वाचस्पत्यम्/कर्त्तरी

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ १७१६

कर्त्तरी स्त्री कृत--घञ् कर्त्तं राति रा--क गौरा० ङीष् । कृपा-

ण्याम् पत्रीकृतहिरण्यादेः छेदनसाधने (कातारी) २ अस्त्रभेदे
“ददर्शं कर्त्तरीयन्त्रममृतोपरिसंस्थितम् । मनःपवनवेगेन
भ्रममाणं महारयम् । अपि स्पृशन्तं मशकं यत् खण्डयति
कोटिशः” काशी० । केशादिकर्त्तनसाधने (काँचि)
३ अस्त्रे, “क्रूरमध्यगतश्चन्द्री लग्नं वा क्रूरमध्यगन् ।
कर्तरो नाम योगोऽयम्” इति ज्योतिषोक्ते ४ योगभेदे
च । कर्त्तरोयोग उपयमशब्दे १२५९, ६० तत्प्रति-
प्रसविशेषोऽपि उक्तः । कृत--अरि--कर्त्तरिरित्यप्यत्र स्त्री ।
“क्षरकर्त्तरिसंदशैस्तस्य रोमाणि निर्हरेत्” सुश्रु० । “पापो
कर्त्तरिकारकौ” मूहु० चि० । अत्र “ङ्यपोरिति” पा०
ह्रस्वः” पीयू० । वस्तुतः क्षुरकर्त्तरिसदंशैरित्यत्र द्वन्द्वे
ह्रस्वाप्रसक्तेः ह्रस्वान्तोऽपि कर्त्तरिशब्दोऽस्तीति गम्यते ।
स्वार्थे कन् । कर्त्तरिकाप्यत्र स्त्री ।

कर्त्तव्य त्रि० कृ मवश्यार्ये तव्य । कर्तुं योग्ये । “हीनसेवा

न कर्त्तंव्या कर्तव्यो महदाश्रयः” चाणक्यः । “शौचं
यथार्हं कर्त्तव्यं क्षाराम्लोदकवारिभिः” “महाव्याहृतिभि-
र्होमः कर्त्तव्यः स्वयमन्वहम्” मनुः “मनस्याहितकर्त्तव्याः”
कुमा० । कृत--कर्मणि तव्य । २ छेद्ये त्रि० । “पुत्रः सखा
वा भ्राता वा पिता वा यदि वा गुरुः । रिपुस्थानेषु
वर्त्तन्तः कर्त्तव्या भूतमिच्छता” भा० आ० १४० अ० उभयतो
तव्य । ३ अवश्यकरणे ४ अवश्यच्छेदने च न० ।

कर्त्तृ त्रि० कृ--तृन् तृच् वा । १ क्रियानिष्पादके क्रियोत्-

पादकयत्नयुक्ते तृजन्तयोगकर्मणि न षष्ठीतिभेदः । स च
कारकचक्रप्रयोजत्वात् स्वतन्त्रः यथाह पा० “स्वतन्त्रः
र्कत्ता” । “क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः । कर्त्ता
स्यात्” सि० कौ० । व्य कृतञ्चैतदस्याभिः सरलायाम् यथा
“स्वतन्त्रैति शप्श्यनादिप्रत्ययसमभिव्याहृतधातूपा-
त्तप्रधानीभूतव्यापाराश्रयत्वमितरव्यापारानधीनव्यापारव-
त्त्वम् वा कर्त्तृत्वं बोध्यम् कर्मबोधकप्रत्ययसमभिव्या-
हारे फलस्यैव प्रधानतया बोधस्वीकर्त्तृमते कर्मादि-
व्यावृत्त्यर्थं शप्श्यनादिसभिव्य हृतेति । णिजन्तस्थले
प्रयोज्यस्य स्वातन्त्र्यवारणाय प्रधानव्यापारेति ।
हरिणा तु स्वातन्त्र्ये विशेषो दर्शितो यथा । “धातृ-
पात्तिक्रिये नित्यं कारके कर्त्तृतेष्यते” इति सामान्यतो-
ऽभिधाय “प्राधान्यतः शक्तिलाभात् प्राग्भावापादना-
दपि । तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात् ।
अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् । आराद-
प्युपकारत्वात् स्वातन्त्र्यं कर्त्तुरिष्यते” इति अस्यायमर्थः
इतरव्यापारात् प्रागपि प्राधान्येनात्मशक्तेः कर्त्तृव्यापारस्य
सत्त्वात्, तथाच इतरव्यापारानधीनव्यापारवत्त्वादित्यर्थः
इतरकारकाणाञ्चकर्त्तुः प्रयोज्यत्वात्, न तथा, दात्रादेः कुठा-
रादिवत् कर्त्तुः प्रतिनिध्यसम्भवात् कारकान्तराप्रयोगेऽपि
कर्त्तुः प्रयोगात्, आरात् साक्षाद्धातूपात्तफलजनकव्यापार
वत्त्वाच्च स्वातन्त्र्यं कर्त्तुरिति । कौ० विवक्षितैति कर्मकर-
णादेरपि तत्तद्व्यापारस्य धातुनाभिधाने कर्त्तृत्वमिति द्यो-
तनाय । “उत्पत्तिमात्रे कर्त्तुत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति हरिणा
विवक्षावशात् सर्वेषां कर्त्तृत्वस्वीकारात् । भाष्यकृता तु
“पर्य्याप्तं करणाधिकरणकर्मणामेव कर्त्तृत्वं निदर्शितमपा-
दानादीनां कर्त्तृत्वानिदर्शनाय” इत्युक्तत्वात् करणाधिकरण-
कर्मणामेव विवक्षया कर्त्तृत्वमिति नापादानसंप्रदानयो-
रितिविवेकः” । कारकव्यापारभेदश्च मञ्जूषायां दर्शितः
संक्षिप्य ततोऽस्माभिः शब्दार्थरत्ने दर्शिंतोयथा
“कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः । करणस्य क्रिया-
जनकाव्याहितव्यापारः । क्रिमाफलेनोद्देश्यक्कव्यापारश्च
कर्म्मणः । कर्त्तृकर्म्मव्यवहितक्रियाधारणव्यापारोऽधि-
करणस्य । प्रेरणानुमत्याटिव्याप्रारः सम्प्रदानस्य, अवधि
भावोपगमव्यापारोऽपादानस्येति । तत्र करणाधार
कर्मकर्त्तॄणां क्रियाजनकत्वं सुव्यक्त तैर्व्विना क्रि-
यानुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजन-
कत्वाच्च कर्म्मणस्तथात्वं घटं स्मरति कटं करोतीव्यादौ
च वुद्धिस्थघटादेरपि पूर्व्वकालत्वेन स्माणादिहेतुत्वा-
त्तथात्वमतएव तेषु कर्त्तृत्वविवक्षया काष्ठं पचति स्थाली
पचति ओदनः पच्यते इत्यादिप्रयोगः । अपादानस्य
अवधिभावोपगमेन हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थ-
तया पूर्व्वकालत्वेन हेतुत्वाच्च कियानिर्ब्धाहकत्वेऽपि न
कर्त्तृत्वविवक्षा अनभिधानात् तदुक्तं भाष्येऽपादानादीनां
कर्त्तृत्वानिदर्शनायेत्यन्तमनुपदं सरलाग्रन्थांशे दर्शितम् ।
स च प्रवृत्तिनिवृत्त्योरुभयोरपि सम्पादकः “प्रवृत्तौ च
निवृत्तौ च कारकाणां यईश्वरः । स कर्त्ता नाम विज्ञेयः
कारकाणां प्रयोजकः” इत्युक्तेः । स च पञ्चविषः “क्रिया
सुख्योमवेत् कर्त्ता हेतुकर्ता प्रयोजकः । अनुमन्ता
ग्रहीता च कर्त्ता पञ्चविधः स्मृतः” गोपालभट्टा०
अतएव मनुना “अनुमन्ता विशसिता नियन्ता क्रयविक्रयी ।
संस्कर्त्ता चोपहर्त्ता च षड़ेते स्प्रतकाः स्मृताः” इति षण्णां
पृष्ठ १७१७
धातकर्त्तृत्वमुक्तम् काशीख० “खादकोषतकस्तथेति”
चतुर्थचरणे पाठः । तेन अष्टानांकर्त्तृत्वमुक्तम् । स च प्रका-
रान्तरेण त्रिविधः “त्रिधेव ज्ञायते कर्त्ता विशेषेण क्रियां
प्रति । योगत्वप्रतिषिद्धत्वविशेषणपदान्वयैः” भट्टका० ।
अस्यार्थः क्रियां प्रति प्रकारत्रयेण कर्त्ता विज्ञायते
तस्य विवरणम् “स्वाध्यायोऽध्येतव्यः” इत्यत्र बोग्य-
त्वेन लब्धविद्यस्त्रैवर्णिकः, १ । “अहरहर्दद्याद्
दोक्षितो न ददाति इत्यत्र प्रतिषिद्धत्वेन दीक्षितेत-
रःपरः २ । “स्वर्गकामो यजेत” इत्यत्र विशेषण-
पदान्वयेन स्वर्गकामः कर्त्ता ज्ञायते ३, । स च प्रकारा-
न्तरेण त्रिविधः सात्त्विकादिभेदात् यथाह गीता “मुक्तसङ्गो
ऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यऽसिद्ध्यो
र्निर्विकारः कर्त्ता सात्विक उच्यते” “रागी कर्मफलप्रे-
प्सुर्लुब्धोहिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्त्ता
राजसः परिकीर्त्तितः” “अयुक्तः प्राकृतः स्तव्यः
शठोनैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्त्ता तामस
उच्यते” । कर्त्तृपदञ्च क्रियाश्रये कृत्याश्रगे वा मतभेदेन
रूढं न तु यौगिकमित्येतत् शब्दचि० भट्टमतदर्शम-
प्रस्तावे दर्शितं यथा
“अथ क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वाभ्यां
घटाङ्क रषोः कृताकृतत्वव्यवहारात्तृजन्तकृघातुव्युत्पन्न-
कतृऐपदस्य कृत्याश्रयत्वबोधकत्वाच्च कृञोयत्रार्थत्वं,
क्रियामात्रार्थत्वे कृञः, क्रियाश्रयः कर्तृपदार्थः स्यात् ।
तथा च कारकमात्रेऽतिप्रसङ्गः एवञ्च कृञो यत्नार्थत्वे-
न चाख्यातविवरणात् तस्यापि यत्नोऽर्थः । तदुच्यते ।
“कृताकृतविभागेन कर्तॄरूपव्यवस्थया । यत्नएव कृतिः
पूर्वा परस्मिन् सैव भावना” सैवाख्यातार्थोभावनेति चेत् ।
वीजेनाङ्कुरः कृतः स्वर्गादिना सुखं कृतं वीजमङ्कुरं
करोतीति यत्नं विनापि व्यवहारात्” “कर्तृपदञ्च न
यौगिकं तथा हि कृञोयत्नार्थत्वे तिङः कृत्यर्थत्वे वा
धातुप्रत्ययार्थयोः कृतिकृञोर्वा परस्परमनन्वयः कृतौ कृति-
जन्यत्वस्य तद्विषयत्वस्य वाऽभावात् कृतिविशिष्टस्य कृति-
निराकाङ्क्षत्वादिति । एवं कृञः क्रियार्थत्वे तृचश्च क्रिया
श्रयवाचकत्वे तयोः परस्परमन्वय एवेति उभयदर्शने
कर्तृपदं कर्म्मादिपदवद्रूढमेव । रूढिश्च कृत्याश्रये क्रियाश्रये
वेत्यन्यदेतत् तथा च कृताकृतविभागीन च कर्तृरूपव्यव-
स्थया च न कृञो यत्नार्थत्वमिति” किञ्चाख्यातस्य करोतेश्च
न यत्नार्थत्वम् पाकाय यतते पाकं करोतोत्यादौ यत्नद्वयस्य
यत्नविषयकयत्नस्य वाऽप्रतीतः प्रकृतिप्रत्ययार्थयोश्च सा०
म्येनान्वयानुपपत्तेः पौनरुक्त्यात् एकत्रैव विध्यनुवा-
ददोषाच्च” इत्यादिकम् भट्टमतम् । स्वमते तु कृञः
यत्नार्थत्वमिति भेदः तच्च कृधातुशब्दे दर्शयिष्यते ।
शब्द० प्र० कर्तृपदं यौगिकमिति व्यवस्थाप्य तल्लक्षणमुक्तं यथा
“तिङा विकरणाक्तस्य धातोरर्थस्तु यादृशः । स्वार्थ
यादृशि बोध्यस्तत्कर्तृत्वं तदिहोच्यते । सविकरणेन
यद्वातुनोपस्थाप्योयादृशार्थ स्तदुत्तरतिङा स्वोपस्थाप्यया-
दृशार्थोऽनुभावयितुं शक्यस्तद्धातूपस्थाप्यस्य तस्य तदेव
कर्तृत्वं कारकमित्यर्थः । कर्म्मत्वादौ धातुनोपस्थाप्यो-
ऽर्थस्तिङानुभाव्योऽपि न विकरणाक्तेनेति न तत्र प्रस-
ङ्गः । पचति जानातीत्यादौ स्वोपस्थाप्यकृत्याश्रयत्वादौ
घातूपस्थाप्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्य-
तैति पाकस्य यत्नवत्त्वं, ज्ञानस्याश्रयत्वमेवं नश्यतीत्यत्र
नाशस्य प्रतियोगित्वं प्रतिविम्बतैत्यत्र भ्रमात्मनः प्रति-
विम्बस्य प्रकारत्वमेव कर्तृत्वम् । कर्तृशब्दस्तु अवयववृत्तिलभ्ये
कृत्याश्रये यौगिकएव न तु शक्यार्थकः प्रकारान्तरालभ्य-
स्यैव शक्यत्वात् निरूढलक्षणया शक्त्यैव वाश्रयत्वस्य तृचा
प्रत्यायनात् । घटस्य कर्त्तेत्यादौ चानुकूलत्वं षष्ठ्यर्थः फलस्य
प्रायशः कृतिविषयत्वात् घटाद्युपभीगानुकूलकृतिश्च न
घटाद्यनुकूला प्रमाणाभावात् अतोन घटादिभोक्तुस्तत्क
र्तृत्वप्रसङ्गः । क्रियाश्रये कर्तृशब्दोरूढस्तेन रथादेर्गत्या-
दिकर्तृत्वमपि मुख्यमेवेति तु न युक्तम् । क्रिया हि नात्र
स्पन्दश्चेतनस्य पाककर्तृत्वानुपपत्तेः प्रत्युत तण्डुलादेरेव
तथात्वापत्तेः नापि धात्वर्थमात्रम् अतएव, नापि स्पन्द-
नानुकूलव्यापारः चलमानुकूलव्यापारवतः कारकमात्रस्य
चलनकर्तृत्वापत्तेः । अत्तिजुहोतीत्यादावप्यदादेरुत्तरं
लुप्तस्यैव विकरणस्य प्रतिसन्धाने भोजनकर्तृत्वादेरववगमैति ।
तदप्रतिसन्धानेऽपीति मतेनाह । यगन्तभिन्नधात्वर्थवत्तया
योऽनुभाव्यते । लटा स्वार्थः स धात्वर्थः कर्तृतावा
निगद्यते । यगन्तभिन्नधातूपस्थाप्ययादृशार्थप्रकारयदर्थधर्म्मि-
कान्वयबोधं प्रति लटः सामर्थ्यं स एवार्थो धातूपस्थाप्य
तदर्थस्य कर्तृत्वम् पच्यत इत्यादौ धातोरर्थवत्तया स्वार्थ-
कर्म्मत्वं लटानुभाव्यमपि न यगन्तभिन्नस्य, पक्ष्यते तण्डुल-
इत्यादौ तु तादृशस्य धातोरर्थवत्तया तिडैव स्वार्थ-
कर्म्मत्वमनुभाव्यते न तद्विशेषेण लटेति तद्व्युदासः ।
अपादानत्वादिभेदेन षड्विधत्वमिवोक्तानुक्तत्वभेदेन कारकस्य
द्वैविध्यमप्यस्तीति तदनुक्रपा न्यूनत्वमत आह । धात्वर्यस्य
पृष्ठ १७१८
र्मितया तिङाद्यैरनुभाव्यते । यत्तदुक्तं धर्मतया त्वनुक्तं
कारकं भवेत् । धात्वर्थस्य विशेष्यतया तिङाद्यनुभव्यत्वमेव
कारकस्योक्तत्वं तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वं
नतु धातुसाकाङ्क्षप्रत्ययस्याभिध्नेयत्वमात्रमुक्तं तण्डुलं
पचति इत्यादावपि कर्म्मत्वादेरुक्तत्वापत्तेः । पचति पच्यत-
इत्यादौ तिङा, पाचकः पच्यमानैत्यादौ च कृता, कर्तृ-
त्वं कर्म्मत्वञ्च धात्वर्थविशेष्यत्वेनानुभाव्यते तथा पचनं
काष्ठं, दानीयो द्विजः, भीमोगजः, शयनं गृहमित्यादौ
यथाक्रमं करणत्वादि व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेऽपि
कर्तृत्वादौ धात्वर्थस्य पाकादेरन्वयात् । सेवितुं साम्प्रतं
विज्ञैर्गुरुः परुषवागपि” “विषवृक्षोऽपि सम्बर्द्ध्व्यस्वयं छेत्तु-
ममाम्प्रतम्” इत्यादौ निपातेन क्वचित् कर्म्मत्वकारकस्योक्त-
त्वम् । धातुभेदेन कर्म्मत्वकारकस्योक्ततायां नियममाह ।
दुहादिभ्यः प्रत्ययेन भुख्यकर्म्मत्वमुच्यते । णिजन्तेभ्यः कर्तृ-
ताख्या तदसत्त्वेऽन्यकर्म्मता । दुहाद्युत्तरप्रत्ययेन मुख्यं
साक्षाद्धात्वर्थतावच्छेदकं यत्कर्मत्वं तदेवोच्यते धात्वर्थ-
विशेष्यत्वेभानुभाव्यते तेन गौः पयो दुह्यते दुग्धा वेत्यत्र
पयःकर्मकमोचनानुकूलव्यापारजन्यमोचनवती गौरित्येवं
बोधः । तत्र मोचनावच्छिन्नव्यापारस्य धातुवाच्यतया
मीचनस्यैव साक्षद्धात्वर्थतावच्छेदकफलत्वात् । वहिप्रभृ-
तेर्गत्यवच्छिन्नव्यापारः । कृषेश्च गत्यवच्छिन्नविकर्षणं वाच्य-
मतः साक्षात् तद्वाच्यतावच्छेदकं गतिमत्त्वमेव फलं न तु
तद्घटकसं योगादि । तथाच ‘भारोभवनं नीयते’
इत्यादौ शाखा ग्रामं कृष्यतेऽइत्यादौ च यथाक्रमं
भवनकर्मकगत्यनुकूलव्यापारजन्यगतिमान् भारः, ग्रामकर्मक-
गत्यवच्छिन्नविकर्षणकर्म्मताश्रयः शाखेत्याकारकबोधयोरुत्-
पत्त्यैव मम्पत्तौ दुहादेर्गौणकर्मत्वं, नीवहादेः प्रधान-
त्वमित्याद्युक्तिभेदेन विघिद्वयं शाब्दिकानामनादेयम् ।
णिजन्तोत्तरं कर्म्मतावाचिप्रत्ययस्थले तु मूलधातोः कर्तृ-
तायाङ्कर्मतातिदेशसम्भवे तादृशमेव कर्मत्वं घात्वर्थस्य विशे
ष्यतया तिङाद्यैर्बोध्यते यथा चैत्रोग्रामं गम्यते गमितो-
वेत्यादौ ग्रामकर्मकव्यापारजन्यगमनस्य कर्त्ता चैत्र-
इत्यादि । यत्र तु न तदतिदेशस्तत्र मूलधातोः कर्मत्व-
मेव तदर्थविशेष्यतया तैरुच्यते यथा ‘ओदनः पाच्यते
खाद्यते वा भृत्येन भर्त्त्रांइत्यादौ तत्र भर्तृकर्तृकव्यापा-
जन्यस्य मृत्यकर्तृकपाकादेः कर्भतयौदनादिरेव बोध्यते
‘मैत्रेण पूगं खाद्यमानश्चैत्रोव्रजतीत्यादौ’ कर्मणि
शानजादिपत्ययः प्राक् परिचिन्तितः” ।
न्यायादिमते कृतिमानेव कर्त्तृशब्दवाच्यः इत्यतः कर्त्तृ-
त्वमात्मधर्म्मः । सांख्यमते बुद्धेर्योऽयं कर्तृत्वाभिनिवेशस्त-
दुपरागादकर्त्तुः पुरुषस्यापि तदभिमानः । तदेतत् सां०
प्र० सू० भाष्ययोर्दर्शितम् यथा
“उपरागात् कर्त्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात्” सू० ।
“अत्र यथायोग्यमन्वयः । पुरुषस्य यत् कर्त्तृत्वं तद्बुद्ध्यु-
परागात् । बुद्धेश्च या चित्ता सा पुरुषसान्निध्यात् । एतदु-
भयमवास्तवमित्यर्थः । यथाग्न्ययसोः परस्परं
संयोगविशेषात् परस्परधर्मव्यवहार औपाधिको यथा
वा जलसूर्ययोः संयोगात् परस्परधर्मारोपस्तथैव बुद्धिपु-
षयोरिति भावः” भा० ।
पुरुषस्य यथाऽकर्त्तृता तथा सां० कौ० व्यवस्थापितं यथा
“तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं
माध्यस्थ्यं दृष्टृत्वमकर्तृभावश्च” का० । “तस्माच्चेति चः पुरुषस्य
बहुत्वेन सह धर्म्मान्तराणि समुच्चिनीति विपर्यासाद-
स्मादित्युक्तौ त्रैगुण्यविपर्ययादित्यनन्तरोक्तं सम्बध्येत
अतस्तन्निरासाय तस्मादित्युक्तम् अनन्तरोक्तं हि सन्निधाना-
दिदमोविषयो विप्रकृष्टञ्च तद इति विप्रकृष्टं त्रिगुणमवि-
वेकोत्यादि सम्बध्यते । तस्मात् त्रिगुणादेः यो विपर्य्यामः
स पुरुषस्यात्रिगुणत्वं विवेकित्वमविषयत्वमसाधारणत्वं
चेतनत्वमप्रसवधर्मित्वञ्च । तत्र चतनत्वन अविषयत्वेन च
साक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टा भवति नाचतनः
साक्षी च दर्शितविषयोभवति यस्मै प्रदर्श्यते विषयः स
साक्षी यथा हि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे
दर्शयतः एवं प्रकृतिरपि स्वरचितं विषयं पुरुषाय दर्श-
यतीति पुरुषः साक्षी । न चचितनोविषयो वा शक्योविषयं
दर्शयितुमिति चैतन्यादविषयत्वाच्च भवति साक्षी अतएव
द्रष्टापि भवति अत्रैगुण्याच्चास्य कैवल्यम् आत्यलिको दुःख
त्रयाभावः कैवल्यं तच्च तस्य स्वाभाविकादेवात्रैगुण्यात्सुख-
दुःखमोहरहितत्वात्सिद्धम् । अतएवात्रैगुण्यान्माध्यस्थ्यं
सुखी हि सुखेन तृप्यन्, दुःखी हि दुःखं द्विषन्न मध्यस्थो-
भवति तदुभयरहितस्तु मध्यस्थैत्युदासीन इति चाख्या-
यते । विवेकित्वादप्रसवधर्मित्वाच्चाकर्त्तेति सिद्धम् । स्यादेतत्
प्रमाणन कर्त्तव्यमर्थमवगम्य चेतनोऽहं चिकीर्षन् करामीति
कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धं
तदतस्मिन्मते नावकल्पते चेतनस्याकर्तृत्व त्कर्तुश्चाचंतन्यादित्यत-
आह” कौ० “तस्मरत्तत्सं योगादचेतनं चेतनावदिव
लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासौनः” का० ।
पृष्ठ १७१९
“यतश्चैतन्यकर्तृत्वे मिन्नाधिककरणे युक्तितः सिद्धे तस्मा-
द्भ्रान्तिरियमित्यर्यः । लिङ्गं महदादिसूक्ष्मपर्य्यन्तं वक्ष्यति
भ्रान्तिवीजं तत्संयोगस्तन्निदानम् अतिरोहितार्थमन्यत्”
कौ० । तदेतन्मतमुथाप्य मुक्तावल्यां निराकृतं यथा “एतेन
प्रकृतिः कर्त्री पुरुषः षुष्करपलाशवन्निर्लेपः किन्तु चेतनः
कार्य्यकारणयोरभेदात् कार्य्यनाशे कार्य्यरूपतया नाशः
स्यादित्यकारणत्वं तस्य बुद्धिगतचैतन्याभिमानार्थानुपपत्त्या
तद्कल्पनम् । बुद्धिश्च प्रकृतेः प्रथमः परिणामः । सैव
महत्तत्त्वमन्तःकरणमप्युच्यते । तत्सत्त्वासत्त्वाभ्यां पुरुषस्य
संसारापवर्गौ । तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरूपा
घटादिना सम्बन्धः । पुरुषे कर्तृत्वाभिमानो बुद्धौ
चैतन्याभिमानश्च भेदाग्रहात् । ममेदं कर्त्तंव्यमिति मदंशः
पुरुषोपरागो बुद्धेः स्वच्छतया चेतनप्रतिविम्बादतात्त्विको
दर्पणस्येव मुखोपरागः । इदमिति विषयोपराग इन्द्रि-
यप्रणालिकया परिणतिभेदस्तात्त्विको निश्वासाभिहतदर्प-
णस्येव मलिनिमा । कर्त्तव्यमिति व्यापारावेशः ।
तेनांशत्रयवती बुद्धिस्तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकः
सम्बन्धोदर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते । ज्ञानादि-
वत् सुखदुःस्वेच्छाद्वेषप्रयत्नधर्म्माधर्म्मा अपि बुद्धेरेव
कृतिसामानाधिकरण्येन प्रतीतेः । न च बुद्धिश्चेतना
परिणामित्वादिति सांख्यमतमपास्तम् कृत्यदृष्टभोगानामिव
चैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावा-
च्चेतनोऽहं करोमोति प्रतीतेः । बुद्धेः परिणामित्वाच्चैतन्यांशे
भ्रम इति चेत् कृत्यंशे किं नेष्यते । अन्यथा बुद्धेर्नित्यत्वे
तत्पूब्बमसंसारापत्तिः । अचेतनायाः प्रकृतेः कार्य्यत्वात्
बुद्धेरचैतन्यं कार्य्यकारणयोस्तादात्म्यादिति चेन्न
असिद्धेः कर्त्तुर्जन्यत्वे मानाभावात् वीतरागजन्मादर्शनाद
नादित्वम् । अमादेर्नाशासम्भवान्नित्यत्वम्” मुक्ता० ।
वेदान्तिमते आविद्यिकजीवस्यैवौपाधिकं कर्त्तृत्वं शा० सू०
भा० व्यवस्थापितम् यथा ।
“कर्त्ता शास्त्रार्थवत्त्वात्” । तद्गुणसारत्वाधिकारेणैवापरो-
ऽपि जीवधर्म्मः प्रपञ्च्यते । कर्त्ता चायं जीवः स्यात्
कस्मात् शास्त्रार्थवत्त्वात् एवञ्च यजेत जुहुयात् दद्यादि-
त्येवंविधं विधिशास्त्रमथवद्भवति अन्यथा तदनर्थकं
स्यात् । तद्धि कर्त्तुः सतः कर्त्तव्यविशेषमुपदिशति न चा
सति कर्तृत्वे तदुपपद्यते । तथेदमपि शास्त्रमेवमसर्णमद्धे-
वति “एष हि द्रष्टा श्रीता मन्ता बोद्धा कर्त्ता विज्ञानात्मा
पुरुष” इति भा० । “विहारोवदेशात्” सू० । “इतश्च जीषस्य
कर्तृत्वं यज्जीवप्रक्रियायां सन्ध्ये स्थाने विहारमुपदिशति
“सईयतेऽमृमोयत्रकाममिति” “स्वे शरीरे यथाकामं
परिवर्त्तते” इति च भा० । “उपादानात्” सू० । “इतश्चास्य
कर्तृत्वंयज्जोवप्रक्रियायामेव करणानामुपादानं सङ्कीर्त्तयति ।
“तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति” ।
“प्राणान् गृहीत्वेति च” भा० । “व्यपदेशाच्च क्रियायां
न चेन्निर्द्देशविपर्य्ययः” सू० । “इतश्च जीवस्व कर्तृ-
त्वंयदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं
व्यपदिश्यते “विज्ञानं यज्ञं तनुते कर्म्माणि तनुतेऽपिचे-
ति” । ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमनेन
जीवस्य कर्तृत्वं सूच्येतेति नेत्युच्यते जीवस्यैवैष-
निर्द्देशो न वुद्धेः न चेज्जीवस्य स्यात् निर्द्देशविपर्य्ययः
स्यात् विज्ञानेनेत्येवं निरदेक्ष्यत् । तथा ह्यन्यत्र बुद्धि-
विववक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्द्देशो दृश्यते
“तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति” । इह
तु “विज्ञानं यज्ञं तनुत” इति कर्तृ समानाधिकरण्य-
निर्द्देशात् बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत
इत्यदोषः । अत्राह यदि बुद्धिव्यतिरिक्तो जीवः कर्त्ता
स्यात् स स्वतन्त्रः सन् प्रियं हितं चैवात्मनोनियमेन
सम्पादयेत् न विपरोतं, बिपरीतमपितु सम्पादयन्न,
पलभ्यते । न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यते
इति अतौत्तरं पठति” भा० । “उपलब्धिवदनियमः” सू० ।
यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽप्यनियमेनेष्टमनिष्टञ्च
उपलभते एवमनियमेनैवेष्टमनिष्टञ्च सम्पादयिष्यति ।
उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेन्न
विषयविकल्पनमात्रप्रयोजनवत्त्वादुपलन्धिहेतूनाम्
उपलब्धौ त्वनन्यापेक्षत्वमात्मनः चैतन्ययोगात् ।
अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति
देशकालनिमित्तविशेषापेक्षत्वात् । न च सहायापेक्षस्य कर्त्तुः
कर्तृत्वं निवर्त्तते । भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः
पक्तृत्वम् । सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियाया-
मनियमेन प्रवृत्तिरात्मनो न विरुध्यते” मा० । “शक्तिविपर्य्य-
यात्” सू० । “इतश्च बिज्ञानव्यतिरिक्तो जीवः कर्त्ता भवितु
मर्हति । यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्त्री स्या-
त्ततः शक्तिविपर्य्ययः स्यात् करणशक्तिर्बुद्धेर्हीयेत कर्तृ-
शक्तिश्चापद्येत । सत्याञ्च वुद्धेः कर्तृशक्तौ तस्या एवाहं
प्रत्ययविषयत्वमभ्युपगकव्यम् अहकरणपूर्व्विकाया एव
प्रवृत्तेः सर्व्वत्र दर्शनात् अहं गच्छाम्यहं भुञ्जेऽहं
पृष्ठ १७२०
पिबाभीति च तस्याश्च कर्तृशक्तियुक्तायाः सर्व्वार्थका-
रिण्याः सर्व्वाथकारि करणमन्यत् कल्पयितव्य शक्तोऽपि
हि सन् कर्त्ता करणमुपादाय क्रियासु प्रवर्त्तमानो
दृश्यत इति । ततश्च संज्ञामात्रे विसवादः स्यात् न च
वस्तुभेदः कश्चित् करणव्यतिरिक्तस्य कर्त्रत्वाभ्यवगमात” भा०
“समाध्यभावाक्ष स्र० । “योऽप्ययमौपनिषदात्मप्रतिपत्ति
प्रयोजनः समाधिरुपदिष्टो वेदान्तेपु “आत्मा वा अरेद्र-
ष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” “सोऽन्वेष्टव्यः
स विजिज्ञोसतव्यः” “ओमित्यवं ध्यायेत आत्मानम्”
इत्येवं लक्षणः सोऽप्यसत्यात्मनः कर्तृत्वेनोपपोड्येत, तस्माद-
प्यस्य कर्तृत्वसिद्धिः” भा० । “यथा च तक्षीनयथा” सू०
“एवं तावत् शास्त्रार्थवत्त्वादिभिर्हेतुभिः कतृ त्वं शारीरस्य
प्रदर्शितं तत्पुनः खाभाविकं वा न्यादुपाधिनिमित्तं वेति
चिन्त्यते । तत्र तैरेव शास्त्वार्थवत्त्वादिभिर्हेतभिः स्वाभा-
विकं कर्तृत्वम् अपवादहत्वभावादित्येवं प्राप्ते व्रूमः ।
न स्वाभाविक कर्तृत्वमात्मनः सम्भवति अतिर्म्मोक्षप्रस-
ङ्गात् । कर्तृत्वस्वभावत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः
सम्भवति अग्नेरिवौष्ण्यात् । न च कर्त्रत्वादनिर्मुक्तस्या-
स्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखखरूपत्वात् ।
ननुस्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्य्यपरिहारात्
पुरुषार्थः सेत्स्यति तत्परिहारश्च निमितपरिहारात्
यथाग्नेर्दहनशक्तियु व्य्यापि काष्ठवियोगाद्दहनकार्य्या
भावस्तद्वत् न, निमित्तानामपि शक्तिलक्षणेन सम्ब-
न्धेन सन्वद्धानामत्यन्तपरिहारासम्भवात् । ननु मोक्षसा
धनविधनान्मोक्षः सेत्स्यति न साधनायत्तस्यानित्यत्वात् ।
अपि च नित्यशुषवुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभि-
हिता ताद्वगात्मप्रतिपादनञ्च न स्वाभाविके कर्तृत्वेऽवक-
ल्पते । तस्मादुपाधिधर्म्माध्यासेनैवात्मनः कर्तृत्वं न स्वा-
वाविकम् । तथा च श्रुतिः “ध्यायतीव लेलायतीव” इति ।
“आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण” इति चोपाधि
संयुक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति । न हि
विवेकिनां परस्मादन्यो जीवोनाम कर्त्ता भोक्ता वा विद्यते
“नान्योऽतोऽस्ति द्रष्टेत्यादि” श्रवणात् । परएव तर्हि
संसारी कर्त्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमान्
युद्ध्यादिसंघातव्यतिरिक्तो न स्यात् न अविद्याप्रत्यु-
पस्थापितत्वात् कर्तृत्वभोक्तृत्वयोः । तथा च शास्त्रं
“यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीति”
अविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते
एव कर्तृत्व भोक्तृत्वे निवारयति “यत्र त्वस्य सर्व्वमात्मै
वाभूत्तत् केन कं पश्येदिति” । तथा स्वप्नजागरितयो-
रात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरि-
पततः श्रावयित्वा तदभावं सुषुप्ते प्राज्ञेनात्मना सं
परिष्यक्तस्य श्रावयति “तद्वा अस्यैतदाप्तकाममात्मकामम-
कासं रूपं शोकान्तर” मित्यारभ्य “एषास्य परमा गतिरेषास्य
परमा संपत् एषाऽस्य परमोलीक एषोऽस्य परमानन्दः”
इत्युपसंहारात् । तदेतदाहाचार्य्यः “यथा च तक्षोभयथेति” ।
तत्वर्थे चायञ्चः पठितः । नेवं मन्तव्यं स्वाभाविकमे
वात्मनः कर्तृत्वम् अग्नेरिवौष्ण्यमिति । यथा च
लोके तक्षा वास्यादिकरणहस्तः कर्त्ता दुखी भवति स एव
स्वगृहं प्राप्तोविमुक्तवास्यादिकरणः स्वस्थोनिर्वृत्तोनि-
र्व्यापारः सुखी भवति एवमविद्याप्रत्युपस्थापितद्वैत
संयुक्त आत्सा स्वप्नजागरितावस्थयोः कर्त्ता दुखी भवति
स तच्छमापनुत्तये स्वमात्मानं परं प्रविश्य मुक्तकार्य्य-
करणसंघातोऽकर्त्ता सुखो भवति संप्रसादावस्थायां, तथा
मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव
केवलोनिर्वृत्तः सुखा भवति । तक्षदृष्टान्तश्चैतावतांशेन
द्रष्टव्यः तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपे-
क्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्त्ता भवति
खशरारेण त्वकर्त्ता, एवमयमात्मा सर्व्वव्यापारेष्वपेक्ष्यै
व मनआदीनि करणानि कर्त्ता भवति स्वात्मना खकर्त्तैव-
ति नत्वात्मनस्तक्ष्णैवावयवाः सन्ति र्यहस्तादिभिरिव वास्या
दीनि तक्षा मनआदीनिकरणान्यात्मोपाददीत न्यसेद्वा ।
यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः
कर्तृत्वमिति तत्र विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्व-
मुपादाय कर्त्तव्यविशेषमुपदिशति स कर्तृत्वमात्मनः
प्रतिपादयति । न च खाभाविकमस्य कर्तृत्वमस्ति
ब्रह्मात्मत्वोपदेशादित्यवोचाम । तस्मादविद्याकृतं कर्तृत्व
मुपादाय विधिशास्त्रं प्रवर्त्तिष्यते । कर्त्ता विज्ञानात्मा
पुरुष इत्येवं जातीकमपि शास्नमनुवादरूपत्वाद्यथाप्राप्त-
मेवाविद्याकृतं कतृ त्वमनुवदिष्यति । एतेन विहारोपा-
दाने परिहृते तयोरप्यनुवादरूपत्वात् । सनु सन्ध्ये स्थाने-
सुषुप्तेषु करणेषु “स्वेशरीरे यथाकामं परिवर्त्तते” इति
विहार उपदिश्यमानः केबलस्यात्मनः कर्तृमाव इति,
तथोपादानेऽपि “तदेषां घाणानां विज्ञानेन विज्ञानमादा-
येति” करणेषु कर्म्मकरणविभक्ती श्रूयमाणे केबलस्यैवात्मनः
कर्तृभावं गमयत इति । अत्रोच्यते न तावत् सन्ध्येस्थाने
पृष्ठ १७२१
ऽत्यन्तमात्मनः करणविरमणमस्ति “सधीः स्वप्नोभूत्वेमं
लोकमतिक्रामतीति” तत्रापि धीसम्बन्धश्रवणात् ।
तथा च स्मरन्ति “इन्द्रियाणामुपरमे मनोऽनुपरतं यदि ।
सेवते विषयानेव तद्विद्यात् स्वप्नदर्शनमिति” । कामाद-
यश्च मनसोवृत्तय इति श्रुतिः ताश्च स्वप्ने दृश्यन्ते तम्मात्-
समना एव स्वप्ने विहरति । विहारोऽपि तत्रत्योवासनामय
एव न पारमार्थिकोऽस्ति । तथा च श्रुतिरिवकारानुबद्वमेव
स्वप्नव्यापारं वर्णयति “उतेव स्त्रीभिः सह मोदमानो
यक्षदुतेवापि भयानि पश्यन्निति” । लौकिकाअपि तथैव
स्वस्वप्नं कथयन्ति (आरुक्षमिव गिरिशृङ्गम्) अद्राक्षमिव
वनराजिमिति । तथोपादाने यद्यपि करणेषु कर्म्मकरणविभक्ति
निर्देशस्तथापि तत्संयुक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यं केबले-
कर्तृत्वासम्भवस्य दर्शितत्वात् । भवति च लोकेऽनेकप्रका-
रा विवक्षा (योधायुध्यन्ते) (योधै राजायुध्यते) इति च ।
अपि चास्मिन्नुपादाने करणव्यापारोपरममात्रं
विवक्ष्यते न स्वाततन्त्य्रं कस्यचित्, अवुद्धिपूर्ब्बकस्यापि स्वापे-
करणव्यापारोपरमस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो
दर्शितः “विज्ञानं यज्ञं तनुते” इति स बुद्धेरेव कर्तृत्वं
प्रापयति विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् मनोऽनन्तर
पाठाच्च “तस्य श्रद्धैव शिरः” इति विज्ञानमयस्यात्मनः
श्रद्धाद्यवयवत्वसंकीर्त्तनात् श्रद्धादीनाञ्च वुद्धिधर्म्मत्वप्रसिद्धेः
“विज्ञानं देवाः सर्व्वे ब्रह्मज्येष्ठमुपासते” इति च वाक्य-
शेषात् ज्येष्ठत्वस्य बुद्धौ प्रसिद्धत्वात् “स एष वाचश्चित्त-
स्योत्तरोश्वरक्रमो यद्यज्ञ” इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धि-
साध्यत्वावधारणात् । न च बुद्धेः शक्तिविपर्य्ययः
करणानां कर्तृत्वाभ्युपगमे भवति सर्व्वकारकाणामेव
स्वव्यपारेषु कर्तृत्वस्यावश्यंभावित्वात् । उपलब्ध्यपेक्षं
त्वेषां करणत्वं सा चात्मनः । न च तस्यामप्यस्य कर्तृ-
त्वमस्ति नित्यापलब्धिस्वरूपत्वात् । अहङ्कारपूर्व्वकमपि
कर्वृत्वं नोपलब्धुर्भवितुमर्हति अहङ्कारस्याप्युपलभ्य-
त्वात् । न चैवं सति करणान्तरकल्पनाप्रसङ्गः बुद्धेः
करणत्वाभ्युपगमात् । समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव
परिहृतः । यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधा-
नात् । तस्मात् कर्तृत्वमप्यात्मन उपाधिनिबन्धनमेवे-
स्थितम्” भा० । “अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते”
इति गीतया कर्त्तृत्वस्याहङ्काराधीनतयौपाधिकत्वं
सूचितमिति द्रष्टव्यम्” ।
तथा चान्तःकरेणोपहितचैवतन्यमेव जीवः स एव वेदान्ति-
मतेकत्तति तत्त्वम् । तस्य च ईश्वराधोनयैव कतृत्वं तदपि
“परात्तु तच्छतेः” इत्यादिशा० सूत्रभाष्ययोर्व्यवस्थापितं तच्च
ईश्वरशब्दे दर्शितमिति । स्त्रियां ङीप् कर्त्त्री । “कर्त्तरि कृत्”
कर्तृकरणयोस्तृतीया” “अकर्त्तरि च कारके” “कर्त्तुरी
प्सिततमं कर्म” “कर्त्तुरुपमानादाचारे क्यङ्” शेषात्
कर्त्तरि परस्मैपदम्” पा० “कर्तृकर्मव्यहितामसाक्षाद्धार-
यत् क्रियाम्” हरिः २ तत्प्रयोजके “तत्प्रयोजकोहे-
तुश्च” पा० “अकर्त्तर्य्यृणे” पा० । कर्त्तुर्भावः त्व
कत्तृत्व न० तल् कर्त्तृता स्त्री कृत्याश्रयत्वे क्रियाश्रयत्वे च ।
तत्र नैयायिकमते आख्यातस्य कृतौ शकिः वैयाक-
करणमते कर्त्तरि शक्तिः “कर्त्तरि कृत्” “लः
कर्म्मणि भावे चाकर्मकेभ्यः” पा० सूत्राभ्यां तथैव
प्रतिपादनात् “कर्त्तरि कृत्” इत्यतः कर्त्तृपदस्यैव परसूत्रे
ऽनुवृत्तेः लकारस्यापि तदर्थकतैवेत्याकरे स्थितम् ।
अघिकमाख्यातशब्दे उक्तम् । “न कर्त्तृत्वं न कर्म्माणि
लोकस्य सृजति प्रभुः” गोता । ३ परमेश्वरे पु० तस्य
सर्वकर्तृत्वात्” “एतेषां पुरुषाणां स कर्त्ता यस्य वैतत्
कर्म स वै वेदितव्यः” इति श्रुतेस्तस्य तथात्वम् यथा च
तस्य सर्वकर्त्तृत्वं तथा ईश्वरशब्दे दर्शितम् । “करणं
कारणं कर्त्ता विकर्त्ता गहनो गुरुः” विष्णुस० । कृत--तृच् ।
४ छेदके त्रि० स्त्रियां ङीप् “क्रोधहा क्रोधकृत्कर्त्ता” विष्णु स० ।
क्रोधकृतां देत्यानां कर्त्ता भेदकः इत्येकं नामेति” भा० (कात)
५ क्षुद्रखड्गे न० । तस्य कर्त्तनहेतुत्वात् तथात्वम् “चतुर्भुजां
कृशाङ्गीं तु दक्षेण कर्तृखर्परौ” ताराध्यानम् । ६ शस्त्रि-
कायां स्त्री ङीष् । “कर्त्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन
बिभ्रतीम्” ताराध्यादम् । उभयमपि उग्रताराशब्दे
दर्शितम् । (कातारो) ७ कर्त्तर्य्याम् शब्दरत्ना० । अल्पार्थे
क । कर्तृकापि क्षुद्रखड्गे स्त्री “हास्ययुक्तां त्रिने-
त्राञ्च कपालकर्तृकाकराम्” तन्त्रसा० श्यामाध्यानम् ।
किरति विक्षिपति कायम् कॄ--विक्षेपे तृच् । ज्वरादिहे-
तुके ८ दाहादौ । ततोऽस्त्यर्थे मतुप् कर्तृमत् कर्तृयुक्ते
त्रि० स्त्रियां ङीप् । “ह्रस्वनुड्भ्यां मतुप्” पा० अस्य
उदात्तत्वम् । कर्तृशब्दे उपपदे दिवाविभेत्यादिना
कृञः टः । कर्तृकर कर्तृकारके तत्प्रयोजके । स्त्रियां
ङीप् । इष्टे ईयसि च तृणोलोपः करिष्ठः करीयान् ।
तृचस्तु न लुक् । डिद्वद्भावे कर्त्तिष्ठः कर्त्तीयानिति भेदः ।
पृष्ठ १७२२

