० चक्रदत्तोक्ते वृतभेदे

“वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् । पक्त्वा
तेन कषायेण पयसा द्विगुणेन च । विष्पलीमूलमृद्वीक
चन्दनोत्पलनागरैः । कल्कीकृतैश्च विपचेत् घृतं जीर्ण-
ज्वरापहम्” ।

वासि(सी) स्त्री वस--इञ् वा ङीप् । १ कुठारभेदे (वाइम) उणादि० ।

वासित त्रि० वास--क्त । १ सुरभीकृते अमरः । वाश--क्त

पृषो० । २ रुते न० मेदि० । ३ ज्ञानमात्रे हेमच० । ४ खगशब्दे
विश्वः ५ करिण्यां ६ स्त्रोमात्रे स्त्री अमरे पाठान्तरम्
वा गौरा० ङीष् । ७ ख्याते ८ वस्त्रवेष्टिते च त्रि० धरणिः ।

वासिनी स्त्री वासोऽस्त्यस्याः इनि । शुक्लझिण्ट्यार

शब्दच० ।

वासु पु० वस--उण् । १ विष्णौ त्रिका० । २ विश्वरूपे ३ पुनर्वसुनक्षत्रे च उणादिको० ।

पृष्ठ ४८८८

वासुकि पु० वसुना शिरस्थरत्नेन कायति कै--क स एव

इञ् । १ सर्पराजे “भगिनी वासुकेस्तथा” मनसास्तोत्रम् ।

वासुदेव पु० वसुदेवस्यापन्यम् अण । १ विष्णौ अमरः ।

अन्यापि तन्न मनिरुक्तिः विष्णुपु० दर्शिता यथा “सर्व-
त्रामो समस्त च वसत्यत्रेति वै यतः । ततः स वासु-
देवेति विद्वद्भिः परिण्ठ्यते” । विष्णुस० भाष्ये तु द्विधा
पठितयोः वासदेवशब्दयोर्द्विधा व्युत्पत्तिर्दर्शिता तत्र
प्रथम वसुदेवापत्यरूपार्थिका द्वितीया यथा “वसति वासं
गच्छति वा वासुः दीव्यति क्रीड़ति जिगीषते व्यव-
हरति द्योतते स्तूयते मुमुक्षुभिर्वा गच्छतीति वा देवः ।
वासुश्चास्रौ देवश्च वामदेवः । छादयामि जगद्विश्वं भूत्या
(मायया) सूर्य्य इवांशुभिः । सर्वभूताधिवासश्च वासु-
देवस्ततः स्मृतः” “वसनात् सर्वभूतानां वासुत्वाद् दवयो-
नितः । वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्ववादिभिः” भा०
उ० । स च चतुर्व्यूहस्य नारायणाख्यस्य परमात्मनः
अशभेदः इति वैष्णवामन्यन्ते
“एकांशेन जगत् कृतस्नं व्याप्य नारायणः स्थितः ।
चतुर्द्धावस्थितो व्यापो सगुणो निर्गुणोऽपि वा ।
एकाभगवतोमूर्त्तिर्ज्ञानरूपा शिवाऽमला । वासुदेवाभिधाना सा
गुणातीता सुनिष्कला । द्वितीया कालसंज्ञान्या तामसी
शेषसंज्ञिता (सङ्कर्षणाख्य) । निहन्ति सकलांश्चान्तोवैष्ण-
वी परमा तनः । सत्त्वाद्रका तृतीयाऽन्या पद्युम्नेनि च
संज्ञिता । जगत् स्थापयते सर्वं सा विष्णुप्रकृतिर्ध्रवा ।
चतुर्यी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता । राजसी
चानिरुद्धाख्या प्राद्युम्नी सृष्टिकारिका । यः स्वपित्यखिलं
हृत्वा प्रद्युन्मेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ
प्रजासर्गकरो हि सः । या सा नारायणतनुः प्रद्यु-
म्लाख्या मुनीश्वराः! । तया संमोहयेद्विश्वं सदेवासुर-
मानुषम् । सैव सर्वजगत् सूते प्रकृतिः परिकीर्त्तिता ।
वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः । प्रधानं
पुरुषः कालस्तद्वद् त्रयमनुत्तमम् । वासुदेवात्मकं नित्य-
मेतत विज्ञानमुच्यते” कूर्मपु० ४८ अ० ।

वासुदेवप्रियङ्करी स्त्री ६ त० । १ शतावर्य्याम्, राजनि०

वासुरा स्त्री वस--उरण् । १ स्त्रीमात्रे २ करिण्यां ३ रात्रौ

४ भूमौ च हेमच० ।

वासू स्त्री वस--ऊ । नाट्योक्तौ वालायाम् स्त्रियाम् अमरः ।

वास्तव न० वस्त्वेव अण् । सत्यभूते पदार्थे ।

वास्तविक त्रि० वस्तुतो निर्वृस्तम् ठक् । स्वतःसिद्धे सत्यभूते पदार्थे ।

वास्तव्य त्रि० वसति वस--तव्य नि० । वासकर्त्तरिं

वासयोग्ये स्थाने, ३ वसतो च न० ।

वास्तु पु० न० वस--तुण् । वासयोग्यभूमौ अमरः । गृहशब्दे

२६३२ पृ० दृश्यम् । स्वार्थे क । स्वनामख्याते शाके
राजनि० । तत्रार्थे न० भावप्र० ।

वास्तूक न० वास्तु स्वार्थे क पृषो० दीर्थः । (वेतुय) १ शाके

भावप्र० २ चिल्लीशाके स्त्री गौरा० ङीष् राजनि० ।
“वास्तूक वास्तुकं च स्यात् क्षारपत्रञ्च शाकराट् । तदेव
तु वृहत् पत्रं रक्तं स्याद् गोड़वास्तकम् । प्रायशो
यवमध्य स्यात यावत् शाकमतः स्मृतम् । वास्तूकद्वितयं
स्यादु क्षारं पाके कटूदितम् । दोपनं पाचनं रुच्यं लघु
शुकबलपदम् । सरं प्लोहास्रपित्तास्रक्रमिदोषत्रया-
पहम्” भावप्र० ।

वास्तेय त्रि० वस्तरिदम् वस्तये हितं वा ढक् । १ वस्तिसम्बन्धिनि २ वासयोम्ये च ।

वास्तोष्पति पु० ६ त० अलुक् समा० । १ इन्द्रं, अमरः २ वास्तु-

भूमिपती च ।

वास्त्र पु० वस्त्र णादृत । रथः अण् । वस्त्रेण सम्यगावृते रथे अमरः ।

वास्पेय पु० वास्पाय हितं ढक् । नागकेशरे र्त्ना० ।

वाह यत्ने भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः ।

वाहते अवाहिष्ट ।

वाह पुंस्त्री० उह्यतऽनन असौ वा गवादिना वा वह--घञ् ।

१ अश्वे “वाहो भारचतुष्टयम्” इत्यक्ते २ परिमाणभेदे च
अमरः । ३ भुजे ४ वायौ पु० ५ वृषे च पुस्त्रा० शब्दर०
स्त्रिया जातित्वे ङीष् । अमरः वाहरिप्वादयोऽप्यत्र ।

वाहद्विषत् पु० वाहाय द्वेष्टि द्विष--शवृ ६ त० । महि०

वाहन न० वाहयति वह--णिच्--ल्यु । रथादौ याने ।

देवभेदे वाहनभेदो यथा “विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा
जगन्मयी । सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः ।
हरिर्हरिस्तु विज्ञेयो बाहनानि महौजसः । स्वमूर्त्त्या
वाहनत्वन्तु तेषां यष्मान्न युज्यते । तस्मान्मूर्त्त्यन्तरं कृत्वा
वाहनत्व गतास्त्रवः । यस्मिन् यस्मिन् महामाया प्री-
णाति सततं शिवा । तेन तेनैव रूपेण आमनान्यभवन्
त्रयः” कालिकापु० ५७ अ० । देवदानवानां वाहनानि
यथा । पुलस्त्य उवा च “शृणुष्व कथयिष्यामि सर्वेषा-
मपि नारद! । वाहनानि समासेन एकैकस्यानुपूर्वशः ।
रुद्रहस्ततलोत्पन्नं महाकायं महागजम् । श्वेतकर्णं
महावीर्य्यं देवराजस्य वाहनम् । राद्रौजःसम्भवं
भीमं कृष्णवर्णं मनोजवम् । पौण्ड्रणं नाम महिशं
पृष्ठ ४८८९
धर्मराजस्य नारद! । रुद्रमानससम्भूतं श्यामं जलधि-
सम्भवम् । शिशुमारं दिव्यगतं वाहनं वरुणस्य च ।
रौदं शकटचक्राक्षं शैलाकारनरोत्तमम् । अम्बिका-
प्रादसम्भूतं वाहनं धनदस्य तु । एकादशानां रुद्राणां
वाहनानि महामुने । गन्धर्वाश्च महावीर्य्या भुजगेन्द्राः
सुदारुणाः । श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि
च । रथं चन्द्रमसश्चार्द्धसहस्रहंसवाहनम् । हयोढ़
रथवाहाश्च आदित्या मुनिसत्तम! । कुञ्जरस्थाश्च वसंवो
यक्षाश्च नरवाहनाः । किन्नराभुजगारुढा हयारुढौ
तथाश्विनौ । शारङ्गाधिष्ठिता ब्रह्मत्! मरुतो
घोरदर्शनाः । शुकारूढाश्च कवयो गन्घर्वाश्च पदातिनः ।
आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः । सन्नह्य
निर्ययुर्हृष्टा युद्धाय सुमहौजसः” वामनपु० ९ अ० ।
निघण्टौ देवभेदे वाहननामभेदा उक्तास्तत्र दृश्याः ।

