वाचस्पत्यम्/त्रिपर्ण

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३३७०

त्रिपर्ण पु० त्रीणि त्रीणि प्रतिपत्रं पर्णान्यस्याः । १ किंशुके ।

२ वनकार्पास्यां स्त्री राजनि० टाप् ङीप् वा ।
३ शालपर्ण्याम्, लतायां ४ पृश्निपर्णीभेदे च स्त्री ङीप्
भावप्र० । संज्ञायां कन् । त्रिपर्ण्णिका कन्दालौ “त्रि-
पर्णी मधुरा शीता श्वासकासविषव्रणान् । विनाशयति
सा नित्यं पित्तकोपप्रशान्तिकृत्” राजनि० । समा० द्विगुः ।
५ पर्णत्रये स्त्री ङीप् ।

त्रिपाठ पु० ६ त० । त्रयाणा पदक्रमसंहितानां पाठे ।

त्रिपाठिन् पु० त्रीन् पदक्रमसंहितारूपग्रन्थान् पठति

पठ--णिनि । वेदानां पदक्रमसंहितारूपग्रन्थाध्यायिनि ।

त्रिपाण न० त्रिःकृत्वः पानं उदकपानं यस्य वृत्तौ

सुचो लोपः संज्ञात्वात् णत्वम् । त्रिःकृत्वःपायिते
१ सूत्रभेदे २ वल्कले च “तार्प्यं परिधापयति”
कात्या० श्रौ० १५ । ४ । ७ । “तार्प्यशब्दं स्वयमेव व्या-
करोति “क्षौमम्” ८ । क्षुमा अतसी तस्य विकारः ।
“त्रिपाणम्” ९ । त्रिःकृत्वः पायितं वा सकृदिति
विकल्पः । वयनकाले उदकेन त्रिस्तर्पयित्वा यदूयते
सूत्रम् तत्तृप्यम् तस्य विकारस्तार्प्यम् त्रिः पायितैस्तन्तु-
भिर्व्यूतमित्यर्थः । केचित्त्रपाणं वल्कलभित्याहुः” कर्कः ।

त्रिपाद पु० त्रयः षादा अस्य संख्यापूर्वत्वेऽपि समासान्त्

विधेरनित्यत्वान्नान्त्यलोपः । १ परमेश्वरे “पादोऽस्य
सर्वा भूतानि त्रिपादस्यामृतं दिवि” छा० उ० । भाष्य-
कारस्तु “त्रिपात् अस्यामृतः दिवीति” छित्त्वा त्रिपाद्
त्रयः पादा अस्य सोऽयं त्रिपादिति हलन्तमाह ।
“नमों द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे” भाग०
८ । १६ । २६ । भत्वात् पादस्य पद्भावः । २ ज्वरे च “ज्वर-
स्त्रिपादस्त्रिशिराः षड्भुजो नव लोचनः” हरिवं० १८१ अ०

त्रिपाद् पु० त्रयः पादा अस्य संख्यापूर्वत्वादन्त्यलोपः । १ त्रिवि-

क्रमे २ विष्णौ तस्य तथात्वकथा यथा “भूयश्चैवाव्रवीदेनं
वामनं वटुरूपिणम् । स्वल्पैः स्वल्पमते! किन्ते पादैस्त्रि-
भिरनुत्तमम् । कृत्स्नां ददामि ते विप्र! पृथिवीं सागरै-
र्वृताम्” वामन उवाच “न पृथ्वीं कामये कृत्स्नां
सन्तुष्टोऽस्मि पदैस्त्रिभिः । एष एव रुचिष्यो मे वरो
दानवसत्तम!” वैशम्पायन उवाच “तथाऽस्त्विति
बलिः प्रोच्य स्पर्शयामास दानवः । पदानि त्रीणि
देवाय विष्णवेऽमिततेजसे । तोये तु पतिते हस्ते
वामनोऽभूदवामनः । सर्वदेवमयं रूपं दर्शयामास वै प्रभुः ।
भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी ।
पादाङ्गल्यः पिशांचाश्च हस्ताङ्गुल्यश्च गुह्यकाः” हरिवं०
२६२ अ० “तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तना-
न्तरे । नभः प्रक्रममाणस्य पादमूले व्यवस्थितौ ।
विष्णोरमितवीर्य्यस्य वदन्त्येवं द्विजातयः” २६३ अ०
“क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च
बाहुभिः । पदं द्वितीयं क्रमतस्त्रिपिष्टपं न वै तृतीयाय
तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्य्युपर्य्यथो महर्ज-
नाभ्यां तपसः परङ्गतः” भाग० ८ । २० । २६ “बलि-
रुवच “यद्युत्तमश्लोक! भवन् ममेरितं वचो व्यलीकं
सुरवर्य्य! मन्यते । करोम्यृतं तन्न भवेत् प्रलम्भनं पदं
तृतीयं कुरु शीर्ष्णि मे निजम्” ८ । २२ । ३ । “इदं विष्णु-
र्विचक्रमे त्रेधा निदधे पदम् । समूढ़मस्य पांसुरे” ऋ०
१ । २२ । १७ । ३ परमेश्वरे च त्रिपादशब्दे छा० उ० वाक्यं
दृश्यम् । ४ त्रेतायुगधर्मरूपे वृषे “राघवः शिथिलं
तस्थौ भुवि धर्मस्त्रिपादिव” रघु० ।

त्रिपादिका स्त्री त्रयः पदाः मूलान्यस्याः कप् टाप् ।

हंसपदीलतायां राजनि० ।

त्रिपिण्ड न० त्रीणि पिण्डानि देयान्यत्र । पित्रादित्रयो-

द्देशेन कर्त्तव्ये १ पार्वणश्राद्धे “ततः प्रभृति संक्रान्ता-
वुपरागादिपर्वसु । त्रिपिण्डंमाचरेत् श्राद्धमेकोद्दिष्टं
मृताहनि” श्रा० त० मत्स्यपु० । समाहारद्विगुः ङीप् ।
२ पित्राद्युद्देशेन पिण्डत्रये स्त्री ।

त्रिपिब पु० त्रिभिः कर्ण्णाभ्यां जिह्वया च पिबति स्पृशति

जलं पा--क । वार्धीनसे लम्बकर्णे छागभेदे यथाह
निगमे “त्रिपिबन्त्विन्द्रियक्षीणं श्वेत वृद्धमजापतिम् ।
वार्ध्रीनसन्तु तं प्राहुर्याज्ञिकाः पितृकर्भणि” । “नद्यादौ-
पयः पिबतो यस्य त्रीणि जलं स्पृशन्ति कर्णौ जिह्वा च
त्रिभिः पिबतीति त्रिपिबः” कुल्लू० ।

त्रिपि(वि)ष्टप न० मर्त्यपातालापेक्षया तृतीयं पि(वि)ष्टपं

भुवनम् वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणार्थता । १ स्वर्गे
अमरः “तत् त्रिपिष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत” भा०
आ० २०६ अ० । २ आकाशे शब्दर० ।

त्रिपिष्टप(व)सद् पु० त्रिपिष्टपे(वे) सीदति सद--क्विप् । देवे हला० ।

त्रिपु पु० स्तेने निघण्ठुः । तृपुरित्यत्र पाठान्तरम् ।

पृष्ठ ३३७१

त्रिपुट पु० त्रीणि पुटान्यस्य । (खेसारीं) १ कलायभेदे २ शरे,

३ तालकयन्त्रे, ४ हस्तभेदे शब्दर० । ५ तीरे ६ गोक्षुरवृक्षे
रत्नमा० । ७ मल्लिकायां ८ सूक्ष्मैलायां ९ त्रिवृति
(तेओड़ि) च स्त्री मेदि० । १० कर्णस्फोटलतायां ११ स्थू-
लैलायां १२ रक्तत्रिवृति च स्त्री राजनि० । १३ देवी-
भेदे च स्त्री “ऋषिः सम्मोहनश्छन्दो गायत्री देवता
पुनः । त्रिपुटाख्या द्विरुक्तैस्तैर्वीजैरङ्कानि षट् क्रमात्”
तन्त्रसा० तस्याध्यानादिकं तत्रैव दृश्यम् १४ त्रिवृति एरण्डे
वा ङीप् । त्रयाणां पुटानां समाहारः । १५ पुटत्रये
स्त्री ङीप् । त्रीणि पुटानि यस्य कप् । १६ ब्रणाकार-
भेदे “तत्रायञ्चतुरस्रो वृत्तस्त्रिपुटक इति सर्वब्रणसमासः”
सुश्रुतः । त्रिपुट + स्वार्थे क संज्ञायां कन् वा । त्रिवृति
वैदले “मुद्गवनमुद्गफलायमकुष्ठमसूरमङ्गल्यचणकसतीन-
त्रिपुटकहरेण्वाढ़कीप्रभृतयो वैदलाः” सुश्रु० ।

त्रिपुटिन् पु० त्रीणि पुटानि सन्त्यस्य इनि । एरण्डवृक्षे शब्दमा०

त्रिपुटी स्त्री त्रीणि पुटानि सन्त्यस्याः अच् गौरा० ङीष् ।

त्रिवृति भरतः ।

त्रिपुटीफल पु० त्रिपुटी पुटत्रयं फलेऽस्य । एरण्डवृक्षे हारा०

त्रिपुण्ड्र न० त्रयाणां पुण्ड्राणां इक्षुवदाकाराणां समाहारः ।

१ललाटस्थे तिर्य्यग् रेखात्रयात्मके, “वक्राः ललाटगा-
स्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम्” इत्युक्ते तिलकभेदे “विना
भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि
महादेवो न स्यात्तस्य फलप्रदः । तस्मान्मृदापि कर्तव्यं ललाटे-
ऽपि त्रिपुण्ड्रकम्” ति० त० ब्रह्माण्डपुराणम् । “ऊर्द्धपुण्ड्रं
मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा । तिलकं वै द्विजः
कुर्य्यात् चन्दनेन यदृच्छया । ऊर्द्ध्वपुण्डं द्विजः कुर्य्यात्
क्षत्रियश्च त्रिपुण्ड्रकम् । अर्द्धचन्द्रञ्च वैश्यश्च वर्तुल
शूद्रयोनिजः” आ० त० । “शिवागमे द क्षितैस्तु धार्य्यं
तिर्य्यक् त्रिपुण्ड्रकम् । विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्व-
पुण्ड्रं विधारयेत्” इति नागोजीभट्टधृतसूतसंहिता
“मृत्स्नया भस्मना वापि त्रिपुण्डं विन्दुसंयु-
तम् । ललाटे तिलकं कुर्याद्गायात्र्याबद्धकुन्तलः” इति
महानिर्वाणतन्त्रम् “येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण
विना स्थितम् । श्मशानसदृशं तत् स्यान्न प्रेक्ष्यं पुण्य-
कृज्जनैरिति” देवीभाग० । अपि च तत्रैव नारदं प्रति
नारायणवाक्यम् “त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति
शिवमेव ते । धारयन्ति च ये भक्त्या धारयन्ति तमेव
ते । तिर्य्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ।
तथापि मानवा मूर्खा न कुर्वन्ति त्रिण्ड्रकमिति” ।

त्रिपुर् स्त्री त्रिगुणिताः पुरः समासान्तविधेरनित्यत्वात् आर्षे

न अच् समा० । पुराणां त्रये त्रिपुरशब्दे च पुरत्रयं
दृश्यम् । “ददाह तेन दर्भेद्या हरोऽथ त्रिपुरो नृप!”
भाग० ७ । १० । ५४ ।

त्रिपुर न० त्रयाणां पुराणां समाहारः । असुराणां १

पुरत्रये । तत्पुरकथा भा० क० प० ३३ अ० ।
“ततस्त सहिता राजन्! संप्रधार्य्यासकृद्बहु । सर्वलोके-
श्वरं वाक्यं प्रणम्येदमथाब्रुवन् । अस्माकं त्वं वरं
देव! प्रयच्छेमं पितामह! । वयं पुराणि त्रीण्येव
समास्थाय महीमिमाम् । विचरिष्याम लीकेऽस्मिँस्त्वत्-
प्रसादपुरस्कृताः । ततो वर्षसहस्रे तु समेष्यामः परस्प-
रम् । एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ।
समागतानि चैकत्वं यो हन्याद्भगवंस्तदा । एकेषुणा
देववरः स नो मृत्युर्भविष्यति । एवमस्त्विति तान्देवः
प्रत्युक्त्वा प्राविशद्दिवम् । ते तु लब्धवराः प्रीताः
संप्रधार्य्य परस्परम् । पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्म्म-
हासुरम् । विश्वकर्म्माणमजरं दैत्यदानवपूजितम् ।
ततो मयः स्वतपसा चक्रे धीमान् पुराणि च ।
त्रोणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा । काञ्चनं
दिबि तत्रासीदन्तरीक्षे च राजतम् । आयसञ्चाभव-
द्भौमं चक्रस्थं पृथिवीपते! । एकैकं योजनशतं विस्ता-
रायामसस्मितम् । गृहाट्टालकसंयुक्तं वृहत्प्राकारतोर-
णम् । गृहप्रवरसंबाधमसम्बाधमहापथम् । प्रासा-
दैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् । पुरेषु चाभवन्
राजन्! राजानो वै पृथक् पुथक् । काञ्चनं तारकाक्षस्य
चित्रमासीन्महात्मनः । राजतं कमलाक्षस्य विद्युन्मा-
लिन आयसम् । त्रयस्ते दैत्यराजानस्त्रीँल्ल्ॐकानाशु
तेजसा । आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः ।
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च । कोट्यश्चा-
प्रतिवीराणां समाजग्मुस्ततस्ततः । मांसादाश्च सुदृप्ताश्च
सुरैर्विनिकृताः पुरा । महदैश्वर्य्यमिच्छन्तस्त्रिपुरं दुर्ग-
माश्रिताः । सर्वेषाञ्च पुनस्तेषां सर्वयोगवहो मयः ।
तमाश्रित्य हि ते सर्वे वर्त्तयन्त्यकुतोभयाः । यो हि
य मनसा कामं दध्यात् त्रिपुरसंश्रयः । तस्मै कामं
मयस्तं तं विदधे मायया तदा । तारकाक्षसुतो वीरो
हरिर्नाम महाबलः । तपस्तेपे परमकं येनातुष्यत्
पितामहः । सन्तुष्टमवृणोद्देवं वापी भवतु नः पुरे ।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः । स तु
लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः । ससृजे
पृष्ठ ३३७२
तत्र वापीं तां मृतसञ्जीवनी प्रभो! । येन रूपेण
दैत्यास्तु येन योगेन चैव ह । मृतास्तस्यां परिक्षिप्ता-
स्तादृशेनैव जज्ञिरे । तां प्राप्य ते पुनस्तांस्तु सर्वान्
लोकान् बबाधिरे । महता तपसा सिद्धाः सुराणां भयव
र्द्धनाः । न तेषामभवद्राजन् क्षयो युद्धे कथञ्चन” । “संगी-
यमानस्त्रिपुरावदानः” कुमा० । “गङ्गेव त्रिपुरद्विषः” रघुः
“त्रिपुरदाहमुमापतिसेविनः” किरा० । त्रीणि पुराणि
येषाम् । २ तारकाक्षसुतहर्म्यादिषु असुरभेदे पु० ब० प० ।
त्रीन् धर्म्मार्थकामान् पिपर्त्ति पॄ--क । ३ देवीभेदे स्त्री ।
“वैष्णव्याः मन्त्रमुख्येषु त्रिपुरायास्ततः शृणु”
तन्त्रसारः । “शृणु त्वं त्रिपुरामूर्त्तेः कामाख्या-
यास्तु पूजनम्” का लकापु० ६२ अ० । शतदिनगर्य्यां
त्रिपुराख्यदेशभेदे स्त्री ङीप् हेमच० ।

त्रिपुरघ्न पु० त्रिपुरं हन्ति हन--टक् । १ महादेवे तस्य

त्रिपुरहननकथा भा० क० ३४ अ० ।
“मूर्त्तिं सर्वां समाधाय त्रैलोकस्य ततस्ततः । रथं
ते कल्पयिष्यामो देवेश्वर! महौजसम् । तथैव बुद्ध्या
विहितं विश्वकर्म्मकृतं महत् । ततो विवुधशार्दूलास्तं
रथं समकल्पयन् । विष्णु सोमं हुताशञ्च तस्येषुं
समकल्पयन् । शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशा-
म्पते! । कुद्मलञ्चाभवद्विष्णुस्तस्मिन्निषुवरे तदा । बन्धुरं
पृथिवीं देवीं विशालपुरमालिनीम् । सपर्वतवनद्वीपां
चकुर्भूतधरां तदा । मन्दरः पर्वतश्चाक्षं जङ्घा तस्य
महानदी । दिशश्च प्रदिशश्चैव परिवारो रथस्य ह ।
ईषा नक्षत्रवशश्च युगः कृतयुगोऽभवत् । कूवरश्च
रथस्थासीद्वासुकिर्भुजगोत्तमः । अपस्करमधिष्ठानं
हिमवान् बिन्ध्यपर्वतः । उढयास्तावधिष्ठाने गिरी चक्रुः
सुरोत्तमाः । समुद्रमक्षमसृजन् दानबालयमुत्तमम् ।
सप्तर्षिमण्डलञ्चैव रथस्यासीत् परिष्करः । गङ्गा
सरस्वती सिन्धुर्धुरमाकाशमेव च । उपस्करो रथस्यासन्नापः
सर्वाश्च निम्नगाः । अहोरात्राः कलाश्चैव काष्ठाश्च
ऋतवस्तथा । अनुकर्षं ग्रहा दीप्ता बरूथञ्चापि तारकाः ।
धर्म्मार्थकत्मसंयुक्तं त्रिवेणुं दारुवन्धनम् । ओषधीर्वीं
रुधस्तत्र नानापुष्पफलोपगाः । सूर्य्याचन्द्रमसौ कृत्वा
चक्रे रथवरोत्तमे । पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी
शुभे । दश नागपतीनीषां धृतराष्ट्रमुखान् दृढ़ान् द्यां
युगं युगचर्म्माणि संवर्त्तैकबलाहकान् । सन्ध्यां धृतिञ्च
मेधाञ्च स्थितिं सन्नतिमेव च । ग्रहनक्षत्रताराभिश्चर्म्म
चित्रं नभस्तलम् । सुराम्बुप्रेतवित्तानां पतील्ल्ॐ-
केश्वरान् हयान् । कालपृष्ठोऽथ नहुषः कर्कोटकधन-
ञ्जयौ । इतरे चाभवन्नागा हयानां बालबन्धनाः ।
दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् । वषट्कारः
प्रतोदोऽभूत् गायत्री शीर्षबन्धनी । सिनीबालीमनुमतिं
कुहूं राकाञ्च सुव्रताम् । योक्त्राणि चक्रुर्वाहानां
रोहकांस्तत्र कण्टकान् । कर्म्म सत्यं तपोऽर्थश्च विहि-
तास्तत्र रश्मयः । अधिष्ठानं मनश्चासीत् परिरथ्या
सरस्वती । नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ।
विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन् । यो यज्ञे
विहितः पूर्वमीशानस्य महात्मनः । संवत्सरो
धनुस्तद्वै सावित्री ज्या महास्वना । दिवञ्च वर्म्म विहितं
महार्हरत्नभूषितम् । अनेद्यं विरजस्कं वै कालचक्र-
बहिष्कृतम् । ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः ।
पताकाश्चाभवन्मेघास्तडिद्भिः समलङ्कृताः । रेजुरध्वर्य्यु-
मध्यस्था ज्वलन्त इव पावकाः । कॢप्तन्तु तं रथं दृष्ट्वा
विस्मिता देवताभबन् । सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि
मारिष! । युक्तं निवेदयामासुर्देंवास्तस्मै महात्मने ।
एवं तस्मिन् महाराज! कल्पिते रथसत्तमे । देवैर्म्मनु-
जशार्दूल! द्विषतामभिमर्दने । स्वान्यायुधानि दिव्यानि
न्यदधात् शङ्करो रथे । ध्वजयष्टिं वियत् कृत्वा
स्थापयामास गोवृषम् । ब्रह्मदण्डः कालदण्डो रुद्रद-
ण्डस्तथा ज्वरः । परिष्कन्दा रथास्यासन् सर्वतोदिशमु-
द्यताः । अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः ।
ऋग्वेदः सामवेदश्च पुराणञ्च पुरःसरा । इतिहास-
धनुर्वेदौ पृष्ठरक्षौ बभूवतुः । दिव्या वाचश्च दिव्याश्च
परिपार्श्वचराः स्थिताः । स्तोत्रादयश्च राजेन्द्र!
वषट्कारस्तथैव च । ॐकारश्च मुखे राजन्निति शोभा-
करोऽभवत् । विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं
धनुः । छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयारणे । कालो
हि भगवान् रुद्रस्तस्य संवत्सरो धनुः । तस्माद्रौद्री
कालरात्रिर्ज्यां कृत्वा धनुषोऽजराम् । इषुश्चास्याभवद्विष्णु-
र्ज्वलनः सोम एव च । अग्नीषोमं जगत् कृत्स्न
वैष्णवञ्चोच्यते जगत् । विष्णुश्चात्मा भगवतो भवस्या-
मिततेजसः । तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ।
तस्मिन् शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः । भृग्वङ्गि-
रोमन्युभवं क्रोधाग्निमतिदुःसहम् । स नीललोहितो
धूम्रः कृत्तिवासा भयङ्करः । आदित्यायुतसंङ्काशस्तेका-
पृष्ठ ३३७३
ज्वालादृतोऽज्वलत् । दुश्च्यावश्च्यावनो जेता हन्ता
ब्रह्मद्विषां हरः । नित्यं त्राता च हन्ता च धर्माधर्मा-
श्रितान्नरान् । प्रमाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः ।
विभाति भगवान् स्थाणुस्तैरेवात्मगुणैर्युतः तस्याङ्गानि
समाश्रित्य स्थितं विश्वमिदं जगत् । जङ्गमाजङ्गमं
राजन्! शुशुभेऽद्भुतदर्शनम् । दृष्ट्वा तन्तु रथं युक्तं
कवची स शरासनी । वाणमाटाय तं दिव्यं सोमवि-
ष्ण्वग्निसम्भवम् । तस्य राजंस्तदा देवाः कल्पयाञ्चक्रिरे
प्रभोः । पुण्यगन्धवहं राजन्! श्वसनं देवसत्तमम् ।
तमास्थाय महादेवस्त्रासयन् दैवतान्यपि । आरुरोह
तदा यत्तः कम्पयन्निव मेदिनीम् । तमारुरुक्षुं देवेशं
तुष्टुवुः परमर्षयः । गन्धर्वा देवसंघाश्च तथैवाप्सर-
साङ्गणाः । ब्रह्मर्षिभिःस्तूयमानो वन्द्यमानश्च वन्दिभिः ।
तथैवाप्सरसांवृन्दैर्नृत्यद्भिर्नृत्यकोविदैः । स शोभमानो
वरदः खङ्गी वाणी शरासनी । हसन्निवाब्रवीद्देवान्
सारथिः को भविष्यति । तमब्रुवन् देवगणा यं भवान्
संनियोक्ष्यते । स भविष्यति देवेश! सारथिस्ते न
संशयः । तानब्रवीत् पुनर्देवो मत्तः श्रेष्ठतरो हि
यः । तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य मा चिरम् ।
एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना । गत्वा
पितामहं देवाः प्रसाद्येदं वचोऽब्रुवन् । यथा
तत् कथिता देव! त्रिदशारिविनिग्रहे । तथा च कृतम-
स्माभिः प्रसन्नो नो वृषध्वजः । रथश्च विहितोऽ-
स्माभिर्विचित्रायुधसंवृतः । सारथिञ्च न जानीमः कः
स्यात्तस्मिन् रथोचमे । तस्माद्विधीयतां कश्चित् सारथि-
र्देवसत्तम! । सफलं तां गिरं देव । कर्त्तुमर्हमि ।
नो विभो! एवमस्मासु हि पुरा भगवन्नुक्तवानसि ।
हितं कर्तास्मि भवतामिति तत् कर्त्तुमर्हसि । स
देवयुक्तो रथसत्तमो नो दुराधरो द्रावणः शात्रवाणाम् ।
पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन् दानवानु-
द्यतोऽसौ । तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला
च रथो महात्मनः । नक्षत्रवंशानुगतो वरूंथी हरो
हि योद्धा सारथिर्नाभिलक्ष्यः । तत्र सारथिरेष्टव्यः सर्वै
रैतैर्विशेषवान् । तत्प्रतिष्ठो रथो देव! हरो योद्धा
तथैव च । कवचानि सशस्त्राणि कार्मुकञ्च पितामह! ।
त्वामते मारथिं तत्र नान्यं पश्यामहे वयम् । त्वं हि
सर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो! । स रथं तूर्णमा-
रुह्य संयच्छ परमान् हयान् । जयाय त्रिदशेशानां
बधाय त्रिदशद्विषाम् । इति ते शिरसा नत्वा त्रिलो-
केशं पितामहम् । देवाः प्रसादयामासुः सारथ्यायेति
नः श्रुतम्” । पितामह उवाच । “नात्र किञ्चिन्मृषा
वाक्यं यदुक्तं त्रिदिवौकसः । संयच्छामि हयानेष
युध्यतो वै कपर्दिनः” ।
इत्युपक्रमे “तान् सोऽसुरगणान् दग्ध्वा प्राक्षिपत्
पश्चिमार्णवे । एवन्तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।
महेश्वरेणक्रुद्धेन त्रैलोक्यस्य हितैषिणा” भा० क० ३४ अ० ।
भा० द्रो० २०० अ० किञ्चिदन्यथोक्तं यथा
“गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ।
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः । अक्षं
कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः । चक्रे
कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक् । अणीं कृत्वैल
पत्त्रञ्च पुष्पदन्तञ्च त्र्यम्बकः । युगं कृत्वा तु मलयम-
वनाहञ्च तक्षकम् । योक्त्राङ्गानि च सत्त्वानि कृत्वा
शर्वः प्रतापवान् । वेदान् कृत्वाथं चतुरश्चतुरोऽश्वान्म-
हेश्वरः । उपवेदान् स्वलीनांश्च कृत्वा लोकत्रयेश्वरः ।
गायत्रीं प्रग्रहं कृत्वा सावित्रीञ्च महेश्वरः । कृत्वो-
ङ्कारं प्रतोदञ्च व्रह्माणञ्चेव सारथिम् । गाण्डीवं
मन्दरं कृत्वा गुणं कृत्वा च वासुकिम् । विष्णुं
शरोत्तमं कृत्वा शल्यमग्निं तथैव च । वायुं कृत्वाथ
वाजाभ्यां पुङ्खे वैवस्वतं यमम् । विद्युत् कृत्वाथ निर्य्याणं
मेरुं कृत्वाथ वै ध्वजम् । आरुह्य स रथं दिव्यं सर्वदे-
वमयं शिवः । त्रिपुरस्य बधार्थाय स्थाणुः प्रहरतां
वरः । असुराणामन्तककरः श्रीमानतुलविक्रमः । स्तूय-
मानः सुरैः पार्थ! ऋषिभिश्च तषोधनैः । स्थानं
महेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः । अतिष्ठत् स्याणुभूतः
स संहस्रं परि त्सरान् । यदा त्रीणि समेतानि अन्त-
रीक्षे पुराणि च । त्रिपर्वणा त्रिशल्येन तदा तानि
बिभेद सः । पुर णि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।
शरं कालाग्मिसंयुक्तं विष्णुसोमसमायुतम् । पुराणि
दग्धवन्तं तं दे याता पवीक्षितुम्” ।
त्रिपुरदहनादयोऽप्यत्र ।

त्रिपुरभैरवी स्त्री त्रिपुरा भैरवी कर्म्म० । त्रिपुराख्यदेवी-

भेदे “आद्यं त्रिषुरभैरव्याः वीजमाद्यं प्रकीर्तितम्” इति
“चिन्तयेद्वरदां देवीमेवं त्रिपुरभैरवीम्” इति च तन्त्रसा०

त्रिपुरमल्लिका स्त्री त्रीणि पुराणीव पूर्य्याणि यस्याः कर्भ० ।

त्रिपुरमालिकापुष्पवृक्षभेदे त्रिका० ।
पृष्ठ ३३७४

त्रिपुरान्तक पु० त्रिपुरस्यान्तं करोति अन्त--णिच् ण्वुल् ।

शिवे अमरः ।

त्रिपुरारि पु० ६ त० । शिवे “त्रिपुरारिशिरश्चारि” गङ्गास्त्रवः ।

त्रिपुरुष न० त्रयाणां पुरुषाणां समाहारः । १ पित्रादि-

पुरुषत्रये । “क्रमात्त्रिपुरुष्वगता” स्मृतिः । त्रयः
पुरुषाः पित्रादयो भोक्तारो यस्य । २ भोगभेदे पु० । त्रि-
पूरुषादयोऽप्यत्र । व्यासः “प्रपितामहेन यद्भुक्तं तत्
पुत्रेण विना च तम् । तौ विना यस्य भोगः स्यात् स
विज्ञेयः त्रिपूरुषः । पिता पितामहो यस्य जीवेच्च
प्रपितामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेक-
पूरुषः” व्यव० त० । त्रयः पुरुषाः परिमाणमस्याः ठन् तस्य
लुक् । ३ पुरुषत्रयपरिमिते त्रि० “अथ त्रिपुरुषां रज्जु
मिमीते” शत०ब्रा० १० । २ । १२ । वा ङीप् । त्रिपुरुषीत्यप्यत्र ।

