वाचस्पत्यम्/तिरस

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३३०२

तिरस अव्य० तॄ--असुन् स्वरादि । १ अन्तर्द्धाने २ तिर्य्यगर्थे च

अमरः । ३ तिरस्कारे क्षीरस्वामी । अस्य कृञि वा
उप० स० । तिरस्कृत्य तिरः कृत्येति “तिरस्कृत्योच्चरेत्
काष्ठेत्यादि मनुः “तिरस्क्रियन्ते कृमितन्तुजालैः” माघः ।
तिरस्करोति णिच्--सलोपः । तिरयति आच्छादयती-
त्यर्थः । “मुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि
वेदनाम्” जयदेवः ।

तिरस्कर त्रि० तिरःकरोति कृ--ट । आच्छादके । स्त्रियां

ङीप् । “अहो वत स्वर्यशसस्तिरस्करी कुशस्थली
पुण्ययशस्करी भुवः” भाग० १ । १० । २८ ।

तिरस्करिणी स्त्री तिरः करोति कृ--णिनि संज्ञापूर्बकविधे

रनित्यत्वात् वृद्ध्यभावः ङीप् । (परदा) (काणात) ।
पटमये आच्छादकपदार्थे अमरः । “तिरस्करिण्यो जलदा
भवन्ति” कुमा० । २ आच्छादकमात्रे त्रि० “सोऽत्यासा-
द्यत तद्वेश्म तिरस्करिणमन्तरा” रामा० अयो० १५ स० ।

तिरस्कार पु० तिरस् + कृ--भावे घञ् । १ अनादरे हला० ।

कर्त्तरि अण् । २ अवज्ञाकारके त्रि० । “लौहस्तिरस्कार
इवात्तमन्युः” किराता० ।

तिरस्कारिन् त्रि० तिरः करोति कृ--णिनि ६ त० । १ आच्छा-

दके (कानात) २ पटभेदे स्त्री ङीप् । ३ अवज्ञाकारके ति०

तिरस्कृत त्रि० तिरस् + कृ--कर्म्मणि क्त । १ अवज्ञाते अनादृते

२ आच्छादिते च अमरः “अविवक्षितवाच्यो यस्तत्र वाच्यं
भवेद् ध्वनौ । अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृ-
तम्” काव्यप्र० । ४ तन्त्रसारोक्ते मन्त्रभेदे पु० “यस्य
मध्ये दकारोऽस्ति कवचं मूर्द्धनि द्विधा । अस्त्रं तिष्ठति
मन्त्रः स तिरस्कृत उदीर्य्यते” ।

तिरस्क्रिया स्त्री तिरस् + कृ--भावे श । १ अनादरे २ तिरस्कारे

अमरः २ आच्छादने च “अप्रकटीकृतशक्तिः शक्तोऽपि
जनातिरस्क्रियां लभते” पञ्चत० । “द्विपद्विषः प्रत्युत
सा तिरस्क्रिया” माव० ।

तिरस्य पु० तिरस् + कण्ड्वा० यक् अन्तर्द्धाने सक० सेट् । तिरस्यति अतिरस (स्यी)त् ।

तिरिट पु० तॄ--वा० इटक् । इक्षुग्रन्थौ शब्दमा० ।

तिरिम पु० तॄ--वा० इमक् । शालिभेदे राजनि० ।

तिरिष पु० तॄ--बा० इषक् । शालिभेदे राजनि० ।

तिरीट न० तॄ--ईटक् । लोध्रवृक्षे उज्जवलद० ।

तिरोटक पु० तिरीट + संज्ञायां कन् । लोध्रे अमरः ।

तिरोधान न० तिर + धा--भावे ल्युट् । १ अन्तर्द्धाने भावे

अङ् । तिरोधाप्यत्र स्त्री ।

तिरोभाव पु० तिरस् + भू--भावे घञ् । १ गुप्तभावे २ अन्तर्द्धाने ।

तिरोहित त्रि० तिरस् + धा--क्त । १ अन्तर्हिते गुप्ते २ आच्छा-

दिते च “अतिरोहितमन्यत्” तत्त्वकौ० “एष ह वै पुरो-
हितो य एवं वेदाथ स तिरोहितो य एवं न वेद” ऐत० ब्रा०
“न चामारं न च न्यूनं न दूरे न तिरोहितम्” मनुः

तिर्य्यक्पातिन् त्रि० तिर्य्यक् पतति पत--णिनि । वक्र-

प्रसारिते कुटिलवृत्तौ शब्दार्थचि० ।

तिर्य्यक्प्रमाण न० कर्म्म० । विस्तारप्रमाणे ।

तिर्य्यक्स्रोतस् पु० तिर्य्यक् स्रोतो आहारसञ्चारो यस्य ।

पशुपक्ष्यादौ तेषामशितान्नस्य तिर्य्यक्तया उदरे सञ्चा-
रात् तथात्वम् । तद्भेदाभाग० । ३ । १० । २१
“तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधोमतः । अविदो
भूरितमसो घ्राणज्ञा हृद्यवेदिनः । गौरजो महिषः
कृष्णः शूकरो गवयोरुरुः । द्विशफाः पशवश्चेमे अविरु-
ष्ट्रश्च सत्तम! । खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी
तथा । एते चैकशफाः क्षत्तेः! शृणु पञ्चनखान् पशून् ।
श्वा शृगालो वृको व्याध्रो मार्ज्जारः शशशल्लकौ । सिंहः
कपिर्गजः कूर्म्मो गोधा च मकरादयः । कङ्कगृध्र
वकश्येनभासभल्लूकवर्हिणः । हंससारसचक्राङ्गकाको-
लूकादयः खगाः ।”
“तिर्य्यक्स्रोतसां सर्गमाह तिरश्चामिति । स चाष्टा-
विंशतिभेदः । तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञान-
शून्याः । भूरितमसः आहारादिमात्रनिष्ठाः । घ्राणज्ञाः
घ्राणेनैवेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धान-
शून्याः । तथा च श्रुतिः “अथेतरेषां पशूनाम् अशनापि
पासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति
न विदुः श्वस्तनं न लोकालोकाविति” । अष्टाविंशति-
भेदानाह गवादय उष्ट्रान्ताः द्विशफाः द्विखुरा नव
गवादयः चमर्य्यन्ता एकशफाः षट् । श्वादयो गोधान्ताः
पञ्चनखाद्वादश । एवमेते भूचराः सप्तविंशतिः, भकरा-
दयो जलचराः कङ्कादयश्च खगाः । अभूचरत्वेनैकी-
कृत्य गृहीताः । तदेवमष्टाविंशतिभेदान् वदन्ति ।
तेषु कृष्णरुरुगौराः मृगविशेषाः अन्येषामपि तिर्य्यके
प्राणिनामेतेष्वेब यथायथमन्तर्भावः ।”

तिर्य्यग्योनि स्त्री तिरश्चां योनिः पशुपक्ष्यादिजातौ

“स लिङ्गिनां हरत्येनस्तिर्य्यग्योनौ च जायते” मनुः ।
“अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यंग्योनिगतामपि” ति० त० ।
पृष्ठ ३३०३

तिल गतौ भ्वा० पर० सक० सेट् । तेलति अतेलीत् । तितेल ।

तिल स्नेहे तु० पर० अक० अनिट् । तिलति अतेलीत् ।

तितेल ।

तिल स्नेहे चुरा० उभ० अक० सेट् । तेलयति ते अतीतिलत् त ।

तिल पु० तिल--क । स्वनामख्याते शस्यभेदे । भावप्र० तद्गुणाद्युक्तं

यथा “तिलः कृष्णः सितो रक्तः सवर्ण्योऽल्पतिलः स्मृतः ।
तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः । विपाके
कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् । बल्यः केश्यो
हिमस्पर्शस्त्वच्यस्तन्योव्रणे हितः । दन्त्योऽल्पमूत्रकृद्-
ग्राही वातघ्नोऽग्निमतिप्रदः । कृष्णः श्रेष्ठतमस्तेषु
शुक्रलो मध्यमः सितः । अन्ये हीनतराः प्रोक्तास्तज्ज्ञै-
रक्तादयस्तिलाः” ।
तिलप्रतिग्रहनिषेधमाह ब्रह्मपुराणम् “ब्राह्मणः प्रति-
गृहणीयात् वृत्त्यर्थं साधुतस्तथा । अव्यश्वमपि मातङ्ग-
तिललौहांश्च वर्जयेत्” तिलदाने फलमाह विष्णुः ।
“तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्” । महाभारते
“कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा ।
तिलपात्रं प्रयच्छन् वै सर्वपापैः प्रमुच्यते” । श० त० स्मृतिः
“प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप! ।
यावन्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते” । सप्तम्यादिवर्जं
तिलैः सदा स्नानं कर्त्तव्यमाह मार्कण्डेयः “सर्वकालं तिलैः
स्नानं पुण्यं व्यासोऽब्रवीन्मुनिः । श्रीकामः सर्वदा स्नानं
कुर्वीतामलकैर्नरः । सप्तमीं नवमीं चैव पर्वकालञ्च वर्ज-
येत्” जन्मतिथौ तिलनिष्पाद्याः षड़्व्यापाराः कार्य्याः
यथाह ति० त० “तिलोद्वर्त्ती तिलस्नायी तिलहोमी
तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसी-
दति” कालविशेषे तिलतर्पणनिषेधः गङ्गादौ च सर्वदा
निषिद्धदिनेऽपि तिलतर्पणकार्य्यता च तर्पणशब्दे ३२५८
पृ० उक्ता । रात्रौ तिलसंबद्धवस्तुमात्रस्याभक्ष्यता “सर्वञ्च
तिलसंबद्धं नाद्यादस्तमिते रवौ” काशी० “तिलाश्चम्पकसं-
श्लेषात् प्राप्नु वन्त्यधिवासताम्” कामन्दकी० “विक्रीणाति
तिलैस्तिलान्” पञ्चत० । २ तिलतुल्ये स्वल्पप्रमाणे च
“तिलं तिलं समादाय रत्नामां यद्विनिर्मिता । तिलो-
त्तमेति तत्तस्या नाम चक्रे पितामहः” भा० आ०
७९९६ श्लो० । ३ तिलाकारे देहस्थे (तिल) ख्याते
तिलकालके च “देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती ।
तेनाहं नृप! जानामि भानुमत्यास्तिलं यथा” कालिदासः ।
तिलस्य विकारः अण् । तैल तिलनिर्यासे तिलस्नेहे
तिलसदृशवस्तुजाते स्नेहे च “अदुष्टं सार्षपं तैलं यत्तैलं
पुष्पवासितम् । अदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः”
तिथित० । पर्वणि तन्निषेधमाह “स्त्रीतैलमांससंभोगी-
विण्मूत्रनरकं व्रजेत्” ति० त० एवमन्यदिनेऽपि तैलनिषेधः
स्मृतौ दृश्यः ।

तिलक न० तिल--क्कुन् तिल + इवार्थे स्वल्पे वा कन् वा ।

१ क्लोमनि २ कृष्णसौवर्चले अमरः ३ सौवर्चले मेदि० ।
४ तिलवृक्षे, पु० राजनि० । ५ अश्वभेदे, पुंस्त्री० मेदि० ।
६ रोगभेदे, अमरः । ७ मरुवके च हेमच० । स्वनामख्याते
नासादौ धार्य्ये ८ चन्दनादिविशेषके पुंन० । तस्थ
धारणप्रकारो यथा “द्वादशाङ्गे ललाटादौ तिलकं
हरिमन्दिरम् । स्नानान्ते वैष्णवः कुर्य्यात् प्रत्येकं
कृष्णनामभिः । वामे वक्षसि नेत्रान्ते गण्डेऽंसे शङ्ख-
चिह्नितम् । तथैव दक्षिणे कुर्य्याद्धरेश्चक्राङ्कितं मुने! ।
ललाटे केशवं विद्यात् कण्ठे श्रीपुरुषोत्तमम् । वामवाहौ
वासुदेवं सव्ये दामोदरन्तथा । नाभौ नारायणञ्चैव
माधवं हृदये तथा । गोविन्दं दक्षिणे पार्श्वे वामे चैव
त्रिविक्रमम् । विष्णुं सव्ये कर्णमूले दक्षिणे मधुसू-
दनम् । शिरोमध्ये हृषीकेशं पद्मनाभञ्च पृष्ठतः । हरेर्द्वा-
दशनामानि पठित्वा तिलकानि तु । यः कुर्य्याद्वैष्णवो
नित्यं स प्र मभक्तिमाप्नुयात् । ये कण्ठलग्नतुलसीभव-
काष्ठमाला ये द्वादशाङ्गहरिनामकृतोर्द्धपुण्ड्राः । ये कृष्ण-
भक्तिसुदृढ़ा धृतशङ्खचक्रास्ते वैष्णवा भुवनमाशु पवित्र-
यन्ति । तिलकन्तूर्द्धपुण्ड्राख्यं मध्यच्छिद्रं हि नारद! ।
यदि कुर्य्याल्ललाटे तद्विज्ञेयं हरिमन्दिरम् । आनासा-
मूलमाश्रित्य शिरोमध्यगतं मुने! । हरिपादाकृतं
नासामूलमारभ्य यत्नतः । हरिमन्दिरवत् सर्वं तद्राधावल्ल-
भीयकम् । श्रीराधावल्लभीयं यत्तिलकं सुमनोहरम् ।
यौगलं तत्तु विज्ञेयं यदि मध्यसुरङ्गितम् । यदूर्द्धपुण्ड्रं
तिलकं शोभनं तन्मनोहरम् । तन्मध्ये पीतरेखञ्च श्रीम-
द्रामानुजं विदुः । श्रीरामोपामना यस्य तिलकं तूर्द्ध्व-
पुण्ड्रकम् । भ्रुवोर्म्मध्ये सविन्दु स्याद् यदि विप्र!
मनोहरम् । हरेः सर्वावताराणां मत्स्यादीनां विशेषतः ।
उपासकानां तिलकं केवलं हरिमन्दिरम् । ऊर्द्ध्व-
पुण्ड्रं द्विजः कुर्य्यात् क्षत्रियाणां तथैव च । वैश्या-
नान्तु तथा विप्र! शूद्रादेर्मण्डलाकृति । अच्छिद्रमूर्द्ध्व-
पुण्ड्रन्तु ये कुर्वन्ति जनाधमाः । तेषां ललाटे सततं
पृष्ठ ३३०४
शुनः पादो न संशयः । दृष्ट्वा भाले द्विजातीनामच्छिद्र-
मूर्द्ध्वपुण्ड्रकम् । कार्ष्णः कृष्णिस्मृतिं कृत्वा वस्त्रेणाच्छा-
दयेन्मुखम् । ललाटदक्षिणे ब्रह्मा वसेद्वामे महेश्वरः ।
मध्ये विष्णुर्वसेन्नित्यं तस्मान् मध्यं न लेपयेत् । वर्त्तुलं
तिर्य्यगच्छिद्रं ह्रस्वं दीर्घं ततं नतम् । षष्ठलक्षणसंयुक्तं
तिलकं यन्निरर्थकम् । स्वनित्रयष्टिकुकूनत्रिशूलमुकुरा-
कृति । त्रिपुण्ड्रमर्द्धचन्द्रञ्च तिलकं यन्निरर्थकम् ।
प्रमाणन्तूर्द्ध्वपुण्ड्रस्य दीर्घं स्यात् कलिवर्द्धनम् । आनासा-
मूलमारभ्य ब्रह्मरन्ध्रगतं यदि । शूद्रस्येकाङ्गुलं प्रोक्त-
मायतं द्व्यङ्गुलं विशि । क्षत्रिये त्र्यङ्गुलं तद्वद्ब्राह्मणे
चतुरङ्गुलम् । नासिकायास्त्रिभागैको भागोमानेन यो
भवेत् । भ्रुवोर्मध्यादधः स्थानं मूलमाहुर्मणीषिणः ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । कुर्य्यात्
यदूर्द्ध्वपुण्ड्रं तद्वैष्णवो हरिमन्दिरम् । वैष्णवा विप्रा
भूपाश्चेत् वैश्यशूद्रान्त्यजाश्रमाः । यदूर्द्ध्वपुण्ड्रं विभृ-
युस्तदेव हरिमन्दिरम् । नरोवाप्यथ वा नारी यदि
कृष्णपथं लभेत् । यत्नतस्तुलसीमाला सन्धार्य्या हरिम-
न्दिरम् । मध्यच्छिद्रं न कुर्य्यात् यस्तिलकं यदि वैष्णवः ।
श्वपदं तच्चितातुल्यं भवेन्नारद! नान्यथा । दण्डाकारं द्वि-
रेखं यत्तिलकं मूलकोणकम् । मध्यच्छिद्रन्तु तत्प्राहु-
रूर्द्ध्वपुण्ड्रं मनोहरम् । अधोमुखाब्जकलिकाकारं
तिलकसुत्तमम् । मध्यच्छिद्रं युग्मरेखमूर्द्ध्वपुण्ड्रं प्रकी-
र्त्तितम् । तीर्थमृद् यज्ञकाष्ठञ्च विल्वोमलयसम्भवम् ।
अश्वत्थतुलसीमूलमृत्तिका गोष्पदस्य च । जाह्नवी मृन्-
महानिन्बतुलसीकाष्ठमेव च । कस्तूरीकुङ्कुमं फल्गु-
सिन्दूरं रक्तचन्दनम् । गोरोचना गन्धकाष्ठं जलं चागुरु
गोमयम् । धात्रीमूलस्य मृद्गन्धो हरिद्रा गोगृहस्य
च । स्नानान्ते सर्ववर्णानामाश्रामाणान्तथैव च ।
एतानि तिलकान्याहुः सन्ध्यादिसर्वकर्म्मसु” ।
“गङ्गामृत्तुलसीमूलमृत्तिकामलयोद्भवम् । साधोश्चरण
संलग्नं रजोमृद्गोष्पदस्य च । याऽश्वत्थमूलमृद्गोपी
चन्दनं तीर्थमृत्तिका । कुङ्कुमं तुलसीकाष्ठं वैष्णवा-
हृतमृत्तिका । गोरोचना च कस्तूरी हरिद्रागुरुचन्द-
नम् । वल्मीकमृत्तिकागन्धः पद्मकं हरिचन्दनम् ।
गन्धकाष्ठं महानिम्बो यमुनातीरमृत्तिका । गुरुपादरजो
वारिसुसाध्वङ्घ्रिरजो जले । कृत्वा प्रतिदिनं स्नानमे-
तैर्गन्धमृदादिभिः । चारु यत्तिलकं ग्राह्यं तन्नाम्ना
वैष्णवैर्ध्रुवम् । काम्यं नैमित्तिकं नित्यं यत् किञ्चित्
कर्म्म नारद! । वर्णाश्रमाणां तन्नास्ति स्नामान्ते तिलकं
विना । कर्म्म वर्णाश्रमाणां स्यात् दैवं पैत्रं न तत्फ-
लम् । स्नानं सन्ध्यां पञ्च यज्ञान् पैत्रं होमादिकर्म्म यः ।
विना तिलकदर्भाभ्यां कुर्य्यात्तन्निष्फलं भवेत्” । इति
पद्मोत्तरखण्डम् “वीक्ष्यादर्शे जले वापि यो विदध्यात्
प्रयत्नतः । ऊर्द्ध्वपुण्ड्रं महाभागः स याति परमाङ्गतिम्”
पाद्मे पातालखण्डे “शिवागमे दीक्षितैस्तु धार्य्यं
तिर्य्यक् त्रिपुण्ड्रकम् । विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्व-
पुण्ड्रं विधारयेत्” । इति नागोजीभट्टधृतसूतसंहिता ।
पद्मपुराणे उत्तरखण्डे “ललाटे केशवं ध्यायेन्नारायण
मथोदरे । वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके । विष्णुञ्च
दक्षिणे कुक्षौ वामे च मधुसूदनम् । त्रिविक्रमं कन्धरे
तु वामनं वामपार्श्वके । श्रीधरं वामवाहौ तु हृषीकेशन्तु
कन्धरे । पृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत् ।
तत्प्रक्षालनतोयन्तु वासुदेवेति मूर्द्धनि” । किञ्च “ऊर्द्ध्वपुण्ड्रं
ललाटे तु सर्वेषां प्रथमं स्मृतम् । ललाटादिक्रमेणैव
धारणन्तु विधीयते” इति “एवं न्यासं समाचार्य्य सम्प्र-
दायानुसारतः । न्यसेत् किरीटमन्त्रञ्च मूर्द्ध्नि सर्वार्थ-
सिद्धये” अथ किरीटमन्त्रः “ओम् श्रीकिरीटकेयूरहार-
मकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बरधरश्रीवत्सा-
ङ्कितवक्षःस्थलश्रीभूमिसहितस्वात्मज्योतिर्दीप्तिकराय
सहस्रादित्यतेजसे नमो नमः” हरिभक्तिविलामे ४ विलासः ।
ऊर्द्ध्वपुण्ड्रशब्दे अधिकं दृश्यम् । ९ ध्रुवकभेदे यथा
“पञ्चविंशतिवर्णाङ्घ्रिस्तिलको ध्रुवको भवेत् । इष्टश्चञ्चत्-
पुटे ताले रसे वीरे अद्भूतेऽपि वा” सङ्गीतदा० । “मुखे
मधुश्रीस्तिलकं प्रकाश्य” कुमा० । तिलक इव उत्तरप-
दस्यः १० श्रेष्ठे “श्रियं त्रिलोकी तिलकः स एव” ।
“लोध्रचूर्णतिलकाकृतिः” माघः । स्वार्थे क । ११ तिलवृक्षे
राजनि० । “न तिलकस्तिलकः प्रमदामिव” रघुः ।

तिलकट न० तिलस्य रजः कटच् । तिलरजसि ।

तिलकल्क पु० तिलस्य कल्कः । १ पिण्याके (खलि) अमरः

“कषायेण प्लोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढ़ा-
मौषधयुतां वर्त्ति प्रणिदध्यात्” “तिलकल्कः समधुको
घृताक्तो व्रणरोपणः” सुश्रु० ।

तिलका स्त्री तिलं तिलपुष्पमिव कायति कै--क । हारभेदे

जटा० “सगणद्वितयं भवतीह यदा रसवर्ण्णपदा
तिलकेति तदा” उक्तलक्षणके द्वादशाक्षरपादके २ छन्दोभेदे च ।
पृष्ठ ३३०५

तिलकालक पु० तिल इव कालकः कृष्णः । १ देहस्थे २ तिला-

कारे चिह्ने, ३ रोगभेदे च अमरः “कृष्णानि तिलमात्राणि
नीरुजानि समानि च । वातपित्तकफोद्रेकात् तान्
विद्यात् तिलकालकान्” सुश्रु० ।

तिलकाश्रय पु० ६ त० । ललाटे शब्दार्थक० ।

तिलकिट्ट न० ६ त० । तिलपिण्याके “तिलकिट्टं तु रूक्षं

स्यात् ग्लपनं दृष्टिदोषकृत् । विष्टम्भकारणं तद्धि
भिषग्भिः परिकीर्त्तितम्” भावप्र० ।

तिलकिन् त्रि० तिलक + अस्त्यर्थे इनि । तिलकधारिणि-

“शिखी तिलकी कर्म्म कुर्य्यात्” स्मृतिनिबन्धे कल्प्यश्रुतिः ।

तिलचित्रपत्रक पु० तिलस्येव चित्रं पत्रमस्य कप् ।

तैलकन्दे वृक्षभेदे राजनि० ।

तिलचूर्ण्ण न० ६ त० । चूर्णीकृततिले (तिलकुटा) १ खाद्य-

भेदे । २ तिलकल्के च राजनि० ।

तिलतण्डुलक पु० तिलस्य तण्डुल इव कायति कै--क ।

१ आलिङ्गने शब्दमा० आलिङ्गनस्य तिलतण्डुलवत् संश्ले-
षयुक्तत्वात् तथात्वम् । ६ त० । २ तिलस्य तण्डुले
निस्तुषतिले पु० (माजातिल) ।

तिलतेजा स्त्री तिल इव तेजयति चुरा० तिज--अच् ।

लताभेदे “कफजे तिलतेजाह्वा दन्तीस्वर्जिकचित्रकाः” सुश्रु०

तिलन्तुद त्रि० तिलं तुदति तुद--खश् मुम् । तैलिके

तिलपीड़के ।

तिलद्वादशी स्त्री तिलभोजनादिनियमयुक्ता द्वादशी । द्वादशीभेदे व्रतशब्दे दृश्यम् ।

तिलधेनु स्त्री० तिलनिर्म्मिता धेनुः शा० त० । विधानेन

दानार्थं तिलकृतायां धेनौ । तद्विधानं यथा ।
“विधानं तिलधेनोस्त्वं ब्रूहि शीघ्रं द्विजोत्तम! । मुनिः
प्राह विधानं यत् तच्छृणुष्व नराधिप! । षोड़शाढ़क-
कैर्धेनुश्चतुर्भिर्वत्सको भवेत् । इक्षुदण्डमयाः पादादन्ताः
पुष्पमया शुभाः । नासा गन्धमयी तस्या जिह्वा गुड़मयी
तथा । स्थितां कृष्णाजिते धेनुं वसोभिर्वासितां शुभाम् ।
सूत्रेण वासितां कृत्वा पञ्चरत्नसमन्विताम् । सर्वौषधि
समायुक्तां मन्त्रपूतान्तु दापयेत् । अन्नं मे जायतां
सद्यः पानं सप्त रसास्तथा । कामं सन्धापयास्माकं
तिलधेनुमुपार्ज्जिताम् । गृह्णामि त्वां देवि! भक्त्या कुटु-
म्बार्थे विशेषतः । कुटुम्बकामं कुरुतां तिलोधेनो!
नमोऽस्तु ते । एवं विधां नरोदत्त्वा तिलधेनुं नृपोत्तम! ।
सर्वकामसमाप्तिं च कुरुते नात्र संशयः” प० पु० सृ० ख० ।

तिलपर्ण्णष्ट पु० तिलस्येव पर्ण्णमस्य । १ श्रीवेष्टे वृक्षे राजनि० ।

२ चन्दने न० राजनि० । ६ त० । तिलवृक्षस्य ३ पत्रे न० ।

तिलपर्ण्णी स्त्री तिलस्येव पर्ण्यान्यस्याः ङीप् । १ रक्तचन्दने ।

अमरः २ नदीभेदे स्त्री शब्दार्थचि० । तिलपर्णीनदी
आकरत्वेनास्त्यस्या अच् गौरा० ङीष् । २ सिह्लके
गन्धद्रव्यभेदे स्त्री हेमच० । स्वार्थे क । तिलपर्णिका
रक्तचन्दने हेमच० ।

तिलपिञ्ज पु० पु० निष्फलस्तिलः तिल + पिञ्ज । निष्फलतिले

“वभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य
तिलपिञ्ज्या” अथ० २ । ८ । ३ ।

तिलपुष्पक पु० तिलस्येव पुष्पमस्य कप् । विभीतकवृक्षे

पारस्करनै० । त० । ६ त० । २ तिलस्य पुष्पे च तत्सादृश्यात्
३नासिकायाम् तन्त्रसा० ।
“पद्मं दृष्ट्वा तथा विग्बं खञ्जनं शिखरन्तथा । चामरं
रविविम्बञ्च तिलपुष्पं सरोरुहम् । त्रिशूलं वीक्ष्य जप्त्वा
च शतशः शुद्धभावतः । “पद्मं मुखं विम्बमधरं खञ्जनञ्चक्षुः
शिखरं मस्तकं चामरं केशं रविविम्बं सिन्दूरं तिलपुष्पं
नासिकां सरोरुहम् नाभिं त्रिशूलं त्रिवलीम्” ।
तन्त्रसारः ।

तिलपेज पु० निष्फलस्तिलः तिल + पेज । निस्फले तिले अम० ।

तिलभार पु० देशभेदे “तिलभाराः समीराश्च मधुमत्ताः

सुकन्दकाः । भा० भी० ९३ अ० ।

तिलमय त्रि० तिलस्य विकारः तिल + असंज्ञायां मयट् ।

तिलविकारे संज्ञायां तु अण् । तैलमित्येव ।

तिलमयूर पुंस्त्री० तिलपुष्पचिह्नितः मयूरः शा० त० ।

(तिलेमयूर) मयूरभेदे त्रिका० स्त्रियां जातित्वात् ङीष् ।

तिलरस पु० ६ त० । तिलतैले ।

तिलशस् अव्य० तिलं तिलं तत्परिमितं करोतीति मानार्थ-

त्वात् वीप्सायां कारकार्थे शस् । तिलं तिलं कृत्वेत्येव-
माद्यर्थे । “तिलशस्तद्रथं चक्रे साश्वध्वजपताकिनम्”
हरिवं० १८६ अ० ।

तिलशैल पु० दानार्थे कल्पिते दशसु अचलेषु अचलभेदे ।

तिलाचलादयोऽप्यत्र । तिलाचलश्च द्विविधः तिलमय-
प्रधानमेरुः, धान्यशैलस्य पश्चात् कल्पितः तिलमयविष्कम्भ-
गिरिश्च । तत्र मेरुरूपतिलशैलदानविधिर्यथा
“प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः । गुड़ा-
चलस्तृतीयस्तु चतुर्थो हेमपर्वतः । पञ्चमस्तिलशैलः स्यात्
षष्ठः कार्पासपर्वतः । सप्तमो घृतशैलश्च रत्नशैलस्तथा-
ष्टमः । राजतो नवमस्तद्वद्दशमः शर्कराचलः । वक्ष्ये
विधानमेतेषां यथावदनुपूर्वशः । अयने विषुवे पुण्ये
पृष्ठ ३३०६
व्यतोपाते दिनक्षये । शुक्लपक्षे तृतीयायामुपरागे
शशिक्षये । विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः ।
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः । धान्यशै-
लादयोयेऽपि देयाः शास्त्रं विजानता” इत्युपक्रमे ।
“अतःपरं प्रवक्ष्यामि तिलशैलं विधानतः । यत्प्रदाना-
न्नरोयाति विष्णुलोकं सनातनम् । उत्तमो दशभिर्द्रोणै
र्मध्यमः पञ्चभिः स्मृतः । त्रिभिः कनिष्ठो विप्रेन्द्र!
तिलशैलः प्रकीर्त्तितः । पूर्ववच्चापरान् सर्वान् विष्कम्भा-
नमितोगिरीन् । दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनि-
पुङ्गव! । यस्मान् मधुबधे विष्णोर्देहस्वेदसमुद्भवाः ।
तिलाः कुशाश्च माषाश्च तस्माच्छन्नो भवत्विह । हव्ये
कव्ये च यस्माच्च तिला एवाभिरक्षणम् । भवादुद्धर शैलेन्द्र!
तिलाचल! नमोऽस्तु ते” । इत्यामन्त्र्य च यो दद्यात्
तिलाचलमनुत्तमम् । स वैष्णवं पदं याति पुनरावृत्तिदुर्ल-
भम् । दीर्घायुष्यं समाप्तोति पुत्रपौत्रैश्च मोदते । पितृ-
भिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्” मत्स्यपु० ८६ अ० ।
विष्कुम्भरूपतिलाचलस्तु यथा । “पश्चात्तिलाचलमनेकसुग-
न्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् । आकारयेद्र-
जतपुष्पवनेन तद्वद्वज्रान्वितं दधिसितोदसरस्तथाग्रे”
मत्० पु० ८२ अ० ।

तिलस्नेह पु० ६ त० । तैले शब्दार्थक० ।

तिलाङ्कितदल पु० तिलेनाङ्कितं दलमस्य । तैलकन्दे राजनि० ।

तिलान्न न० तिलमिं श्रितमन्नं शा० त० । तिलमिश्रितेऽन्ने कृशरे

हेम० ।

तिलापत्या स्त्री तिलस्ये व क्षुद्रः अपत्यं वीजमस्याः । कृष्णजीरके शब्दार्थचि० ।

तिलित्स पु० तेलनं तिलिर्गतिस्तं त्सरति छद्मना गच्छति

त्सर--ड । अजगरे सर्पभेदे अमरः स्त्रियां जातित्वात् ङीष्

तिलोत्तमा स्त्री अप्सरोभेदे “तिलोत्तमा नाम पुरा व्रह्मणो

योषिदुत्तमा । तिलं तिलं समुद्धृत्य रत्नानां निर्मिता
शुभा” भा० अनु० १४१ अ० । तस्यास्तथानामकरणं यथा
“तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेति
तत्तस्या नाम चक्रे पितामहः” भा० आ० २११ अ० ।

तिलोदक न० तिलमिश्रितमुदकम् शा० त० । तिलमिश्रिते

उदके “तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्”
मनुः “बलिं भिक्षां तथाऽर्घ्यञ्च पितृणाञ्च तिलोदकम्”
भा० अनु० १२६ अ० । “आवाहयिष्ये तान् सर्वान्
दर्भपृष्ठे तिलोदकैः” वायुपु० ।

तिलौदन पुंन० तिलमिश्रितः ओदनः । कृशरे हारा० ।

“दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौ-
दनं पाचयित्वा” शत० ब्रा० १४ । ९ । ४ । १६ । “तिलमिश्रमो-
दनं कृशरमित्यर्थः” भा० ।

तिल्पिञ्ज पु० तिल + पिञ्ज--वेदे डिच्च । बन्ध्यतिले “इषीकां

जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम्” अथ० १२ । २ । ५४ ।

तिल्य न० तिलानां भवनं क्षेत्रम् यत् । १ तिलभवनयोग्ये क्षेत्रे

तिलाय हितं यत् । २ तिलहिते त्रि० ।

तिल्ल गतौ भ्वा० पर० सक० सेट् । तिल्लते अतिल्लीत् । तितिल्ल ।

तिल्व पु० तिल--स्नेहे “उल्वादयश्चेति” उणा० नि० । १ लोध्रे

अमरः २ श्वेतलोध्रे सुभूतिः ३ रक्तलोध्रे क्षीरस्वामी स्वार्थे
क । तत्रार्थे राजनि० । “न्यग्रोधाश्वत्थतिल्वकहरिद्रुस्फु-
र्जविभीतकपापनामभ्यश्च” कात्या० श्रौ० २१ । ३ । २० “तिल्वकः
तिणिशः” कर्कः ।