कर्त्त्र शैथिल्यकरणे अद० चुरा० उभय० सक० शैथिल्ये अक० सेट्

कर्त्त्रयति ते कत्त्रापयतीत्येके अचकर्त्त्रत् त । कर्त्त्रयाम्-
बभूव आसचकार चक्रे । कर्त्त्र्यते अक्वर्त्त्रि--अकर्त्त्रिषा-
ताम्--अकर्त्त्रयिषाताम् । प्रनिकर्त्त्रयति । क्त कर्त्त्रितः ।

कर्त्रभिप्राय पु० कर्त्तारमभिप्रैति संबघ्नाति अभि + प्र +

इण--अण् उप० स० । १ कर्त्तृसम्बन्धिनि । “स्वरितञितः
कर्त्त्रभिपाये क्रियाफले” पा० । अत्र क्रियाफलस्वरूप-
ञ्चास्माभिः शब्दार्थरत्ने निरूपितं यथा ।
“स्वरितञिद्धातूत्तरतङः कर्तृगामिन्येव सति क्रियाफले
कर्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं
जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्तृनिष्ठतया
मर्व्वदैव जानीते इत्येव प्रयोगापत्तेः जानातीत्यादेरपला-
पाषत्तेश्च नेष्यते तु तथा शास्त्रकारैः । नापि क्रियाज-
न्यवेतनदक्षिणादिरूपलाभादि गौर्ण फलमिह विवक्षितं
तथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजो-
यजन्ते इत्यादिप्रयोगापत्तेः । किन्तु फलतीतिव्युत्पत्त्या
प्रयोजनापरनामकक्रियाजन्यतृप्तिस्वर्गादिरूपमेव मुख्यं फलं
ग्राह्यं यथोक्तं हरिणा “यस्यार्थंस्य प्रसिद्ध्यर्थमारभ्यन्ते
पचादयः । तत् प्रधानं फलं तासां न लाभादि प्रयोज-
नमिति” । प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयःतासां
पचादीनां प्रधानं फलं तदित्यर्थः फलस्य प्राधान्यञ्चेत-
रापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य तस्य
सुखादिष्वेव सत्त्वेऽपि क्वचित् साक्षात्सुखादिरूपप्रयोज-
नालाभे तत्साधनरूपेतरफलस्यापि ग्रहणमिति द्रष्टव्यम्
तेन “अपाद्वदः” पा० इत्यादिसूत्रविहिततङः सुखादिरू-
पमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम्” ।
कर्त्तुरभिप्रायो यत्र । २ कर्त्तुरभिप्रायविषये त्रि० उक्त
पाणिनिसूत्रस्य “आत्मनेपदमपि कर्त्रभिप्रेतक्रिया
फलमात्रजनकत्वेनेति” शब्दचि० व्याख्यानात्तदर्थता अत
एव पा० सूत्रस्योभयार्थता । तदेतत्शब्द० प्र० विवृतं यथा
“अत्रोभयपदिधातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्म-
नेपदं यत्र च कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु “स्वरि-
तञितः कर्त्रभिपाये क्रियाफले” इति सूत्रेण कर्त्त्रारमभि-
प्रौति सम्बध्नातीति व्युत्पत्त्या कर्तृसम्बद्धे क्रियाफलएवा-
त्मनेपदस्य विधानात् । अतएव “स्वरिज्ञिण्ण्यन्तधातूनां
कर्तृनिष्ठे क्रियाफले । आत्मनेपदमुद्दिष्टं तदनिष्ठे पदान्त-
रम्” इत्यापिशालीयाः पठन्ति । तदनुसृत्यैव दानादिस्थले
स्वगते फले ददे इत्येवं, परगते तु ददानीत्येव वाक्यं प्रयु-
ञ्जते वृद्धाः । “स्वर्गंकामोयजेत” इत्यादौ च सामान्यतः श्रुत-
मपि फलं कर्तृनिष्ठमेव “शास्त्रदेशितं फलमनुष्ठातरोति”
मीमांसयोत्सर्गतस्तथा कल्पमादिति प्राञ्चः । चिन्तामणि-
कृतस्तु यत्र क्रिवाफले कर्त्तृरभिप्रायैच्छा तत्रैवात्मनेप-
दमिति सूत्रार्थस्तेन याजकाद्यैर्दक्षिणदिलाभेच्छयैव यागा-
दिकरणे यजन्ति याजकाः पठन्ति पाठकाः इति परस्मै-
पदम् । परगतस्यापि याग दिफलस्येच्छया तत्करणे तु यजन्ते
याजकाइत्यादिकः साधुरेव प्रयोगोऽतएव “पितृस्वर्गकामः
पुष्करिण्या यजेत” इत्यादावप्यात्मनेपदम् “धनकामोग-
णपतिं मुक्तिकामोऽर्च्चयेद्धरिम्” इत्यादौ ८ परस्मैपदं
सङ्गच्छते” इत्याहुः ।