त्रिपुषा स्त्री त्रीन् वातादिदोषान् पुष्णाति पुष--क ।

कृष्णत्रिवृति (कालतेओड़ि) शब्दच० ।

त्रिपुष्कर न० त्रयाणां पुष्कराणां समाहारः । १ पुष्करत्रये

ब्रह्मकृततीर्थभेदे २ ज्येष्ठमध्यमकनिष्ठभेदेषु त्रिषु पुष्क-
राभिधह्रदेषु । ३ नक्षत्रतिथिवारयोगभेदे पु० । “वाराः
क्रूरास्तिथिर्भद्रा बक्षत्रं भग्नपादकम् । जातेऽत्र जारजो
योगो मरणेऽत्र त्रिपुष्करः” ज्यो० त० । स्वार्थे न अण् ।
त्रैपुष्करोऽप्यत्र पु० “भद्रातिथोरविजभूतनयार्कवारे
द्वीशार्यमाजचरणादितिवह्निवैश्वे । त्रैबुष्करो भवति
मृत्युविनाशवृद्धौ त्रैगुण्यदो द्विगुणकृद्धसुतर्क्षचान्द्रे”
मु० चि० ।
“अथ त्रिपुष्करयोगं सफलं वसन्ततिलकयाह
भद्रेति भद्रासंज्ञिका तिथिः द्वितीया सप्तमी द्वादशी
तथा शनिभौमसूर्य्यवारेषु तथाद्वीशं विशाखा अर्घमो-
त्तराफाल्गुनी अजचरणः पूर्वाभाद्रपदा अदितिः
पुनर्वसुः वह्निः कृत्तिका विश्वमुत्तराषाढ़ा एषु षट्सु नक्ष-
त्रेषु उक्ततिथिवारनक्षत्ररूपे विशिष्टयोगे सति
त्रिपुष्कर एव त्रैपुष्करः प्रज्ञादिभ्यश्चेति स्वार्थेऽण् । त्रि-
पुष्करयोगो भवतीत्यर्थः कीदृशः । मृत्युविनाशवृद्धौ-
त्रैगुण्यदः तद्दिने यदि कश्चिन् म्रियेत तदा तदीयास्तत्
सहितास्त्रयो म्रियेरन् यदि किञ्चिद्वस्तु विनष्टं तदा
तस्य वस्तुत्रयनाशः तथा किञ्चिद्वस्तु लब्धं तदा त्रिगुण-
तद्वस्तुलामः इत्यर्थः उक्तञ्च वसिष्ठेन । “रविरविज
भौमवारे भद्रायां विषमपादमृक्षञ्चेत् । त्रैपुष्कराख्य-
योगः त्रिगुणफ्लो यमलभैर्द्विगुणः” । नारदेनापि ।
“अर्कार्किभौमवारे चेद्भद्रायां विषमाङ्घ्रिभम् । त्रिपुष्करः
त्रिगुणदोद्विगुणो यमलाङ्घ्रिभे” । अत्र यस्मिन्नक्षत्रे
प्रथमपादान्ते तृतीयपादान्ते वा राशिसमाप्तिस्तद्विष-
मपादमृक्षमुच्यते तदेव स्पष्टं द्वीशार्यमेत्यादिनोपनिबद्धम्
अथ वासवोधनिष्ठा तक्षा चित्रा चान्द्रं मृगः एतानि
भानि भद्रास्तिथयः रविजभूतनयार्कवाराश्च अत्रापि
विशिष्टयोगे सति द्विपुष्करनामायोगो भवति तत्फलं
मृत्युविनाशवृद्धौ द्वैगुण्यकृत् मृते नष्टे वृद्धौ द्विगुणतां
करोतीत्यर्थः “द्विगुणो यमलाङ्घ्रिभे” इत्युक्तेः यन्नक्षत्रे
द्वितीयचरणान्ते राशिसमाप्तिस्तद्यमलाङ्घ्रिभं तच्च
मृगचित्राधनिष्ठारूपमेव । अथ दैवात्त्रिपुष्करादिके तिथि-
वारनक्षत्रात्मके विशिष्टयोगे सति कस्यचिन्मरणसम्भव-
स्तदा तद्दोषशान्त्यर्थं दानं विधेयं यथाह वसिष्ठं “त्रि-
तयं गवां हि दद्याद्दोषस्यापनुत्तये विद्वान् । द्वितयं
द्विपुष्करेऽपि च तिलपिष्टैर्विप्रमुख्येभ्यः” । द्वितयं
गवामिति शेषः अत्र तिथिवाराभावे केवलं विषसाङ्घ्रि-
भे यमलाङ्घ्रिभे वा मरणसम्भवे दोषो नास्तीत्यर्थः ।
अमुमर्थं स्पष्टमाह नारदः “प्रदद्याद्दोषनाशाय गोत्रयं
मूल्यमेव वा । द्विपुष्करे द्वय दद्यान्न दोषस्त्वृक्षमात्रतः”
इति । अत्र त्रिपुष्करयोगे क्वचिद्वृहस्पतिवारो-
ऽप्युक्तः यथाह कश्यपः “भद्रा तिथिः शनीज्यारवारे
चेद्विषमाङ्घ्रिभम् । त्रिपुष्करं त्रिगुणदं द्विगुणं द्व्य-
ङ्घ्रिभे मृताविति” इदमेव दृष्ट्वा श्रीपतिनाप्युक्तम् ।
“विषमचरणं धिष्ण्यं भद्रा तिथिर्यदि जायते सुरगुरुश-
निक्ष्मापुत्राणां कथञ्चन वासरे । मुनिभिरुदितः सोऽयं
योगः त्रिपुष्करसंज्ञितः त्रिगुणफलदो वृद्धौ नष्टे हृते
च मृतेऽपि वा” । अस्य पूर्बोक्तवाक्यस्य चैकवाक्यतां देवाः
कर्तुभर्हन्ति । कश्यपवाक्ये मृताविति पदोपादानान्म-
रण एवायं विचारो न तु नष्टे घृद्धौ च यदुक्तं ब्रह्म-
पुराणेऽपि “धनिष्ठापञ्चके जीवो मृतो यदि कथञ्चन ।
त्रिपुष्करे याम्यभे च कुलजान्मारयेत् ध्रुवम् । तदनि-
ष्टविनाशार्थं विधानं समुदीरयेदिति” पी० धा० ।

त्रिपुष्ट पु० त्रयः धर्म्मार्थकामाः पुष्टा अस्य । १ प्राजापत्ये

राजभेदे हेमच० ।

त्रिपृष्ठ न० त्रयाणां लोकानां पृष्ठः समाहारः । त्रिपृष्ठस्थिते सत्यलोके हेमच० ।

त्रिपौरुष त्रि० त्रीन् पित्रादीन् पुरुषान् व्याप्नोति अण्

उत्तरपदवृद्धिः । पित्रादिक्रमेण पुरुषत्रयव्यापके
भोगादौ । त्रिपुरुषशब्दे दृश्यम् । स्त्रियां ङीप्
पृष्ठ ३३७५
यस्य वेदश्च वेदी च उत्सन्ना त्रिपौरुषी स वै दुर्ब्रा-
ह्मणः” कात्या० श्रौ० ८ । २ । १६ सूत्रे कर्कः ।

त्रिप्रश्न पु० त्रयाणां दिग्देशकालानां प्रश्नः । १ दिग्देश-

कालानां प्रश्ने २ तन्मूलके दिगादिनिरूपणे च । तदधि-
कारेण सि० शि० उक्तं यथा “जगुर्विदोऽदः किल
कालतन्त्रं दिग्देशकालावगमोऽत्र यस्मिन् । त्रिप्रश्न-
नाम्नि प्रचुरोक्तिधाम्नि” । सू० सि० “शिलातलेऽम्बु-
संशुद्धे” इत्यादिनोक्त्वा “इति त्रिप्रश्नाधिकारः” इत्युक्तम्
“दिग्देशकालानां प्रतिपादनमिदं परिपूर्त्तिमाप्तमि-
त्यर्थः । दिशां साधनं शिलातल इत्यादि नियतं,
तत्सम्बन्धेन समकोणयाम्योत्तरशङ्क्नां साधनान्यपि
दिगन्तर्गतान्यनियतानि । पलमालम्बाक्षादिसाधनं
देशनिरूपणं नियतम् । अग्राचरादिसाधननियतम् ।
कालसाधनं तद्वच्छायादिसाधनं च कालनिरूपणमिति
विवेकः” रङ्गना० ।

त्रिप्रस्रुत पु० त्रिषु स्थानेषु प्रस्रुतः मेढ्रकपोलनेत्रेषुत्रिषु

स्थानेषु क्षरितमदे मत्तगजे “जजानां तु प्रभिन्नानां त्रिधा
ग्रस्रवतां मदम्” भा० आ० २२१ अ० । “त्रिप्रस्रुतमदः
शूष्मी षष्टिवर्षोमतङ्गराट्” १५१ अ० । “करात् कटाभ्यां
मेढ्राच्च नेत्राभ्यां च मदस्रुतिः” । पालकाव्ये तु
मदप्रस्रावस्य सप्तस्थानत्वोक्तेरिह प्राधान्यात् त्रिस्थानत्वं
बोध्यम् ।

त्रिप्लक्ष पु० देशभेदे तद्देशविवृतिः । “अवभृथमभ्यवयन्ति

यमुनां त्रिप्लक्षावहरणं प्रति” कात्या० श्रौ० २४ । ६ । ३९ ।
“यथा त्रिप्लक्षावहरणस्यार्जव्येन यमुनामवभृथमभ्युपैति
तत्र च यमुनां प्राप्य त्रिप्लक्षहरणे देशे त्रिप्लक्षं नाम
जनपदं प्राप्य तत्रैव यमुनायामवभृथमभ्युपैति तत्रैव
हि देशे दृषद्वतो मनुष्येभ्यस्तिरोभवति । बहूदकापि
सती तत्रैवान्तर्हिता भवतीत्यर्थः” कर्कः ।

त्रिफला स्त्री त्रयाणां फलानां समाहारः अजा० टाप् ।

“पथ्या विभीतधात्रीणां फलैः स्यात् त्रिफला समा”
इत्युक्ते हरीतक्यादित्रये । तद्गुणा भावप्र० उक्ता यथा
“फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता । त्रिफला
कफपित्तघ्नी मेहकुष्ठहरा सरा । चक्षुष्या दीपनी रुच्या
विषमज्वरनाशिनी” ।

त्रिफलाघृत न० त्रिफलानां रसेन युक्तं घृतम् शा० त० ।

चक्रदत्तोक्ते घृतभेदे तच्च नानाविधं तत्रैवोक्तं यथा
“त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे ।
नागं सप्तनिषिक्तं करोति गरुड़ोपमञ्चक्षुः” अन्यदपि
“त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् । तिमि-
राण्यचिराद्धन्ति पीतमेतन्निशामुखे” ।

त्रिफलादिलौह न० भैषज्यरत्नावल्युक्ते लौहभेदे यथा

“त्रिफला मुस्तकं व्योषं विड़ङ्गं पुष्करं वचा । चित्रकं
मधुकञ्चैव पलांशं श्लक्ष्णचूर्णितम् । अयश्चूर्णपलान्यष्टौ
गुगगुलोस्तावदेव हि । आलोड्य मधुनोपेतं पलद्वादश-
केन च । प्रातर्विलिह्य भुञ्जानो जीर्णे तस्मिन् जयेद्रुजः ।
दुःसाध्यमामवातञ्च पाण्डुरोगं हलीमकम् । जीर्णान्न
सम्भवं शूलं श्वयथुं विषमज्वरम्”

त्रिफलाद्यघृत न० चक्रदत्तोक्ते घृतभेदे तदपि लघुमहद्भेदेन

द्विविधं तत्र लघु यथा
“फलत्रिकं भीरुकषायसिद्धं कल्केन यष्टीमधुकस्य
युक्तम् । सर्पिः समं क्षौद्रचतुर्थभागं हन्यात् त्रिदोषं
तिमिरं प्रवृद्धम्” महत् यथा
“त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च । वृषभस्य
रसप्रस्थं शतावर्य्याश्च तत्समम् । अजाक्षीरं गुड़ुच्याश्च
आमलक्यारसन्तथा । प्रस्थं प्रस्थं समाहृत्य सर्वेरेभि-
र्घृतं पचेत् । कल्कः कणा सिता द्राक्षा त्रि-
फला नीलमुत्पलम् । मधुकं क्षीरकाकोली मधुपर्णी
निदिग्धिका । तत्साधुसिद्धं विज्ञाय शुभे भाण्डे
निधापयेत् । ऊर्द्ध्वपानमधःपानं मध्यपानञ्च शस्यते ।
यावन्तो नेत्ररोगास्तान् पानादेवापकर्षति । सरक्ते रक्त-
दुष्टे च रक्ते चातिस्रुतेऽपि च । नक्तान्ध्ये तिमिरे
काचे नीलिकापटलार्बुदे । अभिष्यन्देऽधिमन्थे च
पक्षकोपे सुदारुणे । नेत्ररोगेषु सर्वेषु वातपित्तकफेषु
च । अदृष्टिं मन्ददृष्टिञ्च कफवातप्रदूषिताम् । स्रवतो
वातपित्ताभ्यां सकण्ड्वासन्नदूरदृक् । गृध्नदृष्टिकरं सद्यो
बलवर्णाग्निवर्द्धनम् । सर्वनेत्रामयं हन्यात्त्रिफलाद्यं
महद्घृतम्” ।

त्रिःफलीकृत त्रि० त्रिः त्रिवारं फलीकृतः वितुषीकृतः ।

त्रिधा वितुषीकृते तण्डुलादौ । “दक्षिणोत्तराभ्यां
पाणिभ्यां त्रिःफलीकृतांस्तण्डुलांस्त्रिर्देवताभ्यः प्रक्षालयेत्”
गोभिलः “त्रिःफलीकृतान् त्रिधा वितुषीकृतान्” सं० त०
रघुनन्दनः ।

त्रिबन्धन पु० हर्य्यश्वपौत्रे १ नृपभेदे । “हर्य्यश्वस्तत्सुतस्या-

सीदुरगोऽथ त्रिबन्धनः” भाग० । ७ । ४ । त्रीणि बन्धनानि
यस्य । २ जाग्रदाद्यवस्थात्रययुक्ते जीवे पु० ।
पृष्ठ ३३७६

त्रिबली(लि) स्त्री त्रिगुणिता ब(ली)बलिः । १ उ दरस्थे

बलीत्रये “त्रिबलौबलयोपेतां भ्रुकुटीभीषणाननाम्”
दुर्गाध्यानम् । तिमॄणां बलीनां समाहारः । २ त्रिबलि
तत्रार्थे न० उज्ज्वलदत्तः ।

त्रिबलीक न० तिस्रो बल्यो यत्र कप् । पायौ हेम० । तस्य बलीत्रयबत्त्वात्तथात्वम् ।

त्रिबाहु पु० त्रयो बाहवोऽस्य । १ रुद्रानुचरभेदे “त्रिबाहुं

पञ्चबाहुश्च व्याघ्रवक्त्रः सिताननः” हरिवं० २७७ अ० ।
२ असियुद्धाकारभेदे । “त्रिबाहुस्तुङ्गबाहु श्च” हरिवं ६१६
अ० । खड़्गशब्दे २४६० दृश्यम् ।

त्रिभ न० त्रयाणां भानां राशीनां समाहारः । १ लग्नादि-

राशित्रये । “त्रिभं त्रिभं लग्नभतः क्रमेण स्त्रीणां नॄणां
रात्रिदिनेषु तेषु” नील० ता० । २ राशित्रयमात्रे च ।
“सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः” सू० सि० ।
त्रीणि भानि नक्षत्राणि यत्र । ३ नक्षत्रत्रययुक्ते “कार्त्ति-
क्याटिषु संयोगे कृत्तिकादि द्वयं द्वयम् । अन्त्योपान्त्यौ
पञ्चमश्च त्रिभं मासत्रयं स्मृतम्” सू० सि० । “अत्र कार्ति-
कस्यादित्वेन ग्रहादन्त्य आश्विनः उपान्त्यः भाद्रः पञ्चमः
फाल्गुनः । मासत्रयं त्रिभिः स्मृतम् । रेवत्यश्विनीभर-
णीतिनक्षत्रत्रयसम्बन्धादाश्विनः । शततारापूर्वोत्तराभाद्र-
पदेति ऋक्षत्रयसम्बन्धाद्भाद्रपदः पूर्वोत्तरफाल्गुनीहस्तेति
ऋक्षत्रययोगात् फाल्गुनः” रङ्गना० ।

त्रिभङ्गी स्त्री “प्रथमं यदि दशमं वदति विरामं तदनु

निकामं वसुकम् । वसुविमलतुरङ्गममतिहृदयङ्गमहृषि-
तभुजङ्गमनृपतिलकम् । त्रिंशद्विकलासुविहितनि-
वासं सततविलासं हृदयमुदेति मदमुदितभुजङ्गी मोहन-
रङ्गी वदति त्रिभङ्गीवृत्तमदः” इत्युक्ते मात्रावृत्ते
छन्दोभेदे ।

त्रिभजीवा स्त्री ६ त० राशित्रयधनुराकारक्षेत्रस्य जीवायाम्

त्रिज्यायां त्रिज्याशब्दे दृश्यम् । “शङ्कुः सत्रिभजी-
वाघ्नः” सू० सि० । त्रिभज्याप्यत्र । “त्रिभज्यया
भवेच्छङुस्तद्वर्गं परिशोधयेत्” सू० सि० ।

त्रिभण्डी स्त्री त्रीन् वातादिदोषान् भण्डति भण्ड--परि-

भाषणे अण् । त्रिवृति (तेओड़ि) अमरः ।

त्रिभद्र न० त्रिषु दन्तक्षतालिङ्गनमर्द्दनेष्वपि भद्रं यत्र ।

सुरते त्रिका० ।

त्रिभाग पू० तृतीयो भागः वृत्तौ संख्याशब्दस्य पूरणार्थ-

त्वम् । तृतीये भागे “त्रिभागशेषासु निशासु च क्षणम्”
कुमा० । “अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्य्यात् दिने दिने ।
त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा” ११४० ब्रह्मपु० ।

त्रिभानु पु० तुर्वसुवंश्ये नृपभेदे । “तुर्वसोस्तु सुतो वह्निर्वह्ने-

र्भर्गोऽथ भानुमान् । त्रिभानुस्तत्सुतोऽस्यापि करन्धम
उदारधीः” भाग० ९ । २३ । ४ ।

त्रिभाव पु० त्रिषु कालेषु भावोऽस्य । त्रैकालिके पदार्थे तस्य

भावः कर्म वा ब्राह्मणा० ष्यञ् । त्रैभाव्य तद्भावादौ न० ।

त्रिभुक्ति पु० त्रिषु भुक्तिरस्य । (तोरहुत) देशभेदे त्रिका० ।

त्रिभुज न० त्रयो भुजा यत्र । त्रिबाहुके त्रिकोणे क्षेत्रभेदे

क्षेत्रशब्दे दृश्यम् । “त्रिभुजे भुजयोर्योगस्तदन्तरगुणो
भृवा हृतो लब्ध्या” “स्पष्टं त्रिभुजे फलं भवति” लीला० ।
“योनिं कृत्वा त्रिभुजं शयानः” अथ० ८ । ९ । अत्र योनिं
त्रिभुजमिव कृत्वेत्यर्थः तेन न स्त्रीत्वम् । अतः त्रिभुज्
इति शब्दान्तरकल्पनं प्रामादिकम् ।

त्रिभुवन न० त्रयाणां भुवनानां लोकानां समाहारः

पात्रा० न ङीप् । त्रिलोक्यां मिलितेषु स्वर्गमर्त्यपाता-
लेषु । “त्रिभुवनजये सा पञ्चेषोः करोति सहायताम्
सा० द० “त्रिभुवनगुरोर्धाम चण्डीश्वरस्य” मेघ० ।

त्रिभूम पु० तिस्रो भूमयः ऊर्द्धाधोमध्यस्था अस्य

अच्समा० । (तेताला) प्रासादभेदे ।

त्रिमण्डला स्त्री लूताभेदे “लूतास्तु द्विविधा स्मृताः” “तासा-

मष्टौ कृच्छ्रसाध्यावर्ज्यास्तावत्य एव तु । त्रिमण्डला तथा
श्वेता कपिला पितिका तथा । आलमूत्रविषा रक्ता
कमला चाष्टमी स्मृता । ताभिर्दष्टे शिरो दुःखं कण्डू-
र्दंशे च वेदना । भवन्ति च विशेषेण गटाः श्लैष्मिक
वातिकाः” । “त्रिमण्डलया दंशेऽसृक् कृष्णं स्रवति
दीर्य्यते” इति च सुश्रु० ।

त्रिमद पु० त्रिगुणितो मदः संज्ञात्वात् कर्म० । “विद्यामदो-

धनमदस्तथैवाभिजनो मदः । एते मदा मदान्धानां
त एव हि सतां दमाः” १ इत्युक्ते गर्वत्रये “नूनं नृपाणां
त्रिमदोत्--पथानां महीं मुहुश्चालयतां चमूभिः” भाग०
३ । १ । ४३ । २ मुस्ताचित्रकविड़ङ्गेषु च वैद्यकम् ।

त्रिमधु न० त्रिगुणितं मधु संज्ञात्वात् कर्म्म० । “दुग्धं सिता

माक्षिकञ्च विज्ञेयं मधुरत्रयम्” इत्युक्ते १ दुग्धादित्रये ।
२ऋग्वेदैकदेशे पु० ३ तद्व्रतभेदे तदाचरणेन ४ तद्वेदाध्या-
यिनि पु० मिता० “मधुवाता इति त्रयः मधुशब्दा यत्र ।
मधुवाता इत्यादिके ५ऋक्त्रये पु० । “वेदार्थवित् ज्योष्ठ-
सामा त्रिमधुस्त्रिसुपर्णकः” याज्ञ० । “त्रिणाचिकेतस्त्रि-
मधुस्त्रिसुपर्णः षड़ङ्गवित्” मनुः । ६ मधुशब्दत्रये च
पृष्ठ ३३७७
“गायत्री त्रिः सकृद्वापि जपेद्व्याहृतिपूर्विकाम् ।
मधुवाता इति तृचं मध्वित्येतत् त्रिकं जपेत्” इति
पारस्करः । ७ आज्यप्रधुसितात्रये न० “कमलैश्च त्रिमध्वक्तै-
र्हुनेदष्टोत्तरं शतम्” तन्त्र० ।

त्रिमधुर न० त्रिगुणितं मधुरं संज्ञात्वात् कर्म्म० । दुग्ध-

सितामाक्षिकरूपे मधुरत्रये त्रिमधुशब्दे दृश्यम् । त्रिम-
धुरेणाध्यर्च्चयेन्नागान्” वृह० ४८ अ० ।

त्रिमातृ त्रि० त्रयाणां लोकानां माता निर्माता । लोकत्रय-

निर्मातरि “उत त्रिमाता विदथेषु सम्राट्” ऋ० ३ । ५६ । ५ अ० ।

त्रिमात्र पु० तिस्रः मात्रा उच्चारणकालेऽस्य । प्लुतस्वरे

“एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमा-
त्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” शिक्षा० “प्रणवस्य
ऋषिर्ब्रह्मा देवोऽग्निस्तस्य कथ्यते । गायत्रञ्च भवेच्छन्दो
नियोगः सर्वकर्मसु । त्रिमात्रस्तु प्रयोक्तव्यः प्रारम्भे
सर्वकर्मणाम्” संवर्त्तः । भोजदेवेन तु तस्य सार्द्ध-
त्रिमात्रकतोक्ता यथा “तज्जपस्तदर्थभावनम्” पा० सू०
“तस्य सार्द्धत्रिमात्रिकस्य प्रणवस्य जपः” वृत्तिः । युक्त-
ञ्चैतत् ओकारस्य प्लुतत्वेन त्रिमात्रत्वेऽपि तदुत्तरम-
कारस्य व्यञ्जनत्वादर्द्धमात्रत्वेन सार्द्धत्रिमात्रत्वं संवर्त-
वचने त्रिमात्रपदं सार्द्धत्रिमात्रे लाक्षणिकमिति बोध्यम् ।
वस्तुतः मकारान्तत्वे सार्द्धत्रिमात्रत्वम् अनुस्वरान्तत्वे
त्रिमात्रत्वमिति भेदः । तदभिप्रायेणैव तस्य त्रिमात्रतया
जपफलं प्रश्लोपनिषद्युक्तं तच्च ओम् शब्दं १५६० पृ०
दर्शितम् ।

त्रिमार्गगा स्त्री त्रिभिर्मार्गैर्गच्छति गम--ड । १ गङ्गायां

हेमच० । “त्रिमार्गगावीचिविमर्दशीतः” रघुः । “अन्व-
र्थसंज्ञैव परं त्रिमागेगा” माघः । गम--णिनि । त्रिमार्ग-
गामिन्यादयोऽप्यत्र ।

त्रिमार्गा स्त्री त्रयो मार्गा अस्याः । १ गङ्गायां “त्रिमार्गयेव

त्रिदिवस्य मार्गः” कुमा० । (तेमाता) २ पथि । “त्रयाणां
मार्गाणां समाहारः । ३ मार्गत्रये स्त्री ङीप् ।

त्रिमुकुट पु० त्रीणि मुकुटानीव शृङ्गाणि यस्य । त्रिकूटपर्वते हेमच० ।

त्रिमुख पु० त्रीणि मुखानि अस्य । १ शाक्यमुनौ त्रिका० ।

गायत्रीजपाङ्गे चतुर्विंशतिमुद्रान्तर्गते मुद्राभेदे तल्लक्षर्ण
विधानपारिजाते उक्तं यथा “संमुखासक्तयोः पाण्योः
कनिष्ठाद्वययोगतः । शेषाङ्गुलीनां वैरल्यात् मुद्राः
स्युर्द्विमुखादयः” “संमुखासक्तपाण्योः कनिष्ठाद्वय-
योगेन शेषाङ्गुलीनां विरलत्वेनाङ्गुष्ठद्वयमारभ्यानामि-
कान्तं यावत् द्विमुखत्रिमुखचतुर्मुखपञ्चमुखाः मुद्राः
स्युः” तद्व्याख्या । तथा चाङ्गुष्ठतर्ज्जनीनां वैरल्ये त्रि-
मुखमुद्रा । २ बुद्धदेवीभेदे मायादेव्यां स्त्री त्रिका० ।

त्रिमुनि न० त्रयाणां मुनीनां समाहारः । पाणिनिकात्या-

यनपतञ्जलिरूपे मुनित्रये । त्रयो मुनयो वंश्याः “संख्या
वंश्येन” पा० स० । पाणिन्यादिमुनित्रयप्रणीते व्याकरणे
विद्यातद्वतामभेदविवक्षया तस्य तथात्वम् “वंशश्च जन्मना
विद्यया वा तत्र भवः वंश्यः” इति सि० कौ० ।

त्रिमूर्त्ति पु० त्रिस्रो मूर्तयोऽस्य । ब्रह्मविष्णुशिवरूपमूर्तित्र-

ययुक्ते परमेश्वरे । “नमस्त्रिमूर्त्तये तुभ्यं प्राक्सृष्टेः
केवलात्मने” कुमा० । त्रिमूर्तिर्यः सर्गस्थितिविलयकर्माणि
तनुते” चिन्तामणिः २ ब्रह्मशक्तिभेदे स्त्री । “एकमूर्ति-
रपि भिन्नरूपिणी या जगज्जननपालनक्षये । काच्यु-
तेश्वरतया विवर्तते ब्रह्मशक्तिमहमानतोऽस्मि ताम्”
शब्दार्थचि० धृ० वाक्यम् । ३ बुद्धदेवीभेदे स्त्री त्रिका० ।

त्रिमूर्द्ध पु० त्रयो मूर्द्धानोऽस्य ष समा० । मूर्द्धत्रययुक्ते ।

“वहुमूर्ध्नो द्विमूर्द्धाश्च त्रिमूर्द्धांश्चाहतां मृधे” भट्टिः ।

त्रियम्बक पु० त्रौण्यम्बकानि दृष्टयो यस्य । “छन्दस्युभयथा”

पा० वा इयङ् । त्रिनेत्रे । क्वचिल्लोकेऽपि इयङ् “त्रिय-
म्बकं संयमिनं ददर्श” कुमा० तद्व्याख्यायां मल्लिनाथेन
महाकविप्रयोग एव तत्र मूलतयोक्तः ।

त्रियव न० त्रयो यवाः परिमाणमस्य । कृष्णले “सर्षपाः

षट्यवी मध्यस्त्रियवं त्वेककृष्णलम्” मनुः ।

त्रियष्टि स्त्री त्रिषु वातादिषु यष्टिरिव विद्रावकत्वात् ।

(क्षेतपापड़ा) १ क्षुपभेदे रत्नमा० रत्नमा० । तिस्रो यष्टयो यस्य ।
२ त्रिगुच्छे हारभेदे पु० ।

त्रियामक न० त्रिषु कालेषु यमयति अन्तर्भूतण्यर्थे यमण्वुक् । पापे शब्दमा० ।

त्रियामा स्त्री त्रयो यामा अस्याः आद्यान्त्ययोरर्द्धयामयो-

श्चेष्टाकालत्वेन दिनप्रायत्वात् । १ निशायाम् अमरः
“त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् । नाड़ीनां,
तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त० । “संक्षिप्येत
क्षणमिव कथं दीर्घयामा त्रियामा” मेघ० । “क्वचिदसमेत-
परिच्छदस्त्रियामाम्” रघुः । “ज्योतिर्भिरुद्यद्भिरिव त्रि-
यामा” कुमा० २ हरिद्रायाम् अमरः । कृष्णत्वात् ३
यमुनायां ४ नील्यां ५ कृष्णत्रिवृति च उणादिको० ।

त्रियुग पु० त्रीणि युगानि आविर्भावकालोऽस्य । १ यज्ञपुरुषे

तस्य कृतयुये आविर्भावाभावात् कलौ छन्नत्वात् वा ।
“इत्थं नृतिर्य्यगृषिदेवझषावतारैर्लोकान् विभावयसि
पृष्ठ ३३७८
हंसि जगत् प्रतीपान् । धर्मं महापुरुष! पासि युगा-
नुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्” भाग०
७ । ९ । ३८ “कलौ तु तन्न करोसि यतस्तदा त्वं छन्नोऽ-
भवः यतस्त्रिष्वेव युगेष्वाविर्भावात् स एवम्भूतस्त्वं
त्रियुग इति प्रसिद्धः” श्रीधरस्वामी । २ वसन्तादिकाल-
त्रये । “या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा”
यजु० १२ । ७५ “युगशब्दः कालवाची त्रयाणां युगानां
समाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च ।
वेददी० ।

त्रियूह पुंस्त्री कपिलाश्वे हेमच० स्त्रियां ङीष् ।

त्रिरात्र न० त्रिसृणां रात्रीणां समाहारः अच् समा० ।

“अह्नाहान्ताः क्ष्वेड़भेदाः रात्रान्ताः प्रागसंख्यकाः”
इत्यमरोक्तेः संख्यापूर्वत्वात् क्लीवता । १ रात्रित्रये २ तदुप-
लक्षिते दिनत्रये च । “उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं
स्मृतम्” “अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्”
मनुः । त्रिभिः रात्रिभिः निर्वृत्तम् ठञ् तस्य लुक् । तद्धि-
तार्थद्विगुत्वात् अच् समा० । ३ दिनत्रयोवाससाध्ये व्रतभेदे
न० । “एकरात्रं त्रिरात्रं वा षड्रात्रं वा विधीयते” प्रा०
वि० धृतवचनम् । रात्रित्रयसाध्ये ४ गर्गवेदादौ यज्ञभेदे
पु० । “सहस्रदक्षिणे त्रिरात्रे” कात्या० श्रौ० १३ । ४ । १५ ।
गर्गत्रिरात्रशब्दे २५४५ पृ० दृश्यम् ।