वाहस पु० वाहं गतिं स्यति सो--क । १ अजगरे अमरः ।

२ सुनिषणके (सुसनि) शाके ३ परिमाणे च मेदि० ।

वाहिक पु० वह--णिच इक । १ ढक्कायां २ गोवाहे (वलदे)

३ शकटादौ धरणिः । ४ भारवाहके त्रि० “गौर्वाहिकः”
सा० द० ।

वाहित्थ न० वहतीति णिनि वाही--तस्मिन् तिष्ठति स्था--क पृषो० । गजकुम्भास्याथोभागे अमरः ।

वाहिनी स्त्री वाहोऽस्त्यस्याः इनि ङीप् । १ सेनायां,

२ हस्त्यश्वादिसंख्याभेदान्विते सैन्थभेदे अनीकिनीशब्दे
१६९ पृ० दृश्यम् । वहति वह--णिनि । २ नद्याम् अमरः ।
“वाहित्यः पार्श्वमेता न जहति भवतः” काव्यप्रकाशः ।

वाहिनीपति पु० ६ त० । १ सेनापतौ अमरः । २ समुद्रे च

शब्दच० ।

वाहीक पु० वह--ईक । १ जर्त्तिके जातिभेदे (जाट) ।

२ देशभेदे च हेमच० ।
“वाहीकदेश मद्रांश्च कुत्सयन् वाक्यमव्रवीत् ।
पञ्चानां सिन्धुषष्टानां नदोनां येऽन्तराश्रिताः । तान्
धर्मवाह्यानशुचीन् वाहीकान् परिवर्जयेत् । शाकलं
नाम नगरमापगा नाम निम्रगा । जर्त्तिका नाम
वाहीकास्तेषां वृत्तं सुनिन्दितम्” भा० कर्ण० २०० अ० ।

वाह्य न० वाहं चालनमर्हति यत्, वह--ण्यद्वा । १ अश्वादौ

याने हेमच० । वहिर्मवः ष्यञ् दिलोपः । २ वहिर्भवे
त्रि० । ३ एतत्परत्वे ओष्ठ्यादित्वमित्यन्ये ।

वाह्येन्द्रिय न० वाह्यपदार्थाना शब्ददीनष्ट ग्रहणयोम्य-

मिन्द्रियम् शाक० । शब्दादिग्राहके श्रोत्रादौ इन्द्रिये ।

वाह्लि(ह्ली)क पु० । वह--लिण् स्वार्थे क । १ देशभेदे भरतः ।

तद्देशजाते--कुङ्कुमे, २ हिङ्गुनि न० मेदि० ।

वि अव्य० वा--कि । १ नियागे, २ विशेषे, ३ निश्चये, ४ असहने,

५ निग्रहे, ६ हेतौ, ७ अव्याप्तौ, ८ ईषदर्थ, ९ परिभवे,
१० अवलम्बने, ११ ज्ञाने मेदि० १२ विशेषेण गतौ, १३
आलस्ये, १४ पालने च शब्दच० । १५ विहगे पु० अमरः ।
गणरत्ने अस्यार्थभेदानुक्त्वा क्रमेणोदाहृतं यथा
“वि नानावियोगातिशयभृशमोहेशवाङ्मृधपैशुन्यास्वरणभू-
षेषदर्थाभिमुख्यानवस्थाऽऽमुख्यस्थैर्य्यदर्शनेषु” । विचित्रं १
वियुक्तः २ विकीर्णः ३ वितटा नदी ४ विमनस्कः ५ ।
विमुः ६ विवदति ७ विगायति ८ विस्मृतः ९ विभूषितः १०
विलोपितः ११ विमुखः १२ विभ्रान्तः १३ विवृष्टः १४ विश्रान्तः
विलोकयति १५” ।

विंश त्रि० विंशतेः पूरणः विंशति + ड तिलोपः । येन विंशतिसङ्ख्यापूर्य्यते तस्मिन् ।

विंशक न० विंशतेरवयवः ड्वुन् तिलोपः । विंशतिसंख्यायाम् ।

विंशतिरधिका दीयतेऽस्मित् शते आयो लाभो वृद्धिर्वा-
ड्वुन् । प्रतिशतं विंशत्यधिकलाभादौ “सामुद्रा विंशकं
शतम” इति याज्ञ० ।

विंशति स्त्री द्वे दशती नि० । १ द्विदशकसंख्यायां, तत्सङ्ख्यात

च नित्यैकव० । सङ्ख्याविशेषार्थ, तु द्वि० ब० द्व० । द्वे विंशती
त्रिम्नो विंशतयः इति ।

विंशतिक त्रि० विंशतिमर्हति कत् । विंशतिसंख्यायोग्ये ।

विंशतितभ त्रि० विशतेः पूरणः तमप् । विंशशब्दार्थे

स्त्रियां ङीप् ।

विंशिन् पु० विंशति + संख्यायां डिन् तिलोपः । विंशतिसंख्यायाम् ।

विक न० विरुद्धं विगतं वा कंजलं सुखं वा यत्र । सद्यःप्रसू-

ताया गोःक्षीरे पेयूषे शब्दच० । २ विगतसुस्वे ३ विगतजले
च त्रि० ।

विकङ्कट पु० वि + ककि--अटन् । गोक्षुरे शब्दमाला० ।

“विकङ्कटफलं पक्वं मधुरं सर्वदोषहृत्” भावप्र० ।

विकङ्कत पु० वि + ककि अतच् । (वंइची) १ वृक्षे अमरः

२ अतिबलायां स्त्री राजनि० ।

विकच पु० विगतः कचा यस्य । १ क्षपणे बुद्धसंन्यासिनि ।

विशिष्टः कचो यत्र । ३ ध्वजे केतौ मेदि० । वि +
कचअच् । ३ विकशिते अमरः । ६ ब० । ४ केशशून्ये त्रि० मेदि० ।
५ महाश्रावणिकायाम् स्त्री राजनि० ।

विकट पु० वि + कट--अच् । १ विस्फोटके शब्दरत्ना० २

साकरुण्डवृक्षे च राजनि० । वि + कटच् । ३ विशाले त्रि० मेदि० ।
४ विकृत त्रि० त्रिका० ५ सुन्दरे त्रि० विश्वः ६ दन्तुरे त्रि०
घरणिकोषः ७ मायादेव्यां स्त्री त्रिकाण्डशेषः ।
पृष्ठ ४८९०

विकण्टक पु० विगतः कण्टकोऽस्य । १ यवासे जटा० । २ शत्रु-

हीने त्रि० ।

विकत्थन न० वि + कत्थ--ल्युट् । आत्मश्लाघायाम् हेमच० । कर्त्तरि युच् तत्कर्त्तरि त्रि० ।

विकर्त्तन पु० वि + कृत ल्यु । १ सूर्य्ये २ अर्कवृक्षे च अमरः ।

विकर पु० वि + कृ--अच् । १ रोगे शब्दच० । २ लारस्वतदेशे हेमच०

विकर्म्मस्थ पु० त्रि० विकर्मणि निन्दिताचारे तिष्ठति स्था-

क । कुत्सिताचाररते विष्णुपु० ।

विकर्ष पु० वि + कृष--कर्मणि घञ् । शरे वाणे त्रिका० ।

विकल त्रि० विरुद्धा कला यस्य । १ विह्वले, २ स्वभावहीने

त्रिका० । ३ कलाहीने च । ४ ऋतुमत्यां स्त्रियां स्त्री रत्नमा०
वा ङीष । विभक्ता कला यया प्रा० व० ब० । ५ कलाषष्टिभागे
स्त्री “विकलानां कला षष्ट्या” ज्यो० त० ।