तिल्विल त्रि० तिल--स्नेहे वा० कुतिलुः स्निग्धा इलाभूमिर्यस्मिन् ।

देवयजने स्थाने “भद्रे क्षेत्रे निर्मिता तिल्विले वा” ऋ०५ ।
६२ । ७ “है व तिष्ठ निर्मिता तिल्विलास्तामिरावतीं
मध्ये पौषस्य तिष्ठन्तीम्” आ० गृ० २ । ८८ । “तिल्वि-
लायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः”
ऋ० ७ । ७८ । ५ । “तिल्विलायध्वं तिलुरिला भूमिर्यस्य तत्
कुरुत” भा० ।

तिष्ठद्गु अव्य० तिष्ठन्त्यो गावो यस्मिन् काले तिष्ठद्गुप्रभृतित्वात्

नि० अव्ययीभावः । दोहनकाले “आ तिष्ठद्गु जपन्
सन्ध्यां प्रक्रान्तामायतीगवम्” भट्टिः ।

तिष्ठद्गुप्रभृति न० अव्ययीभावे निपातनाङ्गशब्दसमूहे स च

गणः पा० गणसू० उक्तो यथा
“तिष्ठद्गु बहद्गु आयतीगवम् खलेयवम् खलेबुसम्
लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृत-
यवम् संह्रियमाणयवम् । संहृतबुसम् संह्रियमाण-
बुसम् समभूमि समपदाति सुषमम् विषमम् । दुःसमम्
निषमम् अपसमम् आयतीसमम् प्रौढ़म् पापसमम्
पुण्यसमम् प्राह्णम् प्ररथम् प्रमृगम् प्रदक्षिणम्
अपरदक्षिणम् सम्प्रति असम्प्रति इच्प्रत्ययः समासान्तः” ।

तिष्ठद्धोम स्त्री तिष्ठता होमो यत्र । यजतिरूपे यागभेदे

“यजतिजुहोतीनां को विशेषः” कात्या० श्रौ० १ । २ । ५
“यजतीनां यागानां जुहोतीनां होमानां च परस्परं
को विशेषः को भेदं इति प्रश्नः । तत्र यजतीनां विशेष-
माह” कर्कः “तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरो-
ऽनुवाक्यावन्तो यजतयः” ६ । उच्यन्त इति शेषः । “तिष्ठता
पृष्ठ ३३०७
होमो येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते
वषट्कारप्रदानाः तथा याज्यावन्तः पुरोऽनुवाक्यावन्तश्च
ये ते यजतय उच्यन्ते” कर्कः ।

तिष्य पु० तुष्यन्त्यस्मिन् तुष--क्यप् नि० । १ पुष्यनक्षत्रे । त्विष-

दीप्तौ यक् अघ्न्यादि० नि० । २ कलियुगे न० । तिष्ये नक्षत्रे
जातः अण् तस्य लुक् । ३ पुष्यनक्षत्रजाते त्रि० । तिष्यं
नक्षत्रमस्त्यत्र पौर्णमास्याम् अच् । ४ पौषमासे शब्दरत्ना० ।
स्वार्थे क । पौषमासे शब्दा० । तत्र पुष्यनक्षत्रे ।
“यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती ।
एकराशौ समेष्यन्ति प्रवत्स्यति तदा कृतम्” । भा० व० १३ ०
९९ श्लो० कलियुगे “ततस्तिष्येऽथ संप्राप्ते युगे कलिपुर-
स्कृते । एकपादस्थितो धर्मो पत्र तिष्ये भविष्यति” भा०
शा० ३४२ अ० । “सत्सम्प्रदायप्रथनाय तिष्ये शिष्यैश्चतुर्भिः
सह योऽवतीर्णः । उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्करा-
चार्य्यगुरुं तमीड़े । “तपस्तादृक् क्क वा तिष्ये तिष्ये
योगः क्व तादृशः । क्व वा व्रतं क्व वा दानं तिष्ये मोक्ष-
स्ततः कुतः” काशीख० ३५ अ० । ५ । माङ्गल्ये त्रि० ।

तिष्यपुष्पा स्त्री० तिष्यं माङ्गल्यं पुष्पं यस्याः । आमलक्याम् शब्दर० ।

तिष्यफला स्त्री तिष्यं माङ्गल्यं फलमस्याः । आमलक्याम्

अमरः । “नित्यमामलके लक्ष्मीः” स्मृतेस्तत्फलस्य
मङ्गलहेतुत्वात् तथात्वम् ।

तिष्या स्त्री तिष्यं मङ्गलं हेतुत्वेनास्त्यस्या अच् । आमलक्यांम् शब्दरत्ना० ।

तिसृधन्व न० तिसृभिरिषुभिर्युतं धन्व धनुः वेदे अच्

समासान्तः अविभक्तावपि वेदे तिस्रादेशः । तिसृभिरिषु-
भिर्युक्ते धनुषि “तिसृधन्वं दक्षिणां ददाति” शत०
व्रा० ११ । १ । ५ । १० । “स तिसृधन्वमादायापचक्राम”
१४ । १ । १ । ७ ।

तिहन् पु० तुह--अर्दने कनिन् नि० । १ व्याधौ २ व्रीहौ ३ धनुषि ४ सद्भावे च संक्षिसारः ।

तीक गतौ भ्वा० पर० सक० सेट् । तीकते अतीकिष्ट तितीके

ऋदित् अतितीकत् त । शब्दस्तोमे याचनार्थतोक्तिः
प्रामिदिकी पा० गणपाठे तस्य गत्यर्थतयैवोक्तेः ।

तीक्ष्ण न० किज--क्स्न दीर्थश्च । १ खरे स्पर्थे २ विषे ३ लौहभेदे

(इस्पात) ४ युद्धे अमरः ५ मरणे ६ शस्त्रे ७ शीघ्रे इति
सारसु० । ८ सामुद्रलवणे ९ मुष्कके मेदि० १० चव्यके
राजनि० । ११ मरके हेमच० । १२ तीक्ष्णतायुक्ते त्रि०
“तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य महीपतिः”
मनुः । “तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत्”
माघः । “शक्तिं चोभयतस्तीक्ष्णाम्” मनुः । “प्रतिभायां
हीरके कटाक्षे दुर्व्वाक्ये नखे लवणे रविकरे”
इति कविकल्पलतायां तीक्ष्णत्वमुक्तम् ।
१३ यवक्षारे पु० मेदि० । १४ श्वेतकुशे १५ कुन्दुरुके
राजनि० । नक्षत्रविशेषगणे न० यथा “शक्राहिशिवमू-
लाश्च मन्दाहस्तीक्ष्णदारुणे” ज्योतिषम् । १६ आत्मत्यागिनि
त्रि० मेदि० । १७ निरालस्ये सुबुद्धौ त्रि० धरणी० १८
योगिनि पु० अजयपालः ।

तीक्ष्णक पु० तीक्ष्ण + संज्ञायां कन् । १ गौरसर्षपे, २ मुष्कके च राजनि० ।

तीक्ष्णकण्टक पु० तीक्ष्णः कण्टकोऽस्य । १ धुस्तूरे २ वर्वुरे,

३ इङ्गुदीवृक्षे, ४ वंशे च जटाध० । ५ कन्थारीवृक्षे स्त्री टाप् ।
राजनि० । ६ तीक्ष्णकण्टकयुक्ते त्रि० । कर्म्म० । ७ तीक्ष्ण
कण्टके पुंन० ।

तीक्ष्णकन्द पु० तीक्ष्णः कन्दो मूलमस्य । पलाण्डौ राजनि०

तीक्ष्णकर्म्मन् त्रि० तीक्ष्णं कर्मास्य । १ तीव्रकार्य्यकरे आयः

शूलिके त्रिका० । कर्म्म० । २ तीव्रे कर्म्मणि न० ।

तीक्ष्णकल्क पु० तीक्ष्णः कल्कोऽस्य । तुम्बुरुवृक्षे राजनि० ।

तीक्ष्णकान्ता स्त्री नि० कर्म्म० । तारादेव्याम् उग्रतारायाम् ।

“पीठे दिक्करिवासिन्या द्विरूपा वसते शिवा । तीक्ष्ण-
कान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता” । “पुरा
ललितकान्ताख्या या श्रीमङ्गलचण्डिका । तस्यास्तु सततं
रूपं तीक्ष्णकान्ताह्वयं नृप! । कृष्णा लम्बोदरी या
तु सा स्यादेकजटा शिवा । तेन रूपेण तां देवीं सततं
परिपूजयेत्” कालि० पु० ८२ अ० ।

तीक्ष्णगन्ध पु० तीक्ष्णः गन्धोऽस्य । १ शोभाञ्जनवृक्षे जटा० ।

वा कप् । अत्रैवार्थे राजनि० । २ रक्ततुलस्याम् शब्दा०
कुन्दरुनामशन्धद्रव्ये अमरः ।

तीक्ष्णगन्धा स्त्री तीक्ष्णः गन्धोऽस्याः । १ वचायां, २ राजि-

कायाम्, ३ कन्थार्य्यां, राजनि० । ५ जीवन्त्याञ्च शब्दच० ।
६ श्वेतवचायां मेदि० ७ सूक्ष्मैलायाम्, रत्नमा० ।

तीक्ष्णतण्डुला स्त्री० तीक्ष्णास्तण्डुला यस्याः । पिप्पल्याम् रत्नमा० ।

तीक्ष्णतैल न० तीक्ष्णस्य स्नेहः तैलच् । १ स्नुहीक्षीरे,

२ सर्जरसे, ३ मद्ये च शब्दरत्ना० ।

तीक्ष्णदंष्ट्र पुं स्त्री तीक्ष्णा दंष्ट्रास्य । १ व्याघ्रे राजनि० स्त्रियां

ङीष् कर्म्म० । तीक्ष्णायां दंष्ट्रायाम् स्त्री । “सुतीक्ष्ण-
दंष्ट्राः समाश्च शुभाः” वृ० स० ६७ अ० ।

तीक्ष्णधार पु० तीक्ष्णा धारास्य । १ खड्गे “असिर्विशसनः

खड़्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्म-
पालो नमोऽस्तु ते । इत्यष्टौ तव नामानि” खड़्गपूजा-
पृष्ठ ३३०८
मन्त्रः । २ तीक्ष्णधारायुक्तमात्रे त्रि० । “नवनीतं हृदयं
ब्राह्मणस्य वाचि क्षुरो निशितस्तीक्ष्णधारः । तदुभय-
मेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधार-
मिति” भा० आदि० ३ अ० ।

तीक्ष्णपत्र पु० तीक्ष्णानि पत्राण्यस्य । १ तुम्बुरुवृक्षे राजनि० ।

२ तीव्रपत्रयुक्ते त्रि० कर्म्म० । ३ तीक्षणे पत्रे न० ।

तीक्ष्णपुष्प न० तीक्ष्णं पुष्पमस्य । १ लवङ्गे । २ केतक्यां स्त्री

टाप् । राजनि० । ३ तिग्मपुष्पयुक्ते त्रि० । कर्म्म० । ४
तिग्मेपत्रे न० ।

तीक्ष्णफल पु० तीक्ष्णं फलमस्य । १ तुम्बुरुवृक्षे राजनि० ।

२ तिग्मफलयुक्ते त्रि० कर्म्म० । ३ तिग्मे फले न० ।

तीक्ष्णमूल पु० तीक्ष्णं मूलमस्य । १ शोभाञ्जने २ कुलञ्जने च

राजनि० । ३ तिग्ममूलके त्रि० । कर्म्म० । ४ तिग्मे मूले न० ।

तीक्ष्णरश्मि पु० तीक्ष्णा रश्मयोऽस्य । तिग्मांशौ १ सूर्य्ये

“शरत्प्रज्वलितं तेजस्तीक्ष् णरश्मिर्विशोधयन्” हरिवं०
७३० अ० । २ तिग्मरश्मियुक्ते त्रि० । कर्म० । ३ तिग्मे रश्मौ पु०

तीक्ष्णरस पु० तीक्ष्णो रसोऽस्य । १ यवक्षारे रत्नमा० ।

२ तिग्मरसयुक्ते त्रि० । कर्म्म० । ३ तिग्मे रसे पु० ।

तीक्ष्णलौह न० नि० कर्म्म० । (इस्पात) लौहभेदे ।

तीक्ष्णशूक पु० तीक्ष्णः शूकोऽग्रं यस्य । १ यवे । २ खरशूक-

युक्ते त्रि० । कर्म्म० । ३ खरे शूके पु० न० ।

तीक्ष्णसारा स्त्री तीक्ष्णः कठिनः सारोऽस्याः । १ शिंशपा-

याम् (शिशु) राजनि० । २ तिग्मसारयुक्ते त्रि० कर्म्म० ।
३ खरे सारे पुं न० ।

तीक्ष्णा स्त्री तीक्ष्ण + टाप् । १ वचायां २ सर्पकङ्कालिकायाम्

रत्नमा० ३ कपिकच्छ्वां ४ महाज्योतिष्मत्याम् ५ अत्यम्लपर्ण्ण्याम्
जटा० । ६ तारादेव्याम् च । उग्रतारोपक्रमे
“हे भगवत्येकजटे विद्महे पदमन्ततः । विकटदंष्ट्रे
धीमहि तन्नस्तारा प्रचोदयात् । एषा तु तीक्ष्णा
गायत्री पीठदेव्याः प्रकीर्त्तिता” । “पानेषु मदिरा
शस्ता नरो बलिषु पार्थिव! । मोदको नारिकेलञ्च
मांसं व्यञ्जनमैक्षवम् । नैवेद्येषु प्रियकरास्तीक्ष्णायाः
परिकीर्त्तिताः १ । कालि० पु० ८२ अ० ।

तीक्ष्णायस न० नि० कर्म्म० अच् समा० । लौहभेदे (इस्-

पात) राजनि० ।

तीम क्लेदने दिवा० पर० अक० सेट् । तीम्यति अतीमीत् । तितीम ।

तीर पारगतौ कर्म्मसमाप्तौ च अद० चुरा० उभ० अक० सेट् ।

तीरयति ते अतितीरत् त ।

तीर न० तीर--अच् । नद्यादेः १ कूले । २ सोसके पु०

अमरः । ४ वाणे पु० त्रिका० । ५ त्रपुणि पु० मेदि० ।
“सार्द्धहस्तशतं यावत् गर्भतस्तोरमुच्यते । भाद्रकृष्ण-
चतुर्दश्यां यावदाक्रमते जलम् । तावद्गर्भं विजानी-
यात् तदन्यत्तीरमुच्यते” प्रा० त० उक्ते ६ गङ्गाकूलभेदे न०
“गङ्गातीरतरङ्गसङ्गतजलैः स्नात्वा हरो नार्चितः”
सा० द० । “अशून्यतीरां मुनिसन्निवेशैः” रघुः ।
“अवकाशेषु चोक्षोषु नदीतीरेषु चैव हि” मनुः ।

तीरग्रह पु० देशभेदे “तीरग्रहाः सूरसेनाः ईजकाः कन्यकाः

गुहाः” भा० भी० ९ अ० जनपदोक्तौ ।

तीरभुक्ति पु० (त्रिहोत) देशभेदे त्रिका० ।

तीरु पु० तॄ--बा० क्रु । शिवे “नमस्तेऽभीषुहस्ताय तीरु-

भीरुहराय च” हरिवं० २७८ अ० । शिवस्तुतौ ।

तीर्ण त्रि० तृ--क्त । १ उत्तीर्णे, २ अभिभूते, ३ आप्लुते च ।

“तीर्णो हि तदा भवति” श्रुतिः “तीर्णाः पूर्णाः कति
न सरिती लङ्घिताः के न शैलाः नाक्रान्ता वा कति
वनभुवः क्रूरसञ्चारघोराः । पापैरेतैः किमिव दुरितं कारितो
नास्मि कष्टं यद्दृष्टास्ते धनमदमसीम्लानवक्त्रा दुरीशाः” ।

तीर्णपदी स्त्री तरतेः कर्तरि क्तः । तीर्णः पादो मूलमस्याः

अन्त्यलोपः कुम्भपद्या० ङीषि पद्भावः । तालमूल्याम् शब्दच०

तीर्णा स्त्री प्रतिष्ठाख्यवृत्तिविशेषे यथा “यस्मिन् वृत्ते कर्णः

कर्णः वेदैर्वर्णेः सा स्यात् तीर्णा” अस्याः कन्येत्त्यपि
संज्ञा । “ग्भौ चैत् कन्येति” लक्षणात् ।