त्रिरूप पु० त्रीणि रूपाण्यस्य । अश्वमेधीये अश्वभेदे अश्वमेधशब्दे दृश्यम् ।

त्रिरेख पु० तिस्रो रेखा यत्र । १ शङ्खे हेमच० । समा० द्वि० ।

२ रेखात्रये न० ।

त्रिल पु० त्रयो लाः लघुवर्णा यत्र । लघुवर्णयुक्ते नगणे “त्रिलोनोऽष्टौ” वृ० र० ।

त्रिलघु त्रि० त्रयो लघवः यत्र । छन्दोग्रन्थप्रसिद्धे नगणे

“त्रिलघुश्च नकारः” छन्दोम० । त्रिभिर्लघुः । २ शुभलक्षण-
भेदान्विते स्थानत्रयह्रस्वे पुरुषे “त्रिपृथुलघुगम्भीर”
इत्युद्देशे “ग्रीवाजङ्घामेहनैश्च त्रिभिर्ह्रस्वोऽयमीड़ितः”
काशी० ११ अ० । वृ० स० ६८ अ० तु चतुर्ह्रस्वस्यैव शुभत्वमुक्तं
यथा “ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्घे च
हितप्रदानि” तत्र ह्रस्वे पृष्ठाधिक्यमिति भेदः ।

त्रिलवण न० त्रयाणां लवणानां समाहारः पात्रा० न

ङीप् त्रिगुणितं लवणं वा संज्ञात्वात् कर्म० वा ।
“सैन्धवञ्च विड़ञ्चैव रुचकं च तृतीयकम् । मिलित्वैतत् त्रि-
लवणम्” इत्युक्ते लवणत्रये राजनि० ।

त्रिलिङ्ग त्रि० त्रीणि लिङ्गान्यस्य । १ पुंस्त्वादिलिङ्गत्रययुक्ते

शब्दे । समा० द्वि० ङीप् । २ लिङ्गत्रये स्त्री “त्रिलिङ्ग्यां
त्रिष्विति पदम्” अमरः । त्रीणि सत्वादीनि लिङ्गानि
अनुमापकान्यस्य । ३ अहङ्कारादौ त्रि० “रजःप्रधानान्म-
हतस्त्रिलिङ्गो दैवनोदितात् जातः ससर्ज्ज भूतादिर्विय-
दादीनि पञ्चशः” भाग० ३ । २० । १४ । ४ वातादिधातुदोषजे
रोगे च त्रि० सुश्रुतः ।

त्रिलोकधृत् पु० त्रयाणां लोकानां धृत् धृतिरस्य, धृ--सम्प०

भावे क्विप् उत्तरपदद्विगुः । लोकत्रयस्यापतनानुकूलप्रय-
त्नविशेषरूपधारणशालिनि परमेश्वरे “लोकस्वामी त्रि-
लोकधृत्” विष्णुस० ।

त्रिलोकनाथ पु० त्रयाणां लोकानां नाथः उत्तरपदद्विगु-

घटितस्तत्पुरुषः । त्रयाणां लोकानां नाथे परमेश्वरादौ ।
“त्रिलोकनाथेन सतां मखद्विषः” रघुः । “त्रिलोकनाथः
पितृसद्मगोचरः” कुमा० । त्रिलोकपत्यादयोऽप्यत्र ।

त्रिलोकात्मन् पु० त्रयो लोकाः आत्मानः स्वरूपाणि यस्य

कार्य्यकारणयोरभेदात् उत्तरपदद्विगुघटिस्तत्पुरुषो वा ।
१ परमेश्वरे “त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा
हरिः” विष्णुपु० ।

त्रिलोकी स्त्री त्रयाणां लोकानां समाहारः ङीप् । स्वर्गम-

र्त्यपातालरूपे लोकत्रये “यदि त्रिलोकी गणनापरा
स्यात्” नैष० । “श्रियं त्रिलोकीतिलकः स एव” माघः ।

त्रिलोकेश पु० त्रयाणां लोकानामीशः उत्तरपदद्विगुघटित-

स्तत्पुरुषः । १ परमेश्वरे “त्रिलोकात्मा त्रिलोकेशः” विष्णु० ।
२ सूर्य्ये शब्दच० । त्रिलोकेश्वरादयोऽप्यत्र ।

त्रिलोचन पु० त्रीणि लोचनानि यस्य । १ शिवे “त्रिलो-

चनैकांशतया दुरासदः” रघुः । “त्रिलोचनस्तामुपचक्र-
मे च” कुमा० । २ काशीस्थे चतुर्दशमहालिङ्गान्तर्गते
लिङ्गभेदे न० । “द्वितीयं च त्रिलोचनम्” ७५ अ० ।
तन्माहात्म्यं च तत्रैव दृश्यम् । २ लोचनत्रययुक्ते त्रि०
“मुखेन पूर्णेन्दुनिभस्त्रिलोचनः” माघः । ४ दुर्गायां स्त्री ।
“लोचनतयसंयुक्ताम्” दुर्गाध्यानोक्तेः ।

त्रिलोचनाष्टमी स्त्री गौणचान्द्रज्यैष्ठकृष्णाष्टम्याम् “ज्यैष्ठे-

मासि नृपश्रेष्ठ! कृष्णाष्टम्यां त्रिलोचनम् । यः पूजयति
देवेशमीशलोकं स गच्छति” संवत्सरकौमुदीधृतभविष्य-
पुराणम् । “ज्यैष्ठे मस्यसिते पक्षे अष्टम्याञ्च महेश्वरि! ।
शिवार्च्चने च तल्लोकं लभते नात्र संशयः” उत्तरकामा-
ख्यातन्त्रे ११ पटले ।

त्रिलौहक त्रि० त्रीणि लौहानि धातवो यत्र कप्संज्ञायां

कन् वा । सुवर्णरजतताम्रमये पात्रादौ ।
पृष्ठ ३३७९

त्रिलौही स्त्री त्रीणि लौहानि साधनत्वेनास्त्यस्याः

गौरा० ङीष् । सुवर्णरजतताम्रपरिमाणभेदेन निर्मिते
मुद्राभेदे “अथ मन्त्रिणां हितार्थाय त्रिलौही मुद्रा
निरूप्यते । सोमसूर्य्याग्निरूपाः स्थुर्वर्णा लौहत्रयं
तथा । रौप्यमिन्दुः स्मृतो हेम सूर्य्यस्ताम्रो
हुताशनः । लौहभागाः समुद्दिष्टाः स्वराद्यक्षर-
संख्यया । तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ।
एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः ।
आग्नेया व्यापकाः सर्वे सोमसूर्य्याग्निदेवताः । स्वराः
षोड़श विख्याताः स्पर्शाः स्युः पञ्चविंशतिः । व्यापका दश
ते कामधनधर्मप्रदायिनः । साष्टं सहस्रं संजप्य स्पृष्ट्वा
तां जुहुयात्ततः । तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्व-
संख्यया । निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्त
वर्त्मना । आवाह्य पूजयेद्देवीमुपचारैर्विधानतः ।
अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः । इयं मुद्रा
क्षुद्ररोगविषमज्वरनाशिनी । व्यालचौरमृगादिभ्यो
रक्षां कुर्य्याद्विशेषतः । युद्धे विजयमाप्नोति धारयन्
मनुजेश्वरः । मन्त्रसिद्धिकरी पुंसां चतुर्वर्गफलप्रदा ।
धारयन् मनुजो नित्यं देवतुल्यो भवेद्भुवि” तन्त्रसा० ।

त्रिवत्स पु० । त्रयो वत्सा वत्सरा वयोयस्य पृषो० । त्रिवर्ष

वयस्के वृषे । स्त्रियां तु टाप् त्रिवत्सा । “त्रिवत्सश्च मे
त्रिवत्सा च मे” यजु० १८ । २६ । “वत्सो वत्सरः त्रयो वत्सा
यस्य स त्रिवत्सः त्रिवर्षो वृषः तादृशी गौस्त्रिवत्सा”
वेददी० । “सोमक्रयणस्त्रिवत्सः साण्डः” कात्या० श्रौ०
२२ । ३ । ४० । “त्रिवत्सस्त्रिवर्षः साण्डः अण्डसंयुक्त
ऋषभः” कर्कः ।

त्रिवर्ग पु० त्रयाणां धर्म्मार्थकामानां वर्गः । १ धर्म्मार्थकामरू-

पेषु पुरुषार्थेषु, अमरः २ त्रिफलायां, ३ कटुत्रिके, मेदिनि०
साङ्ख्योक्ते ४ सत्त्वरजस्तमोरूपगुणत्रये । “क्षयःस्थानं च
वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” अमरोक्ते राज्ञामायव्यय-
वृद्धिरूपेषु ५ पदार्थेषु च । “त्रिवर्गपारीणमसौ भवन्तम्”
भट्टिः । “धर्म्मार्थावुच्यते श्रयः कामार्थौ धर्मएव च ।
अर्थ एवेह तु श्रेयस्त्रिवर्ग इति तु स्थितिः” । “तं
राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते” मनुः ।

त्रिवर्णक न० त्रयो वर्णाः पुष्पेष्वस्य कप्० । १ गोक्षुरे । २ त्रि-

फलायां, ३ त्रिकटौ । समा० द्वि० पात्रा० स्वार्थे कन् ।
४ ब्राह्मणक्षत्त्रियवैश्यरूपे द्विजातिवर्णत्रये न० मेदि० ।
५ श्यामरक्तपीतात्मके वर्णत्रये च ।

त्रिवर्त्तु न० त्रिषु षसन्तादिषु ऋतुषु वर्त्तते वृत--उन् ।

वसन्तादिके ऋतुत्रये प्रातरादिकाले अतिशयेन वर्त्तमाने
आदित्यतेजसि । “त्रीणि वा आदित्यस्य तेजांसि वसन्ते
प्रातर्ग्रीष्मे मध्यन्दिने शरद्यपराह्णे” इति श्रुतेस्तस्य
वसन्तादिषु प्रातरादिकालभेदेऽतिशयेन वर्त्तमानत्वात्
तथात्वम्” “त्रिवर्त्तु ज्योतिःस्वभिष्ट्य स्मे” ऋ०७ । १०१ । २
“त्रिवर्त्तु त्रिष्वृतुष्वतिशयेन वर्त्तमानम्” भा० ।

त्रिवर्त्मन् पु० त्रीणि वर्त्मान्यस्य । देवयानपितृयानदक्षि-

णायानरूपमार्गत्रययुक्ते जीवे “स विश्वरूपस्त्रिगुणस्त्रि-
वर्त्मा प्राणाधिपः स करोति स्वकर्मभिः” श्वेता०
५ । ७ । त्रीणि वर्त्मानि देवयानादयो मार्गभेदा अस्येति
त्रिवर्त्मा धर्म्माधर्मज्ञानमार्गभेदान् अर्हति वा” भा०
२ गङ्गायां स्त्री । त्रिगुणितं वर्त्म । ३ स्वर्गमर्त्यपातालस्थे
मार्गे “ऊर्द्ध्वावतों महापुण्यां मधुवतीं तिवर्त्मगाम” ।
भा० आनु० २६ अ० ।

त्रिवर्ष त्रि० त्रयो वर्षा वयोऽस्य । त्रिवर्षवयस्के १ प्राणिनि ।

“न त्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया” मनुः । २ त्रिहा-
यण्यां गवि स्त्री “त्रिहायणी त्रिवर्षा गौः” अमरः ।
स्वार्थे क । त्रिवर्षिका तत्रार्थे । त्रिगुणितो वर्षः शा० त० ।
३ वर्षत्रये पु० न० “न सिद्ध्यत्यर्द्दितं वाढं त्रिवर्षं वपनस्य
च” सुश्रुतः ।

त्रिवर्षीय त्रि० त्रिवर्षे भवः गहा० छ । त्रिवर्षभवे “एकैकं

वै त्रिवर्षीयं तेन पीवान् शुना सह” भा० आनु० ९६ अ०

त्रिवार त्रि० त्रयो वारा अस्य । १ वारत्रययुक्ते । २ गरुड़ात्मजभेदे

पु० । “त्रिवारः सप्तवारश्च वाल्मीकिर्दीपकस्तथा” भा०
उ० १०० अ० गरुड़ात्मजोक्तौ ।

त्रिविक्रम पु० त्रयो विक्रमाः पादन्यासा अस्य । १ विष्णौ

अमरः त्रिकमशब्दे दृश्यम् । “आनन्दो नन्दनानन्दः
सत्यधर्मस्त्रिविक्रमः” विष्णुस० । “त्रयो विक्रमास्त्रिषु
लोकेषु विक्रमः क्रान्तं यस्य स त्रिविक्रमः “त्रीणि पदानि
विचक्रमे” श्रुतेः त्रयो लोका विक्रमाः क्रान्ता येनेति
वा । “त्रिरित्येवं त्रयो लोकाः कीर्तिता मुनिसत्तमैः ।
क्रमसे तांस्तथा सर्वांस्त्रिविक्रमो जनार्द्दन!” विष्णुसं०
भाष्यधृतहरिवं० वाक्ये तन्नाम निरुक्तिर्दर्शिता । ६ त० ।
२लोकत्रयक्रमणे पु० “त्रिविक्रमे यथा विष्णुः सर्वदैत्यबधे
पुरा” रामा० ल० ७९ अ० ।

त्रिविद्य पु० तिस्रो विद्याऽस्य । त्रिवेदज्ञे धिजे ।

पृष्ठ ३३८०

त्रिविध त्रि० तिस्रो विधा अस्थ । त्रिप्रकारे “अथ त्रिविध-

दुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” सां० सू० । “त्रि-
विधदुःखञ्चाध्यात्मिकाधिभौतिकाधिदैविकरूपम् । “देवत्वं
सात्त्विकं यान्ति मनुष्यत्वञ्च राजसाः । तिर्य्यक्त्वं
तामसा नित्यमित्येषा त्रिविधा गतिः” मनुः । परद्रव्ये-
ष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च
त्रिविधं कर्म मानसम्” मनुः । नित्यं नैमित्तिकं काम्यं
त्रिविधं स्नानमिष्यते” दक्षसं० । सात्विकादिभेदेन
श्रद्धादित्रैविध्यं गीतायामुक्तं यथा
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव ताममी चेति तां शृणु । सत्त्वा-
नुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं
पुरुषो यो यच्छ्रद्ध्वः स एव सः । यजन्ते सात्त्विका
देवान् यक्षरक्षांसि राजसाः । भूतान् प्रेतगणांश्चान्ये
यजन्ते तामसा जनाः । अशास्त्रविहितं धोरं तप्यन्ते
ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबला-
न्विताः । कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां
चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् । आहार-
स्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा
दानं तेषां भेदमिमं शृणु । आयुःसत्त्ववलारोग्यसुख-
प्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या
आहाराः सात्त्विकप्रियाः । कट्वम्ललवणात्युष्णतीक्ष्णरूक्ष-
विदाहिनः । आहारा राजस्येष्टा दुःखशोकामय-
प्रदाः । यातयामं गतरसं पूतिपर्य्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् अफला-
काङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति
मनः समाधाय स सात्त्विकः । अभिसन्धाय तु फलं
दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ! तं यज्ञं
विद्धि राजसम् । विधिहीनमसृष्टान्नं मन्त्रहीनमद-
क्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जबम् । ब्रह्मचर्य्यमहिंसा च
शारीरं तप उच्यते । अनुद्वेगकरं वाक्यं सत्यं प्रिय-
हितञ्च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप
उच्यते । मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते । श्रद्धया परया
तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः
सात्त्विकं परिचक्षते । सत्कारमानपूजार्थं तपो दम्भेन
चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।
मूदग्राहेणात्मनो यत् पीड़या क्रियते तपः । परस्योत्-
सादनार्थं वा तत्तामसमुदाहृतम् । दातव्यमिति यद्दानं
दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं
सात्त्विकं स्मृतम् । यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा
पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमव-
ज्ञातं तत्तामसमुदाहृतम् । ॐतत्सदिति निर्द्देशो
ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च
विहिताः पुरा । तस्मादोमित्युदाहृत्य यज्ञदानतपः-
क्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च
विबिधाः क्रियन्ते मोक्षकाङ्क्षिभिः । सद्भावे साधुभावे
च सदित्येतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः
पार्थ! युज्यते । यज्ञे तपसि दाने च स्थितिः सदिति
चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ।
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत् । असदित्युच्यते
पार्थ! न च तत् प्रेत्य नो इह” १७ अ० ।
“सन्न्यासस्य महावाहो! तत्त्वमिच्छामि वेदितुम् । त्या-
गस्य च हृषोकेश! पृथक् केशिनिसूदन! । भगवानुवाच ।
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफल-
त्यागं प्राहुस्त्यागं विचक्षणाः । त्याज्यं दोषवदित्येके कर्म
पाहुर्मनीषिणः । यज्ञदानतपः कर्म न त्थाज्यमिति
चापरे । निश्चयं शृणु मे तत्र त्यागे भरतसत्तम! ।
त्यागो हि पुरुषव्याघ्र! त्रिविधः संप्रकीर्त्तितः । यज्ञदा-
नतपःकर्म न त्याज्यं कार्य्यमेव तत् । यज्ञो दानं तपश्चैव
पावनानि मनीषिणाम् । एतान्यपि तु कर्म्माणि सङ्गं
त्यक्त्वा फलानि च । कर्त्तव्यानीति मे पार्थ! निश्चितं
मतमुत्तमम् । नियतस्य तु संन्न्यासः कर्मणो नोपषद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः । दुःस्यमित्येव
यत् कर्म कायक्ले शभयात्त्यजेत् । स कृत्वा राजसं त्यागं
नैव त्यागफलं लभेत् । कार्य्यमित्येव यत् कर्म नियतं
क्रियतेऽर्जुन! । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः
सात्त्विको मतः । न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः । न हि
देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः । यस्तु कर्मफलत्यागी
स त्यानीत्यभिधीयते । अनिष्टमिष्टं मिश्चञ्च त्रिविधं
कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां
क्वचित् । पञ्चेमानि महावाहो! कारणानि निवोध
मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्षकर्मणाम् ।
पृष्ठ ३३८१
अविष्ठानं तथा कर्त्ता करणञ्च पृथग्विधम् । विविधाश्च
पृथक् चेष्टा दैवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभि-
र्यत् कर्म प्रारभते नरः । न्याप्यं वा विपरीतं वा पञ्चैते
तस्य हेतवः । तत्रैवं सति कर्त्तारमात्मानं केवलन्तु यः ।
पश्यत्यकृतबुद्धित्वान्न पश्यति स दुर्मतिः । यस्य
नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमा
ल्ल्ॐकान् न हन्ति न निबध्यते । ज्ञानं ज्ञेयं परिज्ञाता
त्रिविधा कर्मचोदना । करणं कर्म कर्त्तेति त्रिविधः
कर्मसंग्रहः । ज्ञार्न कर्म च कर्त्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि । सर्वभूतेषु
येनैकं भावमव्ययमीक्षते । अतिभक्तं विभक्तेषु तज्ज्ञानं
विद्धि सात्त्विकम् । पृथकत्वेन तु यज्ज्ञानं नानाभावान्
पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि
राजसम् । यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पञ्च तत्तामसमिति स्मृतम् । नियतं सङ्ग-
रहितमरानद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्
सात्त्विकमुच्यते । यत्तु कामेप्सुना कर्म साहङ्कारेण
वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ।
अनुबन्धं क्षयं हिसामनपेक्ष्य च पौरुषम् । मोहादार-
भ्यते कर्म यत्तत्तामसमुच्यते । मुक्तसङ्गोऽनहंवादी धृत्यु-
त्साहसमन्धितः । सिद्व्यसिद्वोर्निर्विकारः कर्त्ता सात्त्विक
उच्यते । रागी कर्मफलध्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः । अयुक्तः
षाकृतः स्तब्धः शठो नैकृतिकोऽलसः । विषादी दीर्घसृत्री
च कर्त्ता तामस उच्यते । बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रि-
विधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय! ।
प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च
या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी । यया धर्ममधर्मञ्च
कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः
सा पार्थ! राजसी । अधर्मं धर्ममिति या मन्यते
तमसावृता । सर्वार्यान् विपरीतांश्च बुद्धिः सा पार्थ!
तामसी । धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ! सात्त्विकी ।
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन! । प्रसङ्घेन
फलाकाङ्क्षी धृतिः सा पार्थ! राजसी । यया स्वप्नं
भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा
धृतिः सा पार्थ! तामसी । सुखं त्विदानीं त्रिविधं
शृणु मे भरतर्षभ! । अभ्यासाद्रमते यत्र दुःखान्तञ्च
निगच्छति । यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् । विषये-
न्द्रियसंयोगात् यत्तदग्रेऽस्मृतोपमम् । परिणामे विष
मिव तत् सुखं राजसं स्मृतम् । यदग्रे चानुबन्धे च
सुखं मोहनमात्मानः । निद्रालस्यप्रमादोत्थं तत्ताममु-
मुदाहृतम् । न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः” १८ अ० ।
त्रिविधार्थश्च विष्णूक्तोऽर्थशब्दे ३६७ पृ० उक्तः ।
अन्यस्य त्रैविध्यं यथायथं यथास्थाने उक्तं वक्ष्यते च ।
उत्पातशब्दे उत्पातत्रैविध्यमुक्तम् । तस्य भावः ष्यञ् ।
त्रैविध्य त्रिप्रकारत्वे “एवं त्रैविध्यमापन्नः संसर्गाभाव
इष्यते” भाषा० । “त्रैविध्यादियमर्थानां प्रत्येकं त्रि-
विधा मता” सा० द० ।

त्रिविष्टप न० विशन्त्यस्मिन् सुकृतिनः विश--कपन् तुट्-

षत्वञ्च । “विटपविष्टपविशिपोलपाः” उणा० उज्ज्वल-
दत्तेन विष्टपेत्यत्र पिष्टषेति पठितस । अन्थे तत्र दन्त्यो-
ष्ठ्यादितया पेठुः । “यत्र ब्रघ्नस्य विष्टपमित्यादि-
प्रयोगात् “विष्टपं भुवनं जगत्” अमरग्रन्थे विष्ट-
पेति पाठस्य क्षीरस्वामिप्रभृतिसम्पतत्वाच्च । तृतोयं
विष्टपम् वृत्तौ त्रिभागवत् संख्याशब्दस्य पूरणार्थत्वम् ।
१ स्वर्गे अमरटीकायां स्वामी । “त्रिविष्टपस्येव पतिं
जयन्तः” रघुः । “स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधि-
ष्ठिरः” भा० स्व० १ अ० । समा० द्वि० । २ त्रिभुवने न०

त्रिविष्टपसद् पु० त्रिविष्टपे स्वर्गे सीदति सद--क्विप् । देवे

हला० ।

त्रिविष्टब्ध न० त्रीणि विष्टब्दानि यत्र । त्रिदण्डरूपे

अपष्टम्भत्रये “य इमा कुण्डिकां भिन्द्यात्त्रिविष्टन्धं च यो
हरेत् । वासश्चापहरेत् तस्मिन् कथं ते मानसं भवेत्” ।
“नयीञ्च नाम वार्त्ताञ्च त्यक्त्वा पुत्रान् व्रजन्ति ये । त्रि-
विष्टब्धञ्च वासश्च प्रतिमृह्णन्त्यबुद्धयः” भा० शा० १८ अ० ।

त्रिविस्त त्रि० त्रीणि विस्तानि स्वर्णकर्षंऊल्यान्यनर्हति ठक्

तस्य वा लुक् । स्वर्णकर्षत्रयमूल्यार्हे । लुगभावे त्रैविस्तिक
तत्रार्थे त्रि० ।

त्रिविस्तीर्ण पु० त्रिभिः विस्तीर्णः । शुभलक्षणभेदान्विते

पुरुषे । “त्रिपृथुघुगम्भीरो द्वात्रिं शल्लक्षणन्त्विति”
ऊपक्रमे “ललाटफटिषक्षोभिस्त्रिविस्त्रीर्णो यथाह्यादौ ।
सर्वतेजोऽतितिगैश्वर्य्यं तथा प्रापस्थति नान्यथा” काशी०
११ अ० । त्रिपृषुशब्दोऽप्यत्र वृ० स० ६८ अ० तु “उरो
ललाटं वदनञ्च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम्”
विस्तीर्णचतुष्कप्रशस्ततयोक्तमिति भेदः ।
पृष्ठ ३३८२

त्रिवीज पु० त्रीणि त्रीणि वीजानि प्रतिफलं यस्य । श्यामाके राजनि० ।

त्रिवृत्(ता) पु० त्रीन् अवयवान् वृणोति वृ--क्विप् त्रिभिरव-

यवैर्वृता वा । १(तेओड़ि) औषधिभेदे, अमरः “श्वेता
त्रिवृद्रोचनी स्यात् स्वादुरुष्णा समीरहृत् । रूक्षा
पित्तज्वरश्लेष्मपित्तशोथोदरापहा । श्वेतकृष्णपभेदेन
द्विविधा त्रिवृदुच्यते । श्यामा त्रिवृत्ततो हीनगुणा
तीव्रा विरेचिका । मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षण-
कारिणी” भावप्र० । वर्तनं वृत् त्रिः तिस्रः वृतो यत्र ।
एकस्य त्रिशब्दस्य त्रिवारे त्रिसंख्यान्विते च वृत्तिः
तन्त्रोच्चारणात् । २ त्रिधात्रिगुणिते त्रि० । “विप्रस्योर्द्धवृतं
त्रिवृत्” इति मनुः त्रिगुणितसूत्रत्रयस्यैवोपवीतरूपत्वा-
त्तथार्थता । त्रिर्वर्त्तते वृत--क्विप् । मिश्रितेषु ३ तेजोजलान्नेषु
च । “तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” छा० उ०
४ त्रिगुणिते “यजेत वाश्वमेधेन स्वर्जिता गोषयेन वा ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” मनुः ।
त्रिभिरृग्यजुःसामभिर्वर्त्तते वृत--कर्तरि क्विप् । ५ यज्ञे
पु० । “यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः”
भा० शा० ४७ अ० । “त्रिवृत् यज्ञः शिरोऽस्य” नीलक०
त्रिस्त्रिर्वर्तते सुज्गर्भस्य त्रिशब्दस्य वीप्सार्थत्वम् ।
६ ऋग्विशेषाणां नवके । यथोक्तं सामसंहिताभाष्ये
“लौकिको वाक्यगोवार्थस्त्रिवृदादेः समत्वतः । उभौ
विध्यर्थवाक्यैकवाक्यत्वादस्त्विहान्तिमः । “त्रिवृद्बहिष्प-
वमानम्” इति श्रुतौ त्रिवृच्छब्दस्य त्रेगुण्यं लोकसिद्धो-
ऽर्थः वाक्यशेषादृक्--त्रयात्मकेषु सूक्तेष्ववस्थितानां बहि
ष्पवमानात्मक--स्तोत्र--निष्पादन--क्षमाणाम् “उपास्वै
गायता नरः (उ १ प्र० १२, ३ सू०) इत्यादीनामृचां
नवकमर्थः तत्र धर्म निर्णये वेदस्य प्रबलत्वेऽपि पद--पदार्थ-
निर्णये लोकवेदयोः समान--बलवत्त्वात् उभावर्थौ
विकल्पेन ग्रहीतव्यौ, इति चेत्--मैवम्, लौकिकार्थ--स्वी-
कार पक्षे विधिवाक्ये त्रैगुण्यमर्थः, अर्थबाद--वाक्ये
स्तोत्रियाणामृचां मवकम्, इत्येवं विध्यर्थवादयोर्वैयधि-
करण्यादेकवाक्यत्वं न स्यात्, अतः एकवाक्यत्वाय स्तो-
त्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः” ।