विकलाङ्ग त्रि० स्वभावहीनमङ्गमस्य । स्वभावतो न्यूनाधिकाङ्गे अमरः ।

विकल्प पु० विभिन्नः कल्पः । १ म्रान्तिज्ञाने २ कल्पने मेदि०

३ विविधकल्पने ४ संसर्गारोपणे, ५ पक्षतः प्राप्तौ च ।
विकल्पश्च द्विविधः व्यवस्थितः ऐच्छिकश्च । सोऽप्या-
काङ्क्षाविरहे युक्तः तथा च भविष्ये “स्मृतिशास्त्रे
विकल्पस्तु आकाङ्क्षापूरणे सति” । इच्छाविकल्पेऽष्ट-
दोषः यथा “प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना ।
प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता” । ब्रीहिभिर्य-
जेत यवैर्यजेत” इति श्रूयते । तत्र ब्रीहिप्रयोगे प्रतीत-
यवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रमाण्यपरि-
कल्पनम् । इदन्तु पूर्वस्मात् पृथक् वाक्यम् अन्यथा ममुच्च-
येऽपि यागसिद्धिः स्यात् । अतएव विकल्पे न उभयम्
शास्त्रार्थ इत्युक्तम् । प्रयोगान्तरे यवे उपादीयमाने
परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृतयवाप्रामाण्य-
हानिरिति चत्वारो दोषाः । एवं व्रीहावपि चत्वारः
इत्यष्टौ दोषा इच्छाविकल्पे । तथा चोक्तम् । “एवमेवाष्ट-
दोषाश्च यद् ब्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र
गतिरन्था न विद्यते” इति । विविधं कल्प्यते इति
विकल्पः । तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र न
इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः” एता० त० रघु० ।
पातञ्जलोक्तेः ६ चित्तवृत्तिभेदे यथा “शब्दज्ञानानुपाती-
वस्तुशून्यो विकल्पः” सू० । “स न प्रमाणोपारोही न विप
र्य्ययोपारोही वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्न्थ
निबन्धनो व्यवहारो दृश्यते । तद् यथा चैतन्य पुरुषस्य
स्वरूपमिति यदा चितिरेव पुरुषः तदा किमत्र केन
व्यपदिश्यते भवति च व्यपदेशे वृत्तिः यथा चैत्रस्य
गौरिति । तथा प्रतिषिद्धवस्तुधर्मा विष्क्रियः पुरुषः ।
तिष्ठति वाणः स्थास्यति स्थित इति गतिनिवृत्तौ धात्वर्थ-
मात्रं गम्यते । तथानुत्पात्तधर्मा पुरुष इति उत्पत्ति-
धर्मखाभावमात्रमवगम्यते न पुरुषान्वयी धर्मः तस्माद्वि-
कल्पितः स धर्मस्तेन चास्ति व्यवहार इति । भा०
“ननु शब्दज्ञानानुपाती चेदागमपमाणान्तर्गतो विकल्प
प्रसज्येत निर्वस्तुकत्वे वा विपर्य्ययः स्यादित्यत” आह ।
स नेति । न प्रमाणविपर्य्ययान्तर्गतः कस्माद् यतो
वस्तुशून्यत्वेपीति प्रमाणान्तर्गतिं निषेधयति । शब्द-
ज्ञानमाहात्म्यनिबन्धन इति विपर्य्ययान्तर्गतिम्” ।
तदुक्तं भवति क्वचिदभेदे भेदमारोपयति क्वचित्
पुनर्भिन्नानामभेदं ततो भेदस्याभेदस्य च वस्तुतोऽभावात्
तदाभासो विकल्पो न प्रमाणं नापि विपर्य्ययो व्यव-
हाराविसंवादादिति । शास्त्रप्रसिद्धमुदाहरणमाह
तद् यथेति । किं विशेष्यं केन व्यपदिश्यते विशेष्यते,
नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते ।
किन्तु भिन्नेन चैत्रेण तदिदामाह । भवति च व्यप-
देशे वृत्तिः । व्यापदेश्यव्यापदेशकयोर्भावो व्यपदेशे
विशेषणविशेष्यभाव इति यावत् तस्मिन् वृत्तिर्वाक्यस्य,
यथा चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं
समुच्चिनीति तथेति प्रतिषिद्धवस्तुनः पृथिव्यादेः धर्मः
परिस्पन्दो यस्य स तथोक्तः कोऽसौ निष्क्रियः पुरुषः ।
न खलु साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तु
धर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित् पाठं प्रति-
मिद्धवस्तुधर्मा इति तस्यार्थः प्रतिषेधव्याप्त्या प्रति-
षिद्धाभावो न वस्तुधर्माणां तद्व्यप्यता भावाभावयोरसम्ब
न्धाटथ च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह
तिष्ठति वाण इति । पचति भिनत्तीत्यत्र पूर्वापरीभूतया
पाकादिक्रिययेव स्थानक्रियया वाणाद्भिन्नया वाणस्य
व्यपदेश इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते ।
गतिनिवृत्तिरेव तावत् कल्पिता तस्या अभावरूपत्वम् ।
तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः ।
अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु ग
म्यते न पुरुषाद् व्यतिरिक्तो धर्मः कश्चिदित्युदाहरणा-
न्तरमाह । तथानुत्पत्तिधर्मेति । प्रमाणविपर्य्यया-
भ्यामन्या न विकल्प वृत्तिरितिवादिनो वहवः प्रति-
पेदिरे तत्पतिबोधनायोदाहरणप्रपञ्च” विव० ।
पृष्ठ ४८९१
७ ज्ञाने प्रकारतारूपविषयताभेदे यथा सविकल्पकं सप्रका-
रताकं ज्ञानम् । निर्विकल्पकं निष्प्रकारताकं ज्ञानमित्मादि
८ वैचित्र्ये तस्य क्वचित् सत्त्वं क्वचिदसत्त्वम् । यथा
“साध्यदृष्टान्तयोर्धर्मविकल्पात्” गौ० सू० वृत्तौ दृश्यम् ।

विकल्पसम पु० गौ० उक्ते जात्युत्तरभेदे । स च कस्य

चित् धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाविशेषात्
प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनरूपः यथा
शब्दानित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचार-
दर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् अनित्यत्वस्य-
मूर्त्तत्वव्यभिचारदर्शनात् धर्मत्वाविशेषात् कृतकत्वमप्य-
नित्यत्वं व्यभिचरेदिति” वृत्तिः । वा० भाष्ये तु “साधन-
धर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं
प्रसजतो विकल्पसमः । यथा क्रियाहेतुगुणयुक्तं
किञ्चिद् गुरु यथा लोष्टः किञ्चिद् लघु यथा वायुः । एवं
कियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः ।
किञ्चिदक्रियं यथात्मा । विशेषो वा वाच्यः” इत्युक्तम् ।

विकश्व(स्व)र त्रि० वि + कश(स)--ष्वरच् । १ प्रकाशशीले अमरः

२ रक्तपुनर्नवायाञ्च राजनि० ।

विकषा(सा) स्त्री विशेषेण कष्यस्यतेऽसौ कष(सा) घञर्थ क ।

१ मञ्जिष्ठायाम् अमरः । २ मांसरोहिण्यां राजनि० ।

विक(शि)सित त्रि० वि + कश(स)--क्त । प्रकाशयुक्ते ।

विकार पु० वि + कृ घञ् । प्रकृतेरन्यरूपे परिणामे ।

“विकारश्च यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मगो-
ऽन्यये पूर्वो व्यूहो निवर्त्तते व्यूहान्तरं वोपयते ।
तं विकारमाचक्ष्महे” वा० भा० २ । २४६ सूत्रे उक्तः ।
स्वरूपत्यागेन रूपान्तरापत्तिरूपः । स्वरूपस्य विनाशे
अविनाशे वा द्रव्यान्तरारम्भकत्वरूपः यथा दुग्धादेर्दध्या-
रम्भकत्वम् वीजादेर्वृक्षारम्भकत्वरूपो वा” गौ० सू० वृत्ता-
वुक्तो वा । स्वरूपनाशोऽपि विकारो भावविकारशब्दे
दृश्यः । काष्ठादेरवयवनाशेन तस्योत्पादनात् तस्यापि
काष्ठविकार एव कर्मन्शब्दे विकार्य्यनिरूपणे दृश्यम् ।

विकार्य्य त्रि० वि + कृ--ण्यत् । १ विकारजन्ये द्रव्ये व्या-

करणोक्ते कर्मभेदे कर्मन्शब्दे १७३१ पृ० दृश्यम् ।

विकाल पु० विरुद्धः दैवर्पत्रादिकर्मानर्हः कालः । १ राक्षसी

नामकवेलायाम् २ दिवसान्त्यकाले त्रिका० ।

विकालिका स्त्री विज्ञातः कालोऽगया कप् अत--इत्त्वम् ।

कावज्ञापके घटीवन्त्रभेदे (ताँवी) ताम्यां त्रिका० ।

विकाश न० विरुद्धः काशः । १ रहसि २ विशिष्टे काशे

प्रकाशे च अमरः ।

विकाशिन् त्रि० वि + काश--णिनि । प्रकाशशीले विकश्वरे अमरः ।

विकिर पुंस्त्री० वि + कॄ--क । १ विहगे अमरः स्त्रियां ङीष् ।

२ वृक्षे त्रिका० । विकीर्य्यते घञर्थे क । ३ विघ्नोपशान्तये
उत्क्षिप्तश्वेतसर्षपादौ “लाजचन्दनसिद्धार्थभस्मदूर्वाकु-
शाक्षताः । विकिरा इति सन्दिष्टा सर्वविघ्नौथनाशनाः”
तन्त्रसा० । ४ अग्निदग्धादीनां पित्तनिर्वपने “असंकृत-
प्रमीतानां योगिनां कुलयोपिताम् । उच्छिष्टं भागधेयं
स्यात् दर्मेषु विकिरश्च यः” श्रा० त० ।
“पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाच-
नलोपोऽत्र विकिरस्तु न लुप्यते” आ० त० ।