तीर्थ न० तॄ--थक् । १ शास्त्रे २ यज्ञे ३ क्षेत्रे ४ उपाये ५ नारीरजसि

६ अवतारे ७ ऋषिजुष्टजले ८ पात्रे ९ उपाध्याये १० मन्त्रिणि
च मेदि० । ११ योनौ १२ दर्शने १३ घट्टे हेमच० । १४ विप्रे
१५ आगमे १६ निदाने १७ वह्नौ च संक्षिप्तसा० ।
तीर्थं त्रिविधम् जङ्गमं१ मानसं२ स्थावरं३ च ।
तथा हि “व्राह्मणा जङ्गमं तीर्थं निर्मलं सार्वकामिकम् ।
येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनाजनाः । अगस्ति
रुवाच । शृणु तीर्थाणि गदतो मानसानि ममानघे! !
येषु सम्यक् नरः स्नात्वा प्रयाति परमां गतिम् । सत्यं
तीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः । सर्वभूतदया-
तीर्थं सर्वत्रार्जवमेय च! दानं तीर्थं दमस्तीर्थं
सन्तोषस्तीर्थमुच्यते । ब्रह्मचर्य्यं परं तीर्थं तीर्थञ्च
प्रियवादिता । ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थ-
मुदाहृतम् । तीर्थानामपि तत्तीर्थं विशुद्धिर्मनसः
पुरा । एतत्ते कथितं देवि! मानसं तीर्थलक्षणम् ।
पृष्ठ ३३०९
नौभानामपि तीर्थानां पुण्यत्वे कारणं शृणु । यथा
शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः । तथा पृथि-
व्यामुद्देशाः केचित् पुण्यतमाः स्मृताः । प्रभावादद्भु-
ताद्भूमेः सलिलस्य च तेजसा । परिग्रहान् मुनी-
नाञ्च तीर्थानां पुण्यता स्मृता । तस्माद्भौमेषु तीर्थेषु
भनमेषु च नित्यशः । उभयेष्वपि यः स्नाति स याति
परमां गतिम्” तीर्थभेदा ब्रह्मपुराणे उक्ता यथा
मुनय ऊचुः । “पृथिव्यां यानि तीर्थानि वनान्या-
यतनानि च । वक्तुमर्हसि धर्म्मज्ञ! श्रोतुं नो वर्त्तते
मनः । रोमहषर्ण उवाच । यस्य हस्तौ च प्रादौ
च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्त्तिश्च स तीर्थ-
फलमश्नुते । मनो विशुद्धं पुरुषस्य तीर्थं वाचांयम-
स्त्विन्द्रियनिग्रहस्तपः । एतानि तीर्थानि शरीरजानि
स्वर्गस्य मार्गं प्रतिबोधयन्ति । चित्तमन्तर्गतं दुष्टं तीर्थ-
स्नानं न शुध्यति । शतशोऽथ जलैर्धौतं सुराभाण्ड-
मिवाशुचि । न तीर्थानि न दानानि न व्रतानि न
चाश्रमाः । दुष्टाशयं दम्भरुचिं पुनन्ति व्यथितेन्द्रियम् ।
इन्द्रियाणि वशे कृत्वा यत्र तत्र वसेन्नरः । तत्र तस्य
कुरुक्षेत्रं प्रयागं पुष्करं तथा । तस्माच्छृणुध्वं वक्ष्यामि
तीर्थान्यायतनानि च । संक्षेपेण मुनिश्रेष्ठाः । पृथिव्यां
यानि कानि च । विस्तरेण न शक्यन्ते वक्तुं वर्षश-
तैरपि । प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ।
प्रयागञ्च प्रवक्ष्यामि धर्म्मारण्यं द्विजोत्तमाः ! । धेनुका
चम्पकारण्यं सैन्धवारण्यमेव च । गया प्रयागं
श्रीतीर्थं दिव्यं कनस्वलन्तथा । भृगुतुङ्गं
हिरण्याक्षं भीमारण्यं कुशस्थली । लोहार्गलं सकेदारं
मन्दरारण्यमेव च । महाप्रमं कुरुक्षेत्रं सर्वपापहर-
न्तथा । रूपतोर्थं शूकरञ्च चक्रतीर्थं महाफलम् ।
योगतीर्थं सोमतीर्थं तीर्थं शाखोटकं तथा । तीर्थं
कोकामुकं पुण्यं वदरीशैलमेव च । सोमतीर्थं
तुड्गकूटं तीर्थं स्कन्दाश्रमन्तथा । सूर्य्यप्रभं रामतीर्थं
सप्तसामुद्रकं तथा । धर्मोद्भवं कोटितीर्थं तीर्थञ्चाध
प्रणाशनम् । गङ्गाद्वारं पञ्चकुब्जं मध्यकेशवमेव च ।
चक्रप्रभं मतङ्गञ्च कुशदण्डञ्च विश्रुतम् । दंष्ट्राकुण्डं
विष्णुतीर्थं सर्वकामिकमेव च । तीर्थं सुमलिनञ्चैव
वदरीसुप्रभं तथा । ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्य-
पदन्तथा । चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशर्वारकम् ।
मानसं स्थूलशृङ्गञ्च स्थूलदण्डं तथोर्वशो । लोकपाली
मरुवकं सोमाद्रिशैलमेव च । सदाप्रभं मेरुकुण्डं तीर्थं
सोमाभिषेचनम् । महाशोभं कोचवकं पञ्चधारं त्रिधार-
कम् । सप्तधारैकतीर्थञ्च तीर्थञ्चामरकण्टकम । शालग्रामं
चक्रतीर्थं कोटिद्रुममनुत्तमम् । विन्दुप्रभं देवह्रदं तीर्थं
विष्णुप्रभन्तथा । शङ्खप्रभं दारुकुण्डं तीर्थं वज्रायुधं
तथा । अग्निप्रभं सुपुन्नागं देवप्रभमनुत्तमम् । विद्याधरं
सगन्धर्वं श्रीतीर्थं ब्रह्मणा कृतम् । तीर्थञ्च
लोकपालाख्यं पुण्यं पिण्डारकं तथा । वस्त्रापदं दारुवनं
छायारोहणमेव च । वटावटं भद्रवटं कोषाक्षी च
दिवाकरा । द्वीपं सरस्वती चैव विजयं कामजन्तथा ।
सारवं गोप्रतारञ्च गाचरं वटमूलकम् । स्नानकुण्डं
प्रयागञ्च गुह्यं विष्णुपदन्तथा । कन्याश्रमं विष्णुपदं
जम्बुमार्नं तथोत्तमम् । गभस्तितीर्थञ्च तथा ययाति
पतनं शुचि । कोटितीर्थं भद्रवटं महाकालवनं तथा ।
नर्मदातीर्थपरमं तीर्थं वर्षं तथार्बुदम् । पिङ्गुतीर्थं
सावशिष्टं तीर्थञ्च प्रियसङ्गमम् । तीर्थं दौर्वासिकं नाम
तथा पिञ्चरकं शुभम् । ऋषितीर्थं ब्रह्मकुण्डं वसुतीर्थं
कुमारिका । शक्रतीर्थं शापनदं रेणुकातीर्थमेव च ।
पैतामहञ्च विमलं रुद्रपादं तथोत्तरम् । मणिमन्थञ्च
कामाख्यं कृष्णतीर्थं कुमारिणम् । यजनं याजनञ्चैव
तथैव ब्रह्मवालकम् । पुष्पाभ्यासं पुण्डरीकं मणिपूरं
तथोत्तरम् । दीर्घसत्रं हंसपदं तीर्थञ्चानशनन्तथा ।
गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च । वज्रकोटि
शङ्कुमानं तीर्थं शक्रावनामितम् । समन्तपञ्चकं तीर्थं
ब्रह्मतीर्थं सुदर्शनम् । सततं पृथिवीतीर्थं पञ्चप्लव
पृथूदकौ । दशाश्वमेधिकं तीर्थं सर्पिदं विषयान्तिकम् ।
कोटितीर्थं पञ्चनदं वाराहं पक्षिणीहृदम् । पुण्डरीकं
सोमतीर्थं मञ्जुवाटं तथोत्तमम् । वदरीवनमासीमं रत्न-
मूलकमेव च । लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव
च । सूर्य्यतीर्थं शङ्खिनी च धराभवनमेव च । तीर्थं
च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । कामेश्वरं मातृ-
तीर्थं तीर्थं शीतवनं तथा । श्वानहोमायनञ्चैव मांस-
मशनकं तथा । दशाश्वमेधं केदारं ब्रह्मोडुम्बरमेव
च । सप्तर्षिकुण्डञ्च तथा तीर्थं देव्याः सुजम्बुकम् ।
इडास्पदं कोटिकूटं किन्नरं किंजपं तथा । कारण्डवञ्च
बिन्ध्यञ्च त्रिपिष्टपमथापरम् । पाणिक्षारं मिश्रकञ्च
मधुवटमनोजवौ । कौशिकी देवतीर्थञ्च तीर्थञ्च
ऋणमोचनम् । दिव्यञ्च तृणमूलाख्यं तीर्थं विष्णुपदन्तथा ।
पृष्ठ ३३१०
श्रीकुण्डं शालितीर्थञ्च नैमिषेयञ्च विश्रुतम् । ब्रह्मस्थानं
सोमतीर्थं कन्य तीर्थं तथोत्तरम् । ब्रह्मतीर्थं
मनस्तीर्थं तीर्थञ्चैलावनन्तथा । सौगन्धिकवनञ्चैव
मणितीर्थं सरस्वती । ईशानतीर्थं प्रवरं पाणिनं पाञ्च-
यज्ञिकम् । त्रिशूलधारा माहेन्द्रं देवस्थानं कृतालयम् ।
शाकम्भरी देवतीर्थं स्वर्णाख्यं कालियं ह्रदम् । क्षीरे-
श्वरं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । ब्रह्मतीर्थं ब्रह्म-
योनिं नीलपर्वतमेव च । कुब्जाभ्रकं भद्रवटं वशिष्ठ-
पदमेव च । धूमावर्त्तं तथा मेकं वारुणं कपिलञ्च
यत् । स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ।
रुद्रावर्त्तं सगन्धाश्वं कपिलावनमेव च । भद्रकर्ण
ह्रदञ्चैव शङ्कुकं ह्रदकं तथा । सप्तसारस्वतञ्चैव तीर्थ-
मौशनसं तथा । कपालमोचनञ्चैव नरकञ्चैव काम्य-
कम् । तत्र सामुद्रिकञ्चैव शतिकञ्च सहस्रिकम् ।
रेणुकं पञ्चवटकं विमोचनमथौजसम् । विश्वेश्वंरं
वामनकं कक्षं नारायणाश्रमम् । गङ्गाह्रदं वटञ्चैव वदरी
पचनन्तथा । ऐन्द्रमार्गमेकरात्रं क्षीरिकाराममेव च ।
सोमतीर्थं दारवञ्च श्रुततीर्थञ्च भोद्विजा! । कन्याश्रमं
सन्निहितं कोटितीर्थञ्च पुन्नदी । कोटितीर्थस्थलीञ्चैव
भद्रकालीह्रदन्तथा । अरुन्घतीवनञ्चैव ब्रह्मावर्त्तन्तथो-
त्तमम् । अश्ववेदी कुब्जवनं यमुनाप्रभवं तथा ।
वीरप्रभोक्षं सिन्धूत्थं शमीकुल्या सकृत्तिका । उर्वशी-
क्रमणञ्चैव मायाविद्योद्भवन्तथा । महाश्रमो वेतसिका-
रूपं सुन्दरिकाश्रमम् । ब्रह्मतीर्थन्तु वैश्वासं गङ्गोद्भेदं
सरस्वती । अरुणोदं तथा चान्द्रं शक्रतीर्थं सवालु-
कम् । तीर्थञ्चैवाविमुक्ताख्यं नीलकण्ठह्रदन्तथा ।
स्वर्गद्वारं किम्पुलिका तीर्थकोटिस्तथैव च । पिशाच
मोचनञ्चैव सुभद्राह्रदमेव च । कुण्डं विमलदं तस्यां
तीर्थं चण्डेश्वरस्य च । अष्टस्थानह्रदञ्चैव हरिकेश-
वनं तथा । अजामुखवनञ्चैव घण्टाकर्णह्रदन्तथा ।
पुण्डरीकह्रदञ्चैव वापीकङ्कोटिकन्तथा । कुण्डं घर्घ-
रिकायाश्च श्यामाकं पञ्चपुण्यदम् । श्मशानशुम्भकुण्डञ्च
विनायकह्रदन्तथा । कूपं सिद्धभवञ्चैव पुण्यं व्रह्मसर-
न्तथा । रुद्रावासं तथा तीर्थं नागतीर्थं सुलोमकम् ।
शृङ्गतीर्थं महातीर्थं श्रेष्ठा चैव महानदी । दिव्यं
ब्रह्मसरः पुण्यं गयाशीर्षाक्षयं वटम् । दक्षिणञ्चोत्तर-
ञ्चैव गोमयं रूपशान्तिकम् । कपिह्रदं गृध्रकूटं
सावित्रीह्रदमेव च । प्रभासनं शीतवनं योनिद्वारञ्च
धेनुकम् । रम्यकं कोकिलाख्यञ्च मतङ्गह्रदमेव च ।
पितृकूपं रङ्गतीर्थं शक्रतीर्थं सुमालिनम् । ब्रह्मस्थानं
सप्तकुण्डं मणिरत्नह्नदन्तथा । मुद्गलस्याश्रमञ्चैव मुद्गल्या-
ह्रदमेव च । तीर्थं जनककूपाख्यं वैश्यं विनशन-
न्तथा । आद्यं विनाशतीर्थञ्च धारा माहेश्वरी तथा ।
देवपुष्करिणी रम्या पर्य्यङ्ककूपमेव च । जातिस्मरं
वामनकं वटेश्वरह्रदन्तथा । कौशाख्यं भरतञ्चैव तीर्थं
श्रेष्ठात्मिका तथा । विश्वेश्वरं कल्पशतं कन्यासायुज्य-
मेव च । वाराहकं कोटितीर्थं कुमारं सर्व-
तीर्थकम् । वीराश्रमं ब्रह्मसरो वीरवीरा च तापिनी ।
कुमारधारा श्रीधारा गौरीशिखरमेव च । कुम्भकर्ण
पदञ्चैव कौशिकीह्रदमेव च । धर्मतीर्थं कामतीर्थं
तीर्थमुद्दालकं तथा । दण्डा विमालिनी तीर्थं तीर्थ-
ञ्चैव नरेभिका । सन्ध्यातीर्थं कारतोयं कपिला
लोहितार्णवम् । सोमोद्भवं वंशगुल्ममृषभं
कालतीर्थकम् । पुण्यतीर्थह्रदं तीर्थं तीर्थं वदरिकाश्रमम् ।
रामतीर्थं सिन्धुवनं विरजातीर्थमेव च । मार्कण्डेय-
वनञ्चैव कृष्णतीर्थं तथा वटम् । ध्रुवं स्वरूपं प्रवर-
मिन्द्रद्युम्नसरश्च यत् । सानुगर्त्तं समाहेन्द्रं श्रीतीर्थं
श्रीवनन्तथा । इषुतीर्थञ्चर्षभञ्च कावेरीतीर्थमेव च ।
कन्यातीर्थञ्च गोतीर्थं गोमतीस्थानमेव च । संवर्त्त-
स्थापिनी स्थानं सप्तगोदावरीह्रदम् । वदरीह्रदमन्यच्च
ब्रह्मतृष्णाविकर्त्तनम् । जातिह्रदं वेदह्रदं कुशपवणमेव
च । सर्वदेवव्रतञ्चैव कन्याश्रमह्रदन्तथा । तथान्यत् वा
लिखिल्वानां सप्तर्षीणां तथा परम् । तथान्यच्च महर्षी-
णामखण्डितह्रदन्तथा । तीर्थेष्वेतेषु विधिवत् सम्यक्
श्रद्धासमन्वितः । स्नानं करोति यो मर्त्यः सर्वपापैः
प्रमुच्यते । अभ्यर्च्च्य देवतास्तत्र स्थित्वा च रजनी-
त्रयम् । पृथक् पृथक् फलंतेषु प्रतितिष्ठं श्च भो द्विजाः! ।
प्राप्तोति हयमेधस्य फलं प्राप्नोत्यसंशयम् । यस्त्विदं
शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम् । पठेच्च श्रावयेद्वापि
सर्वपापैः प्रसुच्यते” ।
पद्मपुराणे श्राद्धे प्रशस्ततीर्थानि उक्तानि यथा
भीष्म उवाच । “कस्मिन् वासरभागे तु श्राद्धं श्राद्धी
समाचरेत् । तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं
भवेत् । पुलस्त्य उवाच । तीर्थन्तु पुष्करं नाम पुण्यं
श्रेष्ठतमं स्मृतम् । सर्बेषां द्विजमुख्यानां मनोरथस्थितं
तथा । यत्र दत्तं हुतं सर्वमनन्तं मुनिरब्रवीत् ।
पृष्ठ ३३११
पितॄणां वल्लभं नित्यमृषीणां परमं प्रियम् । नन्दथु-
र्ललिता तद्वत्तीर्थं मायापुरी तथा । शुभं मित्रपदं
राजंस्ततः केदारमुत्तमम् । गङ्गासागरमित्याहुः सर्व-
तीर्थमयं शुभम् । तीर्थं ब्रह्मसरस्तद्वत् शतद्रुः सलिला-
ह्रदः । तीर्थन्तु नैमिषञ्चैव सर्वतीर्थफलप्रदम् । गङ्गोद्भे-
दस्तु गोमत्यां यवोद्भूतः सनातनः । तथा यज्ञवराहस्तु
देवदेवश्च श्लधृक् । यत्र तत् काञ्चनद्वारमष्टादशभुजो-
हरः । नेमिस्तु धर्म्मचक्रस्य शीर्णो यत्राभवत् पुरा ।
तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम् । देवदेवस्य
तत्रापि वराहस्य च दर्शनम् । यः प्रयाति स पूतात्मा
नारायणपुरं व्रजेत् । कोकामुखं परं तीर्थं ब्रह्मणोऽव्यक्त
जन्मनः । पुष्करारण्यसंस्थोऽसौ यत्र देवः पितामहः ।
विरिञ्चिदर्शनं श्रेष्ठं त्वपवर्गफलप्रदम् । कृतं तेन
महापुण्यं सर्वपापनिसूदनम् । यत्राद्यो नरसिंहस्तु
स्वयमेव जनार्द्दनः । तीर्थमिक्षुमती नाम पितॄणां
वल्लभा सदा । तुष्यन्ति पितरो नित्यं गङ्गायमुनसङ्गमे ।
कुरुक्षेत्रं महापुण्यं यत्र मार्गोऽपि लक्ष्यते । अद्यापि
पितृतीर्थं तत् सर्वकामफलप्रदम् । नीलकण्ठमिति
ख्यातं पितृतीर्थं नराधिप! । तथा भद्रसरः
पुण्यं सरोमानसमेव च । मन्दाकिनी तथाच्छेदो विपा-
शाथ सरस्वती । पूर्वमिन्द्रपदं तद्वद्वैद्यनाथं महासुखम् ।
गोदावरी तथा पुण्या तथा कालञ्जरं शुभम् । बंशोद्-
भेदं हरोद्भेदं गङ्गोद्भेदं महालयम् । भद्रेश्वरं
विष्णुपदं नर्म्मदाद्वारमेव च । गयापिण्डप्रदानेन
समान्याहुर्महर्षयः । एतानि पितृतीर्थानि सर्वपापहराणि
च । स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम् ।
ओङ्कारं पितृतीर्थन्तु कावेरी कपिलोदकम् । कुरुक्षे-
त्राच्छतगुणम् तस्मिन् सुखादिकम्भवेत् । शक्रतीर्थन्तु
विख्यातं तीर्थं सोमेश्वरं स्मृतम् । सर्वव्याधिहरं पुण्यं
फलं कोटिशताधिकम् । श्राद्धे दाने तथा होमे स्वाध्याये
जपसन्निधौ । छायावरोहणं नाम देवदेवस्य शूलिनः ।
अवतारं रोचयानो ब्राह्मणावसथे शुभे । जातं तत्
सुमहापुण्यं तथा चर्म्मण्वती नदी । नदी च वरणा
तद्वत्तीर्थं हौताशनं परम् । भैरवं भृगुतुङ्गञ्च गौरी-
तीर्थमनुत्तमम् । तीर्थं वैनायकं नाम वज्रेश्वरमनुत्तमम् ।
तथा पापहरं नाम पुण्या वेत्रवती नदी । शूलतापी
पयोष्णी च पयोष्णीसङ्गमस्तथा । महाबोधी पदेनापि
नागतीर्थमवन्तिका । तथा वेण्वा नदी पुण्या महाशा-
लस्तथैव च । महारुद्रो महालिङ्गो दशार्णा च
महानदी । शतरुद्रागता वापि तथा पितृपदं परम् । युद्धः-
वाराहिकं तद्वन्नदौ द्वौ शोणघर्घरौ । कालिका च नदी
पुण्यं पितरा च नदी तथा । एतानि पितृतीर्थानि
शस्यन्ते स्नानदानयोः । श्राद्धमेतेषु यद्दत्तं तदनन्तफलं
स्मृतम् । शनीचाटनदीधारा शवक्षीरनदी तथा ।
द्वारका कृष्णतीर्थञ्च तथाप्युत सरस्वती । नदी मणिमती
नाम तथा च गिरिकर्णिका । धुतपापं तथा तीर्थं
समुद्रे दक्षिणे तथा । गोकर्णो गणकर्णश्च तथा च
पुरुषोत्तमः । श्रीशैलं शाकतीर्थञ्च नारसिंहमतः परम् ।
महेन्द्रश्च तथा पुण्यः पुण्या चापि महानदी । एतेष्वपि
सदा श्राद्धमनन्तफलमश्नुते । दर्शनादपि पुण्यानि सद्यः
पापहराणि च । तुङ्गभद्रा नदो पुण्या तथा भीम
नदी सरित् । भीमेश्वरं कृष्णवेण्वा कावेरी वङ्क्षुरा नदी ।
नदी गोदावरी पुण्या त्रिसन्ध्या तीर्थमुत्तमम् ।
तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम् । यत्रास्ते
भगवान् भीमः स्वयमेव त्रिलोचनः । श्राद्धमेतेषु तीर्थेषु
दत्तं शतगुणं भवेत् । स्मरणादपि पापानि व्रजन्ति
शतधा नृप! । श्रीपर्णी च नदी पुण्या व्यासतीर्थमनु-
त्तमम् । तथा मत्स्यनदीधारा शिवधारा तथैव च ।
भवतीर्थञ्च विख्यातं पुण्यतीर्थञ्च शाश्वतम् । पुण्यं रामे-
श्वरं तद्वदेलापुरमनुत्तमम् । अङ्गारभृत्यं विख्यात-
मात्मदर्शमनायुधम् । तीर्थं व्रतेश्वरं तद्वत्तथा कोकामुखं
परम् । गोवर्द्धनं हरिश्चन्द्रं पृथुचन्द्रं पृथूदकम् ।
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी । नामाधि
पापि च तथा तथा सौमित्रसङ्गतम् । इन्द्रनीलं
महानादं तथा च प्रियमेलकम् । एतान्यपि सदा श्राद्धे
प्रशस्तान्यधिकानि च । एतेषु सर्वदेवानां सान्निध्यं
पठ्यते यतः । दानमेतेषु सर्वेषु भवेत् कोटिशताधिकम् ।
बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम् । तीर्थं
पाशुपतञ्चैव नदी पर्पटिका तथा । श्राद्धमेतेषु सर्वेषु
दत्तं कोटिशताधिकम् । तथैव पर्वतीर्थञ्च त्रिपुरं खाण्डवं
नदी । धुता लिङ्गसहस्रेण सव्येतरजलावहा ।
जामदग्न्यस्य सत्तीर्थं वेदायतनमुत्तमम् । प्रतीकस्याभया
सिद्धा यदा गोदावरी नदी । तीर्थं तद्धव्यकव्याना-
मप्सरोगणसंयुतम् । श्राद्धादिदानकार्य्यञ्च तद्वत् कोटि
शताधिकम् । तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम् ।
सेन्द्रफला नदी पुण्या यत्र दुःखाद्गतः पुरम् । निमेश्च
पृष्ठ ३३१२
प्रसृतिमित्रं तपसा स्वर्गमाप्नुयात् । तत्र दत्तं नरैः
श्राद्धमनन्तफलदं भवेत् । पुष्करं नाम वै तीर्थं
शालग्रामं तथैव च । शौनपातश्च विख्यातो यत्र वैश्वा-
नरालयः । तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव
च । मनन्दुरा नदी पुण्या कौशिकी चन्द्रिका तथा ।
विदर्भा चाप्यवेणाथ पयोष्णी प्राङ्मुखी परा । कावेरी
चोत्तरागा च तथा जालन्धरो गिरिः । एतेषु श्राद्धती-
र्थेषु श्राद्धमानन्त्यमश्नुते । लौहदण्डं तथा दण्डं चित्र-
कूटन्तथैव च । दिव्यं सर्वत्र गङ्गायास्तथा नदीतटं शुभम् ।
कुब्जाभ्रञ्च तथा तीर्थमुर्वशीपुलिनं तथा । संसारमो-
चनं तीर्थं तथैव ऋणमोचनम् । एतेषु प्रितृतीर्थेषु
श्राद्धमानन्त्यमश्नुते । अट्टहासं तथा तीर्थं गौतमेश्व-
रमेव च । तथा वशिष्ठतीर्थञ्च भारतञ्च ततः परम् ।
ब्रह्मावर्त्तं कुशावर्त्तं हंसतीर्थं तथैव च । पिण्डार-
कञ्च विख्यातं शङ्खोद्बारं तथैव च । खाण्डेश्वरं विश्व-
कञ्च नीलपर्वतमेव च । तथा च वदरीतीर्थं रामती-
र्थन्तथैव च । जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च ।
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् । तीर्थं
मातृगृहं नाम करवोरपुरं तथा । सप्तगोदावरी-
तोर्थं सर्वतीर्थेश्वरेश्वरम् । तत्र श्राद्धं प्रदातव्यमनन्त-
फलमिच्छुभिः । कीकटेषु गया पुण्या पुण्यं राजगृहं
वनम् । च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनः-
पुनाः । यत्र गाथा विचरति ब्रह्मणा परिकीर्त्तिता ।
एष्टव्याबहवः पुत्रा यद्यप्येको गयां व्रजेत् । यजेत-
वाश्वमेधेन नींलं वा वृषमुत्सृजेत् । एषा गाथा
विचरति तीर्थेष्वायतनेषु च । सर्वे मनुष्या राजेन्द्र!
कीर्त्तयन्तः समागताः । किमस्माकं कुले कश्चिद्गयां यास्यति
मत्सुतः । प्रीणयिष्यति ताङ्गत्वा सप्त पूर्वांस्तथा
ऽवरान् । मातामहानामप्येवं श्रुतिरेषा चिरन्तनी ।
गङ्गायाञ्चास्थिनिचयं गत्वा क्षेप्स्यति मत्सुतः । तिलैः
सप्ताष्टभिर्वापि दास्यते च जलाञ्जलिम् । अरण्य
त्रितये चापि पिण्डदानं करिष्यति । प्रथमं पुष्करा-
रण्यं नैमिषन्तदनन्तरम् । धर्मारण्यं ततः प्राप्य
श्राद्धं भक्त्या प्रदास्यति । गयायां धर्म्म पृष्ठे वा सरसि
ब्रह्मणस्तथा । गयाशीर्षवटे चैव पितृणां दत्तमक्षयम् ।
व्रतं कुर्य्यान्नरो यस्तु अध्वानं परिसर्पति । नरकस्थान्
पितॄंस्तद्वत् स्वर्गं नयति सत्वरः । कुले तस्य न राजेन्द्र!
प्रेतो भवति कश्चन । प्रेतत्वमोक्षभावञ्च पिण्डदानाच्च
गच्छति । गयायां पिण्डदानस्य नान्यज्ञानं विशिष्यते ।
एकेन पिण्डदानेन तृप्तास्ते मोक्षगामिनः । धाम्यप्रदानं
प्रवरं वदन्ति वस्त्रप्रदानञ्च तथा मुनीन्द्राः । तोयञ्च
तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं प्रदिष्टम् ।
सर्वाथहा सुरुचिरा महावला महानदी । ये तु पश्यन्ति
तां गत्वा मानसे दक्षिणोत्तरे । प्रणम्य द्विजमुख्येभ्यः
प्राप्तं तैर्जन्मनः फलम् । यद्यदिच्छति वै मर्त्यस्तत्तत्
प्राप्तोत्यसंशयम् । एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो
मया । वागीशोऽपि न शक्रोति विस्तरात् किमु
मामुषाः” पुराणसर्वस्वे ।
श्राद्धे तीर्थभेदस्य प्राशस्त्यं विष्णुसंहितायामुक्तं यथा
“अथ पुष्करेषु श्राद्धम् जप्यहोमतपांसि च ।
पुष्करे स्नानमात्रतः सर्वपापेभ्यः पूतो भवति ।
एवमेव गयाशीर्षे अक्षयवटे अमरकण्टकपर्वते वराहपर्वते
यत्र क्वचन नर्मदातीरे गङ्गायां विशेषतः, कुशावर्त्ते
विल्वके नीलपर्वते कनखले कुब्जाम्रे भृगुतुङ्गे केदारे
महालये नड़न्तिकायां सुगन्धायां शाकम्भर्य्यां फलगुतीर्थे
महागङ्गायां त्रिधालिकाश्रमे कुमारधारायां प्रभासे यत्र
क्वच्न सरस्वत्यां विशेषतः । गङ्गाद्वारे प्रयागे च गङ्गा-
सागरसङ्गमे । सततं नैमिंषारण्ये वाराणस्यां विशेषतः ।
अगस्त्याश्रमे कौशिक्यो सरयूतीरे शोणस्य ज्योतिषायाश्च
सङ्गमे । श्रीपर्वते कालोदके उत्तरमानसे वड़वायां
मतङ्गवाप्यां सप्तर्षे विष्णुपदे स्वर्गमार्गपदे गोदावर्य्यां गोमत्यां
वेत्रावत्यां विपाशायां वितस्तायां शतद्रुतीरे चन्द्रभा-
गायाम् इरावत्यां सिन्धोस्तीरे दक्षिणे पञ्चनदे औशनसे ।
एवमादिष्वथान्येषु तीर्थेष्र सरिद्वरासु सर्वेष्वपि स्वभावेषु
पुलिनेषु प्रस्रवणेषु पर्वतेषु निकुञ्जेषु वनेषूपवनेषु
गोमयोपलिप्तेषु मनोज्ञेषु”
तीर्थागमने दोषो यथा “अनुपोष्य त्रिरात्राणि
तीर्थान्यनभिगम्य च । अदत्त्वा काञ्चनं गाञ्च दरिद्रो
नाम जायते” प्रा० त० । तीर्थगमने फलं यथा
“अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्
फलमाप्नोति तीर्थाभिगमनेन यत् । तीर्थान्यनुस्मरन्
धीरः श्रद्दधानः सनाहितः । कृतपापो विशुध्येत किं
पुनः शुद्धकर्मकृत् । तिर्य्यग्योनिं न वै गच्छेत् कुदेशे
न च जायते । न दुःखी स्यात् स्वर्गभाक् च मोक्षोपा-
यञ्च विन्दति” ब्रह्मवै० पु० ।
तीर्थसम्यक्फलभागिनो यथा “यस्य हस्तौ च पादौ
पृष्ठ ३३१३
च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्त्तिश्च
स तीर्थफलमश्रुते । प्रतिग्रहादुपावृत्तः सन्तुष्टो येन
केनचित् । अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते ।
अदाम्भिको निरारम्भो लघ्वाहारो जितेन्द्रियः ।
विमुक्तः सर्वसङ्गैर्यः स तीर्थफलमश्नुते । अकोपनोऽ-
मलमतिः सत्यवादी दृढ़व्रतः । आत्मोपमश्च भूतेषु
स तीर्थफलमश्नुते । अश्रद्दधानः पापात्मा नास्तिकोऽ-
च्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चै ते न तीर्थफलभागिनः ।
इति काशीखण्डम् । प्रा० त० । तीर्थप्रतिग्रहे दोषोयथा ।
“तीर्थेन प्रतिगृह्णीयात् संक्रान्त्यादिषु च तथा ।
स्वकार्य्ये पिवृकार्य्येऽपि देवताभ्यर्च्चनेऽपि वा ।
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते” । “तत्र नारा-
यणक्षेत्रे कुरुक्षेत्रे हरेः पदे । वाराणस्यां
वदर्य्याञ्च गङ्गासागरसङ्गमे । पुष्करे भास्करक्षेत्रे प्रभासे
रासमण्डले । हरिद्वारे च केदारे सोमे वदरपाचने ।
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने । गोदावर्य्याञ्च
कौशिक्यां त्रिवेण्याञ्च हिमालये । एतेष्वन्येषु यो दानं
प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्मीपाकं
प्रमाति च” इति ब्रह्मवै० प्र० स्व० । शङ्खः “तीर्थं प्राप्यानुष-
ङ्गेन स्नानं तोर्थे समाचरन् । स्नानजं फलमाप्नोति
तीर्थयात्राफलं न तु” । तथा यस्य पादौ च हस्तौ च
मनश्चैव सुसंयुतम् । विद्या तपश्च कीर्त्तिश्च स तीर्थफल-
मश्नुते । नॄणां पापकृतां तीर्थे भवेत् पापस्य संक्षयः ।
यथोक्तफलदं तीर्घं भवेच्छुद्धात्मनां नॄणाम्” । हस्तसंयमो-
ऽत्र निन्दितप्रतिग्रहादिनिवृत्तिः । पादसंयमस्तु अगम्य-
देशादिगमननिवृत्तिः । मनःसंयमः कामक्रोधादिनि-
वृत्तिः, विद्या तत्तत्तोर्थफलबोधकसच्छास्त्रवेदाद्यधिगम-
रूपा । तपः आमिषादिनिवृत्तिः । कीर्त्तिः धर्मार्थतीर्थ-
गमने धार्मिकत्वादिना प्रसिद्धिः । फलं सम्यगिति शेषः ।
एतच्च हस्तसंयमनादितीर्थयात्राङ्गं महाभारते तीर्थ-
यात्रामुपक्रम्याभिघानात् तीर्थस्नानादिकर्माङ्गञ्च,
शङ्खेन यात्राप्रकरणमन्तरेणैव सतीर्थफलमश्नुते इति
सामान्याभिधानात् । इति कल्पतरुः । अतएव पैठीनसिः
“षोड़शांशं स लभते यः परार्थेन गच्छति । अर्द्धं
तीर्थ फलं तस्य यः प्रसङ्गेन गच्छति” । परार्थेन वेतना-
दिना, प्रसङ्गेन उद्देश्यान्तरप्रसङ्गेन । “तथा प्रतिकृतिं
कृत्वा तीर्थवारिणि मज्जयेत् । मज्जयेत्तु यमुद्दिश्य अष्ट-
भागं लभेत सः” ।


तीर्थयात्राविधानं यथा “यो यः कश्चित्तीर्थयात्रान्तु
गच्छेत् । सुसंयतः स च पूर्वं गृहे स्वे । कृतोपवासः
शुचिरप्रमत्तः संपूजयेद्भक्तिनम्नो गणेशम् । देवान्
पितॄन् ब्राह्मणांश्चैव साधून् धीमान् प्रीणयन् वित्तशक्त्या
प्रयत्नात् । प्रत्यागतश्चापि पुनस्तथैव देवान् पितॄन्
ब्राह्मणान् पूजयेच्च । एवं कुर्वतस्तस्य तीर्थे यदुक्तं
फलं तत् स्यान्नात्र सन्देह एव” इति ब्रह्मपुराणम् ।
एतदधिकारे प्रा० त० ।
“सुसंयतः पूर्वदिने कृतैकभक्तादिनियमः । तदुत्तरदिने
कृतोपवासस्तदुत्तरदिने गणेशं ग्रहानिष्टदेवताञ्च संपूज्य
वृद्धिश्राद्धं कृत्वा ब्राह्मणान् भोजयेत् । ततः शुभलग्ने
यात्रां कुर्य्यात् तीर्थयात्रान्तु गच्छेदित्युपक्रमादुपवास-
दिने मुण्डनमषि । “प्रयागे तीर्थयात्रायां पितृमातृ-
वियोगतः । कचानां वपनं कार्य्यं न वृथा विकचोभ-
वेत्” इति विष्णुपुराणवचनात् । प्रवेशेऽपि तीर्थया-
त्रायामिति वक्तव्यम् । “गच्छन् देशान्तरं यत्तु श्राद्धं
कुर्य्यात्तु सर्पिषा । यात्रार्थमिति तत् प्रोक्तं प्रवेशे च
न संशयः” इति भविष्यपुराणादिति गङ्गावाक्यावली ।
वस्तुतस्तु तीर्थप्रत्यागमनोत्तरस्वगृहप्रवेशे इत्येव वक्त-
व्यम् । यात्राप्रत्यागमनोत्तरस्वगृहप्रवेशयोर्भेदात् प्रत्या-
गमनोत्तरलाभस्तु प्रत्यागतश्चापीति प्रागुक्तत्वात् व्यक्त-
माह हलायुधधृतं कूर्मपुराणवचनम् “तीर्थयात्रास
मारम्भे तीर्थात् प्रत्यागमेऽपि च । वृद्धिश्राद्धं प्रकुर्वीत
बहुसर्पिःसमन्वितम्” । ततश्च प्रवेशे चेति चकारेण
श्राद्धमात्रं समुच्चितम् । नतु तस्य यात्रार्थत्वमपीति ।
एवं देवान् पितॄनित्यभिधानात् तत्पूजनमेव पुनः कार्य्यं
नतूपवासादिकमपि अन्यथा देवानित्यादिकं व्यर्थं
स्यात् । मत्स्यपुराणम् “तिलोदकाञ्जलिर्देयोजलस्थै-
स्तीर्थवासिभिः । सदा न हस्तेनैकेन गृहे श्राद्धं
समिष्यते” । अत्र जलस्थैरित्यनेन स्थत्यस्थानामपि जलस्थत्वं
नियम्यते । तथा हि “अन्तरुदके आचान्तो अन्तरेव
शुद्धोभवति । तस्वादन्तरेकं वहिरेकञ्च पादं कृत्वा
आचामेत् सर्वत्र शुद्धोभवति” इति पैठीनस्युक्तेन
जलैकचरणकृताचमनेन उभयत्र कर्म्मार्हत्वात् तर्पणकाले
तीर्थे जलैकचरणत्वं प्रतीयते । अन्यत्र त्वनियमः ।
तद्रूपाणां जले च तर्पणमविरुद्धमिति । गृह इति
स्थलोपलक्षणम् । देवीपुराणे । “अकालेऽप्यथ वा काले
तीर्थश्नाद्धं तथा नरैः । प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं
पृष्ठ ३३१४
पितृतर्पणम् । पिण्डदानं ततः शस्तं पितॄणाञ्चातिदु-
र्लभम् । विलम्बो नैव कर्त्तव्यो न च विघ्नं समाचरेत् ।
श्राद्धं तत्र तु कर्त्तव्यमर्ध्यावाहनवर्जितम् । श्वध्वाङ्क्षगृ-
ध्रकाकानां नैव दृष्टिहतञ्च यत्” । ध्वाङ्क्षोदण्डकाकः ।
अत्राकाल इति न रात्र्यादाविति पर्य्युदस्तप्रतिप्रसवः ।
तथात्वे तद्बाधापत्तेः । किन्तु पर्य्युदस्तेतराप्रशस्तकाल-
परम् । “तत् सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” इत्यनु-
सारात् । काल इति प्रशस्तापराह्णादिकालपरम् । अत्र
शुचेः प्राप्त्युत्तरविहितप्रथमदिन एव श्राद्धं तेन पूर्वदिने
राक्षसीवेलादावागमनेऽपि परदिनेश्राद्धमविरुद्धम् । तथा
च हलायुधधृतम् “गत्वैव तीर्थं कर्त्तव्यं श्राद्धं तत्प्राप्ति-
हेतुकम् । पूर्वाह्णेप्यथ वा प्रातर्देशे स्यात् पूर्वदक्षिणे” ।
पूर्वाह्णे सङ्गवे पूर्वदक्षिणे अग्निकोणे । पिण्डदानमिति
श्राद्धासम्भवे केवलपिण्डदानभिति न पौनरुक्त्यम् ।
तीर्थे पिण्डप्रतिपत्तिमाह मत्स्यपुराणम् “पिण्डांस्तु
गोऽजविप्रेभ्योदद्यादग्नौ जलेऽपि वा । तीर्थश्राद्धे सदा
पिण्डान् क्षिपेत्तीर्थे विचक्षणः” ।
वायुपु० “उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम् । ततो ग्रा-
मान्तरं गत्वा श्राद्धशेषस्य भोजनम्” इत्युक्तं गयामित्युप-
लक्षणादन्यत्रापि तथा । अन्यत् मत्कृतगयाश्राद्धादि-
पद्धतौ दृश्यम् ।
कूर्प्तपुराणम् “ऐश्वर्य्यलोभमाहात्म्यात् गच्छेद्यानेन यो
नरः । निष्फलं तस्य तत्तीर्थं तस्माद्यानं विवर्जयेत्” इति
मत्स्यपुराणम् “संवत्सरं द्विमासोनं पुनस्तीर्थं व्नजेद्यदि ।
मुण्डनञ्चोपवासञ्च तदा यत्नेन कारयेत्” इति गङ्गावा-
क्याव० । तीर्थप्राप्त्यनन्तरविधानं यथा ।
“न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थीभोज्य एव हि । सक्तुभिः
पिण्डदानञ्च चरुणा पायसेन च । कर्त्तव्यमृषि-
भिर्दृष्टं पिण्याकेन गुड़ेन च । श्राद्धं तत्र तु
कर्त्तव्यमर्घ्यावाहनवर्जितम् । अकालेऽप्यथवा काले तीर्थ-
श्राद्धन्तु तर्पणम् । अविलम्बेन कर्त्तव्यं नैव विघ्नं
समाचरेत् । यदह्नि तीर्थप्राप्तिः स्यात्ततोऽह्नः पूर्ववासरे ।
उपवासश्च कर्त्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत् । तीर्थोप-
वासः कर्त्तव्यः शिरसो मुण्डनं तथा । शिरोगतानि
पापानि यान्ति मुण्डगतो यतः । तीर्थं प्राप्य प्रसङ्गेन
स्नानं तीर्थे समाचरेत् । स्नानजं फलमाप्नोति तीर्थ-
यात्राश्रितं न तु” इति काशीखण्डम् । “मुण्डनञ्चोप-
वासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा गयां गङ्गां
विशालां विरजान्तथा” इति स्कान्दम् “स्नापयेत्
स्निग्धमित्रादीन् ज्ञातीं स्तीर्थे नरोत्तमः । अन्यथापह-
रन्त्येते बलात्तीर्थभवं फलम्” इति स्कान्दम्
“मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् । यमुद्दिश्य
निमज्जेत अष्टभागं लभेत सः” इति प्रा० ३० मार्क० पु० ।
कलौ तीर्थानां पृथिव्यां स्थितिकालो यथा
“सरस्वती पुण्यक्षेत्रमाजगाम च भारतम् । गङ्गाशापेन
कलया स्वयं तस्थौ हरेः पदे । पश्चाद्भगीरथानीता-
महीं भागीरथी शुभा । समाजगाम कलया वाणी
शापेन नारद! । पद्माजगाम कलया सा च पद्मावती
नदी । भारतं मारतीशापात् स्वयं तस्थौ हरेः पदे ।
कलेः पञ्चसहस्रञ्च वर्षान् स्थित्वा च भारते । जग्मुस्ताश्च
सरिद्रूपं विहाय श्रीहरेः पदम् । यानि सर्वाणि
तीर्थानि काशीं वृन्दावनं विना । यास्यन्ति ताभिः
सार्द्धञ्च वैकुण्ठमाज्ञया हरेः” ।
“यानादिना गमनदोषो यथा “पुण्यार्द्धं हरते याने
तदर्द्धं तत्र पादुके । तदर्द्धं तैलमांसाभ्यां सर्वं हरति
मैथुने” इति कर्मलोचनम् ।
तत्र उपाये घट्टे च “कृततीर्थः पयसामिवाशयः” किरा०
शास्त्रे तीर्थकरः । पात्रे । “ब्रह्मचारी धनदायी
मेधावी श्रोत्रियः प्रियः । विद्यया विद्यां यः प्राह तानि
तीर्थानि षण्मम” विद्यावाक्यम् । १८ चात्वालोत्करयोर-
न्तराले देशे “दक्षिणेनाहृत्य तीर्थेन पूर्वेण येदिमपरेण
वा” कात्या० श्रौ० ५ । ५ । ११ । “तीर्थेन चात्वालोत्करावन्तरेण
प्रवेश्य वेदिचात्वालयोरन्तरालेन पूर्वेणोत्तरवेदिं दक्षि-
णेनाग्नेः पुरस्तादाहृत्य अथवा तीर्थेन प्रवेशनानन्तर-
मुत्तरां वेदिमपरेण चानीय वेद्योरन्तरालेन दक्षिणस्याग्नेः
पुरस्तदानीय जुहोति” “तेनान्तरेण प्रतिप्रद्यन्ते चात्वालं
चैतद्वै देवानां तीर्थम्” षड्विं० व्रा० । कराङ्गुलितलेषु ब्रा-
ह्मादितीर्थता यथाह मनुः “ब्राह्मेण विप्रस्तीर्थेन
नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण
कदाचन । अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । काय
मङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः” शास्त्रानुज्ञावि-
षये । “अहिंसन् सर्वाभूतान्यन्यत्र तीर्थेम्यः” छा० उ० तीर्थं
शास्त्रानुज्ञाविषयः” भाष्यम् । १९मन्त्र्याद्यष्टादशसु ।
“कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिर-
पृष्ठ ३३१५
विज्ञातैर्वेत्सि तोर्थानि चारकैः” भा० स०५ अ० । “तीर्थानि
मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य राजा कृतकृत्यो भवति
तानि चीकानि नीतिशास्त्रे “मन्त्री १ पुरोहित २ श्चैव
युवराजश्च ३ भूपतिः ४ पञ्चमो द्वारपालश्च ५ षष्ठोऽन्तर्वेशिक-
स्तथा ६ । कारागाराधिकारी ७ च द्रव्यसञ्चयकृत्तथा ८ ।
कृत्याकृत्येषु चार्थानां नवमो विनियोजकः९ । प्रदेष्टा १०
नगराध्यक्षः ११ कार्य्यनिर्माणकृत्तथा १२ । धर्माध्यक्षः १३
सभाध्यक्षो १४ दण्डपालस्त्रिपञ्चमः १५ । षोड़शो दुर्गपा-
लश्च १६ तथा राष्ट्रान्तपालकः १७ । अटवीपालकान्तानि १८
तीर्थान्यष्टादशैव तु । चारान् विचारयेत्तीर्थेष्वा-
त्मनश्च परस्य च । पाषण्डादीनविज्ञातानन्योन्य-
मितरेष्वपि । मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहि-
तमिति” एषां तीर्थशब्दवाच्यत्वे हलायुधः “योनौ
जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा
पात्रे तीर्थं स्याद्दर्शनेष्वपि” । इति परेषामष्टादशसु स्वस्य
मन्त्रिपुरोहितयुवराजवजं पञ्चदशसु च तीर्थेषु चारा-
नन्यैः परस्परं चाविज्ञातांस्त्रींस्त्रीन् प्रयुज्य तत्रत्यां
वार्त्तां सर्वचारसंवादे तथ्यां जानीयात्” नी० क० ।
२ जलाशयादरत्निमात्रदेशे आदित्यपुराणे “अरत्निमात्रं
जलं त्यक्त्रा कुर्य्याच्छौचमनुद्धृते । पश्चाच्च शोधयेत्तीर्थ-
मन्यथा न शुचिर्भवेत्” । तस्मिन् देशे शौचं न कर्त्तव्यं
यस्मादरत्निमात्रव्यवहितजलात् तत् स्यलमेव तीर्थं
जलसमीपत्वात्” आ० त० ।
“तीर्थाश्रमवनारण्यगिरिपर्वतसागराः । सरस्वती भारती
च पुरीति दश कीर्तिताः” महानि० तन्त्रोक्ते २ सन्यासि-
नामुपाधि भेदे । तल्लक्षणं तत्रैव “त्रिवेणीसङ्गमे तीर्थे
तत्त्वमस्यादिलक्षणे । स्नायात्ततीर्थभावेन तीर्थनामा स
उच्यते” । अन्यानि च भौमतोर्थानि भारततीर्थयात्राप-
र्वादौ पुराणान्तरेषु प्रसिद्धानि । “अन्यानि यानि तीर्थानि
काशीप्राप्तिकराणि च । काशीं प्राप्यैव मोक्षन्ते नान्यथा
कल्पकोटिभिः” नीलकण्ठधृतवाक्यम् ।

तीर्थकर पु० तीर्थं शास्त्रं करोति कृ--ट । १ जिने हेमच० ।

२ शास्त्रकरे त्रि० । ३ विष्णौ पु० । “मनोजवस्तीर्थकरः”
विष्णु स० । “चतुर्दशविद्यानां वाह्यसमयानां च प्रणेता
प्रवक्ता चेति तीर्थकरः हयग्रीवरूपेण मधुकैटभौ हत्वा
विरिञ्चये सर्गादौ सर्वाः श्रुतीरन्याश्च विद्या उपादि-
शत् बाह्यविद्याः सुरवैरिणां वञ्चनाय चोपादिशदिति
पौराणिकाः कथयन्ति” भाषम् ।

तीर्थकाक पु० तीर्थे काक इव लोलुपत्वात् । तीर्थे

काकसदृशव्यवहारिणि लोलुपे । तीर्थध्वाङ्क्षादयोऽप्यत्र ।

तीर्थकृत् पु० तीर्थं करोति कृ--क्विप् ६ त० । १ जिनदेवे

हेमच० । २ शास्त्रकरे त्रि० ।

तीर्थङ्कर पु० तीर्थं शास्त्रं करोति कृ--ख मुम् च । जिनदेवे हेमच० ।

तीर्थदेव पु० तीर्थमिव श्रेष्ठः देवः तोर्थे दीव्यति वा

दिवअच् वा । शिवे शिवसहस्रनाम ।

तीर्थमहाह्रद पु० तीर्थरूपो महाह्रदः । स्वनामख्याते

तीर्थभेदे “नन्दा च परनन्दा च तथा तीर्थमहाह्रदः”
भा० अनु० १६५ अ० । नानातीर्थोक्तौ ।

तीर्थयात्रा स्त्री तीर्थ मुद्दिश्य यात्रा । १ तीर्थोद्देशेन यात्रा-

याम् । तद्विधिः मत्कृतगयाश्राद्धादिपद्धतौ दृश्यः ।
भारतान्तर्गते २ वनपर्वाऽवान्तरपर्वभेदे । “तीर्थयात्रा ततः
पर्व कुरुराजस्य धीमतः” भा० व० १ अ० । तच्च वनपर्वणि
८० अध्यायावधि१५६ अध्यायान्तम् ।