त्रिवृत्करण न० ६ त० । तेजो जसान्नानां त्र्यात्मककरणे

तत्प्रकारुश्च छा० उ० भाष्ये दर्शितो यथा
“ताश्चां त्रिवृतं त्रिवृतमैकैकां करवाणीति सेयं देवते-
मास्तिस्रौ देवता अनेनैव जीवेनात्मनानुपविश्य नामरूपे
व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा
नु खलु सोम्ये मास्तिस्रो देवतास्रिघृत्त्रिवृदेकैका भवति
तन्मे विजानहीति । यदग्ने रोहितं रूपं तेजसस्तद्रूपं
यच्छुक्लं तदपां, यक्तृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचा
रम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।
यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां,
यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचार-
म्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।
यच्चन्द्रमसो रोहितं रूपं, तेजसस्तद्रूपं यच्छुक्लं तदपां,
यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्व वाचारम्भणं विकारो
नामधेयं त्रीणि रूपाणीत्येव सत्यम् । यद्विद्युतो
रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं
तदन्नस्यापागाद्धिद्युतो विद्युत्त्वं वाचारम्भणं विकारो
नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।
“सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे वीजभूतेऽ
व्याकृते गामरूपे व्याकरवाणीतीक्षित्वा तासाञ्च तिसृणां
देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि एकैकस्याः
त्रिवित्करणे एकैकस्याः प्राधान्यं द्वयोद्वयोर्गुणभावोऽ
न्यथा हि रज्वा इवैकमेव त्रिवृत्करणं स्यात् । न तु
तिसृणां पृथक् त्रिवृत्करणमिति । एवं हि तेजोबन्नानां
पृथङ्नामप्रत्ययलामः स्यात्तेज इदमिमा आपोऽन्नमिद-
मिति च । प्रथङ्नामप्रत्ययलाभे देवातानां सम्यग्व्यव-
हारस्य प्रसिद्धिः प्रयोजनं स्यात् । एवमीक्षित्वा सेयं देबते
मास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्य्यबिम्ब-
वदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां च
पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौ-
नामायमिदरूप इति तासाञ्च देवतानां गुणप्रधानभावेन
त्रिवृतं त्रिवृतमेकैकामकरोत् कृतवती देवता । तिष्ठतु
तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां, तोजोबन्न-
मयत्वेन त्रिधात्वं यथा तु खलु बहिरिमाः
पिण्डेभ्यस्त्रिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे मम
निगदतो विजानीहि विस्पष्टमवधारयोदाहरणतः ।
यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवदाहरणमुच्यते ।
उदाहरणं वामैकदेशप्रसिद्ध्याशेषप्रसिद्ध्यर्थसुदाद्रियत
इति । तदेतदाह यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं
प्रसिद्ध्वं लोके तदत्रिवृत्कृतस्य तेजसो रूपभिति विद्धि ।
तथा च यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम्
पृष्ठ ३३८३
यक्तृष्णं तस्यैवाग्ने रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृ-
ताया इति विद्धि । तत्रैवं सति रूपत्रयव्यतिरेकेणाग्नि-
रिति यन्मन्यमे त्वं तस्याग्नेरग्नित्वमिदानीमपागादप-
गतम् । प्राग्रूपत्रयविवेकविज्ञानाद्याग्निबुद्धिरासी-
त्तेजसाग्निबुद्धिरपगताग्निशब्दश्चेत्यर्थः । यथा दृश्यमान
रक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमिति
शब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेक
विज्ञानात्, तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्त्तेते
तद्विवेकविज्ञातुस्तद्वत् । ननु किमत्र बुद्धिशब्दकल्पनया
क्रियते प्राग्रूपत्रयविवेककरणादग्निरेवासीत्तदग्नेरग्नित्वं
रोहितादिरूपविवेककरणादपागादिति युक्तम् । यथा
तन्त्वपकर्षणे पटाभावः । मैवं बुद्धिशब्दमात्रमेव ह्यग्नि
र्यत आह वाचारम्भनमग्निर्नाम विकारो नामधेयं
नाममात्रमित्यर्थोऽतोऽग्निबुद्धिरपि मृषैव । तर्हि किं तत्
सत्यं? त्रीणि रूपाणीत्येव सत्यं नाणुमात्रमपि रूपत्रय-
व्यतिरेकेण सत्यमस्तीत्यवधारणार्थः । तथा यदादित्यस्य
यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् । ननु यथा नु
खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति
तन्मे विजानीहीत्युक्त्वा तेजस एव चतुर्भिरप्युदाहर्णै-
रग्न्यादिभिस्त्रिवृत्करणं दर्शितं नाबन्नयोरुदाहरणंदर्शितं
त्रिवृत्करणे । नैष दोषः । अबन्नावषयाण्यप्युदाहर-
णान्येवमेव चद्रष्टव्यानोति मन्यते श्रुतिः । तेजस
उदाहरणमुपलब्ध्यर्थम्, रूपवत्त्वात् स्पष्टार्थत्वोपपत्तेश्च ।
गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् न हि गन्ध-
रसौ तेजसि स्तः । स्पर्शशब्दयोरनुदाहरणं विभागेन
दर्शयितुमशक्यत्वात् । यदि सर्व्वं जगत्त्रिवृत्कृतमित्य-
ग्न्यादिवत्त्रीणि रूपाणीत्येव सत्यमग्नेरग्नित्ववदपागा-
ज्जगतो जगत्त्वम् । तथाऽन्नस्यापि अप्शुङ्गत्वादाप
इत्येव सत्यं वाचारम्भणमात्रमन्नम् । तथापामपि तेजः-
शुङ्गत्वाद्वाचारम्भणत्वं तेज इत्येव सत्यम् । तेजसोऽपि
सच्छुङ्गत्वाद्वाचारम्भणत्वं, सदित्येव सत्यमित्येषोऽर्थो
विवक्षितः । ननु वाय्वन्तरिक्षे त्वत्रिवृत्कृते तेजःप्रभृति-
ष्वनन्तर्भूतत्वादविशिष्येते । एवं गन्धरसशब्दस्पर्शाश्चा-
वशिष्टा इति । कथं? सतो विज्ञानेन सर्व्वमन्यदविज्ञातं
भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम् । नैष दोषो रूपव-
द्द्रव्ये सर्व्वस्य दर्शनात् । कथं, तेजसि तावद्रूपवति शब्द-
स्पर्शयोरप्युपलम्भाद्वाय्वन्तरिक्षयोस्तत्र स्पर्शशब्दगुणवतोः
सद्भावोऽनुमीयते । तथाबन्नयो रूपवतो रसगन्धान्त-
र्भाव इति । रूपवतां त्रयाणां तेजोऽबन्नानां त्रिवृत्करण
प्रदर्शनेन सर्व्वं तदन्तर्भूतं सद्विकारत्वात्त्रीण्येव रूपाणि
विज्ञातं मन्यते श्रुतिः । न हि मर्त्तं रूपवत् द्रव्यं
प्रत्याख्याय वाय्वाकाशयोस्तद्गु णयोर्गन्धरसयोर्वा ग्रहण-
मस्ति । अथ वा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव-
मन्यते श्रुतिः यथा तु त्रिवृत्कृते त्रीण्येव रूपाणीत्येव
सत्यं तथा पञ्चीकरणेऽपि समानी न्याय इत्यतः सर्व्वस्य
सद्विकारत्वात्सतो विज्ञानेन सर्वमिदं विज्ञातं स्यात्सदेक-
मेवाद्वितीयं सत्यमिति सिद्धमेव भवति” भाष्यम् ।
क्षित्यादित्रयाणां प्रत्येकं द्वेधा विभागे द्वितीयार्द्धस्यपुन-
र्द्वेधा विभागे च एकैकस्मित् स्वस्वेतरद्वितीयांशार्द्धयो-
जनरूपं पञ्चीकरणवत् त्रिवृत्करणम् “द्विधा
विधाय चैकैकं द्विधा च प्रथमं पुनः । स्वस्वेतरद्वितीयांशैर्यो-
जनात् त्र्यात्मकाश्च ते” इत्युक्तरीत्या कल्प्यम् ।

त्रिवृत्पर्णी स्त्री त्रिषु दोषेषु वर्त्तते नाशनाय त्रिवृत् त्रिदोष-

घ्न्मम् पर्णमस्याः । (हेलञ्चा) हिलमोचिकायाम् शब्दच० ।

त्रिवृत्ता स्त्री त्रिरावृत्ता । १ त्रिवृति अमरः । २ त्रि-

रावृत्ते त्रिगुणे त्रि० “त्रिवृत्ता (मेखला) ग्रन्थिनैकेन
त्रिभिः पञ्चभिरेव वा” मनुः ।

त्रिवृत्तिका स्त्री तिस्रः वृत्तयोऽस्याः कप् । १ त्रिवृति

राजनि० । २ त्रिधावृत्तियुक्ते त्रि० ।

त्रिवृद्वेद पु० ऋगाद्यात्मना त्रिर्वर्तते त्रिवृत् कर्म्म० । १ त्रय्यां

वेदत्रये तदुत्पन्ने २ प्रणवे च । “ऋचो यजूंषि चान्यानि
सामानि विविधानि च । एष (प्रणवः) ज्ञेयस्त्रिवृद्वेदो
यो वेदैनं स वेदवित् । आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी
यस्मिन् प्रतिष्ठिता । स गुह्योऽन्यस्त्रिवृद्वेदोयस्तं वेद स
वेदवित्” मनुः ।

त्रिवे(णि)णी स्त्री तिस्रः वेणयः प्रवाहाः विच्छिन्नाः

संयुक्ता वा यत्र ततः इदन्तत्वात् वा ङीप् । गङ्गा-
यमुनासरस्वतीनां विच्छिन्नप्रवाहे १ दक्षिणप्रयागे युक्त-
प्रवाहे २ प्रयागे तीर्थभेदे च दक्षिणप्रयागसीमा च
यथा “प्रद्युम्नस्य ह्रदात् याम्ये सरस्वत्यास्तथोत्तरे ।
तद्दक्षिणप्रयागन्तु गङ्गातो यमुना गता” प्रा० त० ।
त्रिवेण्या इदम् शिवा० अण् । त्रैवेण । तदोये त्रि० ।

त्रिवेणु पु० त्रयो वेणवी यत्र । रथमुखस्थेऽवयवभेदे शब्दार्थ-

चि० । “अश्वांस्त्रिवेणुं तल्पञ्च तिलशोव्यधमच्छरैः”
भा० व० २४१ अ० ।
पृष्ठ ३३८४

त्रिवेद पु० त्रीन् वेदान् वेत्ति विद--अण् उप० स० त्रयो वेदा

अधीतत्वेन सन्त्यस्य अच् वा । १ वेदत्रयवेत्तरि । “नाय
न्द्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी” मनुः ततः
स्वार्थे ब्राह्म० ष्यञ् । त्रैवेद्य तदर्थे “त्रैवेद्याः
शुचयोदान्ताः” गीता । त्रिगुणितो वेदः शा० त० । २ वेदत्रये
३ तद्विहितकर्मणि च “त्रिवेदसंयोगाच्च” कात्या० श्रौ०
२५ । १४ । ३७ । “वेदत्रयविहितकर्मयोगो ब्राह्मणः” कर्कः ।

त्रिवेला स्त्री तिस्रो वेला सीमानोऽस्याम् । त्रिवृति (तेओड़ि)

राजनि० ।

त्रिशक्ति स्त्री त्रिगुणिता शक्तिः । १ कालीतारात्रिपुरारूपे

तन्त्रोक्ते देवीत्रये “त्रिशक्तिविषये देवि! क्रमदीक्षा
प्रकीर्तिता” तन्त्रसा० इच्छाज्ञानक्रियारूपे ऐश्वरे २ शक्तित्रये
प्रभावोत्साहमन्त्रजे राज्ञां ३ शक्तित्रये । ब० ब्री० ।
४ त्रिगुणात्मके प्रधाने च ।

त्रिशक्तिधृत् पु० त्रिशक्तिं इच्छादिशक्तित्रयं

धरति धृ--क्विप् । १ परमेश्वरे २ विजिगीषुनृपे च ।

त्रिशङ्कु पु० त्रयः शङ्कव इव यत्र । १ मार्ज्जारे २ शलभे

मेदि० । ३ चातकखगे शब्दच० । ४ खद्योते शब्दमा० ।
५ सूर्य्यवंश्ये नृपभेदे । तस्य नामनिरुक्तिः हरिवं० १३ अ०
दर्शिता यथा
“अविद्यमाने मांसे तु वशिष्ठस्य महात्मनः । सर्वका-
मदुघान्दोग्ध्रीं ददर्श स नृपात्मजः । तां वै क्रोधाच्च
मोहाच्च श्रमाच्चैव क्षुधार्दितः । दशधर्मगतो राजा
जघान जनमेजय! । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो
बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ।
तच्च मांसं स्वयञ्चैव विश्वामित्रस्य चात्मजान् । भोजया-
मास तच्छुत्वा वशिष्ठोऽप्यस्य चुक्रुघे । क्रुद्धस्तु भगवान्
वाक्यमिदमाह नृपात्मजम् । वशिष्ठ उवाच । पातयेय-
महं क्रूर! तव शङ्कुमसंशयम् । यदि ते द्वाविभौ
शङ्कू न स्यातां वै पुनःकृतौ । पितुश्चापरितीषेण गुरो-
र्दोग्ध्रीबधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यति-
क्रमः । वैशम्पायन उवाच । एवं त्रीण्यस्य शङ्कूनि तानि
दृष्ट्वा महातपाः । त्रिशङुरिति होवाच त्रिशङ्कुस्तेन
स स्मृतः” । तस्य सशरीरस्वर्गयानकथा रामा० आ०५ ७ स०
“सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् ।
अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदर्वाङ्मुखः । अव्रवीत्
स महात्मानः सर्व्वानेव कृताञ्जलिः । शरणं वः प्रपन्नोऽहं
शरण्यान् शरणं गतः । प्रत्याख्यातो हि भद्रं वो
वशिष्ठेन महात्मना । यष्टुकामो महायजं तदनुज्ञा-
तुमर्हथ । गुरुपुत्त्रानहं सर्व्वान्नमस्कृत्य प्रसादये ।
शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् । ते मां
भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः । सशरीरो
यथाहं वै देवलोकमवाप्नुयाम् । प्रत्याख्यातो वशिष्ठेन
गतिमन्यां तपोधनाः! । गुरुपुत्त्रानृते सर्व्वान्नाहं
पश्यामि काञ्चन । इक्ष्वाकूणां हि सर्व्वेषां षुरोधाः
परमा गतिः । तस्मादनन्तरं सर्व्वे भवन्तो दैवतं मम” ।
“ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्त्रशतं राम! राजानमिदमव्रवीत् । प्रत्याख्यातोऽसि
दुर्म्मेधो! गुरुणा सत्यवादिना । तं कथं समतिक्रम्य
शाखान्तरमुपेयिवान् । इक्ष्वाकूणां हि सर्व्वेषां पुरोधाः
परमा गतिः । न चातिक्रमितुं शक्यं वचनं सत्य-
वादिनः । अशक्यमिति होवाच वशिष्ठो भगचानृषिः ।
तं वयं वै समाहर्त्तुं क्रतुं शक्ताः कथञ्च न । वालि-
शस्त्वं नरश्रेष्ठ! गम्यतां स्वपुरं पुनः । याजने भगवान्
शक्तस्त्रैलोक्यस्यापि पार्थिव! । अवमानं कर्थं कर्तुं तस्य
शक्ष्यामहे वयम् । तेषां तद्वचनं श्रुत्वा क्रोधपर्य्याकुला-
क्षरम् । स राजा पुनरेवैतानिदं वचनमब्रवीत् । प्रत्या-
ख्यातो भगवता गुरुपुत्त्रैस्तथैव हि । अन्यां गतिं
गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः! । ऋषिपुत्त्रास्तु
तच्छ्रुत्वा वाक्यं घोराभिसंहितम् । शेपुः परमसंक्रुद्धा-
श्चण्डालत्वं गमिष्यसि । इत्युक्त्वा ते महात्मानो विविशुः
स्वं स्वमाश्रमम् । अथ रात्त्र्यां व्यतीतायां राजा
चण्डालतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्त-
मूर्द्ध्वज्वः । चितामाल्याङ्गरागश्च आयसाभरणोऽभवत् ।
तं दृष्ट्वा मन्त्रिणः सर्व्वे त्यज्य चण्डालरूपिणम् ।
प्राद्रवन् सहिताःराम! पौरा येऽस्यानुगामिनः । एको
हि राजा काकुत्स्थ! जगाम परमात्मवान् । दह्यमानो
दिवारात्रं विश्वामित्रं तपोधनम् । विश्वामित्रस्तु तं दृष्ट्वा
राजानं विफलीकृतम्! चण्डालरूपिणं राम! मुनिः
कारुण्यमागतः । कारुण्यात् स महातेजा वाक्यं
परमधार्म्मिकः! इदं जगाद भद्रन्ते राजानं घोरदर्शनम् ।
किमागमानकार्य्यन्ते राजपुत्र! महाबल! । अयोध्या-
धिपते! वीर! शापाच्चण्डालताङ्गतः । अथ तद्वाक्यमा-
कर्ण्य राजा चण्डालताङ्गतः । अब्रवीत् प्राञ्जलिर्वाक्यं
वाक्यज्ञो वाक्यकोविदम् । प्रत्याख्यातोऽस्मि गुरुणा
गुरुपुत्त्रैस्तथैव च । अनवाप्यैव तं कामं मया प्राप्तो
त्रिप्रर्य्ययः । सशरीरो दिवं यायामिति मे सौम्यदर्शन! ।
मया चेष्टं क्रतुशतं तथा तन्नाप्यते फलम् । अनृतं
पृष्ठ ३३८५
नोक्तपूव्ये मे न च वक्ष्ये कदाचन । कृच्छ्रेष्वपि गतः
सौम्य! क्षत्रधर्म्मेण ते शपे । यज्ञैर्बहुविधैरिष्टं प्रजा-
धर्म्मेण पालिताः । गुरवश्च महात्मानः शीलवृत्तेन
तोषिताः । धर्म्मे प्रयतमानस्य यज्ञं चाहर्त्तुमिच्छतः ।
परितोषं न गच्छत्ति गुरवो मुनिपुङ्गव! । दैवमेव परं
मन्ये पौरुषं तु निरर्थकम् । दैवेनाक्रम्यते सर्व्वं दैवं
हि प्तरमा गतिः । तस्य मे परमार्त्तस्य प्रसादमभिका-
ङ्क्षतः । कर्त्तुमर्हसि भद्रन्ते दैवोपहतकर्म्मणः । नान्यं
गतिं गमिष्यामि नान्यच्छरणमस्ति मे । दैवं पुरुषकारेण
निवर्त्तयितुमर्हसि” ५८ स० ।
“उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः! अब्र-
वीत् मधुरं बाक्यं साक्षाच्चण्डालताङ्गतम् । इक्ष्वाको!
स्वागतं वत्स! जानामि त्वां सुधार्म्मिकम् । शरणं ते
प्रदास्यामि मा भैषीर्नृपपुङ्गव! । अहमामन्त्रये सर्व्वा-
न्महर्षीन् पुण्यकर्म्मणः । यज्ञसाह्यकरान् राजंस्ततो
यक्ष्यसि निर्वृतः । गुरुशापकृतं रूपं यदिदं त्वति
वर्त्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ।
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप! । यस्त्वं
कौशिकमागम्य शरण्यं शरणागतः । एवमुक्त्वा महातेजाः
पुत्त्रान् परमधार्म्मिकान् । व्यादिदेश महाप्राज्ञान्
यज्ञसम्भारकारणात् । सर्व्वान् शिष्यान् स चाहूय
वाक्यमेतदुवाच ह । सर्वानृषीन् सवाशिष्ठानानयध्वं
ममाज्ञया । सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् ।
यदन्यो वचनं ब्रूयान्मद्वाक्यबलनोदितः । तत्सर्वमखिले-
नोक्तं ममाख्येयमनावृतम् । तस्य तद्वचनं श्रुत्वा दिशो
जग्मुस्तदाज्ञया । आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्म-
वादिनः । ते च शिष्याः समागम्य मुनिं ज्वलिततेज-
सम् । ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम् । श्रुत्वा
ते वचनं सर्वे समायान्ति द्विजातयः । सर्वदेशेभ्य
आगच्छन् वर्जयित्वा महोदयम् । वाशिष्ठं यच्छतं सर्वं
क्रोधपर्य्याकुलाक्षरम् । यथाह वचनं सर्वं शृणु त्वं
मुनिपुङ्गव! । क्षत्त्रियो याजको यस्य चण्डालस्य
विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ।
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् । कथं
स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः । एतद्वचन-
नैष्ठुर्य्यमूचुः संरक्तलोचनाः । वाशिष्ठा मुनिशार्द्दूल!
सर्बे सहमहोदयाः । तेषां तद्वचनं श्रुत्वा सर्वेषां मुनि-
पुङ्गवः । क्रोधसंरक्तनयनः सरोषमिदमव्रवीत् । यद्दूष-
यन्त्यदुष्टं मां तप उग्र समास्थितम् । भस्मीभूता दुरा-
त्मानो भविष्यन्ति न संशयः । अद्य ते कालपाशेन नीता
वैवस्वतक्षयम् । सप्त जातिशतान्येव मृतपा सम्भवन्तु
ते । श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।
विक्रियाश्च विरूपाश्च लोकाननुचरन्त्वमी । महोदयश्च
र्दुर्बुद्धिर्नामदुष्यं ह्यदूषयत् । धूषितः सर्वलीकेषु निषा-
दत्वं गमिष्यति । प्राणातिपातनिरतो निरनुक्रोश-
ताङ्गतः । दीर्धकालं मम क्रोधात् दुर्गतिं वर्त्तयि-
ष्यति । एतावदुक्त्वा बचनं विश्वामित्रो महातपाः ।
विरराम महातेजा ऋषिमध्ये महामुनिः” ५९ स० ।
“तपोवलहतान् ज्ञात्वा वाशिष्ठान् समहोदयान् ।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ।
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च
वदान्यश्च मां चैव शरणं गतः । स्वेनानेन शरीरेण
देवलोकजिगीषया । यथायं स्वशरीरेण देवलोकं
गमिष्यति । तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ।
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः । ऊचुः
समेताः सहसा धर्म्मज्ञा धर्म्मसंहितम् । अयं कुशिक-
दायादो मुनिः परमकोपनः । यदाह वचनं सम्य-
गेतत् कार्य्यं न संशयः । अग्निकल्पो हि भगवान्
शापं दास्यति रोषतः । तस्मात् प्रवर्त्यतां यज्ञः
सशरीरो यथा दिवि । गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य
तेजसा । ततः प्रवर्त्त्यतां यज्ञः सर्वे समभितिष्ठत ।
एवमुक्त्वा च ऋपयः संजह्रुस्ताः क्रियास्तदा ।
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ । ऋत्विजश्चानु-
पूर्वेण मन्त्रवन्मन्त्रकोविदाः । चक्रुः सर्वाणि कर्माणि
यथाकल्पं यथाविधि । ततः कालेन महता विश्वा-
मित्रो महातपाः । चकारावाहनं तत्र भागार्थं सर्व-
देवताः । नाभ्यागमंस्तदा तत्रं भागार्थं ताश्च देवताः ।
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः । स्रुव-
मुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् । पश्य मे तपसो
वीर्य्यं स्वार्जितस्य नरेश्वर! । एष त्वां स्वशरीरेण
नयामि स्वर्गमोजसा । दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ
नरेश्वर! । स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः
फलम् । राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज ।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः । दिवं
जगाम काकुत्स्थ! मुनीनां पश्यतां तदा । स्वर्गलोकं
गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः । सह सर्वैः स्वरगणै-
पृष्ठ ३३८६
रिदं वत्त्रनमब्रवीत् । त्रिशङ्को! गच्छ भूयस्त्वं नास्ति
स्वर्गकृतालयः । गुरुशापहतो मूढ़! पत भूमिमवाक्-
शिराः । एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः ।
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् । तच्छ्रुत्वा
वचनं तस्य क्रोशमानस्य कौशिकः । रोषमाहारयत्
तीव्रं तिष्ठ तिष्ठेति चाब्रबीत् । ऋषिमध्ये स तेजस्वी
प्रजापतिरिवापरः । सृजन् दक्षिणमार्गस्थान् सप्तर्षी-
नपरान् पुनः । नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः ।
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः । सृष्ट्वा
नक्षत्रवंशञ्च क्रोधेन कलुषीकृतः । अन्यमिन्द्रं
करिष्यामि लोको वा स्यादनिन्द्रकः । दैवतान्यपि स क्रो-
धात् स्रष्टुं समुपचक्रमे । ततः परमसम्भ्रान्ताः सर्षि-
सङ्घाः सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं
वचः । अयं राजा महाभाग! गुरुशापपरिक्षतः ।
सशरीरो दिवं यातुं नार्हत्येव तपोधन! । तेषां तद्वचनं
श्रुत्वा देवानां मुनिपुङ्गवः । अब्रवीत् सुमहद्वाक्यं
कौशिकः सर्वदेवताः । सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य
भूपतेः । आरोहणं प्रतिज्ञातं नानृतं कर्त्तुमुत्सहे ।
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः । नक्षत्राणि
च सर्वाणि मामकानि ध्रुबाण्युत । यावल्लोका
धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः । मत्कृतानि सुराः सर्वे
तदनुज्ञातुमर्हथ । एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनि-
वुङ्गवम् । एवं भवतु भद्रन्ते तिष्ठन्त्वेतानि सर्वशः ।
गगने तान्यनेकानि वैश्वानरपथाद्बहिः । नक्षत्राणि
मुनिश्रेष्ठ! तेषु ज्योतिःषु जाज्वलन् । अवाक्शिरास्त्रि-
शङ्कुश्च तिष्ठत्वमरसन्निभः । अनुयास्यन्ति चैतानि
ज्योतीषि नृषसत्तमम् । कृतार्थं कीर्त्तिमन्तञ्च स्वर्गलोक-
गत यथा । विश्वामित्रस्तु धर्म्मात्मा सर्वदेवैरभिष्टुतः ।
ऋषिमध्ये महातेजा वाढमित्येव देवताः । ततो देवा
महात्मान ऋषयश्च तपोघनाः । जम्मुर्यथागतं सर्वे
यज्ञस्यान्ते नरोत्तम! ।” ६० स०
त्रिशङ्कोरपत्यम् अण् । त्रैशङ्कव हरिश्चन्द्रे “तस्य (त्रिशङ्कीः)
सत्यरथा नाम पत्नी कैकयवंशजा । कुमारं जनयामास
हरिश्चन्द्रमकल्मषम् । स वै राजा हरिश्चन्द्रस्त्रैशङ्कव
इति स्मृतः” हरिवं०१३ अ० ।

त्रिशङ्कुज पु० त्रिशङ्कोर्जायते जन--ड । हरिश्चन्द्रे नृपे हेमच० त्रिशङ्कुशब्दे दृश्यम् ।

त्रिशङ्कुयाजिन् पु० त्रिशङ्कुं याजयति यज--णिनि ।

विश्वाभित्रे हेमच० त्रिशङ्कुशब्दे दृश्यम् ।

त्रिशत न० त्रिगुणितं शतम् शा० त० । त्रिगुणिते शते ।

“चतुर्विंशतिसंयुक्तं सण्डलं त्रिशतं स्मृतम्” कामन्दकी ।
“नरकं त्रिशतं प्राप्य स विष्ठामुपजीवति” भा० अनु०
१०१ अ० । समा० द्वि० ङीप् । २ शतत्रये स्त्री ।

त्रिशरण न० त्रीणि शरणान्यस्य । बुद्धदेवे त्रिका० ।

त्रिशर्करा स्त्री त्रिगुणिता शर्करा शा० त० । मिलितगुड़ो-

त्पन्नाहिमोत्था मधुरेति मधुरत्रिके राजनि० ।

त्रिशला स्त्री अर्हन्मातृभेदे हेमच० ।

त्रिशाख त्रि० तिस्रः शाखा अग्राणि यस्य । शिखाकाराग्र-

त्रययुते । “कृत्वा त्रिशाखां भ्रूकुटीं ललाटे” भा०
कर्ण० ८५ अ० ।

त्रिशाखपत्र पु० त्रिस्रः शाखा अस्य तादृशं पत्रं यस्य । बिल्वे राजनि० ।

त्रिशाण त्रि० त्रयः शाणाः परिमाणमस्य तैः क्रीतं वा अण्

तस्य वा लुक् । १ त्रिशाणपरिमिते २ तत्क्रीते च । पक्षे न
लुक् । त्रैशाण तत्रार्थे पक्षे यत् त्रिशाण्य तत्रार्थे एवं
द्विशाणद्विशाण्य द्वैशाण द्विशाणक्रीते तत्परिमिते त्रि०

त्रिशालक न० तिस्रः शाला यत्र वा कप् । हिरण्यना-

भाख्ये वास्तुभेदे तत्फलादिकं वृ० स० ५३ उक्तं यथा
“उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम् ।
प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु । याम्याहीनं
चुल्ली त्रिशालकं वित्तनाशकरमेतत् । पक्षघ्नमपरया-
वर्जितम् सुतध्वंसवैरकरम्” ।

त्रिशिख न० त्रिस्रः शिखा अस्य । १ त्रिशूले अस्त्रभेदे २ किरीटे

च हेमच० । ३ शिखात्रययुक्ते त्रि० ।
“त्रिशिखां भ्रुकुटिञ्चास्य ददृशुर्दानवा रणे” हरिवं०
२२५ अ० । “त्रिशिखां भ्रुकुटीं कृत्वा सन्दश्य
दशनच्छदम्” भा० आ० १६३ अ० । ४ रावणपुत्रे राक्षसभेदे पु०

त्रिशिखिदला स्त्री तिस्रः शिखाः सन्त्यत्र इनि तादृशं

दलमस्य । मालाकन्दे राजनि० ।

त्रिशिरस् पु० त्रीणि शिरांस्यस्य । १ कुवेरे हेमच० । २

रावणपुत्रभेदे ३ खरसेनापतिभेदे च । त्रिशिरस्के ४ ज्वरे च ।
“त्रिशिरस्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम्” भाग० १०
अ० वाणयुद्धे । अस्य अदन्तत्वमपि “सर्वे सान्ता अदन्ताः
स्युः” इत्युक्तेः “स्यरत्रिशिरदूषणमुख्यबन्धून्” भाग० ९ ।
१० । १० “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः”
हरिवं० १८१ अ० । त्रयो वेदाः शिरांसीव यस्य ।
५ जैवे रथे पु० । “सबन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिरा-
स्त्रिशिराश्च त्रिनाभिः” भा० आनु० १९८ अ० । नील-
पृष्ठ ३३८७
कण्ठस्तु “वृहच्छिराश्चतुरश्वस्त्रिनाभिः” इति पठित्वा
“चतुरश्वः कालादृष्टेश्वरेच्छास्वसंकल्पाश्चत्वारोऽश्वा
अस्येति” व्याचख्यौ । “अतीव हि त्रिशिरसं समुच्छिन्द्यात्
कृतत्वरः” कामन्दकी । त्रिशीर्षकादयोऽप्यत्र । तच्च
त्रिशूले न० हेमच० ।

त्रिशुच् पु० तिस्रः शुचो दीप्तयः शोका वाऽस्य । स्वर्गान्तरिक्ष-

पृथिवीस्थदीप्तित्रययुते घर्मे । “धर्मस्त्रिशुक् विराजति
विराजा” यजु० ३८ । २७ । “ताः शुचश्च तत्रैव १८ मन्त्रे उक्ता
यथा “या ते घर्भ! दिवा शुग्या गायत्र्यां हविर्धाने । सा
त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहा । या ते घर्मा-
न्तरिक्षे तस्याः त्रिष्टुभ्याग्नीध्रे सा त आप्यायतामित्यादि
या ते घर्म पृथिव्यां तस्या जगत्यां सदस्या । सा
त आप्यायताम्” इत्यादि । २ आध्यात्मिकादिशोकत्रययुक्ते च ।

त्रिशूल न० त्रीणि शूलानीव अग्राणि यस्य । स्वनामख्याते

अस्त्रभेदे हेमच० । “त्रिशूलं दक्षिणे हस्ते खड्गं चक्रं
क्रमादधः” दुर्गाध्यानम् “त्रिशूलडमरुकरं व्याघ्रकृत्तिं
वसानम्” शिवध्यानम् ।

त्रिशूलखात न० त्रिशूलेन खातम् । तीर्थभेदे “त्रिशूलखातं

तत्रैव तीर्थमासाद्य भारत! । तत्राभिषेकं कुर्वीत
पितृदेवार्च्चने रतः । गाणपत्यञ्च लभते देहं त्यक्त्वा न
संशयः” भा० भ० ५४ अ० ।

त्रिशूलमुद्रा स्त्री त्रिशूलमाकारत्वेनास्त्यस्याः कर्म० । मुद्राभेदे

“अङ्गुष्ठेन कनिष्ठान्तु बद्धा शिष्टाङ्गुलीत्रयम् । प्रसारये-
त्त्रिशूलाख्या मुद्रैषा परिकीर्तिता” तन्त्र, तल्लक्षणमुक्तम्

त्रिशूलिन् पु० त्रिशूलमस्त्यस्य इनि । शिवे “त्र्यक्षोऽभेद्यस्त्रि-

शूली च वृषकेतुर्महाबलः” स्कन्दपु० शिवस्तवः । २
दुर्गायां स्त्री ङीप् । “त्रिशूलिनीं नमस्यामि महिषासुर-
घातिनीम्” हरिवं० १६६ अ० ।

त्रिशृङ्ग पु० त्रीणि शृङ्गाण्यस्य । त्रिकूटपर्वते शब्दरत्ना० ।

“त्रिशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा” हरिवं० २३७
अ० । २ त्रिकोणे । “कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तः”
सारसमुच्चयः ।