विकिरण न० वि + कॄ--ल्युट् नि० इत् रपरत्वम् । १ क्षेपणे

२ हिंसने, २ ज्ञाने च । ५ अर्कवृक्षे पु० अमर । ६ ब० । ५
किरणशून्ये त्रि० ।

विकीर्ण त्रि० वि + कृ--क्त । विक्षिप्तं ।

विकुर्वाण त्रि० वि + कृ शानच् । हर्षहेतुना जातरौमञ्चादौ

अमरः । २ विकृतिप्राप्ते च ।

विकुक्षि पु० सूर्य्यवंश्ये इक्ष्वाकुराजपुत्रे नृपभेदे हरिवं० । ११ अ० ।

विकुस्र पु० वि + कुस--रक् । चन्द्रे उणादिकोषः ।

विकूणिका स्त्री वि + कू--रअच् स्वार्थे क अत इत्त्वम् ।

नासायां हेमच० ।

विकृत त्रि० वि + कृ--क्त । १ वीमत्से २ मलिनीकृते, ३ रोगयुक्ते

४ विकारयुते ।
“ह्रोमानेर्व्यादिमिर्यत्र वोच्यते स्वं विवक्षितम । व्यज्यते
चेष्टयैवेदं विकृतं तद्विदुर्नुधाः” उज्वलमण्युक्ते ५
भावभेदे न० प्रभवादिषु ६ चतुर्विंशवर्षे पु० प्रभवादिशब्दे
४४७४ पृ० तदानयनं दृश्यम् । “सर्वाः प्रजाः प्रपीड्यन्ते
व्याधिः शोकश्च जायते । शिरोवक्षोऽक्षिरोगास
पापाद्धि विकृते जनाः” ज्यो० त० । नुरुवर्षशब्दे २६२२ पृ०
दृश्यम् ।

विकृति स्त्री वि + कृ--क्तिन् वा । १ विकारशब्दार्थे अमरः ।

क्तिच् नित्यं ङीप् । २ रोगे २ डिम्बे हेमच०

विकेशी स्त्री विगतः केशो यस्याः ङीष् । १ केशशून्यायां स्त्रिया

२ पटवर्त्तौ च धरणिः । ३ महीरूपस्य शिवस्य पत्न्याम्
“सूर्य्यो जलं मही वह्निर्वायुराकाशनेव च । दीक्षितो
ब्राह्मणः सोमः इत्येतास्तनकः क्रमात् । सुवर्चला
तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा
रोहिणी च यथाक्रमम् । स्वर्व्यादीनामिमाः पत्न्यो
रुद्राद्यंर्नामभिः सह” मार्क० पु० ।
पृष्ठ ४८९२

विकोक पु० वृकासुरपुत्रभेदे कल्किन० २१ अध्यावे दृश्यम् ।

विक्क पु० विक्कणति वि + क्वण--ड । करिशावके त्रिका० ।

विक्रम पु० विशेषेण क्रासति वि + क्रम--अच् । १ त्रि-

विक्रमे, २ विष्णौ, “मेधावी विक्रमः क्रमः” विष्णुस० ।
३ विक्रमादित्यनृपे “रत्नानि वै वररुचिर्नव विक्रमस्य”
ज्योतिर्विदाभरणम् । भावे घञ् । ४ क्रमणे मेदि० ।
करणे घञ् । ५ चरणे, त्रिविक्रमः । ६ शौर्य्यातिशये,
७ मामर्थ्ये च राजनि० । षष्टिवर्षमध्ये “लवणम् मधु
गन्धश्च महार्घं विक्रमे प्रिये!” इत्युक्तलक्षणे ८ वत्सर-
भेदे मेदि० । प्रभवादिशब्दे ४४७४ पृ० दृश्यम् ।

विक्रमादित्य पु० विक्रमेणादित्य इव । स्वनामख्याते नृपभेदे

विक्रमार्कोऽप्यत्र “नो दुष्टः श्रुत एव वा क्षितितले
श्रीविक्रमार्कोपमः” मिता० ।

विक्रमिन् पु० वि + क्रम--णिनि । १ सिंहे, राजनि० २ विष्णौ

विष्णुपु० । ३ विक्रमयुक्ते त्रि० स्त्रियां ङीप् ।

विक्रय पु० वि + क्री--अच् । मूल्यग्रहणेन परस्वत्वापादके

व्यापारे अमरः ।
विक्रये विहिताविहितनक्षत्राणि यथा “यमाहिशक्रा-
ग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे प्रशस्ताः । पौष्णाग्नि
चित्राशतविन्दुवाताः क्रये हिता वि क्रयणे निषिद्धाः” ।
ज्योतिः सारः । क्रयविक्रयनिर्णयो यथा “मूल्यं दास्या-
मीति नियमं कृत्वा ग्रहणादपि क्रयसिद्धिः । तथाच
विवादचिन्तामणौ कात्यायनः “पण्यं गृहीत्वा यो मूल्य-
मदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं
वृद्धिमाप्नुयात्” । अतएव वृहस्पतिः “गृहक्षेत्रादिकं
क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं कारयते यत्तुक्रय-
लेख्यं तदुच्यते” । क्रयविक्रये समयविशेषाभ्यन्तरे पश्चा-
त्तापादसिद्धिः । यथाह मनुः “क्रीत्वा विक्रीय वा
किञ्चित् यस्येहानुशयो भवेत् । सोऽन्तर्दशाहे तद्द्रव्यं
दद्याच्चैवाददीत वा” । एतद्याज्ञवल्क्योक्तेतरपरम् ।
यथा याज्ञवल्क्य “दशैकपञ्चसप्ताहमासत्र्यहार्द्ध-
सासिकम् । वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां
परीक्षणं । अत्र वृहस्पतिः “अतोऽर्वाक् पण्यदोषस्तु यदि
संजायते क्वचित् । विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्य-
मवाप्नुयात्” । अतस्तद्द्रव्यपरीक्षणकालात् । कात्या-
यनः “अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रेत्रा तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु” ।
काले प्रागुक्तपरीक्षाकालाभ्यन्तरे । परीक्षिते तु वृह-
स्पतिः “परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत ।
परीक्षितं बहुमत गृहीत्वा न पुनस्त्यजेत्” । अत्र विशेष-
यति नारदः “क्रीत्वा मूल्येन यो द्रव्यं दुषक्रीतं
मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्य-
विक्षतम् । द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांश-
माहरेत् । द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत्” ।
आहरेत् दद्यात् विक्रेत्रे इति शेषः । द्विगुणं त्रिंशा-
शस्य । याज्ञवल्क्यः “राजदैवोपघातेन पण्ये
दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः” ।
नारदः “उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः । दीयमानं
न गृह्णाति क्रीतं पण्यन्तु यः क्रयी । स एवास्य भवेद्दोषो
विक्रेतुर्योऽप्रयच्छतः” प्राय० त० । “न्यासं कृत्वा
परत्राधिं कृत्वा बाधिं करोति च । विक्रयं वा क्रिया
तत्र पश्चिमा बलवत्तरा” । न्यासं कृत्वा आधिं करोति
आधिं कृत्वा वा विक्रयं करोति । विक्रयपदं सत्त्वध्वं
सकत्वात् दानं लक्षयति तत्र परा क्रिया सिद्धेत्यर्थः ।
एवञ्च विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रयदाने
तत्कर्त्तृतुल्यस्वत्वजननात् तत्र तत्क्रेतृप्रतिग्रही-
तृभ्यामाध्युद्धारः कार्य्यः इति । न चं “स्थावरस्य
समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्य्यात् क्रयं
दानं परस्परमतं विना । विभक्ता अविभक्ता वा
सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधम
नविक्रये” इति व्यासवचनाभ्यामेकस्य दानबन्धक-
विक्रयानधिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्य
स्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वचनञ्च स्वामित्वेन
दुर्वृत्तपुरुषगाचरविक्रयादिना कुटुम्बविरोधादधर्म-
ज्ञापनार्थनिषेधकं न तु विक्रयाद्यनिष्पत्त्यर्थमिति”
दायभागः । एवञ्च “स्थावरे विक्रयो नास्ति कुर्य्यादाधि-
मनुज्ञया” इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं
“भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसादर्श-
नाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा
दानरूपेण स्थावरविक्रय इति” विज्ञानेश्वरः । वस्तुतस्तु
स्थावरविक्रयनिषेधः अविभक्तस्थावरविषयः । तत्रापि
यदि विक्रयं विना अवस्थितिर्न भवति तदा विक्रयः
कर्त्तव्यः । पूर्वपुरुषार्जितनष्टोद्धारे विशेषयति मिताक्ष-
रायाम् “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।
असम्भूय सुतान् सर्वान् न दानं न च० विक्रयः” इ-
पृष्ठ ४८९३
यादि । अस्यापवादमाह “एकोऽपि स्थावरे कुर्य्याद्-
दानाधमनविक्रयम् । आषत्काले कुटुम्बार्थे धर्मार्थे च
विशेषतः” दायतत्त्वे रघु० । द्रव्यविशेषविक्रयनिषेधो
यथा स्मृतिः “विक्रीणन् मद्यमांसानि ह्यभक्ष्यस्य च
भक्षणम् । कुर्वन्नगग्यागमनं शूद्रः षतति तत्क्षणात् ।
कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरवि-
चारेण शूद्रश्चाण्डालतां व्रजेत्” कालिकापु० । “विक्रयं
सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक् । मधु चर्म सुरां
लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्” मनुः । “सद्यः पतति
लौहेन लाक्षया लवणेन च । त्रहेण शूद्रो भवति ब्रा-
ह्मणः क्षीरविक्रयात् । अशक्तौ भेषजस्यार्थे यज्ञहेतो-
स्तथैव च । यद्यवश्यन्तु विक्रेयास्तिला घान्येन तत्समाः”
आह्नि० त० । “गवां विक्रयकारी च गवां गोष्ठे क्रमि-
र्भवेत्” इति यमवचनम् । “गोबधोऽयाज्यसंयाज्यपा-
रदार्य्यात्मविक्रयाः । तड़ामारामदाराणामपत्यस्य च
विक्रयः । भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः” मनुः ।