तीर्थराज पु० तीर्थानां राजा षच्समा० । प्रयागे तीर्थे । तीर्थराजिशब्दे उदा०

तीर्थराजि(जी) स्त्री तीर्थानां राजिरत्र । अविमुक्ते

काश्यां त्रिका० वा ङीप् । निन्दनातत्राष्टषष्टितीर्थाना-
मानयनात्तथात्वम् । यथोक्तं काशी० ६९ अ० ।
“सर्वरत्नमया रम्या साष्टषष्टिरभूदिह । भूर्भुवःस्वस्तले
यानि शुभान्यायतनानि हि । मुक्तिदान्यपि तानीह मयाऽऽ
नीतानि सर्वतः । यतोयच्च समानीतं यत्र यच्च कृतास्पदम् ।
कथयिष्याम्यहं नाथ! क्षणं तदवधीयताम् । स्थाणुर्नाम
महालिङ्गं देवदेवस्य मोक्षदम् । कुरुक्षेत्रादिहोद्भूतं
कलाशेषोऽस्ति तत्र वै । तदग्रे सन्निहित्याख्या महापु-
ष्करिणी शुभा । लोलार्कपश्चिमे भागे कुरुक्षेत्रस्थली तु
सा । तत्र स्नातं कृतं जप्तं तप्तं दत्तं शुभार्थिभिः ।
कुरुक्षेत्राद्भवेत् सत्यं कोटिकोटिगुणाधिकम् । नैमिषार्द्धेव
देवोऽत्र ब्रह्मावर्त्तेन संयुतः । तत्रांशमात्रं संस्थाप्य
काश्यामाविरभूद्विभो! । ढुण्ढिराजोत्तरे भागे सिद्धिदं
साधकस्य वै । लिङ्गं वै देवदेवाख्यं तदग्रे कूप उत्तमः ।
ब्रह्मावर्त्त इति ख्यातः पुनरावृत्तिकृन्नृणाम् । तत्कूपाद्भिः
कृतम्रानो देवदेवं समर्च्च्य च । तत्पुण्यान्नैमिषार-
ण्यात् कोटिवोटिगुणं स्मृतम् । गोकर्ण्णायतनादत्र
स्वयमाविरभून्महत् । लिङ्गं महाबलं नाम शाम्बा-
दित्यसमीपतः । दर्शनात् स्पर्शनाद्यस्य क्षणादेनो
महाबलम् । वाताहतस्तुलराशिरिव विद्राति दूरतः ।
कपालमोचनपुरो दृष्ट्वा लिङ्गं महाबलम् । महाबल-
पृष्ठ ३३१६
मवाप्नोति निर्वाणनगरं व्रजेत् । ऋणमोचनतः प्राच्यां
प्रभासात् क्षेत्रसम्भवात् । शशिभूषणसंज्ञं तु लिङ्गमत्र
प्रतिष्ठितम् । तल्लिङ्गं सेवनान्मर्त्यः शशिभूषणतां व्रजेत् ।
प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् । उज्ज-
यिम्या महाकालः स्वयमत्रागतो विभुः । यन्नामस्मंरणा-
देव न भयं कलिकालतः । प्रणवाख्यान्महालिङ्गात्
प्राच्यां कलुषनाशनम् । महाकालाभिधं लिङ्गं दर्श-
नान्मोक्षदं परम् । योगन्धेश्वर लिङ्गं पुष्करात्तीर्थ-
सम्भवात् । आविरासीदिह महत् पुष्करेण सदैव तु ।
मत्स्योदर्य्युत्तरे भागे दृष्ट्वाऽयोगन्धमुत्तमम् । स्नात्वाऽ-
योगन्धकुण्डे तु भवात्तारयते पितृन् । महानादेश्वरं
लिङ्गमट्टहासादिहागतम् । त्रिलोचनादुदीच्यान्तु
तद्दृष्टिर्मुक्तये सताम् । महोत्कटेश्वरं लिङ्गं मरुत्कोटा-
टिहागतम् । कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धि-
दम् । विश्वस्थानादिहायातं लिङ्गं वै विमलेश्वरम् ।
स्वर्लीतात् पश्चिमे भागे दृष्टं विमलसिद्धिदम् । महाव्रतं
महालिङ्गं महेन्द्रादिह मंस्थितम् । स्कन्देश्वरसमीपे
तु महाव्रतफलपदम् । वृन्दारकर्षिवृन्दानां स्तुवतां प्रथमे
युगे । उत्पन्नं यन्महालिङ्गं भूमिं भित्त्वा सुदुर्भिदाम् ।
महादेवेति तैरुक्तं यन्मनोरथपूरणात् । वाराणस्यां
महादेवस्तदारभ्याभवच्च यत् । मुक्तिक्षेत्रं कृतं येन
महालिङ्गेन काशिका । अविमुक्ते महादेवं यो द्रक्ष्यं
त्यत्र मानवः । शम्भुलोके गमस्तस्य यत्र तत्र मृतस्य
हि । अविमुक्ते प्रयत्नेन तत् संसेव्यं मुमुक्षुभिः ।
कल्पान्तरेऽपि न त्यक्तं कदाप्यानन्दकाननम् । येन लिङ्ग-
स्वरूपेण महादेवेन सर्वथा । तत्प्रसादोऽयमतुलः सर्व-
रत्नपयः शुभः । हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्र
रक्षिका । वाराणस्यामधिष्ठात्री देवता साभिलाषदा ।
महादेवेति संज्ञा वै सर्वलिङ्गस्वरूपिणी । वाराणस्यां
महादेवो दृष्टो यैर्लिङ्गरूपधृक् । तेन त्रैलोक्यलिङ्गानि
दृष्टानीह न संशयः । वाराणस्यां महादेवं समभ्यर्च्य
सकृन्नरः । आहूतसंप्लवं यावच्छिवलोके वसेन्मुदा ।
पवित्रपर्वणि सदा श्रावणे मासि यत्नतः । लिङ्गे
पवित्रमारोप्य महादेवे न गर्भभाक् । पितामहेश्वरं लिङ्गं
गयातोर्थादिहागतम् । फल्गुप्रभृतिभिस्तीर्थैः सार्द्धं
कोट्यष्टसम्मितैः । धर्म्मेण यत्र वै तप्तं युगानामयुतं
शतम् । साक्षीकृत्य महालिङ्गं श्रीमद्धर्मेश्वराभिधम् ।
पितामहेश्वरं लिङ्गं तत्राभ्यर्च्य नरोमुदा । त्रिःसप्त-
कुलसंयुक्तो मुच्यते नस्त्र संशयः । प्रयागतीर्थराजस्य
शूलटङ्को महेश्वरः । तीर्थराजेन सहितः स्थित आगत्य
वै स्वयम् । निर्वाणमण्डपाद्रम्यादवाच्यामतिनिर्मलः ।
प्रासादो मेरुणा यस्य स्पर्द्धते काञ्चनोज्ज्वलः । देवेनैव-
वरो दत्तो तत्र पूर्वयुगान्तरे । पूज्यो महेश्वरः काश्यां
प्रथमं कलुषापहः । यः प्रयाग इह स्नातो नमस्यंति
महेश्वरम् । समभ्यर्च्य विधानेन महासम्भारविस्तरैः ।
प्रयागस्नानजात् पुण्यं शूलटङ्कविलोकनात् । स
प्राप्तुयान्न सन्देहः पुण्यं कोटिगुणोत्तरम् । शङ्कु-
कर्ण्णान्महाक्षेत्रान् महातेज इतीरितम् । लिङ्गमाविर-
भूदत्र महातेजोभिवृद्धिदम् । महातेजोनिधेस्तस्य
प्रासादोऽतीव निर्मलः । ज्वालाजटिलिताकाशो माणि-
क्यैरेव निर्मितः । तल्लिङ्गदर्शनात् स्पर्शात् स्तवनाच्च
समर्च्चनात् । प्राप्यते तत् पुरं धाम यत्र गत्वा न
शोचते । विनायकेश्वरात् पूर्वे महातेजःसमर्च्चनात् ।
तेजोमयेन यानेन याति माहेश्वरं पदम् । रुद्रकोटि
समाख्यातात्तीर्थात् परमपावनात् । महायोगोश्वरं लिङ्ग-
माविश्चक्रे स्वयं परम् । पार्वतोश्वरलिङ्गस्य समीपे
सर्वसिद्धिकृत् । तल्लिङ्गदर्शनात् पुंसां कोटिलिङ्गफलं
लभेत् । तत्प्रासादस्य परितो रुद्राणां कोटिस-
म्मिता । प्रासादरम्यसंस्थाना निर्मिता रुद्रमूर्त्तिभिः ।
काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः । रुद्रस्थल्यां
मृता यो वै कृमिकीटपतङ्गकाः । पशुपक्षिमृगा मर्त्या
म्लेच्छा वाऽप्यथ दीक्षिताः । तेषां तु रुद्रीभूतानां
पुनरावृत्तिरत्र न । जन्मान्तरसहस्रेषु यत् पापं समुपा-
र्जितम् । रुद्रस्थलीं प्रविष्टस्य तत् सर्वं व्रजति क्षयम् ।
अकामो वा सकामो वा तिर्य्यग्योनिगतोऽपि वा । रुद्र-
स्थल्यां त्यजन् प्राणान् परं निर्वाणमाप्तुयात् । स्वय-
मेकाम्बरात् क्षेबात् कृत्तिवासा इहागतः । कृत्तिवाससि
लिङ्गेऽत्र स्वयमेव व्यवस्थितः । अस्मिन् लिङ्गे स्वसक्तानां
साम्बः सर्षिगणो विभः । स्वयञ्चोपदिशेद्ब्रह्म श्रुतौ
श्रुतिभिरीरितम् । क्षेत्रेऽत्र सिद्धिदे प्राप्तश्चण्डीशो
मरुजाङ्गलात् । प्रचण्डषपसंथातं खण्डयेच्छतधे-
क्षणात् । पाशपाणिगणाध्यक्षसमीपे यः प्रपश्यति ।
चण्डीश्वरं महालिङ्गं स याति परमां गतिम् ।
कालञ्जरान्नीलकण्ठस्तिष्ठेदत्र स्वयं विभु । षेशात्
कूटदन्ताख्यात् समीपे भवनाशनः । नीलकण्ठेश्वरं लिङ्गं
काश्यां यैः परिपूजितम् । नीलकण्ठास्तएव स्युस्तएव
पृष्ठ ३३१७
शशिभूषणाः । काश्मीरादिह संप्राप्तं लिङ्गं विजय-
संज्ञितम् । सदा विजयदं पुंसां विजयेशः समर्च्च-
नात् । ऊर्द्ध्वरेतास्त्रिदण्डायाः संप्राप्तोऽत्र स्वगंविभुः ।
कुष्माण्डकं गणाध्यक्षं पुरस्कृत्वा व्यवस्थितः । ऊर्द्ध्वां
गतिमवाप्तोति वीक्षणादूर्द्ध्वरेतसः । ऊर्द्ध्वरेतसि ये
भक्ता न हि तेषामधोगतिः । मण्डलेश्वरतः क्षेत्रा-
ल्लिङ्गं श्रीकण्ठसंज्ञितम् । विनायकान्मुण्डसंज्ञादुत्तरस्यां
दिशि स्थितम् । श्रीकण्ठस्य तु ये भक्ताः श्रीकण्ठा एव
ते नराः । नेह श्रिया वियुज्यन्ते न परत्र कदाचन ।
छागलाण्डान्महातीर्थात् कपर्द्दीश्वरसंज्ञितः । पिशाच
मोचने तीर्थे स्वयमाविरभूद्विभुः । कपर्दीशं समभ्यर्च्च्य
न नरो निरयं व्रजेत् । न पिशाचत्वमाप्नोति कृत्वाऽ-
त्राप्यवमुत्तमम् । आषाड़केश्वरात् क्षेत्रात् लिङ्गं
सूक्ष्मेशसंज्ञितम् । स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसां
पदे । विकटद्विजसंज्ञस्य गणेशस्य समीपतः । दृष्ट्वा
लिङ्गेश्वरं लिङ्गं गतिं शुभामवाप्नुयात् । संप्राप्तमिह
देवेशं जयन्तं मधुकेशवात् । लम्बोदराद्गणपतेः पुरस्ता-
त्तदवस्थितम् । जयन्तेश्वरमालोक्य स्नात्वा गङ्गाजले
शुभे । प्राप्नुयाद्वाञ्छितां सिद्धिं सर्वत्र विजयी भवेत् ।
प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरान्तकः श्रीशैलशिखरं
दृष्ट्वा यत् फलं समुदीरितम् । त्रिपुरान्तकमालोक्य
तत्फलं हेलयाप्यते । विश्वेशात् पश्चिमे भागे त्रिपुरान्तक-
मीश्वरम् । संपूज्य परया भक्त्या न नरो गर्भमावि-
शेत् । सोम्यस्थानादिहायातो भगवान् कुक्कुटेश्वरः ।
वक्रतुण्डगणाध्यक्षसर्मीपे सोऽवतिष्ठते । तद्दर्शनादर्च्च-
नाच्च करस्थाः सर्वसिद्धयः । जलेश्वरात्त्रिशूली च स्वय-
भीशः समागतः । एकदन्तोत्तरे भागे सोऽर्च्चितः सर्व-
कामदः । त्रिसन्ध्याक्षेत्रतो देवस्त्र्यम्बकोऽस्ति समागतः ।
त्रिमुखात् पूर्वदिग्भागे पूजितस्त्र्यम्बकत्वकृत् । हरेश्वरो
हरिश्चन्द्रात्क्षेत्रादत्र समागतः । हरिश्चन्द्रेश्वर-
पुरः पूजितो जयदः सदा । इह सर्वः समायातः
स्थानात् मध्यमकेश्वरात् । चतुर्वेदेश्वरं लिङ्गं पुरो
वायव्यसंस्थितम् । सर्वलिङ्गं समभ्यर्च्च्य काश्यां
परमसिद्धिकृत् । न जातु जन्तुपदवीं प्राप्नुयात् क्वापि
मानवः । स्थलेश्वरान्महालिङ्गं प्रादुर्भूतं परन्त्विह ।
यत्र यज्ञेश्वरं लिङ्गं सर्वयज्ञफलप्रदम् । महालिङ्गं
समभ्यर्च्च्य महाश्रद्धासमन्वितः । महतीं श्रियमाप्नोति
लोकेऽत्र च परत्र च । इह लिङ्गं सहस्राख्यं सुवर्ण्णा-
ख्यात् समागतम् । यस्य संदर्शनात् पुंसां ज्ञानचक्षुः
प्रजायते । शैलेश्वरादवाच्यान्तु सहस्राक्षेश्वरं विभुम् ।
दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत् । हर्षिता-
द्धर्षितं चात्र प्रादुरासीत्तमोहरम् । लिङ्गं हर्षप्रदं
पुंसां दर्शनात् स्पर्शनादपि । महेन्द्रेश्वरसमीपे तु
प्रासादो हर्षितेशितुः । तद्विलोकनतः पुंसां नित्यं
हर्षपरम्परा । इह स्वयं समायातो रुद्रो रुद्रमहा-
लयात् । यस्य दर्शनतो यान्ति रुद्रलोके नराः स्फुटम् ।
यैस्तु रुद्रेश्वरं लिङ्गं काश्यामत्र समर्च्चितम् ते
रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः । त्रिपुरंश
समीपे तु दृष्टा रुद्रेश्वरं विभुम् । रुद्रास्त एव विज्ञेया
जीवन्तोऽपि मृता अपि । आगादिह महादेवो वृषेशो
वृषभध्वजात् । वाणेश्वरस्य लिङ्गस्य समीपे वृषदः
सदा । इहागतं तु केदारादीशानेश्वरसंज्ञितम् । तत्
द्रष्टव्यं प्रतीच्यां च लिङ्गं प्रह्लादकेश्वरात् ।
ईशानेशं समभ्यर्च्च्य स्नात्वा तु वरणाम्भसि । वसेदीशान-
नगर ईशानसदृशप्रभः । भैरवाद्भैरवीमूर्त्तिरत्रायाता
मनोहरा । संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः ।
पूजनात् सर्वसिद्धौ स प्राच्यां खर्वविनायकात् । संहार-
भैरवः काश्यां संहरेदघसन्ततिम् । उग्रः कनखलात्तीर्था-
दाविरासीत् सुसिद्धिदः । तद्विलोकनतो नॄणामुग्रं पापं
विनश्यति । उग्रं लिङ्गं सदा सेव्यं प्राच्यां खर्वविनाय-
कात् । अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्च्चनात् । वस्त्रा-
पथान्महाक्षेत्राद्भवो नाम स्वयं बिभुः । प्राच्यां दण्डीश्वरः
पूज्यः सदेहलिविनायकात् । तस्यार्च्चनेन मर्त्यानां न
पुनर्भव ईक्ष्यते । भीमचण्डीसमीपे तु प्रादुराशीदिह प्रभुः ।
भवेश्वरं समभ्यर्च्च भवे नाविर्भवेन्नरः । प्रभुर्भवति सर्वेषां
राज्ञामाज्ञाकृतामिह । देवदारुवनाद्दण्डी दण्डयन्
पातकाबलीः । वाराणस्यां समागत्य स्थितो लिङ्गाकृति-
र्भवः । प्राच्यां दण्डीश्वरः पूज्यः स देहलिविनाय-
कात् । तस्यार्च्चनेन मर्त्यानां न पुनर्भव ईक्ष्यते । भद्र-
कर्ण्णह्रदाद्दण्डो भद्रकर्णह्रदान्वितः । शिवः साक्षादि-
हायातः सर्वेषां शिवदोऽर्च्चितः । उद्दण्डाख्याद्गणपतेः
प्राच्यां तत्तीर्थमुत्तमम्! भद्रकर्णह्रदे स्नात्वाऽभ्यर्च्च्यलिङ्गं
शिवाह्वयम् । सर्वत्र शिवमाप्नोति भद्रं भवविनाशकम् ।
शृणुयात् सर्वभूतानां भद्र पश्यति चाक्षिभिः । शङ्करश्च
हरिश्चन्द्रात् त्वत्पुरः प्रतिभासते । तत्पूजनाज्जनानां न
जननीजठरे जनिः । यमलिङ्गाम्महातीर्थात् काललिङ्ग-
पृष्ठ ३३१८
मिह स्थितम् । कलशेश इति ख्यातं चन्द्रेशात् पश्चिमेन
तु । यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे ।
काललिङ्गं समालोक्य कलिकालभयं कुतः । तत्र भौम
चतुर्दश्यां यस्तु यात्रां करिष्यति । अपि पातकयुक्तश्च
यमयात्रां न यास्यति । नेपालाच्च महाक्षेत्रादायात्
पशुपतिस्त्विह । यत्र पाशुपतो योग उपदिष्टः पिना
किना । महता देवदेवेन ब्रह्मादिभ्यो विमुक्तये । तस्य
संदर्शनादेव पशुपाशौर्वयुज्यते । करवीरकतीर्थाच्च
कपालीश इहागतः । कपालमोचने तीर्थे द्रष्टव्यः स
प्रयत्नतः । तद्विलोकनमात्रेण ब्रह्महत्या विलीयते ।
उमापतिर्देविकाया इहागत्य व्यवस्थितः । दृष्टः पशुपतेः
प्राच्यां हरेत् पापं चिरार्जितम् । लिङ्गं महेश्वरक्षे-
त्रादिह दीप्तेशसंज्ञितम् । उपोमापति तिष्ठेत्तु
दीप्त्यै चेह परत्र च । भुक्तिमुक्तिप्रदं लिङ्गं दीप्तेशं
काशिमध्यगम् । छायारोहणतः क्षेत्रादायातो नकुली-
श्वरः । शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः ।
दक्षिणे हि महादेवात् दृष्टो ज्ञानं प्रयच्छति । अज्ञानं
नाशयेत् क्षिप्रं गर्भसंसृतिहेतुकम् । गङ्गासागरत-
श्चागादमरेशैतीरितम् । लिङ्गं यद्दर्शनादेव नामरत्वं
हि दुर्लभम् । सप्तगोदावरीतीर्थाद्देवोभीमेश्वरः प्रभुः ।
प्रकाशते लिङ्गरूपी भुक्त्यै मुक्त्यै नृणामिह । नकुली-
शात् पुरोभागे दृष्ट्वा भीमेश्वरं प्रभुम् । महाभीमानि
पापानि प्रणश्यन्ति हि तत्क्षणात् । भूतेश्वरात् भस्म-
गात्रः प्रादुरासीदिह स्वयम् । भीमेशाद्दक्षिणे भागे
तदभ्यर्च्च्यं प्रयत्नतः । सम्यक् पाशुपताद्योगादभ्यस्ताच्च
समाः शतम् । यत्प्राप्नोति फलं तस्माद्भस्मगात्रविलो
कनात् । नकुलीश्वरतो देवः स्वयम्भुरिति विश्रुतः ।
आत्मना प्रकटीभूतः काश्यां लिङ्गाकृतिर्हरः । स्वयम्भु-
लिङ्गं संपूज्य स्रात्वा सिद्धिह्रदे नरः । महालक्ष्मीश्वर-
पुरो न भूयो जन्मभाग्भवेत् । प्रयागतीर्थं निकषा
प्रासादो विद्रुमः प्रभुः । वाराहस्य महानेष वरणी नाम
एव हि । विन्ध्यपर्व ततः प्राप्तो देवं श्रुत्वा समागतम् ।
सगणं सर्षिदेवञ्च मन्दराद्रत्नकन्दरात् । काश्यां धरणि
वाराहोद्रष्टव्यः स प्रयत्नतः । आपत्समुद्रसंमग्न-
मुद्धरेच्छरणागतम् । कर्णिकाराद्गणाध्यक्षः कर्णिकार
प्रसूनरुक् । समर्च्च्योऽयं गदाहस्त उपसर्गसहस्रहृत् ।
तस्माद्धरणिवाराहात् प्रतीच्यां दिशि संस्थितम् ।
पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत् । हेमकूटाद्विरू-
पाक्षं लिङ्गमत्राविरास ह । महेश्वरादवाच्यां तु
दृष्टं संसारतारकम् । गङ्गाद्वाराद्विमस्थेशं लिङ्गं
हिमसमप्रभम् । ब्रह्मनालात् प्रतीच्यां च द्रष्टव्यमिह-
सिद्धिदम् । गणाधिपश्च कैलासात् गणा अन्ये महावलाः ।
कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो! । दुर्गाणि
तैः कृतानीह सप्त स्वर्गसमानि च । सद्वाराणि
सयन्त्राणि सकपाटनिभानि च । कोटिकोटिभटा-
द्यानि सर्वर्द्धिसहितानि च । सुवर्णरूप्यताम्रैश्च कांस्य-
रीतिकसीसकैः । अयस्कान्तेन कान्तानि रत्नान्यग्र
लिहान्यपि । ततः शैलं महादुर्गं तैः काशी परितः
कृतम् । परिखापि कृता निम्ना मोत्स्योदर्य्या
जलाविला । मत्स्योदरी द्विधा जाता वहिरन्तश्चरी पुनः ।
तच्च तीर्थं महाख्यातं मिलितं गाङ्गवारिभिः । यदा
संहारमार्गेण गङ्गाम्भः प्रसरेदिह । तदा मत्योदरी
तीर्थं लभते पुण्यगौरवात् । सूर्य्याचन्द्रममोः पर्व-
तदा कोटिगुणं शतम् । सर्वपर्वाणि तत्रैव सर्वतीर्थानि
तत्र वै । तत्रैव सर्वलिङ्गानि गङ्गा मत्स्योदरी यतः ।
मत्स्योदर्य्यां हि ये स्नाता यत्र कुत्रापि मानवाः ।
कृतपिण्डप्रदानास्ते न मातुरुदरेवसाः । अविमुक्तमिदं क्षेत्रं
मत्स्याकारत्वमाप्नुयात् । परितः खर्धुनीवारिसंसारो
परि वीक्ष्यते । मत्स्योदर्य्यां कृतस्नाना ये नरास्ते
नरोत्तमाः । कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् ।
किं स्नात्वा वहुतीर्थेषु किं तप्त्वा दुस्करं तपः । यदि
मत्स्योदरोस्नाताः कुतो गर्भभयं ततः । यत्र यत्र हि
लिङ्गानि नृदेवर्षिकृतान्यपि । तत्र मत्स्योदरीं प्राप्य
सुस्नातो मोक्षभाजनम् । सन्ति तीर्थान्यनेकानि भूर्भुवः स्वर्ग-
तान्यपि । न समानि परन्तानि कोट्यंशेनापि निश्चितम् ।
इत्थं तीर्थं कृतं तेन विभो! । कैलासवासिनः ।
गणाधिपेन सुमहत्सुमहोदरकर्मणा । भूर्भूवःसंज्ञकं लिङ्गं
पर्वताद्गन्धमादनात् । स्वयमाविरभूदत्र तस्मात् प्राच्यां
गणाधिपात् । विलोक्य भूर्भुवं लिङ्गं भूर्भुवःस्वर्महः
परे । निवसन्ति जनाः पुण्याः सुचिरं दिव्यभोगिनः ।
हाटकेशं महालिङ्गं भोगवत्या समायुतम् । सप्तपाताल-
तलत इहायातं स्वयं विभो! । शेषवासुकिमुख्यैश्च
तत्प्रासादो महानिह । मणिमाणिक्यरत्नोघैर्निरमायि
प्रयत्नतः । तल्लिङ्गं हाटकमयं रत्नमालाभिरर्चितम् ।
ईशानेश्वरतः प्राच्यां पूजनीयं प्रयत्नतः । भक्तितोऽभ्यर्च्य
तल्लिङ्गं नरः सर्वः समृद्धिमान् । क्त्वा भोगभुनसंख्या-
पृष्ठ ३३१९
तानन्ते निर्वाणमृच्छति । आकाशात्तारकं लिङ्गं
ज्योतीरूपमिहागतम् । ज्ञानवाप्याः पुरोभागे तल्लिङ्गं
तारकेश्वरम् । तारकज्ञानमभ्येति तल्लिङ्गस्य समर्चनात् ।
ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च । कृतस-
न्ध्यादिनियमः परितर्प्य पितामहान् । धृतमौनव्रतो
धीमान् यावल्लिङ्गविलोकनम् । मुच्यते सर्वपापेभ्यः पुण्यं
प्राप्नीति शाश्वतम् । प्रान्ते च तारकं ज्ञानं यस्मात् ज्ञाना-
द्विमुच्यते । किराताच्च किरातेश इह चाविर्बभूव ह ।
किरातरूपो भगवान् यत्र देवोऽभवत् पुरा । तत्किराते-
श्वरं लिङ्गं भारभूतेश्वरादनु । नमस्कृत्वा नरो जातु
न मातुरुदरेशयः । लङ्कापूर्य्याः समागच्छन्मरुकेश्वरसंज्ञकम् ।
पौलस्त्यलाघवात् पश्चात् पूजितं सर्वदुःखहृत् । पुण्यं
जलप्रियं लिङ्गं जललिङ्गस्थलादपि । आयातं तच्च
गङ्गाया जलमध्ये व्यवस्थितम् । तत्प्रासादोऽद्भुततरो
मध्येगङ्गं निरीक्ष्यते । सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः
शुभः । अद्यापि दृश्यते कैश्चित् पुण्यसम्भारगौरवात् ।
श्रेष्ठं लिङ्गमिहायातं तीर्थात्कोटीश्वरादपि । कोटि-
लिङ्गेक्षणपुण्यं तल्लिङ्गस्य निरीक्षणात् । श्रेष्ठं श्रेष्ठे-
श्वरात्पश्चात् श्रेष्ठसिद्धिप्रदायकम् । वड़वास्यात् समुद्भुतं
लिङ्गमात्रानलेश्वरम् । नलेश्वरपुरोभागे पूजितं सर्वसि-
द्धिदम् । आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ।
लिङ्गे त्वनादिसंसिद्धे ह्यवतस्थे त्रिपिष्टपे । पुण्ये
पिलिम्पिले तीर्थे सर्वेषां तारकप्रदे । आविश्चक्रे स्वयं
देव ओङ्कारेऽमरकण्टकात् । तदाद्यं तारकक्षेत्रं यदा
गङ्गा न चागता । तदैवाविरभूत् काशी त्रैलोक्योद्ध-
रणाय वै । तदोङ्कृति महल्लिङ्गं स्वयमाविरभूत्ततः ।
महिमानं न तस्यान्यः परिवेत्ति विभोरृते । एतान्या
यतनानीश! आनिनाय महान्ति च । शेषयित्वांशमात्रञ्च
तस्मिन् क्षेत्रे निजे निजे । इहायातानि पुण्यानि
सर्वभावेन नान्यथा । प्रासादाः सर्वतः श्रेष्ठा रम्या अभ्रं-
लिहा विभो! । बहुधातुमयाश्चित्राः सर्वरत्नमहोज्ज्वलाः ।
येषां कलसमात्रस्य दर्शनान्मुक्तिराप्यते । श्रुत्वा च
नामचैतेषां लिङ्गानां सुरसत्तम! अपि जन्मसहस्रोत्थाः
क्षीयन्ते पापराशयः । इदानीं को निदेशोऽत्र मयानु-
ष्ठेय ईशितः! । प्रसादीक्रियतां सोऽपि सिद्धो मन्तव्य
एव हि । श्रीस्कन्द उवाच । श्रुत्वेति नन्दिनो वाक्यं
देवदेवेश्वरो हरः । मुदा प्रसाद्य शैलादिमिदं प्रोवाच
कुम्भज! । श्रीदेवदेव उवाच । साधु कृतं त्वया नन्दिन्!
सदानन्दविधायक! । विधेहि मे निदेशं च चण्डी-
र्व्यापारयाधुना । नव कोट्यस्तु चामुण्डायाश्चात्र निवसन्ति
हि । सदैव ताभिः सहिताः भूतवेतालभैरवैः । ताः
पुरीरक्षणार्थाय सवाहनबलायुधाः । प्रतिदुर्गं दुर्ग-
रूपाः परितः परिवासय । श्रीस्कन्धौवाच । नन्दिनं
स निदेश्यापि मृड़ान्या सहितो मृड़ः । ययौ त्रैपिष्टपं
क्षेत्रं मुक्तिवीजपुरोहनम् । शिलादतनयोऽप्यैशीं मूर्द्ध-
न्याज्ञां विधाय च । आहूय सर्वास्ता दुर्गाः प्रतिदुर्गं
न्यवेशयत् । निशम्याध्यायमेतञ्च पुण्यायतनगर्भितम् ।
नरः स्वर्गापवर्गौ च प्राप्नुयात् श्रद्धया क्रमात् । श्रुत्वाष्ट-
षष्टिमेतां वै महायतनसंभवाम् । न जातु प्रविशेन्मर्त्यो
जनन्या जठरीदरीम्” ।

तीर्थवाक पु० तीर्थस्येव वाको वचनमस्य उत्ताङ्गस्थित्या प्रशंसनीयत्वात् । केशे हेमच० ।

तीर्थशौच न० तीर्थस्य घट्टस्य शौचं परिष्कारः । घट्टादि-

परिष्कारे । “सेतुवन्धरता ये च तीर्थशौचरताश्च ये ।
तड़ागकूपकर्त्तारो मुच्यन्ते ते तृषाभयात्” । आदित्यपु०
तीर्थशौचं घट्टपरिष्कारः” रघु० ।

तीर्थसेनि स्त्री कुमारानुचरमातृभेदे । “माधवी शुभवक्त्रा च

तोर्थसेनिश्च भारत!” भा० शल्य० ४७ अ० ।

तीर्थसेविन् पुंस्त्री० तीर्थं जलप्रान्ते सेवते मत्स्याहारार्थं

सेव--णिनि । १ वके राजनि० स्त्रियां ङीप् । २ तीर्थसेवके त्रि० ।

तीर्थ्य पु० तीर्थे भवः यत् । रुद्रभेदे । “नमस्तीर्थ्याय च

कुल्याय च” यजु० १६ । ४२ । समानतीर्थे वसति यत् ।
सतीर्थ्य एकगुरुके अमरः ।

तीव स्थौल्ये भ्वा० पर० अक० सेट् । तीवति अतीवीत् । तितीव ।

तीवर पु० तॄ--ष्वरजन्तः नि० । १ समुद्रे, २ व्याधे, ३ वर्णसङ्करजा-

तिभेदे(तेओर)पुं स्त्री० जातिशब्दे दृश्यम् । स्त्रियां ङीष् ।

तीव्र न० तीव--रक् तिज--वन् दीर्घः जस्य वो वा । १ अतिशये

२ तद्वति त्रि० अमरः । ३ तीक्ष्णे ४ लौहभेदे (इस्पातं)
५ तीरे ६ त्रपुणि च उणा० ७ लौहमात्रे राजनि० ।
८ अत्युष्णे ९ कटौ १० नितान्ते च त्रि० उणा० । ११ शिवे
पु० शब्दर० । “विलङ्घिताधोरणतीव्रयत्नाः” रघुः । “तीव्रो-
त्थितास्तावदसह्यरंहसः” “तीव्रं महाव्रतमिवात्र
चरन्ति वप्राः” माघः । वैराग्यस्य उपायस्य च
तीव्रत्वं पात० सू० भाष्ये विवरणे च दर्शितं यथा
“ते खलु नव योगिनोमृदुमध्याधिमात्रोपाया भवन्ति ।
तद्यथा, मृदूपायोमध्योषायोऽधिमात्रोपाय इति । तत्र
सृदूपायोऽपि त्रिविघः मृदुसंवेगोमध्यसंवेगस्तीव्रसंवेग
पृष्ठ ३३२०
इति । तथा मध्योपायस्तथाधिमात्रोपाय इति, त्त्राधि-
मात्रोपायानाम्” भा० “तीव्रसंवेगानामसान्नतमः” पात० सू० ।
“समाधिलाभः समाधिफलञ्च भवतीति” भाष्यम् ननु
श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्
फले स्यातां दृश्यते तु कस्यचित्सिद्धिः कस्यचिदसिद्धिः कस्य-
चिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण सिद्धिः कस्यचित्क्षि-
प्रमित्यत आह, “ते खलु नवयोगिन” इति । उपायाः
श्रद्धादयोमृदुमध्याधिमात्राः प्राम्भवीयसंस्कारादृष्टवशाद्
येषां ते तथोक्ताः संवेगोवैराग्यं तस्यापि मृदुमध्यती-
ब्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपी-
यसी सिद्धिस्तान् दर्शयति सूत्रेण, “तोव्रसंवेगानामा-
सन्नतमः इति सूत्रम्” विव० ।

