वाचस्पत्यम्/तिरस
तिरस अव्य० तॄ--असुन् स्वरादि । १ अन्तर्द्धाने २ तिर्य्यगर्थे च
तिरस्कर त्रि० तिरःकरोति कृ--ट । आच्छादके । स्त्रियां
तिरस्करिणी स्त्री तिरः करोति कृ--णिनि संज्ञापूर्बकविधे
तिरस्कार पु० तिरस् + कृ--भावे घञ् । १ अनादरे हला० ।
तिरस्कारिन् त्रि० तिरः करोति कृ--णिनि ६ त० । १ आच्छा-
तिरस्कृत त्रि० तिरस् + कृ--कर्म्मणि क्त । १ अवज्ञाते अनादृते
तिरस्क्रिया स्त्री तिरस् + कृ--भावे श । १ अनादरे २ तिरस्कारे
तिरस्य पु० तिरस् + कण्ड्वा० यक् अन्तर्द्धाने सक० सेट् । तिरस्यति अतिरस (स्यी)त् । तिरिट पु० तॄ--वा० इटक् । इक्षुग्रन्थौ शब्दमा० । तिरिम पु० तॄ--वा० इमक् । शालिभेदे राजनि० । तिरिष पु० तॄ--बा० इषक् । शालिभेदे राजनि० । तिरीट न० तॄ--ईटक् । लोध्रवृक्षे उज्जवलद० । तिरोटक पु० तिरीट + संज्ञायां कन् । लोध्रे अमरः । |
तिरोधान न० तिर + धा--भावे ल्युट् । १ अन्तर्द्धाने भावे
तिरोभाव पु० तिरस् + भू--भावे घञ् । १ गुप्तभावे २ अन्तर्द्धाने । तिरोहित त्रि० तिरस् + धा--क्त । १ अन्तर्हिते गुप्ते २ आच्छा-
तिर्य्यक्पातिन् त्रि० तिर्य्यक् पतति पत--णिनि । वक्र-
तिर्य्यक्प्रमाण न० कर्म्म० । विस्तारप्रमाणे । तिर्य्यक्स्रोतस् पु० तिर्य्यक् स्रोतो आहारसञ्चारो यस्य ।
तिर्य्यग्योनि स्त्री तिरश्चां योनिः पशुपक्ष्यादिजातौ
|
तिल गतौ भ्वा० पर० सक० सेट् । तेलति अतेलीत् । तितेल । तिल स्नेहे तु० पर० अक० अनिट् । तिलति अतेलीत् ।
तिल स्नेहे चुरा० उभ० अक० सेट् । तेलयति ते अतीतिलत् त । तिल पु० तिल--क । स्वनामख्याते शस्यभेदे । भावप्र० तद्गुणाद्युक्तं
|
तिलक न० तिल--क्कुन् तिल + इवार्थे स्वल्पे वा कन् वा ।
|
|
तिलकट न० तिलस्य रजः कटच् । तिलरजसि । तिलकल्क पु० तिलस्य कल्कः । १ पिण्याके (खलि) अमरः
तिलका स्त्री तिलं तिलपुष्पमिव कायति कै--क । हारभेदे
|
तिलकालक पु० तिल इव कालकः कृष्णः । १ देहस्थे २ तिला-
तिलकाश्रय पु० ६ त० । ललाटे शब्दार्थक० । तिलकिट्ट न० ६ त० । तिलपिण्याके “तिलकिट्टं तु रूक्षं
तिलकिन् त्रि० तिलक + अस्त्यर्थे इनि । तिलकधारिणि-
तिलचित्रपत्रक पु० तिलस्येव चित्रं पत्रमस्य कप् ।
तिलचूर्ण्ण न० ६ त० । चूर्णीकृततिले (तिलकुटा) १ खाद्य-
तिलतण्डुलक पु० तिलस्य तण्डुल इव कायति कै--क ।
तिलतेजा स्त्री तिल इव तेजयति चुरा० तिज--अच् ।
तिलन्तुद त्रि० तिलं तुदति तुद--खश् मुम् । तैलिके
तिलद्वादशी स्त्री तिलभोजनादिनियमयुक्ता द्वादशी । द्वादशीभेदे व्रतशब्दे दृश्यम् । तिलधेनु स्त्री० तिलनिर्म्मिता धेनुः शा० त० । विधानेन
तिलपर्ण्णष्ट पु० तिलस्येव पर्ण्णमस्य । १ श्रीवेष्टे वृक्षे राजनि० ।
|
तिलपर्ण्णी स्त्री तिलस्येव पर्ण्यान्यस्याः ङीप् । १ रक्तचन्दने ।
तिलपिञ्ज पु० पु० निष्फलस्तिलः तिल + पिञ्ज । निष्फलतिले
तिलपुष्पक पु० तिलस्येव पुष्पमस्य कप् । विभीतकवृक्षे