विक्रयानुशय पु० विक्रयस्यानुशयः पश्चात्तापः । विक्रीत-

पदार्थस्य परावृत्तिफलके १ अनुतापे तन्निमित्ते २ विवादभेदे

विक्रयिक पु० विक्रयः अस्त्यस्य ठन् । विक्रेतरि अमरः ।

विक्रयिन् त्रि० वि + क्री--ताच्छील्ये इति । विक्रयशीले

शब्दच० स्त्रियां ङीप् ।

विक्रान्त पु० वि + क्रम--क्त । १ सिंहे राजनि० २ शूरे च अमरः । भावे क्त । ३ विक्रमे ।

विक्रिया स्त्री वि + कृ--भावे श । १ विकारे अन्यथास्थितस्य

वस्तुनोऽन्यथा परिणामे ।

विक्रीयामम्प्रदान न० विक्रीय न सम्प्रदानं क्रेत्रे यत्र ।

अष्टादशविवादान्तर्गते विवादविशेषे तत्स्वरूपादिकं
वीरमि० उक्तं यथा
“अथ विक्रीयासम्प्रदानाख्यव्यवहारपदम् । तत्स्वरूप-
माह नारदः “विक्रीय पण्यं मूल्येन क्रेतुर्यन्न
प्रदीयते । विक्रीयासम्प्रदानं तद्विवादपदमुच्यते इति”
तत्र विक्रेयद्रव्यस्य द्वैविध्यषड्विधत्वे क्रमेणाह स एव
“लोकेऽस्मिन् द्विविधम्पण्यं जङ्गमं स्थावरं तथा ।
षड्विधस्तस्य च बुधैर्दानादानविधिः स्पृतः । गणितन्तुलिमं
मेयं क्रियया रूपतः श्रियेति” । दानं विक्रयः
आदानं क्रयः । गणयित्वा यस्य क्रयः तद्गणितम् ।
गणितं संख्येयं क्रमुकफलादिकम् एवं तुलिमादिकं
तुलिमन्तुलाधृतं हेमचन्दनादिकम् । मेयं व्रीह्यादि-
कम् क्रियया वाहनदोहनादिरूपया युक्तमिति शेषः ।
रूपतः रूपेण युक्तं वस्तु पण्याङ्गनादि । श्रिया दीप्त्या
युक्तं पद्मरागादिकम् । यदा विक्रेता मूल्यं गृहीत्वा
याचमानाय क्रेत्रे विक्रीतं वस्तु न ददाति तदा
यतकर्त्तव्यं तदाह स एव “विक्रीय पण्यं मल्येन क्रेतुर्यो न
प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफल-
मिति” यो गृहीतमूल्योविक्रेता अजातानुशयाय
क्रेत्रे प्रार्थयमानाय नार्पयति तच्च पण्यं यदि स्याव-
रात्मकं तदा क्षयेण सहितमसौ दाप्यः । यदा तु जङ्ग-
मात्मकं तदा क्रियाफलेन सहितम् इत्यर्थः । विक्रया-
नन्तरं जात उपभोगोऽत्र क्षयः क्रियाफलं
दोहनादिक्रियाकलं क्षीरादिकम् । इदञ्च क्रयकालापे-
क्षया अर्पणकाले मूल्याधिक्ये वेदितव्यम् । मूल्यह्रासे
त्वन्यथाभिधानात् । तथा च स एव “अर्थश्चेदपही-
येत सोदयम्पण्यमावहेदिति” । अर्वाक् चेदपचीयेतेति
वल्पतरौ पाठः । अर्वाक् विक्रीतस्य क्रेत्रे समर्पणात्
पूर्वं अपचीयेत हीनमूल्यं भवेत्सोदयम्पण्यमावहेत् ।
विक्रयकाले यावन्मूल्यं गृहीतं तावता मूल्येनार्पण-
समये मूल्यह्रासवशाद्यावदुपचयसहितं लभ्यते
तावद्दद्यादित्यर्थः । यदा तु मूल्यसाम्यं तदा पण्योपचय
रूपस्यासम्भवात् “निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव
च । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति”
वचनोक्त वृद्धिसहितम्पण्यं दाप्यः । अतएव याज्ञ-
वल्क्यः “गृहीत मूल्यं यः पण्यं क्रेतुर्नैव प्रय-
च्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिना-
गते” इति । गृहीतमूल्यम्पण्यं विक्रेता यदि प्रा-
र्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति तच्च
पण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरे अल्पमू-
ल्येनैव लभ्यते तदा सोदयं वृद्ध्या सहितं विक्रेता
क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्वोदयो
नास्ति किन्तु क्रयकाले यावता मूल्येन लभ्यं यावत्पण्य-
मिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय
तस्मिन् देशे विक्रीतस्य यो लाभस्तेगोदयेन सहितं
दापनीयः वचनत्रयस्यार्थः । चतुर्थस्य तु यो देशा-
न्तरात् क्रयणार्थमागत्य क्रीणाति तस्मै देशान्तरे तत्पण्य
विक्रये यो लाभस्तेन सहितं तत्पण्यं दापनीय
इत्यर्थः । देशान्तरलाभसहितपण्यदानन्न केवलमाद्यंश-
साम्य एव किन्तु मूल्यस्य वृद्धौ क्षयेऽपोत्याह नारदः
“स्थायिनामेष नियमोदिग्लामं दिग्विचारिणामिति” ।
पृष्ठ ४८९४
स्थायिनां विक्रेतृदेशख्यायिनाम् एष नियमः ख्यावरस्य
क्षयं दाप्य इत्यादिवचनोक्तो नियम इत्यर्थः । विष्णुर्वि-
क्रेतुर्दण्डमप्याह “गृहीतमूल्यं यः पण्यं क्रतुर्नैव
दद्यात्तत्तस्य सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः”
इति । एतच्चानुशयरहिततृप्तविक्रेतृविषयमिति
मदनरत्ने । यस्तु विक्रीयानुशयवशान्नार्पयति यश्च
क्रीत्वाऽनुशयवशान्न गृह्णाति तौ प्रत्याह कात्यायनः
“क्रीत्वा प्राप्तान्न गृह्णीयाद्यो न दद्याददूषितम् । स
मूल्याद्दशभानन्तु दत्त्वा स्वन्द्रव्यमाप्नुयात्” । अप्राप्तेऽथ
क्रियाकाले कृते नैव प्रदापयेत् । एष धर्मो दशाहात्तु
परतोऽनुशयो नत्विति” । अदूषितं जलादिनेति शेषः ।
दोह्यवाह्यादिपण्यस्य दोहनवाहनादिरूपः कालोऽल्प-
क्रियाकालस्तस्मिन्नाप्ते सति अग्रहणेऽदाने वा कृते
सति न दशमभानं प्रदापयेत् किन्तु तमदत्त्वैव स्वीयं
द्रव्यं प्राप्नुयादिति । एष धर्मो दशाहात्प्राग्वे
दितव्यः तत ऊर्द्ध्वमनुशयो न कर्त्तव्यः । विक्रीयासम्प्र-
यच्छती यद्विक्रीतं पण्यं विक्रेतुः पाश्वं स्थितं तस्य
यदिनाशः स्यात्तदा विक्रेतुरेव हानिरित्याह याज्ञवल्क्यः
“राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्वि-
क्रेतुरेवासौ याचितस्याप्रयच्छतः” इति । अत्र याचित-
स्येति विशेषणोपादानान् याचनाभावे न विक्रेतुर्हानि-
रित्यर्थाद्गम्यते । नारदोऽपि “उपहग्येत वा पण्यं
दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्र-
यच्छतः” इति । यथा याचितस्वाप्रयच्छतो विक्रोगृहानि-
स्तथा दीयमानं पण्यमगृह्णतः क्नेतुरपीत्याह ल एव
“दीयमानन्न गृह्णाति क्रीतम्पण्यञ्च यः क्रयो । स
एवास्य भवेद्दोषी विक्रेतुर्योऽप्रयच्छतः” इति । अप्रय-
च्छतः विक्रेतुर्या दाषः स एवास्य भवेदित्यन्ययः । क्रेतु-
र्दोषाभिधानस्य फल पण्यस्य मूल्यं क्रेत्रे विक्रेत्रा न
प्रत्यर्पणीयमिति । दीयमानन्न नृह्णातीति वदता
दीयवातग्रहणे न मूल्यहानिरिति दर्शितम् । क्रयान-
न्तरं क्रेत्रा न याचितं विक्रेत्रा च न समर्पितं
जातश्चौराद्युपद्रवस्तत्र द्वयोः समा हानिः । क्रेतृविक्रेत्रो-
रुभयोरपि याचनानर्पणशैथिल्येन लापराधत्वादित्युक्तं
देवलभट्टैः स्मृतिचन्द्रिकायाम् । याज्ञवल्क्योऽपि
सानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेदिति”
क्रेतृदोषः दायमानस्याग्रहणम् । यत्र पुनर्जातानुशयः
क्रेता विक्रेत्रा दीयमानञ्च गृह्णाति तत्राप्याह ना-
रदः “दीयमानन्न गृह्णाति क्रीत्वा पण्यं च यः क्रयी ।
विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयादिति” । क्रयी
जातानुशय इति शेषः । याज्ञवल्क्योऽपि “विक्रीत-
मपि विक्रेयं पूर्वक्रेतर्य्यगृह्णतीति” । यस्त्वदुष्टं पण्यं
दर्शयित्वा सदोषं विक्रीणीते यश्चान्यहस्ते विक्रीतं
तत्क्रेत्रनुशयाभाव एवान्यत्र विक्रीणीते तयोः समानो-
दण्ड इत्याह नारदः “निर्दोषं दर्शयित्वा तु सदोषं
यः प्रयच्छति । स मूल्याद्द्विगुणं दाप्यो विनयं
तावदेव तु । तथान्यहस्ते विक्रीय योऽग्यस्मै तत्प्रयच्छति ।
द्रव्यन्तद्द्विगुणं दाप्यो विनयं तावदेव त्विति” । याज्ञ-
वल्क्योऽपि “अन्थहस्ते च विक्रीतं दुष्टं वाऽदुष्ट
वद्यदि । विक्रीणीते दमस्तस्य मूल्यात्तु द्विगुणो
भवेदिति” बुद्धिपूर्वविषयमेतत् । “ज्ञात्वा सदोषं यः
पण्यं विक्रीणीते विचक्षणः । तदैव द्विगुणं दाप्यस्तत्समं
विनयं तथेति” वृहस्पतिनोक्तत्वात् । अबुद्धिपूर्वक
विक्रये तु क्रयपरावर्त्तनमेव । अन्यत्रापि विषयविशेषे
परावर्त्तनमाह वृहस्पतिः “मत्तोन्मत्तेन विक्रीतं
हीनमुल्यं भयेन वा । अस्वतन्त्रेण मूढेन त्याज्यन्तस्य
पुनर्भवेदिति” । एतत्सर्वं दत्तमूल्ये पण्ये द्रष्टव्यम् ।
अतएव नारदः । “दत्तमूल्यस्य पण्यस्य विधिरेष प्रकी-
र्त्तितः” इति । यत्र पुनर्मूल्यं न दत्तं तत्रापि स
एवाह “अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः” इति ।
अदत्तमूल्ये तु पण्ये वाङ्मात्रेण क्रये कृते न परावर्त्त-
नीयमित्येवमादिसमयाभावे सति प्रवृत्तौ निवृत्तौ
न कणिद्दोष इत्यर्थः । यत्र पुनर्वाङ्मात्रक्रयपरिहारार्थं
विक्रेतुर्हस्ते क्रेत्रा किञ्चिद्द्रव्यं दत्तं तत्र क्रेतृदोष
वशेन क्रयासिद्दौ त्वाह व्यासः “सत्यङ्गारं च यो
दत्त्वा यथाकालं न दृश्यते । पण्यं भवेन्निसृष्टन्तद्दोय-
मानमगृह्णतः” इति । निसृष्टं भवेत् उत्सृष्टं भवेदि-
त्यर्थः । अत्र पण्यद्रव्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गे-
ऽभिमतः । अन्यथा वाङ्मात्रक्रयकर्तृतुल्यत्वेन विक्रेतुः
सत्यङ्कारद्रव्यग्राहकत्वकृतमन्यत्र विक्रयणाद्यपराधनिमि-
त्तकं सत्यङ्क रद्रव्यस्य द्वैगुण्येन प्रतिदानं न स्यात् ।
अत्रापि विक्रीतमविक्रेयनित्यनुसन्धेयम् । अस्मिञ्चेव
विषये विक्रेतृदोषवशेन क्रयासिद्धौ त्वाह याज्ञबलक्यः
“सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेदिति” सत्यङ्कारः
सत्यापनं कृतस्य क्रयस्य सत्यताकरणमिति यावत् ।
“क्लीवे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्” इत्यमर
पृष्ठ ४८९५
कोषःभिधानात् । सत्यङ्क राय कृतं समार्पतं सत्यङ्कार-
कृतं व्रयं रत्यं कर्त्तुं यद्विक्रेतृहस्ते कृतमित्यर्थः” ।