त्रिशृङ्गिन् पु० त्रीणि शृङ्गाणि सन्त्यस्य इनि । रोहितमत्स्ये शब्दार्थकल्पतरुः ।

त्रिशोक पु० त्रयः आध्यात्मिका दयः शोका अस्य । १ जीवे

२ कण्वपुत्रे ऋषिभेदे च । “अनु त्रिशोकः शतमावह-
न्नॄन्” ऋ० १० । २९ । २ । त्रिशोको नामर्षिः” भा० ।
“याभिस्त्रिशोक उस्रिया” ऋ० १ । ११२ । १२ “कण्वपुत्रस्त्रिशोक
ऋषिः” भा० ।

त्रिषंयुक्त त्रि० त्रिभिर्हविर्भिः संयुक्तं वेति छन्दसीति

चानुवृत्तौ “पूर्वपदात्” पा० वा वेदे षत्वम् । त्रिभिर्हविर्भिः
संयुक्ते इष्टिभेदे । “ऐन्द्रावैष्णवं चरुं, वैष्णवं त्रिक-
पालं वा पुरोडाशं चरुं वा तेन त्रिषंयुक्तेन यजते”
शत० ब्रा० ५ । २ । ५ । १ । “त्रिषं युक्तेषु” कात्या० श्रौ० १५ ।
२ । ११ । “त्रिभिर्हविर्भिः संयुक्तं कर्म त्रिषंयुक्तम्” संग्र०
व्याख्या । २ त्रिभिः संयुतमात्रे त्रि० । “दक्षिणेऽग्नौ
पावयन्ति पवित्राभिस्त्रिषंयुक्ताभिः” शत० ब्रा० १२ । ९ ।
२३ । १२१ । लोके तु न षत्वम् ।

त्रिषंवत्सर न० त्रयः संवत्र्सराः साधनकाला अस्य वेदे वा

षत्वम् । त्रिवर्षसाध्ये सत्त्रभेदे । “त्रिषंवत्सरं षष्टिदी-
क्षम्” कात्या० श्रौ० २५ । ५३ । १२ “त्रिषंवत्सरं सत्रं तच्च
षष्टिदीक्षं भवति” सं० व्या० त्रिगुणितः संवत्सरः । २ त्रिवर्षे
च । “महातापश्चितं त्रिषंवत्सरोपसत्कम्” कात्या० श्रौ०
२५ । ५ । ६ । “त्रयः संवत्सरा उपसदो यत्र” कर्कः । लोके
तु न षत्वम् । ३ त्रिवर्षसाध्ये वस्तुनि त्रि० ।

त्रिषन्धि त्रि० त्रयः सन्धयोऽस्य वेदे वा षत्वम् । १ त्रिसन्धियुक्ते

“चातुर्मास्यानि त्रिषन्धीनि द्विसमस्तानि तस्मादिमानि
पुरुषस्याङ्गानि त्रिषन्धीनि द्विसमस्तानि” शत० ब्रा० ११ । ५ ।
२ । ७ । “त्रयः सन्धयोऽन्तरालकालाश्चत्वारश्चत्वारी मासा
येषां तानि त्रिसन्धीनि द्विसमस्तानि सुनासीरीयवैश्वदेव
योः फाल्गुनस्य शुक्लचतुर्दश्यां पौर्णमास्यां वा पौर्वाप-
र्य्येणाव्यवहितानुष्ठानात् द्वाभ्यां पर्वभ्यां समस्तानि
संश्लिष्टानि पादतलादधस्तनोपरितनसन्ध्योरुभयोः प्रत्यास-
न्नत्वाद्द्विसमस्तत्वम्” भा० ।

त्रि(तृ)षम त्रि० ह्रस्वे निघण्टुः मायुषेत्यत्र तथा, तृषमेति च पाठान्तरम् ।

त्रिषवण न० सूयते सोमोऽत्र सु--आधारे ल्युट् “पूर्बपदात्” पा०

वा षत्वम् । त्रिकाले प्रातर्मध्याह्नसायाह्नरूपे काले “उपस्पृ-
शंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् । दान्तस्त्रिषवणस्नायी
निवृत्तश्च प्रतिग्रहात्” “कुर्य्यात् त्रिषवणस्नायी कृच्छ्रं
चान्द्रायणं तथा” याज्ञ० । षत्वाभावे लोके च त्रिसवनमप्यत्र

त्रिषष्टि स्त्री बहुत्वेऽपि एकव० त्र्यधिका षष्टिः शा० त० । १ त्र्य-

धिकषष्टिसंख्यायां २ तत्संख्येये च । “चतुःषष्टिस्त्रिषष्टिर्वा
वर्णाः सम्भवतो मताः” शिक्षा । पक्षे त्रय आदेशे त्रयः षष्टि-
रप्यत्र । त्रयश्च षष्टिश्च इति विग्रहेऽपि तदर्थे । “संख्याः”
पा० त० पक्षे पूर्वपदप्रकृतिस्वर इति भेदः । इयांस्तु
भेदः त्रय आदेशे अन्तोदात्तः । तिषष्ट्या युतंशतादि
ड । त्रिषष्ट त्रिषष्टियुतशतादौ त्रि० । ततः पूरणे तमप् ।
पृष्ठ ३३८८
त्रिषष्टितम त्रयःषष्टितम तत्संख्यापूरणे त्रि० । स्त्रियां
ङीप् । पूरणे डट् । त्रिषष्ट त्रयःषष्ट तिषष्टि पूरणे
त्रि० । स्त्रियां ङीप् ।

त्रिषु(सु)पर्ण पु० त्रयः सुपर्णास्तद्वाचकशब्दा यत्र । १ बह्वृ-

चवेदभागभेदे त्रिसौपर्णशब्दे दृश्यं २ तद्व्रते च तद्यो-
गात् ३ तद्ब्रतधारिणि पुरुषे “त्रिणाचिकेबः पञ्चा-
ग्निस्त्रिसु(षु)पर्णः षड़ग्निवित्” मनुः । बा कप् ।
तत्रार्थे “वेदार्थवित् ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः” याज्ञ० ।

त्रिष्टुभ् स्त्री त्रिषु स्थानेषु स्तुभ्यते स्तुभ्--क्विप् षत्वम् ।

एकादशाक्षरपादके वर्णवृत्ते छन्दोभेदे “गायत्र्युष्णिगनु-
ष्टुप् च वृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव”
वृ० र० । प्रस्तावे तस्याः २०४८ भेदाः । “एकादशाक्षरा
वै त्रिष्टुप् गायत्री क्षत्रं त्रिष्टुप्” शत० ब्रा० १ । ३ । ५ । ५ । “तथैव
माध्यन्दिनं सवनमतन्वत” इत्युपक्रमे “एकादशाक्षरा
त्रिष्टुभ् तस्मादाहुस्त्रैष्टुभं माध्यन्दिनं सवनमिति”
शत० ब्रा० ४ । ३ । २ । ८ । २ तच्छन्दोऽभिमानिदेवतायाञ्च ।
“इन्द्र एकादशाचरेण त्रिष्टुभमुदजयत्” यजु० ९ । ३० ।
“इन्द्रो देवः एकादशाक्षरेण छन्दसा त्रिष्टुभं त्रिष्टुप्
छन्दोऽभिमानिनीं देवतामुदजयत्” वेददीपः । प्रसङ्गात्
छन्दोऽभिमानिदेवताः सर्वानुक्तमणिकायां ४ अ० उक्ताः
प्रदर्श्यन्ते । “अथातश्छन्दोदेवता गायत्र्या अग्नि-
रुष्णिहः सविताऽनुष्टुभः सोमोवृहत्या वृहस्पतिः,
पङ्क्तेर्वरुणस्त्रिष्टुभ इन्द्रो जगत्याविश्वे देवा बिराजो
मित्रः, स्वराजो वरुणोऽतिच्छन्दसः प्रजापतिर्विच्छन्दसो
वायुर्द्विपदायाः पुरुष एकपदाया ब्रह्मा । सर्वा
ऋचः आग्नेय्यः सर्वाणि यजूंषि वायव्यानि सर्वाणि
सामानि सौराणि सर्वाणि ब्राह्मणानि च । स्वा-
हाकरस्याग्निर्वषट्कारस्य विश्वे देवाः । कर्मारम्भे
मन्त्राणां देवता वेदितव्याः संन्यस्य मनसि देवतां
ततो हबिर्हूयते देवतामविज्ञाय यो जुहोति देवास्तस्य
हविर्न जुषन्ते । स्वाध्यायमपि योऽधीते मन्त्रदैवतज्ञः
सोऽमुष्मिन् लोके देवैरपीद्ध्यते । तस्माच्च देवता वेद्या
मन्त्रे मन्त्रे प्रयत्नतः । मन्त्राणां देवताज्ञानान्मन्त्रार्थम-
धिगच्छति” । शब्दब्रह्मात्मनः मांसात् तस्या उत्पत्तिः
भाग०३ । १२ । २९ श्लो० उक्ता यथा “तस्योष्णिगासील्लोमभ्यो
गायत्री च त्वचो विभोः । त्रिष्टुम्मांसात् स्नुतोऽनुष्टुब्ज-
त्यस्थ्नः प्रजापतेः । मज्जातः पङ्क्तिरुत्पन्ना वृहती
प्राणतोऽभवत” ।

त्रिष्टोम पु० त्रयः स्तोमा यत्र षत्वम् । क्षत्रधृतियज्ञस्य

उभयतः कर्त्तव्ये यज्ञभेदे । “क्षत्रधृतिः” कात्या० श्रौ० १५ । ९ ।
२४ सू० “तमुभयतः एके त्रिष्टोमज्योतिष्टोमौ” २५ सू० ।
“एके तं क्षत्रधृतिमुभयतः त्रिष्टोमज्योतिष्टोमौ कुर्वन्ति”
सं० व्या० ।

त्रिष्ठ पु० त्रिषु चक्रेषु तिष्ठति स्था--क अम्बाम्बेत्यादिना

षत्वम् । चक्रत्रयस्थिते रथे । “त्रिष्ठं वां सूरे दुहितारु-
हद्रथम्” ऋ० १ । ३४ । ५ । “त्रिष्ठं चक्रत्रयेऽवस्थितं
रथम्” भा० ।

त्रिष्ठिन् त्रि० त्रिषु विद्यादानयज्ञेषु तिष्ठति स्था--वा० इनि

सुषामः० षत्वम् । विद्यादिशीलयुक्ते । “उत्कूतनि कूले-
भ्यस्त्रिष्ठिनम्” यजु० ३ । १४० । “त्रिषु विद्यादिषु स्थितं
शीलवन्तस्” वेददी० ।

त्रिस् अव्य० त्रि + वारे सुच् । त्रिवारे “येन त्रिःसप्तकृत्वो नृपव-

हलवशामांसस्तिष्कपङ्केति” प्रबोधच० । “अनेन विधिना
श्राद्धं त्रिर्वदस्य हि निर्वपेत्” मनुः । “त्रिर्जपेदघमर्षणम्”
स्मृतिः ।

त्रिसन्धि स्त्री त्रयः सन्धयोऽन्तरकाला विकाशेऽस्याः ।

(फागनिया) १ पुष्पभेदे राजनि० । सा त्रिविधा मिता-
ऽमिता रक्ता च । समा० द्वि० । २ पूर्वापरमध्यसन्धौ न० ।

त्रिसन्ध्य न० समाहारद्वि० । प्राह्णपराह्णमध्याह्नरूपे स०

न्ध्यात्रये । “सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन!”
भा० व० ८२ अ० । “करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः”
माघः । “त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा
तिथिः । न तत्र युग्मादरणमन्यत्र हरिवासरात्” ति० त०
पराशरः । कुसुमे (फागनिया) राजनि० ।

त्रिसन्ध्याकुसुमा स्त्री त्रिसन्ध्यं कुसुमं यस्याः । त्रिसन्धि

त्रिसप्तति स्त्री एकव० त्र्यधिका सप्ततिः शा० त० त्रयश्च सप्ततिश्च

द्वन्द्वस० वा । १ त्र्यधिकसप्ततिसंख्यायां २ तत्संख्येये च पक्षे वा
त्रयआदेशे त्रयःसप्तति तत्रार्थे । तत्र त० पूर्वप्रकृतिस्वरः
त्रय आदेशे अन्तोदात्त इति भेदः । ततः पूरणे तमप् ।
त्रिसप्ततितम त्रयःसप्ततितम तत्पूरणे त्रि० स्त्रियां ङीप् ।
पूरणे डट् । त्रिसप्तत तत्रार्थे त्रि० स्त्रियां ङीप् ।
“भीमसेनं त्रिसप्तत्या नकुलं सप्तभिः शरैः” भा० ग० २३ अ० ।
त्रिसप्तत्या युतं शतादि ड । त्रिसप्तत तद्युते शतादौ त्रि० ।

त्रिसप्तन् त्रि० ब० व० त्रिगुणिताः सप्त । १ एकविंशतिसंख्यायाम्

२ तत्संख्येये च । “विद्घा चैनं त्रिसप्तभिः भा० ग० १३ अ० ।
“त्रिसप्तकृत्वः पृथिवीं योजिगाय भृगूत्तमः” हरिवं० ३०४ अ० ।
पृष्ठ ३३८९

त्रिसम न० त्रयः समा यत्र । समहरीतकीनागरगुड़रूपे

पदार्थे राजनि० । समा० द्वि० । २ वर्षत्रये न० ।

त्रिसर पु० कृसर + पृषो० । कृशरे हेमच० ।

त्रिसरक न० त्रिवारं सरकम्, त्रयाणां सरकाणां शीधुपा-

नानां समाहारः पात्रा० न ङीप् वा । त्रिवारे मधुपाने
“प्रातिभं त्रिसरकेण गतानाम्” माघः ।

त्रिसर्ग पु० त्रयाणां सत्त्वरजस्तमसां सर्गः । सत्त्वरजस्तमसां

सर्गे । “यत्र त्रिसर्गो मृषा” भा० १ । १ । १ ।

त्रिसामन् पु० त्रीणि सामानि स्तुतिसाधनानि यस्य ।

१ परमेश्वरे । “त्रिसामा सामगः साम त्रिवर्णो भेषजं
भिषक्” विष्णुसं० । “त्रीणि वेदव्रतसामाख्यानि
तैस्त्रिसामभिः स्तुतस्त्रिसामा” भा० बेदव्रतसामानि च ।
“अधिपताइ मित्र! पताइ सुरपताइ” इत्येवमादीनि
त्रीणि सामानि । २ महेन्द्राद्रेःक्षरन्त्यां नद्याम् स्त्री टाप्
शब्दार्थचि० । “ऋषिकुल्या त्रिसामा कौशिकी इत्यादि”
भाग० ५ । १९ । १८ । भारतवर्षमहानद्युक्तौ ।

त्रिसाहस्र त्रि० त्रीणि सहस्राणि परिमाणमस्य अण्

उत्तरपदवृद्धिः । त्रिभिः सहस्रैः १ परिमिते । स्त्रियां
ङीप् । “त्रिसाहस्र्युत्तमा” कात्या० श्रौ० १७ । ७२३ ।
“उत्तमा चितिः त्रिसाहस्री लोकम्पृणानां भवति” कर्कः ।

त्रिसिता स्त्री त्रिगुणिता सिता शा० त० । त्रिशर्कराशब्दार्थे

राजनि० ।

त्रिसीत्य न० त्रिवारं सीतया समितम् यत् । त्रिःकृत्वः सीतया कृष्टक्षेत्रे अमरः ।

त्रिसुगन्धि न० त्रबाणां सुगन्धिद्रव्याणां समाहारः । “त्वगे-

लापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम्” इत्युक्ते तुल्य-
भागे एलादित्रिके राजनि० । “पिबेद्रसं पुष्पफलोद्भवं
वा सितामधूकत्रिसुगन्धियुक्तम्” सुश्रुतः ।

त्रिसुवर्चक पु० आङ्गिरसे च्यवनरूपे वह्नौ “अग्निराङ्गिरस-

श्चैव च्यवनस्त्रिसुवर्चकः” भा० व० २१९ अ० ।

त्रिसौपर्ण न० त्रिः सुपर्णेन ऋषिणा कृतमण् वृत्तौ त्रिशब्दस्य

सुजर्थता उत्तरपदवृद्धिः । सुपर्णर्षिणा चरिते व्रतभेदे ।
“सुपर्णो नाम तमृषिः प्राप्तवान् पुरुषोत्तमात् ।
तपसा वै सुतप्तेन दमेन नियमेन च । त्रिः
परिक्रान्तवानेतत् सुपर्णो धर्ममुत्तमम् । यस्मात्तस्माद्व्रतं
ह्येतत् त्रिसौपर्णमिहोच्यते । ऋग्वेदपाठपठितं
ब्रतमेतद्धि दुश्चरम् । सुपर्णाच्चाप्यधिगतो धर्म एष
सनातनः । वायुना द्विपदां श्रेष्ठः कथितो जलदायुघा ।
वायोः सकाशात् प्राप्तश्च ऋषिभिर्विघसाशिभिः । ततो
महोदधिश्चैव प्राप्तवान् धर्ममुत्तमम् । अन्तर्दधे ततो
भूयो नारायणसमाहितः” भा० शा० ३५० अ० ।
सुपर्णा एव स्वार्थे अण् त्रयः सौपर्णा यत्र ।
ऋग्वेदे १० । ११४ । ३ । ४ । ५ । मन्त्रत्रिके । ते च
सन्त्राः “चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका
वयुनानि वस्ते । तस्यां सुपर्णा वृषणा निषेदतुर्यत्र
देवा दधिरे भागधेयम्” । ३ “एकः सुपर्णः स समुद्र-
माविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसा
पश्यमन्तितस्तं माता ह्लि स उ रेह्लि मातरम्” । ४ “सुपर्णं
विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति ।
छन्दांसि च दधतो अध्वरेषु ग्रहान्त सोमस्य मिमते
द्वादश” । ५ सुपर्णपदघटिते मन्त्रे विदितं अण् उत्तर-
पदवृद्धिः । ३ परमेश्वरनामभेदे “त्रिसौपर्णं तथा ब्रह्म
यजुषां शतरुद्रियम्” भा० शा० २८६ अ० । “त्रिसौपर्णे विदितं
नाम त्रिसौपर्णमिति तदर्थः” श्रीधरः । त्रिसौवर्णेति
पाठः लिपिकरप्रमादात् ।

त्रिस्कन्ध न० त्रयः स्कन्धा इवावयवा अस्य । ज्योतिःशास्वे

वृ० स० १ अ० तस्य स्कन्धत्रयमुक्तं यथा
“ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम्
तत्कार्त्स्त्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता ।
स्कन्धेऽस्मिन् गणितेम या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः” ।
तेन तन्त्रहोराङ्गनिर्णयाख्यास्तस्य त्रयः स्कन्घाः ।

त्रिस्तन न० त्रयःस्तना दोह्यायत्र । त्रहसाध्ये यज्ञे

प्रथमायामुपसदि दोह्यत्रिस्तनरूपे १ व्रतभेदे “त्रिस्तनं
प्रथमायां दोहयति” कात्या० श्रौ० ८ । २ । १ त्रयःस्तना
अस्या ङीष् । स्तनत्रययुक्ते २ राक्षसीभेदे स्त्री “त्रिस्तनी-
मेकपादाञ्च त्रिजटामेकलोचनाम्” भा० व० २७९ अ० ।

त्रिस्तावा स्त्री त्रिगुणिता तावती वेदिः । “द्विस्त्रावा

त्रिस्त्रावा वेदिः” पा० अच् समा० टिलोपः
समासश्च निपात्यते । प्रकृतौ यावती वेदिः ततस्त्रिगुणे-
ऽश्वमेधाद्यङ्गे वेदिभेदे । वेदिभिन्ने तु त्रिस्तावती रज्ज्वुः”
इत्येव सि० कौ० ।

त्रिस्थली स्त्री त्रयाणां गयाकाशीप्रयागरूपस्थलानां

समाहारद्वि० । काशीगयाप्रयागरूपस्थलत्रिके । तदधिकृत्यैव
त्रिस्थलीसेतुनामा ग्रन्थः अनन्बभट्टेन कृतः ।

त्रिस्थान त्रि० त्रीणि स्थानान्यस्य । १ स्वर्गमर्त्यपातालस्थे

परमेश्वरे २ जाग्रदाद्यवस्थात्रयसाक्षिणि जीवे च ।
पृष्ठ ३३९०

त्रिस्रोतस् स्त्री त्रिषु लोकेषु स्रोतो यस्याः । गङ्गायाम्

“त्रिस्रोतसः कान्तिमतीत्य तस्थौ” कुमा० । “कृताभिषेकै-
र्दिव्यायां त्रिस्रोतसि च सप्तभिः” रघुः ।

त्रिस्रोतसी स्त्री त्रीणि स्रोतांसि सन्त्यस्याम् अच् गौरा०

ङीष् । स्रोतस्त्रययुक्ते नदीभेदे “तथा समुद्राश्चत्वारः ।
नदी भागीरथी च सा” इत्युपक्रमे “लघन्ती गोमती
चैव सन्ध्या त्रिस्रोतसी तथा” भा० स० ९ अ० । वरुण-
सभास्थतीर्थभूतनद्यादिकथने ।

त्रिस्पृशा स्त्री त्रीणि चान्द्रदिनानि एकस्मिन् सावने

दिने स्पृशति स्पृश--क । एकादशीभेदे “यदा
पूर्बदिने दशमी परदिने चैकादशी स्वल्पा ततो द्वादशी
रात्रिशेषे त्रयोदशी सा चैकादशी त्रिस्पृशा” रघु०
“एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । तत्र
क्रतुशतं पुण्यं त्रयोदश्यान्तु पारयेत्” एका० त० धृत
वचनम् । “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
त्रिस्पृशा नाम सा ज्ञेया ब्रह्महत्यां व्यपोहति” संवर्त्त-
वचनम् । अष्टसु महाद्वादशीषु वासरत्रयस्पर्शिन्यां
३ द्वादश्याञ्च द्वादशीशब्दे दृश्यम् ।

त्रिस्नान न० त्रिषु कालेषु स्नानमत्र । त्रिकालस्नानाङ्गे

व्रतभेदे । तच्च वानप्रस्थाङ्गं प्रायश्चित्ताङ्गञ्च । तत्राद्यं
कामन्दकीनीतिशास्त्रे उक्तं यथा “वनवासः
पयोमूलनीवारफलवृत्तिता । प्रतिग्रहनिवृत्तिश्च त्रिस्नानं
व्रतचारिता । देवातिथीनां पूजा च धर्मोऽयं
वनवासिनः” द्वितीयन्तु त्रिषवणशब्दे दर्शितम् ।

त्रिहल्य न० त्रिः हलेन कृष्टं क्षेत्रम् । त्रिवारं हलेन कृष्टेक्षेत्रे अमरः

त्रिहायण त्रि० त्रयो हायना वयोऽस्य णत्वम् । त्रिवर्षे

गवादौ “अथ संस्मारणं कृत्वा लक्षयित्वा त्रिहायणान्”
भा० व० २२१ अ० । स्त्रियान्तु ङीप् । “त्रिहायणी
त्रिवर्षा गौः” अमरः । “वत्सतर्यश्च त्रिहायण्योऽप्रीताः
पञ्चवर्णा राजीवपृश्नयो नवनीतपृश्नयोऽरुणाः पिशङ्ग्यः
सारङ्ग्यः” कात्या० श्रौ० २२ । ९ । २३ । २ द्रोपद्यां ब्रह्मवै०
“कृते युगे वेदवती तेतायां जनकात्मजा । द्वापरे द्रौप-
दी च्छाया तेन कृष्णा त्रिहायणी” जन्मखण्डम् ।

त्रीषु त्रि० त्रय इषवः परिमाणमस्य कन् तस्य लुक् । १ इषुत्रय-

मिते स्थाने । त्रयः इषवो यत्र कप् । २ वाणत्रययुक्ते
धनुषि न० । “त्रीषुकं धनुर्दक्षिणा” कात्या० श्रौ० २५ । ४ ।
४७ । अस्यां त्रिहविष्कायामिष्टौ त्रिभिरिषुभिरुपेतं धनुर्द-
क्षिणेत्यर्थः” सं० व्याख्या ।

त्रीष्टक पु० त्रिस्तः ऋगादिरूपा इष्टका यस्य । अग्नि-

भेदे “स एष त्रीष्टको अग्निः । ऋगेका यजुरेका सामैका
तद्यां कां चात्रर्चोपदधाति रुक्म एव तस्या आयतन-
मथ यां यजुषा पुरुष एव तस्या आयतनमथ यां साम्ना
पुष्करपर्णमेव तस्या आयतनमेवं त्रीष्टकम्” शत० ब्रा०
१० । ५ । २ । २१ ।

त्रुट छेदने वा दिवा० पक्षे तुदा० कु० पर० अक० सेट् । त्रुट्यति

त्रुटति अत्रु(त्रो) टीत् । तुत्रोट । छेदश्चात्र अबयवद्विधा-
भाव मात्रम् “यावन्मे दन्ता न त्रुट्यन्ति” हितो० “त्रुटितं
पयोधरतटे हारं पुनर्योजय” सा० द० । “त्रुटित इव
मुक्तामणिसरः” उत्तर० ।
  • वि + विरुजीकरणे सक० । “कण्टकैरेना विरुजेयुः” कात्या०
श्रौ० २३ । ३ । २२ । “विरुजेयुः वित्रुट्येयुः” स० व्याख्या ।

त्रुट छेदने चुरा० आ० सक० सेट् । त्रोटयते अतुत्रुटत ।

त्रुटि(टी) स्त्री कुटा० त्रुट--इन् वा ङीप् ।

१ सूक्ष्मैलायां २ अल्पे ३ संशये ४ कालभेदे च अमरः
स च “योऽक्ष्णोर्निमेषस्य खराम३०भागः स तत्परस्त-
च्छतभाग उक्ता । त्रुटिर्निमेषैर्धृति१८ भिश्च काष्ठा तत्त्रिं-
शता सद्गणकैः कलोक्ता” सि० शि० उक्तेः तत्परस्य
शतभागकालरूपः । “क्षणद्वयात्मकः कालस्त्रुटिरिति”
ऽभरतः तन्मूल्यं मृग्यम् । तदपेक्षया क्षणस्य भाग०
अधिककालतोक्तेः तस्यामूर्त्तत्वात् क्षणस्य मूर्तत्वाच्च तथा
हि “प्राणादिः कथितो मूर्त्तस्त्रुट्याद्योऽमूर्त्तसंज्ञकः”
सू० सि० “त्रुटिराद्या यस्य तादृशः कालः एकप्राणा-
न्तर्गतत्रुटितत्परादिकोऽमूर्त्तसंज्ञकः व्यवक्षारायोग्यत्वे-
नास्यामूर्त्तवम् । माग० ३ । ११ । ५, ६ । अन्यथा मानमुक्तं
यथा “अणू द्वौ परमाणुः स्यात् त्रसरेणुस्त्रयः स्मृतः ।
ज्वालार्करश्म्यवगतः खमेवानुपतन्नगात् । त्रसरेणुत्रयं
भुङ्क्ते यः कालः सः त्रुटिः स्मृता । शतभागस्तु वेधः
स्यात्तैस्त्रिभिस्तु लवः स्मृतः । निमेषस्त्रिलवो ज्ञेय
आम्नातस्ते त्रयः क्षणः” । “मरुतः सह पर्जन्याः
कलात्रुटिलवक्षणाः” हरिवं० १६८ अ० । “शुक्लस्त्वं बहुलस्त्वञ्च
कला काष्ठा त्रुटिस्तथा” भा० आ० २५ अ० । “प्राण-
त्रुटित्रुट्यबयवाद्यकालस्य क्षेत्रस्य च वेत्ता” वृ० सं०२ अ० ।
२ कुमारानुचरमातृभेदे “केशयन्त्री त्रुटिर्नाम क्रोशना
तु तड़ित्प्रभा” भा० ग० ४७० भातृगणोक्तौ । भावे
इन् । ३ अवयवादिहीनतायाम् ।

त्रुटिवीज पु० त्रुटिरल्पं वीजमस्य । कचौ मूलभेदे शब्दमा० ।

पृष्ठ ३३९१

त्रुटिशस् अव्य० त्रुटि + वीप्सार्थे शस् । त्रुटिस्त्रुटिरित्या-

द्यर्थे । “त्रुटिशोलवशश्चापि गण्यते कालनिश्चयः” भा०
उ० ११८ अ० ।

त्रुन्प(म्प) बधे भ्वा० पर० सक० सेट् । त्रुम्पति अत्रुम्पीत् ।

नोपधत्वेक्विपि त्रुप् त्रु पौ मोपधत्वे त्रुन् त्रुम्पौ इति
भेदः ।

त्रुन्फ(म्फ) बधे म्बा० पर० सक० सेट् । त्रुम्फति अत्रु-

म्फीत् । नीपधत्वे क्विपि त्रुप् त्रुफौ मोपधत्वे त्रुन्
त्रुम्फौ इति भेदः ।

त्रुप(फ) बधे भ्वा० पर० सक० सेट् । त्रोप(फ)ति अत्रोपी(फी)त् । तुत्रोप (फ)