तिलपेज पु० निष्फलस्तिलः तिल + पेज । निस्फले तिले अम० । तिलभार पु० देशभेदे “तिलभाराः समीराश्च मधुमत्ताः
तिलमय त्रि० तिलस्य विकारः तिल + असंज्ञायां मयट् ।
तिलमयूर पुंस्त्री० तिलपुष्पचिह्नितः मयूरः शा० त० ।
तिलरस पु० ६ त० । तिलतैले । तिलशस् अव्य० तिलं तिलं तत्परिमितं करोतीति मानार्थ-
तिलशैल पु० दानार्थे कल्पिते दशसु अचलेषु अचलभेदे ।
|
तिलस्नेह पु० ६ त० । तैले शब्दार्थक० । तिलाङ्कितदल पु० तिलेनाङ्कितं दलमस्य । तैलकन्दे राजनि० । तिलान्न न० तिलमिं श्रितमन्नं शा० त० । तिलमिश्रितेऽन्ने कृशरे
तिलापत्या स्त्री तिलस्ये व क्षुद्रः अपत्यं वीजमस्याः । कृष्णजीरके शब्दार्थचि० । तिलित्स पु० तेलनं तिलिर्गतिस्तं त्सरति छद्मना गच्छति
तिलोत्तमा स्त्री अप्सरोभेदे “तिलोत्तमा नाम पुरा व्रह्मणो
तिलोदक न० तिलमिश्रितमुदकम् शा० त० । तिलमिश्रिते
|
तिलौदन पुंन० तिलमिश्रितः ओदनः । कृशरे हारा० ।
तिल्पिञ्ज पु० तिल + पिञ्ज--वेदे डिच्च । बन्ध्यतिले “इषीकां
तिल्य न० तिलानां भवनं क्षेत्रम् यत् । १ तिलभवनयोग्ये क्षेत्रे
तिल्ल गतौ भ्वा० पर० सक० सेट् । तिल्लते अतिल्लीत् । तितिल्ल । तिल्व पु० तिल--स्नेहे “उल्वादयश्चेति” उणा० नि० । १ लोध्रे
तिल्विल त्रि० तिल--स्नेहे वा० कुतिलुः स्निग्धा इलाभूमिर्यस्मिन् ।
तिष्ठद्गु अव्य० तिष्ठन्त्यो गावो यस्मिन् काले तिष्ठद्गुप्रभृतित्वात्
तिष्ठद्गुप्रभृति न० अव्ययीभावे निपातनाङ्गशब्दसमूहे स च
तिष्ठद्धोम स्त्री तिष्ठता होमो यत्र । यजतिरूपे यागभेदे
|
तिष्य पु० तुष्यन्त्यस्मिन् तुष--क्यप् नि० । १ पुष्यनक्षत्रे । त्विष-
तिष्यपुष्पा स्त्री० तिष्यं माङ्गल्यं पुष्पं यस्याः । आमलक्याम् शब्दर० । तिष्यफला स्त्री तिष्यं माङ्गल्यं फलमस्याः । आमलक्याम्
तिष्या स्त्री तिष्यं मङ्गलं हेतुत्वेनास्त्यस्या अच् । आमलक्यांम् शब्दरत्ना० । तिसृधन्व न० तिसृभिरिषुभिर्युतं धन्व धनुः वेदे अच्
तिहन् पु० तुह--अर्दने कनिन् नि० । १ व्याधौ २ व्रीहौ ३ धनुषि ४ सद्भावे च संक्षिसारः । तीक गतौ भ्वा० पर० सक० सेट् । तीकते अतीकिष्ट तितीके
तीक्ष्ण न० किज--क्स्न दीर्थश्च । १ खरे स्पर्थे २ विषे ३ लौहभेदे
|
तीक्ष्णक पु० तीक्ष्ण + संज्ञायां कन् । १ गौरसर्षपे, २ मुष्कके च राजनि० । तीक्ष्णकण्टक पु० तीक्ष्णः कण्टकोऽस्य । १ धुस्तूरे २ वर्वुरे,
तीक्ष्णकन्द पु० तीक्ष्णः कन्दो मूलमस्य । पलाण्डौ राजनि० तीक्ष्णकर्म्मन् त्रि० तीक्ष्णं कर्मास्य । १ तीव्रकार्य्यकरे आयः
तीक्ष्णकल्क पु० तीक्ष्णः कल्कोऽस्य । तुम्बुरुवृक्षे राजनि० । तीक्ष्णकान्ता स्त्री नि० कर्म्म० । तारादेव्याम् उग्रतारायाम् ।
तीक्ष्णगन्ध पु० तीक्ष्णः गन्धोऽस्य । १ शोभाञ्जनवृक्षे जटा० ।
तीक्ष्णगन्धा स्त्री तीक्ष्णः गन्धोऽस्याः । १ वचायां, २ राजि-
तीक्ष्णतण्डुला स्त्री० तीक्ष्णास्तण्डुला यस्याः । पिप्पल्याम् रत्नमा० । तीक्ष्णतैल न० तीक्ष्णस्य स्नेहः तैलच् । १ स्नुहीक्षीरे,