तीव्रकण्ठ पु० तीब्रः कण्ठो यस्मात् ५ ब० । सेवनेन कण्ठ-

पीड़के १ शूरणे (ओल)रत्नमा० तस्य सेवने हि कण्ठोद्वे-
जिता लोकपसिद्धा ।

तीव्रकन्द पु० तीव्रः कन्दोऽस्य । शूरणे राजनि० ।

तीव्रगन्धा स्त्री तीव्रो गन्धो यस्याः । यवान्यां राजनि० ।

२ तीव्रगन्धयुक्ते त्रि० । कर्म्म० । ३ तीव्रे गन्धे पु० ।

तीव्रज्वाला स्त्री तीव्रं यथा तथा ज्वालयति उद्वेजयति

सेविनम् ज्वल--णिच्--अच् । १ धातक्याम् राजनि० ।
तत्स्पर्शने हि गात्रे व्रणजन्म लोकप्रसिद्धमिति तस्यास्त-
थात्वम् २ तीव्रज्वालायुक्ते त्रि० । कर्म० । ३ तीव्रायां
ज्वालायां स्त्री ।

तीव्रदारु न० कर्म्म० । १ तीव्रे दारुणि । तस्य विकारः

रजता० अञ् । तैव्रदारव तद्विकारे त्रि० स्त्रियां ङीप् ।

तीव्रबन्ध पु० तीव्रो वन्धो यस्मात् । तामसगुणे “दैवी सम्पद्-

विमोक्षाय निबन्धायासुरी मता” गीतायां तामसका-
र्य्यासुरसम्पदोवन्धहेतुत्वोक्तेस्तथात्वम् ।

तीव्रवेदना स्त्री कर्म्म० । घोरायां यातनायाम् अमरः ।

तीव्रसंवेग पु० कर्म्म० । तीव्रवैराग्ये तीव्रशब्दे दृश्यम् ।

तीव्रा स्त्री तीव्र + टाप् । १ गण्डदूर्वायां २ कटुरोहिण्यां ३

राजिकायां (राइसरिसा) मेदि० । ४ नदीभेदे शब्दर० ।
५ महाज्योतिष्मत्यां ६ तरदीवृक्षे ७ तुलस्याञ्च राजनि० ।
८ तीव्रवेगयुक्तस्त्रीमात्रे च ।

तीव्रानन्द तीव्र आनन्दीऽस्य । शिवे शिवसहस्रनाम ।

तु वृत्तौ (वृद्धौ पा०) अक० हिंसायां पूर्त्तौ च सक० अदा० पर०

अनिट् । तौति तवीति । अतौषीत् । अत्र “नाभ्यस्तस्याचि-
पिति सार्वधातुके” ७ । ३ । ८७ । “सूत्रतः सार्वधातुके इत्य-
स्यानुवृत्तिसम्भवेऽपि “तुरुस्तुशम्यमः सार्वधातुके” ७ । ३ । ९५
पा० सूत्रे “पुनः सार्वधातुकग्रहणमपिदर्थमिति” सि० कौ० ।
तेन “उतो वृद्धिर्लुकि हलि” ७ । ३ । ८९ पा० सूत्रात् हलीत्यस्य
“ब्रुवईट्” ७ । ३ । ९३ पा० सूत्रात् “ईटः यङो वा” सू० वेत्यस्य
चानुवृत्तिः न पितीत्यस्य तेन तुवीतः तुतः तुवीथः तुथः ।
अचि तु न । तुवन्ति । मुग्धबोधकृत्तुहलोत्यस्यानुवृत्तिवत्
पितीत्यस्यानुवृत्तिरिति वभ्राम” तेन तन्मते तुत इत्येव
इति भेदः । तुताव । वेदे तुजादि० अभ्यासदीर्घः । “स तूताब
नैनमश्नीत्यंहतिरग्ने!” ऋ० १ । ९४ । २ “ब्रह्मा तूतोदिन्द्रो
गातुमिष्मन्” ऋ० २ । २० । ५ । तु वृद्धावित्यस्य लङि बहुलं
छन्दसि विकरणस्य श्लुः । अडागमाभावश्च” भा० ।

तु अव्य० तुद--मितद्रु० डु । १ पादपूरणार्थे निरर्थके । “निर-

र्थकं तुहीत्यादि पूरणैकप्रयोजनम्” चन्द्रालोकः । २ भेदे
३ अवधारणे अमरः । ४ समुच्चये ५ पक्षान्तरे ६ नियोगे ७ प्रशं-
सायां८विनिग्रहे शब्दर० तत्र पक्षान्तरे “आचारेण तु संयुक्तः
संपूर्णफलभाक् भवेत्” मनुः । समुच्चये “उष्ट्रयानं समारुह्य
खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्रा-
णायामेन शुध्यति” मनुः । पूजायामेतद्योगे “तुपश्य
पश्यताहैः पूजायाम्” पा० तिङन्तं न निहन्यते” आदह
सुधाम तु पुनर्गर्भस्तु मेनिरे” सि० कौ० धृता श्रुतिः ।

तुकाक्षीरी स्त्री तुगाक्षीरी + पृषो० । वंशरोचनायाम् हेम० ।

तुक्ष त्रि० तुष--बा० कुस । तोषयुक्ते ततः पक्षा०

चतुरर्थ्यां फक् । तौक्षायण तत्सन्निकृष्टदेशादौ त्रि० ।

तुखा(षा)र पु० विन्ध्यपर्वतस्थे जातिभेदे । “ये चान्ये विन्ध्यनि-

लतास्तुखा(षा)रास्तुम्बरास्तथा । अधर्म्मरुचयस्तात! विद्धि
तान् वेणसम्भवान्” हरिवं० ५ अ० ।

तुगा स्त्री तुज--बा० घ किच्च । वंशरोचनायां राजनि० ।

तुगाक्षीरी स्त्री तुगैव क्षीरी । वंशरोचनायाम् राजनि० ।

तुग्र न० तुज--रक् न्यङ्क्वा० जस्य गः । अश्विनीकु-

मारयोः शिष्ये राजर्षिभेदे । “तुग्रोह भुज्युमश्विनोद-
मेघे रयिं न कश्चिन् समृँवा अवाहाः” ऋ० १ । ११६ । २ ।
अत्रेयमाख्यायिद्धा । “तुग्रो नामाश्विनोः प्रियः कश्चि-
द्राजर्षिः । स च द्वोपान्तरवर्त्तिभिः शत्रुभिरत्यन्तमुप-
द्रुतः सन् तेषां जयाय स्वषुत्रं भुज्युं सेमया सह
नावा प्राहैषीत् । सा च नौर्सध्येसंमुद्रमतिदूरं गता
वायुवशेन भिन्नासीत् । तदानीं स भुज्युः शीघ्रमश्विनौ-
तुष्टाव” भा० । “ता भुज्युं विभिरद्भ्यः समुद्रात् तुग्रस्य
सूनुमूहथूरजोभि” ऋ० ६ । ६२ । ६ । “ता तौ अश्विनौ युवां
तुग्रस्य सूनुं भुज्यं भुज्युनामकं समुद्रमध्ये भग्ननावम्” भा०
पृष्ठ ३३२१

तुग्र्य्या स्त्री तुज--रक् न्यङ्क्वा० कुः स्वार्थे यत् । १ जले

निघण्टुः । “आवः शमं वृषभं तुग्र्य्यासु” ऋ० १ । ३३ । १५ ।
“तुग्र्यासु जलेषु” भा० । निघण्टौ बुसं तुग्र्यमिति पाठा-
न्तरात् । जले न० । तदनुसारेण “पिब स्वधैनवानामुत
यस्तुग्र्ये सचा” ८ । ३२ । २० । बुसं तुग्र्यमित्युदक्रनामसु
पाठात्” भा० । वस्तुतस्तु निघण्टौ बुसं तुग्रं तुग्र्यावर्वर-
मित्येव पाठः मुद्रितपुस्तके तुग्रमिति पतितम् । तुग्रस्य
राजर्षेरपत्यं बा० यत् । तुग्रपुत्रे भुज्यौ पु० । “अस्तं
वयो न तुग्र्यम्” ऋ० ८ । ३ । २३ “तुग्र्यं तुग्रपुत्रम्” भा० ।

तुग्वन् त्रि० तुज--बा० क्वनिप् न्यङ्क्वा० जस्य गः । १ हिंसके ।

“सुवास्त्वा अधि तुग्वनि” ऋ० ८ । १९ । ३७ ।

तुङ्ग पु० तुजि--हिंसायां घञ् न्यङ्क्वा० कुः । १ पुन्नागवृक्षे २ पर्वते

३ बुधग्रहे हेमच० । ४ नारिकेले ५ गण्डके राजनि० । ६ उच्चे
त्रि० । ७ ग्रहविशेषस्य राशिभेदे पु० । उच्चशब्दे १५८ पृ०
दृश्यम् “अजवृषभमृगाङ्गनाकुलीरा झषबणिजौ च
दिवाकरादितुङ्गाः । दशशिखिमनुयुक्तिथीन्द्रयांशैस्त्रि-
नवकविंशतिभिश्च तेऽस्तनीचाः”! “सूर्य्याद्युच्चान्
क्रियवृषमृगस्त्रीकुलीरान्त्ययूके दिग्वह्नीन्द्रद्वयतिथिशरान्
सप्तबिंशांश्च विंशान् । अंशानेतान् वदति यवनश्चान्त्य
तुङ्गांस्तुतुङ्गांस्तानेवांशान् मदनभवनेष्वाह नीचान्-
सुनीचानिति” ।
तुङ्गस्थग्र हभेदफलम् “तुङ्गेऽर्कः शुभसंयुतः शुभकरै
र्मित्रैश्च दृष्टो यदा दैवात् पश्यति सोऽपि वा शुभकरा-
नेकं द्विकं वा त्रिकम् । वित्तेशः प्रथितो बिमर्द्दितरिपुः
क्षौणीशमान्योऽथवा क्ष्मापालार्च्चितपादपद्मयुगलो राजा
त्रिकोणे यदा” । र० । “तुङ्गे चन्द्रमसि प्रसन्नवपुषि
ब्रध्नादनष्टद्युतौ प्रख्यातोऽरिव्रिमर्दकोऽगदतनू राजेश्वरो
रूपवान् । क्ष्मापालार्च्चितपादपद्मयुगलो व्रा धर्म्म-
शीलो महान् सौम्यैरेव युतोऽथ वा प्रियतमैर्दृष्टे त्रि-
कोणेऽपि च” । च० । “यदि भवति मृगस्थो भूमिपुत्रस्तदा
वै न दिनकरमयूखाद्भ्रष्टरश्मिर्नरेन्द्रः । अगदतनुरभीतः
शत्रुदर्पापहारी प्रणतरिपुनरेन्द्रः स्यात्त्रिकोणेऽपि जातः” ।
म० । “कन्थास्थः शशलाञ्छनस्य तनयस्तिथ्यंशकैः संयुती
दृष्टो वा यदि संयुतः शुभकरैर्ज्जातस्तदा भूपतिः ।
यात्रायां तुरगोष्ट्रमत्तकरिणां यानैर्मही कम्पते स
क्ष्माभृद्वरणीरुहाविगलिता यान्ति त्रिकोणेऽपि च” । बु० ।
“तुङ्गे गुरौ मित्रखगेन दृष्टो राजा भवेदिन्द्रसमान-
मूर्त्तिः । गजाश्वनौकार्णवपूर्णलक्ष्मीः पृथ्वीपतिः स्वस्य
त्रिकोणगोऽपि” । वृ । “तुङ्गे भृगौ शुभसुहृत्प्रयुते च
दृष्टे दैवात् पुनः स यदि पश्यति मित्रसंघान् । भूपा-
धिपो भवति कीर्त्तिकरः प्रधानो दौर्घारुग्रसुखभुग्-
भृगुजे त्रिकोणे” । शु । “तुङ्गे शनौ मित्रखगेन दृष्टे
प्रचण्डदण्डो नृपतिप्रधानः । न दृश्यते दिग्गमने च
गुर्वी त्रिकोणगे चापि नरेन्द्रमूर्त्तिः” । श । “भवति
धरणीपालो नीचबुद्धिः प्रतापी हयगजधनपूर्णो जाति-
वर्गे विरक्तः । कुटिलमतिरनीतो भूरिभाण्डारयुक्त-
स्तमसि भिथुनसंस्थे जायते मानवेन्द्रः” । रा । “मृग-
पतिवृषकन्याकर्कटस्थे च राहौ भवति विपुललक्ष्मी
राजराजाधिपो वा । हयगजनरनौकामण्डितः
सार्वभौमोनृपतिरमरपूज्यो राहुतुङ्गी चिरायुः” ।
रा । “अरिंनिधनव्ययतुङ्गे कीर्त्तितमेतत्फलं व्यर्थं
केन्द्रे त्रिकोणे लाभे वा तुङ्गफलं यथोद्दिष्टम्” इति
कोष्ठीप्र० । ९ किञ्जल्के न० शब्दार्थचि० । १० उग्रे ११ प्रधाने
१२ उन्नते त्रि० शब्दर० । “तुङ्गत्वमितरा नाद्रौ नेदं
सिन्घावगाधता” माघः । १६ शिवे पु० तुङ्गवीजशब्दे दृश्यम् ।

तुङ्गक पु० तुङ्ग + स्वार्थे क संज्ञायां कन् वा । १ पुन्नाग-

वृक्षे शब्दरत्ना० २ तुङ्गजशब्दार्थे ३ अरण्यरूपे तीर्थभेदे न० ।
“तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः । वेदानध्या-
पयत्तत्र ऋषिः सारस्वतः पुरा । तत्र वेदेषु नष्टेषु मुनेर-
ङ्गिरसः सुतः । ऋषीणामुत्तरीयेषु सूपविष्टो यथासु-
खम् । ओङ्कारेण यथान्यायं सम्यगुच्चारितेन ह ।
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम् । ऋषयस्तत्र
देवाश्च वरुणोऽग्निः प्रजापतिः । हरिर्नारायणस्तत्र
महादेवस्तथैव च । पितामहश्च भगवान् देवैः सह
महाद्युतिः । भृगुं नियोजयामास याजनार्थं
महाद्युतिम् । ततः स चक्रे भगवान् ऋषीणां विधिवत्तदा ।
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा । आज्यभागेन
तत्राग्निं तर्पयित्वा यथाविधि । देवाः स्वभवनं याता
ऋषयश्च यथागतम् । तदरण्यं प्रविष्टस्य तुङ्गकं
राजसत्तम! । पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्थ वा”
भा० व० ८५ अ० । तत्कथा दृश्या

तुङ्गकूट पु० तुङ्गं कूटमस्य । उच्चशृङ्गे पर्वतभेदे ।

तुङ्गनाभ पु० तुङ्गो नाभिरस्य । कीटभेदे । तुङ्गीनासशब्दे

दृश्यम् ।

तुङ्गभ न० कर्म्म० । सूर्य्यादीनामुच्चराशौ मेषादौ

तुङ्गशब्दे दृश्यम् । तुङ्गराश्यादयोऽप्यत्र ।
पृष्ठ ३३२२

तुङ्गभद्र पु० तुङ्गोऽपि भद्रः । १ मदोत्कटकरिणि दक्षिणस्थे

२नदीभेदे स्त्री मेदि० । “शर्करावर्त्ता तुङ्गभद्राकृष्णवेणे-
त्यादि” भाग० ५ । १९ । १८ श्लो० भारतस्थनदीकथने ।
“तुङ्गभद्राजलं स्वादु स्निग्धं प्रोक्तं तथा गुरु! ।
कण्डूपित्तास्रदं प्रायः सात्म्यं मेधाकरं मतम्” राजनि०
तज्जलगुणा उक्ताः ।

तुङ्गवीज न० तुङ्गस्य शिवस्य वीजम् । १ पारदे । “तुङ्गवीज-

समायुक्तं गोलयन्त्रं प्रसाधयेत्” सू० सि० “तुङ्गो महादेव-
स्तस्य वीजं वीर्य्यं पारद इत्यर्थः” रङ्गना० ।

तुङ्गवेणा स्त्री नदीभेदे “तुङ्गवेणा कृष्णवेणा कपिला शोण

एव च” भा० व० २२१ अ० । “विनदीं पिङ्गलां वेणां
तुङ्गवेणां महानदीम्” भा० भी० ९ अ० ।

तुङ्गरस पु० तुङ्गः श्रेष्ठो रसोऽस्य । गन्धद्रव्यभेदे “काला-

गुरुविमिश्रेण तथा तुङ्गरसेन च” भा० आ० १२७ अ० ।

तुङ्गशेखर पु० तुङ्गमुच्चशेखरमस्य । १ पर्वते शब्दमा० । २ उच्चशेख-

रयुक्ते त्रि० । कर्म्म० । ३ उच्चे शेखरे न० ।

तुङ्गा स्त्री तुङ्ग + टाप् । १ वंशलोचनायां २ शम्याञ्च राजनि० ।

तुङ्गिन् त्रि० तुङ्गं मेषादिकं स्थानमाश्रयत्वेनास्त्यस्य इनि ।

उच्चस्थिते ग्रहे ३ महाशतावर्य्यां स्त्री ङीप् राजनि० ।
४ प्रधानस्थानस्थे त्रि० ।

तुङ्गी स्त्री तुङ्ग + गौरा० ङीष् । १ हरिद्रायां २ वर्वरायां मेदि० । ३ रात्रौ शब्दार्थचि० ।

तुङ्गीनास पु० तुङ्गी हरिद्रेव पीता नासाऽस्य । १ कीटभेदे ।

“तुङ्गीनासो विपिलकस्तालको बाहकस्तथा । कोष्ठा-
गारी क्रिमिंकरो यश्च मण्डलपुच्छकः । तुङ्गनाभः सर्ष-
पिकोऽवल्गुली शम्बुकस्तथा । अग्निकीटश्च घोराः स्यु-
र्द्वादश प्राणनाशनाः” सुश्रु० ।

तुङ्गीपति पु० तुङ्ग्याः रात्रेः पतिः । निशापतौ चन्द्रे त्रिका०

तुङ्गीश पु० कर्म्म० । १ शिवे २ कृष्णे ३ सूर्य्ये च शब्दर०

तेषां प्रधानस्थानस्थित्या तथात्वम् । ६ त० । रात्रीशे ४ चन्द्रे ।

तुच् पु० त्वच--क्विप् बा० संप्रसा० तुज--क्विप् वा पृषो० जस्य

चः । १ अपत्ये निघण्टु । “तुचे तनाय तत्सु” ऋ० ८ ।
१८ । १८ । “तुचे पुत्राय” भा० । “तुचे तु नो भवन्तु”
८ । २७ । १४ । “तोजयति पितुर्दुखादिकमिति तुच पुत्रः
तस्मै” भा० । पृषो० जस्य चः इति भेदः । हेमचन्द्रे तु
जान्ततयाऽयं पठितः वेदे तु सर्वत्र चान्तत्वेनैव प्रयोगः ।

तुच्छ न० तुद--सम्प० क्विप् तुदा व्यथया छति छो--क ।

१ पुलाके (तुष) २ हीने, उणा० । ३ शून्ये अमरः ४ अल्पे
हेमच० । ५ शून्ये च त्रि० । “किमेतैरात्मनस्तुच्छैः सह देहेन
नश्वरैः । अनर्थैरर्थसङ्काशैर्नित्यानन्दघरोदधेः” भाग० ७ । ७ ।
३८ । ८५ नीलीवृक्षे ६ तुत्थायाञ्च भावप्र० । ७ मन्दे अलीके च त्रि०

तुच्छद्रु पु० कर्म्म० । एरण्डवृक्षे शब्दच० ।

तुच्छधान्यक न० कर्म्म० । (भुसी) पुलाकु अमरः ।

तुच्छ्य न० तुच्छ--वेदे स्वार्थे इवार्थे वा यत् । १ तुच्छशब्दार्थे २ तुच्छ-

कल्पे च “तम आसीत्तमसागूढ़मग्रेऽप्रकेतं सलिलं सर्वमा
इदम् । तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिना
जायतैकम्” ऋ० १० । १२९ । ३ अयमर्थः । ननूक्तप्रकारेण
यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म?
जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात्
कारकं च कारणावान्तरविशेष इति कारकस्य सतो
नियतपूर्वक्षणवर्तित्वस्यावश्यम्भावात् । अथैतद्दोषपरि
जिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते
कथं तस्य जन्म? अत आह । तमसागूढ़मग्र अग्रे
सृष्टेः, प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत्तमसा-
गूढ़म् । यथा नैशं तमः सर्वपदार्थजातमावृणोति
तद्वत् आत्मतत्त्वस्यावरकत्वान् मायापरसं ज्ञं भावरूपा-
ज्ञानमत्र तम इत्युच्यते । तेन तमसा निगूढ़ं संवृतं
कारणभूतेन तेनाच्छादितं भवति । छादकात्तस्मात्तमसो
नामरूपाभ्यां यदाऽविर्भवनं तदेव तस्य जन्मेत्युच्यते ।
एतेन कारणावस्थायामसदेव कार्य्यमुत्पद्यत इत्यसद्वादि-
नोऽसत्कार्य्य वादिनो ये मन्यन्ते ते प्रत्याख्याताः ।
ननुकारणे तमसि तज्जगदात्मकं कार्य्यं विद्यते चेत् कथं
नासीद्रज इत्यादि निषेधः । तत्राह तभ आसीदिति ।
तमोभावरूपाज्ञानं मूलकारणं तद्रूपता तदात्मनाम् ।
यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत
इत्यर्थः । नन्वावरकत्वादावरकं तमः कर्त्तृ आवार्य्यत्वा-
ज्जगत् कर्म्म । कथं तयोः कर्म्मकर्त्त्रोस्तादात्म्यम् ।
तत्राह अप्रकेतमिति । अप्रकेतमप्रज्ञायमानम् ।
अयमर्थः । यद्यपि जगतस्तमसश्च कर्म्मकर्त्तृभावोयौक्तिको न
विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां
नामरूपाभ्यां विस्पष्ट न ज्ञायत इति तादात्म्यवर्णनम् ।
अतएव मनुना स्मर्यते “आसीदिदं तमोभूतमप्रज्ञातम-
लक्षणम् । अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः” इति ।
कुतो वा न प्रज्ञायते तत्राह सलिलम् । सल--गतौ ।
औणादिक इलच् । इदं दृश्यमानं सर्वं जगत् सलिलं
कारणेन संगतमविभागापन्नम् आसीत् । अस्तेर्लङि
तिपि बहुलं छन्दसीतीड़भावे हल्ङ्याब्भ्य इति
पृष्ठ ३३२३
तिलोपे तिप्यनस्तेः पा० इति पर्य्युदासाद्दकाराभावः ।
यद्वा सलिलमिति लुप्तोपमम् । सलिलमिव! यथा क्षी-
रेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभा-
गापन्नंजगन्न शक्यं विज्ञातुमित्यर्थः । ननु विविधविचित्र०
रूपभूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण
नीरस्येवाभिभवः । तथा तमोऽपि क्षीरवद्वलवदित्ये-
वोच्यते । तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवस-
म्भव इत्यत आह तुच्छ्येनेति । आसमन्ताद्भवतीत्याभु
तुच्छ्येन । छन्दसो यकारोपजनः । तुच्छ्येन तुच्छ-
कल्पेन सदसद्विलक्षणेन भावरूपाज्ञानेनापिहितं छादि-
तमासीत्” भाष्यम् ।

तुज दीप्तौ चुरा० उभ० अक० सेट् इदित् । तुञ्जयति--ते

अतुतुञ्जत् । तुञ्ज्यते ।

तुज प्रापणे हिंसायाञ्च भ्वा० पर० सक० बले अक० सेट्

इदित् । तुञ्जति अतुञ्जीत् । तुतुञ्ज तुतुञ्जतुः । “तुञ्जे
तुञ्जेय उत्तरे स्तोमाः” ऋ० १ । ७ । ७ । इमामृवमधिकृत्य
“तुञ्जतेर्दानकर्म्मणः तुञ्जे तुञ्जे दाने दाने” इति ६ । १७
निरुक्तोक्तेः । दाने च ।

तुज हिसायां भ्वा० पर० सक० सेट् । तोजति अतोजीत् ।

तुतोज । वेदे तुजादि० अभ्यासस्य दीर्घः । तूतुजानः ।
प्रेरणे च “आ वां तोके तनये तूतुजानाः” ऋ० ७ । ६७ ।
६ । “प्रावत्तोके तनये तूतुजाना” ७ । ८४ । ५ । “तूतु-
जानाःप्रेर्य्यमाणाः” भा० । “अस्मा इमु प्रभया तूतुजानः”
निरु० ६ । २० धृता ऋक् ।

तुञ्ज पु० तुजि--बले अच् । वज्रे निघण्टुः ।

तुट कलह तुद० कुटा० पर० अक० सेट् । तुटति अतुटीत्

तुतोट ।

तुटितुट पु० शिवे । “नमस्तुण्डाय तुट्याय नमस्तुटितुटाय च” हरिवं० २७७ अ० ।

तुटुम पुंस्त्री० तुट--वा० उम । उन्दुरौ त्रिका० ।

तुड भेदे तु० कुटा० पर० सक० सेट् । तुडति अतुडीत् तुतोड ।

तुड निष्पीड़ने भ्वा० आ० सक० सेट् इदित् । तुण्डते

अतुण्डिष्ट । तुतुण्डे । तुण्ड्यते ।

तुड द्विधाकरणे भ्वा० पर० सक० सेट् । तोडति अतोडीत्

ऋदित् । अतुतोडत्--त ।

तुडि स्त्री तुड--इन् किच्च । तोड़ने ।

तुड्ड अनादरे भ्वा० पर० सक० सेट् । तुड्डति अतुड्डीत् ।

अयं द्वोपध इत्यन्ये तन्मते क्विपि तुद्--डोपधत्वे तुड्
इति भेदः ।

तुण कुटिलीकरणे तु० पर० सक० सेट् । तुणति अतोणीत् ।

तुतोण ।

तु(तू)णि पु० तूण + सङ्कोचे इण् बा० पृषो० । १ कुणिरोगे

अमरटीकायां र्क्षीरस्वामी २ नन्दिवृक्षे राजनि० । “तूणी-
रूक्षः कटुः पाके कषायो मधुरो लघुः । तिक्तो ग्राही
हिमो वृष्यो व्रणकुष्ठास्रपित्तहृत्” भावप्र० ।

तुणिक पु० तुणि--स्वार्थे क । नन्दिवृक्षे राजनि० ।

तुण्ड न० तुडि--तोड़ने अच् । १ मुखे अमरः । “अयस्तुण्डै-

रुलुखलैः” हरिवं० २४५ अ० । “स तेन पतगेन्द्रेण
पक्षतुण्डमुखक्षतः” भा० आ० ३२ अ० । “दीर्घनख्या
दीर्घदन्त्यो दीर्घतुण्डाश्च भारत!” भा० श० ४७ ।
२ शिव पु० तुटितुटशब्दे दृश्यम् । ३ राक्षसभेदे । “तुण्डेन
च नलस्तत्र पटुघ्नः पनसेन च” भा० व० २८४ अ० ।

तुण्ड(ण्डि)केरी स्त्री प्रशस्तं तुण्डं(ण्डिः) कन् तद्--ईर-

यति ईर्त्ते वा ईर--अण् १ कार्पास्याम् तस्याः फलमुख-
विदारे हि विस्तीर्णसूत्रहेतुकार्पासोत्पत्तिः । २ विम्बिका-
याम् (तेलाकुचा) तस्याः फलेन हि मुखाङ्गोष्ठसादृश्यदा-
नात् तथात्वम् । स्वार्थे क ह्रस्वः । तुण्ड(ण्डि)केरि-
काष्यत्र अमरः । संज्ञाया कन् । विम्बिकायां राजनि० ।

तुण्डदेव पु० तुण्डरूपो देवः तुण्डेन दीव्यति दिव--अच्

वा । नृपभेदे तस्य विषयो देशः ऐषुका० भक्तल् । तुण्ड-
देवभक्त तदीये विषये देशे पु० ।

तुण्डि पु० तुण्ड--इन् । १ मुखे, २ चञ्चौ च । ३ विम्बिकायां,

४ वन्दायां, उणा० । ५ नाभौ स्त्री शब्दरत्ना० वा
ङीप् । स्वार्थे कन् उक्तार्थेषु । ६ तुन्दौ माधवः तुण्डिभ-
शब्दे दृश्यम् ।

तुण्डिका स्त्री तुण्डम् तदवयवाधरसादृश्यमस्त्यस्याः ठन् ।

१ विम्बिकायां तत्फलस्यास्यावयवाधरसादृश्यात्तथात्वम् ।
स्वार्थे क । नामौ शब्दरत्ना० ।

तुण्डि(ण्ड)केशी स्त्री तुण्डे (ण्डौ) मुखे कायति के--क

तुण्डि(ण्ड)कः ओष्ठः तत्र ईष्टे तत्तुल्यशोभाधारणात्
ईशअच् गौरा० ङीष् । विम्बिकायाम(तेलाकुचा) । शब्दच० ।

तुण्डिभ(ल) त्रि० तुण्डि + भ सिध्मा० लच् वा ।

१ तुन्दिले (भुँड़ि)युक्ते । अमरः । “तुन्दि(ण्डि) वलिव-
टेर्भः” पा० सू० । भूर्द्धन्योपधोऽयमिति माधवः । लान्तो
२ मुखरे उणादि० ।

तुण्डेल पु० गर्भोपद्रावके असुरभेदे । “उपेषन्तमुदुम्बलं तुण्डे-

लसुत शालुडम्” अथ० ८ । ६ । १७ ।
पृष्ठ ३३२४

तुतात पु० सीप्तांसकगेदे । तेन प्रोक्तं ठक् । तोतातिक

तत्प्रोक्तमीमांसादर्शने । तन्मतञ्च दिङमात्रम् अर्हच्छब्दे
३८२ पृ० दर्शितम् । “नैवाश्रावि गुरोर्मतं न विदितं
तौतातिकं दर्शनम्” सा० द० ।

तुतुर्वणि पु० तूर्णोवनिर्भजनमस्य वेदे पृषो० । १ तूर्णभजने ।

“यज्ञायज्ञावः समानां तुतुर्वैणिः” ऋ० १ । १६ । १ । “तुतुर्वणिः
त्वरमाणः संभजमानः” भा० ।

तुत्थ स्तुतौ अद० चु० उभ० सक० सेट् । तुत्थयर्ति ते अतुतुत्थत्--त ।

तुत्थ पु० तुद--थक् । १ ग्रावणि उणा० । २ अग्नौ संक्षिप्तसा० ।

(तुर्ते) ३ अञ्जनमेदे न० । ४ नील्याम्, ५ सूक्ष्मैलायाञ्च
स्त्री हेमच० । स्वार्थे क । तत्रार्थे । रसनाञ्जनस्य
गुणादिकं भावप्र० उक्तं यथा
“तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत् ।
किञ्चित्ताम्रगुणं तस्मात् वक्ष्यमाणगुणञ्च तत् । तुत्थकं
कटुकं क्षारं कषायं वामकं लघु । लेखनं भेदनं शीतं
चक्षुष्यं कफपित्तहृत् । विषाश्मकुष्ठकण्डूघ्नं स्वर्पर-
ञ्चापि तदुगुणम्” भावप० अस्य शोधनम् “विष्ठायां मर्दये-
त्तुत्थं मार्जारककपोतयोः । दशांशं टङ्कनं दत्त्वा पचेत्
लघुपटे ततः । पुट दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये”
भावप्र० “कासीसं रोचनां तुत्थ हरितालं मनः
शिलाम्” सुश्रुतः ।

तुत्थाञ्जन न० कर्म्म० । १ अञ्जनभेदे (तुंते) । तद्वर्णत्वात् २ मयूरकण्ठे च राजनि० ।

तुथ पु० तु--थक् तुद--बधे थक् पृषो० वा । १ हननकर्त्तरि

“तुथोऽसि जनधारयो नभोऽसि” ताण्ड्यब्रा० १ । ४ । ३ ।
“तुद्यतेर्बधकर्म्मणः तुथः रक्षःप्रभृतीनां हन्ता”
मा० । २ ब्रह्मणि । “तुथोऽसि विश्ववेदाः” यजु० ५ । ३१ ।
“हे ब्राह्मणाछसिन् त्व तुथो विश्ववेदाश्चासि । व्रह्म
वे तुथः “इति श्रुतेः । ब्रह्मरूपोऽसि । विश्वं वेत्ति विश्व-
वेदाः सर्वज्ञः । यद्वा तुथशब्देन देवान् प्रति दक्षिणानां
विभागकर्त्ता पुरुष उच्यते तदाह तित्तिरिः “तुथो ह
स्म वै विग्ववेदा देवानां दक्षिणा विभजतीति” । “ब्रह्मा
वै तुथः” शत० ज्ञा० ४ । ३ । ४ । १६ । श्रुतेः । ३ दक्षिणावि-
माजके ब्रह्मरूपे ३ ऋत्विग्भेदे ।
“तुथो वै विश्ववेदा विभजत्विति ब्रह्म वै तुथस्तदेना
ब्रह्मणा विभजति । ब्रह्मावै दक्षिणीयं चादक्षिणीयं च
वेद तुथो हास्यैता दक्षिणीयायैव दत्त्वा भजति
नादक्षिणीयाय” । “रूपेण वो रूपनामभ्यां तुथो वो
विश्ववेदा विभजतु” । यजु० ७ ४५ “किं च तुथो ब्रह्म-
रूपः प्रजापति र्वा युष्मान् विभजतु यथायोग्यमृत्विग्भ्यो
विभज्य ददातु “ब्रह्म वै तुथ इति श्रुतेः” वेददी० ।