विक्रेय त्रि० वि + व्री--यत् । विक्रयणीये पदार्थे ।

विक्लव त्रि० वि + क्लु--अच् । १ व्यावुलभूते अमरः । भावे अप् २ व्याकुरत्वे

विक्लित्ति स्त्री वि + क्लिद--क्तिन् । जलतेजःसंयोग भ्यामव-

यवशैष्टिल्ये पूर्वारम्भकसंयोननाशानन्तरशिथिलसंयोगा
पत्तौ ।

विक्लिन्न त्रि० वि + क्लिद--क्त । १ आर्द्रे २ शीर्णे ३ जीर्णे च

मेदि० । ४ विक्लेदयुक्ते ।

विक्षाव पु० वि + क्षु घञ् । १ शब्दे अमरः । २ कासादिरोगकृतशब्दे च वैद्यकम् ।

विक्षिप्त त्रि० वि + क्षिप--क्त । १ विशेषेण क्षिप्ते २ योगशास्त्रोक्ते

चित्तस्य भूमिभेदे न० । यथोक्तं पातञ्जलभाष्यविव-
रणयोः “क्षिप्तं मूढ़ं विक्षिप्तमेकाग्रं निरुद्धमिति
चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनी
भूतः समाधिर्न योगपक्षे वर्त्तते” भा० । “क्षिप्तं सदैव
रजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तमस्थिरं,
मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत् । विक्षिप्तं क्षिप्ता-
द्विशिष्टं विक्षिप्तं विशेषोऽत्र स्थेसबहुलस्य कादाचित्कः
स्थेमा सा चास्याःस्थेमबहुलता सांसिद्धिकी वा वक्ष्य-
माणव्याधिस्त्यानाद्यन्तरायजनिता वा” विव० ।

विक्षीर पु० विशिष्टं विगतं वा क्षीरमस्य । १ अर्कवृक्षे राजनि०

२ विगतक्षीरे त्रि० ।

विक्षेप पु० वि + क्षिप--घञ् । १ त्यागे २ प्रेरणे ३ दूरीकरणे च ।

“चित्तस्य विक्षेपा नवविधाः पात० सूत्रभाष्ययोर्दर्शितास्ते
च चित्तविक्षेपशब्दे २९४१ पृ० अन्तरायशब्दे च दृश्याः ।
वेदान्वसिद्धचित्तविक्षेपाः २०० पृ० उक्ताः ।
विमण्डले यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद् यत् तिर्य्य-
गन्तरं स विक्षेपः” सि० शि० उक्ते ४ शरे च ।
“भूषाणामर्द्धरचना वृथा विष्वगवेक्षणम् । रहस्याख्या-
नमीषच्च विक्षेपी दयितानिके” सा० द० उक्ते स्त्रीणां
५ सत्त्वजालङ्कारभेदे
६ कथाविच्छेदरूपे मिग्रहस्थानभेदे “कार्य्यव्यासङ्गात्
कथाविच्छेदो विक्षेपः” गौ० सृ० “यत्र कर्त्तव्यं व्यासज्य कथां
व्यवच्छिनत्ति । इदं मे करणीयं विद्यते तस्मिन्नवसिते
कथयिष्यामि इति विक्षेपो नाम निग्रहस्थानम् ।
एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रति-
पद्यते इति” वा० भा० । “असम्भवत्कालान्तरकत्वेनारोपितं
कार्य्यं व्यासङ्गमुद्भाव्य कथाविच्छेदस्तथा” वृत्तिः ।