त्रेता स्त्री त्रित्वमिता पृषो० । दक्षिणाग्निगार्हपत्याहवनीया-

त्मके समुदिते १ अग्नित्रये, सत्ययुगामन्तरवर्त्तिनि
युगभेदे, द्यूतक्रीड़ासाधनस्याक्षस्य यस्मित् पार्श्वे त्रयोऽङ्का-
स्तस्य पार्श्वस्य उत्तानतया ३ पतने, द्यूतविशेषे वराट-
कानां मध्ये त्रयाणामुत्तानतया ४ पतने च “त्रेतथा
हृतसर्वस्वः” इति मृच्छकटिका । अयशब्दे ३३४ पृ० दृश्यम्
“त्रेतायुगमानञ्च दिव्यमानेन ३००० वर्षाः आदौ
सन्ध्या ३०० । अन्ते सन्ध्यांशः ३०० मिलिताः
३६०० । वर्षाः मानुषमानेन ३६० गुणिता १२९६०००
वर्षाः । यथाह मनुः “चत्वार्य्यहुः सहस्राणि वर्षा-
णान्तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यां-
शश्च तथाविधः । इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च
त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च” । सि०
शि० “खखाभ्रदन्तसागरैर्युगाग्नियुग्मभूगुणैः । क्रमेण
सूर्य्यवत्सरैः कृतादयोयुगाङ्घ्रयः । स्वसन्ध्यकातदंशकै-
र्निजार्क१२ भागसम्मितैः । युताश्च तद्युता युगं रदाब्धयो-
ऽयुताहताः” । खखाभ्रदन्तसागरैः ४३२००० अङ्कैस्त्रिभि-
र्गुणितैस्तन्मिता वर्षा त्रेतामानं तत्रापि त्रेतादौ सन्ध्या-
मानं १०८००० त्रेतामानं १०८०००० वर्षाः । त्रेतान्ते
सन्ध्यांशमानम् १०८००० । मिलित्वा १२९६०००
वर्षाः त्रेतामानम् । स्पष्टमुक्तं ब्रह्मवै० प्र० ख० “द्वि-
षट्लक्षपरिमितं षण्णवतिसहस्रकम् । त्रेतायुगं
परिमितं कालविद्भिः प्रकीर्तितम्” ।
“दण्डनीत्यां यदा राजा त्रीनंशाननुवर्त्तते । चतुर्थमंश-
मुत्सृज्य तदा त्रेता प्रवर्त्तते । अशुभस्य चतुर्थांशस्त्री-
नंशाननुवर्त्तते । कृष्टपच्यैव पृथिवी भवन्त्योषधय-
स्तथा” । “राजा कृतयुगसृष्टा त्रेताया द्वापरस्य च ।
युगस्य च चतुर्थस्य राजा भवति कारणम् । कृतस्य
कारणाद्राजा स्वर्गमत्यन्तमश्नुते । त्रेतायाः कारणा-
द्राजा स्वर्गं नात्यन्तमश्रुते” भा० शा० ६९ अ० । तद्धर्माश्च
“त्रेतायुगे समायाते धर्मः पादोनतां गतः । अल्प-
क्लेशान्विता लोकाः केचित्, केचिद्दयाशयाः । विष्णुध्याग-
रता लोका यज्ञदानपरायणाः । वर्णाश्रमाचाररताः
सुखिनः सुस्थचेतसः । क्षत्रा भूमिस्पृशः शूद्राः सर्वे
ब्राह्मणसेविनः । ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपा-
रगाः । प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ।
तपोव्रतपरा नित्यं दातारो विष्णुसेविनः । कालवर्षीं तड़ि-
त्वांश्च स्त्रियः सर्वाः पतिव्रताः । वसुन्धरा च शस्याढ्या
पुत्राश्च पितृसेविनः” इति पाद्ने क्रियायोगसारोक्ताः ।
“अत्राहाद्या भगवती जीवानां निष्कृतिं यथा । कृते
व्यतीते त्रेतायां दृष्ट्वा धर्मव्यतिक्रमम् । वेदोक्तकर्मभि-
र्मर्त्या न शक्ताः स्वेष्टसाधने । बहुक्लेशकरं कर्म बैदिकं
भूरिसाधनम् । कर्तुं न योग्यामनुजाश्चिन्ताव्याकुलमा-
नसाः । त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः ।
वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले । तदा त्वं
प्रकटीकृत्य तपःस्वाध्यायदुर्बलान् । लोकानतारयः
पापात् दुःखशोकमयप्रदात् । त्वां विना कोऽस्ति
जीवानां घोरसंसारसागरे । भर्त्ता पाता समुद्धर्त्ता पितृवत्
प्रियकृत् प्रभुः” इति श्रीमहानिर्वाणतन्त्रे जीवोद्धारण-
हेतये सदाशिवं प्रति जगन्मातुः वाक्यम् । तस्मिन्
युगे पुरुषायुषकालश्च त्रिशतवर्षो मनुनोक्तो यथा “चतुष्पात्
सकलो धर्मः सत्यञ्चैव कृते युगे । नाधर्मेनागमः कश्चि-
न्मनुष्यान् प्रतिवर्त्तते । इतरेष्वागमाद्धर्मः पादशस्त्वव-
रोपितः । चौरिकानृपमायाभिर्धर्मश्चापैति पादशः ।
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेता-
दिषु ह्येषामायुर्ह्रसति पादशः । वेदोक्तमायुर्मर्त्या-
नामाशिषश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभा-
वश्च शरीरिणाम्” ।
पुराणान्तरे अयुतवर्षास्तत्काल उक्तः अतएव
“दशवर्षसहस्राणि रामो राज्यमकारयत्” इत्यादि सङ्गच्छते ।
तपसा आयुःकालाधिक्यमिति न मनूक्तिविरोधः इति
तु न्याय्यम् ।
“धर्माद्यो हि यथा त्रेता वह्निस्त्रेता तथैव च । तथैव
पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः” भा० आश्व० ९०
अ० । अग्नित्रयस्य त्रेतानामनिरुक्तिर्यथा “त्रिधा
प्रणीतो ज्वलनो मुनिभिर्वेदपारगैः । अतस्त्रेतात्वमा-
पन्नो यदेकस्त्रिविघः कृतः” हरिवंशे २१३ अध्याये ।
पृष्ठ ३३९२

त्रेताय पु० त्रेतानामकोऽयः । द्यूतभेदे कृतायशब्दे दृश्यम् ।

त्रेतिनी स्त्री त्रेता अस्त्यत्र इनि ङीप् । त्रेताग्नि-

साध्यक्रियायाम् “ऊर्द्धा यत्ते त्रेतिनी भूत्” ऋ० १० ।
१०५ । ९ ।

त्रेधा अव्य० त्रि + प्रकारे एधाच् । त्रिप्रकारे “इदं विष्णु-

र्विचक्रमे त्रेधा निदधे पदम्” ऋ० १ । २२ । १७
“एकस्त्रेधा विहितो जातवेदाः” अथ० १८ । ४ । ११ । “तुभ्यं
त्रेधा स्थितात्मने” कुमा० ।

त्रै प्रालने भ्वा० आ० सक० अनिट् । त्रायते अत्रास्त । त्राणः

त्रातः । “मृत्योरात्मानं त्रायते” शत० ब्रा० २ । २ । ४ । ७ ।
“गायन्तं त्रायते यस्मात् गायत्त्री तेन कीर्तिता” स्मृतिः
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः” मनुः ।
“ज्ञातेयं कुरु सौमित्रे! भयात् त्रायस्व राघवम्”
भट्टिः ।

त्रैंश न० त्रिंशदध्यायाः परिमाणमस्य ब्राह्मणस्य ड । त्रिंशदध्यायपरिमिते ब्राह्मणभेदे ।

त्रैककुद न० त्रिककुद् नाम पर्वतः तत्र भवः अण् । सौरा-

ञ्जने । “वृत्रस्येत्यक्ष्यावनक्तित्रैककुदाञ्जनेनाभावेऽन्यद्द्विर्द-
क्षिणं त्रिरुत्तरं पराक्सकृत्सकृत्मन्त्रः शरेषीकया साग्रया”
कात्या० श्रौ० ७ । २ । ३४ । “अध्वर्य्युः साग्रया शरेषीकया
शरस्याग्रशलाकया त्रैककुदाञ्जनेन सौवीराञ्जनेन
यजमानस्य अक्ष्यौ चक्षुषी अक्षिणी पराक् अनावृत्तमनक्ति-
नेतश्चामुतश्च तत्र दक्षिणं चक्षुर्द्विरनक्ति उत्तरं त्रिवा-
रम् । तत्राञ्जनमन्त्रः सकृत् सकृत्पठनीयः । त्रिककुत्
पर्वतस्तत्र भवमञ्जनं त्रैककुदं सौवीरमिति यत् प्रसि-
द्धम् । त्रैककुदाभावेऽन्यत् लीकपसिद्धं यत् कज्जलादि ।
आपस्तम्बः “वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्ते
यटि त्रैककुदं नाधिगच्छेद्येनैव केनाञ्जनेनाञ्जीतेति”
कर्कः । “त्रैककुटं भवति । यत्र वा इन्द्रो वृत्रमहंस्तस्य
यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यद्त्रैककुदं भवति
चक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदं भवति यदि त्रैक-
कुदं न विन्देदप्यत्रैककुदमेव स्वात् समानी ह्येवाञ्जनस्य
बन्धता” शत० ब्रा० ३ । १ । ३ । १२ ।

त्रैकालिक त्रि० त्रिकाले भवः ठञ् । १ भूतभविष्यद्वर्त्तमान-

कालषर्तिनि “त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं
तथेपमितम्” भा० शा० ३४२ अ० । २ त्रिसन्ध्यव्यापके च ।

त्रैकाल्य न० त्रिकाल + स्वार्थे ष्यञ् । भूतादिषु त्रिषु कालेषु ।

“क्षणालवाश्च काष्ठाश्च कलास्त्रैकाल्यमेव च” हरिवं-
४१ अ० । “त्रैकाल्यसन्ध्याकरणात् तत् सर्वं विप्रण-
श्यति” याज्ञ० ।

त्रैगर्त्तक त्रि० त्रिगर्तस्य देशभेदस्यादूरदेशादि चतुरर्थ्यां

अरीहणा० वुञ् । त्रिगर्त्तदेशस्यादूरदेशादौ ।

त्रैगुणिक त्रि० त्रिगुणार्थं द्रव्यमेकगुणं प्रयच्छति । “तत्

“प्रयच्छति गर्ह्यम्” पा० ठक् । त्रिगुणमादातुमेकगुण-
द्रव्यप्रयोक्तरि वार्द्धुषिकभेदे ।

त्रैगुण्य न० त्रिगुणानां भावः कर्म वा स्वार्थे ष्यञ् तेन

निर्वृत्तं वा । १ सत्वादिगुणत्रये २ तद्भावे ३ तत्साध्ये संसारे च
“त्रैगुण्यविषया बेदानिस्त्रैगुण्योभवार्जुन!” गीता ।
“अविवेक्यादेः सिद्धिस्त्रैगुण्यात्तद्विपर्य्ययेऽभावात्” “पुरु-
षबहुत्वं सिद्धं त्रैगुण्यविपर्य्ययाच्चैव” सा० का० ।

त्रैत पु० त्रीन् वत्सान् तनोति युगपत् तन--बा० ड त्रितो

गर्भभेदस्तत्र भवः अण् । युगपज्जन्माधायकगर्भजाते पशौ ।
“रूपेणैवावरुद्धे सौमापौष्णं त्रैतमालभेत पशुकामो
द्वौ वा अजायै स्तनौ नानैव द्वावभिजायेते ऊर्जं पुष्टिं
तृतीयः” तै० स० २ । १ । १ । ६ “त्रयाणां वत्सानां युगप-
ज्जातानां तः समुदायस्त्रितः तत्र भवस्त्रैतः तेषामन्य-
तमः इत्यर्थः । त्रयाणामुत्पत्तौ प्रयोजनमेवमुन्नेयम् अजाया
स्तावद्द्वौ स्तनौ प्रसिद्धौ तौ नानैव पृथगेव पातुं
द्वौ वत्सौ जायेते मातृरूपायामजायां येयमूर्क् पयःसारं
या च शरीरगता पुष्टिस्तदुभयं ख्यापयितुं तृतीयो
वत्स उत्पन्नः द्वावेव हि सर्वत्र जायेते तृतीयस्तु क्वचि-
देव तथा सति यस्यां तृतीयो जातस्तस्याः शरीरे वीर्य्या-
धिक्यं पुष्ट्याधिक्यञ्चास्तीति लक्षयितुं शक्यते” भा०
अत्र भाष्ये समुदेत्यस्मिन् इत्याधारे अग्वि गर्भपरतेति
बोध्यम् ।

त्रैतन पु० अत्यन्तनिर्घृणे टासभेदे । “शिरो यदस्य त्रैतनो

वितक्षत् स्वयं दासः” ऋ० १ । १५८८ । ५ । “त्रैतन एतन्ना-
मको दासोऽत्यन्तनिर्घृणः” भा० ।

त्रैदशिक न० त्रिदशा देवता अस्य ठञ् । दैवे अङ्गुल्यग्ररूपे

तीर्थे । “ब्राह्मेण विप्रस्तीर्थन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्रेण कटाचन” मनुः ।

त्रैधस् अव्य० त्रि + प्रकारे धमुञ् । त्रिप्रकारे “व्रताशक्तौ

वा त्रैधं तण्डुलान् विभज्य” कात्या० श्रौ० २५ । ४ । ४०
“सर्वमेव हठैनैके दैवेनैके वदन्त्युत । पुंसः प्रयत्रजं
किञ्चित्त्रेधमेतन्निरुच्यते” भा० व० ३२ अ० ।

त्रैधर्म्म्य न० त्रयाणां वेदानां धर्म्मान् हौत्राध्वर्य्यवौद्गात्रान-

र्हति ष्यञ् । ऋगादिवेदसम्बन्धिहौत्राध्वर्य्यवौद्गात्रार्हे
ज्योतिष्टोमादौ काम्यकर्म्मणि ।
पृष्ठ ३३९३

त्रैधातवी स्त्री उदवसानीयाख्ये इष्टिभेदे “तस्य योनि-

राशय आस । तमनु परामृश्य संलुप्याच्छिनत् सैषेष्टिर-
भवत् तद्यदेतस्मिन्नाशये त्रिधातुरिवैषाविद्याशेत तस्मा-
त्त्रैधातवी नाम” शत० ब्रा० ५ । ५ । ५ । ६ । “सर्वा इष्टी-
रपि दर्विहोमान्यो राजसूयेन यजते देनसृष्टो वा
एषेष्टिर्यत्त्रैधातवी” ११ । “त्रैधातब्युदवसानीयासावेव
बन्घुः” शत० ब्रा० १३ । ६ । २ । १७ । “त्रैघातव्युदवसा-
नीया सर्वत्र” कात्या० श्रौ० १३ । ४ । ८ ।

त्रैधातवीय न० त्रिधातवी + गहा० छ । इष्टिभेदाङ्गकर्मभेदे

“सर्वो वा एष यज्ञो यत्त्रैधातवीयम्” तैत्ति० स० २ । ४ । ११ । २ ।

त्रैधातुक त्रि० त्रिभिः धातुभिः स्वर्णरौप्यताम्रैः निर्वृत्तः

ठञ् । स्वर्णादिधातुत्रयनिष्पाद्ये ।

त्रैनिष्किक त्रि० त्रिभिः निष्केः क्रीतम् ठक् । त्रिनिष्क-

क्रीते । तस्य वा लुक् । त्रिनिष्क अप्यत्र ।

त्रैपारायणिक त्रि० त्रिः पारायणमावर्तयति ठञ् । त्रि-

वारं बेदपारायणकारके ।

त्रैपुर पु० त्रिपुर + स्वार्थे अण् । १ त्रिपुरदेशे हेमच० । त्रि-

पुरोऽभिजनोऽस्य तस्य राजा वा अण् । २ पित्रादिक्रमेण
तद्वासिनि ३ त्रिपुराधीशे च बहुषु अणो लुक् । “मेल-
कैस्त्रैपुरैश्चैव चिच्छलैश्च समन्वितः” भा० भी० ८८ अ० ।
आर्षत्वात् बहुषु अणो न लुक् । त्रिपुरं पुरत्रयमस्त्यस्य
अण् । त्रिपुरस्वामिषु ४ असुरभेदेषु त्रिपुरशब्दे दृश्यम् ।
“येनोद्धृतास्त्रैपुरा मायिनो वै दग्धाघोरेण वितथान्ताः
शरेण” हरिवं० १३१ अ० ।

त्रैपुरुष त्रि० त्रीन् पुरुषान् व्याप्नोति अण् आर्षे पूर्वपद-

वृद्धिः । त्रिपुरुषव्यापके । “ब्राह्मणानिन्दिता राजन्!
हन्युस्त्रैपुरुषं कुलम्” भा० आनु० ९० अ० । लोके तु
उत्तरपदवृद्धिः त्रिपौरुष इत्येव ।

त्रैफल न० त्रिफलानां तदाद्यद्रव्याणामिदम् अण् ।

चक्रदत्तोक्ते वृतभेदे । यथा “त्रिफलां त्र्यूषणं
द्राक्षां मधुकं कटुरोहिणीम् । प्रपौण्डरीकं सूक्ष्मैलां
विड़ङ्गं नागकेसरम् । नीलोत्पलं शारिवे द्वे चन्दनं
रजनीद्वयम् । कार्षिकं पयसा तुल्यं त्रिगुणं त्रिफला-
रसम् । घृतप्रस्थं पचेदेतत् सर्वनेत्ररुजापहम् ।
तिमिरं दोषमास्रावं कामलां काचमर्बुदम् । वीसर्पं
प्रदरं कण्डूं रक्तं श्वयथुमेव च । खालित्मं पलित-
ञ्चैव केशानां पतनन्तथा । विषमज्वरमर्माणि शुक्र-
ञ्चाशु व्यपोहति । अन्ये च बहवो रोगा नेत्रजा ये च
वर्त्मजाः । तान् सर्वान् नाशयत्याशु भास्करस्तिमिरं
यथा । न चैवास्मात् परं किञ्चिदृषिभिः काश्यपादिभिः ।
दृष्टिप्रसादनं दृष्टं यथा स्यात् त्रैफलं घृतम्” ।

त्रैबलि पु० ऋषिभेदे “दामोष्णीषस्त्रैबलिश्च पर्णादो

वरजानुकः । मौञ्जायनो वायुभक्षः पाराशर्य्यश्च सारिकः
भा० स० ४ अ० ।

त्रैमातुर पु० तिसृणां मातृणामपत्यम् अण् मातुरुत् ।

तिसृणां कौशल्यकेकयीसुमित्राणां स्नेहभाजनत्वेन
तदीयांशपायसभोजनेन जनिते लक्ष्मणे “त्रैमातुरः
कृत्सृजितास्त्रशसत्रः” भट्टिः । “सहि सुमित्रया,
स्वांशपिण्डद्वयप्रदानात्ताभ्याञ्च जनितः” जयम० ।
तत्कथा रामायणे दर्शिता यथा “पायसं प्रति-
गृह्णीथाः पुत्रीयं त्विदमात्मनः । कौशल्यायै नरपतिः
पायसार्द्धं ददौ तदा । अर्द्धादर्द्धं ददौ चापि सुमि-
त्रायै नराधिपः । कैकेत्य्यै चावशिष्टार्द्धन्ददौ पुत्रार्थ-
कारणात् । प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम् ।
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवन्तासां
ददौ राजा भार्य्याणां पायसं पृथक् । ताश्चैव पायसं
प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः । सम्मानं मेनिरे सर्वाः
प्रहर्षो दितचेतसः । ततस्तु ताः प्राश्य तमुत्तमस्त्रियो
महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेज-
सोऽचिरेण गर्भान् प्रतिपेदिरे तदा” आ० १६ स० ।

त्रैमासिक त्रि० त्रिमासं तृतीयमासं भूतः स्वसत्तया प्राप्तः

“तमधीष्टो भूतो भावी” पा० ठञ् वृत्तौ त्रिशष्दस्य पूरणा-
र्थत्वेन संख्यावाचकत्वाभावात् न द्विगुत्वं तेन “द्विगो-
र्लुगनपत्ये” पा० न लुक् । स्वसत्तया जन्मतस्तृतीय-
मासव्यापके त्रिमासवयस्के “तोकेन जीवहरणं
यदुलूकिकायास्त्रैमासिकस्य च पदा शकटोऽपवृत्तः” भाग०
२ । ७२८ । २ त्रिमामभवे च ।

त्रैमास्य न० त्रिमास + स्वार्थे ष्यञ् । त्रिमासे “अर्द्धमास-

मासत्रैमास्यषाण्मास्ये चैके” का० श्रौ० २० । ३ । ६ ।

त्रैयम्बक त्रि० त्रियम्बको देवता अस्य । “त्र्यम्बकदेवताके

१ पशुभेदे । “पृषन्तस्त्रैयम्बकाः” यजु० ३४ । १८ । “विंशे
यूपे त्रियम्बकदेवताकाः पृषन्तः” वेददी० । २ होमभेदे पु०
“त्रैयम्बकान् बक्ष्यामि” इत्युपक्रमे कात्या० श्रौ० २ ।
१० । १० । “निर्वपति रौद्रानित्यादिना ते होमाः दर्शिताः
पृष्ठ ३३९४
रुद्रदेवताके ३ धनुर्विद्याभेदे च । “वेदं षड़ङ्गं वेदाह-
मर्थविद्याञ्च मानवीम् । त्रैयम्बकमथेष्वस्त्रमस्त्राणि
विविधानि च” भा० द्रो० १७ अ० । ४ रुद्रदेवताके
बल्यादौ त्रि० “निशायां नैत्यिकं चेरुर्नैशं त्रैयम्बकं
बलिम्” भा० द्रो० ७९ अ० ।

त्रैयाहावक त्रि० त्र्याहावे देशभेदे भवः धूमा० वुञ् । “न

य्वाभ्यां पदान्ताभ्यां पूर्वं ताभ्यामैच्” पा० वृद्धिनिषधात्
ऐच् । त्र्याहावदेशभवे ।

त्रैराशिक त्रि० त्रीन् राशीन् अधिकृत्य प्रवृत्तम् ठञ् ।

लीलावत्युक्ते राशित्रयाधिकारेण अनुपातरूपे गणित-
भेदे तत्प्रकारश्च क्रमव्यस्तभेदसहितो लीला० उक्तो यथा
“त्रैराशिके करणसूत्रं वृत्तम् । प्रमाणमिच्छा च
समानजाती आद्यन्तयोस्तः फलमन्यजाति । मध्ये,
तदिच्छाहतमाद्यहृत् स्यादिच्छाफलं व्यस्तविधिर्विलोमे ।
उदाहरणम् । कुङ्कुमस्य सदलं पलद्वयं निष्कसप्त-
मलवैस्त्रिभिर्यदि । प्राप्यते सपदि मे बणिग्वर! ब्रूहि
निष्कनवकेन तत्कियत् । न्यासः ३७ । ५ २ । ९१ ।
लब्धानि कुङ्कुमपलानि । ५२ । कर्षौ । २ ।
अपि च प्रकृष्टकर्पूरपलत्रिषष्ट्या चेल्लभ्यते निष्कचतुष्क-
युक्तम् । शतं तदा द्वादशभिः सपादैः पलैः किमाचक्ष्व
सखे! विचिन्त्य । न्यासः ६३ १ १०४१ ४९४ ।
इच्छागुणितम्फलम् । ५०९६४ । छेदभक्तम् । १२७४ ।
आद्येन । ६३ । हृतं लब्धा निष्काः । २० । शेषम् ।
१४ । षोड़शगुणितम् । २२४ । आद्येन भक्तं
जाताद्रम्माः । ३ । एवं पणाः । ८ । काकिण्यः । ३ ।
वराटकाः । ११ । भागाश्च १९ । पुनश्च ।
द्रम्मद्वयेन साष्टांशा शालितण्डुलखारिका । लभ्या चेत्-
पणसप्तत्या तत्किं सपदि कथ्यताम् । अत्र प्रमाणेच्छयोः
सजातीयकरणार्थं द्रम्मद्वयस्य पणीकृतस्य न्यासः
३३१ । ९८ । ७०१ । लब्धे खार्य्यौ । २ । द्रोणाः ।
७ । आढ़काः । १ । प्रस्थौ । २ । इति क्रमत्रैराशिकम् ।
अथ व्यस्तं त्रैराशिकम् । इच्छावृद्धौ फले ह्रासो ह्रासे
वृद्धिश्च जायते । व्यस्तं त्रैराशिकं तत्र ज्ञेयं गणित-
कोविदैः । यत्र इच्छावृद्धौ फले ह्रासः ह्रासे वा फले
वृद्धिस्तत्र व्यस्तं त्रैराशिकं स्यात् । तद्यथा । जीवानां
वयसोमौल्ये तोल्ये वर्णस्य हेमनि । भागहारे च
राशीनां व्यस्तं त्रैराशिकं भवेत् । जीवययोमूल्ये
उदाहरणम् । प्राप्नीति चेत् षोड़शवत्सरा स्त्री द्वात्रिं-
शतं विंशतिवत्सरा किम् । द्विधूर्वहो निष्कचतुष्कमुक्षा
प्राप्नोति धूःषट्कवहस्तदा किम् । न्यासः । १६ । ३२ । २० ।
लब्धं २५३५ । द्वितीयन्यासः । २ । ४ । ६ । लब्धं
११३ । वर्णीयसुवर्णतोल्ये उदाहरणम् । दशवर्णं
सुवर्णं चेद्गद्यानकमबाप्यते । निष्केण तिथिवर्णन्तु तदा
वद कियन्मितम् । न्यासः १० । १ । १५ । लब्धं २३२३ ।
राशिभागहरणे उदाहरणम् । सप्ताढ़केन मानेन
राशौ शस्यस्य मापिते । यदि मानशतं जातं तदा
पञ्चाढ़केन किम् । न्यासः ७ । १००० । ५ । लब्धम् १४० ।”
“अस्ति त्रैराशिकं वीजं पाटी च विमला मतिः ।
किमज्ञातं सुबुद्धीनामतो मन्दार्थमुच्यते” लीला० ।

त्रैरूप्य न० त्रिरूपस्य भावः ष्यञ् । त्रिधारूपे “चात् यत्

तेन त्रैरूप्यम्” सि० कौ० ।

त्रैलिङ्ग न० त्रीणि सत्वरजस्तमांसि पुंस्त्रीक्लीवरूपाणि वा

लिङ्गान्यस्य, तस्येदम् वा अण् । त्रिलिङ्गप्रधानकार्य्ये ।
“पुमांश्चैवाऽपुमांश्चैव त्रैलिङ्गं प्राकृतं स्मृतम् । न
वाऽपुमान् पुमांश्चैव त्रैलिङ्गीत्यभिधीयते” भा० शा० ३०७ अ० ।

त्रैलोक्य न० त्रिलोक्येव स्वार्थे ष्यञ् । स्वर्गमर्त्यपाताल-

लोके । “तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्”
मनुः । “त्रैलोक्ये यानि रत्नानि साम्प्रतं भान्ति ते गृहे”
देवीमा० । “प्रसूतिं चकमे तस्मिन् त्रैलोक्यप्रभवोऽपि यत्”
रघुः । आर्षे तु क्वचित् स्वार्थे अण् । त्रैलोक तत्रार्थे ।
“तत् प्रेक्ष्य तादृशं रूपं त्रैलोकेनापि दुर्जयम्” भा० शा०
२८२ अ० ।

त्रैलोक्यमोहन न० त्रैलोक्यं मोहयति मुह--णिच्--ल्यु ।

तन्त्रोक्ते ताराकवचभेदे । “तारापूजा श्रुता नाथ!
विद्याश्च सकलास्ततः । साम्प्रतं श्रोतुमिच्छामि कवचं मन्त्र-
विग्रहम् । त्रैलोक्यमोहनं नाम सर्वापद्विनिवारकम् ।
पुरैव सूचितं नाथ! कृपया मे प्रकाशय” भैरव उवाच
“देवदानवविद्याधृक्पूजिते! प्राणवल्लभे! । त्रैलोक्यमों-
हनं नाम कवचं श्रूयतां वरम्” । इत्युपक्रम्य दर्शितम् ।

त्रैलोक्यविजया स्त्री त्रैलोक्यं विजयते सेवने स्वाधीनं

करोति वि + जि--अच् । भङ्गायाम् (भाङ) शब्दच० ।

त्रैवण त्रि० त्रिवणस्य वनत्रयस्येदम् शिवा० अण् त्रिवणसम्ब-

न्धिनि सोऽस्यास्तीति उत्करा०छ । त्रैवणीय तद्युक्ते त्रि०

त्रैवणि स्त्री त्रिवणस्य ऋषेरपत्थम् इञ् । त्रिवणस्यर्षेर-

पत्ये । “त्रैवणेस्त्रैवणिः” शत० ब्रा० १४ । ५ । ५ । २१ ।
पृष्ठ ३३९५

त्रैवर्गिक त्रि० त्रिवर्गाय हितं बा० ठञ् । १ धर्मार्थकाम-

साधने कर्म्मादौ । “संस्थां विज्ञाय संन्यस्य कर्म्म त्रैव-
र्गिकञ्च यत्” भा० ग० २ । ४ । ५ स्त्रियां ङीप् । “सिद्धि-
स्त्रैवर्गिकी यतः” भाग० ३ । १४ । १५ । त्रिवर्गे प्रसृतः
ठञ् । २ त्रिवर्गरते । “त्रैवर्गिक्यास्ते पुरुषा विमुखा
हरिमेधसः” भाग० ३ । ३२ । १४ ।

त्रैवर्ग्य त्रि० त्रिवर्गे साधुः ष्यञ् । त्रिवर्गसाधने धनादौ

“त्रैवर्ग्यार्थो यतो नित्यं कृतान्तभयसयुतः” भाग०
४ । २ । १३३ ।

त्रैवर्णिक त्रि० त्रिषु वर्णेषु विहितः ठञ् । १ ब्राह्मणा-

दित्रयरूपद्विजातिधर्म्मे । स्वार्थे ठञ् । २ द्विजातौ च
“त्रैवर्णिकानामराजकेषु राष्ट्रेषु परराष्ट्रपरचक्रागमना-
दिजनिते स्त्रीसङ्गरादौ प्राप्ते” कुल्लू० । “त्रैवर्णिकाना-
मधिकारः” कर्कः ।

त्रैवर्षिक त्रि० त्रिवर्षे भविष्यति ठञ् । “वर्षस्याभविष्यति”

पा०नोत्तरपदवृद्धिः । त्रिवर्षे भविष्यति वस्तुनि “त्रैवर्षिकं
तापश्चितं तस्य सौम्यं संवत्सरः” आश्व० श्रौ० १२ । ५ ।
१२ । अभतिष्यति तु त्रैवार्षिक इत्येव ।

त्रैवार्षिक त्रि० त्रिवर्षे भूतो भवति वा ठञ् अभविष्य-

त्त्वात् उत्तरपदवृद्धिः । १ त्रिवर्षभूते २ तत्र भवति वा ।
“यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये” मनुः ।
“त्रैवार्षिकाधिकान्नोयः स तु सोमं पिबेत् द्विजः” याज्ञ० ।

त्रैविक्रम त्रिविक्रमस्येदम् अण् । १ त्रिविक्रमसम्बन्धिनि ।

“त्रैविक्रमं पादमिवेन्द्रशत्रुः” रघुः २ त्रिविक्रमावतारे
च । “वर्द्धयस्व महाबाहो! पुरा त्रैविक्रमे यथा”
हरिवं० ५६ अ० ।

त्रैविद्य पु० त्रिस्रो विद्याः समाहृताः ऋग्यजुःसामरूपा-

स्त्रिविद्यं तदधीते वेद वा अण् । १ वेदत्रयाभिज्ञे ।
“त्रैविद्यो हेतुकस्तर्कीनैरुक्तो धर्म्मपाठकः । त्रयश्चाश्र-
मिणः पूर्व्वे परिषत् स्याद्दशावरा” व्यव० त० नारदः ।
“चत्वारो वेदधर्मज्ञाः पर्षद् त्रैविद्यमेव वा” “राजा
कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्ति-
मद्ब्रूयात् स्वधर्मः पाल्यतामिति” याज्ञ० । तिसृणां
विद्यानां समाहारः त्रिविद्यं स्वार्थे अण् । २ तिसृषु
विद्यासु । “धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम्”
भाग० ६ । २ । २४ । ताश्च तिस्रो नानारूपाः “ऋचो यजूंषि
सामानि त्रैविद्यं तत्रे तिष्ठति” सा० गृह्य० “स्वाध्यायेन
व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च
ब्राह्मोयं क्रियते तनुः” मनुः “कर्षकाणां कृषिर्वृत्तिः
पण्यं विपणिजीविनाम् । गावोऽस्माकं परा वृत्तिरेत-
त्रैविद्यमुच्यते” हरिवं० ७३ अ० “त्रयोऽग्नयस्त्रयो वेदा-
स्त्रेविद्यं कौस्तुभो मणिः” हरिवं० १६८ अ० “त्रयो
लोकास्त्रयो वेदास्त्रेविद्यं पावकत्रयम्” मार्कण्डेयपु० ।