तीक्ष्णदंष्ट्र पुं स्त्री तीक्ष्णा दंष्ट्रास्य । १ व्याघ्रे राजनि० स्त्रियां
तीक्ष्णधार पु० तीक्ष्णा धारास्य । १ खड्गे “असिर्विशसनः
|
तीक्ष्णपत्र पु० तीक्ष्णानि पत्राण्यस्य । १ तुम्बुरुवृक्षे राजनि० ।
तीक्ष्णपुष्प न० तीक्ष्णं पुष्पमस्य । १ लवङ्गे । २ केतक्यां स्त्री
तीक्ष्णफल पु० तीक्ष्णं फलमस्य । १ तुम्बुरुवृक्षे राजनि० ।
तीक्ष्णमूल पु० तीक्ष्णं मूलमस्य । १ शोभाञ्जने २ कुलञ्जने च
तीक्ष्णरश्मि पु० तीक्ष्णा रश्मयोऽस्य । तिग्मांशौ १ सूर्य्ये
तीक्ष्णरस पु० तीक्ष्णो रसोऽस्य । १ यवक्षारे रत्नमा० ।
तीक्ष्णलौह न० नि० कर्म्म० । (इस्पात) लौहभेदे । तीक्ष्णशूक पु० तीक्ष्णः शूकोऽग्रं यस्य । १ यवे । २ खरशूक-
तीक्ष्णसारा स्त्री तीक्ष्णः कठिनः सारोऽस्याः । १ शिंशपा-
तीक्ष्णा स्त्री तीक्ष्ण + टाप् । १ वचायां २ सर्पकङ्कालिकायाम्
तीक्ष्णायस न० नि० कर्म्म० अच् समा० । लौहभेदे (इस्-
तीम क्लेदने दिवा० पर० अक० सेट् । तीम्यति अतीमीत् । तितीम । तीर पारगतौ कर्म्मसमाप्तौ च अद० चुरा० उभ० अक० सेट् ।
|
तीर न० तीर--अच् । नद्यादेः १ कूले । २ सोसके पु०
तीरग्रह पु० देशभेदे “तीरग्रहाः सूरसेनाः ईजकाः कन्यकाः
तीरभुक्ति पु० (त्रिहोत) देशभेदे त्रिका० । तीरु पु० तॄ--बा० क्रु । शिवे “नमस्तेऽभीषुहस्ताय तीरु-
तीर्ण त्रि० तृ--क्त । १ उत्तीर्णे, २ अभिभूते, ३ आप्लुते च ।
तीर्णपदी स्त्री तरतेः कर्तरि क्तः । तीर्णः पादो मूलमस्याः
तीर्णा स्त्री प्रतिष्ठाख्यवृत्तिविशेषे यथा “यस्मिन् वृत्ते कर्णः
तीर्थ न० तॄ--थक् । १ शास्त्रे २ यज्ञे ३ क्षेत्रे ४ उपाये ५ नारीरजसि
|
|
|
|
|
|
|
|
|
|
|
|
|
तीर्थकर पु० तीर्थं शास्त्रं करोति कृ--ट । १ जिने हेमच० ।
|
तीर्थकाक पु० तीर्थे काक इव लोलुपत्वात् । तीर्थे
तीर्थकृत् पु० तीर्थं करोति कृ--क्विप् ६ त० । १ जिनदेवे
तीर्थङ्कर पु० तीर्थं शास्त्रं करोति कृ--ख मुम् च । जिनदेवे हेमच० । तीर्थदेव पु० तीर्थमिव श्रेष्ठः देवः तोर्थे दीव्यति वा
तीर्थमहाह्रद पु० तीर्थरूपो महाह्रदः । स्वनामख्याते
तीर्थयात्रा स्त्री तीर्थ मुद्दिश्य यात्रा । १ तीर्थोद्देशेन यात्रा-
तीर्थराज पु० तीर्थानां राजा षच्समा० । प्रयागे तीर्थे । तीर्थराजिशब्दे उदा० तीर्थराजि(जी) स्त्री तीर्थानां राजिरत्र । अविमुक्ते
|
|
|
|
|
|
|
|
तीर्थवाक पु० तीर्थस्येव वाको वचनमस्य उत्ताङ्गस्थित्या प्रशंसनीयत्वात् । केशे हेमच० । तीर्थशौच न० तीर्थस्य घट्टस्य शौचं परिष्कारः । घट्टादि-
तीर्थसेनि स्त्री कुमारानुचरमातृभेदे । “माधवी शुभवक्त्रा च
तीर्थसेविन् पुंस्त्री० तीर्थं जलप्रान्ते सेवते मत्स्याहारार्थं
तीर्थ्य पु० तीर्थे भवः यत् । रुद्रभेदे । “नमस्तीर्थ्याय च
तीव स्थौल्ये भ्वा० पर० अक० सेट् । तीवति अतीवीत् । तितीव । तीवर पु० तॄ--ष्वरजन्तः नि० । १ समुद्रे, २ व्याधे, ३ वर्णसङ्करजा-
तीव्र न० तीव--रक् तिज--वन् दीर्घः जस्य वो वा । १ अतिशये
|
तीव्रकण्ठ पु० तीब्रः कण्ठो यस्मात् ५ ब० । सेवनेन कण्ठ-