विक्षेपशक्ति स्त्री विक्षेपस्य जनिका शक्तिः । वेदान्तोक्ते-

अविद्याशक्तिभेदे ।
“विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्ज्वौ
स्वशक्त्या सर्पादिकमुद्भावयति एवमज्ञानमपि स्वावृतात्मनि
स्वशक्त्या आकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् ।
तदुक्तम् “विक्षपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं लगत्सृजे-
दिति” । येदान्तसा० ।

विख त्रि० विगता नासिका यस्य खादेशः । गतनासिके ।

अमरः । ख्यादेशः । विख्योऽप्यत्र त्रिका० ।

विखुर पुंस्त्री० १ राक्षसे त्रिका० स्त्रियां ङीष् । २ चौरे संक्षिप्त०

विख्यात विशेषेण ख्यातः प्रसिद्धः वि + ख्या--क्त । प्रसिद्धे

विगणन न० विशेषेण गणनम् गण--ल्युट् । ऋणशोधनार्थे

सङ्ख्यागणने ।

विगत त्रि० वि + गम--क्त । १ प्रमादरहिते अमरः । २ विशेषगते

रुद्र० ३ अपगते च हेमच० । ६ त० । ४ खगगतौ न० ।
“विगतं विगतम्” भट्टिः ।

विगतार्त्तवा स्त्री विगतमार्त्तवं रजो यस्याः । गतरजस्कायां स्त्रियाम् शब्दरत्ना० ।

विगन्धक पु० विरुद्धः गन्धोऽस्य कप् । १ इङ्गुदीरुवृक्षे

राजनि० । २ हपुषायां स्त्री० टापि अत इत्त्वम् ।

विगम पु० वि + गम--घञ् । १ नाशे, २ अपाये च ।

विगर्हण न० वि + गर्ह--ल्युट् । निन्दने ।

विगर्हित त्रि० वि + गर्ह--क्त । १ निन्दिते २ निषिद्धे च ।

भावे--क्त । ३ निन्दायाम् न० ।

विगाढ़ त्रि० वि + गाह--क्त । १ स्नाते, २ कृतावगाहने च ।

विगान न० वि + गै--ल्युट् । निन्दायाम् हेमच० ।

विगीत त्रि० वि + गै--क्त । निन्दिते ।

विगीति स्त्री वि + गै--क्तिन् । निन्दायाम् ।

विगुण त्रि० विरुद्धो गुणोऽस्य । गुणरहिते ।

विगूढ़ त्रि० वि + गुह क्त । १ गर्हिते, २ गुप्ते च मेदि० ।

विगृहीत त्रि० वि + ग्रह--क्त । १ गृहीते, व्याकरणोक्ते

विग्रहवाक्यस्थे ३ पदे च ।

विग्र त्रि० विगता नासिकाऽस्य ग्रादेशः । विगतनासिके अमरः

विग्रह पु० वि + ग्रह--अच् । १ देहे, २ विस्तारे, ३ युद्धे पुंन०

अमरः । ४ समासादिवृत्तिसमानानार्थकवाक्यभेदे, ५ विशेष-
ज्ञाने च “अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः”
हरि० ।

विघटिका स्त्री विभक्ता घटिका यथा प्रा० व० । घटिकाषष्ठिभागे

पलात्मके काले राजनि० । वि + घट--ण्व्यल् । २ वियोजते त्रि०
पृष्ठ ४८९६

विघटित त्रि० वि + घट--क्त । १ वियोजिते २ विशेषेण रचिते च

विघट्टित त्रि० वि + घट्ट--क्त । १ चालिते २ वियोजिते च ।

विघस पु० वि + अद--घञ् । भोजनशेषे मेदि० २ आहारे च

शब्दच० । ३ सिक्थके न० राजनि० । ४ दैवपैत्रदत्तशेषे

विघसाशिन् त्रि० विघसं देवतादिदत्तावशेषमश्नाति

अशणिनि । दैवपैत्रकार्य्यानन्तरं तदवशिष्टमोजिनि ।

विघात पु० वि + हन--क्त । १ व्याघाते २ आघाते च ।

विघातिन् त्रि० वि + हन्--णिनि । १ निवारके । २ नाशके,

३ नाशप्रतियोगिनि च “नित्यश्चायं वल्निमित्तो विघाती”
इति व्याकरणका० । ण्वुल् । विघातकोऽप्यत्र ।

विघ्न पु० वि + हन--क । १ व्याघातके अन्तराये अमरः । २

कृष्णपाकफलायां शब्दच० ।

विघ्ननायक पु० विघ्नानामुत्पत्त्यनुत्पत्त्योः नायसः । विघ्नेशे गणेशे शब्दर० ।

विघ्नकारिन् त्रि० विघ्नं करोति कृ--णिनि । १ घारदर्शने

२ विघातके च मेदि० । स्त्रियां ङीप् ।

विघ्ननाशक पु० ६ त० । गणेशे शब्दच० ल्यु । विघ्ननाशनादयोऽप्यत्र ।

विघ्नराज पु० विघ्ने राजते राज--अच् । गणेशे अमरः ।

६ त० । विघ्नेशादयोऽप्यत्र ।

विघ्नहारिन् पु० विघ्नं हरति हृ--णिनि । गणेशे त्रिका० ।

विघ्नित त्रि० विघ्नो जातोऽस्य इतच् । जावधिघ्ने ।

विघ्नेशानकान्ता स्त्री ६ त० । श्वेतदूर्वायाम् राजनि० ।

विच पृथक्करणे रु० जु० वा उ० अक० अनिट् । विनक्ति

विवेक्ति विङ्क्ते विविक्ते । इरित् अविचत् अवैक्षीत् ।

विचकिल पु० विच + क किल--क कर्म्म० । १ मदनवृक्षे ।

२ मल्लीभेदे मेदि० ।

विचक्षण पु० वि + चक्ष--ल्यु न ख्यादेशः । १ पण्डिते अमरः २ नागदन्त्यां स्त्री राजनि० टाप् ।

विचक्षुस् त्रि० वि + चक्ष--उसि न ख्यादेशः । १ विमनस्के

त्रिका० । विगतं चक्षुर्यस्य । २ नेत्रशृन्ये त्रि० ।

विचयन न० वि + चि--ल्युट् । १ अन्वेषणे शब्दच० । २ पुष्पादिचयने च ।

विचर्चिका स्त्री वि + चर्च--ण्वुल् । पामनि रोगमेदे अमरः ।

सा च स्वल्पकुष्ठविशेषः । “एकं कुष्ठं स्मृतं पूर्वं गजचर्म
ततः स्मृतम् । ततश्चर्मदल प्रोक्तं ततश्चापि विचर्चिका ।
विपादिकाभिधा सैव पामा कच्छस्ततः परा । ततो दद्रुश्च
विष्फोटः किटिमञ्च ततः परम् । ततश्चालसकं प्रोक्तं
शतारुश्च ततः परम् । क्षुद्रकुष्ठानि चैतानि कथितानि
भिषग्वरैः । सकण्डूः पिड़का श्यावा बहुस्रावा
विचर्चिका” पिड़का लुद्रपिड़का । “दाल्यते त्वक् खरा रूक्षा-
लान्वोर्ज्ञेया विचर्क्षिका । पादे विपादिका ज्ञेया स्थान०
भेदाद्विचर्चिका” । “केचिद्विचर्चिकातो विपादिकां भिन्ना
माहुः” भावप्र० । कुष्ठशब्दे २१५४ पृ० दृश्यम् ।

विचार पु० वि + चर--घञ् । १ तत्त्वनिर्णये सन्दिग्धे वस्तुनि

प्रमाणेन तत्त्वपरीक्षायां २ तदनुगुणे वाक्यस्तोमे च ।
“विपरीतोद्भावकपरविजिगीषया न्यायप्रयोग इति”
केचित् प्राहुः । यथा पदार्थानुमानस्थले पर्वतो वह्णि-
मान् धूमवत्त्वादित्यादि । अत्र च पर्वते वह्नौ साधनोये
प्रतिवादिना च पर्वतो न वह्निमानित्यादि विपरीतवाक्ये
प्रयुक्ते मध्यस्थस्य संशयी जन्यते । तन्निवृत्त्यर्थं वादिना
पर्वतो वह्निमानित्यादिप्रतिज्ञादिघटितवाक्यप्रयोगरूपः
विचारः क्रियते इति । ४ विगतश्चारो यस्मात् प्रा० व० ।
चारशून्ये च “विचारदृक्चारदृगप्यवर्त्तत” ।

विचारण न० वि + चर--णिच्--ल्युट् । १ विचारे शब्दर० ।

युच् । तत्रैव स्त्री अमरः । २ मीमांसाशास्त्रे हेमच०

विचारित त्रि० विचारो जातोऽस्य इतच् । कृतविचारे ।

विचाल त्रि० वि + चल--कर्त्तरि ण । १ अभ्यन्तरे २ अन्त-

राले--हेमच० । वि + चल--णिच् भावे अच् । ३ अन्यथा
स्थितस्य वस्तुनो विशेषरूपतापादने “अधिकरणविचाले
च” पा० “द्रव्यस्य संख्यान्तरापादने संख्याया धां स्यात् ।
एकं राशिं पञ्चधा कुरु” सि० कौ० ।