त्रैवि(पि)ष्टप पु० त्रिविष्टप्रे वसति अण् । देवे शब्दार्थचि० ।

“त्रैविष्टपानामपि दूरदर्शनम्” भाग० ११ । ७ ।

त्रैविष्टपेय पु० त्रिविष्टपे वसति बा० ढक् । देवे “गन्धर्व-

सिद्धासुरयक्षचारणत्रैपिष्टपेयादिषु नानुविन्दत” भाग०
८ । ८ । १३ ।

त्रैवृष्ण पु० त्रिवृष्णस्यापत्यं बा० अण् । राजभेदे “त्रैवृष्णो

अग्ने दशभिः सहस्रैर्वैश्वानर! त्र्यरुणश्चिकेत” ऋ०५ ।
२७ । १ ।

त्रैवेदिक त्रि० त्रिषु वेदेषु तदध्ययनार्थं विहितः ठक् ।

वेदत्रयाध्ययनार्थे व्रतादौ । “षट्त्रिंशदाव्दिकं चर्य्यं
गुरौ त्रैवेदिकं व्रतम्” मनुः ।

त्रैशङ्कव पु० त्रिशङ्कोरपत्यम् अण् । हरिश्चन्द्रे त्रिशङ्कुशब्दे दृश्यम् ।

त्रैशोक न० त्रिशोकेन ऋषिणा दृष्टं साम । “विश्वापृतना,”

इत्यादिकायामृचि गेये ब्रह्मस्तोत्रके सामभेदे ।

त्रैसानु पु० तुर्वसुवंश्ये गोभानुसुते नृपभेदे “गोभानोस्तु

सुतो राजा त्रैसानुरपराजितः । करन्धमस्तु त्रैसानो-
र्मरुत्तस्तस्य चात्मजः” हरिवं० ३२ अ० ।

त्रैस्वर्य्य न० त्रिस्वर + चतुर्व० स्वार्थे ष्यञ् । उदात्तानुदात्त-

स्वरितरूपस्वरत्रिके । तत्र यत्र यः स्वरः तत् उदात्ता-
नुदात्तशब्दयोरुक्तं स्वरितशब्दे वक्ष्यते च तस्याप-
वादः एकश्रुतिशब्दे १४८४ पृ० उक्तः ।

त्रैहायण त्रि० त्रिहायणस्येदम् हायनान्तत्वात् अण् । १ त्रि-

वर्षसम्बन्धिनि । स्त्रियां ङीप् । भावे आण् । २ तद्भावे न० ।

त्रोटक त्रि० त्रोड़यति चु० त्रुट--ण्वुल् । १ छेदके । “सप्ता-

ष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत् प्राहुः
प्रत्यङ्कं सविदूषकम्” स द० उक्ते २ दृश्यकाव्यभेदे
प्रत्यङ्कं सविदूषकत्वात् शृ रोऽत्राङ्गीति बोध्यम् । तत्र
सप्ताङ्कं स्तम्भितरम्भम् । पञ्चाङ्कं विक्रमोर्वशी ।

त्रोटि(टी) स्त्री चु० त्रुट--इ बा ङीप् । १ कट्फ्गल,

२ चञ्च्वाम्, (पक्षिर ठोठ) ३ पक्षिभेदे ४ मत्स्यभेदे च
मेदिनि० ।

त्रोटिहस्त पुंस्त्री त्रोटिर्हस्त इ ग्रहणसाधनं यस्य ।

खगे शब्दच० । स्त्रियां जातित्वात् ङीष् ।

त्रोतल न० १ त्रोड़लतन्त्रे (तोतला) २ स्खलद्वाक्ये त्रि० ।

पृष्ठ ३३९६

त्रोत्र न० त्रायतेऽनेन० त्रै--त्र । प्राजने तोदने गवादेः

प्रेरणसाधने १ दण्डभेदे (पाचनी) अमरः । २ अस्त्रे सिं०
कौ० । ३ आरूपक्रियायाम् ४ व्याधिभेदे च संक्षिप्तसा० ।

त्रौक गत्यां चुरा० आ० सक० सेट् । त्रौकयते ऋदित्

अतुत्रौकत ।

त्र्यंश पु० तृतीयोऽंशः । १ तृतीये अंशे । “सर्वस्मिन् विधु-

पापयुक्तनुलवावर्द्धं निशाह्नोर्घटीत्र्यंशं वै कुनवांशकं
ग्रहणतः पूर्वं दिनानां त्रयम्” मुहु० । २ त्रिगुणितेऽशे च
“त्र्यंशं दायाद् हरेद्विप्रो द्वावंशौ क्षतियासुतः” मनुः

त्र्यक्ष पु० त्रीण्यक्षीण्यस्य ष समा० । त्रिनेत्रे शिवे त्रिका०

“त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतिः” हरिवं०
१७६ अ० । २ नेत्रत्रययुक्तमात्रे त्रि० । “चेदिराजकुले
जातस्त्र्यक्ष एष चतुर्भुजः । रासभारावसदृशं ररास च
ननाद च” भा० स० ४२ अ० । स्त्रियां ङीष् । “द्व्यक्षीं
त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्मिकाम्” भा० व०
२८९ अ० । राक्षसीभेदोक्तौ । आर्षे क्वचित् न ष
समा० । त्र्यक्षि शिवे । “त्र्यक्ष्णे पूष्णो दन्तभिदे
वामनाय शिवाय च” भा० आश्व० ८ अ० शिवस्तुतौ ।

त्र्यक्षर पु० त्रीणि अकारोकारमकाररूपाणि अक्षराणि

यत्र । १ प्रणवे “आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यत्र
प्रतिष्ठिता । स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं येद स वेदवित्”
मनुः । त्रीण्यरक्षाणि वर्ण्णा यत्र । मध्यानामके
२ छन्दोभेदे न० । “विष्णुस्त्र्यक्षरेण (छन्दसा) त्रील्ल्ॐ-
कानुदजयत्” यजु० ९ । ३१ । “विष्णुस्त्र्यक्षरेणाक्षर-
त्रयात्मकेन छन्दसा त्रीन् भूरादीन् लोकान् उदजयत्”
वेददी० । त्रिवर्ण्णात्मके तन्त्रोक्ते ३ मन्त्रनेदे तन्त्रसारे भूरि-
प्रयोगः । ४ विद्यायां स्त्री गौरा० ङीष् । ५ वर्ण्णत्रययुक्त-
मात्रे त्रि० । “तदेतत् त्र्यक्षरं सत्यमिति स इत्येक-
मक्षरं त्रीत्येकमक्षरममित्येकमक्षरं प्रथमोत्तमे अक्षरे
सत्यं मध्यतोऽनृतं तदेतदनृतं सत्येन परिगृहीतं सत्य-
भूयमेव भवति नैवंविद्वांसमनृतं हिनस्ति” शत० ब्रा०
१४ । ८ । ४ । २ । ६ खटके त्रिका० ।

त्र्यङ्क(ङ्ग)ट न० । १ शिक्यभेदे २ धौताञ्जने च मेदि० । ३ईश्वरे पु० हेमच० ।

त्र्यङ्ग न० त्रीणि अङ्गान्यस्य । सौविष्टिकृते हविषि “मध्यं

जुह्वां द्वेधा कृत्वाऽवद्यत्यणिम त्र्यङ्गेषु” शत० ब्रा०
३ । ८ । ३ । १८ । “त्र्यङ्ग्यस्य दोष्णो गुदं द्वेधा कृत्वावद्यति
त्र्यङ्ग्यायै श्रोणेरथ हिरण्यशकलाववदधाति” । ९ ।
त्र्यङ्गाय हितं यत् त्र्यङ्ग्य तत्साधनद्रव्ये ।

त्र्यङ्गल त्रि० त्रिस्वोऽङ्गुल्यः प्रमाणमस्य तद्धितार्थद्धि० द्वयसच्

तस्य लुकि अच् समा० । १ अङ्गुलित्रयमिते “द्व्यङ्गुलं
त्र्यङ्गुलं वा तर्द्मातिक्रान्तं यूपस्य” कात्या० श्रौ० ६ ।
२१ । ३० । २ तथाभूतखातान्विते च स्त्रियां टाप् सा च
सोमयज्ञस्य वेदिः । “तं खनन्त इवान्वीषुस्तं त्र्यङ्गुलेऽन्वबिन्दं
स्तस्मात् त्र्यङ्गुला वेदिः स्यात्तदु हापि पाञ्चिस्त्र्यङ्गुलामेव
सौम्यस्याध्वरस्य वेदिं चक्रे” शत० ब्रा० १ । २ । ५ । ९ ।
“पाञ्चिः सोमयागस्यापि वेदिं त्र्यङ्गुलखातामेव मेने” भा०

त्र्यञ्जन न० समा० द्वि० । कालाञ्जनरसाञ्जनपुष्पाञ्जनरूपे

मिलिते अञ्जनत्रये राजनि० ।

त्र्यञ्जल(लि) न० त्रयाणामञ्जलीनां समाहारः वा टच्स० ।

१ समाहृते अञ्जलित्रये “त्रिभिरञ्जलिभिः क्रोतः तद्धितार्थ-
द्विगौ तु तद्धितलुकि न टच् । त्र्यञ्जलि इत्येवेति
भेदः सि० कौ० ।

त्र्यधिष्ठान पु० त्रीणि मनोवाक्शरीराणि अधिष्ठानान्यस्य

तिसृणां जाग्रदार्दीनामधिष्ठानं वा ६ त० । १ जीवे तत्पुरुष-
पक्षे न० “तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिगः”
मनुः जाग्रदाद्यवस्थात्रयसाक्षिणि कूटस्थे २ चैतन्ये न० ।

त्र्यध्वमा स्त्री त्रिभिरध्वभिर्गच्छति गम--६ त० । गङ्गायाम्

त्रिका० ।

त्र्यनीक पु० त्रीणि उष्णवर्षशीताख्यानि अनीकानि गुणा

अस्य । संवत्सराभिमानिदेवभेदे “त्रिपाजस्यो वृषमो विश्व-
रूप उत त्र्युधा पुरुध प्रजावान् । त्र्यनोकः पत्यते
माहिनावान्त्सरेतोधावृषभः शश्वतीनाम्” ऋ० ३ । ५६ । २ ।
“त्र्यनीकस्त्रिभिरुष्णवर्षशीताख्यैरनीकैर्गुणैरुपेतः” भा० ।
२ हस्त्यश्वरथाङ्गे सेनाभेदे स्त्री ।

त्र्यमृतयोग पु० त्रयाणां तिथिवारनक्षत्राणाममृततुल्यो

योगः । तिथिनक्षत्रवारभेदानां योगभेदे । स च योगः
ज्यो० उक्तो यथा “नन्दा भौमार्कवारे श्रवणशतभिषार्द्रान्त्य-
चित्राखिमूलासार्पैर्भद्रा समेता, शशिनि भृगुसुते
फल्गुयुग्भाद्रयुग्मैः । सोम्याहे वै जया स्यान्मृगगुरुहरिभेन्द्रा-
श्वियाम्याभिजिद्भिर्जीवे रिक्ता च विश्वादितिवरुणविशा-
स्वानुराधामघाभिः । सौरे पूर्श्वा धनिष्ठाकरकमलजन्मर्क्ष-
युक्ता यदि स्याद् योगं प्राछस्त्रिपूर्वं सततशुभकरं
चामृताख्यं मुनीन्द्राः” ।

त्र्यम्बक न० त्रीणि अम्बकानि नयनान्यस्य, त्रयाणां

लोकानां अम्बकः पितेति वा, त्रौन् वेदान् अम्धते
शब्दायते वा अवि--शब्दे ओष्ठ्योपधः कर्मण्यण्
संज्ञायाषिति कः त्रिषु लोकेषु कालेषु वा अम्बः
पृष्ठ ३३९७
शब्दो वेदलक्षणो यस्येति वा, अम्बनम् अम्बः शब्दः ।
त्रयोऽकारोकारमकाराः अम्बाः शब्दाः प्रतिपादकाः
वाचका वा अस्येति वा, त्रीणि पृथिव्यन्तरीक्षद्युलो-
काख्यानि अम्बकानि स्थानानि यस्येति वा । १ शिवे
अमरः “त्र्यम्बकंयजामहे सुगन्धिं पुष्टिवर्द्धनम्” यजु० ३ । ६०
“जड़ीकृतस्त्र्यम्बकवीक्षणेन” महेश्वरस्त्र्यम्बक एव
नापरः” रघुः । २ दुर्गायां स्त्री “सोमसूर्य्यानलाक्षित्वात्
त्र्यम्बका सा स्मृता बुधैः” देवीपुरा० ।

त्र्यम्बकसख पु० ६ त० टच् समा० । कुवेरे अमरः कुवेर-

शब्दे तस्य तथात्वम् दृश्यम् ।

त्र्यरुण पु० त्रिवृष्णपुत्रे राजर्षिभेदे त्रैवृष्णशब्दे ऋ० वा क्यादिकं दृश्यम् ।

त्र्यरुषि त्रि० त्रीणि अरुषीणि रोचमानानि शुभ्राणि

ककुप्पृष्ठपार्श्वस्थानानि यस्य । रोचमानशुभ्रपृष्ठा-
दित्रययुक्ते गवादौ । “त्र्यरुषीणां दश गवां सहस्रा”
ऋ० ८ । ४६ । २२ ।

त्र्यवि पु० षणमासात्मकः कालः अविः त्रिस्रोऽवयोऽस्य ।

अष्टादशमासवयस्के पशौ । “त्र्यविर्वयस्त्रिष्टुप्च्छन्दः”
यजु० १४ । १० । त्रीन् लोकान् अवति अव--रक्षणादिषु
इन् । वेददी० । “तस्थौ त्र्यविं रेरिहाणा” ऋ० ३ । ५५ । १४ ।
“त्र्यविं सार्द्धसंवत्सरवयस्को वत्सस्त्र्यविरुच्यते तत्
प्रसाणमादित्यम् त्रीन् लोकानवति स्वतेजसा व्याप्तो-
तीति वा” भा० उक्तेः २ त्रैलोक्यव्यापके च ।

त्र्यब्द न० समा० द्वि० पात्रा० । १ वर्षत्रये “त्र्यवदं चरेद्वा नियतो

जटी ब्रह्महणो व्रतम्” मनुः । त्रयीऽव्दावयोमानं यस्य
तद्वितार्थद्विगुः आर्हीयष्ठञ् अध्यर्द्धेत्यादि पा० तस्य
लुक् । २ त्रिवर्षवयस्के त्रि० ।

त्र्यशौति स्त्री त्र्यधिकाऽशीतिः शाक० त० त्रयश्च अशीतिश्च

समा० द्व० वा । (तिराशी) १ त्र्यधिकाशीतिसंख्यायां
२ तत्संख्येये च! ततः पूरणे डट् । त्र्यशीत तत्पूरणे
त्रि० । स्त्रियां ङीप् तनप् । त्र्यशीतितम तत्पूरणे
त्रि० । त्र्यशीत्या युतं शतादि ड । त्र्यशीत तद्युतशतादौ ।

त्र्यष्टक न० सुश्रुतोक्ते जलनिक्षेपणस्थानभेदे । पञ्च निक्षेप-

णानि भवन्ति । तद्यथा फलकं त्र्यष्टकं मुञ्जवलय
उदकमङ्चिका शिक्यञ्चेति” सुश्रु० ।

त्र्यष्टन् त्रि० त्रिगुणिताः अष्ट । १ चतुर्विंशतिसंख्यायां २

तत्संख्येये च । “त्र्यष्टवर्षोऽष्टवर्षीयां धर्म्मे सीदति सत्वरः”
मनुः ।

त्र्यस्र न० तिस्रः अस्रवः कोणा यस्य अच् समा० । १ त्रिकोणे

राजनि० । “प्रथमत्र्यस्रे द्वितीयत्र्यस्रे इत्यादि” काली-
पूजापद्धतिः ।

त्र्यह पु० त्रयाणामह्नां समाहारः टच् समाहारद्विगुत्वात्

नाह्नादेशः । “अह्नाहाः पुंसिः” पा० पुंस्त्वम् । दिनत्रये ।
उत्तरपदद्विगौ तु अह्नादेशः त्र्यह्णप्रिय इत्यादि । “त्र्यहं
न कीर्त्तयेत् ब्रह्म राज्ञो राहोश्च सूतके” “त्र्यहं
प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परञ्च
नाश्नीयात् प्राजापत्यं चरन् द्विजः” मनुः ।

त्र्यहस्पर्श पु० त्र्यहं चान्द्रदिनत्रयं स्पृशति स्पृश--अण् ।

१ तिथित्रयस्पर्शिन्येकसावनदिने त्र्यहस्पर्शिनि २ दिनक्षये च

त्र्यहस्पृश पु० “एकं दिनं यत्रतिथित्रयं च स्पृशेत्तमाहुर्मुन-

योऽवमाख्यम् । एका तिथिस्त्रीणि दिनानि यत्र स्पृशेत्त-
दाहुस्त्रिदिनस्पृशन्तु” इत्युक्ते सावनदिनत्रयस्पर्शिनि
एकस्मिन् तिथौ “त्र्यहस्पृशं नाम यदेतदुक्तं तत्र प्रयत्नः
कृतिभिर्विघेयः । विवाहयात्राशुभपुष्टिकर्म सर्वं न कार्य्यं
त्रिदिनस्पृशे तु” ज्यो० त० । क्विन् । त्र्यहस्पृश् क्विन्न
न्तत्वात् झणि पदान्ते च कुः । तत्रार्थे “तिथिर्वार-
त्रये चैका त्र्यहस्पृक् समुदाहृता” । “एकादशी द्वा-
दशी च रात्रिशेषे त्रयोदशी । त्र्यहस्पृक् तदहो रात्र-
मुपोष्या सा सदा तिथिः” स्मृतिः ।

त्र्यहीन पु० त्रिभिरहोभिः निर्वृत्तः ख । त्रिदिनसाध्ये क्रतुभेदे ।

त्र्यहैहिक त्रि० ईहा चेष्टा तस्यां भवं ठण् ऐहिकम् धनादि-

त्र्यहपर्य्याप्तमैहिकं धनं यस्य । दिनत्रयनिर्वाहोचितधन-
शालिनि । “त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा” भनुः ।

त्र्याक्षायण पु० त्र्यक्षस्य युयाऽपत्यम् फञ् ऐछकारिगणे

“द्व्याक्षायण त्र्याक्षायणेति निर्देशात्” न य्वाभ्यां
पदान्ताभ्यां पूर्वौ ताभ्यामैच्” पा० सूत्रोक्तं कार्य्यं न । त्र्यक्षस्य
शिशुपालहरादेर्यून्यपत्ये । तस्य विषयो देशः ऐषुका०
भक्तल् । त्र्याक्षायणभक्त तदीये बिषये ।

त्र्यायुष न० त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारः

वेदे अच् समा० । वाल्याद्यायुस्त्रये । “त्र्यायुषं जमदभ्नेः
कश्यपस्य त्र्यायुषम्” यजु० ३ । ६२ ।

त्र्यार्षेय पु० त्रयः आर्षेयाः ऋषयः यत्र । त्रिप्रवरे १ गोत्रभेदे

आर्षेयशब्दे दृश्यम् । ऋषेरयम् ढक् आर्षेयः
ऋषिधर्मः त्रयः आर्षेया धर्मायेषाम् । २ अन्धबधिरमूकेषु
तेषाञ्च यथा ऋषिधर्मवत्त्वंतथा समर्थितं तत्त्वबोधिन्याम्
यथा “एतन्न्यायमूलक एव तिर्य्यक्पङ्गुत्य्रार्थेयदेवतानां
यागेषु नाधिकार इति प्रवादः । त्र्यार्षेयास्त्रय ऋषि-
पृष्ठ ३३९८
धर्मा अन्धत्वबधिरत्वमूकत्वानि येषां ते ऋषीणां हि
परद्रव्यदर्शनेन तत्र रागोत्पत्तिसम्भावनया चक्षुर्नि-
मीलनेनान्धत्वं, परनिन्दाश्रवणशङ्कया श्रोत्रनिग्रहेण
बधिरत्वं मिथ्याकथनशङ्कया वाक्यसंयमनान्मौक्यम्” ।
अन्धादीनां कर्म्मानधिकारे हेतुश्च “मनुष्याणां वा
आरम्भसामर्थ्यात्” ४ “अङ्गहीनाश्रोत्रियषण्ढशूद्रवर्जम्” कात्या०
श्रौ० १ । १ । ५ । सूत्राभ्यां निरूपितः अत्र कर्कव्याख्या
“अङ्गहीनाश्रोत्रियषण्ढशूद्रान् वर्जयित्वा मनुष्याणा-
मधिकारः कर्मसु भवति । मनुष्या अपि ये अङ्गहीना
अङ्गेने चक्षुरादिना हीना अन्धपङ्गुमूकवधिरादयः
अश्रोत्रिया अनधीतवेदाः षण्ढा नपुंसकाः शूद्राश्च
नैतेषामधिकार इत्यर्थः । आरम्भसामर्थ्यादित्यत्राप्यनु-
वर्त्तते न चैतेऽङ्गहीनादयो यथाश्रुतं कर्मारब्धुं कर्तुं
शक्रुवन्ति तद्यथा न ह्यन्ध आज्यावेक्षणं कर्तुं
शक्नोति मूकश्च मन्त्रीच्चारणम्, पङ्गुश्च विष्णुक्रमम् ।
बधिरश्च प्रैषश्रवणम् अनधीतवेदोऽश्रोत्रिय इत्युच्यते
स च किमपि मन्त्रसाध्यं कर्तुं न शक्रोति षण्ढो नपुं-
सकः तस्याप्यनधीतवेदत्वादद्रव्यत्वादशुचित्वाच्च नाधि-
कारः शूद्रस्य चानधीतवेदत्वादनधिकारः । आज्यावेक्षणा-
भिश्च विना कर्मणो वैगुण्यं भवत्येव । ननूक्तम्
अशक्याङ्गरहितकर्मानुष्ठानादधिकारो भविष्यतीति ।
अत्रोच्यते । भवेदेवं यदि आज्यमवेक्षत इत्यादीन्यङ्ग-
वाक्यानि स्वातन्त्र्येण पुरुषैः सम्बध्येरन् प्रधानवाक्य-
शेषत्वात्तेषाम् । तदङ्गयुक्तेन प्रधानवाक्येन तदङ्गयुक्तः
क्रतुः पुरुषैः सम्बध्यमानोऽसमर्थान् परित्यज्य समर्थान्
प्रतिज्ञायते तेनान्धस्य क्रतुरेवाविहितो न त्वाज्या-
वेक्षणमेवाविहितमितरच्च विहितमिति मन्तव्यम् । न च
प्रधानवाक्यविरोधः सर्वाधिकारानिश्चयात् विशेष-
भावाद्धि सर्वाधिकारः स्यात् अस्ति च विशेषः आरम्भ
सामर्थ्यम् अतः समर्थानामेवाधिकारः । यत्र तु प्रधान-
वाक्यविरोधो यावज्जीवं यजेतेत्यादौ तत्र यथाशक्ति-
प्रयोगादपि फलं भवति तदविरोधे तु सर्वाङ्गयुक्त-
कर्मानुष्ठानादेव फलम् । ननु आरम्भसामर्थ्यादित्यनेनैव
गवादीनामिवान्धादीनामप्यधिकाराभावसिद्धेः किमर्थं
पुनरङ्गहीनादिवर्जमित्युक्तम् उच्यते नियमार्थम् एतेषा-
मेवानधिकारो न निर्धनस्य तस्य चाधिकारो भवत्येव
न त्वारम्भसामर्थ्याभावादनधिकारः अतो निर्धनोऽपि
क्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति । एव-
मन्धादिरपि यद्योषधिशस्त्रादिनान्धत्वादिकं स्फोटयितुं
शक्नोति तस्याप्यधिकारो भवत्य व पूर्वमनङ्गहीनत्वाव-
स्थायामाहिताग्निश्चेत् पश्चाद्रोगादिनाङ्गवैकल्ये जाते
काम्येष्वधिकारो न भवति नित्येषु तु यथाशक्ति कुर्व-
न्नधिक्रियत एव अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव”
त्रीणि आर्षेयाणि यस्य । ३ त्रिगोत्रोत्पन्ने माधवः ।
अत्रेदमभिधीयते तत्त्वबोधिन्याम् त्र्यार्षेयशब्दस्यान्धादि-
परत्वकल्पनं सूत्रभाष्यविरुद्धम् । तथाहि “अङ्गहोनश्च
तद्धर्म्मा” ६ । १ । ४१ । जै० सू० । “अग्निहीत्रादिषु एवाङ्ग-
हीनं प्रति सन्देहः किम् असावधिक्रियते, उत न इति ।
तत्राप्यधिकरणातिदेशः । असमर्थः इति कृत्वा पूर्वः पक्षः
शक्तेर्विद्यमानत्वात् उत्तरः । तदिदम् अभिधीयते
अङ्गहीनश्च तद्धर्मा । किंधर्मा अद्रव्यधर्मा” शव० भा० ।
“उत्पत्तौ नित्यसंयोगात्” जै० ६ । १ । ४२ “यस्य तु
अप्रतिसमाधेयमङ्गवैकल्यं तं प्रति विचारः किं
अधिक्रियते न, इति पूर्वाधिकरणेन अधिक्रियते इति प्राप्ते
ब्रूमः न अधिक्रियते इति । कुतः? शक्त्यभावात्
न असौ केनचित् अपि प्रकारेण शक्तोति यष्टुम्, तस्मात्
तस्य अधिकारो न गम्यते । ननु यत् शक्नोति तत्र
अधिक्रियते इति चक्षुर्विकलो विना आज्यावेक्षणेन,
विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः,
एतान् पदार्थान् प्रति चक्षुर्विकलादीनामनधिकारः इति
यदि हि तं प्रति निर्दिश्येत ततो विकलोऽप्यधिक्रियते
क्रतुम् प्रति । एषाम् उपदेशः प्रकरणाविशेषात् पुरुषस्य
च आख्यातेन अनभिधानात् इति उक्तमेतत् । “विधि-
र्वा संयोगान्तरात् (३ । ४ । १३ ) इत्यत्र । तैश्च विना
विगुणं कर्म प्रयुक्तमपि न फलं साधयेत् । तस्मात् तस्य
अनधिकारः” भा० । “अत्रार्षेयस्य स न स्यात्” जै०६ । १ । ४३
“दर्शपूर्णमासयोः श्रूयते, “आर्षेयं वृणीते एकं वृणीते
द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते पञ्चाति
वृणीते इति । तत्र सन्देहः किम् अत्र्यार्षेयस्य
अधिकारः उत न इति किं प्राप्तम् । अत्र्यार्षेयोऽप्यधि
क्रियते” इति कुतः आर्षेयं वृणीते इति सामान्यवचनम्
तस्मात् एकं वरिष्यति द्वौ वा तच्च दर्शयति एकं
वृणीते इति तथा प्रतिषेधति न चतुरो वृणीते इति ।
न हि अप्राप्तस्य प्रतिषेधोऽवकल्पते । तस्मात् अत्र्याषे
योऽप्यधिक्रियेत ।
एवं प्राप्ते ब्रूमः यो न त्र्यार्षेयः स न अधिक्रियते ।
पृष्ठ ३३९९
कुतः? त्रीन् वृणीते इति विशेषवचनात् विधिश्च
अप्राप्तत्वात् । ननु एकं वृणीते इत्यपि विशेषवचनमस्ति ।
न इत्युच्यते, विधायिकाया विभक्तेरभावात् । ननु
स्तुत्या विधास्यन्ते यथा त्रीन् वृणीत इति । उच्यते
त्रयाणामेव स्तुतिः सा त्रित्वं विधास्यति । एकं वृणीते
इत्यवयुत्यवादोऽयं त्रयाणामेव, तत्रापि त्रित्वमेव श्रूयते
विधातुम् । एवम् एकवाक्येन विधानं भविष्यति
इति । न चतुरो वृणोते न पञ्चातिवृणीते इति
नित्यानुवादो भविष्यति । तस्मात् त्र्यार्षेयस्य अधिकारो
नान्यस्य इति” शव० भा० । न्यायमालायां माधवेस्तु “ऋषि-
र्गोत्रप्रवर्त्तकः कश्यपभरद्वाजादिस्तस्य सम्बन्ध आर्षेयस्तं
वृणीते उच्चारयति कश्यपगोत्रोऽहं भरद्वाजगोत्रोऽह-
भिति एवम् उपमन्युवशिष्ठमोत्रोऽहमिति द्विगोत्रोच्चार-
णम् । आङ्गिरसवार्हस्पत्यभरद्वाजगोत्रोऽहमिति त्रि-
गोत्रोच्चारणम्” । एवञ्च सूत्रभाष्यादिग्रन्थेषु त्र्या-
र्षेयशब्दस्य अन्यार्थपरत्वात् जात्यन्धादेः सूत्रान्तरेण
अनधिकारस्य प्रतिपादनात् त्र्यार्षेयशब्दस्य न अन्धादि-
परत्वमिति सुधीभिर्भाव्यम् ।

त्र्याशिर् तिस्रः दधितक्रपयोरूपा आशिरः अधिश्रपण-

साधनभूता यस्य । अग्नेर्वृषभेदे । “यस्य मा परुषाः
शतमुद्धर्षयन्त्युक्षणः । अश्वमेधस्य दानाः सोमा इव
त्र्याशिरः” ऋ०५ । २७ । ५ ।

त्र्याहण पुंस्त्री त्रिभिः चञ्चुपादैराहन्ति आ + हन--अच्

पूर्वपदात् संज्ञात्वात् णत्वम् । विस्किरे पक्षिभेदे । “चको-
रकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्तिरि-
कुररबाहुकयवलप्रभृतयस्त्र्याहनाविष्किरालघवः
शीतमधुराः कषायादोषशमनाश्च” सुश्रुतः ।