तीव्रकन्द पु० तीव्रः कन्दोऽस्य । शूरणे राजनि० । तीव्रगन्धा स्त्री तीव्रो गन्धो यस्याः । यवान्यां राजनि० ।
तीव्रज्वाला स्त्री तीव्रं यथा तथा ज्वालयति उद्वेजयति
तीव्रदारु न० कर्म्म० । १ तीव्रे दारुणि । तस्य विकारः
तीव्रबन्ध पु० तीव्रो वन्धो यस्मात् । तामसगुणे “दैवी सम्पद्-
तीव्रवेदना स्त्री कर्म्म० । घोरायां यातनायाम् अमरः । तीव्रसंवेग पु० कर्म्म० । तीव्रवैराग्ये तीव्रशब्दे दृश्यम् । तीव्रा स्त्री तीव्र + टाप् । १ गण्डदूर्वायां २ कटुरोहिण्यां ३
तीव्रानन्द तीव्र आनन्दीऽस्य । शिवे शिवसहस्रनाम । तु वृत्तौ (वृद्धौ पा०) अक० हिंसायां पूर्त्तौ च सक० अदा० पर०
|
तु अव्य० तुद--मितद्रु० डु । १ पादपूरणार्थे निरर्थके । “निर-
तुकाक्षीरी स्त्री तुगाक्षीरी + पृषो० । वंशरोचनायाम् हेम० । तुक्ष त्रि० तुष--बा० कुस । तोषयुक्ते ततः पक्षा०
तुखा(षा)र पु० विन्ध्यपर्वतस्थे जातिभेदे । “ये चान्ये विन्ध्यनि-
तुगा स्त्री तुज--बा० घ किच्च । वंशरोचनायां राजनि० । तुगाक्षीरी स्त्री तुगैव क्षीरी । वंशरोचनायाम् राजनि० । तुग्र न० तुज--रक् न्यङ्क्वा० जस्य गः । अश्विनीकु-
|
तुग्र्य्या स्त्री तुज--रक् न्यङ्क्वा० कुः स्वार्थे यत् । १ जले
तुग्वन् त्रि० तुज--बा० क्वनिप् न्यङ्क्वा० जस्य गः । १ हिंसके ।
तुङ्ग पु० तुजि--हिंसायां घञ् न्यङ्क्वा० कुः । १ पुन्नागवृक्षे २ पर्वते
|
तुङ्गक पु० तुङ्ग + स्वार्थे क संज्ञायां कन् वा । १ पुन्नाग-
तुङ्गकूट पु० तुङ्गं कूटमस्य । उच्चशृङ्गे पर्वतभेदे । तुङ्गनाभ पु० तुङ्गो नाभिरस्य । कीटभेदे । तुङ्गीनासशब्दे
तुङ्गभ न० कर्म्म० । सूर्य्यादीनामुच्चराशौ मेषादौ
|
तुङ्गभद्र पु० तुङ्गोऽपि भद्रः । १ मदोत्कटकरिणि दक्षिणस्थे
तुङ्गवीज न० तुङ्गस्य शिवस्य वीजम् । १ पारदे । “तुङ्गवीज-
तुङ्गवेणा स्त्री नदीभेदे “तुङ्गवेणा कृष्णवेणा कपिला शोण
तुङ्गरस पु० तुङ्गः श्रेष्ठो रसोऽस्य । गन्धद्रव्यभेदे “काला-
तुङ्गशेखर पु० तुङ्गमुच्चशेखरमस्य । १ पर्वते शब्दमा० । २ उच्चशेख-
तुङ्गा स्त्री तुङ्ग + टाप् । १ वंशलोचनायां २ शम्याञ्च राजनि० । तुङ्गिन् त्रि० तुङ्गं मेषादिकं स्थानमाश्रयत्वेनास्त्यस्य इनि ।
तुङ्गी स्त्री तुङ्ग + गौरा० ङीष् । १ हरिद्रायां २ वर्वरायां मेदि० । ३ रात्रौ शब्दार्थचि० । तुङ्गीनास पु० तुङ्गी हरिद्रेव पीता नासाऽस्य । १ कीटभेदे ।
तुङ्गीपति पु० तुङ्ग्याः रात्रेः पतिः । निशापतौ चन्द्रे त्रिका० तुङ्गीश पु० कर्म्म० । १ शिवे २ कृष्णे ३ सूर्य्ये च शब्दर०
तुच् पु० त्वच--क्विप् बा० संप्रसा० तुज--क्विप् वा पृषो० जस्य
तुच्छ न० तुद--सम्प० क्विप् तुदा व्यथया छति छो--क ।
|
तुच्छद्रु पु० कर्म्म० । एरण्डवृक्षे शब्दच० । तुच्छधान्यक न० कर्म्म० । (भुसी) पुलाकु अमरः । तुच्छ्य न० तुच्छ--वेदे स्वार्थे इवार्थे वा यत् । १ तुच्छशब्दार्थे २ तुच्छ-
|
तुज दीप्तौ चुरा० उभ० अक० सेट् इदित् । तुञ्जयति--ते