विचि(ची) पुंस्त्री विच--इक् । तरङ्गे भरतः । स्त्रीत्वपक्षे वा ङीप् ।

विचिकित्सा स्त्री वि + कित स्वार्थे सन् अ । सन्देहे अमरः ।

विचित्र न० विशेषेण चित्रम् । १ कर्वूरवर्णे । २ तद्वति त्रि०

शब्दच० ३ आश्चर्य्ये त्रि० । ४ मृगेर्वारौ स्त्री राजनि० ।
५ अर्थालङ्कारभेदे न० अलङ्कारशब्दे ४०३ पृ० दृश्यम् ।
संज्ञायां कन् । भुर्जपत्रवृक्षे पु० राजनि० ।

विचित्रवीर्य्य पु० शान्तनुनृपात्मजे नृपभेदे भा० आ० १०६ अ०

विचित्राङ्ग पुंस्त्री० पिचित्रमङ्गं यस्य । (चिते) १ व्याघ्रभेदे

शब्दच० २ मयूरे पुंस्त्री० शब्दर० उभयत्र स्त्रियां ङीष्
३ आश्चर्य्योदेहे त्रि० ।

विचेतस् त्रि० विरुद्धं दुष्टं विशिष्टं वा चेतो यस्य । १ दुष्ट-

चित्ते २ विशिष्टवित्ते च । ३ दुर्मनस्के हेमच० ।

विचेष्टित त्रि० विगतं चेष्टितमस्य । १ चेष्टाशून्ये, वि + चेष्ट-

भावे क्त । २ विशेषेण चेष्टायाम् न० ।

विच्छ दीप्तौ चु० उभ० सक० सेट् । विच्छयति ते अविविच्छत् त

विच्छ गतौ तु० पर० स्वार्थे आय, आयपक्षे उ० सक० सेट् ।

विच्छायति विच्छायते विच्छति । अविच्छायीत् अविच्छा-
यिष्ट अविच्छीत् ।
पृष्ठ ४८९७

विच्छन्दक पु० विशिष्टः छन्दो यत्र कप् । ईश्वरगृहे अमरः

“उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञितम्” ।

विच्छाय न० वीनां पक्षिणां छाया नपुंसकत्वम् । पक्षि

समूहच्छायायाम् अमरः । विगता छाया यस्य । २ छाया-
रहिते त्रि० मेदि० । ३ विशिष्टकान्तियुते मणौ भरतः ।

विच्छित्ति स्त्री वि + छिद--क्तिन् । १ अङ्गरागे २ हारभेदे

३ विच्छदे मेदि० । ४ छेदे ५ विनाशे ६ स्त्रीणां चेष्टाभेदे च ।
“स्ताकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत्” सा० द०

विच्छिन्न त्रि० वि + छिद--क्त । १ विभक्ते २ समालब्धे च मेदि०

३ कुटिले हमच० । भावे--क्त । ४ छदने न० ।

विच्छेद पु० वि + छिद--भावे घञ् । १ वियोगे २ सन्ततिरा

हित्ये ३ विभागे च ।

विज पृथक्करणे जु० उभ० सक० अनिट् । वेवेक्ति वेविक्ते

इरित् अविजत् अवैक्षीत् अविक्त ।

विज भये कम्ये च रु० पर० अक० सेट् । विनक्ति अविजीत् ।

ईदित् ओदिच्च विग्नः ।

विज भये कम्पे च तु० आ० अ० अनिट् । विजते अविजिष्ट । ईदित् ओदिच्च क्त--विग्नः ।

विजन त्रि० विगतो जनो यस्मात् प्रा० ब० । निर्जने अमरः ।

विजनन त० वि + जन--ल्युट् । १ गर्भमीचने प्रसवे हेमच०

३ उद्भवे शब्दच० ।

विजपिल न० विज--क पिल--क कर्म० । पङ्के हलायुधः ।

विजन्मन् त्रि० विरुद्धं जन्म यस्य । जारजे ।

विजय पु० वि + ज--कर्त्तरि अच् । १ अर्जुने मेदि० ।

“अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् । नाजित्वा
विनिवर्त्तामि तेन मां विजयं विदुः” भा० वि० ४४ अ० ।
२ विमाने हेमच० ३ यमे च । ४ विष्णोरनुचरभेदे ।
जयशब्दे ३०५० पृ० दृश्यम् । तच्छब्दशब्दे दर्शिते ५ नृपभेदे
६ कल्किपुत्रभेदे कल्किपु० १३ अ० । भावे अच् । जये
८ परिभवपूर्वकग्रहणे च ।

विजयकुञ्जर पु० विजयाय कुञ्जरः । राजवाहनगजे त्रिका० ।

विजया स्त्री १ आश्विनशुक्लपक्षीयदशम्याम् २ उमायाः सखीभेदे

वामनपु० ४ अ० “कथयतु विजया” इति मुद्राराक्षसम् ।
३ दुर्गायां हेमच० “विजित्य पद्मनामानं दैत्यराजं
महाबलम् । विजया तेन सा देवी लोके चैवापराजिता”
देवीपु० ४५ अ० । ४ जयन्त्यां ५ शेफालिकायां ६ मञ्जिष्ठायां
७ शमीभदे, ८ अग्निमन्थे राजनि० । ९ भङ्गायाम् (सिद्धि)
हेमच० तत्पर्य्यायगुणादि भावप्र० उक्तं यथा
“भङ्गा गञ्जा मातुलानी मादिनी विजया जया । भङ्गा
कफहरो तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा
पित्तला मोहमदवाग्वह्निवर्द्धिनी” भावप्र० ।
अष्टद्वादशीमध्ये “यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं
भवेत् । तदा सा तु महापुण्या द्वादशी विजया स्मृता”
इत्युक्ते १० द्वादशीभेदे “शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो
यदा भवेत् । सप्तमी विजया नाम” इत्युक्ते सप्तमीभेदे
च । ११ यमभार्य्यायां १२ हरितक्यां जटा० । १३ वचायां
रत्नमा० । १४ अस्त्रविद्याभेदे “विद्याभथैनं विजयां
जयाञ्च” भट्टिः ।

विजलप पु० “व्यक्तयाऽसूयया गूढ़मानमुद्रान्तरालया ।

अधद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः” उज्ज्वलम-
ण्युक्ते वाक्यभेदे ।

विजात त्रि० विरुद्धं जातः । १ जारजाते विशेषेण जाता ।

२ जातासत्यायां स्त्रियां स्त्री हेमच० । धर्म्मावलम्बिनि ।

विजातीय त्रि० विभिन्नां जातिं धर्ममर्हति छ । विभिन्न-

विजिगीषा स्त्री विजेतुमिच्छा वि + जि--सन् भावे अ ।

१ स्वोदरपूरणेच्छया निन्दनीयकर्मादौ प्रवृत्तौ २ तन्निन्दा-
ऽगणने रमा० ३ विजयेच्छायाञ्च । उ । विजिगीषु
जयेच्छावति त्रि० शब्दच० ।

विजिगीषाविवर्जित त्रि० ६ त० । औदरिके अमरः ।

विजिन(ल) न० विज--इनच् इलच् किच्च । सरसव्यञ्जये

“पाकरूपरसासक्ते व्यञ्जने तु भवेत् त्रयम् । तैलपाक-
सुसंस्कारे प्रशस्तमुपसंस्कृतम् । विजिनं लालसीकञ्च
विजिलं विज्जिलञ्च तत्” शब्दर० ।

विजुल पु० विज--उलच् किच्च । शाल्मलीकन्दे राजनि० ।

विजृम्भण न० वि जृमि--ल्युट् । १ विकाशे २ मुखविकाशहेतु-

भूते वायुव्यापारभेदे (हाइतोला) । अ विजृम्भात्र स्त्री ।

विजृम्भित त्रि० वि + जृभि--क्त । १ विकशिते मेदि० २ जृम्भा-

युक्ते भावे क्त । ३ प्रकाशे ४ चेष्टायां ५ जृम्भायां च मेदि० ।

विज्जन न० विद्--वेधनं जनयति जन--अच् । वाणे त्रिका०

विज्जल न० व्यध--ताड़े क्विप् विदा जडयति जडि--अच

डस्य लः । १ वाणे त्रिका० । २ विजिले हेमच० ।

विज्जुल न० विज--उलच् जुट् । त्वचे (दारचिनि) राजनि०

विज्जुलिका स्त्री विज्जुल + संज्ञायां कन् कापि अत रत्त्वम् ।

जतुकायां राजनि० ।

विज्ञ त्रि० विशेषेण जानाति वि + ज्ञा--क । १ प्रवीणे अमरः । २ पण्डिते पु० राजनि० ।

विज्ञात त्रि० वि + ज्ञा--क्त । १ ख्याते अमरः । २ ज्ञाते च ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/वहति&oldid=57842" इत्यस्माद् प्रतिप्राप्तम्