कर्द्द कुत्सितरवे उदरशब्दे च भ्वा० पर० अक० सेट् । कर्द्दति अकर्द्दीत् चकर्द प्रनिकर्दति ।

कर्द्द पु० कर्द्द--अच् । कर्द्दमे । शब्दर० ।

कर्द्दट पु० कर्द्दं कर्दमं कारणत्वेनाटति प्राप्नोति अट--अच्

६ त० शक० । १ करहाटे पद्मकन्दे २ कर्द्दमगन्तरि त्रि० ।
मेदि० । कर्द्द--अटन् । ३ पङ्के पु० मेदि० ।

कर्द्दन न० कर्द्द--भावे ल्युट् । उदरशब्दे हेमच० ।

कर्द्दम पु० कर्द्द--अम । (कादा) १ पङ्के अमरः । “सरितः

कुर्वती गाधाः पथश्चाश्यानकर्द्दमान्” रघुः । करणे अम ।
२ पापे उणादिकोषः । तस्य कुत्सितशब्दहेतुत्वात्तथात्वम् ।
३ मांसे न० शब्दचि० । तत्सेवने हि उदरशब्दोजायते
इति तस्य तथात्वम् । कर्दमश्छाया कारणत्वेनास्त्यस्य
अर्श० अच् । ब्राह्मणेश्छायाजाते ४ प्रजापतिभेदे ।
“छायायाः कर्द्दमोजज्ञे देवहूत्याः पतिः प्रभुः” भाग०
३, १२, १४, “प्रजाः सृजेति भगवान् कर्द्दमो ब्रह्मणोदितः ।
सरस्वत्यास्तपस्तेपे सहस्राणां समा दश । ततः समाधियो-
गेन क्रियायोगेन कर्द्दमः । संप्रपेदे हरिं भक्त्या प्रपन्न
वरदाशुषम्” भाग० ३, २१, अष्टमश्लोकादौ । ततः कपिलस्य
प्रादुर्भावोवर्णितः । तन्नामनिरुक्तिः” ब्रह्मवै० पु० ब्र० ख०
दर्शिता यथा । “वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फु-
टम् । वभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः” । तेन
५ छायायामपि । ततः ॠश्यादि० चतुरर्थ्यां क । कर्दमक
पङ्कसन्निकृष्टदेशादौ त्रि० कर्दमोजातोऽस्य तारका०
इतच् । कर्दमित जातकर्दम त्रि० । अर्श० मत्वर्थे
अच् । कर्दम ६ कर्दमयुक्ते त्रि० । काश्या० चतुरर्थ्यां ष्ठञ्
ञिटौ कार्दमिक कर्दमसन्निकृष्टदेशादौ त्रि० ष्ठञि स्त्रियां
ङीष् । मत्वर्थे इनि कर्द्दमिन् पु० तद्युक्ते त्रि० मुद्गवृक्षे
पु० वैद्य० तस्य कर्दमसमीपजातत्वात्तथात्वम् । पृषी०
कर्द्रमीत्यपि तत्रार्थे ।
पृष्ठ १७२३

कर्द्दमक पु० कर्दमे कायति प्रकाशते कै--क । शालिभेदे,

तस्य पङ्के एव हि प्ररोह इति तस्य तथात्वम् ।
“रक्तशालिषष्टिककङ्गुकमुकन्दकपाण्डुकपीतकप्रमोदककाल-
काशनकपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्र-
वोद्दालकश्यामाकगोधूमवेणूयवादयः” सुश्रु० ।

कर्द्दमाटक पु० कर्द्दमे इव आटोगतिरत्र कप् । विष्ठा-

दिनिक्षेपस्थाने शब्दरत्ना० ।

कर्द्दमिनी स्त्री कर्दमानां देशः पुष्करा० देशे इनि । प्रचुरकर्दमयुक्तदेशे ।

कर्पट पुंन० कॄ--कर्म्मणि विच्--कर्--पटः कर्म्म० । १ लक्तके

जीर्ण्णवस्त्रखण्डे (लाताकानि), २ मलिनवस्त्रे । करस्थः
पटः शक० । घर्म्मादिमार्ज्जनार्थं हस्तन्यस्त्रे । ३ वस्त्रखण्डे ।
४ कषायरक्ते वस्त्रे च । “नीलशैलस्य पूर्बस्मिन् स्वरूपं
प्रतिपादितम् । नाभिमण्डलपूर्वस्यां भस्मकूटस्य
दक्षिणे । पूर्वस्यां कर्पटो नाम पर्वतोयमरूपधृक्” कालि-
का ८१ अ० उक्त । ५ पर्वतभेदे पु० ।

कर्पटिक त्रि० कर्पट--अस्त्यर्थेठन् । कर्पटवस्त्रयुक्ते भिक्षुकादौ शब्दरत्ना० ।

कर्पण पु० कृप--ल्युट् कृपा० लत्वाभावः । आयसे

शस्त्रभेदे । “चापवक्रकणपकर्पणप्रासपट्टिशमुषलतोमरादि-
प्रहरणजालमुपयुञ्जानः” दशकु० ।

कर्पर पु० कृप्--अरन् लत्वाभावः । १ कपाले घटावयवे २

शीर्षोर्द्धास्थनि, अमरः (माथार खुली), ३ शस्त्रभेदे (कात)
४ कटाहे च मेदिनी ५ उदुम्बरे वृक्षे शब्दच० ।

कर्परांश पु० ६ त० । कपालांशे (खावरा) शब्दचि० ।

कर्पराल पु० कर्पर इवालति अण्--अच् । पर्वतपीलुभेदे ।

(आखरोट्) कन्दराले रमानाथः ।

कर्पराशिन् पु० कर्परेऽश्नाति अश--भोजने णिनि । वटुक-

भैरवे । “श्मशानवासी मांसाशी कपराशी मखान्तकृत्”
वटुकस्तवः ।

कर्परिकातुत्थ कर्पर्य्येव स्वार्थे कन् कर्परिका सैव तुत्थम् । कर्परीरूपे तुत्थे हेम० ।

कर्परी स्त्री कृप--अरन्--लत्वाभावः गौ० ङीष् । १ दारुहरिद्रा-

क्षारभबे तुये(तुँते) अम० । २ रसके भावप्र० खर्परीति वाऽत्र
पाठः । रसकञ्चोपरसभेदः उपरसभेदाश्च उपरसशब्दे उक्ताः
भावप्र० तद्गुणाद्युक्तं यथा “क(ख)र्परीतु यकं तु
थादन्यतद्रसकं स्मृतम् । ये गुणास्तुत्थके प्रोक्तास्ते गुणा
रसके स्मृताः” । तु यसामान्यं तु नोपरस इति भेदः ।

कर्पास पुं न० कृ--पास । वस्त्रहेतुसूत्रयोनौ (कापास) वृक्षभेदे

अमरः । गौरा० ङीष् । तत्रैव स्त्री भावप्र० । “कर्पासो
तुण्डकेरी च समुद्रान्ता च कय्यते । कर्पासिका लघुः कोष्णा
मधुरा वातनाशिनी । तत्पलाशं समीरघ्नं रक्तकृत्मूत्र-
वर्द्धनम् । वल्कलं पिडकानाह पूयस्रावविनाशनम् ।
तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” इति तत्रोक्तेः ।

कर्पासफल न० ६ त० । (माकाटो) कर्पासीवीजे ।

कर्पूर पु० न० कृप्--खर्जू० ऊर लत्वाभावः । स्वनामख्याते गन्ध-

द्रव्ये, तद्गुणाः भावप्र० उक्ताः, यथा “कर्पूरः शीतलोवृष्य-
श्चक्षुष्यो लेखनोलघुः । सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ।
दाहतृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः । कर्पूरोद्विविधः
प्रोक्तः पक्कापक्वप्रभेदतः । पक्वात् कर्पूरतः प्राहुरपक्वं
गुणवत्तरम् । (अथ चिनिआ कर्पूर) “चीनाकसंज्ञः कर्पूरः
कफक्षयकरः स्मृतः । कुष्ठकण्डूवमिहरस्तथातिक्तरसश्च सः ।
कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः । चिरस्थो-
दाहशोषघ्नः स धौतः शुभकृत् परः” । तस्य च “पोतासः
भीमसेनः सितकरः शङ्करावालुकसंज्ञःपांशुःपिञ्जः अब्द-
सारः हिमवालुकः जूतिका तुषारः हिमशीतलः पत्रिका-
ख्यभेदात् द्वादश भेदा राजनि० । ततः काशा०
चतुरर्थ्याम् इल । कर्पूरिल तत्सन्निकृष्टदेशादौ त्रि० ।
शुभ्रादिपाठात् तन्नामके । २ नरभेदे तस्यापत्यं शुभ्रा० ढक् ।
कार्पूरेय तदपत्ये पुंस्त्री ।

कर्पूरक पु० कर्पूर इव कायति कै--क । (कचूर) नामद्रव्ये कर्चूरे शब्दच० ।

कर्पूरतिलका स्त्री उमासखीभेदे विजयायाम् शब्दमाला ।

कर्पूरतैल न० कर्पूरस्य तैलमिव स्नेहः । कर्पूरस्नेहरूपे

हिमतैले तैलभेदे राजनि० । “कटूष्णं हिमतैलं स्यात्
कफवातामयापहम् । दन्तदार्ढ्यकरं पित्तकारकं
परिकीर्त्तितम्” राजनि० ।

कर्पूरनालिका स्त्री “घृताढ्यया समितया लम्बं कृत्वापुटं

ततः । लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम् । पचेदाज्येन
सिद्धैषा ज्ञेया कर्पूरनालिका । संयावसदृशी ज्ञेया गुणैः
कर्पूरनालिका” भावप्र० उक्ते पाकभेदसिद्धे भक्ष्यभेदे ।

कर्पूरमणि पु० कर्पूरवर्णो मणिः । रत्नभेदे, “कर्पूरम-

णिनामायं युक्त्या वातादिदोषनुत्” राजनि० । कर्पूरा-
श्मादयोऽप्यत्र पु० ।

कर्पूररस पु० कर्पूर इव कृतोरसः पारदः । पाकविशेषेण

कपूरवत्कृते पारदे रसकर्पूरे तत्पाकप्रकारः भावप्र०
उक्तो
यथा“अथ कर्पूररसस्य विधिः तत्र पारदस्य संक्षिप्तं शोधनं
कत्तव्यम् । शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः । इष्टि-
कां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च तल्मीकं क्षार-
लवणं भाण्डरञ्जकमृत्तिकाम् । सर्वाण्येतानि सञ्चूर्ण्य वास-
पृष्ठ १७२४
सा चापि शोधयेत् । खटिका(खरी) (स्थटिका) (फट्किरी)
सिन्धुजन्म सैन्धवम् । बल्मीकम् (रुइमाटी) क्षारलवणम्
(खारिलोण) भाण्डरञ्जकमृत्तिका (काविसा) । एभिश्चूर्णैर्युतं
सूतं यावद्यामं विमर्दवेत् । तच्चूर्णसहितं सूतं स्थाली-
मध्ये परिक्षिपेत् । तस्याः स्थाल्यामुखे स्थालीमपरां
धारयेत् समाम् । सवस्त्रकुटितमृदा मुद्रयेदनयोर्मुखम् । संशो-
ष्य मुद्रयेद्भूयोभूयः संशोष्य मुद्रयेत् । सम्यग्विशोष्य मुद्रां
तां स्थालीञ्चुल्यां विधारयेत् । अग्निं निरन्तरं दद्याद्याव-
द्दिनचतुष्टयम् । अङ्गारोपरितद्यन्त्रं रक्षेद्यत्नादहर्निशम् ।
शनैरुद्घाटयेद्यन्त्रमूर्द्धस्थालीगतं रसम् । कर्पूरवत् सुविमलं
गृह्णीयाद्गुणवत्तरम् । तदेव कुसुमचन्दनकस्तूरीकुङ्कुमै
र्युक्तम् । खादन् हरति फिरङ्गव्याधिं सोपद्रवं सपदि ।
विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्य्यंबलं विपुलम् । रमयति
रमणीशतकं रसकर्पूरस्य सेवकः सततम्” ।

कर्पूरस्तव पु० कर्पूरशब्दघटितः स्तवः । “कर्पूरं मध्यमान्त्य-

स्वरपरिरहितम्” इत्यादिके तन्त्रोक्ते श्यामास्तवभेदे ।

कर्पूरा स्त्री कृप--खर्जू० ऊर--लत्वाभावः । हरिद्राभेदे ।

“दार्वी मेदास्रगन्धा च सुरभी दारुदारु च । कर्पूरा
पद्मपत्रा स्यात् सुरीमत् सुरतावकाः” भावप्र० तत्प-
र्य्यायः । मदनपाले तु हरिद्रायाः पञ्चधा विभागमुक्त्वा
तद्गुणाउक्ताः, यथा “दार्वी दारुहरिद्रा स्यात् पीतदारु
च पञ्चधा । कटङ्कटेरी पीतद्रुः स्वर्णवर्णा कटङ्कटी । दार्वी
तद्वद्विशेषात्तु मूत्रकर्णास्यरोगनुत्” ।

कर्पूरिन् त्रि० कर्पूरोऽस्त्यस्य इनि । कर्पूरयुक्ते ततः सुवास्त्वा०

चतुरर्थ्याम् अण् । कार्पूर तस्यादूरभवदेशादौ त्रि० ।

कर्फर पु० कीर्य्यते विच् फल्यते फलः प्रतिविम्बः कः

कीर्य्यमाणः फलः प्रतिविम्बं यत्र लस्य रः । दर्पणे
जटाधरः तत्र हि प्रतिविम्बस्य पतनात् तस्य तथात्वम् ।

कर्बगतौ भ्वा० पर० सक० सेट् । कर्बति अकर्बीत् । चकर्ब ।

कर्बु पु० कर्ब--उ । १ चित्रवर्णे २ तद्वति त्रि० “अनन्ता रगस्यस्तस्य

दीपवद्यः स्थितो हृदि । सितासिताः कर्बुनोलाः
कपिलाः पोतलोहिताः” याज्ञ० । स्वार्थे कन् तत्रार्थे

कर्बुदार पु० कर्बुः सन् दारयति मलं दृ--णिच्--अच् कर्म्म० ।

१ कोविदारवृक्षे २ श्वेतकाञ्चने च रत्नमा० ३ नीलझिण्ट्यां
शब्दच० । “कोविदारकर्बुदारारिष्टेत्यादि” सुश्रु० । तस्य
तैलन्तु मधुरम् । “पियालकर्बुदारसूर्य्यवल्लीत्रपुसैर्वारुक
कर्कारुकुष्माण्डप्रभृतीनां तैलानि मधुराणि” सुश्रु० ।
“अच्चूयूथिकेत्याद्युपक्रमे कर्बुदारकोविदारप्रभृतीनि
“कषायम्वादतिक्तानि रक्तपित्तहराणि च । कफघून्य-
निलं कुर्य्युः संग्राहीणि लघूनि च” इति सुश्रुतेन कोवि-
दारादस्य भेदस्य निर्द्देशात ततोऽस्य भेदः इति बोध्यम् ।

कर्बुदारक पु० कर्बुः सन् दारयति कफं दृ--णिच्--ण्वुल् ।

श्लेष्मान्तकवृक्षे राजनि० ।

कर्बुर पु० कर्ब--गतौ मद्गुरा० उरच् । १ चित्रवर्णे शवले इतरवर्णेन

सह संपर्कादस्य तथात्वम् । २ तद्वति त्रि० “पवनैर्भस्य कपोत-
कर्बुरम्” कुमा० । ओष्ठमध्योऽप्ययं बवयोरभेदात् दन्त्यमध्यो-
ऽपीति शब्दचि० । ३ पापे नरकादिगतिहेतुत्वात्तस्य
तथात्वम् । ४ नादेयनिष्पावधान्ये राजनि० कर्बुरवर्णत्वा-
त्तस्य तथात्वम् । ५ जले न० मेदि० नीचगतित्वात्तस्य
तथात्वम् । कर्व--दर्पे, मद्गुरा० उरच् दन्त्यमध्यः । ६ स्वण्णे
न० मेदि० इतरधातुभ्यस्तस्योत्कर्षेण दर्पयोगात्तथात्वम् ।
तन्नामनामके ७ धूस्तूरे च अम० । ८ शठ्याम् अमरटीका
९ राक्षसे पु० अमरे पाठान्तरम् दर्पयुक्तत्वात्तस्य तथात्वम् ।
१० कृष्णपृक्कायां (पारुल) स्त्री टाप् मेदि० ११ वर्वरायां
(वावुइ तुलसी) स्त्री जटा० गौरा० ङीष् कर्वुरी ।
१२ दुर्गायां स्त्री त्रिका० ।

कर्बुरफल पु० कर्बुरं फलमस्य । साकरुण्डवृक्षे राजनि०

कर्बू(र्वू)र पु० कर्व--गतौ कर्ब--दर्पे वा खर्जूरा० ऊर । १

राक्षसे उणा० । २ शठ्यां च अमरः ३ कर्चूरे (काचा)
हरिद्रायाम् शब्दर० । भावप्र० कर्च्चूर इत्येव पाठः । ४
स्वर्णे ५ हरिताले न० शब्दचि० वैजयन्त्याम् कर्चरमिति
पाठः कर्चूरशब्दे उदा० । ६ चित्रवर्ण्णे पु० ७ तद्वति त्रि०
अमरटीका स्वार्थे कः । कर्बूरकस्तत्रार्थेषु ।

कर्म्मकर त्रि० कर्म करोति भृत्यः कृ--ट । वेतनेन कर्मकारके

स्त्रियां ङीप् । “प्रोचुः प्राञ्जलयः स्त्रियः वयं कर्मकरी-
स्तुभ्यम्” भाग० ३, २३, २६ । जसः स्थाने शस् आर्षः ।
ताच्छील्ये ट । २ दासे कर्मकरणशीले “चिकित्सकौ
कर्मकरौ कामरूपसमन्वितौ । लोके चरन्तौ मर्त्यानां कथं
सोममिहार्हतः?” भा० व० १२४ अ० । “नाभुक्तवति
नास्नाते नासंविष्टे च भर्त्तरि । न संविशामि
नाश्रामि सदा कर्मकरेष्वपि” भा० व० २३२ । स्त्रियां ङीप् ।
कृ--हिंसायां मन् कर्म हिंसां करोति हेत्वादौ ट । ३ यमे
पु० मेदि० । सर्वप्राणिहिंसायां तस्याधिकृततया च
तस्य तथात्वम् । ४ मूर्वालतायाम् स्त्री मेदि० । कर्मकरश्च
दासभेदस्तस्य भेदकर्मादिकं मिता० नारदेनोक्तं यथा ।
“शुश्रूषकः प्रञ्चविधः शास्त्रे दृष्टोमनीषिभिः । चतुर्व्विधः
पृष्ठ १७२५
कर्मकरस्तेषां दासास्त्रिपञ्चकाः । शिष्यान्तेवासिभृतकाश्चतु-
थैस्त्वधिकर्मकृत् । एत कर्मकरा ज्ञेया दासास्तु गृहजादयः ।
सासान्यमस्वतन्त्रत्वमेषामाहुर्मनोषिणः । जातिकर्मकरस्तू-
क्तोविशेषोवृत्तिरेव च । कर्मापि द्विविघं ज्ञेयमशुभं शुभमेव
च । अंशुभं दासकर्म्मोक्तं शुभं कर्म्मकृतां स्मृतम् ।
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छि-
ष्टविण्मूत्रग्रहणोज्झनम् । अशुभङ्कर्भ विज्ञेयं शुभमन्यदतः
पर” मिति--“तत्र शिष्योवेदविद्यार्थी । अन्तेवासी शिल्पा-
दिषु । मूल्येन यः कर्म्म करोति स भृतकः । कर्म्मकुर्वता-
मधिष्ठाता अधिकर्म्मकृत् । अशुचिस्थानम् उच्छिष्ट-
प्रक्षेपणार्थं गर्तादिकम् । अवस्करः गृहमार्जितपां-
श्वादिनिचयस्थानम् । उज्झनं त्यागः । भृतकश्चात्र
त्रिविधः । तदुक्तम् “उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषी-
वलः । अधमोभारवाही स्यादित्येवन्त्रिविधोभृतः” इति ।