तुज प्रापणे हिंसायाञ्च भ्वा० पर० सक० बले अक० सेट्
तुज हिसायां भ्वा० पर० सक० सेट् । तोजति अतोजीत् ।
तुञ्ज पु० तुजि--बले अच् । वज्रे निघण्टुः । तुट कलह तुद० कुटा० पर० अक० सेट् । तुटति अतुटीत्
तुटितुट पु० शिवे । “नमस्तुण्डाय तुट्याय नमस्तुटितुटाय च” हरिवं० २७७ अ० । तुटुम पुंस्त्री० तुट--वा० उम । उन्दुरौ त्रिका० । तुड भेदे तु० कुटा० पर० सक० सेट् । तुडति अतुडीत् तुतोड । तुड निष्पीड़ने भ्वा० आ० सक० सेट् इदित् । तुण्डते
तुड द्विधाकरणे भ्वा० पर० सक० सेट् । तोडति अतोडीत्
तुडि स्त्री तुड--इन् किच्च । तोड़ने । तुड्ड अनादरे भ्वा० पर० सक० सेट् । तुड्डति अतुड्डीत् ।
|
तुण कुटिलीकरणे तु० पर० सक० सेट् । तुणति अतोणीत् ।
तु(तू)णि पु० तूण + सङ्कोचे इण् बा० पृषो० । १ कुणिरोगे
तुणिक पु० तुणि--स्वार्थे क । नन्दिवृक्षे राजनि० । तुण्ड न० तुडि--तोड़ने अच् । १ मुखे अमरः । “अयस्तुण्डै-
तुण्ड(ण्डि)केरी स्त्री प्रशस्तं तुण्डं(ण्डिः) कन् तद्--ईर-
तुण्डदेव पु० तुण्डरूपो देवः तुण्डेन दीव्यति दिव--अच्
तुण्डि पु० तुण्ड--इन् । १ मुखे, २ चञ्चौ च । ३ विम्बिकायां,
तुण्डिका स्त्री तुण्डम् तदवयवाधरसादृश्यमस्त्यस्याः ठन् ।
तुण्डि(ण्ड)केशी स्त्री तुण्डे (ण्डौ) मुखे कायति के--क
तुण्डिभ(ल) त्रि० तुण्डि + भ सिध्मा० लच् वा ।
तुण्डेल पु० गर्भोपद्रावके असुरभेदे । “उपेषन्तमुदुम्बलं तुण्डे-
|
तुतात पु० सीप्तांसकगेदे । तेन प्रोक्तं ठक् । तोतातिक
तुतुर्वणि पु० तूर्णोवनिर्भजनमस्य वेदे पृषो० । १ तूर्णभजने ।
तुत्थ स्तुतौ अद० चु० उभ० सक० सेट् । तुत्थयर्ति ते अतुतुत्थत्--त । तुत्थ पु० तुद--थक् । १ ग्रावणि उणा० । २ अग्नौ संक्षिप्तसा० ।
तुत्थाञ्जन न० कर्म्म० । १ अञ्जनभेदे (तुंते) । तद्वर्णत्वात् २ मयूरकण्ठे च राजनि० । तुथ पु० तु--थक् तुद--बधे थक् पृषो० वा । १ हननकर्त्तरि
|
तुद व्यथने तुदा० उभ० मक० अनिट् । तुदति ते अतौत्सीत् ।
तुदादि पु० शप्रत्ययनिमित्ते घातुसमुदाये स च गणः कविकल्पे
तुद त्रि० तुद--क । व्यथके । तस्यापत्यं शुभ्रा० ढक् । तौदेय तदपत्ये पुंस्त्री० । तुन्द न० तृणु अर्दने अट्दा० नि० । उदरे अमरः । तुन्दकूपी स्त्री ह्रस्वः कूपः कूपी तुन्दस्य कूपीव । १ नाभौ
तुन्दपरिमृज पु० तुन्दं परिमार्ष्टि परि + मृज--क ६ त० ।
तुन्दमृज त्रि० तुन्दमुदरं मार्ष्टि मृज--क । १ अलंमे २ मन्दे
तुन्दादि पु० “तुन्दादिभ्य इलच्च” पा० अस्त्यर्थे इलचप्रत्यय-
तुन्दिक(ल)(भ) त्रि० तुन्दं विद्यतेऽस्व ठन् । तुन्दि + भ
तुन्दिकर पु० तुन्दिं करोति कृ--अच् । (भुँड़ि) युक्ते तुन्दिले
तुन्दिन् त्रि० तुन्दीऽस्त्यस्य इनि । तुन्दयुक्ते (मुँड़ि) युक्ते स्त्रियां ङीप् । तुन्दिलफला स्त्री तुन्दिलं वृहत्फलमस्याः । त्रपुष्याम्
तुन्न पु० तुद--क्त । १ नन्दिवृक्षे (तुंद) अमरः । २ व्यथिते
तुन्नवांय पु० तुन्नं छिन्नं वयति वे--अण् । १ सौचिके
|