तुद व्यथने तुदा० उभ० मक० अनिट् । तुदति ते अतौत्सीत् ।

अतुत्त तुतोद तुतुदे “तुतुदे गदयाचचारीन्” । “अतौत्-
सीत् गदयाङ्गदम्” भट्टिः । “इषुभिरिव मानसं कामिनां
तुदति कुसुमचापः” ऋतु० । “यथा तदति मर्म्भाणि”
भा० स० २५३० ।

तुदादि पु० शप्रत्ययनिमित्ते घातुसमुदाये स च गणः कविकल्पे

शानुबन्धेन पटितः । “तुदादिभ्यः शः” पा० ।
  • आ + सम्यग्व्यषने । “प्रतोदेनातुदन् भृगम्” मनुः । “धनुः
कीट्यातुद्य कर्णेन वीरम्” भा० आ० १ अ० ।
  • निस् + निष्पीड़ने । “सूचिभिरिव निस्तुद्यते दश्यत इव
पिपीलिकाभिः” ।

तुद त्रि० तुद--क । व्यथके । तस्यापत्यं शुभ्रा० ढक् । तौदेय तदपत्ये पुंस्त्री० ।

तुन्द न० तृणु अर्दने अट्दा० नि० । उदरे अमरः ।

तुन्दकूपी स्त्री ह्रस्वः कूपः कूपी तुन्दस्य कूपीव । १ नाभौ

त्रिका० । स्वार्थे क । २ तुन्दकूपिकाप्यत्र हेमच० ।

तुन्दपरिमृज पु० तुन्दं परिमार्ष्टि परि + मृज--क ६ त० ।

१ अलसे २ मन्दे । अण् । तुन्दपरिमार्जोऽप्यत्र रमानाथः ।

तुन्दमृज त्रि० तुन्दमुदरं मार्ष्टि मृज--क । १ अलंमे २ मन्दे

च हेमच० ।

तुन्दादि पु० “तुन्दादिभ्य इलच्च” पा० अस्त्यर्थे इलचप्रत्यय-

निमित्ते शब्दमणे स च गणः । पा० ग० सू० उक्तो यथा
“तुन्द उदर पिचण्ड यवब्रीहि (स्वाङ्गाद्विद्वृद्धौ) विवृद्धौ
कर्णौ यस्य स्तः कर्णिलः” । चादिनिठनौ मतुप् च ।
“तुन्दिलः तुन्दी तुन्दिकः तुन्दयान्” सि० कौ० ।

तुन्दिक(ल)(भ) त्रि० तुन्दं विद्यतेऽस्व ठन् । तुन्दि + भ

तुन्द + इलच् वा । तुन्दियुक्ते (भुँडि) युक्ते ।

तुन्दिकर पु० तुन्दिं करोति कृ--अच् । (भुँड़ि) युक्ते तुन्दिले

त्रिका० ।

तुन्दिन् त्रि० तुन्दीऽस्त्यस्य इनि । तुन्दयुक्ते (मुँड़ि) युक्ते स्त्रियां ङीप् ।

तुन्दिलफला स्त्री तुन्दिलं वृहत्फलमस्याः । त्रपुष्याम्

(शशा) राजनि० ।

तुन्न पु० तुद--क्त । १ नन्दिवृक्षे (तुंद) अमरः । २ व्यथिते

३ छिन्ने च त्रि० । स्वार्थे क । अत्रैवार्थे ।

तुन्नवांय पु० तुन्नं छिन्नं वयति वे--अण् । १ सौचिके

२ सूच्याजीविनि (दरजी) अमरः । “शैलूषतुन्नवायान्न
कृतघ्नस्यान्नमेव च” मनुना तदन्नभक्षणं निषिद्धम् ।
पृष्ठ ३३२५

तुन्नसेवनी स्त्री तुन्नं छिन्नं सीव्यतेऽनया सिव--करणे ल्युट्

ङीप् । सूचीभेदे “प्रवेश्य तुन्नसेवन्या मुञ्कौ सीव्येत् ततः
परम्” सुश्रुतः ।

तुन्प बवे भ्वा० सक० पर० सेट् । तम्पति अतुम्पीत् । तुतुम्प तुतुम्पतुः तुतुम्पिथ ।

तुन्प बधे सक० क्लेशे अक० तु० पर० सेट् । तुपति--तुम्पति

अत्(पी)म्पीत् । त्तु(प)म्प तुतु(प)म्पतुः त्तुपिथ तुत्म्पिथ

तुन्फ बधे भ्वा० पर० सक० सेट् । तुम्फति अतम्फीत् ।

तुतुम्फ तुतुफ(म्फ)तुः । तुतुम्फिथ ।

तुन्फ बधे सक० क्लेशे अक० तुदा० पर० सेट् । तुफति

तुम्फति अतु(तु)म्फोत् । तुतु(तु)म्फ तुतुफ(म्फ)तुः तुतुफिथ
तुत्म्पिथ ।

तुप बधे भ्वा० पर० सक० सेट् । तोपति अतोपीत् । तुतोप ।

तुप बधे सक० क्लेशे अक० तुदा० मुचादि० पर० सेट् । तुम्पति

अतोपीत् । तुतोप । पारस्क० मुट् । प्रस्तुम्पति ।

तुप अर्द्दने चुरा० उभ० सक० सेट् इदित् । तुम्पयति ते

अतुतुम्पत्--त् । तुम्य्यते ।

तुफ बधे सक० क्लेशे अक० तु० मुचा० पर० सेट् । तुम्फति अतोफीत् । तुतोफ ।

तुफ बधे भ्वा० पर० सक० सेट् । तोफति अतोफीत् । तुतोफ ।

तुब अर्द्दने वा चुरा० उभ० सक० पक्षे भ्वा० पर०

सेट् इदित् । तुम्बयति--ते तुम्बति अतुतुम्बत्--त
अतुम्बीत् ।

तुभ हिंसे भ्वा० आत्म० ऌङि उभ० सक० सेट् । तोभते । ऌदित् । अतुभत् अतोमिष्ट । तुतुभे ।

तुभ हिंसायां दिवा० क्य्रा० च पर० सक० सेट् । तुभ्यति

तुभ्राति अतोभीत् । तुतोभ “संक्रुद्धो मुष्टिनातुभ्नाद-
ङ्गदोऽनु महोदरम्” “अश्वान् विभीषणोऽतुम्नात्” भट्टिः ।

तुम प्रेरणे आहनने च तुम्रशब्दे माधवः । सक० भ्वा०

पर० सेट् । तोमति अतोमीत् तुतोम तुम्रः । तोमरः ।

तुमुर न० तुमुल + लस्य रः । तुमुले अमरटीका ।

तुमुल पुंन० सौ० तु--मुलन् । १ परम्परसंघातेन सङ्कुले युद्धे

२ कलिवृक्षे मेदि० ३ व्याकलयुद्धे न० त्रिका० ।
“बभूब युद्धं तुमुलं जयैषिणोः” रघुः ४ सङ्कुलमात्रे त्रि० ।
“उभयोरपि पार्श्ववर्त्तिनां तुमुलेनार्त्तरवेण वेजिताः” रघुः

तुम्ब पुंस्त्री० तुम्बति रुचिं तुवि--अर्द्दने अच् । १ अलाव्वाम्

भरतः । २ वृहत्फलायाम्, राजनि० । ३ आमलक्यां,
४ गबि च स्त्री । रार्थे क तत्रार्थे शब्दरत्ना० । स्त्रीगव्यां
अलाव्वां स्त्री त्रिका० । टाप् ।

तुम्बर न० तुम्बं तदाकारं राति--रा आदाने क । (तानपूरा)

१ वाद्यभेदे तुम्बरचक्रम् । २ तुम्बरुगन्धर्वे च ।

तुम्बरचक्र न० नरपतिजयचर्य्योक्ते चक्रभेदे चक्रशब्दे २८२४

पृ० दृश्यम् ।

तुम्बरु पु० गन्धर्वमेदे । “सुप्रिया चातिबाहुश्च विख्यातौ च

हाहाहूहूः । तुम्बरुश्चेति चत्वारः स्मृता गन्धर्वस-
त्तमाः” भा० आ० ६५ अ० ।

तुम्ब(ष)वन न० देशभेदे स च देशः वृ० सं० दक्षिणस्यामुक्तः

“अथ दक्षिणेन लङ्केत्युपक्रमे “तुम्ब(ष)वनकार्मणेयक
याम्योदधितापसाश्रमा ऋषिकाः” १४ अ० ।

तुम्बि(म्बी) स्त्री तुबि--इन् । १ अलाब्वां (लाउ) शब्दरत्ना०

वा ङीप् तत्रार्थे अमरः । “तुम्बी गोमांसतुल्या स्यात्”
ति० त० नवम्यां तद्भक्षणनिषेधः । स्वार्थे क । तुम्बिका
तत्रार्थे कटुतुम्ब्याञ्च राजनि० ।

तुम्बिनी तुबि--णिनि ङीप् । कटुतुम्ब्यां राजनि० ।

तुम्बिपुष्प न० तुम्बेरिव पुष्पमस्याः । लताम्बुजे हारा०

६ त० । अलाबूपुष्पे च ।

तुम्बुक न० तुबि उक । अलावूफले हड्डचन्द्रः ।

तुम्बुर पु० विन्ध्यपर्वतस्थे जातिभेदे । “ये चान्ये विन्ध्यनिल-

यास्तु(षा)खारास्तुम्बुरास्तथा” हरिवं०५ अ० ।

तुम्बुरी स्त्री तुबि + बा० उर गौरा० ङीष् । १ शम्यां २ धन्याके च मेदि० ।

तुम्बुरु पु० १ गन्धर्वभेदे जटा० । २ अर्हदुपासकभेदे हेम० ।

“गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः” भा०
आ० १२३ अ० । ३ वृक्षभेदे । “तुम्बुरुः सौरभः सौरोवनजः
सानुजोऽन्धकः । तुम्बरु प्रथितं तिक्तं कटु पाकेऽपि तत्
कटु । रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लथु विदाहि च ।
वातश्लेष्माक्षिकर्णोष्ठशिरोरुक्गुरुताकृप्तिन् । कुष्ठशूला
रुचिश्वासप्लीहकृच्छ्राणि नाशयेत्” भावप्र० ।

तुम्र त्रि० तुम--प्रेरणे आहनने च रक् । १ प्रेरके २ हिंसके च

“सत्राहणं दाधृषिं तुम्रमिन्द्रम्” ऋ० ४ । १७ । ८ । “तुम्रं
प्रेरकम्” भा० “आगत्या तुम्रो वृषभो मरुत्वान्” ऋ०
३ । ५० । १ । तुम्रः आहन्ता तुमिराहननार्थः” भा० ।

तुर त्वरणे जुहो० पर० अक० सेट् । तुतोर्त्ति अतोरीत् ।

तुतोर । वैदिकोऽयम् धातुः । “अपामिवेदूर्मयस्तर्तुराणाः”
ऋ० ९ । ९५ । ३ । ताच्छील्ये चानश् । अभ्यासस्यातोऽत्त्वं च
“सहिष्ठे तुरतस्तुरस्य” ऋ० ६ । १८ । ४ । “अर्को वा यत्तुरते”
तैस० २ । २ । १२ । ४ । वेदे गणव्यत्ययः पदव्यत्ययश्च । अस्यादन्त
चुरादित्वमपि । तुरयति । “तुरयन्न जिष्यः” ऋ० ४३८ । ७

तुर त्रि० तुर--क । वेगवति । “प्र तव्यसो नम उक्तिं तुरस्या-

हम्” ऋ० ५ । ४३ । ९ “नहि त्वा शूरो न तुरो न घृ-
ष्णुर्न” ऋ० ६ । २५ । ५ । घञर्थे भावे क वा । २ वेगे तुरगः ।
पृष्ठ ३३२६

तुरग पुंस्त्री तुरेण वेगेन गच्छति गम--ड । घोटके अमरः

स्त्रियां जातित्वात् ङीष् । “तुरगशताकुलस्य परमेकतुर-
ङ्गजन्मनः” । “उल्लङ्घ्य गन्तुं तुरगास्तदोषुः” माघः
२ चित्ते मेदिनिः । मुग्धबोधे तुरां वेगं गच्छतीति वाक्यम् ।

तुरगगन्धा स्त्री तुरगस्येव गन्धोऽस्याः । अश्वगन्धायां राजनि०

६ त० । अश्वस्यगन्धे पु० । तुरङ्गगन्धादयोऽप्यत्र रत्नमा० ।

तुरगदानव पु० तुरगाकारो दानवः शा० त० । केशिदानवे ।

“यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः” “कृतं
तुरगदैत्येन सर्वान् गोपान् जिघांसता” हरिवं० ८१ अ० ।

तुरगब्रह्मचर्य्य न० तुरस्येव ब्रह्मचर्य्यम् । स्त्रिया अलाभे

तत्त्यागरूपे व्रतभेदे त्रिका० ।

तुरगलीलक पु० “द्रुतं द्वन्द्वं विरामान्तं लघुस्तुरगलीलके” संगोतदा० उक्ते तालभेदे ।

तुरगातु त्रि० तुरेण गातुः गम--वेदे वा० डातु । १ त्वरया

गमनकारके । २ तूर्णगमने च “अनच्छये तुरगातु
जीवमेजद्ध्रुवम्” ऋ० १ । १६४ । ३० । “तुरगातु स्वव्यापाराय
गमनम्” भा० ।

तुरगानन पु० तुरगस्याननमिवाननमस्य । १ किन्नरभेदे तुरङ्ग-

वदने । देशभेदे स च देशः वृ० स० १४ अ० उत्तरस्या-
मुक्तः । “उत्तरतः कैलासः” इत्युपक्रमे “त्रिगर्त्ततुरगा-
ननाश्वमुखाः” ।

तुरगिन् त्रि० तुरगो वाहगत्वेनास्त्यस्य इनि । अश्वारो-

हिणिहे मच० । तुरङ्गिन् प्रभृतयोऽप्यत्र “तुरङ्गिभिर्य-
त्ननिरुद्धवेगाः” माघः ।

तुरगी स्त्री तुरगस्तद्गन्धोऽस्त्यस्या अच् गौरा० ङीष् । १ अश्व-

गन्धायाम् मेदि० । तुरग + जातौ ङीष् । २ तुरगजाति-
स्त्रियाञ्च ।

तुरङ्ग पुंस्त्री० तुरेण गच्छति गम--ख मुम् वा डिच्च । १ घोटके

स्त्रियां जातित्वात् ङीष् । २ चित्ते न० शब्दरत्ना० ।
“नियोज्यतंहोमतुरङ्गरक्षणे” रघुः । तुरगशब्दे उदा० ।

तुरङ्गक पु० तुरङ्ग इव कायति कै--क । १ हस्तिघोषावृक्षे

रत्नमाला० । स्वार्थे क । २ घोटके ।

तुरङ्गद्विषणी स्त्री तुरङ्गोद्विष्यतेऽनया बा० क्यु--ङीप् । महिष्यां राजनि० ।

तुरङ्गप्रिय पु० ६ त० । यवे राजनि० ।

तुरङ्गम पुंस्त्री० तरं गच्छति गम--खच् मुम् । १ घोटके अमरः

स्त्रियां जातित्वात ङीष् । “अवेहि मां प्रीतमृते
तुरङ्गमात” रघुः । “रसातलं संक्रमिते तुरङ्गमे” रघुः ।

तुरङ्गवक्त्र पु० तुरङ्गस्येव वक्वमम्य । अश्वाकारमुखे किन्नरे

जटाधरः तुरङ्गवदनादयोऽप्यत्र अमरहेमचन्द्रौ ।

तुरङ्गारि पु० ६ त० सेवनेऽश्वनाशके १ करवीरे वृक्षे० जात्या

तद्द्वेषिणि २ महिषे च रत्नमा० ।

तुरङ्गिका स्त्री तुरङ्गः तदाकारोऽस्त्यस्याः ठन् । देवदालीलतायाम् राजनि० ।

तुरङ्गी स्त्री तुरङ्गस्तद्गन्धोऽस्त्यस्याः अच् गौरा० ङीष् । १ अश्व-

गन्धायां रत्नमा० तुरङ्ग + जातौ ङीष् । २ घोटकजाति-
स्त्रियाञ्च ।

तुरण त्वरायां कण्ड्वा० पर० अक० सेट् । तुरण्यति अतुरणी(ण्यी)त् ।

तुरण न० जु० तुर--बा० भावे क्यु । क्षिप्रगमने “सुरेतस्तुरणे

तुरण्युः” ऋ० १ । १२१ । ५ । “तुरणे क्षिप्रगमने” भा० ।

तुरण्य पु० तुरण्य--कण्ड्वा० भावे घञ् । त्वरायाम् । “उषस-

स्तुरण्यसत्” ऋ० ४ । ४० । २ । “तुरण्यसद्त्वरया
सीदतीति” भा०

तुरण्यु त्रि० कण्ड्वा० तुरण्य--उन् । त्वरायुक्ते । “तुभ्यं शुक्रास

सुरयस्तुरण्यवः” ऋ० १ । १३४ । ५ । “तुरण्यवः त्वरायुक्ताः” भा०

तुरम् अव्य० अद० चु० तुर--वा० असु । त्वरायाम् । “तुरं

यतीषु तुरयन्नृजिप्यः” ऋ० ४ । ३८ । ७ ।

तुरस् न० अद० चुरा० तुर--अमुन् । त्वरायाम् । “आयस-

स्तुरस्पेये” १० । ९६ । ८ ।

तुरायण न० तुर--क तस्यायनं “पूर्वपदात् संज्ञायाम्” पा०

णत्वम् । १ यज्ञभेदे सि० कौ० । २ असङ्गे अमरः त्वरितस्य
हि गमनमसङ्गवद्भवतीति तस्य तथात्वम् । २ सत्रभेदे
“तुरायणं वैशाखशुक्लपञ्चम्याम्” “चैत्रस्य वा” कात्या०
२४ । ८ । १ । २ । “तुरायणं सत्रनाम” कर्कः तद्विधानं
तत्रैव उत्तरतो दृश्यम् । अत ऊर्द्धमिष्ट्ययनानि”
आ० श्रौ० २ । १४ । १ । उपक्रमे । “सांवत्सरिकाणि”
२ स० । “इष्ट्ययनानि संवत्सरेण संवत्सरैर्वा साध्यानि”
नारा० । तुरायणम् ४ सू० तद्विहितं इष्टिभिरयनं
“तुरायणं हि व्रतमप्यधृष्यमक्रुधनोऽकरवं त्रिंश-
तोऽव्दान्” भा० आनु० १०३ अ० । तुरायणं यज्ञभेदमाव-
र्त्तयति ठञ् । तौरायणिक तद्यज्ञकारके ।

तुरासाह् पु० तुरं त्वरितं साहयति अभिभवति चु० साहेः

क्विप् पूर्वपददीर्घः । १ इन्द्रे अमरः अस्य हलादौ मुपि
हस्य ढत्वे षत्वम् । तुराषाट्--अजादौ तु न षत्वं
तुरासाहमित्यादि “तुरासाहं पुरोधाय धाम स्वायम्भुवं
ययुः” कुमा० । “कालेनारिबधात् प्रीतः तुराषाडिव
शार्ङ्गिणम्” रघुः “तुराषाट् विश्वमूत्ते सुराग्रज!” हरिवं०
२५९ अ० । इन्द्रस्तुतौ ।
पृष्ठ ३३२७

तुरि(री) स्त्री तुर--इन् “इगूधात् कित्” उणा० किच्च वा

ङीप् । तन्त्रवायस्य काष्ठादिनिर्मिते वयनसाधने (माकु)
द्रव्ये “तद्भटचातुरीतुरीति” नैष० तुरीतन्तुसंयोगः
जगदीशः २ त्वरायुक्तमात्रे । “रुचा नृपतीवतुर्य्ये” ऋ० १० । १०६ ।
“तुर्य्ये त्वरमाणायै संभ्रमवत्यै जनतायै” भा० ।

तुरीप त्रि० तूर्णमाप्तोति व्याप्तोति तूर्ण + आप--क पृषो० । तूर्ण

व्यापके । “तुष्टातुष्टा तुरीपोऽद्भुत इन्द्राग्नी पुष्टिवर्द्धनी”
यजु० २१ । २० । तुरीपः तूर्णमाप्नोति तुरीपः” वेददी० ।
“तन्नस्तुरीपमद्भुतम्” १ । १४२ । १ “तुरीपं तूर्णं व्यापि”
भा० मुद्रितपुस्तके तुरीयमिति पाठः मुद्रादोषात् भाष्य-
व्याख्यादर्शनात् तुरीपपाठस्यैवोचितत्वात् ।

तुरीय गतौ भ्वा० सक० सेट् गतिकर्म्मसु निघण्ठुः । तुरीयति अतुरीयीत् ।

तुरीय त्रि० तुरीय--अच् चतुर्णां पूरणः चतुर + छ आद्य-

लोपश्च । १ गतियुक्ते २ चतुर्णां पूरणे च । ३ तारके ।
“तनस्तुरीयमध पोषयित्नुः” ऋ० ३ । ४ । ८ । “तुरीयं
तारकम्” भा० । “गुहा त्रीणि निहितानेङ्गयन्ति” “तुरीयं
वाचो मनुष्या वदन्ति” ऋ० १ । १६४ । ४५ । अस्यार्थः भाष्ये
वहुधा मतभेदेन दर्शितः किन्तु वैखरीरूपा वाक्
चतुर्थीति निष्कृष्टार्थः तथा हि
“परा प्रश्यन्ती मध्यमा वैस्वरीति चत्वारि । एकैव नादा-
त्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते । नादस्य
च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्ती-
त्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धिं गता विवक्षां
प्राप्ता मध्यमेत्युच्यते मध्ये हृदयाख्ये उदीयमानत्वान्
मध्यमायाः! अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्या-
पारेण बहिर्निर्गच्छति तदा वैस्वरीत्युच्यते एवं चत्वारि
बावः पदानि परिमितानि । मनीषिणो मनसः स्वा-
मिनः स्वाधीनमनस्का ब्राह्मणा वाचोऽस्य शब्दब्रह्मणो-
ऽधिगन्तारो योगिनः पदानि चत्वारि पदानि विदुः ।
जानन्ति । तेषु मध्ये त्रीणि परादीनि गुहानिहितानि
हृदयान्तर्वर्त्तित्वात् । तुरीयं तु पदं वैखरीसंज्ञकं
मनुष्याः सर्वे वदन्ति । ४ सर्वाधारभूतेऽनुपहितचैतन्ये
परब्रह्मणि “वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गत-
प्रतिविम्बाकाशयोर्वा आधारानुपहिताकाशवदनयोरज्ञान-
तदुपहितचैतन्ययोराधारभूतं यदनुपहितचैतन्यं तत्
तुरीयमित्युच्यते” वेदान्तसा० । आधारश्चासौ अनुपहितश्चासौ
आकाशश्च स तथा तद्वदिति यावत् । यद्यप्याकाशस्य
वनाश्रयत्वं जलाश्रयत्व वा नास्ति तदनारम्भकत्वात्
तथाप्याकाशमन्तरेण तयोः स्थित्यनुपपत्तेस्तदाधारत्ववचन-
मिति द्रष्टव्यम् । अस्य चैतन्यस्य तुरीयत्वं विश्वतैजस-
प्राज्ञापेक्षया द्रष्टव्यम् । “शिवमद्वैतं तुरीयं मन्यन्ते”
वेदान्त सारधृता श्रुतिः
“तुरीयो यज्ञो यत्र हव्यमिति” । यजु० १७ । ५७ तुरीयः
चतुर्थः “आदौ यजुर्जपः ततोहोत्रा ऋचां पठनम्
ब्रह्मणोऽप्रतिरथजपः एवं च तुरीयोहोमः तथा च
श्रुतिः “अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चा-
दृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव
तुरीयो यज्ञ” इति वेददी० । “तुरीयः ब्रह्महत्यायाः
क्षत्रियस्य बधे स्थितः” मनुः स्वार्थे क । तत्रार्थे ।
“भगिन्यश्च निजादशात् दत्त्वांशन्तु तुरीयकम्” याज्ञ० ।

तुरीयवर्ण पु० कर्म्म० । शूद्रे हला० ।

तुरुष्क पु० तुर--उसिक् स्वार्थे क इसुसोरिति षत्वम् ।

१ गन्धद्रव्यभेदे (शिलारस) अमरः । २ म्लेच्छजातिभेदे मेदि०
३ पारस्यभाषाभेदे च हेमच० ४ श्रीवासवृक्षे विश्वः ।

तुर्फरी त्रि० तृफ--हिंसायाम् बा० अरि । हन्तरि ।

“सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका”
ऋ० १० । १०६ । ६ “तृफ तृम्फ हिंसायाम् । अस्मात्तृजन्तस्य
तुर्फरीतारावित्यस्य पृषोदरादित्वाद्वर्णविकारः । यद्वास्मा-
द्वाहुलकादौणादिकोऽरीतुप्रत्ययः । उक्तं चात्र
नि० १३ । ५ । “द्विविघा सृणिर्भवति भर्त्ता च हन्ता च तथा
श्विनौ चापि भर्त्तारौ जर्भरी भर्त्तारावित्यर्थस्तुर्फरीतू
हन्तारावित्यादि । जर्भरिशब्दे ३०६२ पृ० दृश्यम् ।

तुर्फरीतु त्रि० तृफ--वा० अरीतु पृषो० । हन्तरि त्र्फरीशब्दे

दृश्यम् ।

तुर्य्य त्रि० चतुर + पूरणे यत् च भागस्य लोपः । चतुर्थे ।

“एक एवेश्वरस्तुर्य्यः भगवान् स्वाश्रयः परः” भाग० ६ । ५ । १२ ।
“तुर्य्यशब्दस्य वा एकदेशिसमासः तुर्य्यं भिक्षायाः तुर्य्य-
भिक्षा पक्षे षष्ठोसमासः भिक्षातुर्य्यम् ।

तुर्य्यगोल पु० सि० । “दलीकृतं चक्रमुशन्ति चापं कोदण्ड-

खण्डं खलु तुर्य्यगोलम्” शि० उक्ते कालज्ञानार्थे यन्त्रभेदे

तुर्य्यवाह पु० तुर्य्यं चतुर्थं वर्षं वहति वह--ण्वि ।

चतुर्वर्षे पशौ । “तुर्य्यवाट् वयोऽनुष्टुप्छन्दः” यजु० १४ । १९
“तुर्य्यवाट् तुर्य्यं चतुर्थं वर्षं वहतीति पशुः अनुष्टुप्
छन्दो भूत्वोत्क्रान्तं तुर्य्यवाहं पशुं प्रजापतिर्वयसाऽ-
ग्रहीत् । तुर्य्यवाहं वयसाप्नोदनुष्टुप्भूत्वा तुर्य्यवाह
उच्चक्रमुरिति” शत० व्रा० ८ । २ । ४ । १५ श्रुतेः” वेददी० ।
पृष्ठ ३३२८

तुर्व हिंसायां भ्वा० पर० सक० सेट् । तूर्वति अतूर्वीत् । तुतुर्वतुः

“वृत्रं यादिन्द्र तूर्वसि” ऋ० ८ । ९९ । ६ । “तूर्वणे
सहस्तच्छ्रेष्ठमश्विनोरवः” ऋ० ८ । ९ । १३ । तूर्वणे ।
हिंसने” भा० ।

तुर्वणि त्रि० तर्णं वनुते वन् संभक्तौ इन् पृषो० । तूर्ण-

संभक्तरि “तुर्वणिरहा विश्वेव तुर्वणिः” ऋ० १ । १३० । ९ ।
“तुर्वणिस्तूर्णवनिः क्षिप्तं संभक्ता तुर्वणिस्तूर्ण्णवनि-
रिति निरुक्तम् (६ । १४ ।) भा० ।

तुर्वश पु० नृपभेदे । “त्वमाविथ नर्य्यं तुर्वशं यदुम्” ऋ०

१ । ५४ । ६ । “नर्य्यादीन् हि राज्ञः” भा० । “उत त्या तुर्व-
शायदू अस्नातारा शचीपतिः” ऋ० ४ । ३० । १७ ।

तुर्वशे अव्य० अन्तिके निकटे निघण्टुः ।

तुर्वसु पु० ययातिनृपपुत्रभेदे । “अन्वगृह्णात् प्रजां सर्वां

ययातिरपराजितः । तस्य पुत्रा महेष्वासाः सर्वे समुदितागुणैः ।
देवयान्यां महाराज! शर्म्मिष्ठायाञ्च जज्ञिरे । देवयान्या-
मजायेतां यदुस्तुर्वसुरेव च । दुह्युश्चानुश्च पूरुश्च शर्म्मि-
ष्ठायां प्रजिज्ञिरे” भा० आ० ७५ अ० तस्मै ययातिशापकथा
यथा । “तुर्वसो! प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन चरेयं वै विषयांस्तव पुत्रक! । पूर्णे वर्षसहस्रे तु
पुनर्दास्यामि यौवनम् । स्वञ्चैव प्रतिपत्स्यामि पाप्मानं
जरया सह । तुर्वसुरुवाच । न कामये जरां तात!
कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिप्राणप्र-
णाशिनीम् । ययातिरुवाच । यत्त्वं मे हृदयाज्जातो
वयः स्वं न प्रयच्छसि । तस्मात् प्रजासमुच्छेदं तुर्वसो!
तव यास्यति । सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।
पिशिताशिषु चान्त्येषु मूढ़! राजा भविष्यसि । गुरुदार-
प्रसक्तेषु तिर्य्यग्योनिगतेषु च । पशुधर्म्मिषु पापेषु
म्लेच्छेषु त्वं भविष्यसि” ८४ अ० ।

तुर्वीति पु० राजर्षिभेदे । “वृहद्रथं तुर्वीतिं दस्यवे सहः” । ऋ० १ । ३६ । १८

तुल उन्माने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।

तोलयति ते तोलति अतूतुलत् त । “पतिष्यति क्षितौ-
भानुः पृथिवीं तोलयिष्यते” भट्टिः । तुलयतीति तु तुला-
शब्दात्णिच् । “अन्तःसारं घनतुलयितुं नानिलः शक्ष्यति
त्वाम्” “अन्तस्तीयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रामादास्त्वांथन! तुलयितुमलं यत्र तैस्तैर्विशेषैः” मेघ० ।
“तुलयति स्म विलोचनतारकाः” माघः । “नक्तन्दिनैस्तुलि-
तकृत्रिमभक्तिशोभाः” रघुः ।
  • उद् + उत्क्षिप्य तोलते । उत्तोलयति