कर्म्मकर्त्तृ पु० कर्नैव कर्त्ता । व्याकरणोक्ते कर्मणः कर्तृत्व-

विवक्षया प्राप्तकर्तृत्वभावे कर्मणि । “क्रियमाणन्तु यत् कर्म
स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कर्त्तुः कर्मकर्त्तोत
तद्विदुः” व्या० का० । कर्मकर्त्तरि च कार्य्यभेदातिदे-
शमाह “कर्मवत् कर्मणा तुल्यक्रियः” पा० । सि० कौ०
विवृतमेतत् यथा
“कर्त्तरि तु कर्मस्थया क्रियया तुल्यक्रियः कर्त्ता कर्मव-
त्स्यात् । कार्य्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चि-
ण्वदिटः स्युः । कर्त्तुरभिहितत्वात्प्रयमा । पच्यते ओदनः ।
भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे
लकारे कर्त्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न लकार-
वाच्य एव कर्त्ता कर्मवत् । लिङ्याशिष्यङिति द्विलकारका
ल्ल इत्यनुवृत्तेः भावे प्रत्यये च कर्त्तुर्ल्लकारेणानुपस्थितेः ।
अतएव कृत्यक्तखलर्थाः कर्मकर्त्तरि न भवन्ति किन्तु भावे
एव । भेत्तव्य कुसूलेन । ननु पचिभिद्योः कर्मस्था
क्रिया विक्लित्तिर्द्विधाभवनञ्च । सैवेदानीङ्कर्त्तृस्था न तु
तत्तुल्या? सत्यम् । कर्मत्वकर्त्तृत्वावस्थाभेदोषाधिकं तत्स-
मानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति
किम्? करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्व-
सिरित्यादौ मा भूत् । किञ्च--कर्त्तृस्थक्रियेभ्यो मा
भूत्, गच्छति ग्रामः, आरोहति हस्ती, अधिगच्छति
शास्त्राथः, अरति श्रद्दधाति वा । यत्र कर्मणि
क्रियाकृतो विशेषो दृश्यते, यथा पक्वेषु तण्डुलेषु, यथा
वा च्छिन्नेष काष्ठेषु तत्र कर्मस्था क्रिया, नेतरत्र । न
हि पक्वापकतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपल-
भ्यते । करोतिरुत्पादनार्थः । उत्पत्तिश्च कर्मस्था, तेन
कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् ।
ज्ञानेच्छादिवद्यत्नस्य कर्त्तृस्थत्वात् एतेन अनुव्यवस्यमानेऽथं
इति व्याख्यातम् इदमस्माभिः सरलायां व्याख्यातम्
यथा“उत्प्रवृत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके । व्यापार-
भेदापेक्षायां करणत्वादिसम्भवः” इति वाक्यमनुरुन्धानः
कर्त्तृत्वकर्मत्वादिकं व्यवस्थाप्य कार्य्यविशेषाय कर्मातिदेश-
कसूत्रमवतारयति कर्त्तरि त्विति । कर्मस्थया कर्ममात्र-
स्थया क्रियया फलेन “फलव्यापारयोर्धातुः” इत्युक्तेः “धातो-
रर्थः क्रियोच्यते” इत्युक्तेश्चेत्यर्थः । तुल्यक्रियः समानाधि-
करणक्रिय इत्यर्थः । किञ्च कर्मस्थभावकएव कार्य्यातिदे-
शार्थं कर्मणेति पदम् “कर्मस्थेऽपि च धात्वर्थे कर्मकर्त्ता च
कर्मवत् । कर्त्तृस्थेऽपि च धात्वर्थे कर्मकर्त्ता च कर्त्तृवत्”
इत्युक्तेः “कर्मस्यः पचतेर्भावः कर्मस्थाश्च भिदादयः” इत्युक्तेः
भिदादयः कर्ममात्रस्थाः । गमनादयस्तु कर्त्तृस्थाः “कर्त्तृ-
स्थोबुध्यतेर्भावः कर्त्तृस्थाश्च गमादयः” इत्युक्तेः । “व्यत्ययो-
बहुलल्लिङ्याशिष्यङिति” सूत्रयोः सन्धिजातद्विलकारमध्ये
एकलकारस्यानुवृत्तेरित्यर्थः । कृत्यक्तखलर्थाइत्यत्र क्तग्रहणं
प्रायिकं सिनोग्रासैत्यादौ कर्मंकर्त्तंरि क्तस्य दर्शनादिति
बोध्यम् । वास्तविकभेदाभावेऽप्यौपाधिकभेदोऽस्तीत्याह
कर्मंत्वकर्त्तृत्वावस्थेति तथा चावस्थाभेदेन क्रियाभेदात्
कर्त्तुः कर्मंस्थक्रियया तुल्यक्रियत्वमिति भावः । नेतरः
त्रेति । “निर्वर्त्त्ये च विकार्य्ये च कर्म्मंवद्भाव इष्यते ।
न तु प्राप्ये कर्मंणीति सिद्धान्तोऽयं व्यास्थितः” इतिहर्य्युक्तेः
क्रियाकृतविशेषवतोरेव निर्व्वर्त्त्यविकार्य्यंयोः कर्म्मवद्भावो
न तु तद्रहिते प्राप्य इति सिद्धान्तो द्योतित इति भावः”
अत्र च यथा बोधाधिकं तथा शब्द० प्र० उक्तं यथा
“अथ भिद्यते अभेदि कुशूलः स्वयमित्यादौ
भिदाद्यनुकूलव्यापारवत्त्वरूपस्य तत्कर्तृत्वस्य कथं
कुशूलादावन्वयः भिदादेः परस्मैपदित्वेन तदर्थध-
र्म्मितया कर्तृत्वबोधने पदान्तरस्यासामर्थ्यात् यगिणो-
र्विगुणत्वाच्चेत्यत आह । एकक्रियाधर्म्मितया कर्तृता
कर्म्मतोभयोः । बोधने कर्म्मताकाङ्क्षैवापेक्ष्योत्सर्गतोभ-
वेत् । कर्म्मंताकाङ्क्षा कर्म्मतान्वयस्यैवानुकूला आत्म-
नेपदयगादिसममिव्याहाररूपाकाङ्क्षा व्युत्पत्तिवैचित्र्यादपे-
क्षणीया न तु कर्तृत्वान्वयस्य परस्मैपदविकरणादिसन्दं-
शरूपा यद्येवं तण्डुलचैत्रौ पक्ष्येते इत्यपि प्रयोगः
पृष्ठ १७२६
स्यात् सामग्य्रोर्मिथोविरोधेन विभिन्नकर्म्मावच्छिन्ने प्रत्य-
यानां युगपत्कर्तृताकर्म्मत्वयोरनुभावकत्वस्याव्युत्पन्नत्वा-
त् । अतएव पचेलिमौ मैत्रतण्डुलावित्यादिकोन प्रयोगः
“आत्मने ध्रौव्यधातूनां सनन्तण्यन्तयोः किरः ।
श्रन्थिग्रन्थ्योस्तथा ब्रूञः कर्तृकर्मत्वबोधने । यगिणौ
न दुहेर्नो यगजन्तस्य च तस्य च । इण्वा स्यादुक्तधातूनां
नित्यं तत्रात्मनेपद” मिति वृद्धस्मृतेः । स्वयं विकुरुते युवे-
त्यादौ, स्वयं चिकीर्षते कट इत्यादौ, स्वयं कटः कारयते
गौरुत्पुच्छयते चिरयते इत्यादौ, स्वयमेव किरते
करीत्यादौ, स्वयं श्रथ्नीते ग्रथ्नीते वा मालिकेत्यादौ, स्वयं ब्रूते
कथेत्यादौ, स्वयं दुग्धे गौरित्यादौ, धात्वर्थकर्तृकर्म्मत्व-
योर्युगपदन्वये कर्म्मत्वान्वयानुकूलस्य यकोनापेक्षा, तथा
स्वयं व्यकृत युवा, स्वयमचिकीर्षत कट इत्यादौ, इणोऽपि
एवं स्वयमलावि अलविष्ट वा केदारैत्यादौ, स्वरान्तस्य
धातोः स्वयमदुग्ध अदोहि वा गौरित्यादौ, दुहेश्चार्थंस्य
तदुभयभानार्थमिणोऽनावश्यकत्वमतौक्तमुत्सर्गतैति । “वि
कारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः”
(कुमा०) इत्यादौ तु यकोगतिश्चिन्त्या । ननु शाकः पचता
भुज्यते इत्यादितः कुतः पाकादौ शाकादिकर्मत्वावगमः
सुवर्थस्यैव कर्मत्वस्य धात्वर्थे धर्म्मिणि साकाङ्क्षत्वादत-
आह । स्वकर्मकैकधात्वर्थकर्तृकापरकर्मता । यत्रान्वेत्यस्य
कर्मत्वे प्रथमैवानुशिष्यते । स्वकर्मताकत्वविशिष्टैकधात्व-
र्थकर्तृकर्तृकस्यापरस्य धातुनिपातयोरन्यतरार्थस्य कर्मत्वं
यत्र धर्म्मिण्यन्वेति तदीयत्वेनानुभाव्ये कर्म्मत्वे प्रथमैवानु-
शिष्यते नतु द्वितीयादिरपेक्ष्यते तेन शाकः स्वकर्मताक-
पाककर्तृकर्तृताकभोजनकर्मतावानित्याद्यन्वयधीस्तत्र स्या-
त् । अतएव “प्रधानशक्त्यभिधाने गुणशक्तिरनिहितवत्
प्रकाशते” इति पठन्ति । शक्तिः कारकमिति शाब्दिकाः ।
कर्मतामात्रन्तु ज्यायः, तेन हस्तेन पचता भुज्यते
शाकइत्यादौ नाभिहिताधिकारीयप्रथमा शक्तिः” ।
अत्राभिहिताधिकारीयप्रथमाशक्तिरिति तु अनभिहि-
ताधिकारीया न तृतीयाशक्तिरित्येतत् परम् अभिहिते
प्रथमा इत्येवमधिकाराभावात् अनभिहिते इत्यस्यैवाधि-
कारादिति चिन्त्यम् । ६ त० । २ कर्मकारके त्रि० ।
स्त्रियां ङीप् । कृ--क्विप् ६ त० । कर्मकृदप्यत्र । कर्म-
करशब्दे उदा० ।

कर्म्मकाण्ड न० कर्मणां कर्त्तव्यताप्रतिपादकं काण्डम् ।

कर्मणां कर्त्तव्यताप्रतिपादके वेदभाग कर्मकाण्डस्या
रम्भप्रयोजनञ्च वृह० उ० भाष्ये दर्शितंयथा । “तत्रास्य
कर्म्मकाण्डेन सम्बन्धोऽभिधीयते । सर्व्वोऽप्ययं वेदः
प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रका-
शनपरः सर्व्वपुरुषाणां निसर्गंत एव तत्प्राप्तिपरिहार-
येरिष्टत्वात् । दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञा-
नस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वान्नागमान्वेषणा । न
चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टा-
निष्टप्राप्तिपरिहारेच्छा स्यात् स्वभाववादिदर्शनात् ।
तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिप-
रिहारोपायविशेषे च शास्त्रं प्रवर्त्तते । “येयं प्रेते
विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके” इत्युपक्रम्य
“अस्तीत्येवोपलब्धव्यः” इत्येवमादिनिर्णयदर्शनात् । “यथा च
मरणं प्राप्य” इत्युपक्रम्य “योनिमन्ये प्रपद्यन्ते शरीरत्वाय
देहिनः । स्थाणुमन्येऽनुसयन्ति यथाकर्म्म यथाश्रुतम्” इति
च, स्वयं ज्योतिरित्युपक्रम्य” तं विद्याकर्म्मणी समन्वारभेते
पुण्योवै पुण्येन कर्म्मणा भवति” । ज्ञपयिष्यामीत्युपक्रम्य
“विज्ञानमयः” इति च व्यतिरिक्तात्मास्तित्वम् । तत्प्रत्यक्ष-
विषयमेवेति चेन्न वादिविप्रतिपत्तिदर्शनात् । न हि
देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकाय-
तिका बौद्धाश्च नः प्रतिकूलाः स्युः । नास्त्यात्मेति वदन्तः ।
न हि घटादो प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घट
इति । स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् न निरू-
पितेऽभावात् । न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्र-
तिपत्तिर्भवति । वैनाशिकस्त्वहमितिप्रत्यये जायमानेऽपि
देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते । तस्मात्
प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः ।
तथानुमानादपि । श्रुत्यात्मास्तित्वे लिङ्गस्यादर्शितत्वात् लिङ्गस्य
च प्रत्यक्षविषयत्वान्नेति चेत् न जन्मान्तरसम्बन्धस्या
ग्रहणात् आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिक-
लिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्चाहम्प्र-
त्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवानीति कल्पयन्तो
वदान्ति प्रत्यक्षश्चानुमेयश्चात्मेति । सर्व्वथाप्यस्त्यात्मा देहान्त-
रसम्यन्धीत्येवम्प्रतिपत्तुर्देहान्तरगतेष्टा निष्टप्राप्तिपरिहारो-
पायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्म्मकाण्डं समारब्धम्” ।
अधिकारिभेदेनैव कर्मकाण्डे प्रवृत्तिः “लोकेऽस्मितु द्विविधा
निष्ठा पुरा प्रोक्ता मयानघ! । ज्ञानयोगेन सांख्यानां
कर्मयोगेन योगिनाम्” इति गीतायामपि द्वैविध्योक्तेः
अतएव “तमेतं ब्राह्मणाविविदिषन्ति वेदानुवचनेन यज्ञेन
पृष्ठ १७२७
तपसा नाशकेन” इति श्रुत्यैव कर्मणां विविदिषाहेतु-
तोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मणा-
मुपयोग इत्याकरे स्थितम् ।

कर्म्मकार त्रि० कर्म्म करोति अभृत्या अण् उप० स० ।

विना वेतनेन १ कर्म्मकारके (वेगार) (कामार) इति
प्रसिद्ध सङ्कीर्णजातिभेदे जातिशब्दे विवृतिः । “हरिणाक्षि!
कटाक्षेण आत्मानमवलोकय । नहि खड्गोविजानाति
कर्म्मकारं स्वकारणम्” उद्भटः ।

कर्म्मकारिन् त्रि० कर्म्म करोति कृ--णिनि स्त्रियां ङीप् । कर्म्म

कारके “तान् विदित्वा सुचरितैर्गूढैस्तत्कर्म्मकारिभिः” मनुः

कर्म्मकीलक पु० कर्म्मणा कीलक इव । रजके जातिभेदे ।

त्रिका० ।

कर्म्मक्षम त्रि० कर्म्मणि क्षमः ७ त० । कर्मकरणसमर्थे

“आत्मकर्म्मक्षमं देहं क्षात्रोधर्म्म इवाश्रितः” रघुः ।

कर्म्मक्षेत्र न० कर्म्मणां क्रियानुष्ठानानां क्षेत्रम् । जम्बु-

द्वीपान्तर्गते नवसु वर्षेषु अनुष्ठानदेशे भारते वर्षे ।
नववर्षाण्युक्त्वा “अत्रापि भारतमेव वर्षं कर्मक्षेत्रम् । अन्या-
न्यष्टवर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमस्वर्गपदानि व्यपदिशन्ति” भाग० ५, १७, १२, १३, कर्मभूमि-
रप्यत्र स्त्री । “उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः” इत्युपक्रम्य
“कर्मभूमिरियं स्वर्गमपवर्गञ्च यच्छति” । “अत्र
सप्राप्यते स्वर्गोमुक्तिमस्मात् प्रयान्ति च । तिर्य्यक्त्वं
नारकित्वञ्च मध्यं चातश्च गम्यते । न स्वल्वन्यत्र मर्त्यानां
कर्मभूमौ विधीयते” विष्णु पु० पराशरवाक्यम् ।

कर्म्मग्रान्थ पु० कर्मणां ग्रन्थिर्बन्धनमस्मात् । अज्ञानजन्य

वासनारूपे दोषे तस्यैव सकलप्रवृत्तिहेतुत्वात्तस्य कर्म-
बन्धनहेतुत्वात्तथात्वम् ।

कर्म्मचण्डाल पु० कर्मणा चण्डाल इव । “असूयकः पिशु-

नश्च कतघ्नो दीर्घरोषकः । चत्वारः कर्मचण्डाला जन्म-
तश्चापि पञ्चमः” वसिष्ठोक्तेषु असूयकादिषु चतुर्षु ।
२ राहौ च । “उत्तिष्ठ गम्यतां राहौ! त्यज्यतां चन्द्र-
सङ्गमः । कर्मचण्डाल! योगोत्थं मम पापक्षयं कुरु”
ग्रहणमुक्तिस्नानमन्त्रः । राहोश्च असूयकत्वाद्दीर्घदोष-
वत्त्वाच्च तथात्वम् ।

कर्म्मचित् त्रि० चितवान् चि--भूते क्विप् ६ त० । १ कृतकर्मणि ।

कर्मणि क्विप् ६ त० । २ कर्मणा चीयमाने च “कर्ममयान्
कर्मचितस्ते कर्मणैवाधीयन्ते कर्मणा चीयन्ते” शत० ब्रा० ।
१०, ५, ३, ९ ।

कर्म्मचित त्रि० कर्मणा चितः चि--क्त । कर्मानष्पाद्ये “तद्यथेह

कर्मचितोलोकः क्षीयते एवममुत्र पुण्यचितः” वेदपरि० श्रुतिः

कर्म्मचेष्टा स्त्री कर्मणि क्रियायै चेष्टा । क्रियानुष्ठानार्थं

चेष्टायाम् “आत्मजन्या भवेदिच्छा, इच्छाजन्या भवेत्
कृतिः । कृतिजन्या भवेच्चेष्टा, चेष्टाजन्या क्रिया भवेत्”
इत्युक्तेः चेष्टायाः क्रियाहेतुत्वेन तथात्वम् “कर्मचेष्टास्वहः
कृष्णः शुक्लः स्वप्नाय शर्वरी” मनुः ।

कर्म्मचोदना स्त्री कर्मणि कर्मावबोधने चोदना विधिः ।

कर्मविषये १ प्रेरणारूपे विधौ “कर्मावरोधनं चोदना
क्रियायाः प्रवर्त्तकं वचनमिति” मीमा० भा० ।
चोद्यते प्रवर्त्त्यतेऽनया बा० करणे अ ७ त० । २ कर्मप्रवृ-
त्तिहेतौ ज्ञानज्ञेयज्ञातृरूपेऽर्थे च । “ज्ञानं ज्ञेयं
परिज्ञाता त्रिविधा कर्मचोदना” गोता । “ज्ञानमिष्टसाधन-
मितिबोधः, ज्ञेयमिष्टसाधनं कर्म, परिज्ञाता तज्ज्ञाना-
श्रयः त्रिविधा कर्मचोदना चोद्यते प्रवर्त्त्यतेऽनयेति
चोदना ज्ञानादित्रितयं कर्मप्रवृत्तिहेतुरित्यर्थः । यद्वा
चोदनेति विधिरुच्यते तदुक्त भट्टैः--“चोदना चोपदेशश्च
विशिष्टैकार्थवाचिनः” इति ततश्चायमर्थः--उक्तलक्षणं
त्रिगुणात्मकं ज्ञानादित्रयमवलम्ब्य कर्मविधिः प्रवर्त्तते
इति” श्रीधरः ।

कर्म्मज त्रि० कर्मणो कर्मजन्यादृष्टात् जायते जन--ड ।

कर्महेतुके रोगादौ । रोगादिव्याधयो हि नानाविधाः
यथोक्तं भावप्र०-
“तेष स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः ।
मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः ।
तत्र स्वाभाविकाः शरीरस्वभाबादेव जाताः । क्षुत्पिपासा
सुषुप्त्या च जरामृत्युप्रवृत्तयः । अथवा स्वस्वभावादुत्पत्ते
र्जाता स्वाभाविकाः सहजा इति यावत् । ते च जन्मा-
न्धत्वादयः । आगन्तवोऽभिघातादिजनिताः । अथवा
जन्मोत्तरभाविनः कामक्रोधलोभमोहभयाभिमान-
दैन्यपैशुन्यशोकविषादेर्ष्यासूयामात्सर्य्यप्रभृतयः । अथ
वोन्मादापस्मारमूर्च्छाभ्रममोहतमः संन्यासप्रभृतयः ।
कायिकाः पाण्डुरोगप्रभृतयः । कर्मजाः कथिताः
केचिद्दोषजाः सन्ति चापरे । कर्मदोषोद्भवाश्चान्ये
व्याधयस्त्रिविधाः स्मृताः । तत्र कर्मजाः व्याधय
यत्प्राक्तनन्दुष्कर्मभवङ्केवलभोगनाश्यम् प्रायश्चित्तनाश्य
वा ततो जाताः न तु दुष्टवातादिदोषेण जनितास्तथा ।
यथाशास्त्रन्तु निर्णीतो यथाव्याधिचिकित्सितः । न शमं
पृष्ठ १७२८
याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः । दोषजाः
मिथ्याहारविहारप्रकुपितवातपित्तकफजाः । ननु मिथ्या-
हारविहारिणामपि प्राक्तनसुकृतेन नैरुज्यं दृश्यत एव ।
ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत् कथं
दोषजा इत्युच्यन्ते? । दोषयेष्वपि वस्तुतः आदिकारणं
दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहारदूषिता
दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्त इति
समाधिः । कर्मदोषीद्भवाः । स्वल्पदोषा गरोयांसस्ते
ज्ञेयाः कर्मदोषजाः । अत्रकारणं दुष्कर्मं प्रबलं यतो
दोषाल्पत्वेऽपि व्याधेर्गंरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं भवति ।
दोषाः स्वल्पा अपि निदानत्वनोक्ता दृश्यन्त एवेति
दोषाणां कारणतां मन्यन्त इति । कर्मंक्षयात् कर्मकृता
दोषजाः स्वस्वभेषजैः । कर्मंदोषोद्भवा यान्ति कर्म-
दोषक्षयात् क्षयम् । दोषजाः स्वस्वभषजैरिति दोपजे-
ष्वादिकारणम् दुष्कर्म तद्भेषजार्थद्रव्यक्षयादिजनितं
दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःख-
भोगेन च क्षयं यान्ति । शेषा दुष्टा हेतवो दोषास्ते स्वस्व-
भेषजैः क्षयं यान्तीत्यर्थः । २ कायिकवाचिकमानसकर्मभवे
स्थावरादिजन्मनि “शुभाशुभफलं कर्म्म मनोवाग्देहसम्भवम् ।
कर्मजागतयो नॄणामुत्तमाधममध्यमाः” ३ कर्म्मजातमात्रे
पापादिदोषे च “तथा दहति वेदज्ञः कर्म्मजं दोषमात्मनः”
मनुः । क्रियाजन्ये ४ संयोगे ५ विभागे च । “अप्राप्तयोस्तु या
प्राप्तिः सैव संयोग ईरितः । कीर्त्तितस्त्रिविधस्त्वेष आद्यो
ऽन्यतरकर्मजः । तथोभयक्रियाजन्यो भवेत् संयोगजोऽ-
परः । आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः ।
नेषयोः सन्निपातो यः स द्वितीय उदाहृतः । कपालत-
रुसंयोगात् संयोगस्तरुकुम्भयोः । तृतीयः स्यात् कर्मजो-
ऽपि द्विधैव परिकीर्त्तितः । अभिघातो नोदनञ्च शब्द-
हेतुरिहादिमः । शब्दाहेतुर्द्वितीयः स्याद्विभागोऽपि
त्रिधा भघेत् । एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः ।
विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत्” भाषा०
६ वेगाख्यसंस्कारे च “मूर्त्तमात्रे तु वेगः स्यात् कर्मजो-
वेगजः क्वचित्” भाषा० ७ वटवृक्षे पु० जटा० । ८ कलियुगे
पु० शब्दर० । क्रियाजकर्मभवादयोऽप्यत्रार्थे । ९ धर्माधर्म्म-
रूपे गुणभेदे अदृष्टे वेदान्तिमते कर्मणः सूक्ष्मावस्थापन्ने
१० संस्कारभेदे ११ स्वर्गे १२ नरके च अदृष्टद्वारा तयोः
कर्मजन्यत्वात्तथात्वम् ।

कर्म्मजित् पु० जरासन्धवंश्ये मागधे नृपभेदे “अथ मागध-

राजानो भाविनो ये वदामि ते” भविता सहदेवस्य (जरा-
सन्धपुत्रस्य) मार्ज्जारिर्यच्छ्रुतश्रवाः । ततोऽयुतायुस्तस्यापि
निरमिरत्रोऽथ तत्सुतः । सुनक्षत्रः सुनक्षत्रात् वृहत्
सेनोऽथ कर्म्मजित्” भाग० ९, २२, ३० ।

कर्म्मठ त्रि० कर्मणि घटते कर्म्मन् + अठच् । कर्म्मनिष्पाद-

नार्थं घटमाने । “स कर्मठः कर्म्म सुतानुबन्धि” भट्टिः ।

कर्म्मणि स्त्री कर्म्म नयति समाप्तिम् नी--बा० डि णत्वम् ।

कर्म्मसमाप्तौ कर्त्तव्यायां प्रायश्चित्तेष्टौ । “कर्म्मणिरेव
तत्र प्रायश्चित्तिः” शत० ६, ६, ४, ९ ।

कर्म्मण्य त्रि० कर्म्मणा सम्पादि यत् । १ कर्म्मणा सम्पन्ने शौ

र्य्येसि० कौ० । कर्म्मणि साधुयत् । २ कर्मकुशले सि० कौ० ।
“यतो वीरः कर्मण्यः सुदक्षः” ऋ० ३, ४, ९ । “अकर्मण्यं
तिथिमलं विद्यादेकादशीं विना” ति० त० । ३ वेतने स्त्री
क्षीरस्वामी । वेतनेन हि कर्मसाधनात् तस्य तथात्वम् ।

कर्म्मण्यभुज् त्रि० कर्मण्यां वेतनं भुङ्क्ते भुज--क्विप् ६ त०

ङ्यापोरिति ह्रस्वः । वेतनेन कर्मकारके भरण्यभुगित्य-
भरपाठान्तरमिति क्षीर० ।

कर्म्मदेव पु० कर्मणा देवः प्राप्तदेवभावः । १ त्रयस्त्रिंशद्देवभेदे ।

“स एकः कर्मदेवानामानन्दः ये कर्मणा देवानपि यन्ति
श्रोत्रियस्य चाकामहतस्य ते, ये शतं कर्मदेवानामानन्दाः”
तै० उ० । “कर्मदेवा ये वैदिकेनाग्निहोत्रादिना
केवलेन देवानपि यन्ति, देवा इति त्रयस्त्रिशद्धविर्भुजः । इन्द्र-
स्तेषां स्वामी तस्याचार्य्यो बृहस्पतिः । प्रजापति-
र्विराट्त्रैलोक्य शरीरो ब्रह्मा समष्टिव्यष्टिस्वरूपः
संसारमरणानलव्यापी” शाङ्कर भा० । त्रयस्त्रिंशच्च देवाः
आनन्दगिरिणा दर्शिताः । “अष्टौ वसवः एकादश रुद्राः
द्वादशादित्याः इन्द्रः प्रजापतिश्चेति” २ कर्मणा देवलोकं
गते च । “स एकः कर्मदेवानामानन्दो ये कर्मणा
देवत्वमभिसम्पद्यन्ते अथ ये शतं कर्मदेवानामानन्दाः”
शत० ब्रा० १४, ७, १, ३५ । ये अग्निहोत्रादिश्रौत्रकर्मणा
देवलोकं प्राप्नुवन्ति ते कर्मदेवाः” भा० ।
कर्मदेवताऽप्यत्र स्त्री । “ज्योतिष्टोमादिना स्वर्गं प्राप्ताः
स्युः कर्मदेबताः” शब्दचि० । अस्मिन् कल्पेऽश्वमेधादि
कर्म कृत्वा महत्पदम् । अवाप्याजानदेवैर्याः पूज्यास्ताः
कर्मदेवताः” इति शब्दचि० पु० ।