तुन्नसेवनी स्त्री तुन्नं छिन्नं सीव्यतेऽनया सिव--करणे ल्युट्
तुन्प बवे भ्वा० सक० पर० सेट् । तम्पति अतुम्पीत् । तुतुम्प तुतुम्पतुः तुतुम्पिथ । तुन्प बधे सक० क्लेशे अक० तु० पर० सेट् । तुपति--तुम्पति
तुन्फ बधे भ्वा० पर० सक० सेट् । तुम्फति अतम्फीत् ।
तुन्फ बधे सक० क्लेशे अक० तुदा० पर० सेट् । तुफति
तुप बधे भ्वा० पर० सक० सेट् । तोपति अतोपीत् । तुतोप । तुप बधे सक० क्लेशे अक० तुदा० मुचादि० पर० सेट् । तुम्पति
तुप अर्द्दने चुरा० उभ० सक० सेट् इदित् । तुम्पयति ते
तुफ बधे सक० क्लेशे अक० तु० मुचा० पर० सेट् । तुम्फति अतोफीत् । तुतोफ । तुफ बधे भ्वा० पर० सक० सेट् । तोफति अतोफीत् । तुतोफ । तुब अर्द्दने वा चुरा० उभ० सक० पक्षे भ्वा० पर०
तुभ हिंसे भ्वा० आत्म० ऌङि उभ० सक० सेट् । तोभते । ऌदित् । अतुभत् अतोमिष्ट । तुतुभे । तुभ हिंसायां दिवा० क्य्रा० च पर० सक० सेट् । तुभ्यति
तुम प्रेरणे आहनने च तुम्रशब्दे माधवः । सक० भ्वा०
तुमुर न० तुमुल + लस्य रः । तुमुले अमरटीका । तुमुल पुंन० सौ० तु--मुलन् । १ परम्परसंघातेन सङ्कुले युद्धे
तुम्ब पुंस्त्री० तुम्बति रुचिं तुवि--अर्द्दने अच् । १ अलाव्वाम्
तुम्बर न० तुम्बं तदाकारं राति--रा आदाने क । (तानपूरा)
|
तुम्बरचक्र न० नरपतिजयचर्य्योक्ते चक्रभेदे चक्रशब्दे २८२४
तुम्बरु पु० गन्धर्वमेदे । “सुप्रिया चातिबाहुश्च विख्यातौ च
तुम्ब(ष)वन न० देशभेदे स च देशः वृ० सं० दक्षिणस्यामुक्तः
तुम्बि(म्बी) स्त्री तुबि--इन् । १ अलाब्वां (लाउ) शब्दरत्ना०
तुम्बिनी तुबि--णिनि ङीप् । कटुतुम्ब्यां राजनि० । तुम्बिपुष्प न० तुम्बेरिव पुष्पमस्याः । लताम्बुजे हारा०
तुम्बुक न० तुबि उक । अलावूफले हड्डचन्द्रः । तुम्बुर पु० विन्ध्यपर्वतस्थे जातिभेदे । “ये चान्ये विन्ध्यनिल-
तुम्बुरी स्त्री तुबि + बा० उर गौरा० ङीष् । १ शम्यां २ धन्याके च मेदि० । तुम्बुरु पु० १ गन्धर्वभेदे जटा० । २ अर्हदुपासकभेदे हेम० ।
तुम्र त्रि० तुम--प्रेरणे आहनने च रक् । १ प्रेरके २ हिंसके च
तुर त्वरणे जुहो० पर० अक० सेट् । तुतोर्त्ति अतोरीत् ।
तुर त्रि० तुर--क । वेगवति । “प्र तव्यसो नम उक्तिं तुरस्या-
|
तुरग पुंस्त्री तुरेण वेगेन गच्छति गम--ड । घोटके अमरः
तुरगगन्धा स्त्री तुरगस्येव गन्धोऽस्याः । अश्वगन्धायां राजनि०
तुरगदानव पु० तुरगाकारो दानवः शा० त० । केशिदानवे ।
तुरगब्रह्मचर्य्य न० तुरस्येव ब्रह्मचर्य्यम् । स्त्रिया अलाभे
तुरगलीलक पु० “द्रुतं द्वन्द्वं विरामान्तं लघुस्तुरगलीलके” संगोतदा० उक्ते तालभेदे । तुरगातु त्रि० तुरेण गातुः गम--वेदे वा० डातु । १ त्वरया
तुरगानन पु० तुरगस्याननमिवाननमस्य । १ किन्नरभेदे तुरङ्ग-
तुरगिन् त्रि० तुरगो वाहगत्वेनास्त्यस्य इनि । अश्वारो-
तुरगी स्त्री तुरगस्तद्गन्धोऽस्त्यस्या अच् गौरा० ङीष् । १ अश्व-
तुरङ्ग पुंस्त्री० तुरेण गच्छति गम--ख मुम् वा डिच्च । १ घोटके