तुलभ पु० तुरेण वेगेन भाति भा--ड रस्य लः । आयुधजी-

वीसंघभेदे । ततः दामन्या० स्वार्थे छ । तुलभीय तदर्थे ।

तुलसारिणी स्त्री तुरेण वेगेन सरति सृ--णिनि ङीप् ।

तृणे शब्दमा० ।

तुलसी स्त्री तुलां सादृश्यं स्यति सो--क गौरा० ङीष्

शकन्ध्वा० । स्वनामख्याते वृक्षभेदे । “यस्या देव्यास्तुला
नास्ति विश्वेषु चाखिलेषु च । तुलसी तेन विख्याता”
शब्दार्थचि० देवीभाग० उक्तनिरुक्तेस्तस्यास्तथात्वम् ।
“तुलसी कटुका तिक्ता हृद्योष्णादाहपित्तहृत् । दीपनी
कुष्ठकृच्छ्रास्रपार्श्वरुककफवातजित् । शुक्ला कृष्णा च तुलसी
गुणैस्तुल्या प्रकीर्त्तिता” भावप्र० तद्गुणा उक्ताः
तुलस्यामाहात्म्यं यथा । “ब्रह्मोवाच । तुलस्याः शृणु
माहात्म्यं पापघ्नं सर्वकामदम् । यत्पुरा विष्णुना प्रोक्तं
तत्ते वक्ष्याम्यशेषतः । सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन
जनार्दनः । पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः १ ।
दृष्टा२ स्पृष्टा३ तथा ध्याता४ कार्त्तिके नमिता५ऽर्च्चिता६ ।
रोपिता७ सेचिता८नित्यं पापं हन्ति युगार्जितम् । अष्टधा
तुलसी यैस्तु सेविता द्विजसत्तम! । युगकोटिसहस्राणि
ते वसन्ति हरेर्गृहे । रोपिता तुलसी यावत् कुरुते
मूलविस्तृतिम् । तावद्युगसहस्राणि तनोति सुकृतं हरिः ।
तुलसीदलपुष्पाणि योदद्याद्धरये मुने! । कार्त्तिके सकलं
पापं सोऽत्र जन्मार्जितं दहेत् । रोपिता तुलसी
यावत् वर्द्धते वसुधातले । तावत्कल्पसहस्राणि विष्णु-
लोके महीयते । यत्फलं सर्वपुष्पैश्च सर्वपत्रेण
यत्फलम् । तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्विष्णुपूजने ।
तुलसीगन्धमादाय यत्र गच्छति मारुतः । दिशोदश
पुनात्याशु भूतग्राभांश्चतुर्विधान् । तूलसीकाननीद्भूता
छाया यत्र भवेन्मुने! । तत्र श्राद्धं प्रदातव्यं पितॄणां
तृप्तिहेतवे । तुलसीवीजनिकरो यस्मिन् पतति वैमुने! ।
तत् स्थानं परमं ज्ञेयं पितॄणां प्रीतिवर्द्धनम् । यस्मिन्
गृहे द्विजश्रेष्ठ! तुलसीतलमृत्तिका । तत्रैव नीपसर्पन्ति
भूतले यमकिङ्कराः । तुलसीमृत्तिकालिप्तो यदि प्राणान्
परित्यजेत् । यमेन नेक्षितुं शक्तो मुक्तः पापशतैरपि ।
तुलसीमृत्तिकालिप्तं ललाटं यस्य दृश्यते । कुलं
स्पृशति नो तस्य कलिर्मुनिवरोत्तम! । यः कश्चित्तुलसी-
मूले कार्त्तिके केशवप्रियः । दीपं ददाति विप्रेन्द्र!
स लभेद्वैष्णवं पदम् । तुलसीकाननञ्चैव गृहे यस्यावति-
ष्ठते । तद्गृहं तीर्थभूतं हि नायान्ति यमकिङ्कराः ।
पृष्ठ ३३२९
दर्शनं नर्मदायास्तु गङ्गास्नानं तंथैव च । तुलसीवनसं-
सर्गं सममेतत्त्रयं स्मृतम् । रोपणात् पालनात् सेका-
द्दर्शनात् स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनः
कायसञ्चितम् । तुलसीमञ्जरीभिर्यः कुर्य्याद्धरिहरार्च्चनम् ।
न स गर्भगृहं याति मुक्तिभागी भवेन्नरः । पुष्करा-
द्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवाद-
योदेवा वसन्ति तुलसीदले । तुलसीमञ्जरीयुक्तो यस्तु
प्राणान् विमुञ्चति । यमोन वीक्षितुं शक्तो युक्तं पाप
शतैरपि” पाद्मोत्तरख० । “यत्रैकस्तुलसीवृक्षस्तिष्ठति
द्विजसत्तम! । तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः ।
केशवः पत्रमध्येषु पत्राग्रेषु प्रजापतिः । पत्रवृन्ते
शिवस्तिष्ठेत् तुलस्याः सर्वदैव हि । लक्ष्मीः सरस्वती चैव
गायत्री चण्डिका तथा । शची चान्या देवपत्न्यस्तत्
पुष्पेषु वसन्ति वै । इन्द्रोऽग्निः शमनश्चैव नैरृतो वरु
णस्तथा । पवनश्च कुवेरश्च तच्छाखायां वसन्त्यमी ।
आदित्यादिग्रहाः सर्वे विश्वे देवाश्च सर्वदा । वसवो
मनवश्चैव तथा देवर्षयोऽखिलाः । विद्याधराश्च गन्धर्वाः
सिद्धाश्चाप्सरसस्तथा । तुलसीपत्रमाश्रित्य सर्वदा
निवसन्ति वै । चिन्वन्ति तृणजातानि तुलसीमूलजानि
वै । तद्देहस्था ब्रह्महत्याश्चिनोति तत्क्षणाद्धरिः ।
ग्रीष्मकाले द्विजश्रेष्ठ! सुगन्धैः शीतलैर्जलैः । तुलसीसेचनं ।
कृत्वा नरो निर्वाणमाप्नुयात् । चन्द्रातपं वा छत्रं वा
तुलस्यै यस्तु यच्छति । विशेषतः निदाघेषु स मुक्तः सर्व-
पातकैः । वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः ।
सेचयेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः । कदाचि-
त्तुलसीं दुग्धैः सेचयेद् यो नरोत्तमः । तस्य वेश्मनि
विप्रर्षे! लक्ष्मीर्भवति निश्चला । गोमयैस्तुलसीमूले यः
कुर्य्यादनुलेपनम् । सम्मार्ज्जनञ्च कुरुते तस्य पुण्यफलं
शृणु । रजांसि तस्य यावन्ति दूरीभूतानि जैमिने! ।
तावत्कल्पसहस्राणि मोदते ब्रह्मणा सह । यद्धर्मकर्म्म
कुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना
च । तत्सर्वमेव विफलं भवति द्विजेन्द्र! पद्मेक्षणोऽपि न
हि तुष्यति देवदेवः । यस्य स्यात्तुलसीपत्रं मुखे शिरसि-
कर्णयोः । मृत्युकाले द्विजश्रेष्ठ! तत्र स्वामी न
भास्करिः” पाद्मेक्रियायोगसारः । “स स्नातः सर्व-
तीर्थेषु सर्वयज्ञेषु दीक्षितः तुलसीपत्रतोये च योऽभिषेकं
समाचरेत् । गवामयुतदानेन यत्फलं लभते नरः ।
तुलसीपत्रदानेन तत्फलं कार्त्तिके सति! । तुलसीतोय-
कणिकां मृत्युकाले च यो लभेत् । रत्नयानं समारुह्य
वैकुण्ठं स प्रयाति च । त्रिकालं तुलसीपत्रं शुष्कं पर्य्यु-
षितं सति! । श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरा-
र्च्चने । भूगतं तोयपतितं यद्दत्तं विष्णवे सति! । शुद्धन्तु
तुलसीपत्रं क्षालनादन्यकर्म्मणि” पार्वतीं प्रति शिववाक्यम् ।
तुलसीचयननिषेधकालो यथा । “पूर्णिमायाममायाञ्च
द्वादश्यां रविसंक्रमे । तैलाभ्यङ्गे च स्नाते न मध्याह्ने
निशि सन्ध्ययोः । अशौचेऽशुचिकाले च रात्रिवासान्विते-
ऽपि वा । तुलसीं ये च चिन्वन्ति ते छिन्दन्ति हरेः शिरः” ।
हरिभ० । तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे च
दोषोतथा । “तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रञ्च यावच्चन्द्रदिवाकरौ । करोति
मिथ्याशपथं तुलस्या यो हि मानवः । स याति कुम्मी-
पाकञ्च यावदिन्द्राश्चतुर्दश” ब्रह्मवैवर्त्तेप्रकृतिखण्डम् ।
तुलसीपत्रचयने मन्त्रो यथा । “मातस्तुलसि! गोविन्द-
हृदयानन्दकारिणि! । नारायणस्य पूजार्थं चिनोमि त्वां
नमोऽस्तु ते । कुसुमैः पारिजाताद्यैः सुगन्धैरपि केशवः ।
त्वया विना नैव तृप्तिं चिनोमि त्वामतः शुभे! । तया
विना महाभागे! समस्तं कर्म निष्फलम् । अतस्तुलसि!
देवि! त्वां चिनोमि वरदा भव । चयनोद्भवदुःखं यद्देवि!
ते हृदि वर्त्तते । तत् क्षमस्व जगन्मातस्तुलसि! त्वां
नमाम्यहम् । कृताञ्जलिरिमान् मन्त्रान् पठित्वा वैष्णवो
जनः । करतालत्रयं दत्त्वा चिनुयात्तुलसीदलम् ।
शनैः शनैस्तथाकारैश्चीयते तुलसीदलम् । यथा न कम्पते
शाखा तुलस्याद्विजसत्तम! । पत्राणां चयने विप्र ।
भग्नशाखा यथा भवेत् । तथा हृदि व्यथा विष्णोर्दीयते
तुलसीपतेः” । पाद्मेक्रियायोगसारः ।
तुलसीकाष्ठमालामाहात्म्यं यथा । “तुलसीकाष्ठनिर्माण-
मालां गृह्णाति यो नरः । पदेपदेऽश्वमेधानां लभते
निश्चितं फलम्” ब्रह्मवैवर्त्ते प्रकृ० । “सात्वतै-
स्तुलसीकाष्ठमाला कुञ्जसमुद्भवा । धार्य्या नित्यं प्रय-
त्नेन त्वेतद्भक्तस्य लक्षणम्” । हरिभक्तस्य तुलसीकुञ्ज-
काष्ठसमुद्भवा । चिह्नार्थमात्मनो माला पुरा कृष्णेन
दर्शिता” पाद्मोत्तरखण्डम् “काष्ठमालाधरं विप्रं यतिनं
यानरोहिणम् । खट्टास्थां विधवां दृष्ट्वा सचेलं जलमा-
विशेत्” इति वचनस्य साकरत्वे तुलसीकाष्ठेतरकाष्ठविष-
यत्वमिति वैष्णवाः । स्मार्त्तास्तु विप्रेतरपरत्वं पाद्मोत्तर-
खण्डवाक्यस्य वर्णयन्ति । तन्मूलञ्च “तुलसीपत्रजातेन
पृष्ठ ३३३०
माल्येन भव भूषितः । विप्र! त्वं न च तत्काष्ठमालां
गलगतां कुरु” इति वाक्यमालोच्य तथा व्यवस्थापयन्ति ।
अन्ये तु विष्णुदीक्षाविहीनविप्रस्य तत्काष्ठमालाधारण-
निषेधः । विधिस्तु वैष्णवस्येति वर्णयन्ति । गणेशपूजने
तुलसीनिषेधो यथा तुलसीं प्रति गणेशवाक्यम् “पुष्पाणां
सारभूता त्वं भविष्यसि मनोरमे! । कलांशेन
महाभागे! स्वयं नारायणप्रिया । प्रिया त्वं सर्वदेवानां
कृष्णस्य च विशेषतः । पूजा विमुक्तिदा नॄणां मम त्याज्या
च सर्वदा” ब्रह्मवैवर्त्ते गणेशखण्डम् । “अक्षतैर्ना-
र्चयेद्विष्णुं न तुलस्या विनायकम् । न दूर्वया यजेद्-
दुर्गां धुस्तुरेण न भास्करम्” राघवभट्टधृतम् ।
तुलसीग्रहणविधिः वायुपुराणे । “अस्नात्वा
तुलसीं छित्त्वा यः पूजां कुरुते नरः । सोऽप-
राधी भवेत् सत्यं तत् सर्वं निष्फलं भवेत्” । तच्चयने
मन्त्रान्तरं स्कान्दे “तुलस्यमृतजन्मासि सदा त्वं केशव-
प्रिया । केशवार्थे चिनोमि त्वां वरदा भव शोभने” ।
“त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम् । तथा कुरु
पवित्राङ्गि! कलौ मलविनाशिनि” । गारुड़े च ।
मोक्षैकहेतो! धरणीप्रशस्ते । विष्णोः समस्तस्य गुरोः
प्रियेति । आराधनार्थं वरमञ्जरीकं लुनामि पत्रं
तुलसि! क्षमस्व । इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणं-
पाणिना । पत्राण्येकैकशोन्यस्येत् सत्पात्रे मञ्जरी-
रपि । तन्माहात्म्यञ्च स्कान्दे । “मन्त्रेणानेन यः
कुर्य्यात् गृहीत्वा तुलसीदलम् । पूजनं वासुदेवस्य लक्ष-
कोटिफलं लभेत्” । किञ्च “शालग्रामशिलार्च्चार्थं प्रत्यहं
तुलसीक्षितौ । तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः” ।
इति । संक्रान्त्यादौ निषिद्धेऽपि तुलस्यवचयः
स्मृतौ । परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते”
हरिभ० तुलस्यवचयनिषेधकालः । विष्णुधर्म्मोत्तरे
“नोच्छिन्द्यात् तुलसीं विप्रा द्वादश्यां वैष्णवः क्वचित्” ।
गारुड़ “भानुवारं विना दूर्वां तुलसीं द्वादशीं
विना । जीवितस्याविनाशाय न विचिन्वीत धर्मवित्” ।
पाद्मे च श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये
“द्वादश्यां तुलसीपत्रं धात्रीषत्रञ्च कार्त्तिके । लुनाति
स नरो गच्छेन्निरयानतिगर्हितान्” । अतएवोक्तम् ।
“देवार्थे तुलसीच्छेदो होमार्थे समिधान्तथा । इन्दुक्षये
न दुष्येत गवार्थे तु तृणस्य च” । “एवं कृत्वा
महापूजामङ्गोपाङ्गादिकं प्रभोः । क्रमाद् यथा सम्प्रदायं
तत्तत् स्थानेषु पूजयेत्” । हरिभक्तिविलासे ७
विलासे । तुलसीविवाहप्रतिष्ठाविधिः “श्रीवशिष्ठ
उवाच । विवाहं सम्प्रवक्ष्यामि तुलस्यास्तु यथाविधि ।
यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा” । “आदावेव
वने वाप्य तुलसीं स्वगृहेऽपि वा । वर्षत्रयेण पूर्णेन
ततो यजनमारभेत् । सौम्यायने प्रकर्त्तव्यं गुरुशुक्रो-
दये तथा । अथ वा कार्त्तिके मासि भीष्मपञ्चदिनेषु च ।
वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः । मण्डपं
कारयेत्तत्र कुण्डवेदी तथा पुनः । शान्तिकञ्च प्रकर्त्तव्यं
मातृणां स्थापनं तथा । मातृश्राद्धादिकं सर्वं विवाहवत्
समाचरेत् । ब्राह्मणांश्च शुचिः स्नातान् वेदवेदाङ्ग-
पारगान् । ब्रह्मा चादेशकश्चैव चत्वारश्च तथर्त्विजः ।
वैष्णवेन विधानेन बर्द्धनीकलसं यजेत् । मण्डपं
कारयेत्तत्र लक्ष्मीनारायणं शुभम् । ग्रहयज्ञं पुरः
कृत्वा मातॄणां यजनं तथा । कृत्वा नान्दीमुखं श्राद्धं
सौवर्णं स्थापयेद्धरिम् । कृत्वारोप्य च तुलसीं लग्ने
त्वस्तमिते रवौ । वासःशतेन मन्त्रेण वस्त्रयुग्मेन
वेष्टयेत् । यदा बध्नेति मन्त्रेण कङ्कणं पाणिपल्लवे ।
कोऽदादिति च मन्त्रेण पाणिग्राहो विधीयते । ततः
कुण्डे समागत्य आचार्य्यः सहसा द्विजैः । आचार्य्यो
वेदिकाकुण्डे जुहुयाच्च नवाहुतीः । विबाहकर्मवत् सर्वं
वैष्णवं देशिकोत्तमैः । कर्त्तव्यश्च ततो होमोवि-
शेषाद्विधिपूर्बकम्” । “यजमानः सपत्नीको ह्यन्ये
ये गोत्रबान्धवाः । प्रदक्षिणाश्च कर्त्तव्याश्चत्वारो
विष्णुना सह । तुलस्याः पाणिग्रहणे वेदिकायां
विभावसौ । शातकुम्भं जपेत् सूक्तं पावमानीं विशेषतः ।
तथैव शान्तिकाध्यायम् । नवसूक्तीं तथैव च ।
जीवसूक्तं पुनर्जप्त्वा तथा वैष्णवसंहिताम् । शङ्खझल्लरि-
निर्घोषैर्भैरीतूर्य्यस्य निस्वनैः । गायन्ति मङ्गलानार्य्यो
माङ्गल्यं विधिमाचरेत् । दद्यात् पूर्णाहुतिं पश्चा-
दभिषेकविधिं ततः । ब्रह्मणे वृषभं दद्यादाचार्य्य-
परिधाप्य च । गां पटञ्च तथा शय्यामाचार्य्याय प्रदा-
पयेत् । ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच्च दक्षि-
णाम् । एवं प्रतिष्ठिता देवी विष्णुना च समर्च्चिता
आजन्मोपार्जितं पापं दर्शनेन प्रणश्यति । रोपयेत्तुलसीं
यस्तु सेचयेच्च प्रयत्नतः । प्रतिष्ठाप्य यथोक्तेन विष्णुना
सह मानवः । स मोक्षं लभते जन्तुर्विष्णुलोकं तथा
घनम् । प्राप्तोति विपुलान् भोगान् विष्णुना सह
मोदते” हरिभक्तिविलासे । “तुलसी घ्राणमात्रेण रुष्टा
भवति सुन्दरी” तन्त्रसा० ।
पृष्ठ ३३३१

तुलसीद्वेषा स्त्री तुलसीं द्वेष्टि तुल्यगन्धत्वात्

स्पर्द्धते द्विष अण् । वर्वर्य्यां (वावुइ) रत्नमा०

तुला स्त्री तुल--भिदा० अङ् । १ सादृश्ये २ माने च गृहाणां

३ दारुबन्धनार्थपीठिकायां ४ पलशतमाने ५ भाण्डे च
मेदि० । राशिचक्रस्य द्वादशधा विमक्तस्य ६ सप्तमे राशौ
स च ३६० अंशात्मकराशिचक्रस्य १८१ अंशावधि २१०
पर्य्यन्तः चित्राशेषार्द्ध स्वातिविशाखान्तिमपादत्रयात्मकः ।
अस्याधिष्ठाता तुलाधरः पुरुषः । अस्य योगतारादिकम्
अश्लेषाशब्दे उक्तमृक्षशब्दे च विशेष उक्तः । “तौली-
ना कथितस्तुलाधटधरः” जातकपद्धतिः । “पुमांश्चर-
श्चित्रसमोदयोमतः प्रत्यक् मरुत् स्निग्धरवोऽथ वन्यः ।
स्वल्पप्रजासङ्गमशूद्र उग्रस्तुला द्युपीर्य्यो द्विपदः समानः”
जातकपद्धत्युक्तस्वभावः । वादिप्रतिवादिनोर्लौकिकप्रमा-
णाभावे दिव्यपरीक्षया अर्थनिर्णये कर्त्तव्ये धटापर-
नामके ७ परीक्षाभेदे । सा च परीक्षा दिव्यशब्दोक्तसा-
मान्यविधिपूर्वकं सर्वं कृत्वा कर्त्तव्या । तद्विधिश्च
वीरमित्रोदये दर्शितो यथा
पितामहः “विशालामुच्छितां शुभ्रां धटशालान्तु
कारयेत् । यत्रस्थो नोपहन्येत श्वभिश्चाण्डालवायसैः ।
कपाटवीजसंयुक्तां परिचारकरक्षिताम् । पानीयादि
समायुक्तामशून्यां कारयेन्नृपः” इति । वीजानि
यवब्रीह्यादीनि । धटार्थानि काष्ठानि नारद आह
“खादिरं कारयेत्तत्र निर्व्रणं शुष्कवर्जितम् । शांशपन्तद-
भावे वा सालं वा कोटरैर्विना । “अर्जुनन्तिन्दुकी
सारन्तिणिसो रक्तचन्दनम् । एवंविधानि काष्ठानि
धटार्थं परिकल्पयेत्, । अर्जुनस्तिलकः शाकस्तिणिसो
रक्तचन्दनम्” इति । माधवीये पाठः । शांशपमिति
शिंशपावृक्षसम्बन्धि । “देविकाशिंशपेति” पाणिनिस्म-
रणादिकारस्याकारः । एवंविधानीत्यन्यस्याप्योदुम्बरा-
देर्यज्ञियस्य काष्ठस्य ससारस्य ग्रहणम्” । अतएव
पितामहः “छित्त्वा तु यज्ञियं काष्ठं यूपवन्मन्त्र
पूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्य्या
मनीषिभिः । मन्त्रः सौम्यी वानस्पत्यः छेदने जप्य एव
चेति” । यूपवन्मन्त्रपूर्वकमित्यनेन ॐ ओषधे त्रायस्वैन-
मित्यादिच्छेदनमन्त्रप्रयोगादिकमुक्तम् । वानस्पत्यः
“वनस्पते शतवलशोविरोहेति” मन्त्रः । छेदने कृते इति
शेषः । वानस्पत्यच्छेदनानन्तरं प्रयोगे यूपवदित्यतिदेशा-
त्सिद्धेऽपि पुनर्विधानम् औपदेशिकस्य सोमदैवत्येनाति
देशिकस्य तस्य बाधनिवृत्त्यर्थम् । अत्र जप्य एव चेति
चशब्दस्य वानस्पत्येत्यनेनान्वयात् तस्य च समुच्चयद्योत-
कत्वात्समुच्चय इति केचित् सौम्यवानस्पत्ययोरेकार्थ-
त्वात् । “तुल्यार्थास्तु विकल्पेरन्नित्यनेन “माषेणेव व्रीहि
यवादिभ्यः” इत्यपरे । पितामहः “प्राङ्मुखो निश्चलः
कार्य्यः शुचौ देशे धटः सदा । इन्द्रस्थाने सभायां वा
धर्मस्थाने चतुष्पथे” इति । धटनिर्माणप्रकारन्तत्प्रमाण-
ञ्चाह पितामहः, “चतुर्हस्ता तुला कार्य्या पादौ कार्य्यौ
तथाविधौ । अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव
चेति” । पादौ तुलाधारकाक्षनामककाष्ठधारणाख्यौ
स्तम्भौ तथाविधौ चतुर्हस्तौ । अन्तरं मध्यम् । अध्यर्द्धं
सार्धहस्तद्वयम् । अक्षकाष्ठस्य प्रमाणम्पादस्तम्भमध्य-
प्रमाणाभिधानेनैव सूचितमिति न पृथगुपन्यस्तम् ।
अन्तरालप्रमाणपर्य्यालोचनया ततः किञ्चिदधिकमक्षकाष्ठं
कर्त्तव्यम् । पादस्तम्भयोर्मस्तकप्रदेशाद्यथा बहिर्न
निःसरति तथा अक्षकाष्ठङ्कार्य्यमिति स्मृतिचन्द्रिका-
याम् । अत्र निखातभागपरित्यागेन पादस्तम्भयोश्चतु-
र्हस्तत्वाभिधानं ज्ञेयम् । अतएव पितामहः “हस्तद्वयं
निखेयन्तु प्रोक्तं मुण्डकयोर्द्वयोः । षढस्तन्तु तयोः
प्रोक्तं प्रमाणं परिमाणतः” इति मुण्डकौ पादस्तम्भौ ।
हस्तप्रमाणन्दर्शितं कालिकापुराणे “यवानान्तण्डुलै-
रेकमङ्गुलञ्चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतुर्वि
शतिरङ्गलैः” । इति स्मृत्यन्तरेऽपि “तिर्यग्यवोदराण्यष्टा
ऊर्द्ध्वांशा व्रीहयस्त्रयः । प्रमाणमङ्गुलस्योक्तं
वितस्तिर्द्वादशाङ्गलः” । शारदातिलके “चतुर्विंशत्यङ्गुलाद्यं
हस्तन्तन्त्रविदो विदुः । यवानामष्टभिः कॢप्तं माना-
ङ्गुलमितीरितमिति” । हस्तो वितस्तिद्वितयं चतुर्विं-
शत्यङ्गुलो हस्त इत्यर्थः । यवानां यवतण्डुलानामित्यर्थः ।
“यवानान्तण्डुलैरिति” स्मरणात् । तुलाया विशेषान्तरमाह
पितामहः “चतुरस्रा तुला कार्य्या दृढ़ा ऋज्वी तथैव
च । कटकानि च देयानि त्रिषु स्थानेषु यत्नतः” इति ।
कटकानि लोहमयानि वलयानि । त्रिषु स्थानेषु अन्त्य-
योर्मध्ये । कटकग्रहणं लोहकीलादीनामुपयुक्ताना-
मुपलक्षणम् । नारदोऽपि “ऋज्वी धटतुला कार्य्या
खादिरी तैन्दुकी तथा । चतुरस्रा त्रिभिः स्थानैर्धटक-
र्कटकादिभिरिति” । धटो धटमध्यम् । कर्कटकौ अन्त्यौ ।
पादस्तम्भादीनां स्थूलता तु विशेषानभिधानात् यावति
पृष्ठ ३३३२
स्थैल्ये दाद्यंम्भवति तावत्येव कार्य्या । शिष्टाचारा-
द्विशेषो ज्ञेयः । पादस्तम्भावुदग्दक्षिणसंस्थानौ कृत्वा
तुला प्राग्भारा कार्य्या । “पश्चिमे तोलयेत्कर्तॄन् अन्य-
स्मिन् मृत्तिकां शुभामिति” पितामहस्मरणात् । पूर्व-
पश्चिमसस्थानौ कृत्वोदग्मारा वा कार्य्या । “धारयेदुत्तरे
पार्श्वे पुरुषं दक्षिणे शिलामिति” मारदस्मरणात् ।
धटाङ्गत्वेन तोरणादिकं कार्य्यमित्याह पितामहः
“तोरणे तु तथा कार्य्ये पार्श्वयोरुभयोरपि । धटादुच्चतरे
स्यातान्नित्यन्दशभिरङ्गुलैः । अवलम्बौ तु कर्त्तव्यौ
तौरणाभ्यामधोमुखौ । मृण्मयौ सूत्रसम्बद्धौ धटमस्तक-
चुम्बिनाविति” । धटारोहणमाह नारदः “शिक्यद्वयं
समासज्य धटकर्कटयोर्दृढ़म् । एकशिक्ये तु पुरुषमन्यत्र
तोलयेच्छिलाम्” । “धारयेदुत्तरे पार्श्वे पुरुषन्दक्षिणे
शिलाम् । पिटकम्पूरयेत्तस्मिन्निष्टकापांशुलोष्टकैरिति” ।
इष्टकाभिर्ग्रावभिः पांशुभिर्लोष्टैर्वेत्यर्थः । माषराशि-
भिरपि पेटकम्पूरयेत् । “माषराशिमथाषिवेति” स्मृत्य-
न्तरवचनात् । पितामहोऽपि” “शिक्यद्वयं समासज्य
यार्श्वयोरुभयोरपि । प्रागग्रान् कल्पयेद्दर्भांस्तत्र विप्रः
ससाहितः । षश्चिमे तोलयेत्कर्त्तॄनन्यस्मिन्मृत्तिकां
शुभाम् । इष्टकाभस्मपाषाणकपालास्थिविवजितामिति” ।
अत्र इष्टकापाषाणयोर्वर्ज्यत्वोक्तिः समुच्चयनिराकर-
णार्था नतु विकल्पनिराकरणार्था पूर्वोदाहृतनारद-
वचते तयोरपि विधानात् । “एतेन मृत्तिकापाषाणादीनां
सम्भूय तोलनकर्तृत्वमिति मतमपास्तम् । मृत्तिकाशिलेष्ट-
कादोनामेकार्थत्वात् “तुल्यार्थास्तु विकल्पेरन्निति” न्यायेन
विकल्प इति मिताक्षरायाम् । विष्णुरपि “अत्रैकशिक्ये
पुरुषमारोपयेत् द्वितीये प्रतिमानं शिलादीति” ।
समतानिरीक्षणार्थं राज्ञा तद्विदो नियोक्तव्याः । तथा
च पितामहः “परीक्षका नियोक्तव्यास्तुलामान-
विशारदाः । बणिजो हेमकाराश्च कांस्यकारास्तथैव-
चेति” । नियुक्ताश्च निरीक्षेरन्नित्याह बारदः । “सुव-
र्ण्णकारा बणिजः कुशलाः कांस्यकारकाः । तान्तुलाम-
न्ववेक्षेरन् तुलाधारणकोविदाः इति” । निरीक्षिणं प्रत्याह
पितामहः “कार्य्यः परीक्षकैर्नित्यमवलम्व्य समो
धटः । उदकञ्च प्रदातव्यं धटस्योपरि पण्डितैः ।
यस्मिन्न प्लवते तोयं स विज्ञेयः समो घट” इति ।
अबलम्बसमः तोरणयोर्लम्बमानौ यौ मृत्तोयावबलम्बौ
तयोः समः । नारदोऽपि “प्रथमारोहणे ग्राह्यं
प्रमाणन्निपुणैः सह । तुलाशिरोभ्यान्तुल्यं तु तोरणन्य-
स्तलक्षणमिति” । तोलनानन्तरं कर्त्तव्यम्पितामह
आह “तोलयित्वा नरं पूर्वं पश्चात्तमवतार्य्य तु ।
धटं तु कारयेन्नित्यं पताकाध्वजशोभितम्” । तत
आवाहयेद्देवान्विधिनानेन मन्त्रवित् । बादित्रतूर्य्यनिर्घोषै-
र्गन्धमाल्यानुलेपनैः । प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्-
विवेकस्ततोवदेत्” इति । विवादानुरूपं प्रश्नम्पृच्छ-
तोति प्राट् तद्विवेचयतोति विवेकः प्राट् चासौ विवेकश्च
प्राड़्विवेकः । ततोऽभियुक्तं तोलयित्वाऽवतार्य्य
धर्म्मावाहनादारभ्याभियुक्तशिरसि पत्रबन्धनान्तं साधा-
रणविधिं कुर्य्यात् । धटपूजायाङ्गन्धादिविशेषन्नारद
आह “रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः ।
अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेदिति” । शिष्टा
नवशिष्टानिन्द्रादीन् । पत्रबन्धनानन्तरं मन्त्रयेत् प्राङ्गि-
वेक इत्याह पितामहः “धटमामन्त्रयेच्चैव विधिनानेन
शास्त्रवित्” । विधिना मन्त्रेण शास्त्रवित्प्राड्विवैकः ।
मन्त्रश्च तेनैव दर्शितः” “त्वं धट! ब्रह्मणा सृष्टः
परीक्षार्थं दुरात्मनाम् । धकाराद्धर्ममूर्त्तिस्त्वण्टकारात्
कुटिलं नरम् । धृतो धारयसे यस्माद्धटस्तेनाभिधी-
यमे । त्वं वेत्सि सर्वभूतानां षाषानि सुकृतानि च ।
त्वमेव देव! जानीषे न विदुर्य्यानि मानवाः । व्यवहा-
राभिशस्तोऽयं मानुषः शुद्धिनिच्छतीति” । शोध्यस्या-
भिमन्त्रणञ्चाह याज्ञवल्क्यः “तुलाधारणविद्वद्भि-
रभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वा-
ऽवधारितः । त्वन्तुले! सत्थधामासि पुरा देवैर्विनिर्भिता ।
तत्सत्यं वद कल्याणि! संशयान्मां विमोचय । यद्यस्मि
पापकृन्मात! स्ततो मां त्वमधो नय । शुद्धश्चेद्गमयो-
र्द्ध्वम्मां तुलामित्यभिमन्त्रयेदिति” । तुलाश्रितः तुला-
मारूढ़ः । प्रतिमानसमोभूतः प्रतिमानेन मृदादिना
समीकृतः । रेखां कृत्वावतारणे साम्यचिह्नं कृत्वा
अभिमन्त्रणमेवावतारणानन्तरं कार्य्यम् अवतारित इति
क्तदर्शनात्ततः प्राड़्विवेकः तुलाधारकं शपथैर्नियम्य
शिरोगतपत्रकं पुनर्धटमारोपयेत् । अतएव नारदः
“समयैः परिगृह्याथ पुनरारोषयेन्नरम् । निर्वाते वृष्टि-
रहिते शिरस्यारोप्य पत्रकमिति” । समयैः शपथैः
परिगृह्य नियम्य । ते च विष्णुना दर्शिताः । “ब्रह्मघ्नो
ये स्मृता लोकाः ये लोकाः कूटसाक्षिणः । तुलाधारस्य
ते लोकास्वलान्धारयतो मृषेति” पुनरारोहणकायेऽभि-
पृष्ठ ३३३३
मन्त्रणमाह नारदः “त्वं वेत्सि सर्वभूतानां पापानि
सुकृतानि च । त्वमेव देवि! जानीषे न विदुर्यानि
मानवाः । व्यवहाराभिशस्तोऽयं मानवस्तोल्यते त्वयि ।
तदेनं संशयारूढ़ं धर्मतस्त्रातुमर्हसि । देवासुरमनुष्याणां
सत्ये त्वमभिषिच्यसे । सत्यसन्धोऽसि भगवन्! शुभाशुभ-
विभावने । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो
हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च
जानाति नरस्य वृत्तमिति” । मन्त्रोच्चारणानन्तरकर्त्तव्यं
पितामह आह “ज्योतिर्विद्ब्राह्मणश्रेष्ठः कुर्य्यात्काल-
परीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोवि-
दैः । साक्षिणो ब्राह्मणाः श्रेष्ठाः यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृषेण तु । शंसन्ति
साक्षिणः श्रेष्ठाः शुद्ध्यशुद्धी नृपे तदा” इति ।
कानि पुनर्जयपराजयचिह्नानीत्यपेक्षायामाह नारदः
“तुलितो यदि वर्द्धेत विशुद्धः स्यान्न संशयः । समो वा
हीयमानो वा न विशुद्धो भवेन्नरः” इति वर्द्धेत उपरि
गच्छेत् । हीयमानः अधो गच्छेत् । यत्पुनरुक्तं
पितामहेन “तुलितो यदि वर्द्धेत शुद्धो भवति धर्मतः ।
हीयमानो न शुद्धः स्यादेकेषान्तु समोऽशुचिः । अल्प-
पापः समो ज्ञेयो बहुपापस्तु हीयते” इति । अल्पत्वं
ष्यभिचारे समालिङ्गनादिना” चौर्य्ये तद्देशगमनादिना
तत्र एकेषामिति पूजार्थं न तु स्वमते समस्य शुचित्वद्यो-
तनार्थम् अल्पपापिनोऽप्यशुचित्वात् । तेन हीयमान-
समयोर्व कश्चिद्विशैषः । दण्डप्रायश्चित्ते पापविशेषस्तयो-
र्दोषानुसारित्वात् । यत्तु कैश्चिदेकेषां तु समोऽशुचिरिति
वचनम् । “अल्पपापः समो ज्ञेयः” इति वचनं साम्ये संशय-
परमेवेत्युक्तन्तत्क्लिष्टकल्पनया वाक्यानार्जवन्तैरुपेक्षणी-
यम् । यत्तूक्तम्, वृहस्पतिना “धटेऽभियुक्तस्तुलितो
हीनश्चेद्धानिमाप्नुयात् । तत्समस्तु पुनस्तौल्यो वर्द्धितो
विजयी भवेदिति” अयमर्थः पुनर्देवतावाहनाद्यसहितं
सर्वं कर्म चिघायोत्तोलनीय इति समस्याशुचित्वनिश्चयो
न प्रथमतोलनपर्य्याये कार्य्यः । किन्तु पुनस्तौल्यमानस्य
समतैव यदि भवति तदा अशुद्धिरवधारणीयेत्यर्थः इति
स्मृतिचन्द्रिकायाम् । यत्तु कैश्चित्तस्मिन्नैव प्रयोगे तोलन-
सुक्तं तन्मन्दं प्रधानावृत्तावङ्गावृत्तिरिति न्यायेन तोलनस्य
फलसम्बन्धेन प्रधानत्वात् तदावृत्तौ देवतावाहनाद्यङ्गाना-
मप्यावृत्तेरेवोचितत्वात् । शिक्यादिच्छेदेऽपि पुनः समीकृत्य
तोलनीय इत्याह कात्यायतः “शिक्यच्छेदे तुलाभङ्गे
तथा चापि गुणस्य वा । शुद्धेस्तु संशये चैनं परीक्षेत
पुनर्नरमिति” शुद्धिसंशयकारीण्याह नारदः “तुला-
शिरोभ्यामुद्भ्रान्तं विचलं न्यस्तलक्षणम् । यदा वायुप्रणु-
न्नंवा तदा नैकतरं वदेत्” इति । अयमर्थः । यदा
तुलान्तौ तिर्यक्चलितौ यदा च समताज्ञानार्थन्यस्तं
चिह्नमपैति यदा च वायुना प्रेरिता तुला ऊर्द्ध्वमधश्च
कम्पते तदा जयं पराजयं च न वदेदिति । व्यासोऽपि
“कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा । रज्वुच्छेदेऽक्ष-
भङ्गे वा दद्याच्छुद्धिं पुनर्नृपः” इति । कक्षं शिक्यतलं
कर्कटौ तुलोपान्तस्थौ शिक्याधारावीषद्वक्रौ कर्कटशृङ्ग-
सन्निभौ लौहकीलकौ । अक्षः पादस्तम्भयोरुपरिनिहित-
स्तुलाधारपट्ट इति मिताक्षरा । दार्ढ्यप्रयोजकः
कीलक इति हलायुधः । यत्तु वृहस्पतिवचनम् “कक्षच्छेदे
तुलाभङ्गे धटकर्कटयोस्तथा । रज्वुच्छेदेऽक्षभङ्गे च
तथैवाशुद्धिमाप्नुयादिति” तदाऽऽकस्मिककक्षच्छेदादिविष-
यम् । कात्यायनवचनन्तु दृश्यमानकारणकशिक्यच्छेदादि-
विषयमिति विज्ञानेश्वराचार्य्यादयः” वीरमि० । तुलापु-
रुपाङ्गतुला तु हेमाद्रौ दा० खण्डे दृश्या । मत्कृत
कृततुलादानादिपद्धतौ च विस्तरेण दृश्या ।
८ तोलने मिता० । “तुलाः स्त्रियां पलशतं भारः स्याद्विं-
शतिस्तुला इत्यमरोक्तेः पलशतमानं तुला । तत्र सादृश्ये
“तुलां यदा रोहति दन्तवाससा,” कुमा० “कामया-
नसमस्थया तुलाम्” रघुः । तुलोपमाशब्दयोगे षष्ठ्येव
साधु न तु तृतीया “अतुलोपमाभ्याम्” पा० तृतीयाविधाने
तयोः पर्य्युदासात् तृतीयाप्रयोगस्तु सहार्थशब्दाध्याहारेण
तद्योगे इति मल्लि० । तुलाराशौ । “कन्यार्के च तुलार्के
च पितॄणां श्राद्धमिष्यते” स्मृतिः “तुलायां लोलया सह”
ति० त० । “सहझषस्तुलया” ज्यो० त० । तोलनदण्डात्मके माने
“अथ स दक्षिणादूरोरुकृत्य स्वमांसपेशीं तुलया धारयन्
गुरुतर एव कपोत आसीत्” भा० व० १९६ अ० । “तुला-
मानं प्रतीमानं सर्वञ्च स्यात् सुलक्षितम् । षट्सु षट्सु
च मासेषु पुनरेव परीक्षयेत्” मनुः “तुलामानं सुवर्णादीनां
परिच्छेदार्थं यत् क्रियते प्रतीमानं प्रस्थद्रोणादि
तत्सर्वं स्वनिरूपितं यथा स्यात् षट्सु षट्सु मासेषु गतेषु
पुनस्तत्सर्वं सभ्यपुरुषैर्नृपतिः परीक्षयेत्” कुल्लू०
“आषाढ्यां तुलया वीजतोलने भाविशस्यहानिवृद्धिज्ञापनम्
वृ० स० २६ अ० उक्तं तत्र अधिवासनाङ्गतुलानिर्मा-
णप्रकारस्तत्रैवोक्तो यथा
पृष्ठ ३३३४