कर्म्मदोष पु० कर्मैव दोषः, कर्म्मणि दोषः, कर्महेतुर्दोषो वा ।

१ दुष्टे पापजनके हिंसादौ कर्मणि । “संन्यस्य
सर्वकर्माणि कर्मदोषानपानुदन्” शरीरजैःकर्मदो षैर्याति
पृष्ठ १७२९
स्थावरतां नरः” मनुः । २ कर्म्मजन्ये पापादौ “मनोवा-
ग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते” मनुः । “कर्मदोषैः
पापैः” कुल्लू० । विहिताकरणाविहिताचरणरूपे ३ कर्मविष-
यदोषे च । “अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः” मनुः ।
“विहिताकरणाविहिताचरणरूपकर्मदोषजन्या गतीः”
कुल्लू० । ६ सकलकर्महेतौ मिथ्याज्ञानजन्यवासनारूपे दोषे
च । “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम” इत्यादि०
गौत० सू० मिथ्याज्ञानजन्यवासनारूपदोषस्य सकलप्रवृत्ति-
रूपकर्म्महेतुत्वोक्तेस्तस्य तथात्वम् ।

कर्म्मधारय पु० व्याकरणोक्ते समानाधिकरणपदघटिते

समामाधीनलक्षणाशून्ये समासभेदे “समानाधिकरणस्तत्-
पुरुषः कर्मधारयः” पा० । तल्लक्षणादिकं शब्द० प्र० उक्तं यथा
“क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् । तादा-
त्म्येन, भवेदेष समासः कर्मधारयः । कमिकं यन्नामद्वयं
तयोरेकस्य नाम्नोऽर्थे धर्म्मिणि० तादात्म्येनापरनाम्नोऽर्थ-
स्यान्वयबोधं प्रति समर्थं तादृशं नामद्वयं कर्मधारयः नीलो-
त्पलमित्यादावुत्पलादिपदस्यार्थेनीलादिषदार्थस्य तादा-
त्म्येनान्वयः, तथा पुरुषसिंहैत्यादावपि पुरुषादावुत्तर-
पदलक्ष्यस्य सिंहादिसदृशस्य पुरुषः सिंह इवेत्यादि-
विग्रहे प्रायेणोपमेयस्योंपमानैरिति कर्मधारयानुशासनात् ।
कुम्भस्य समीपमित्याद्यर्थकस्तूपकुम्भादिर्न तादात्म्येना-
न्वयबोधकः, प्रबलमपद्रव्यमित्यादेः संग्रहाय नामपदस्य
धातुभिन्नोपलक्षकत्वात् सार्थकसामान्यपरत्वेऽपि क्षत्य-
भावाच्च । नीलमुत्पलमित्यादौ तु समानविभक्तिकं
नामद्वयं स्वार्थयोरभेदान्वयं बोधयदपि न क्रमिकं विभक्त्या-
व्यवधानात् । यदि च तादात्म्येन नीलादिनामार्थस्यान्वय-
बुद्धौ नीलादिनामोत्तरनामोपस्थाप्यत्वं तन्त्रमतोन तत्रा
भेदसम्बन्धेन नीलादेरन्वयः, परन्तुविशेषणविभक्त्युपस्थापिते
तादात्म्यएवाधेयत्वेन, नीलघटपटावित्यादौ च नीलपदाव्य-
वहितेन घटपटेत्येवंद्वन्द्वात्मकनाम्नैवोस्थापिते घटे पटे च
नोलस्य तादात्म्येनान्वयान्न व्यभिचारः । स्तोकं पचति धान्येन
धनं, प्रकृत्या पटुरित्यादावपि स्तोकादेर्न धात्वाद्यर्थे तादा-
त्म्येनान्वयः किन्तु द्वितीयाद्यर्थे तादात्म्यएवाधेयत्वेनेत्या-
दिकं विभाव्यते तदा क्रमिकत्वमनुपादेयमेव । राजपुरुष
इत्यादिकस्तु तत्पुरुषोन पूर्व्वपदलक्षितराजसम्बन्धिनस्ता-
दात्म्येनान्वयबोधकसमासविग्रहयोस्तुल्यार्थकत्वहान्याप-
त्तेः, परन्तु राजसम्बन्धस्यैव । अतएव राजपुरुषैत्यादौ
पूर्व्वपदे षष्ठ्यर्थसम्बन्धे लक्षणेति मणिकृदुक्तमपि सङ्गच्छते ।
यथा च नामार्थयोर्भेदेनान्वयेऽपि न क्षतिस्तथोपरिष्टाद्वक्ष्य
ते । किञ्चिद्विशिष्टसुबर्थानवच्छिन्नस्यैव वा तादात्म्येना-
न्वयबोधकत्वमुक्तनिरुक्तौ निवेश्यम् । नचैवमपि पञ्च-
पुल्यादिद्विगौ द्विगार्ग्यं गच्छत इत्यादिस्थलीये द्वितयाद्य-
भिन्नगार्ग्यादिबोधकाव्ययीभावे चातिव्याप्तिस्तदन्यत्वेनापि
विशेषणीयत्वात् । अत्र च मानुषब्राह्मणो ब्राह्मणमानु-
षैत्याद्यप्रयोगाद्विशेषणविशेष्ययोर्यत्र मिथस्तादात्म्येन
व्यभिचारस्तत्रैव कर्मधारयः साधुः प्रमेयधूमैत्यादौ तु
नरस्य शरीरं राहोः शिर इत्यादाविव तादात्म्यसम्बन्धा-
र्थकषष्ठ्या तत्पुरुषएवेति वृद्धाः । चन्दनतरुर्व्विन्ध्यगिरि-
र्वसन्तसमयैत्यादिप्रयोगस्य प्रामाणिकत्वात् विशेष्यस्यैव
विशेषणव्यभिचारित्वं कर्मधारये तन्त्रं न तु विशेषण-
स्यापि तद्व्यभिचारित्वम् । पुरुषोत्तमैत्यत्र चोत्तमत्वं न
नित्यज्ञानादिमत्त्वं किन्तु भ्रमविधुरत्वम् । अतएव तत्र
पुरुषस्येव, पुरुषेऽपितस्य व्यभिचारसत्त्वादुत्तमपुरुषैत्यपि
कर्मधारयः साधुरिति तु नव्याः । तदाद्युत्तरपदकः
कर्मधारयः प्रायशोनेष्यते नीलतदस्तीत्यादितोजात्वपि
नीलोत्पलादेरस्तित्वाद्यप्रतीतेः । “पक्वयद्भोजनं रम्यमा-
मतद्भञ्जनं वृथा । नीलयद्रसआस्वाद्यः कटुतद्रूपमीक्ष्यते”
इत्यादिप्रयोगात् क्वचिदिष्यतेऽपि । प्रयुक्तञ्च जुमरनन्दिना
परमः स इत्याद्यर्थे परमसः परमतावित्यादि ।
तत्पुरुषोऽप्येते व्याख्यातः । ननु विशेष्यतया नामार्थ-
प्रकारकान्वयबद्धिमात्रं प्रत्येव नामोत्तरविभक्त्युपस्था-
प्यत्वं तन्त्रं नतु तादात्म्यसम्बन्धानवच्छिन्नतत्प्रकारताक-
बुद्धिं प्रति गौरवादतोनामार्थयोर्नीलोत्पलयोरन्वयास-
म्भवात् कर्मधारयादिकः समासोन यौगिकः किन्तु नीलो-
त्पलत्वादिविशिष्टे रूढएव तदुक्तं भर्त्तृहरिणा “अबु-
धान् प्रत्युपायाश्च विहिताः प्रतिपत्तये । शब्दान्तरत्वाद
त्यन्तं भेदोवाक्यसमासयोः” इति वैयाकरणाः, तन्मन्दं
नीलोत्पलमित्यादौ समुदाये रूढ्यप्रतिसन्धानेऽपि नीलादि-
प्रत्येकपदोपस्थित्या तयोस्तादात्म्येनान्वयबोधस्यानुभवि-
कत्वेन गौरवस्य प्रामाणिकत्वादन्यघा नामार्थस्यान्वयबोध-
सामान्यं प्रत्येव नामोत्तरनामोपस्थाप्यत्वं तन्त्रमुरीकृत्य
नीलमानयेत्यादौ नामार्थसुबर्थयोर्नान्वयबोधः, परन्तु
सुबन्तभागस्य नीलविशिष्टकर्मत्वादौ रूढिरेवेत्यपि किन्न
रोचयेः? । नच समासस्याशक्तत्वे नीलोद्रव्यञ्च घट इत्यादाविव
नीलघटोद्रव्यमित्यादावपि घटे धर्मिण्येकत्र द्वयमिति
न्यायेन नीलद्रव्ययोस्तादात्म्येनान्वयापत्तिरिति वाच्यम्,
पृष्ठ १७३०
नामार्थस्य मुख्यविशेष्यताक इव तादात्म्याविच्छिन्नविधेयता-
केऽपि बोधे नाम्नः प्रथमान्तत्वस्य तन्त्रत्वात् । विधेयत्वन्तु
विषयतावच्छेदकतान्यप्रकारत्वं प्रकारताप्रभेदोवेत्यन्य-
देतत् पटमित्यादौ तु पटादिर्न तादात्म्येन विधेय इति
न तत्र व्यभिचारः । ननु भीलं पीतञ्चोत्पलं यत्र
इत्यर्थे नीलपीतोत्पलं सरैत्यादिको बहुव्रीहिरिव
नीलं पीतञ्चोत्पलमित्यर्थे नीलपीतोत्पलं पुष्पमित्या-
दिकः कर्मधारयोऽप्येकत्र द्वयमिति न्यायेन नीलपीताभ्या-
मवच्छिन्नोत्पलनिष्ठधर्मिताकधीजनकः कथं न स्यात्? इति
चेन्न “बहुपदे बहुव्रीहिरेव नेतरोद्वन्द्वान्यः समास” इत्यनु-
शिष्टिबलेन बहुव्रीहेरेव स्वनिविष्टनामद्वयोपस्थाप्यार्थद्वया-
वच्छिन्नतादृशनामान्तरार्थनिष्ठविषयताकबोधं प्रति हेतु-
त्वेन समासान्तरस्य तादृशधियं प्रत्यसमर्थत्वात् ।
नीलपीतोत्पले रम्ये पीतनीलोत्पलाश्रितमित्यादौ तु नीलो-
त्पलं पीतोत्पलञ्च रम्यमित्याकारकएव बोधो नतु नीलं
पीतञ्च यदुत्पलं तद्रम्यमित्याकारः । अतएव द्वन्द्वात् परस्य
प्रत्येकामिसम्बन्धसूचनार्थं नीलपीते च ते उत्पले चेत्यादि-
कमेव तत्र विग्रहं वर्णयन्ति न तु नीलं पीतञ्च तदुत्पल-
ञ्चेत्यादिकम् । घटस्य नाधिकरणमित्यादिविग्रहे
घटानधिकरणमित्यादिकस्तु मध्यपदप्रधानस्तत्पुरुषोन
बहुनामगर्भो नवैकत्र द्वयमितिन्यायेन स्वार्थस्य बोधक इति
सम्प्रदायविदः” ।
अत्र समासे विशिष्टार्थे न शक्तिर्न वा लक्षणेति शब्दचि०
स्थितौ यथा ।
“कर्मधारये तु न शक्तिर्नवा लक्षणा ताभ्यां विनापि
विवक्षितार्थान्वयबोधोपपत्तेः ननु नीलघटयोः सामाना-
धिकरण्यप्रतीतेस्तत्र लक्षणैव अन्वयप्रकारत्वादिना
तस्य भाने राजपुरुषादौ षष्ठ्यर्थोपस्थितिरपि तथास्तु
अत्र ब्रूमः--कर्मधारये सामानाधिकरण्यं नामार्थयोर-
भेदो वा गुणगुणिनोः समवायो वानुभूयते सचान्वय-
एव नत्वन्वयप्रतियोगी अतोऽन्वयप्रतियोगिनोरुपस्थि-
तिर्नामपदाच्छक्त्यैवेति न तदर्थं लक्षणा । राजपुरुष
इत्यत्र तु राजसम्बन्धिपुरुषयोरन्वयोऽनुभूयते ।
राजसम्बन्धिनश्चान्वयप्रतियोगिन उपस्थितिर्नराजपदे षष्ठ्यर्थ-
लक्षणां विना, राज्ञः पुरुषं राजसम्बन्धिनं पुरुषं
राजपुरुषमानयेत्यादौ पर्य्यायत्वाद्राजसम्बन्धिनः पुरुषे-
ऽन्वयोभासते राजसम्बन्धी अन्वयपतियोगित्वेन । एवञ्च
बहुब्रीहौ सर्वत्रान्त्यपदस्य षष्ठीतत्पुरुषे पूर्ब्बपदस्या-
परपरतया लाक्षणिकत्वात् ताभ्यां कर्मधारयो बलवान्
सर्वेषां पदानां स्वार्थपरतया मुख्यत्वाद् । अतएव
“एतयैव ऋचा निषादस्थपतिं याजयेत्” इत्यत्र कर्मधारय एव
मुख्यत्वे शब्दस्वरसात् षष्ठीततपुरुषे च षष्ट्यर्थे लक्षणा-
पत्तेः” । वैयाकरणास्तु समासमात्रे विशिष्टर्थेऽतिरिक्तां
शक्तिं कल्पयन्तस्तदस्वीकारे दोषं वर्णयन्ति यथा वैया० भू०
“अपि च समासे विशिष्टशक्त्यस्व कारे राजपुरुषश्चित्रगुः
नीलोत्पलमित्यादौ सर्व्वत्वानन्वयप्रसङ्गः । राजपदादेः
सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्म-
त्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्राति-
पदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेर्हेतुताया
आवश्यकत्वात् पुरुषादेस्तथात्वाभावात् । तण्डुलः शुभ्र
इत्यादौ च प्रातिप्रदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च
शुक्ले अभेदेनैवान्वयः । शुभ्रेण तण्डुलेनेत्यादौ च विशे-
षणविभक्तिरभेदार्था पार्ष्णिकोवान्वय इति नातिप्रसङ्गः ।
तथा च समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य
तादृशे विशिष्टार्थे शक्तिः” । “तन्वस्तूक्तरीत्या सर्वत्र समासे
शक्तिरस्तु च तथाविग्रहस्तथापि षष्ठीतत्पुरुषकर्मधारययोः
शक्तिमत्त्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यात्
इत्यत आह । “पर्यवस्यच्छाब्दबोधाविदूरप्राक्क्षणस्थिते ।
शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तनम्” ।
“पर्य्यवस्यंश्चासौ शाब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्षणश्च
तदानीन्तनलाघवमादायाधिकरणाविरोघ इत्यर्थः । अयं
भावः--निषादस्थपतिपदं समासशक्तिपक्षे निषादरूपे
निषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं
सर्वत्र शक्तत्वान्नानार्थकम् । तथा च “नानार्थे तात्पर्य्या-
द्विशेषावगतिः” इति न्यायेन तत्कल्पनायां पदद्वये पूर्वोप-
स्थितार्थे एवोपस्थित्यादिलाघवात् तत्कल्पनमिति ।
परेषामपि सति तात्पर्य्ये यष्टीः प्रवेशयेतिवल्लक्षणायादुर्व्वा-
रत्वात्तात्पर्य्यमेव कल्प्यकोटौ अवशिष्यत इति दिक्” ।
“पुंवत्कर्म्मधारयजातीयदेशीयेषु” “तत्पुरुषेऽनञ्कर्म्म-
धारयः” पा० । “द्वन्द्वोद्विगुरपि चाहं सततमस्मद्गृहेऽ-
व्ययीभावः । तत् पुरुष! कर्म धारय येन स्यां सदा
बहुव्रीहिः” उद्भटः ।