त्र्याहाव पु० देशभेदे तत्र भवः वुञ् । त्रैयाहावक तत्रार्थे

त्र्याहिक त्रि० त्र्यहे भवः ठञ् । आर्षत्वात् त्र्याक्षायणेति

निर्देशाद्वा य्वाभ्यां पूर्वं न ऐच् । त्र्यहभवे ज्वरादौ ।
“ऐकाहिको द्व्याहिकश्च त्र्याहिकश्चातुर्थिकेत्यादि
अपराजितास्तोत्रे । त्र्यहपर्य्याप्तं धनं अण् त्र्याहम्
तदस्यास्ति ठन् । त्र्यहपर्थ्याप्तधनयुक्ते त्रि० । “कुशूलकुम्भी-
धान्योवा त्र्याहिकोऽश्वस्तनोऽपि वा” याज्ञ० । लोके तु
य्वाभ्यां पूर्वमैजेव त्रैयाहिक इत्येव त्र्यहभवे वस्तुनि ।

त्र्युदय न० त्रिषु सवनेषु उदयो गतिरस्य । सोमाख्ये

द्रव्ये । “त्र्युदयं देवहितं यथा वः” ऋ० ४ । ३७ । ३ ।

त्र्युधन् पु० त्रिभिः वसन्तशरद्धेमन्तैरृतुभिरूधोऽस्य अनङ्

ह्रस्वश्च । वसन्तादिरूपोधोयुक्ते वत्सररूपे वृषभे । “उत
त्र्युधा पुरुध प्रजावान्” ऋ० ३ । ५६ । ३ ।

त्र्यु(त्र्यू)षण न० त्रयाणामुषणानां समाहारः पृषो० वा

दीर्घः । मिलितशुण्ठोपिप्पलीमरिचत्रिके अमरः
भरतस्तु दीर्घमध्यं पपाठ ।

त्र्यृच न० त्रिसृणामृचां समाहारः अच् समा० । ऋक्त्रये ।

“उदित्र्यृचा वा वारुण्या त्र्यृचेनाव्दैवतेन वा”
“अथ त्र्यृचं जपेदव्दम्” मनुः । पक्षे संप्रसारणे
तृचमप्यत्र ।

त्र्येणी स्त्री त्रीणि एतान्यस्य सि० कौ० त्रिषु स्थानेषु एतः

कर्वुरो यस्याः ब० व० माधवः । “वर्णादनुदात्तात्” पा० ङीप्
तस्य नश्च णत्वम् । त्रिषु स्थानेषु कर्वुरायां स्त्रियाम् ।
“तत्त्रेणी शलली भवति लोहः क्षुरः सा या त्र्येणी
शलली सा त्रय्यै विद्यायै रूपं लोहः क्षुरो ब्रह्मणो
रूपमग्निर्हि ब्रह्मणो हित इव ह्यग्निस्तस्माल्लोहः क्षुरो
भवति” शत० ब्रा० २ । ६ । ४ । ५ । “त्र्येणीति त्रिषु
स्थानेषु एतः श्वेतः वर्णो यस्याः सा त्र्येणी” भा० ।
“अथास्यैयुग्मेन शलाटुग्लप्सेन त्र्येण्या च शलल्या”
आश्वा० गृ० १ । १४ । ४ । त्रीण्ये तानि यस्याः सेयं त्र्येणी
शलली । एतः शुक्ल इत्यर्थः” नारा०

त्व त्रि० तन--विच् अनश्च वः । १ भिन्ने अन्यार्थे

सर्वनामकार्य्यं सर्वनामगणे त्वत्त्वसमसिमेति पठित्वा
“त्वत्वेति द्वावप्यदन्तौ अन्यपर्य्यायौ एक उदात्तोऽपरो-
ऽनुदात्त इत्येके । एकस्तान्त इत्यपरे” सि० कौ० उक्तेः
तान्तत्वमपि तच्चं क्विपि तुकि रूपमिति विवेकः । “ऋचां
त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्व-
रीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां
विमिमीत उत त्वः” ऋ० १० । ७१ । ११ त्वशब्दः
सर्वनामसु पठितः एकशब्दपर्य्यायः भा० उक्ते २
एकशब्दार्थे माधवः । “प्रजायै त्वस्यै यदशिक्ष इन्द्र!”
ऋ० १० । ५४ । १ । “त्वस्यै एकन्यै प्रजायै” भा० । “उत
त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं वि सस्रो जायेव पत्य उशती सुवासाः”
ऋ० १० । ७१ । ४ । “त्वशब्द एकवाची । एकः ।
उतशब्दोऽप्यर्थे । पश्यन्नपि मनसा पर्य्यालोचयन्नपि वाचं
न ददर्श दर्शनफलाभावान्न पश्यति । त्व एकः
शृण्वन्नप्येनां वाचं न शृणोति श्रवणफलाभावात् ।
इत्यनेनार्द्धेनाविद्वानभिहितः । तृतीयपादेन विदित-
पृष्ठ ३४००
वेदार्थमाह । त्वस्मा एकस्मा अपि तन्वमात्मीयं शरीरं
वि सस्रे, स्वयं वाग्विविधं गमयति” भा० । अस्या
एव ऋचामर्थव्याख्याने ऋग्वेदोपद्घादे माधवः त्वशब्दस्य
अन्यार्थतामभिप्रेत्याह, यथा “त्वः अन्यः कश्चिदर्थज्ञानाय
व्याकरणाद्यङ्गानि शृण्वन्नपि मीमांसाराहित्यादेनां
वेदरूपां वाचं न संम्यक् शृणोति” अत उभयार्थता
“विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे
पश्यन्त्येनाम्” अथ० ८ । ९ । ९ । सर्वनामत्वात् जसः सीभावः

त्वक्कण्डुर पु० त्वचः कण्डुं राति रा--क । ब्रणे हारा० ।

त्वक्क्षीरा स्त्री त्वचः वंशत्वचः क्षीरमस्त्यस्याः आकरत्वेन

अच् । १ वंशरोचनायां । २ तत्रार्थे गौरा० ङीष् राजनि० ।
“सिताजगन्धा त्वक्क्षीरी विदारी त्रिवृता समा” सुश्रु०

त्वक्छद पु० त्वगेव छदोऽस्य । क्षीरीशवृक्षे (क्षीरकञ्चुकी)

प्रसिद्धे वृक्षे रत्नमा० ।

त्वक्तरङ्ग पु० त्वचस्तरङ्ग इव । कण्डुपदार्थे पार० निघण्टुः ।

त्वक्पञ्चक न० त्वचां पञ्चकम् । “न्यग्रोधीदुम्बराश्वत्थशि-

रीषप्लक्षपादपाः । पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्-
पञ्चकं मतम्” इत्युक्ते न्यग्रोधादिवल्कले । केचित्तु
शिरीषस्थाने वेतसं परे पारिशम् वदन्तीति शेषः “त्वक्-
पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित् । विष्टम्भा-
ध्मानजित् तिक्तं कषायं लघु लेखनम्” भावप्र० ।

त्वक्पत्र न० त्वगिव पत्रमस्य । १ गुड़त्वचि (दारचिनि)

२ तेजपत्रे च अमरभरतौ । “चन्दनागुरुमुख्यानि त्वक्-
पत्राणां वनानि च” भा० शा० १७० अ० । ३ हिङ्गुपत्र्याम्
स्त्री गौरा० ङीप् अमरः ।

त्वक्पाक पु० त्वचः पाको यत्र । शूकदोषनिमित्ता

दश चाष्टौ च व्याधयो जायन्वे” इत्युपक्रमे “त्वक्पाकः
शोणितार्वुदम्” इत्यादिना च तान् विभज्य “पित्तरक्तकृतो
ज्ञेयस्त्वक्पाको ज्वरदाहवान्” सुश्रुतोक्ते शूकदोषनिमित्ते
व्याधिभेदे ।

त्वक्पारुष्य न० त्वचः पारुष्यं कठोरता । त्वचः काठिन्ये

“तस्य पूर्वरूपाणि त्वक्पारुष्यमकस्मात् रोमहर्षः” सुश्रुतः ।

त्वक्पुष्प न० त्वचः पुष्पमिव । १ रोमाञ्चे त्रिका० २ किलासे

(छुली) ख्याते हेमच० । त्वचि पुष्पं यस्याः गौरा०
ङीष् । ३ किलासे स्त्री जटा० स्वार्थे क । त्वक्पुष्पिका
किलासे त्रिका० ।

त्वक्ष तनूकरणे भ्वा० पर० सक० सेट् त्वक्षति अत्वक्षीत् । “त्वष्टा

तूर्णमश्नुते इति नैरुक्तास्त्रिषेर्वा स्यात् त्वक्षतेर्वा स्यात्”
निरुक्ते ८ । १२ उक्तत्वात् तथा धातुरस्तीति गम्यते ।
“प्रत्वक्षाणो अतिविश्वा महांसि” ऋ० १० । ४४ । १ । “प्रत्व-
“क्षाणः प्रकर्षेण तनूकुर्वन्” भा० ।

त्वक्षस् न० त्वक्ष्यतेऽनेन त्वक्ष--करणे असुन् । बले निघण्टुः ।

“सप्रविक्वा त्वक्षसा क्ष्मो दिवश्च” ऋ० १ । १०० । १५ ।
“त्वक्षसा बलेन” भा० ।

त्वक्षीयस् त्रि० अतिशयेन त्वक्षिता ईयसुन् तृणो लोपः । दीप्ते

“मरुत्वान् त्वक्षीयसा वयसा नाधमानम्” ऋ० २ । ३३ । ५ ।
“त्वक्षीयसा दीप्तेन” भा० ।

त्वक्सार पु० त्वचि सारोऽस्य । १ वंशे अमरः । त्वगेव सारो-

ऽस्य । २ गुड़त्वचि (दारचिनि) ख्याते पदार्थे शब्दच० ।
३ शोणवृक्षे ४ रन्ध्रप्रधानवंशे (तलतावाँश) राजनि० ।
“त्वक्साररन्ध्रपरिपूरणलब्धगीतिः” माघः । “चण्डा-
लात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान्” मनुः ।
“शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् । त्वक्-
सारादिचतुर्वर्गं छेघे भेद्ये च बुद्धिमान्” सुश्रु० ।
त्वक्सारः उत्पत्तिस्थानत्वे नास्त्यस्याः अच् । ५ वंशरोच-
नायां स्त्री राजनि० ।

त्वक्सारभेदिनी स्त्री त्वचः सारं भिनत्ति भिद--णिनि ङीष् । क्षुद्रचञ्चुवृक्षे राजनि० ।

त्वक्सुगन्ध पु० त्वचि फलत्वचि सुगन्धोऽस्य । नारङ्गे

(नेवु) भेदे भावप्र० । २ एलवालुकाख्यगन्धद्रव्ये स्त्री
शब्दार्थचि० ।

त्वक्स्वाद्वी स्त्री त्वचि स्वाद्वी । (दारचिनि) ख्याते गुड़त्वचि शब्दार्थचि० ।

त्वग गतौ भ्वा० सक० पर० सेट् ईदित् । त्वङ्गति अत्वङ्गीत्

तत्वङ्ग ।

त्वगङ्कर पु० त्वचः अङ्कुर इव । रोमाञ्चे हारा० ।

त्वगाक्षीरी स्त्री त्वचः आक्षीरं स्वल्पक्षीरं यस्याः गौरा०

ङीष् । वंशरोचनायाम् जटा० ।

त्वग्गन्ध पु० त्वचि फलत्वचि गन्धोऽस्य । नागरङ्गे राजनि०

त्वग्ज न० त्वचो जायते जन--ड । १ रोमणि २ रुधिरे च

राजनि० ।

त्वग्दोष पु० त्वचं दूषयति दुष--णिच्--अण् । कोठरोगे

राजनि० “श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाचिताम्”
सुश्रुं० । “प्रियः प्रजानामपि स त्वग्दोषेण प्रदूषितः” भा०
उ० १४८ अ० । ततः अस्त्यर्थे इनि तद्युक्ते त्रि० । “देवापिस्तु
महातेजास्त्वग्दोषी राजसत्तमः!” भा० उ० १४८ अ० ।

त्वग्दोषापहा स्त्री त्वग्दोषमपहन्ति अप + हन--ड । वाकु-

च्याम् राजनि० ।
पृष्ठ ३४०१

त्वग्दोषारि पु० ६ त० । हस्तिकन्दे राजनि० त्वग्दोषान्तो-

ऽप्यत्र ।

त्वच संवरणे तु० पर० सक० सेट् । त्वचति अत्वाचीत् अत्वचीत् । तत्वाच । त्वक् ।

त्वच्(चा) स्त्री त्वच्यते संव्रियते देहोऽनया त्वचति

संवृणोति वा देहम् त्वच--क्विप् । १ गुड़त्वचि
(दारचिनि) २ वल्कले ३ चर्मणि च मेदि० । ४ स्पर्शग्राहके
वाह्येन्द्रियभेदे सा च देहव्यापिनी त्वचिस्थिता सूक्ष्मा-
वायोः सत्त्वांशेनोत्पन्ना वाताधिष्ठातृदेवताका” वेदा०
सा० दृश्यम् । तत्र “उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि
च त्वचः । रूपान्यच् चक्षुषो योग्यं रूपमत्रापि
कारणम् । द्रव्याध्यक्षे, त्वचो योगो मनसा ज्ञानकारणम्”
भाषा० चर्म्मन् शब्दे २९०३ पृ० दृश्यम् ।
चर्मणि “त्वचं समेध्यां परिधाय रौरवीम्” रघुः
“आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः ।
“त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा० । वल्कले “भुर्जत्वचः
कुञ्जरविन्दुशोणाः” कुमा० । गुड़त्वचि “त्वगेलापत्रकै-
स्तुल्यैः त्रिसुगन्धि त्रिजातकम्” राजनि० । हलन्तत्वात्
वा टाप् । तत्रार्थे शब्दरत्ना० त्वचापत्रम् । “मुक्तत्वच
इवोरगः” भा० शा० २५० अ० । “श्रीवत्साङ्कोऽरविन्दाक्ष
ऊर्द्ध्वरोमा महत्त्रचः” हरिवं १७९ अ० ।

त्वच न० त्वच--अच् । वल्कले “त्वचवेष्टितमस्थिपञ्जरम्”

उज्ज्वलद० । गुड़त्वचम् इत्यादि । प्रशस्ता त्वगस्त्यस्य अच् ।
२ त्वक्पत्रे न० । “त्वचं लघूष्णं कटुकं स्वादु तिक्तञ्च
रूक्षकम् । पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् ।
हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृदिति” ।

त्वच त्वचं करोति सत्यपाशेत्यादि० पा० स्वार्थे--णिच् नामधातुः । त्वचयति ।

त्वचस् न० त्वच--असुन् । त्वचि । त्वचसि हितम् यत् ।

त्वगिन्द्रियहिते “यक्ष्मं त्वचस्यं ते वयम्” अथ० २ । ३३ । ७ ।

त्वचापत्र न० त्वचा त्वक् पत्रमिवास्य । (दारचिनि) त्वक्-

पत्रेशब्दार्थचि० ।

त्वचिष्ठ त्रि० अतिशयेन त्वग्वान् इष्ठन् मतुपो लुकि न

पदान्तकार्यम् । अतिशयत्वग्युक्ते । ईयसुन् त्वचीयस्
तत्रार्थे त्रि० स्त्रियां ङीप् ।

त्वचिसार पु० त्वचि सारोऽस्य हलन्तत्वात् वा सप्तम्या न

लुक् । वंशे अमरः ।

त्वचिसुगन्धा स्त्री त्वचि सुगन्धोऽस्याः अलुक् समा० । क्षुद्रैलायाम् हारा० ।

त्वच्य त्रि० त्वचि हितं यत् भत्वात् न पदान्तकार्य्यम् । त्वचि-

हिते । “त्वच्यं वृष्यं मधुरविपाकम्” सुश्रु० ।

त्वत् त्रि० तन--क्विप् अनो वः तुक् च । अन्यार्थे सर्वनामा-

यम् । त्वशब्दे दृश्यम् । सर्वनामत्वात् टेरकच् त्वकत् ।
इति बोध्यम् ।

त्वत्तस् अव्य० एकार्थवृत्तेः युष्मदः तसिल् त्वदादेशः ।

त्वत्सकाशादित्याद्यर्थे “त्वत्तः सर्वं प्रवर्तते” ।

त्वदीय त्रि० तव इदम् त्यदादित्वेन वृद्धत्वात् छ त्वदादेशः ।

एकवचनार्थवृत्तियुष्मदर्थसम्बन्धिनि । “पितुस्त्वदीयस्य
मयाऽपहारितः” रघुः ।

त्वन्च गतौ भ्वा० पर० सक० सेट् । त्वञ्चति अत्वञ्चीत् ।

त्वत्वञ्च । उदित् । त्वञ्चित्वा त्वक्त्वा । त्वक्तः

त्वन्च सङ्कोचे रुधा० पर० सक० वेट् । त्वनक्ति अत्वा-

ङ्क्षीत् मतान्तरे उदित् । क्त्वा वेट् । अन्यत्र सेट् । त्वक्तः ।

त्वद्विध त्रि० तवेव विधा प्रकारो यस्य । त्वत्सदृशे ।

त्वम्पदलक्ष्यार्थ पु० त्वमिति पदस्य लक्ष्योऽर्थः । अज्ञानादि-

व्यष्ट्युपाध्युपहिताधारभूते अनुपहितप्रत्यगानन्दरूपे
तुरीयचैतन्ये ।

त्वम्पदवाच्य त्रि० ६ त० । त्वम्पदाभिधे ।

“देहादिभिः परिच्छिन्नो जीवस्तु त्वम्पदाभिधः” वेदान्तप्र० ।

त्वम्पदवाच्यार्थ त्रि० त्वम्शब्दार्थे अज्ञानादिव्यष्टिः एतदुपहि-

ताल्पज्ञत्वादिविशिष्टं चैतन्यम् एतदनुपहितचैतन्यञ्च ।
एतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानः त्वम्पदवा-
च्यार्थो भवति” वेदान्तसा० ।

त्वम्पदाभिध पु० त्वम्पदमभिधा यस्य । त्वम्पदवाच्ये जीवे

“आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तः-
करणसम्भिन्नबोधः स त्वम्पदाभिधः” इत्युक्तेः ।

त्वयता स्त्री त्वया दत्तम् पृषो० । त्वया दत्ते इत्यर्थे “मन इन्द्र!

त्वयताया इषे” ऋ० ७ । २० । २० । “त्वयतायै इषे त्वया
दत्तायै इषे अन्नाय” भा० अन्नाय अन्नं भोक्तुमित्यर्थः ।

त्वर वेगे भ्वा० आत्म० अक० सेट् । त्वरते अत्वरिष्ट ।

घटा० । णिच्--त्वरयति । षित् त्वरा । ञीत् त्वरितो-
ऽस्ति । “गच्छावः सहितौ तत्र ममापि त्वरते मनः”
रामा० आर० ७८ स० । “यस्य वा त्वरते बुद्धिः”
भा० स० १५५ श्लो० “दूता हि त्वरयन्ति माम्” रामा०
बा० “अतत्वरच्च तान् योद्धुम्” भट्टिः ।

त्वरा स्त्री त्वर--अङ् । १ वेगे, २ अभीष्टलाभार्थं विलम्बासहने

च “औत्सुख्येन कृतत्वरा सहभुवा व्यावर्त्तमाना
ह्रिया” रत्नावली ।

त्वरायण त्रि० त्वरा अयनमस्य णत्वम् । त्वरासक्ते अमरः

त्वरायस् त्वरणे कण्ड्वा० आकृतिगणः पर० अक० सेट् ।

त्वरायस्यति ।
पृष्ठ ३४०२

त्वरि स्त्री त्वर--वेगे भावे इन् । त्वरायां हेमचन्द्रकोषः ।

त्वरित न० त्वर--क्त । १ शीघ्रे । २ तद्वति त्रि० । “पथोऽभि-

सस्रुस्त्वरितं चमूचराः” माघः “त्वरितगतिर्व्रजयुवतिः”
छन्दोम० । ३ देवीभेदे स्त्री “अथाभिधास्ये त्वरितां
त्वरितं फलदायिनीम्” इत्युपक्रमे तन्त्रसा० तद्ध्यानादिक-
मुक्तं दृश्यम् ।

त्वरितक पु० त्वरितं कायति प्रकाशते जायते कै--क ।

व्रीहिभेदे (तोरी) कृष्णव्रीहीत्याद्युपक्रमे “त्वरितक-
कुक्कुटाण्डकेत्यादि” सुश्रु० ।

त्वरितगति स्त्री “त्वरितगतिश्च नजनगैः” छ० म० उक्ते

दशाक्षरपादके वर्णवृत्तभेदे ।

त्वरितोदित न० त्वरितमुदितम् । शीघ्रोच्चारिते निरस्ते वचसि अमरः ।

त्वलग पु० जलग + पृषो० । जलसर्पे पारस्करनि० ।

त्वष्ट त्रि० त्वक्ष--तनूकरणे क्त । तनूकृते तष्टशब्दार्थे अमरः

त्वष्टि पु० “मत्स्याघातो निषादानां त्वष्टिस्त्वायोगवस्य च”

मनूक्ते सङ्कीर्णजातिभेदे ।

त्वष्टीमती स्त्री त्वष्टा तदनुग्रहोऽस्त्यस्याः मतुप् पृषो० ।

त्वष्टुरनुग्रहोपेतायां स्त्रियाम् “स्त्रीपुरुषमिथुनरूपाणां
पशुमनुष्यादीनां शरीरनिर्माता त्वष्टा तथा च अग्न्यु-
पस्थानप्र० श्रूयते “यावच्छो वै रेतसः सिक्तस्य त्वष्टा
रूपाणि विकरोति तावच्छो वै तत् प्रजायते” तादृशस्य
त्वष्टुरनुग्रहोपेता” मा० ।

त्वष्टृ पु० त्वक्ष--तृच् । “एकादशस्तथा त्वष्टा द्वादशो

विष्णुरुच्यते” भा० आ० ६५ अ० उक्ते १ द्वादशादित्य-
मध्ये १ आदित्यभेदे । “निर्भिन्ने अक्षिणी त्वष्टा
लोकपालोऽविशत् विभोः । चक्षुषांशेन रूपाणां प्रतिपत्ति-
र्यतो नृणाम्” भाग० ३१६१४ श्लो० । उक्तेस्तस्य नेत्रोपकार-
कतया नेत्राधिष्ठातृत्वम् । २ देवशिल्पिभेदे अमरः “विश्वकर्मा
च त्वष्टा च चक्राते ह्यायुधं बहु” हरिव० ३१९ अ० ।
“आह्वये विश्वकर्माणमहं त्वष्टारमेव च” रामा०
वा० ९१ स० । “त्वष्टा तथैवोर्ज्जितविश्वकर्म्मा” हरिवं०
२४३ अ० इत्यादिषु तयोर्भेदेन निर्देशात् न पर्य्या-
यता । ३ तद्देवताके चित्रानक्षत्रे । ४ सूत्रधरे
तक्षके वर्णसङ्करभेदे च । ५ तक्षणकर्तरि त्रि० स्त्रियां
ङीप् । ६ पशुमनुष्यादीनां गर्भान्तःस्थरेतोरूपविकारकारके
देवभेदे त्वष्टीमतीशब्दे दृश्यम् ।

त्वष्टृमत् त्रि० त्वष्टृ + अस्त्यर्थे मतुप् । वीर्य्याधिष्ठातृदेवभेदयुक्ते

“त्वष्टृमन्तस्त्वा सपेम” यजु० ३७ । २० । “त्वष्टा रेतसामधि-
ष्ठाता तत्सहिताः । मैथुनार्थोपस्पर्शे वीर्य्याधिष्ठाता-
पेक्षितोऽत एतद्युताः” वेददी० ।

त्वाम्कामा स्त्री त्वां कामयते कम--णिङ् अण् वेदे द्विती-

यायाः न लुक् । त्वामभिलषन्त्याम् । “अग्ने! त्वांका-
मया गिरा” ऋ० ८ । ११ । ७ । लोके तु त्वत्काम इत्येव ।

त्वायु त्रि० त्वामात्मन इच्छति क्यच् युष्मदस्त्वदादेशे क्याच्छ-

न्दसि” पा० उ । आत्मनः त्वां मयमाने । “सुता
इमे त्वायवः” ऋ० १ । ३ । ४ ।

त्वावत् त्रि० तवेव दर्शनमस्य युष्मद् + वतुप्प्रकरणे “युष्मद-

स्मद्भ्यां छन्दसि सादृश्ये उपसंख्यानम्” उक्तेः सादृश्ये
बतुप् त्वादेशः “आ सर्बनाम्नः” पा० आ । त्वत्सदृशे
“आ घ त्वावान् त्मानाप्तःः” ऋ० १ । ३० । १४ ।

त्वावसु पु० त्वं वसुर्व्यापकोऽस्य त्वादेशः वेदे पृषो० आ ।

त्वया व्याप्ते । लोके तु त्वद्वसुः इत्येव ।

त्वाष्टी स्त्री दुर्गायाम् । “तुष तुष्टौ स्मृतो धातुस्तस्य तुष्टी-

निपातने । सृजत्येषा प्रजास्तुष्टी त्वाष्टी तेन प्रकी-
र्तिता” देवीपु० ४५ अ० ।

त्वाष्ट्र त्रि० त्वष्टा देवता अस्य अण् । त्वष्टृदेवताके १ आज्यादौ

२ चित्रानक्षत्रे स्त्री । त्वष्टुः आदित्यभेदस्य अपत्यम् अण् ।
३ विश्वरूपे ४ वृत्रासुरे च । “त्वाष्ट्रस्य चिद्विश्वरूपस्य गोना-
माचक्राणः त्रीणि शीर्षापरावर्के” ऋ० १० । ८ । ९ । “विवस्वान-
र्य्यमा पूषा त्वष्टाथ सविता तथा” इत्युपक्रमे विवस्वदादीनां
वंशमभिधाय । “त्वष्टुर्देत्यभिबत् भार्य्या रोचना नाम
कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्य्यवान् ।
तं वव्रिरे सुरगणाः स्वस्त्रीयं द्विषतामपि” भाग० ६१६ अ०
३३ श्लो० इति विश्वरूपोत्पत्तिकथा । वृत्रासुरोत्पत्तिकथा च
“हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे । इन्द्रशत्रो!
विवर्द्धस्व मा चिरं जहि विद्विषम्” इत्युपक्रमे तदुत्-
पत्तिमुपवर्ण्य “येनावृता इमे लोकास्तमसा त्वाष्ट्रमू-
र्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः”
भाग० ६ । ९ अ० दृश्या । त्वष्टुः स्त्र्यपत्यम् अण् ङीप् ।
संज्ञानामनि ४ सूर्य्यपत्न्यां स्त्री शब्दरत्ना० । छायाशब्दे
२९८५ पृ० दृश्यम् । ५ क्षुद्ररथे त्रिका० । ६ सामभेदे ।
“इन्द्रो वृत्राद्बिभ्यद्गां प्राविशत् तं त्वाष्ट्रेऽब्रुवन्
जनन्यामेति तमेतैः सामभिरजनयन्” पञ्चभीष्मब्रा० ।

त्विष दीप्तौ भ्वा० उभ० अक० अनिट् । त्विषति ते । अत्वि-

क्षत् अत्विक्षत । तित्वेष तित्वषे । त्विक्षीष्ट । “ओजस्त-
दस्य तित्विषे” ऋ० ८ । ६ । ५ । “समच्यन्त वृजनाति
त्विष्वन्त यत्” ऋ० ५ । ५४ । १२ । “अग्निरिव मन्यो!
त्विषितः सहस्व” ऋ० १० । ८४ । २ ।
पृष्ठ ३४०३

त्विष्(षा) स्त्री त्विष्--सम्प० भावे क्विप् । दीप्तौ । “निशीथ-

दीपाः सहसा हतत्विषः” रघुः । “रुचिधाम्नि भर्तरि
परलोकमम्युपगते विविशुः । ज्वलनं त्विषः कथमिवेत-
रथा” “चयस्त्विषामित्यवधारितं पुरः” माघः । हलन्त-
त्वात् वा टाप् । तत्रार्थे शब्दरत्ना० ।

त्विषामीश पु० ६ त० अलुक् समा० । १ सूर्य्ये हेमच० २ अर्क-

वृक्षे च ।

त्विषाम्पति पु० ६ त० अलुक् स० । १ सूर्य्ये अमरः २ अर्कवृक्षे च ।

त्विषि पु० त्विष--इन् । किरणे हेमच० ।

त्विषित त्रि० त्विठ् जातास्य तार० इतच् । ज्वलिते ।

“अग्निरिव मन्यो त्विषितः” ऋ० १० । ८४ । २ ।

त्वेषथ त्रि० त्रिष--अथच् । दीप्ते । “शूरस्येव त्वेषथा दीषते

वयः” ऋ० १ । १४१ । ८ ।

त्वेषस् त्रि० त्विष--असुन् । दीप्ते “अस्येदु त्वेषसवरन्त सिब्धवः” ऋ० १ । ६१ । ११

त्वै अव्य० त्वच--बा० डै । १ विशेषे २ वितर्के च शब्दार्थचि० ।

त्वोत त्रि० त्वया ऊतः वेदे नि० । त्वया रक्षिते इत्यर्थे ।

“त्वोतासो न्यर्वता” ऋ० १ । ८ । २ । लोके तु त्वदूत इत्येव

त्सर छद्मगतौ भ्वा० पर० सक० सेट् । त्सरति त्सारीत् ।

“यस्त्रा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम्” अथ०
८ । ६ । ८ । “यो हैनं पाप्मा मायया त्सरति न हैनं
सोऽभिभवति” शत० ब्रा० ११ । १ । ६ । १२ ।

त्सरु पु० त्सर--उत्! खड्गमुष्टौ । “मा मां पद्येन रपसा

विदत् त्सरुः” ऋ० ७ । ५० । १ । “खड्गं च कनकत्सरुम्”
भा० व० १५२७ श्लो० । “गृहीतखड्गचर्माणस्ततो
भूयः प्रहारिणः । त्सरुमार्गान् यथोद्दिष्टांश्चेरुः सर्वासु
भूमिषु” भा० आ० ५२४४ श्लो० ।

त्सारुक त्रि० त्सरौ तद्युद्धे निपुणः आकर्षा० कन् ततः स्वार्थे

अण् । असियुद्धनिपुणे । “तथाऽतिपुरुषानन्यान् त्सारुकौ
यमजावुभौ” भा० आ० १३२--अ० ।

त्र्यब्दस्पृश् पु० त्र्यब्दं जैववर्षत्रयं स्पृशति स्पृश क्विन्

जैववर्षत्रययृक्ते लुप्तसंवत्सरे सौरवर्षभेदे । “एकस्मिन् रविवर्षे
सौरवर्षद्वयावसानं चेत् । त्र्यव्दस्पृगेवमेनं र्विलुप्तवत्सरं
प्राहुः” यशोधरेजतन्त्रम् । “गुरुवर्षयुग्मर्वत्समा गदिता सा
मन् मुप्तसंज्ञिता” ज्योतिर्विदाभरणम् ।
इति वाचस्पत्ये तकारादिशब्दार्थतङ्कलनम् ।