“आषाढ्यां समतुलिताधिवासितानाम् अन्येद्युर्यद-
धिकतामुपैति वीजम् । तद्वृद्धिर्भवति न जायते यदूनं
मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय । स्तोतव्या मन्त्र-
योगेन सत्या देवी सरस्वती । दर्शयिष्यसि यत्सत्यं सत्ये
सत्यव्रता ह्यसि । येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्ग-
णास्तथा । उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ।
यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु । यत्सत्यं त्रिषु
लोकेषु तत्सत्यमिह दृश्यताम् । ब्रह्मणो दुहिता चासि त्वमा-
दित्येति कीर्तिता । काश्यपी गोत्रतश्चैव नामतो
विश्रुता तुला । क्षौमं चतुःसूत्रकसन्निबद्धं षड़ङ्गुलं शिक्य-
कवस्त्रमस्याः । सूत्रप्रमाणं च दशाङ्गुलानि षड़ेय कक्षो-
भयशिक्यमध्ये । याम्ये शिक्ये काञ्चनं सन्निवेश्यं
शेषद्रव्याण्युत्तरेऽम्बूनि चैयम् । तोयैः कौप्यैः स्यन्दिभिः
सारसैश्च वृष्टिहीना मध्यमा चोत्तमा च । दन्तैर्नागा
गोहयाद्याश्च लोम्ना हेम्ना भूपाः सिक्थकेन द्विजाद्याः ।
तद्वद्देशा वर्षमाशा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि ।
हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या ।
वितः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वि-
तस्तिः । हीनस्य नाशोऽभ्यधिकस्य वृद्धिस्तुल्येन तुल्यं
तुलितं तुलायाम् । एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगे
ऽपि नरो विदध्यात्” ।

तुलाकूट न० ६ त० । तुलामानस्य कूटे १ प्रकृतमानापेक्षया न्यून-

तापादने । तुलायां कूटं यस्य । २ तत्कारिणि पुरुषे च
“मानकूटं तुलाकूटं कण्टमोष्ठं निपीड़य” काशी०८ अ०
स्वकिङ्करं प्रति यमवाक्यम् ।

तुलाकोटि(टी) स्त्री तुलया तुलां वा कोटयति कुट--परि-

तापे--इन् वा ङीप् । नूपुरे, “तुलाकोटिक्वाणैः कुसुमश-
रमुज्जागरयति” उद्भटः । “स्खलत्तुलाकोटिनिनादको-
मलः” माघः ।

तुलाकोश पु० तुला कोश इव । तुलायां भाविशस्य हानिवृद्धि-

ज्ञापनार्थतुलारूपे मानदण्डभेदे वृ० स० वाक्यं तुलाशब्दे
दृश्यम् । २ तुलया परीक्षणे च मिता० ।

तुलादान न० तुलया स्वदेहमानेन दानम् । तुलापुरुषसंज्ञके

महादाने मत्कृततुलादानादिपद्धतौ तत्प्रयोमो दृश्यः ।

तुलाधट पु० तुलायै तोलनाय धटः । तुलाधारदण्डे त्रिका०

तुलाधर त्रि० तुलाया मानदण्डस्य धरः धृ--अच् । १ बाणिजके,

२ तुलाराशौ, ३ तुलादण्डधारके त्रि० मेदि० ।

तुलापुरुष पु० षोड़शसु महादानेषु आद्ये माहादाने तत्-

प्रकारः मत्स्यपु० २७३ अ० उक्तो यथा “अथातः सम्प्रवक्ष्यामि
महादानानुकीर्तनम्” इत्युपक्रमे । “आद्यन्तु सर्वदा-
नानां तुलापुरुषसंज्ञकम्” महादानानि विभज्य उक्तं यथा
“मत्स्य उवाच । यानि नोक्तानि गुह्यानि महादानानि
षोड़श । तानि ते कथयिष्यामि यथावदनुपूर्वशः ।
तुलापुरुषयागोऽयं येषामादौ विधीयते । अयने विषवे
पुण्ये व्यतीपाते दिनक्षये । युगादिषूपरागेषु तथा
मन्वन्तरादिषु । सङ्क्रान्तौ वैधृतिदिने चतुर्दश्य-
ष्टमीषु च । सितपञ्चदशीपर्वद्वादशीष्वष्टकासु च ।
यज्ञोत्सवविवाहेषु दुःखप्नाद्भुतदर्शने । द्रव्यब्राह्मण
लाभे वा श्रद्धा वा यत्र जायते । तीर्थे वायतने वापि
तड़ागे रुचिरे तथा । महादानानि देयानि संसार-
भयभीरुणा । अनित्यं जीवितं यस्मात् वसु चातीव
चञ्चलम् । केशेष्वेव गृहीतः सन् मृत्युना धर्म्ममा-
चरेत् । पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।
षोड़शारत्निमात्रन्तु दश द्वादश वा करान् । मण्डपं
कारयेद्विद्वान् चतुर्भद्रासनं बुधः । सप्तहस्ता भवेद्वेदी मध्ये-
पञ्चकरा तथा । तत्मध्ये तोरणं कुर्य्यात् सारदारुमयं
बुधः । कुर्य्यात् कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः ।
समेखलायोनियुतानि कुर्य्यात् सम्पूर्णकुम्भानि
सहासनानि । सुताम्रपात्रद्वयसंयुतानि सयज्ञपात्राणि
सुविष्टराणि । हस्तप्रमाणानि तिलाज्यधूपपुष्पोपहा-
राणि सुशोभनानि । पूर्वोत्तरे हस्तमिताथ वेदी ग्रहा-
दिदेवेश्वरपूजनाय । अत्रार्चनं ब्रह्मशिवाच्युतानां तत्रैव
कार्य्यं फलमाल्यवस्त्रैः । लोकेशवर्णाः परितः पताका-
मध्ये ध्वजः किङ्किणिकायुतः स्यात् । द्वारेषु कार्य्याणि
च तोरणानि चत्वार्य्यपि क्षीरवनस्पतीनाम् । द्वारेषु
कुम्भद्वयमत्र कार्य्यं स्रग्गन्धधूपाम्बररत्नयुक्तम् । शालेङ्गुदी
चन्दनदेवदारुश्रीपर्णिविल्वप्रियकाञ्चनोत्थम् । स्तम्भद्वयं
हस्तयुगावस्वातं कृत्वा दृढ़ं पञ्चकरोच्छ्रितञ्च । तदन्तरं
हस्तचतुष्टयं स्यादथोत्तराङ्गञ्च तदङ्गमेव । समानजातिश्च
तुलावलम्ब्या हैमेन मध्ये पुरुषेण युक्ता । दैर्घ्येण
सा हस्तचतुष्टयं स्यात् पृथुत्वमस्यास्तु दशाङ्गुलानि ।
सुवर्णषट्टाभरणा तु कार्य्या सा लोहपाशद्वयशृङ्खलाभिः ।
युता सुवर्णेन तु रत्नमालाविभूषिता माल्यविलेपनाभ्याम् ।
चक्रं लिखेद्वारिजगर्भयुक्तं नानारजोभिर्भुवि पुष्पकी-
र्णम् । वितानकञ्चोपरि षञ्चवर्णं संस्थापयेत् पुष्पफ-
लोपशोभम् । अथर्त्विजो वेदविदश्च कार्य्याः सुरूपके-
पृष्ठ ३३३५
शान्वयशोलयुक्ताः । विधानदक्षाः पटवोऽनुकूला ये
चार्य्यदेशप्रभवा द्विजेन्द्राः । गुरुश्च वेदान्तविदार्य्यवंशसमु-
द्भवः शीलकुलाभिरूपः । पुराणशास्त्राभिरतोऽतिदक्षः
प्रसन्नगम्भीरसरस्वतीकः । सिताम्बरः कुण्डलहेमसूत्र
केयूरकण्ठाभरणाभिरामः । पूर्वेण ऋग्वेदविदावथास्तां
भजुर्विदौ दक्षिणतश्च शस्तौ स्थाप्यौ द्विजौ सामविदौ
तु पश्चादाथर्वणाबुत्तरतस्तु कार्य्यौ । विनायकादिग्र-
हलोकपालवस्वष्टकादित्यमरुद्गणानाम् । ब्रह्माच्युते-
शार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात् । जप्यानि
सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूपम् ।
होमावसाने कृततूर्य्यनादो गुरुर्गृहीत्वा वलिपुष्पधूपम् ।
आवाहयेल्लोकपतीन् क्रमेण मन्त्रैरमीभिर्यजमानयुक्तः ।
एह्येहि सर्बामरसिद्धसाध्यैरभिष्टुतोवज्रधराऽमरेश! ।
संवोज्यमानोऽप्सरसाङ्गणेन रक्षाध्वरन्नो भगवन्नमस्ते
(इन्द्रस्य) । एह्येहि सर्वामरहव्यवाह! मुनिप्रवीरैरभितोऽ-
भिजुष्ट! । तेजस्विना लोकगणेन सार्द्धं ममाध्वरं रक्ष
कवे! नमस्ते” (अग्नेः) । एह्येहिवैवस्वत! धर्म्मराज!
सर्वामरैरर्चितदिव्यमूर्त्ते! । शुभाशुभानन्दशुचामधीश ।
शिवाय नः पाहि मखं नमस्ते” (यमस्य) । एह्येहि
रक्षोगणनायकस्त्वं सर्वैस्तु वेतालपिशाचसङ्घैः ।
ममाध्वरं पाहि शुभाधिनाथ! लोकेश्वरस्त्वं
भगवन्नमस्ते (नैरृतस्य) । एह्येहि यादोगणवारिधीनाङ्ग
णेन पर्जन्यमहाप्सरोभिः । विद्याधरेन्द्रामरगीयमान!
पाहि त्वमस्मान् भगवन्नमस्ते (वरुणस्य) । एह्ये
हि यज्ञे मम रक्षणाय मृगाधिरूढ़ः सह सिद्धसङ्घैः ।
प्राणाधिपः कालकवेः सहायः गृहाण पूजां भगवन्नमस्ते
(वायोः) । एह्येहि यज्ञेश्वर! यज्ञरक्षां विधत्स्व नक्षत्र-
गणेन सार्द्धम् । सर्वौषधीभिःपितृभिः सहैव गृहाण पूजां
भगवन्नमस्ते (सोमस्य) । एह्येहि विश्वेश्वर! नस्त्रिशूल
कपालखष्ट्वाङ्गधरेणसार्द्धम् । लोकेश! यज्ञेश्वर! यज्ञसिद्ध्यै
गृहाण पूजां भगवन्नमस्ते (ईशस्य) । एह्येहि पाताल-
धराधरेन्द्र! नागाङ्गनाकिन्नरगीयमान! । यक्षोरगेन्द्रा-
मरलोकसङ्घैरनन्त! रक्षाध्वरमस्मदीयम्” । (अनन्तस्य)
एह्येहि विश्वाधिपते! मुनीन्द्र लोकेन सार्द्धं पितृदेवताभिः ।
सर्वस्य धातास्यमितप्रभाव! विशाध्वरन्नो भगवन्नमस्ते
(ब्रह्मणः) । त्रैलोक्ये यानिमूतानि स्थावराणि चराणि च
ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । ऋषयो मनवोगावो
देवमातर एव च । सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदा-
न्विताः । इत्यावाह्य सुरान् दद्यादृत्विग्भ्यो हेमभूष-
णम् । कुण्डलानि च हैमानि सूत्राणि कटकानि च ।
अङ्गुलीयपवित्राणि वासांसि शयनानि च । द्विगुणं
गुरवे दद्याद्भूषणाच्छादनानि च । जपेयुः शान्तिका-
ध्यायं जापकाः सर्वतोदिशम् । तत्तोषितास्तु ते सर्वे
कृत्वैवमधिवासनम् । आदावन्ते च मध्ये च कुर्य्याद्-
ब्राह्मणवाचनम् । ततो मङ्गलशब्देन स्नापितो वेदपु-
ङ्गवैः । त्रिःप्रदक्षिणमावर्त्य गृहीतकुसुमाञ्जलिः ।
शुक्लमाल्याम्बरोभूत्वा तां तुलामभिमन्त्रयेत् । नमस्ते
सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता । साक्षिभूता
जगद्धात्री निर्भिता विश्वयोनिना । एकतः सर्वसत्यानि
तथानृतशतानि च । धर्म्माधर्म्मकृतां मध्ये स्थापितासि
जगद्धिते! । त्वं तुले! सर्वभूतानां प्रमाणमिह कीर्त्तिता ।
मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते । योऽसौ-
तत्त्वाधिपोदेवः पुरुषः पञ्चविंशकः । स एकोऽधिष्ठितो-
देवि! त्वयि तस्मान्नमोनमः । नमोनमस्ते गोविन्द!
तुलापुरुषसंज्ञक! । त्वं हरे! तारयस्वास्माम्महा-
ससारकर्दमात् । पुण्यकालं समासाद्य कृत्वैवमधिवा-
सनम् । पुनः प्रदक्षिणं कृत्वा तुलामारोहयेद्बुधः ।
सस्वड़्गचर्मकवचः सर्वाभरणभूषितः । धर्म्मराजमथा-
दाय हैमं सूर्य्येण संयुतम् । कराभ्यां बद्धममुष्टिभ्या-
मास्ते पश्यन् हरेर्मुखम् । ततोऽपरे तुलाभागे न्यसे-
युर्द्विजपुङ्गवाः । समादभ्यधिकं यावत् काञ्चनं चाति-
निर्मलम् । पुष्टिकामस्तु कुर्यीत भूमिसंस्थं नरेश्वरः । क्षण-
मात्रं ततः स्थित्वा पुनरेवमुदीरयेत् । नमस्ते सर्व-
भूतानां साक्षिभूते! सनातनि! । पितामहेन देवि!
त्वं निर्मिता परमेष्ठिना । त्वया धृतं जगत्सर्वं
सहस्थावरजङ्गमम् । सर्वभूतात्मभूतस्थे! नमस्ते विश्वधा-
रिणि! । ततोऽवतीर्य्य गुरवे पूर्वमर्द्धं निवेदयेत् ।
ऋत्विग्भ्योऽपरमर्द्धन्तु दद्यादुदकपूर्वकम् । गुरवे ग्राम-
रत्नानि ऋत्विग्भ्यश्च निवेदयेत् । प्राप्य तेषामनुज्ञां तु
तथान्येभ्योऽपि दापयेत् । दीनानाथविशिष्टादीन्
पूजयेद्ब्राह्मणैः सह । न चिरं धारयेद्गेहे सुवर्णं प्रोक्षितं
बुधः । तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम् ।
शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति मानवः । अनेन
विधिना यस्तु तुलापुरुषमाचरेत् । प्रतिलोकाधिपस्थाने
प्रतिमन्वन्तरं वसेत् । विमानेनार्कबर्णेन किङ्किणीजाल-
पृष्ठ ३३३६
मालिना । पूज्यमाबोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत् ।
कल्पकोटिशतं यावत्तस्मिन् लोके महीयते । कर्म्मक्ष-
यादिह पुनर्भुवि राजराजो भूपालमौलिमणिरञ्जित-
पादपीठः । श्रद्धान्वितो भवति यज्ञसहस्रयाजी दीप्त-
प्रतापजितसर्बमहीपलोकः । यो दीयमानमपि पश्यति
भक्तियुक्तः कालान्तरे स्मरति वाचयतीह लोके । यो
वा शृणोति पठतीन्द्रसमानरूपः प्राप्तोति धाम सपुरन्द-
रदेवजुष्टम्” । अन्यविधानं हेमा० दा० वृश्यम् एतत्
प्रयोगस्तु मत्कृततुलादानादिपद्धतौ दृश्यः ।
२ व्रतभेदे । तच्चव्रतं पञ्चदशदिमसाध्यमेकविंशतिदिन-
साध्यञ्च यथा ।
“पिन्याकाचमतक्रोदकलक्तूनामुपवासान्तरितोऽभ्य-
व्यवहारास्तुलापुरुषः” । विष्णु० स० । “पिन्याका-
चामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च
कृच्छ्रः सौम्योऽयमुच्यते” इत्युपक्रमे “एषां त्रिरात्र-
मभ्यासादेकैकस्य यथाविधि । तुलापुरुष इत्येष ज्ञेयः
पञ्चदशाहिकः” । एषां पिन्याकादीनां पञ्चानां क्रमे-
नैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः
कृच्छ्रो वेदितव्यः । अत्र पञ्चदशाहिकत्वविधानादुप-
वासस्य निवृत्तिः । यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष
उक्तः “आचाममथ पिन्याकं तक्रञ्चोदकसक्तुकान् । त्र्यहं
त्र्यहम्भयुञ्जानो वायुभक्षस्त्र्यहद्वयम् । एकविंशति-
रात्रन्तु तुलापुरुष उच्यते इति” ।

तुलाप्रग्र(ग्रा)ह पु० प्र + ग्रह वा घञ् पक्षे अप् ६ त० । १ तुला-

सूत्रे सि० कौ० ।

तुलामान न० तुलार्थं तोलनार्थं मानं मीयतेऽनेन मा--करणे ल्युट् । १ तुलादण्डे शब्दार्थचि० ।

तुलायष्टि स्त्री ६ त० । १ तुलादण्डे । “स्तोकेनोन्नतिमा-

याति स्तोकेनायात्यधीगतिम् । अहो हसदृशी चेष्टा
तुलायष्टेः खलस्य च” पञ्चत० ।

तुलावीज न० तुलायाः तोलनस्य वीजं मूलम् । १ गुञ्जायाम्

तदारभ्यैव हि मानं शास्त्रे दर्शितं यथा “दर्शार्द्धगुञ्जं
प्रवदन्ति माषमिति” लीला०

तुलासूत्र न० तुलार्थं तोलनार्थं सूत्रम् । तोजनार्थं तुलादण्डस्थितसूत्रे प्रग्रहे अमरः ।

तुलि(ली) स्त्री तुरि(री) + रस्य लः । तुर्य्यां शब्दरत्ना० ।

तुलिका स्त्री तुल--बा० क्युन् । खञ्जनिकायां त्रिका० ।

तुलित त्रि० तुला + तत्करोति णिच्--कर्मणि क्त । १ परिमिते

“येऽपीन्द्रपाणितुलितायुधलूनपक्षाः” माघः । २ सदृशीकृते

तु(तू)लिनी स्त्री तूलं विद्यते फलेऽस्या इनि ङीप् वा

पृषो० ह्रस्वः । १ शाल्मलिवृक्षे रत्नमाला ।

तु(तू)लिफला स्त्री तुलि तूलयुक्तं फलमस्याः वा पूषो० ।

१ शाल्मलीवृक्षे रत्नमाला ।

तुल्य त्रि० तुलया सम्मितं यत् । १ सदृशे अमरः । “सकामां

दूषयंस्तुल्यो न बधं प्राप्नुयान्नरः” । “सकामां दूषयं स्तु-
ण्षोनाङ्गुलिच्छेदमाप्नुयात् मनुः” । “कुम्भकर्णः कपीन्द्रेण
तुल्यावस्थः स्वसुःकृतः” रघुः ।

तुल्यपान न० तुल्येन सजातीयेन सह पानम् । सजातीयैर्बहुभिरेकत्र पाने अमरः ।

तुल्ययोगिता स्त्री अर्षालङ्कारभेदे अलङ्कारभेदे अलङ्कार-

शब्दे ३९९ पृ० दृश्यम् ।

तुल्यशस् अव्य० तुल्य + वीप्सार्थे शम् ।

तुल्यं तुल्यमित्यर्थे । “विम्बीलोटाच्च तुल्यशः” सुश्रु० ।

तुल्वल पु० ऋषिभेदे । तौल्वलिशब्दे दृश्यम् ।

तुवर पु० तवति हिनस्ति रोगान् सौ० तु--ष्वरच् नि० गुणा-

भावः । १ धान्यभेदे २ कषायरसे च ३ तद्वति त्रि० ४ आढ़-
क्याम् ५ सौराघ्रमृत्तिकायाञ्च स्त्री षित्त्वात् ङीष् स्वार्थे
क तुवरिकाप्यत्रैव । रसभेदे पुंस्त्री तद्वति त्रि० अमरः ।
६ श्मश्रुहीने नरे उणा० ।

तुवरयावनाल पु० कर्म० घान्यभेदे राजनि० । “तुवरो

यावनालस्तु कषायोष्णो विरेचकः । संग्राही वातशमनो
विदाही शोषकारकः” राजनि० ।

तुवरिका स्त्री० तुवरोऽस्त्यस्याः ठन् । १ सौराष्ट्रमृत्तिकायां

(फटकिरि) अमरः । २ आढक्यां (अरहर) भरतः ।

तुवरी स्त्री तु + ष्वरच् षित्त्वात् ङीष् । १ आढक्यां २ सौरा-

ष्ट्नमृत्तिकायाञ्च(फिट्करि) राजनि० । (तोरी) इति
३ धान्यभेदे भावप्र० तद्गुणास्तत्रोक्ता यथा । “तुवरी
ग्राहिणी शीता लघ्वी कफविषास्मजित् । तीक्ष्णोष्णा
वह्निदा कण्डूकुष्ठकोठकृमिप्रणुत्” ।

तुवरीशिम्ब पु० तुवर्य्या आढ़क्या इव शिम्बा यस्य । रक्तचक्रमर्दने शब्दच० ।

तुवि स्त्री० तुम्बी + पृषो० । १ तुम्ब्यां । तु--पूर्त्तौ इन् किच्च ।

२ वहुशब्दार्थे निघण्टुः । “तुविकूर्मिरृथावान्” ऋ०
३ । ३० । ३ । कृ--मि वेदे गुणे अकारस्थोत्त्वम् “तुविग्राभं
तुविकूर्मिं रभोदाम्” ऋ० ६ । २२ । ५ । “ग्रहेरण् ।
तुविग्राभं बहुग्राहकम्” भा० “तुविशुष्म! तुवि-
क्रतो!” ऋ० ८ । ६८ । २ वा ङीप् । “सहस्रेषु तुवीमघ!”
ऋ० १ । २९ । १ । तुवीमघ कथञ्चन” “स इद्दासं तुवीरवम्”
ऋ० १० । ९९ । ६ ।
पृष्ठ ३३३७

तुविस् न० तु--वृद्धौ षूर्त्तौ वा इसि किच्च । १ वृद्धौ २ प्रज्ञायां

३ बले च । “यः सप्तरश्मिर्वृषभस्तुविष्मान्” ऋ० २ । १२ ।
१२ । “तुविष्मान् वृद्धिमान् बलवान् वा” भा० । “भीमस्तु-
विष्मान् चर्षणिभ्यः” १ । ५५ । १ । “तुविष्मान् प्रज्ञावान्
वलवान् वा” भा० । बलेन प्रज्ञया च वृद्धेः पूर्त्तेश्च सम्भ-
वात् बलप्रज्ञयोस्तथात्वम् ।

तुवीरवत् त्रि० तुवी मत्वर्थीवोरः ततो मतुप् मस्य वः ।

बहुस्तोवृयुक्ते । “रथा कविस्तुवीरवान्” ऋ० १० । १६४ ।
४ । “तुवीरवान् बहुस्तोतृयुक्तो भवति । मत्वर्थीयप्रत्यया-
वृत्तिः । यद्वा तुविशब्दस्य रो मत्वर्थीयः । बाहुल्ययु-
क्तदेवैः सहितो भवति” भा० ।

तुश बधे भ्वा० आ० सक० सेट् । तोशते अतोशिष्ट तुतुशे ।

“इन्दुरिन्द्राय तोशते नितोशते” ऋ० ९ । १०९ । २२ “इन्दुः
णोम इन्द्रायेन्द्रार्थं तोशते” तोशते हन्यते अभिषूयते ।
नितोशते नितरामभिषूयते । तोशतिर्बधकर्म्मा” भा०
कर्मकर्त्तरि तङ् । यगभावश्छान्दसः । “सत्रात्वं
पुरुष्टुतं एको वृत्राणि तोशसे” । ऋ०८ । १५ । ११ । तोशसे
हिनस्ति” भा० ।

तुष तोषे आनन्दभेदे दि० ष० ऌदित् अक० सेट् । तुष्यति

अतुषत् । तुतोष । ञीदित् वर्त्तमाने क्तः तुष्टः ।
तुष्टिः । तोषः “तुष्य द्रौपदि! मा क्रुघ” भा० व०
११०९ श्लो० “तुष्यन्ति च रमन्ति च” भा० आनु०
१२७६ श्लो० “तुतोष पश्यन् वितृणान्तरालाः” भट्टिः ।

तुष पु० तुष--क । १ विभीतकवृक्षे (वयड़ा) २ धान्यत्वचि स्वनाम-

ख्याते द्रव्ये च अमरः । “व्रीहीन् जिहासति
सितोत्तमतण्डुलाद्यान् को नाम भोस्तुषकणोपहितान्
हिताथी” प्रबो० च० । “तुषेणापि परित्यक्ता न प्ररो-
हन्ति तण्डुलाः” हितो० । “सतुषं धानयमुच्यते” आ० त० ।

तुषग्रह पु० तुषेण गृह्यते ग्रह--कर्मणि अप् । वह्नौ त्रिका०

तुषज त्रि० तुषे जायते जन--ड । तुषजाते वह्न्यादौ ।

अस्य “दीर्घकाशतुषवटं जे” पा० आद्युदात्तता ।

तुषधान्य न० तुषावृतं धान्यं शा० त० । तुषावृते सतुषे

धान्ये । “तुषधान्यतोक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः” ।
“परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च” । वृ० स० १५ अ० ।

तुषसार पु० तुषं सरति अनुसरति सृ--अण् । वह्नौ शब्दमा०

तुषानल पु० तुषस्यानलः । तुषजाते अग्नौ । तुषाग्न्याद-

योऽप्यत्र ।

तुषाम्बु न० तुषोदकशब्दार्थे “तुषाम्बु दीपनं पाण्डु

कृभिरोगगदापहम् । तीक्ष्णोष्ण पाचनं पित्तरक्तकृद्वस्ति-
शूलहृद्” भावप्र० ।

तुषार पु० तोषयति तुष--अन्तर्भूतण्यर्यात् आरन् किच्च ।

१ देशभेदे । (त्खार) शब्दे दृश्यम् तत्र तुखारा इत्यत्र
तुषारा इति पाठान्तारम् । २ हिमकणभेदे नीहारे
हेमच० । ३ शीतलस्पर्शे अमरः ४ तष्ट्वति त्रि० ।
“अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः खदते
तुषारा” नैष० “प्रपतत् तुषारो हेमन्तकालः” ऋतुस०
५ कर्पूरभेदे राजनि० । “जनस्तुषाराञ्जगपर्वताविय”
“स्यपनवारितुषारभृतस्तनाः” माघः । “आचचाम
सतुषारशीकरः” रघुः । “पदं तुषारस्रुतिधौतरक्तम्”
कुमा० । “लथुतुषारतुषारजलश्च्युतम्” किरा० ।

तुषारकर पु० तुषारो हिमः करोऽस्य । १ हिमकरे चन्द्रे

तुषारकिरणादयोऽप्यत्र । “कलया तुषारकिरणस्य
पुरः” माथः । २ कर्पूरे च ।

तुषारगिरि पु० ६ त० । १ हिमालये “तुषारगिरिकूटाभं

सिताभ्रशिखरोपमम्” भा० अनु० १४ अ० । तुषाराच-
लादयोऽप्यत्र ।

तुषित पु० तुष--या० कितच्--तुष--सम्प० क्विप् ततः

तारका० इतच् वा । १ गणदेवताभेदे ते च द्वादश । किन्तु
मन्वन्तरभेदे भिन्ननामानः यथा “चाक्षुवस्यान्तरे पूर्वमासन्
ये तुषिताः सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश
स्मृताः” हरिवं० ३ अ० । तथा च आदित्यरूपा द्वादश १३
“प्राणापानावुदानञ्च समानो व्यान एव च । चक्षुः
श्रोत्ररसाघ्राणस्पर्शे बुद्धिर्मनस्तथा । द्वादशैते तु तुषिताः
देवाः स्वारोचिषेऽन्तरे” सारसुन्दरोधृतवाक्योक्ता द्वा-
दश१२ “तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिड़स्पतिः ।
इध्मः कविर्विभुः स्वाहा नुदेवो रोचनो द्विषट १२ । तुषिता
नाम ते देवा आसन् स्वायम्भुवेऽन्तरे” शब्दार्थचि०
धृतवाक्योक्ता द्वादश इति षट्त्रिंशत् । ये च द्वादशेति
मन्यन्ते ते एकैकमन्वन्तरापेक्षया द्वादशेति वर्णयन्ति ।
समष्ट्यमिप्रायेण षट्त्रिं शदिति विवेकः । तदभिप्रायेणैव
“षट्त्रिंशत्तुषिता मताः” इत्युक्तम् । २ विष्णौ पु० ।
“तुषित! महातुषितेत्यादि” भा० शा० ३४ अ० । विष्णुस्तुतौ ।

तुषोत्थ न० तुषादुत्तिष्ठति उद् + स्था--क ३ त० । १ तुषोदके

राजनि० ।

तुषोदक न० तुषमिश्रितमुदकं शा० त० । १ काञ्चिकभेदे

हारा० । तत्करणप्रकारो भावप्र० उक्तो यथा “तुषो-
दकं यवैरामैः सतुषैः शफलीकृतैः । यवैरुदकसहितैः
सन्धानवर्गोक्तत्वात्” । तुषान्युशब्दे तद्गुणादि दृश्यम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/तिरस&oldid=57765" इत्यस्माद् प्रतिप्राप्तम्