कर्म्मन् पुंन० कृ--कर्मणि मनिन् अर्द्धर्चादि० पा० अमरे तु

न० । व्याकरणपरिभाषिते कर्त्त्रा क्रियाफलाश्रयतयाप्तु-
मिष्टतमे पदार्थे “कर्त्तुरीप्सिततमं कर्म” पा० । व्या-
ख्यातञ्चैतत् सि० कौ० यथा--
पृष्ठ १७३१
“कर्त्तुः क्रियया आप्तुमिष्टतमङ्कर्म्मसंज्ञं स्यात् । कर्त्तुः
किम्? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा न तु
कर्त्तुः । तमब्ग्रहणं किम्? पयसा ओदनं भुङ्क्ते । कर्मे-
त्यनुवृत्तौ पुनःकर्मग्रहणमाधारनिवृत्त्यर्थम्, अन्यथा गृहं
प्रविशतीत्यत्र व स्यात्” । विवृतञ्चैतदस्माभिः सरलायां यथा
कर्त्तुरित्यादि । कर्त्त्राप्तुमिष्यमाणं कर्मेत्यर्थः । “धातूपात्त-
व्यापाराश्रयः कर्त्ता” इति वक्ष्यते । आप्तिश्च सम्बन्धः, स च
कर्त्तृविशेषणीभूतक्रियारूपव्यापारद्वारकएवानुपस्थितकल्पने
मानाभावात्, एवञ्च कर्त्त्रा स्वनिष्ठक्रियारूपव्यापारप्रयोज्य-
फलेन सम्बद्धुमिष्यमाणं कर्मेत्यर्थः, तदेतदाह कर्त्तुः
क्रियया आप्तुमिति । क्रियया धातूपात्तव्यापारेण, आप्तुं
धातूपात्तफलद्वारा सम्बन्धुम् । फलव्यापारयोर्धातूपात्त-
त्वन्तु “फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः” इत्यनेन
सिद्धम् । तच्च कर्म्म सप्तविधम्, यथोक्तंहरिणा “निर्वर्त्यञ्च
विकार्य्यञ्च प्राप्यञ्चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म
चतुर्द्धान्यत्तु कल्पितम् । औदासीन्येन यत् प्राप्यं यच्च
कर्त्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्”
इति । तत्र निर्वर्त्त्यादीनां लक्षणादिकमपि तेनैवोक्तं
यथा--“यदसज्जायते सद्वा जन्मना यत्प्रकाशते ।
प्रकृतेस्तु विवक्षायां विकार्य्यं कैश्चिदन्यथा । तन्निर्वर्त्त्यं
विकार्य्यञ्च कर्मद्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित्
काष्ठादिभस्पवत् । किञ्चित् गुणान्तराधानात् सुवर्णादि-
विकारवत् । क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते ।
दर्शनादनुमानाद्वा तत् प्राप्यमिह कथ्यते” इति, “सती वा
विद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य
निर्वर्त्त्यत्वं प्रचक्षते” इति च । तदयं लक्षणनिष्कर्षः० प्रकृ-
तिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्यो-
त्पत्तिरूपफलवत्त्वं निर्वर्त्त्यत्वम् यथा घटं करोतीत्यादौ-
घटादेः क्रियाजन्योत्पत्तिमत्त्वान्निर्वर्त्त्यत्वम् । प्रतीयमा-
नप्रकृतिविकृतिभावत्ये सति क्रियानिर्वाह्यविशिष्टासत्त्वो-
त्पत्तिरूपान्यतरफलवत्त्वं विकार्य्यत्वम्, यथा सुवर्णं कुण्डलं
करोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफलवत्त्वात् कुण्ड-
लस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्य्यत्वम् । क्रियाकृतासा-
धारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति क्रियाजन्य-
फलवत्त्वेनोद्देश्यत्वम्, प्राप्यत्वं यथा ग्रामं गच्छतीत्यादौ
ग्रामादेः कर्त्तृसाधारणसंयोगरूपफलवत्त्वेऽपि क्रियाकृत-
श्रमादिरूपासाधारणविशेषफलस्यानाधारत्वेन तादृशफल-
प्रकारकबोधाविषयत्वात् प्राप्यत्वम् निर्वर्त्यविकार्य्ययोस्तु
क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधार-
ण्येन तद्वत्त्वान्नातिप्रसङ्गैति बोध्यम् । कर्त्तुरनुद्देश्यत्वे सति
क्रियाजन्यफलवत्त्वम्, औदासीन्य प्राप्तं यथा ग्रामं गच्छन्
तृणं स्पृशतीत्यादौ तृणादेरनुद्देश्यत्वेऽपि क्रियाजन्य-
संयोगरूपफलवत्त्वेनोदासीनकर्मता । द्विष्टसाधनत्वे सति
क्रियाफलवत्त्वं, द्वेष्यंयथा अन्नं बुभुक्षुर्विषं भुङ्क्तेऽइत्यादौ
विषस्य तथात्वम् । कारकविशेषसंज्ञान्तरेणाविवक्षितत्वे सति
कर्मोपकारकत्वम्, संज्ञान्तरैरनाख्यातत्वम् यथा गां पयो
दोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया अविवक्षया दुग्धो-
पयोगितया कर्मत्वम् । व्यक्तीभविष्यति चेदमुपरिष्टात् ।
कारकान्तरसंज्ञापूर्व्वकत्वं यथा ‘जलधिमधिशेते’ इत्यादौ
जलधेराधारसंज्ञकतया प्राप्तत्वेऽपि “अधिशीङ्स्थासां
कर्म” पा० इत्यादिनाकर्मसंज्ञयाकर्मत्वम् । पयसेति भुजि-
क्रियां प्रति पयसः प्रकृष्टोपकारकत्वविवक्षायां तस्यैप्सित-
तमत्वात् पयः पिबतीति स्यादेव । इह तु तथा विवक्षावि-
रहेणान्नभोजनं प्रति तस्याङ्गतया करणत्वमात्रं विवक्षित-
मिति न ओदनस्य कर्मत्वम् । सहार्थे तृतीयेति तु
न्याय्यम्, तस्याप्रधानत्वात्तमपा बोधयितुमशक्यत्वात्” ।
कर्म्मताबोधनप्रकारलक्षणादिक शब्द० प्र० अन्यथोक्तं यथा
“यगन्तधातोरर्थोयस्तिङा स्वार्थेऽनुभाव्यते । यत्रासौ कर्म्म-
ता नाम कारकं कर्तृतेतरः” यगन्तस्य यद्धातोरुत्तरस्थतिङा
यत्र स्वार्थे तदीयोयादृशोऽर्थोऽनुभावयितुं शक्यते, तद्धातू-
पस्थाप्यतादृशक्रियायां स तिङर्थः कर्तृताभिन्नः कर्मत्वं
नाम कारकमित्यर्थः । ग्रामोगम्यत इत्यत्र गमधातूपस्थाप्या
याः संयोगावच्छिन्नक्रियायाः स्वजन्यत्वसम्बन्धेन तिङ्पदो-
पस्थाप्ये संयोगे एवान्वयो न तु त्यज्यतैत्यादाविवविभा-
गादौ धात्वर्थतावच्छेदकस्यैव फलस्य बोधने कर्मविहित
प्रत्ययानां धातुसाकाङ्क्षत्वादतः संयोगस्यैव तत्र गतिक्रिया
कर्मत्वं नतु विभागादेः, तेन तरोस्त्यागिनि स्वगे तरुं
गच्छतीत्यादिकोन प्रयोगः । गम्यतेरथः स्वयमेवेत्यादौ (गम्यते
इति त्वनुशासनविरुद्धं कर्त्तृस्थभावकतया कर्मवत् क्रियाया
अप्रसक्तेः) । कर्मत्वमिवानुकूलव्यापारवत्त्वलक्षणं कर्त्तृत्वं
धात्वर्थस्य धर्म्म्यपि न तत्कर्तृताभिन्नमिति तद्व्युदासः ।
ननु चैत्रकर्तृकगमनजन्यसंयोगस्य ग्रामैव चैत्रेऽपि
सत्त्वाच्चैत्रेण गम्यते चैत्रैत्यपि प्रयोगः स्यात्, तिङर्थसंयो-
गस्य जन्यत्वस्वाश्रयप्रतियोगिकत्वोभयसम्बन्धेन धात्वर्थगतेः
साकाङ्क्षत्वेन चैत्रकर्तृकगत्याश्रयप्रतियोगिकत्वविशिष्टस्य
संयोगस्य चैत्रे वाधितत्वात् । अतएव चैत्रोग्राम गच्छति
पृष्ठ १७३२
इतिवत् चैत्रश्चैत्र गच्छतीत्यपि न प्रयोगः, तत्रापि द्विती-
यार्थसंयोगे प्रकृत्यर्थस्य स्वप्रतियोगिकत्वसम्बन्धेनैव साका-
ङ्क्षतया द्वितीयान्तलभ्यस्य चैत्रीयत्वविशिष्टसंयोनस्य
जनकत्वस्वाश्रयवृत्तत्वोभयसम्बन्धेनैव क्रियायामन्वयेन चैत्रप्रति-
योगिकसंयोगाश्रयवृत्तिगतेश्चैत्रे बाधितत्वात् । यत्तु
फलमिव क्रियायामन्वितं परसमवेतत्वमपि कर्म्मतावाचिप्रत्यय-
स्यार्थः, परत्वञ्च तिङा स्वार्थफलान्वयिप्रतियोगिकं, द्विती-
यादिसुपा तु प्रकृत्यर्थप्रतियोगिकं प्रत्याय्यते तथा च चैत्र-
कर्तृकस्य चैत्रान्यसनवेतगमनस्याप्रसिद्धत्वेन चैत्रे
तज्जन्यसंयोमस्यासम्भवाच्चैत्रेण नम्यते चैत्रैत्यादिकोन
प्रयोगः । एवं चैत्रान्यसमवेतस्य चैत्रे बाधाच्चैत्रश्चैत्रं
गच्छतीत्यादिरपि । चैत्रेण नम्यते ग्रामैत्यादौ तु चैत्र-
कर्तृकस्य ग्रामभिन्नसमवेतस्य नमनस्य जन्योयः संयोगस्त
द्वान् ग्रामैत्यन्वयबोधनेन किञ्चिद्बाधकमितिप्राच्यै-
रुक्तं तन्न युक्तम्, संख्याकालातिरिक्तस्य तिङर्थस्य धात्वंर्य-
विशेष्यत्वनियमेन तिङर्थस्य परसमवेतत्वादेर्धात्वर्थगत्यादा-
वन्वयायोगात् प्रथमान्तोपस्थाप्यग्रामादेरभेदान्यसम्बन्धेना-
न्यत्र प्रत्ययार्थे तिङर्थे वान्वयस्यादृष्टचरत्वेनाव्युत्पन्नत्वात्,
चैत्रेण गम्यते द्रव्यं, द्रव्यं, गच्छति चैत्रैत्यादौ द्रव्यान्य
समवेतस्य मत्यादेरप्रसिद्धत्वेनायोम्यतापत्तेश्च । नव्यास्तु
फलमिव भेदोऽपि कर्म्मत्ववाचिप्रत्ययस्यार्थस्तथा च
चैत्रेण गम्यते ग्राम इत्यत्र तिङर्थभेदस्य सामा-
नाधिकरण्यसम्बन्धेन धात्वर्थविशेष्यत्वात् प्रतियोगि-
त्वसम्बन्धेन प्रथमान्तार्थे ग्रानादौ विशेषणत्वान्न व्युत्प-
त्तिविरोधो नवातिप्रसङ्गः चैत्रकर्तृकगमनाश्रयवृत्ति-
भेदप्रतियोगित्वस्य चैत्रे विरहात् चैत्रंनच्छतीत्यादावपि
प्रतियोगित्वसम्बन्धेन चैत्रान्वितस्य द्वितीयार्थभेदंस्य सामा-
नाधिकरण्यसम्बन्धेन धात्वर्थभतावन्वयात्तादृशनतेश्चैत्रे बाष्ठा-
च्चैत्रं गच्छति चैत्रैत्यादिकोन प्रयोगः । प्रतियोगित्वञ्च
उभयावृत्तिधर्मावच्छिन्नं धर्मद्वयानवच्छिन्नं वा ग्राह्यमतोद्रव्यं
गच्छतीत्यादौ गतौ द्रव्यभेदसामानाधिकरण्यविरहऽपि न
क्षतिरिति प्राहुस्तच्चिन्त्यम् । वृक्षं खगस्त्यजतीत्यादौ
विभागावच्छिन्नक्रिया त्यजेरर्थः द्वितीयायास्तु विभागस्तेन
वृक्षावधिकविभागवती या विभागावच्छिन्नक्रिया तद्वान्
स्वगैत्याकारस्तत्र बोधः । वृक्षावधिकविभागवत्त्वञ्च जनकत्व-
स्वाश्रयवृत्तित्वोभयसम्बन्धेनैव क्रियायां ग्राह्यमतः खगाद्य-
वधिकविभागस्य खगादावसत्त्वात् खगं त्यजति खगैत्या-
टिकोन प्रयोगः । खगेन त्यज्यते खगैत्यपि प्रयोगः
प्रागुक्तरात्या निरसनीयः । प्राञ्चस्तु ग्रामं गच्छति
त्यजतीत्यादौ सर्व्वत्र क्रियामात्रं धात्वर्थस्त्यजिगम्योः
पर्य्यायत्वेऽपि न क्षतिः, गत्यर्थक्रियायां संयोगस्यैक
त्यज्यर्थक्रियायाञ्च विनाभागस्यैव बोधकतायाः कर्मप्रत्य-
येषु व्युत्पन्नत्वात् तरुं त्यजतीत्यादौ संयोगस्य तरुं
गच्छतीत्यादौ च विभागस्य द्वितीयादितो नावगमः परैरपि
समभिव्याहृतधात्वर्थतावच्छेदकफलस्यैव द्वितीयादिबोध्य-
ताव्युत्पत्तेरभ्युपेतव्यत्वात् अन्यथातिप्रसङ्गात् । नचैवं
स्पन्दोन स्पन्दैत्यादेरिव त्यागोन नतिरित्यादेरपि
वाक्यस्य निराकाङ्क्षतापत्तिस्तत्र त्यजिगम्योर्विभागाद्यवच्छिन्न-
क्रियालक्षकत्वेनैवान्वययोग्यत्वासम्भवात् । द्वितीयासाकाङ्क्ष-
तुमन्तधातुत्वप्रयुक्तएव च धातूनां सकर्मकत्वव्यवदेशोनतु
फलावच्छिन्नक्रियावाचित्वप्रयुक्तः ज्ञाप्रभृतावव्याप्तत्वात् ।
स्मृत्यर्थधातूनां कर्मणि षष्ठ्या इव द्वितीयाया अपि
साधुत्वात् । एवञ्च ग्रामं गच्छति तरुं त्यजतीत्यादौ ग्राम-
संयोगजनकाक्रयावांस्तरुविभागजनकक्रियावानित्याकारक
एव बोधो नतु ग्रामसंयोगजनकसंयोगावच्छिन्नक्रियावांस्त-
रुविभागजनकविभागावच्छिन्नक्रियावानित्याकारकः, संयो-
नविभागयोरुभयथाभानस्य नीलघटजनकदण्डवानित्यादौ
घटादेरिव निराकाङ्क्षत्वेनासम्भवादनुभवबाधितत्वाच्चे-
त्याहुः । परे तु संयोगः क्रिया च द्वयमेव प्रत्येकं
नमिशक्यं तयोर्जन्यजनकभावस्तु वाक्यार्थमर्य्यादया भासते
एवार्थयोरन्ययोगव्यवच्छेदयोरिव, गम्यर्थयोः संयोगक्रिय-
योर्मिथएव साकाङ्क्षत्वाच्च नैकमात्रे गमिप्रयोगः । पुष्प-
वन्तपदे चन्द्रत्वसूर्य्यत्वाभ्यामिव विभिन्नरूपाभ्यां प्रकृतेऽपि
संयोनत्वक्रियात्वाभ्यां नमधातोरेकशक्तिस्वीकारेऽपि न
क्षतिः । इयांस्तु विशेषो यस्तत्र सूरशशिनोर्मिथोनान्वयः
प्रकृते तु संयोगक्रिययोस्तथेति तथाच ग्रामं नच्छतीत्यत्र
द्वितीयाया आथेयत्वं प्रतियोनित्वं वार्थस्तेन तदन्वि-
तस्य संयोगस्य क्रियायामन्वयात् ग्रामवृत्तिस्तत्प्रति-
योगिकोवा यः संयोगस्तद्विशिष्टक्रियावानित्यारक-
स्तत्र बोधः, तरुं त्यजतीत्यत्राप्याधेयत्वमबधित्वं
वा द्वितीयार्थस्तेन तदन्वितस्य धात्वर्यविभागस्य धात्वर्था-
न्तरे क्रियायामन्वयात्तरुवृत्तिस्तदवधिकोवा योविभाग-
स्तद्विशिष्टक्रियावानित्याकारकोबोधः संयीगादिवैशिष्ट्यञ्च
जनकत्वस्वाश्रयवृत्तित्वोभयसम्बन्धेनैव ब्रागिव ग्राह्यमतो-
नातिप्रसङ्गः । सकर्मकत्वमपि धातोः स्वार्थफलावच्छिन्न-
स्वार्थक्रियान्वयबोधकत्वं जानातीत्यादौ सकर्मकत्वव्यवहा-
पृष्ठ १७३३
राभाक्त इत्याहिः । (फलव्यापारयोर्धातुरित्यनुसारिणः)
तण्डुलं पचतीत्यत्र रूपादिपरावृत्तिफलकतेजः-
संयोगावच्छिन्नक्रिया पचेरर्थः, तन्निविष्टे च निरुक्ते
तेजःसंयोगे तण्डुलस्याधेयत्वेनान्वयः परमाणुं पचती-
त्यपि प्रयुज्यतएव अतएव “स्वतन्त्राः परमाणवः पच्यन्ते”
इति किरणाकल्यामाचार्य्याः । ओदनं पचतीत्यादौ
तु तण्डुलादावोदनादिपदस्य लक्षणा तत्र क्रियायामन्वि-
तमनुकूलत्वं द्वितीयार्थ इत्यपि कश्चित् । तृणं छिनत्ती-
त्यादावारम्भकसंयोगविरोधिविभागावच्छिन्नक्रिया छिदे-
रर्थस्तन्निविष्टे च संयोगे विभागे वा स्वावयववृत्तित्व-
सम्बन्धेन तृणादेरन्वयः । पुष्पेण विष्णुं यजतैत्यत्र
प्रीत्यवच्छिन्नसमन्त्रकद्रव्यत्यांगोयजेरर्थः, प्रीतौ विष्णोराधे-
यत्वेन द्रव्ये च पुष्पादेरभेदेनान्वयस्तेन विष्णुनिष्ठप्रीति-
हेतुर्य्योमन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागस्तद्वान् इत्याकारस्तत्र
बोधः, स्वत्वध्वंसजनकेच्छापर्य्यवसन्नस्य त्यागस्यैकदेशे
स्वत्वएव वा पुष्पादेराधेयत्वेन तत्रान्वयस्तेन द्रव्येण विष्णुं
यजतैत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दासत्त्वेऽपि न
क्षतिः । पितरमाराधयति उपास्ते पूजयतीत्यादौ
गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रिया धात्वर्थस्तन्निविष्टयोर्गौरव-
प्रीत्योः क्रमेण विषयत्वाधेयत्वाभ्यां पित्रादेरन्वयस्तेन
पितृगोचरगौवरप्रयुक्ता या पितृनिष्ठप्रीतिहेतुक्रिया तद्वा-
नित्येवं तत्र बुद्धिः । गौरवं पुनराराध्यत्वावगाही ज्ञान-
प्रभेदोयेयं भक्तिरित्युच्यते । पित्रादिसेवायाश्च मन्त्रक-
रणकत्वाभावान्न तत्र पितरं यजतैत्यादिकः प्रयोगः ।
परमात्मानमुपात्वे इत्यादौ तु गौरकप्रयुक्तक्रियामात्रे
धातुलक्षणा नातः परमेशितुः प्रीतिविरहादयोग्यत्वा-
पत्तिः । घृतं जुहोतीत्यादौ वह्न्यादिकरणकपतनाव-
च्छिन्नमन्त्रकरणकक्रिया हुधातोरर्थः, प्रोक्ते च पतने
घृतस्याधेयत्वेनान्वयस्तेनाग्न्याधिकरणकस्य घृतवृत्तिपतन-
स्यानुकूलमन्त्रकरणकक्रियावानित्येवं तत्र बोधस्तादृशी
च क्रिया सघृतस्य करादेः प्रसारणन्युब्जीकरणादिरेव ।
अतएव घृतादेः परित्यागित्वविरहादृत्विगादेर्न यष्टृत्वं
किन्तु होतृत्वमेव । वह्नौ जुहोतीत्यत्र सप्तम्यन्तस्यार्थोन
धात्वर्थनिविष्टे पतनेऽन्वेति वह्निवृत्तित्वविशिष्टपतने
तद्वृत्तितिङर्थस्यान्वये निराकाङ्क्षतापत्तेः परन्तु तदवच्छिन्न-
क्रियायामेव । प्रतिमादौ घृतादिस्नपनं मन्त्रकरणकमपि
नाग्न्यधिकरणकं वह्नौ घृतस्य प्रक्षेपमात्रमम्न्यधिकरण-
कतत्पतनानुकूलमपि न मन्त्रकरणकमतस्तदुभयं न होमः ।
प्राजापत्येऽपि होमे मानसएव मन्त्रः करणम् । यद्वा वह्नि-
संयोगावच्छिन्नपतनानुकूलमन्त्रकरणकक्रियैव जुहोत्यर्थ-
स्तेन घृतं जुहोतीत्यत्र वह्निसंयोगजनकं यद् घृतस्य पतनं
तदनुकूलमन्त्रकरणकक्रियाविशेषवानित्याकारकोबोधः ।
न चैवं हुधात्वर्थतावच्छेदकीभूतसंयोगात्मकफलशालित्वेन
वह्न्यादेस्तदर्थकर्म्मतया वह्निं जुहोतीत्यादिकप्रयोगा-
पत्तिः साक्षाद्धात्वर्थतावच्छेदकीभूतस्यैव फलस्यान्वयिनः
कर्मत्वादन्यथा गगने लोष्ट्रमुत्क्षिपतीत्यादौ गगना-
देरुत्क्षेपणादिकर्मतायादुर्ध्वारतापत्तेः ऊर्द्ध्वसंयोगफलक-
क्रियावच्छिन्नव्यापारस्यैवोत्क्षेपणत्वात् । नचोत्क्षेपणत्वा-
दिकं जातिरेव तत्र धात्वर्थतावच्छेदकम्, प्रवेशनत्वा-
दिना सङ्करेण तस्य जातित्वायोगात् लोष्ट्रादेस्तत्कर्मत्वा-
प्रसङ्गाच्च । अतएव परम्परया दुहाद्यर्थतावच्छेदकीभूतबहिः
क्षरणशालित्वेन पयःप्रभृतेस्तत्कर्मत्वसम्पत्त्यर्थम् “अकथि-
तञ्च” इति सूत्रान्तरस्य प्रणयनमपि पाणिनेः सङ्गच्छते ।
धनं प्रतिगृह्णातीत्यत्र पुण्यार्थकदानजन्यस्वत्वस्य जनकः
स्वीकारः प्रतिग्रहैति फलीभूतस्वत्ववत्तया धनस्य कर्मत्वं,
विक्रयादेर्दानविशेषत्वेऽपि न तस्य पुण्यजनकत्वमतस्तल्लब्धस्य
स्वीकारोन प्रतिग्रहः । ग्रामं क्रीणातीत्यत्र मूल्यदान-
जन्यस्वत्वस्य जनकः स्वीकारः, स्वत्वजनकं मूल्यदानमेव
वा क्रयस्तत्फले च स्वत्वे ग्रामस्याधेयत्वेनान्वयस्तेन
ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलस्वीकारवान्, ग्राम-
निष्ठं यत्स्वत्वं तदनुकूलमूल्यदाता वेति तत्र बोधः । ग्रामं
विक्रीणातीत्यत्र मूल्यग्रहणजन्यस्य परस्वत्वस्य जनकमूल्य-
ग्रहणमेव वा विक्रयस्तेन ग्रामनिष्ठस्य मूल्यग्रहणजन्यपर-
स्वत्वस्यानुकूलोयोग्रामस्य त्यागस्तद्वान्, ग्रामनिष्ठं यत्
परस्वत्वं तदनुकूलमूल्यग्रहणवानिति वा तत्र बोधः ।
मूल्यञ्च पणपुराणादिकमेव राजनिर्दिष्टं नतु द्रव्यमात्रं
तेन तिलादीन् दत्त्वा माषादीनां विनिमये विप्राणां
तिलविक्रयादिदोषस्यानवकाश इत्युक्तमेव । नरकं पततीत्यत्र
भोगावच्छिन्नं पातित्यमेव पतेरर्थस्तेन नरकभोगानुकूलप्रा-
तित्यवानित्याकारकस्तत्र बोधः । नरकपतित इति द्वितीया-
तत्पुरुषोदाहरणमपि वृत्तिकारस्य, एतदभिप्रायकमेव
पतनक्रियायास्तथात्वे तु नरके पततोत्यादिरेव युक्तः
प्रयोगः । स्वर्गेगच्छतीत्यादौ स्वर्गादिपदस्येव प्रकृते नरकपद-
स्यापि तद्देशपरत्वात् । धनं लभते प्राप्नोतीत्यादौ स्वत्वा-
वच्छिन्नोव्यापारोधात्वर्थः, तन्निविष्टे च स्वत्वे धनादेराधेय-
त्वेनान्वयः । ननु यगन्तधात्वर्थविशेष्यतापन्नस्तिङर्थोयटि
पृष्ठ १७३४
कर्मत्वं तदा दुहादेर्मुख्यकर्मण्यव्याप्तिः । गोपेन गौः
पयोदुह्यतैत्यादौ गोपकर्तृकव्यापारजन्यं यत् पयःकर्मक-
मोचनं तद्वती गौरित्येवमन्वये मोचनयहिः क्षरणयोर्द्वयो-
रेव दुहधात्वर्थतावच्छेदकफलत्वेऽपि गौणं यन्मोचनरूपं
तस्यैव कर्मणस्तिङाद्यैर्बोधनात् “गौणं कर्म दुहादिभ्यस्ति-
ङाद्यैरभिधीयते” इति व्युत्पत्तेरतः प्रकारान्तरेण कर्मत्वं
निर्व्वक्ति । यस्य धातोर्य्यदर्थेयः प्रकारीभूय भासते ।
द्वितीयया स्मारितोऽर्थस्तद्वा तत्कर्मतोच्यते । यद्धातोर्या-
दृशार्थेद्वितीयया यादृशः स्वार्थोऽनुभाव्यते तद्धात्वर्थक्रि-
यायां तत्कर्मत्वम् । तच्च गां दोग्धि पयैत्यादिप्रयोगात्
पयःप्रभृतेरप्यक्षतम् । पाकं कुरुते इत्यादौ यत्ने प्रकारी-
भूतमपि विषयत्वं न यतेरर्थे । भवते ग्राममित्यादौ भूधा-
त्वर्थेप्राप्तौ तथाभूतमपि संयोगत्वादिकं न तदर्थोत्पत्तौ
प्रकारः । चौरं रुजन् पयः परिष्कुर्व्वन्नित्यादावेव
रुजादिधात्वर्थहिंसादेर्द्वितीयार्थकर्मतायां विशेष्यत्वं
सुलभं शतृपानजादेर्निष्ठादिगणान्तर्गतत्वेन तदन्तधातोः
कर्मणि षष्ठ्याः प्रतिषिद्धत्वात् । दिवः करणस्य कर्मत्वोप-
देशात् अक्षान् दीव्यतीत्यत्र द्वितीयार्थः करणत्वमपि
गौणकर्मत्वमेव, अतएवाक्षा दीव्यन्ते द्यूतकारैरित्यादौ
क्रीड़ाकरणतायामेव विहितास्तिङादिकर्मप्रत्ययाः । दुहा-
दयस्तु फलावच्छिन्नक्रियाहेतुव्यापारवाचित्वादेव द्विकर्म-
कास्तेन गां पयोदग्धि गोपैत्यत्र दुहेर्मोचनानुकूल-
व्यापारोऽर्थैति तत्रत्यमोचने गोराधेयत्वेन पयसः
कर्मत्वेनान्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं
तदनुकूलव्यापारवान् इत्याकारकबोधस्तत्र बहिःक्षरणा-
वच्छिन्नव्यापारोमोचनं तदनुकूलव्यापारोदोहनमतोधात्व-
र्थतावच्छेदकीभूतं बहिःक्षरणरूपं फलमादाय
पयसोमोचनात्मकञ्च तदादाय गोः कर्मत्वमवसेयम् । एवं
शिष्यं धर्मं वदति, वक्ति, ब्रूते, उपदिशत्याचष्टे, इत्यादौ
प्रतिपत्त्यवच्छिन्नव्यापारोवदप्रभृतिधात्वर्थ इति तन्निविष्टायां
प्रतिपत्तौ शिष्यस्याधेयत्वेन धर्मस्य च विषयत्वेनान्व-
याद्धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूल-
व्यापारवान् इत्याकारकोबोधस्तादृशव्यापारश्च धर्मः
सेव्यतामित्यादिकोगुर्व्वाद्यभिलापः । शत्रुं शतानि
जयतीत्यत्र ग्रहणावच्छिन्नपराभवोजयतेरथः तथा
च शतस्य ग्रहणानुकूलोयः शत्रुकर्मकपराभवस्तत्क-
र्त्तेत्येवं तत्र बोधः पराभवश्च तिरस्कारः । प्रजाः
शतं दण्डयतीत्यत्र ग्रहणावच्छिन्नशासनं दण्ड्यर्थ स्तथा
च शतग्रहणानुकूलं यत् प्रजानां शासनं तत् कत्त त्येवं
तत्र बोधः । शासनं नियन्त्रणम् । सुधां समुद्रं मथ्ना-
तीत्यत्र उत्थानावच्छिन्नोन्मन्थनं धात्वर्थस्तेन सुधोत्थाना-
नुकूलं यत्समुद्रस्योन्मन्थनं तत्कर्त्तेत्यर्थः । उन्मन्थन-
मालोड़नम् । पान्थं पन्थानं पृच्छतीत्यत्र अभिधाना-
वच्छिन्नव्यापारः पृच्छा, तथाच पान्थनिष्ठं यत्पथोऽभिधा-
नं तदनुकूलव्यापारवानित्येवं तत्र बीधः । अभिधान-
मभिलापस्तदनुकूलव्यापारश्चकेन पथा गन्तव्यमित्यादि-
प्रश्नः । नृपमर्थं प्रार्थयते याचते भिक्षते इत्यादौ
दानाय प्रेरणं धात्वर्थस्तथा च नृपनिष्ठं यदर्थस्य
दानं तत्प्रेरणावानित्यर्थः । प्रेरणा प्रवर्त्तना, सा
च दीयतामित्याद्यभिलापरूपा । ग्राममजां बहति
नयतीत्यादौ गत्यवच्छिन्नव्यापारोवहिप्रभृतेरर्थस्तेन
ग्रामकर्मकं यदजादिनिष्ठं गमनं तदनुकूलव्यापारवानित्ये
वं तत्र बोधस्तादृशव्यापारः प्रकृते गलरज्ज्वाकर्षणादिः ।
पुत्रं धर्ममनुशास्तीत्यादावनुशासनं देशनया प्रवर्त्तना, तथा
च षुत्रनिष्ठस्य देशनया प्रवर्त्तनस्यानुकूलव्यापारवानित्यर्थः
तथाविधोव्यापारः सन्ध्यां विधेहि समिधमाधेहीत्याद्युपदे-
शरूपः । शाखां ग्रामाकर्षतीत्यत्र गतिहेतुकर्षणं धात्व-
र्थस्तेन ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवा-
नित्यर्थः । विकर्षणं नम्रीकरणम् । गामवरुणद्धि व्रज
मित्यत्र गतिप्रतिरोधहेत्वावरणमवरुधेरर्थस्तेन गोगति-
प्रतिरोधस्यानुकूलं यद्व्रजस्यावरणं तत्कृतिमानित्यन्वयधीः ।
वृक्षं फलान्यवविनोति इत्यत्र छिदाहेतुर्विघट्टनं चिनो-
तेरर्थस्तथा च फलकर्मकच्छिदानुकूलं यद्वृक्षस्य विघट्टनं
चालनं तद्वानित्येवं तत्र बोधः । उत्क्षिपत्यादिकस्तु
धातुः सफलक्रियाहेतुव्यापारवाच्यपि न दुहादिः ।
यदुक्तमभियुक्तैः “दुहिर्वदत्यर्थजिदण्डिमन्थिपृच्छार्थनार्थौ
नयनार्थशासू । कृषीरुधिश्चिञ् च तथार्थवृत्तौ द्विकर्म-
कोऽयं कथितो दुहादिः” । तथार्थवृत्तौ निरुक्ततच
दर्थवृत्तौ । “गतिभोजनधीप्राप्तिशब्दार्थध्रौव्यधातुषु ।
कर्तृत्वं हेतुविहितण्यन्तेष्वेतेषु कर्मतेति” शाब्दिकस्मृतः,
गोपान् गमयति, द्विजान् गमयति, द्विजान् भोजयति,
गुरूननुज्ञापयति, शिष्यान् पाठयति, सुतान् स्नापयती-
त्यादौ मूलघात्वर्थस्य कर्तृत्वलक्षणं गौणमेव कर्मत्वं
द्वितीयार्थः । तथा च गोपकर्तृकगत्यनुकूलव्यापारवा-
नित्याकारस्तत्र बोधः । पुत्रान् प्रीतिम् प्रापयतीत्यादौ
च प्राप्तिर्न गतिः चैत्रीग्रामं भावयते, ग्रामस्य भावक
पृष्ठ १७३५
इत्यादौ प्राम्यर्यस्य भवतेः स्वार्थविहितण्यन्तस्य कर्त्तुः
कर्मतानिरासायाणच हेनुनिहितत्वमनुसृतम् । “हिंसाया-
मेव भुज्यर्थभक्षेरेवं वहेरपि । ण्यन्तस्य कर्त्तुः कर्मत्वं
क्रियया वाहनंयदि” इति स्मरणाद्भक्षयति मूषिकान् मार्जा-
रम्, भक्षयति लतां छागमित्यादेरेव भक्षेः कर्त्तरि कर्मता
न तु भक्षयत्योदतं भृत्येनेत्यादौ, भक्षयति प्रजाः
परिजनैः कुनृप इत्यादौ तु न भोजनं भक्षेरर्थः ।
वाहयति रथमश्वान् सारथिः वाहयति गोणीं वृषभान्
वाहिक इत्यादाविव वाहयति भारं भृत्येन धनिकैत्यादौ
स्वचेष्टया वाहकोन धनिकादिः । “हृक्रोस्तु कर्त्तुः
कर्मत्वं ण्यन्तत्वे स्याद्विभाषया । अभिवादिदृशोरेवमा-
त्मनेपदैष्यते” इत्यनशिष्टेर्हारयति कारयति वा पटं
कुविन्देनेत्यत्रेय कविन्दमित्यतोऽपि कुविन्दस्य गौण
कर्मत्वावगमः । तथा अभ्यवहारयत्योदनं तनयं तनयेन
वा जननी, विकारयति न्वित्तं चित्तेन वा वसन्तैत्यपि
प्रमाणम् । परन्तु पूर्व्वयोरप्राप्तावेतयोस्तु प्राप्तायेव
कर्मत्वस्य वैकल्पिकोविधिः । गुरुमभिवादयते सुतं सुतेन
वा गृहस्थः, ध्रुवं दर्शयते भार्य्यां भार्य्यया वा
पतिरित्यादौ तु दृशेः प्राप्तावभिवादयतेस्त्वप्राप्तौ सः ।
अनात्मनेपदस्थले तु पन्थानं पथिकं दर्शयति, पुत्रेण
मित्रमभिदादयतीत्यादौ यगाप्राप्तमेव कर्मत्वादिकम् ।
छात्रेणार्प्यं निर्णाययति, चैत्रेणौदनं खादयति, आदयति
वा दारैः क्रन्दयति, पुत्रेण मित्रमाह्वाययतीत्यादौ तु
नीप्रभृतेर्बुद्याद्यर्थकत्वेन तत्कर्त्तुः कर्मत्वं प्रसक्तमपि “न
नीखाद्यादिशब्दायक्रन्दिह्वयतिषु क्वचित् । हेतुण्यन्तेषु
कर्तृत्वं कर्मता स्यात्तिङादिष्विति” भर्त्तृहरिवचनान्नि-
षिध्यते । अत्र च कचित्तिङादिष्वितिकथनाच्चैत्रेणार्थं
निर्णाय्यमानस्तिष्ठति, मैत्रेण पूपं खाद्यमानोब्रूते
इत्यादौ कर्मविहितस्य शानजादेर्नानुपपत्तिरिति वदन्ति ।
सुखं प्राप्नोतोत्यादौ प्राप्तिरुत्पत्तिः परम्परया
तदाश्रयत्वञ्च तिङर्थः । घटं जानातीत्यत्र विषयत्वं
विषयिता वा द्वितीयार्थः । दिवाकरस्तु संस्कारावच्छिन्नमेव
ज्ञानं जानात्यर्थैत्युक्तस्थले भुख्यमेव कर्मत्वं घटादे-
रित्याह तन्मन्दं ज्ञानमित्यादितः संस्काराप्रतीते-
र्लाघबेन ज्ञानत्वस्यैव जानात्यर्थतावच्छेदकत्वात् घटस्योपे-
क्षात्मकज्ञाने निर्विकल्पके वा घटं जानातीतिप्रयोगस्या-
प्रसङ्गाच्च । अतएव प्राकट्यावच्छिन्नज्ञानमेव तत्र
धात्वर्थ इति तत्त्वावच्छेदकीभूतज्ञाततावत्त्वादेव घटादेर्ज्ञान-
कर्मतेति भट्टमतमप्यनादेयं ज्ञानविषयतातिरिक्तायां
ज्ञाततायां मानाभावादन्यथा ज्ञाततायाइव कृततादे-
रप्यतिरिक्तायाः कल्पनापत्तेः । वह्निमनुमिनोमि
आपादयामीत्यादौ विधयतानामको विषयताप्रभेदएव द्विती-
यार्थः पर्व्वतोवह्निमानित्याद्यनुमितावापत्तौ वा पर्व्वत-
मनुमिनोमीत्याद्यप्रयोगात् विषयनावच्छेदकत्वभिन्नप्रका-
रत्वमेव तत्र द्वितीयार्थैत्यपि वदन्ति । घटं पश्यति
शब्दं शृणोत्यनुभवतीत्यादौ दर्शनाद्यर्थकधातुयोगे सा
क्षात्कारत्वनिरूपितमेव विषयत्वं कर्मत्वं घटादेरुप
नीतचाक्षुषादौ तादृशाप्रयोगात् । आकाशं न पश्यती
त्यादौ पुनरन्वयोवक्ष्यते । तण्डुलपाकं करोतीत्यत्र
चिकीर्षाजन्यतावच्छेदकः क्रियायासद्देश्यताख्योविषयता-
बिशेष एव द्वितीयार्थः कृतौ भासते, तेन तण्डुलपा-
कत्वप्रकारककृतेस्तण्डुलविषयत्रेऽपि पाकदशायां
तण्डुलं करोतीत्यादिकोन प्रयोगः पाकदशायामोदनं
करोतीत्यादौ च द्वितीयाया अनुकूलत्वे लक्षणा तण्डुला-
दिक्रयणकृतिस्तु नौदनादिजनिका प्रमाणाभाघात् । बर्द्ध-
मानस्तूक्तस्यले धातुना उत्पत्त्यनुकूला कृतिरुच्यते इति
तत्रौदनस्य मुख्यमेव कर्म त्वमतएव यत्र कृतिमात्रं धात्व-
र्थस्तत्र न द्विताया यथा घटाय यततैत्यादाविवेत्याह
तन्न कृत्यादिपदाद्यत्नमात्रप्रतीत्या यत्नत्वावच्छिन्नस्यैव
करोत्यर्थत्वात् । मीमांसामहाणवे तु पाककृतौ तण्डु-
लादेरुपादानविधयेव फलविधयोदनादेरपि विषयत्व-
मुक्तं यदाह वत्सेश्वरः “सिंद्धं साध्यं फलञ्चेति प्रवृत्ते-
र्विषयस्तिधा । तत्र सिद्धमुपादानं क्रिया साध्यं फलं
सुखमिति” तथा च तन्मते तण्डुलपक्तृदशायामोदनं
करोतीत्यादिप्रयोगे फलत्वेन विषयतैव द्वितीयार्थः ।
मासं जीवति, क्रोशं स्वपिति, गोदोहं तिष्ठति, कुरून्
क्रीडतीत्यादावधिकरणत्वं गौणमेव कर्मत्वं सुपाऽनु-
भाव्यते “कालानामध्वमानानां क्रियाणां नीवृतामपि ।
आधारता ध्रौव्यधातोः कर्मता स्याद्विभाषयेति” स्मृतेः” ।
“कर्मणि द्वितीया” “कर्मण्यण्” पा० । सकर्मकः अकर्मक
इत्यादि । २ वैशेषिकमतसिद्धे मूर्त्तद्रव्याश्रिते क्रियारूपे
पदार्थभेदे । तल्लक्षणादि कणादसूत्रवृत्त्योर्दर्शितं
यथा“एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मल-
क्षणम्” सू० “गुणानन्तरमुद्दिष्टस्य कर्मंणोलक्षणमाह
एकमेव द्रव्यम् आश्रयो यस्य तदेकद्रव्यं न विद्यते गुणो-
ऽस्मिंन्नित्यगुणं, संयोगविभागेष्वनपेक्षकारणमिति स्वोत्
पृष्ठ १७३६
पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षमित्यर्थः तेन समवायिका-
रणापेक्षायां पूर्व्वसंयोगाभावापेक्षायाञ्च नासिद्धत्वम् खोत्
पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितं पूर्वसंयोग-
ध्वंसस्य स्वोत्पत्त्यनन्तरानुत्पत्तिकत्वात् अभावत्वेन तस्या
द्यक्षणसम्बन्धाभावात् । नित्यावृत्तिसत्तासाक्षाद्व्याप्यजाति
मत्त्वं कर्मत्वं, चलतीति प्रत्ययासाधाणकारणतावच्छे-
दकजातिमत्त्वं वा, गुणान्यनिर्गुणमात्रदृत्तिजातिमत्त्वं
स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजा-
तिमत्त्वं वा । स चायं चलतीति प्रत्ययसाक्षिकः
पदार्थोनाविरलदेशोत्पादनादिनोपपाद्यः क्षणभङ्गस्याग्रे
निराकरिष्यमाणत्वात् । लक्षणस्य इतरभेदसाधकताप्रकारः
पूर्व्वोक्त एव” उपस्क० “संयोगविभागवेगानां कर्म
समानम्” सू० । “क्वचिदेकस्य कर्मणोऽनेककार्य्यकारित्वमाह
कारणमित्यनुषङ्गः यत्र द्रव्ये कर्मोत्पन्नं तेन समं यावद्द्रव्यं
संयुक्तमासीत् तावत्सङ्ख्यकान् विभागान् जनयित्वा
तावतः संयोगानपि पुनरन्यत्र जनयति वेगं पुनरेकमेव
स्वाश्रये करोति वेगपदं स्थितिस्थापकसप्युपलक्षयति”
उपस्क० “न द्रव्याणां कर्म” सू० । “ननु क्रिया
यता द्रव्येणारम्भकसंयोगे जनिते तेन च द्रव्यमारब्ध
यत्तदपि कर्मजन्यमेव कर्मणस्तत्पूर्व्ववर्त्तित्वादत आह
कर्म द्रव्याणां न कारणमित्यर्थः । कुत एवमत आह”
उपस्क० “व्यतिरेकात्” सू० । “व्यतिरेकादिति निवृ-
त्तेरित्यर्थः उत्तरसंयोगेन कर्मणि विवृत्ते द्रव्यमुत्पद्यते
इति न कर्मणोद्रव्यकारणत्वं विनश्यदवस्थञ्च कर्मन द्रव्य-
कारणम् । किञ्च कर्म द्रव्यस्यासमवायि कारणं वा
भवेन्निमित्तकारणं वा, न तावदाद्यः, द्रव्यस्यासमवायि-
कारणनाशनाश्यत्वेन अवयवकर्मनाशादेव द्रव्यनाशापत्तेः ।
न द्वितीयः, महापटनाशेऽवस्थितसंयोगेभ्य एव खण्ड-
प्रटोत्पत्तौ निष्कर्मणामेवावयवानां द्रव्यारम्भदर्शना-
द्व्यभिचारात्” उपस्क० । “गुणवैधर्म्यान्न कर्मणां
कर्म्म” सू० । “ननु यथा द्रव्याणां द्रव्यं कार्य्यं गुणा-
नाञ्च गुणस्तथा किं कर्मणामपि कर्म कार्य्यम्?
इत्यत आह कार्य्यमिति शेषः द्रव्यगुणयोः सजातीया-
रम्भकत्वं साधर्म्यमुक्तं “तत्र कर्म कर्मसाध्यं न विद्यते”
इति सूत्रेण कर्मणां कर्मजनकत्वं प्रतिषिद्धमेव
तदिहानूद्यते इति मावः” उपस्क० । “असमवायात् सामान्य-
कार्य्यं कर्म न विद्यते” सू० “असमवायादित्यत्र
द्रव्ययोर्द्रव्येष्विति योज्यं, तथा च न द्रव्ययोरेकं कर्म-
समवैति न वा द्रव्येष्वेकं कर्म समवैति तेन सामान्यस्य ।
दायस्य कार्य्यं कर्म न विद्यते । अत्रापि विदिर्ज्ञानाथो न
सत्तावचनः यदि कर्मव्यासज्यवृत्ति स्यात्! एकस्मिन् चलति,
द्वयोर्द्रव्ययोर्बहुषु च द्रव्येषु चलतीति प्रत्ययः स्यात्!
नचैतत्, तस्मान्नकम व्यासज्यवृत्तीत्यर्थः । ननु शरीरतद-
वयवानां कर्म शरीरतदवयवैर्बहुभिरारभ्यत एव
कथमन्यथा शरीरे चलति करचरणादावपि चलतीति प्रत्ययः,
एवमन्यत्राप्यवयविनीति चेन्न अवयबिकर्मसामग्र्या
अवयवकर्मसामग्रीव्याप्तत्वात् तथोपलब्धेः न तु
वैपरीत्यम्, नह्यवयवे चलति सर्वत्रावयविनि चलतीति
प्रत्ययः अन्यथा कारणाकारणसंयोगात् कार्य्याकार्य्य-
संयोगोऽपि न स्यात्, कारणकर्मणैव कार्य्यस्यापि संयोगोप-
पत्तेः” उपस्क० “ननु मूर्त्तगुणानां कार्य्याणां कारण-
गुणपूर्वकत्वं स्वाश्रयगुणपूर्व्वकत्वञ्चोक्तं द्रव्यकर्मणोश्च न
कर्म कारणमित्युक्तं, तथा च कर्मणः किमपि न कार्य्य-
मित्यायातं, तथाचातीन्द्रियाणां सूर्य्यादिगतीनाम्
अनुमानमपि दुर्लभं, लिङ्गाभावात् अतः संयोगविभागवेगानां
कर्मेति सूत्रोक्तमेव स्मारयन्नाह “संयोगविभागाश्च कर्म-
णाम्” सू० “जन्याइति शेषः व्यक्त्यभिप्रायेण
बहुवचनं संस्कारोऽप्युषलक्षणीयः । ननु द्रव्यकर्मणी न कर्म
कार्य्ये इति पूर्वमुक्तम्, संयोगविभागौ तु संयोमविभाग-
कानांवेव, तथा चेदानीं कर्मणः कारणत्वाभिधानं
विरुद्धामत्यत आह” उपस्क० । “कारणसामांन्ये
द्रव्यकर्मणां कर्माकारणमुक्तम्” सू० । “कारण सामा-
न्यपदेन तत्प्रकरणमुपलक्ष्याते तेन कारणसामान्याभिधा-
नप्रकरणे द्रव्यकर्मणी प्रति कर्मणोऽकारणत्वमुक्तं न तु
सर्वथाप्यकारणमेव कर्मेति विवक्षित येन “संयोगविभागाश्च
कर्मणामिति” सूत्रंव्याहन्येतेति भावः” उपस्क० ।
तच्च कर्म पञ्चविधम् “उत्क्षेपणं तयावक्षेपणमा-
कुञ्चनं तथा । प्रसारणञ्च गमनं कर्माण्येतानि पञ्च च”
भाषा० अत्रेदं बोध्यम् । कृञोयत्रार्थकत्वबादिमते
ऽस्य यत्नार्थककृधातुनिष्पन्नत्वेऽपि उक्तलक्षणक्रियामात्रे
रूढत्वं न तु यौगिकत्वम् । तच्च कर्त्तृशब्देप्रदर्शिते कर्मा-
दिशब्दवत् कर्त्तृपदस्य रूढत्वप्रतिपादनपरे शब्दचि० वाक्ये
उक्तम् । कृञ उत्पत्त्यनुकूलव्यापारमात्रार्थकत्ववादिमते
तु यौगिकत्वमिति भेदः । व्याकरस्णमते ३ व्यापारमात्ररूप-
क्रियायाम् “व्यापारोभावना सैवोत्पादना सैव च क्रिया ।
कृञोऽकर्मकत्तापत्तेर्नहि यत्रोऽर्थ इष्यते” इति हरिणा
पृष्ठ १७३७
कृञोयत्नार्थकत्वनिरासेन कर्मपर्य्यायक्रियाशब्दस्य व्यापा-
रार्थकत्वस्योक्तेः । क्रिया च धातृपात्तव्यापारभेदः अधिकं
क्रियाशब्दे वक्ष्यते । ४ शास्त्रविहिते अग्निहोत्रादियागादौ
तच्च त्रिविधम् “नित्यं नैमित्तिकं काम्यं कर्म्म चैवं त्रिधा
मतम्” इति व्यासोक्तेः । तत्र नित्यमकरणेप्रत्यवायानुबन्धि
सन्ध्यावन्दनादि । नैमित्तिकं निमित्तनिश्चयाधीनकर्त्तव्यताकं
जातेष्ट्यादि । काम्यं कामनावत्कर्त्तव्यमश्वमेधादि ।
पुनः प्रकारान्तरेण तत्त्रिविधं सात्विकराजसतामसभेदात् ।
तल्लक्षणन्युक्तानि गीतायां यथा “नियतं सङ्गरहित-
मरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म्म यत्तत्
सात्विकमुच्यते १ । यत्तु कामेप्सुना कर्म्म साहङ्कारेण ।
वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् २ ।
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादार-
भ्यते कर्म्म तत्तामसमुदाहृतम्” ३ । “नियतं नित्यतया
विहितं, सङ्गरहितमभिनिवेशशून्यम् । अरागद्वेषतः
पुत्रादिप्रीत्या वा शत्रुद्वेषेण वां यत् कृतं न भवति फलं
प्राप्तुमिच्छतीति फलप्रप्सुस्तद्विलक्षणेन निष्कामेण कर्त्रा
यत् कृतं कर्म्म तत् सात्विकमुच्यते १ । यत्तु कर्म कामे-
प्सुना फलं प्राप्तुमिच्छुना साहङ्कारेण वा मत्समः कोऽन्यः
श्रोत्रियोऽस्तीत्येव निरूढाहङ्कारयुक्तेन च क्रियते तच्च
पुनर्बहुलायासमतिक्लेशयुक्तम् तद्राजसमुदाहृतम् २ ।
अनुबध्यत इव्यनुबन्धं पश्चाद्भावि शुभाशुभं क्षयं वित्तक्षयं
हिंसां परपीड़ां पौरुषञ्च स्वसामर्थ्यमनपेक्ष्यापर्य्यालोच्य
केवलं मोहादेव यत् कर्म्मारभ्यते तत्तामसमुदाहृतम्” ३
श्रीधरः । प्रकारान्तरेण तत्त्रिविधं शुक्लकृष्णकृष्णशुक्लभेदात्
तत्र शुक्लं हिंसाद्यनपेक्षं पुण्यजनकं स्वाध्यायादि ।
क्रष्णं शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि । कृष्णशुक्लम्
हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं
पशुयागादि । कर्मविपाकशब्दे उदा० । तच्च प्रकारान्त
रेण द्विविधं प्रवृत्तं निवृत्तं च यथाह मनुः “इह
चामुत्र वा काम्यं प्रवृज्ञं कर्म्म कीर्त्त्यते । निष्कामं
ज्ञानपूर्वन्तु निवृत्तमुपदिश्यते । प्रवृत्तं कर्म्म संसेव्य देवा-
नामेति सार्ष्टिताम् । निवृत्तं सेव्यमानन्तु भूतान्यत्येति
पञ्च वै” । “कामनापूर्वकं कर्म्म शतीरप्रवृत्तिहेतुत्वात् प्रवृत्तं,
तदेव कर्म कामनारहितं पुनर्ब्रह्मज्ञानाभ्यासपूर्बकं संसार,
निवृत्तिहेतुत्वात् निवृत्तमुच्यते” मल० त० रघुन०
विहितकर्माचरणप्रकारः कर्मयोगशब्दे दृश्यः । ५ कृषौ
च “तद्यथेह कर्मचितोलोकः क्षीयते” श्रुतिः “फलस्य
कर्मनिष्पत्तेर्लोकवत्” जै० सू० । अत्र कर्मशब्दः कृषि-
वैदिककर्मोभयपरः । “एष एव साधु कर्मकारयति तं
यमेभ्य उन्निनीषते एषं उ एवासाधु कर्मकारयतीति”
श्रुतिः । “फलं कर्मायत्तम्” मीमांसकाः ।