तुरङ्गक पु० तुरङ्ग इव कायति कै--क । १ हस्तिघोषावृक्षे
तुरङ्गद्विषणी स्त्री तुरङ्गोद्विष्यतेऽनया बा० क्यु--ङीप् । महिष्यां राजनि० । तुरङ्गप्रिय पु० ६ त० । यवे राजनि० । तुरङ्गम पुंस्त्री० तरं गच्छति गम--खच् मुम् । १ घोटके अमरः
तुरङ्गवक्त्र पु० तुरङ्गस्येव वक्वमम्य । अश्वाकारमुखे किन्नरे
|
तुरङ्गारि पु० ६ त० सेवनेऽश्वनाशके १ करवीरे वृक्षे० जात्या
तुरङ्गिका स्त्री तुरङ्गः तदाकारोऽस्त्यस्याः ठन् । देवदालीलतायाम् राजनि० । तुरङ्गी स्त्री तुरङ्गस्तद्गन्धोऽस्त्यस्याः अच् गौरा० ङीष् । १ अश्व-
तुरण त्वरायां कण्ड्वा० पर० अक० सेट् । तुरण्यति अतुरणी(ण्यी)त् । तुरण न० जु० तुर--बा० भावे क्यु । क्षिप्रगमने “सुरेतस्तुरणे
तुरण्य पु० तुरण्य--कण्ड्वा० भावे घञ् । त्वरायाम् । “उषस-
तुरण्यु त्रि० कण्ड्वा० तुरण्य--उन् । त्वरायुक्ते । “तुभ्यं शुक्रास
तुरम् अव्य० अद० चु० तुर--वा० असु । त्वरायाम् । “तुरं
तुरस् न० अद० चुरा० तुर--अमुन् । त्वरायाम् । “आयस-
तुरायण न० तुर--क तस्यायनं “पूर्वपदात् संज्ञायाम्” पा०
तुरासाह् पु० तुरं त्वरितं साहयति अभिभवति चु० साहेः
|
तुरि(री) स्त्री तुर--इन् “इगूधात् कित्” उणा० किच्च वा
तुरीप त्रि० तूर्णमाप्तोति व्याप्तोति तूर्ण + आप--क पृषो० । तूर्ण
तुरीय गतौ भ्वा० सक० सेट् गतिकर्म्मसु निघण्ठुः । तुरीयति अतुरीयीत् । तुरीय त्रि० तुरीय--अच् चतुर्णां पूरणः चतुर + छ आद्य-
|
तुरीयवर्ण पु० कर्म्म० । शूद्रे हला० । तुरुष्क पु० तुर--उसिक् स्वार्थे क इसुसोरिति षत्वम् ।
तुर्फरी त्रि० तृफ--हिंसायाम् बा० अरि । हन्तरि ।
तुर्फरीतु त्रि० तृफ--वा० अरीतु पृषो० । हन्तरि त्र्फरीशब्दे
तुर्य्य त्रि० चतुर + पूरणे यत् च भागस्य लोपः । चतुर्थे ।
तुर्य्यगोल पु० सि० । “दलीकृतं चक्रमुशन्ति चापं कोदण्ड-
तुर्य्यवाह पु० तुर्य्यं चतुर्थं वर्षं वहति वह--ण्वि ।
|
तुर्व हिंसायां भ्वा० पर० सक० सेट् । तूर्वति अतूर्वीत् । तुतुर्वतुः
तुर्वणि त्रि० तर्णं वनुते वन् संभक्तौ इन् पृषो० । तूर्ण-
तुर्वश पु० नृपभेदे । “त्वमाविथ नर्य्यं तुर्वशं यदुम्” ऋ०
तुर्वशे अव्य० अन्तिके निकटे निघण्टुः । तुर्वसु पु० ययातिनृपपुत्रभेदे । “अन्वगृह्णात् प्रजां सर्वां
तुर्वीति पु० राजर्षिभेदे । “वृहद्रथं तुर्वीतिं दस्यवे सहः” । ऋ० १ । ३६ । १८ तुल उन्माने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
|
तुलभ पु० तुरेण वेगेन भाति भा--ड रस्य लः । आयुधजी-
तुलसारिणी स्त्री तुरेण वेगेन सरति सृ--णिनि ङीप् ।
तुलसी स्त्री तुलां सादृश्यं स्यति सो--क गौरा० ङीष्
|
|
|
|
|
तुलसीद्वेषा स्त्री तुलसीं द्वेष्टि तुल्यगन्धत्वात्
तुला स्त्री तुल--भिदा० अङ् । १ सादृश्ये २ माने च गृहाणां
|
|
|
|
|
|
तुलाकूट न० ६ त० । तुलामानस्य कूटे १ प्रकृतमानापेक्षया न्यून-
तुलाकोटि(टी) स्त्री तुलया तुलां वा कोटयति कुट--परि-
तुलाकोश पु० तुला कोश इव । तुलायां भाविशस्य हानिवृद्धि-