कर्म्मनाशा स्त्री कर्म न शयति नश--णिच्--अण् । कीकट-

देशस्थेनदीभेदे, यस्या जलस्पर्शेन सर्वपुण्यकर्माणि नश्यन्ति ।
“कर्म्म नाशाजलस्तर्शादिना नाश्यस्त्वसौ मतः” भाषा० ।

कर्म्मनिष्ठ त्रि० कर्म्मणि निष्ठा यस्य । २ यागादिकर्मासक्ते

“ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथाऽपरे । तपःस्वाध्या-
यनिष्ठाश्च कर्मनिष्ठास्तथा परे” मनुः । ७ त० । २ कर्म्मा-
सक्तौ स्त्री ।

कर्म्मन्द पु० भिक्षुसूत्रकारके ऋषिभेदे कर्मन्देन प्रोक्तं भिक्ष-

सूत्रमधीयते इनि । कर्मन्दिन् तत्प्रोक्तभिक्षुसूत्राध्यायिषु
ब० व० सि० कौ० । इनेर्बहुष्वेव पा० विधानात्
अमरे एकवचनप्रयोगश्चिन्त्यमूलः ।

कर्म्मपथ पु० कर्मणां कायिकादीनां पन्थाः अच समा० ।

“कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् । मनसा
त्रिविधम् चैव दश कर्मपथांस्त्यजेत्” भा० अनु०
१३ अ० उक्तेषु दशसु शुभाशुभकर्ममार्गेषु ते च
दशकर्मपथास्तत्रैवोक्ताः यथा “प्राणातिपातः स्तैन्यञ्च
परदारमथापि वा । त्रीणि पापानि कायेन सर्वंतः परिवर्ज-
येत् । असत्प्रलापं पारुष्यं पैशुन्यमनृतन्तथा । चत्वारि
वाचा राजेन्द्र! न जल्पेन्नानुचिन्तयेत् । अनभिध्या परस्वेषु
सर्वसत्वेषु सौहृदम् । कर्मणां फलमस्तीति त्रिविधं मनसा
चरेत् । तस्माद्वाक्याय मनसा नाचरेदशुभं नरः । शुभा-
शुभान्याचरन् हि तस्य तस्याश्नुते फलम्” ।

कर्म्मप्रवचनीय पु० कर्म क्रियां प्रोक्तवान् इति कर्मप्रवचनीयः

कर्त्तरि भूते चानीयर् । “कर्मप्रवचनीयाः” इत्यविकृत्य पाणि-
न्युक्ते अन्वादिषु शब्देषु । ते हि संप्रति क्रियां न कथयन्ति नापि
द्योतयन्ति किन्तु क्रियानिरूपितसम्बन्धविशेषं द्योतयन्तीति
तेषां तथात्वं यथोक्तं हरिणा “क्रियाया द्योतकोनायं सम्ब-
न्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः”
इति “अधिपरी अनर्थका” वित्यादेस्तद्द्योतकत्वाभावेऽपि योग्य
तया तथात्वम् । अन्वादयश्चार्थभेदे तत्संज्ञकाः स्युस्ते चार्था
पा० दर्शिताः यथा “कर्मप्रवचनीयाः” इत्यधिकृत्य “अनु-
र्लक्षणे” “तृतीयार्थे” “हीने” “उपोऽधिकेच” “अपपरी
वर्जने” “आङ्मर्यादावचने” “लक्षणेत्थम्भूताख्यानभाग-
वीप्सासु प्रतिपर्यनवः” “अभिरभागे” “प्रतिः प्रतिनि-
पृष्ठ १७३८
धिप्रतिदानयोः” “अधिपरी अनर्थकौ” “सुः पूजायाम्”
“अतिरतिक्रमणे च” “अपिः पदार्थसंभावनान्ववसर्गगर्हा
समुच्चयेषु” “अधिरोश्वरे” पा० । “कर्मंप्रवचनीययुक्ते
द्वितीया” पा० ।

कर्म्मन्यास पु० कर्मणां विहितकमणां विधिना चासः त्यागः,

कर्मणाम् ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानानां फलस्य न्यासो
वा । विहितकर्मणां विधानेन १ त्यागरूपप्रव्रज्यायाम् ईश्व-
रार्पणबुद्ध्यानुष्ठानेन २ कर्मफलत्यागे च । कर्मसंन्यासोऽप्यत्र ।

कर्म्मफल न० कर्मणां शास्त्रविहितानां निषिद्धानां वा फलम् ।

शुभाशुभकर्मणां १ सुखदुःखादिरूपे । फले तत्र विहितकर्मणां
फलाभिसन्धौ तत्तत्फलप्राप्तिः अनभिसन्धाने परम्परया
चित्तशुद्ध्या मुक्तिप्राप्तिरिति भेदः । यथाह मल० त० विष्णु-
पु० “विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः”
गीतापि “युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्
अयुक्तः कामकारण फले सक्तोनिबध्यते” । युक्तः ईश्वराय
कर्माणि न फलायेत्येवं समाहितः, फलं त्यक्त्वा
फलमनभिसन्धाय कर्म्माणि कुर्व्वन्नपीतिशेषः । शान्तिमाप्नोति
सत्वशुद्धिपापक्षयसंन्यासनिष्ठां क्रमेण प्राप्नोतीत्यर्थः ।
अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतः
प्रवृत्तेरितियावत् । फले सक्तः मम फलायेदं कर्म तत्करो-
मीत्येवं फले सक्तोनिबध्यते” म० त० रघु० । “विष्णुपुराणे ।
“कर्म्माण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्म-
रूपे । अवाप्य तां कर्ममहोमनन्ते तस्मिल्लँयं ते त्वमलाः
प्रयान्ति” । तां कर्ममहीं भारतवर्षरूपाम् “पितॄन्नमस्ये दिवि
ये च मूर्साः कामप्रदाः काम्यफलाभिसन्धौ--विमुक्तिदा
येऽनभिसंहितेषु” प्रा० त० रुचिस्तवः अधिकं कर्म-
योगशब्दे वक्ष्यते । कर्मफलानामीश्वरस्यैव दातृत्व-
मिति वेदान्तिनः । मीमासकमते धर्मादेव फलमिति भेदः ।
तच्च ईश्वरशब्दे दर्शिते “फलमत उपपत्तेः” इत्यादिके
शा० सूत्रभाष्ये दर्शितम् “यस्तु कर्मफलत्यागी स त्यागी
त्यभिधीयते” “न मे कर्मफले स्पृहा” गीता । कर्मरङ्गस्य
फलम् शा० मध्यपदलोपः । (कामराङ्गा) २ फले मेदि० ।
अथ कर्मणां फलमस्ति न वेति सन्देहे निरूप्यते, तत्र
कर्म्मणः प्ररोचनार्थतया न फलमस्तीति श्रीभागवतवचनं
श्रीधरव्याख्यानञ्चोपजीव्य म० त० निर्ण्णीतं यथा-
“वेदोक्तमेव कुर्वाणोनिःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां
लभते सिद्धिं रोचनार्था फलश्रुतिः” भाग० ११, ३, ४८ ।
“वेदोक्तमेव कुर्वाणो न तु निषिद्धम् । ननु कर्म्मणि
क्रियमाणे तस्मिन्नासत्तिस्तत्फलञ्च स्यात्, न तु नैष
कर्मारूपा फलसिद्धिः । अतएवाह “निसःङ्ग इति
अनभिनिवेशितवान् ईश्वरेऽर्पितं न फलोद्देशेन । फलस्य
श्रुतत्वात् कर्मणि कृते फलं भवत्येवेत्यत आह “रोच-
नार्थां इति कर्मणि रुच्युतपादनार्था । अतएव तत्रैव
“फलश्रुतिरियं नॄणां न श्रयोरोचनं परम् । श्रेयो-
विवक्षया प्रोक्ता यथा भैषज्यरोचनम् । उत्पत्त्यैव हि
कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसोमर्त्या आत्मनो-
ऽनथहेतुषु । न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः । एवं व्यव-
स्थितं केचिदविज्ञाय कुबुद्धयः । फलश्रुतिं कसुमितां न
वेदज्ञा वदन्ति हि” । “इयं फलश्रुतिर्न श्रेय, परमपुरुषा-
र्थपरा भवति किन्तु बाहर्मुखानां मोक्षविवक्षया
अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम् । यथा
भैषज्ये औषधे रुच्युत्पादनम् । यथा “पिब निम्बं प्रदा-
स्यामि खलु ते खण्डलडडुकान् । पित्रैवमुक्तः पिबति
तिक्तमप्यतिवालकः” । अत्र तिक्तनिम्बादिपानस्य न खलु
खण्डादिलाभ एव प्रयोजनम्, किन्त्वारोग्यम् । तथा
वेदोप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते ।
ननु कर्मकाण्डे मोक्षस्य नाभापि न श्रूयते, कुत एवं
व्याख्यायते, यथाश्रुतस्यैवाघटनादित्याह उत्पत्त्येति,
द्वाभ्याम् । उत्पत्त्या स्वभावत एव कामेषु पश्वादिषु
प्राणेषु आयुरिन्द्रियबलवीर्य्यादिषु स्वजनेषु पुतृदारा-
दिषु परिणामतोदुःखहेतुषु अतस्तान् स्वार्थं
परमसुखमविदुषः अजानतः अतो नतान् प्रह्वीभूतान् बुधो-
वेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः ।
तानेयंभूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ वा
भ्राम्यतः पुनस्तमोभूतवृक्षादियोनौ विशतः, “पशुकाम” इति
चायुरिन्द्रियादिकाम इति च पुत्रादिकाम” इति च कथ
पुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात् । तथासत्यनाप्तः स्यादिति
भावः । कथं तहि कर्म्ममीमांसकाः कर्म्मफलपरां वदन्ति
तत्राह एवमिति व्यवस्थितम् । वेदस्याभिप्रायमविज्ञाय
कुसुमिताम् अवान्तरफलरोचनतया रमणीयां परं फलश्रुतिं
वदन्ति कुतस्ते कुबुद्धयः? तदाह--हि यस्मात् वेदज्ञा
व्यासादयः तथा न वदन्तीति अतएव निष्कामकर्म्मणात्म-
ज्ञानमित्युक्तम् । यथा--“अयमेव क्रियायोगो ज्ञानयो-
गस्य साधकः । कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते” ।
सोऽपि दुरितक्षयद्वारा न साक्षात् । तथा च “ज्ञानमुत्
पृष्ठ १७३९
पद्यते पुंसां क्षयात् पापस्य कर्मणः । श्रुतिः “तमेतमात्मानं
ब्राह्मणा विविदिषन्ति वेदानुवचनेन ब्रह्मचर्य्येण तपसा
दानेन श्रद्धया यज्ञेनानशनेन चे” ति “अतएव यज्ञादीनां
ज्ञानशेषताञ्चावधार्य निष्कामेषु कर्मसु प्रवर्त्तयते ।
पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यः
इत्याह षष्ठस्कन्धे--“स्वयं निःश्रेयसं विद्वान् न
वक्त्यज्ञाय कर्म हि । न राति रोगिणेऽपथ्यं वाञ्छतेऽपि
भिषक्तमः” । राति ददाति” । म० त० रघु० ।
इदमपि ज्ञाननिष्ठाप्रशंसामात्रम् अन्यथा संसारस्य धर्म्मा-
धर्म्ममूलकतया धर्म्मकार्य्यस्य फलाभावे कथं सुखादिभोगः,
कथं वा संसारप्रवृत्तिः । किञ्च ईश्वरशब्दे दर्शिते “फलमत
उपपत्तेः” इत्यादिके शा० सूत्रभाष्ये धर्म्मस्य फलदातृत्व-
मतनिवारणेनेश्वरस्यैव फलदातृत्वं यदुक्तं तद्विरुद्धं स्यात् ।
एकान्ततोऽसति कर्मणः फले कथमीश्वरस्य तद्दातृत्वोक्तिः
सङ्गच्छते ।
अतएव तत्रैव भाग० ११, ३, ४६ । “परोक्षवादो
वेदोऽसौ बालानामनुशासनम् । कर्ममोक्षाय कर्माणि
विधत्ते त्वगदं यथा” इति पूर्व्वतरवाक्ये कर्मणां कर्म-
मोक्षस्यैव मुख्यफलत्वमुक्तं न तु फलाभावः । व्याकृत-
ञ्चैतत् श्रीधरेण यथा--“ननु स्वर्गाद्यर्थं कर्माणि विधत्ते
न कर्ममोक्षार्थं तत्राह बालानामनुशासनं यथा भवति तथा
तत्र दृष्टान्तः अगदम् औषध यथा पिता बालमगदं पाययन्
खण्डलड्ड़कादिभिः प्रलोभयन् पाययति ददाति च तानि,
नैतावताऽगदपानस्य तल्लाभः प्रयोजनं अपि चारोग्यं तथा
वेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्माणि
विधत्ते” । तत्र दृष्टान्ते ददाति च तानीति वदता दार्ष्टा-
न्तिकेऽपि खण्डलड्डुकादिदानवत् फलवत्त्वं सूचितं
किन्तु तस्य न मुख्योद्देश्यत्वम् तच्चारोग्यस्थानीयमोक्ष-
स्यैवेति सुस्थितं कर्म्मणः फलवत्त्वमिति दिक् ।

कर्म्मबन्ध न० कर्मणा बन्धः शरीरसंबन्धः । १ कर्मजन्यादृष्टेना

पूर्बदेहसंबन्धरूपे संसारे “कर्मबन्धं प्रहास्यसि” गीता
कर्मबन्धनमप्यत्र । कर्म बन्धनं बन्धसाधनं यस्य ।
कर्मरूपबन्धनसाधनयुक्ते त्रि० । “लोकोऽयं कर्म बन्धनः”
गीता ।

कर्म्मभीग पु० कर्मणः कर्मजन्यसुखदुःखादेर्भोगः । कर्मजन्यसुखदुःखादेर्भोगे तत्साक्षात्कारे ।

कर्म्मभू स्त्री कर्मणः कृषिकर्मणो भूः । १ कृष्टभूमौ (चसाक्षेत)

हेमच० २ भारतवर्षे च ।

कर्म्ममूल न० कर्मणोभूलमिव मूलमस्य । कुशतृणे शब्दच० । दीर्घमूलत्वात्तस्य तथात्वम् ।

कर्म्ममीमांसा स्त्री ६ त० । कर्म्मावेदकवाक्यमवलम्ब्य संशय

पूर्बपक्षसिद्धान्तनिर्ण्णयात्मके कर्मविषयके विचारशास्त्रभेदे
सा च “अथातोधर्मजिज्ञासा” इत्यादिका जैमिनिप्रणीता

कर्म्मयुग न० कृ--हिंसायाम् आधारे मनिन् कर्मधा० ।

कलियुगे त्रिका० तस्य हिंसाप्रधानकर्माधारत्वात् तथात्वम् ।

कर्म्मयोग पु० कर्मसु योगः कौशलम् । फलसाधनस्यापि

कर्मणोऽफलसाधनत्वापादानरूपे १ कौशंलभेदे २ फलसिद्ध्य-
सिद्ध्योः समत्वभावने च । यथा च तत्कौशलं तथा
भावनं च कत्तव्यं तथा गीतायां नानास्थानेषु दर्शितं यथा
“एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तोयया पार्थ! कर्मबन्धं प्रहास्यसि । नेहाभि-
क्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य
त्रायते महतोभयात् । व्यवसायात्मिका बुद्धिरेकेह कुरु-
नन्दन! । बहुशाखाह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ।
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवा-
दरताः पार्थ! नान्यदस्तीतिवादिनः । कामात्मानः स्वर्ग-
पराजन्मकर्म्मफलप्रदाम् । क्रियाविशेषवहुलां भोगेश्व-
र्य्यगतिं प्रति । भोगैश्वर्य्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते । त्रैगुण्य-
विषयावेदा निस्त्रैगुण्यो भवार्जुन! । निर्द्वन्द्वोनित्यसत्वस्थो-
निर्योगक्षेम आत्मवान् । यावानर्थ उदपाने सर्वतः
संप्लुतोदके । तावान् सर्व्वेषु वेदेषु ब्राह्मणस्य विजा-
नतः । कर्म्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्म्म फलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्म्मणि । योगस्थः
कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय! । सिद्ध्यसिद्ध्योः
समोभूत्वा समत्वं योम उच्यते । दूरेण ह्यवरं कर्म्म
बुद्धियोगाद्धनञ्जयः । बुद्धौ शरणमन्विच्छ कृपणाः
फलहेतवः । बुद्धियुक्तोजहातीह उभे सुकृतदुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् । कर्मणो
बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धवि-
निर्मुक्ताः पदं गच्छन्त्यनामयम्” ।
अधिकारिभेदेन कर्म्मयोगस्यानुष्ठानप्रकारमाह गोता
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तां मयाऽनघ! ।
ज्ञानयोगेन सांख्यानां कर्म्मयोगेन योगिनाम् । न
कर्म्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च सन्न्यस-
नादेव सिद्धिं समधिगच्छति । न हि कश्चित् क्षणमपि जातु
तिष्ठत्यकर्मकृत् । कार्य्यते ह्यवशः कमै सर्व्वः प्रकृतिजै-
र्गुणैः । कर्मेन्द्रियाणि संयम्य य आस्ते मनसा
पृष्ठ १७४०
स्मरन् । इ न्द्रियार्थान् विसूढात्मा मिथ्याचारः स
उच्यते । यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन! ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते । नियतं कुरु
कर्म त्वं कर्म ज्यायोह्यकर्मणः । शरीरयात्रापि च
ते न प्रसिद्ध्येदकर्मणः । यज्ञार्थात् कर्मणोऽन्यत्र
लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय! मुक्तसङ्गः
समाचार । सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजा-
पतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । देवान्
भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः
श्रेयः परमवाप्स्यथ । इष्टान् भोगान् हि वोदेवा
दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्योयोभुङ्क्ते स्तेन
एव सः । यज्ञशिष्टाशिनः सन्तोमुच्यन्ते सर्व्वकिल्विषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् । अन्ना-
द्भवन्ति भूतानि पर्ज्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्ज्ज-
न्योयज्ञः कर्मसमुद्भवः । कम ब्रह्मोद्भवं विद्धि ब्रह्मा-
क्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे
प्रतिष्ठितम् । एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतोह यः ।
अघायुरिन्द्रियारामोमोघं पार्थ! स जीवति । यस्त्वात्म-
रतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतु-
ष्टस्तस्य कार्य्यं न विद्यते । नैव तस्य कृतेनार्थोना-
कृतेनेह कश्चन । न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः ।
तस्मादसक्तः सततं कार्य्यं कर्म समाचर । असक्तो-
ह्याचरन् कर्म परमाप्नोति पूरुषम् । कर्मणैव हि
संसिद्धिमास्थिताजनकादयः । लोकसंग्रहमेवापि संपश्यन्
कर्त्तुमर्हसि । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजनः । स
यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते । न मे पार्थास्ति
कर्त्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त्त
एव च कर्मणि । यदि ह्यहं न वर्त्तेयं जातु कर्मण्य-
तन्द्रितः । मम वर्त्मानुवर्त्तन्ते मनुष्याः पार्थ! सर्व्वशः ।
उत्सीदेयुरिमे लोका न कुर्य्यां कर्म चेदहम् ।
सङ्करस्य च कर्त्ता स्यामुपहन्यामिमाः प्रजाः । सक्ताः
कर्मण्यविद्वांसो यथा कुर्व्वन्ति भारत! । कुर्य्याद्विद्वांस्त-
घाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् । न बुद्धिभेदं जनयेद-
ज्ञानां कर्मसङ्गिनाम् । जोषयेत् सर्बकर्माणि विद्वान्
युक्तः समाचरन् । प्रकृतेः क्रियमाणानि गुणैः
कर्माणि सर्व्वशः । अहङ्कारविसूढात्मा कर्त्ताहमिति
मन्यते । तत्त्ववित्तु महाबाहो! गुणकर्मविभागयोः ।
गुणा गुणेषु वर्त्तन्त इति सत्वा न सज्जते । प्रकृतेर्गुणसं-
मूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदोमन्दान्
कृत्स्नविन्नविचालयेत् । मयि सर्व्वाणि कर्माणि सन्न्यस्या-
ध्यात्मचेतसा । निराशीर्निर्ममोभूत्वा युध्यस्व विगतज्वरः” ।
“एवं ज्ञात्वा कृतं कम पूर्वैरपि मुमुक्षुभिः । कुरु
कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरैः कृतम् । किं कर्म
किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । कर्मणोह्यपि बोद्धव्यं
बोद्धव्यञ्च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो-
गतिः । कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् । यस्य सर्व्वे
समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं
तमाहुः पण्डितं बुधाः । त्यक्त्वा कर्मफलासङ्गं नित्य-
तृप्तोनिराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति
सः । निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शरीरं
केवलं कर्म कुर्वन्नाप्नोति किल्विषम् । यदृच्छालाभस-
न्तुष्टोद्वन्द्वातीतोविमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि
न निबध्यते । गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते । ब्रह्मार्पणं ब्रह्म-
हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं
ब्रह्मकर्मसमाधिना” ।
कर्म्मणां त्याज्यकर्त्तव्यतायां विशेषोऽन्यत्राध्याये तत्रोक्तः ।
“सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु
कर्मसंन्यासात् कर्मयोगो विशिष्यते । ज्ञेयः स नित्यः
संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्वो हि
महावाहो! सुखं बन्धात् प्रमुच्यते । सांख्ययोगौ पृथग्-
बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्य-
गुभयोर्विन्दते फलम् । यत् सांख्यैः प्राप्यते स्थानं
तद्योगैरपि गम्यते । एकं सांख्यञ्च योगञ्च यः पश्यति स
पश्यति । संन्यासस्तु महाबाहो! दुःखमाप्तुमयोगतः ।
योगयुक्तोमुनिर्ब्रह्म न चिरेणाधिगच्छति । योगयुक्तोविशु-
द्धात्मा विजितात्मा जितेन्द्रियः । सर्व्वत्रात्ममतिं कुर्वन् कुर्य-
न्नाप न लिप्यते । नैवकिञ्चित् करोमीति युक्तोमन्येत तत्त्व-
वित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन्
श्वसन् । प्रलपन् विसृजन् गृह्णन्नुन्मिमिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्त्तन्तैति धारयन् । ब्रह्मण्याधाय
कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन
पद्मपत्रमिवाम्भसा । कायेन मनसा बुद्ध्या केवलैरिन्द्रि-
यैरपि । योगिनः कर्म कुर्व्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।
पृष्ठ १७४१
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तोनिबध्यते । सर्व्वकर्माणि
मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव
कुर्व्वन्नकारयन् । न कर्तृत्वं न कर्माणि लोकस्य
सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्त्तते” ।
एवं गीतायां नानास्थानेष फलाभिसन्धित्यागेनैव कर्मणां
परम्परया मोक्षसाधनत्वमुक्तमनुपदं वक्ष्यमाण पात०
भाष्ये चेश्वरार्पणबुद्ध्यानुष्ठीयमानानां योगसाघनत्वोक्तेश्च
मुमुक्षुणा उक्तशास्त्ररीत्यैव कर्म करणीयमिति स्थितम् ।
कर्म्म क्रियैव योगो योगसाधनम् । तपःस्वाध्यायेश्वर-
प्रणिधानादिरूपे क्रियात्मके २ योगसाधने । यथा च
तप आदीनां योगसाधनत्वं तथा साधनपादे पातञ्जल
सूत्रभाष्यविवरणेषूक्तं
यथा“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” सू० ।
“उद्दिष्टः समाहितचित्तस्य योगः, कथं व्युत्थितचि-
त्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते । नातपस्विनो
योगः सिद्ध्यति अनादिकर्मक्लेशवासनाचित्रा प्रत्युप-
स्थितविषयजाला चाशुद्धिर्नान्तरेण तपःसम्भेदमपोद्यते
इति तपस उपादानं तच्च चित्तप्रसादनमबाधमानमने-
नासेव्यमिति मन्यते, स्वाध्यायः प्रणवादिपवित्राणां
जपोमोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्व-
क्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा” भा० ।
“उद्दिष्ट इति । अभ्यासवैराग्ये हि योगोपायौ प्रथ-
मे पादे उक्तौ, न च तौ व्यत्थितचित्तस्य द्रागित्येव सम्भवत
इति द्वितीयपादोपदेश्यानुपायानपेक्षते सत्वशुद्ध्यर्थं,
ततो हि विशुद्धसत्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये
प्रत्यहं भावयति । समाहितत्वमविक्षिप्तत्वं, कथं व्युत्था-
नचित्तोऽप्युपदेक्ष्यमाणैरुषायैर्युक्तः सन् योगी स्यादित्यर्थः ।
तत्र वक्ष्यमाणेषु नियमेषु आकृष्य प्राथमिकं प्रत्युपयुक्त-
तरतया प्रथमतः क्रियायोगमुपदिशति सूत्रकारः । तपः
स्वाध्यायेत्यादि, क्रियैव योगः क्रियायोगो योगसा-
धनत्वात् । अतएव विष्णुपुराणे खाण्डिक्यकेशि-
ध्वजसंवादे । “योगयुक् प्रथमं योगी युञ्जमानोऽभि-
धीयत” इत्युपक्रम्य तपः “स्वाध्यायादयो” दर्शिताः ।
व्यतिरेकमुखेन तपस उपायत्वमाह । नातपस्विन इति
तपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति
अनादोति । अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रा अतएव
प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता ।
अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमपोद्यते
सान्द्रस्य नितान्तविरलता सम्भेदः, ननूपादीयमानमपि
तपोधातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपा-
य इति अत आह--तच्चेति, तावन्मात्रमेव तपश्चरणीयं
न यावता धातुवैषभ्यमापद्यत इत्यर्थः । प्रणवादयः पुरु-
षसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्म-
पारादयः, परमगुरुर्भगवानीश्वरस्तस्मिन्, यत्रेदमुक्तम्-
“कामतोऽकामतोवापि यत् करोमि शुभाशुभम् । तत्सर्यं
त्वयि सन्न्यस्तं त्वत्प्रयुक्तः करोम्यहम्” इति “तत्फलसन्न्या-
सो वा” फलानभिसन्धानेन कार्य्यकरणम् । थत्रेदमुक्तम्
“कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्म
फलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि” (गीता) विव०
“स हि क्रियायोगः” भा० “समाधिभावनार्थः क्लेशतनू-
करणार्थश्च” सू० “स हि आसेव्यमानः समाधि
भावयति, क्लेशांश्च प्रतनूकरोति, प्रतनूकृतान् क्लेशान् प्रसंख्या-
नाग्निना दग्धवीजकल्पानप्रसवधर्मिणः करिष्यतीति तेषां
तनूकरणात् पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्या-
तिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यते
इति” भा० । “तस्य प्रयोजनाभिधानाय सूत्रमवतारयति स
हीति” ननु क्रियायोग एव चेत् क्लेशान् प्रतनूकरोति कृतं
तर्हि प्रसङ्ख्यानेनेत्यत आह प्रतनूकृतानिति क्रियायोगस्य
प्रतनूकरणमात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानां,
प्रसङ्ख्यानस्य तु तद्बन्ध्यत्वे, दग्धवीजकल्पानिति बन्ध्यत्वेन
दग्धकलमवीजसारूप्यमुक्तम् स्यादेतत्प्रसङ्ख्यानमेव चेत्
क्लेशान् अप्रसवधर्मिणः करिष्यति कृतमेषां प्रतनूकरणे-
नेत्यत आह तेषामिति । क्लेशानामतानवे हि बलवद्धि-
रोधिग्रस्ता सत्वपुरुषान्यताख्यातिरुदेतुमेव नोत्सहते किमु
प्रागेव तद्बन्ध्यभावं कर्त्तुम्, प्रतनूकृतेषु तु दुर्बलेषु तद्विरो-
धिन्यपि वैराग्याभ्यासाभ्यामुपजायते उपजाता च तैरप-
रामृष्टा अनभिभूता नैव यावत् परामृश्यते सत्वपुरूवान्य-
तामात्रख्यातिसूक्ष्मप्रज्ञायन्त्रिततया सूक्ष्मोऽस्याविषय इति
सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते, कुतः?
समाप्तोऽधिकारः कार्य्यारम्भणं गुणानां यया हेतुभूतया
सा तथोक्तेति” विव० । क्रियायोगोऽप्यत्र ।

कर्म्मरङ्ग पुंन० कर्मणे हिंसायै रज्यते रन्ज--घञ् अश्व-

घासादिवत् निमित्तार्थे ६ त० । (कामराङ्गा) १ शिराल-
फलके वृक्षे शब्दच० २ तत्फले न० तद्गुणा भाव० उक्ताः
“कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत्” कफवात-
हिंसकत्वाच्च तस्य कर्म्मरङ्गनामतेति बोध्यम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कर्त्तरी&oldid=57689" इत्यस्माद् प्रतिप्राप्तम्