तुलादान न० तुलया स्वदेहमानेन दानम् । तुलापुरुषसंज्ञके
तुलाधट पु० तुलायै तोलनाय धटः । तुलाधारदण्डे त्रिका० तुलाधर त्रि० तुलाया मानदण्डस्य धरः धृ--अच् । १ बाणिजके,
|
तुलापुरुष पु० षोड़शसु महादानेषु आद्ये माहादाने तत्-
|
|
|
तुलाप्रग्र(ग्रा)ह पु० प्र + ग्रह वा घञ् पक्षे अप् ६ त० । १ तुला-
तुलामान न० तुलार्थं तोलनार्थं मानं मीयतेऽनेन मा--करणे ल्युट् । १ तुलादण्डे शब्दार्थचि० । तुलायष्टि स्त्री ६ त० । १ तुलादण्डे । “स्तोकेनोन्नतिमा-
तुलावीज न० तुलायाः तोलनस्य वीजं मूलम् । १ गुञ्जायाम्
तुलासूत्र न० तुलार्थं तोलनार्थं सूत्रम् । तोजनार्थं तुलादण्डस्थितसूत्रे प्रग्रहे अमरः । तुलि(ली) स्त्री तुरि(री) + रस्य लः । तुर्य्यां शब्दरत्ना० । तुलिका स्त्री तुल--बा० क्युन् । खञ्जनिकायां त्रिका० । तुलित त्रि० तुला + तत्करोति णिच्--कर्मणि क्त । १ परिमिते
तु(तू)लिनी स्त्री तूलं विद्यते फलेऽस्या इनि ङीप् वा
|
तु(तू)लिफला स्त्री तुलि तूलयुक्तं फलमस्याः वा पूषो० ।
तुल्य त्रि० तुलया सम्मितं यत् । १ सदृशे अमरः । “सकामां
तुल्यपान न० तुल्येन सजातीयेन सह पानम् । सजातीयैर्बहुभिरेकत्र पाने अमरः । तुल्ययोगिता स्त्री अर्षालङ्कारभेदे अलङ्कारभेदे अलङ्कार-
तुल्यशस् अव्य० तुल्य + वीप्सार्थे शम् ।
तुल्वल पु० ऋषिभेदे । तौल्वलिशब्दे दृश्यम् । तुवर पु० तवति हिनस्ति रोगान् सौ० तु--ष्वरच् नि० गुणा-
तुवरयावनाल पु० कर्म० घान्यभेदे राजनि० । “तुवरो
तुवरिका स्त्री० तुवरोऽस्त्यस्याः ठन् । १ सौराष्ट्रमृत्तिकायां
तुवरी स्त्री तु + ष्वरच् षित्त्वात् ङीष् । १ आढक्यां २ सौरा-
तुवरीशिम्ब पु० तुवर्य्या आढ़क्या इव शिम्बा यस्य । रक्तचक्रमर्दने शब्दच० । तुवि स्त्री० तुम्बी + पृषो० । १ तुम्ब्यां । तु--पूर्त्तौ इन् किच्च ।
|
तुविस् न० तु--वृद्धौ षूर्त्तौ वा इसि किच्च । १ वृद्धौ २ प्रज्ञायां
तुवीरवत् त्रि० तुवी मत्वर्थीवोरः ततो मतुप् मस्य वः ।
तुश बधे भ्वा० आ० सक० सेट् । तोशते अतोशिष्ट तुतुशे ।
तुष तोषे आनन्दभेदे दि० ष० ऌदित् अक० सेट् । तुष्यति
तुष पु० तुष--क । १ विभीतकवृक्षे (वयड़ा) २ धान्यत्वचि स्वनाम-
तुषग्रह पु० तुषेण गृह्यते ग्रह--कर्मणि अप् । वह्नौ त्रिका० तुषज त्रि० तुषे जायते जन--ड । तुषजाते वह्न्यादौ ।
तुषधान्य न० तुषावृतं धान्यं शा० त० । तुषावृते सतुषे
तुषसार पु० तुषं सरति अनुसरति सृ--अण् । वह्नौ शब्दमा० तुषानल पु० तुषस्यानलः । तुषजाते अग्नौ । तुषाग्न्याद-
तुषाम्बु न० तुषोदकशब्दार्थे “तुषाम्बु दीपनं पाण्डु
|
तुषार पु० तोषयति तुष--अन्तर्भूतण्यर्यात् आरन् किच्च ।
तुषारकर पु० तुषारो हिमः करोऽस्य । १ हिमकरे चन्द्रे
तुषारगिरि पु० ६ त० । १ हिमालये “तुषारगिरिकूटाभं
तुषित पु० तुष--या० कितच्--तुष--सम्प० क्विप् ततः
तुषोत्थ न० तुषादुत्तिष्ठति उद् + स्था--क ३ त० । १ तुषोदके
तुषोदक न० तुषमिश्रितमुदकं शा० त० । १ काञ्चिकभेदे
|