वाचस्पत्यम्/उत्पादित

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ११२८

उत्पादित त्रि० उद् + पद--णिच्--कर्मणि क्त । जनिते ।

“अप्यनारभमाणस्य विभोरुत्पादिताः परैः” माघः ।

उत्पादिन् त्रि० उद् + पद--णिनि । १ उत्पत्तिमति । “सर्व्व-

मुत्पादि भङ्गुरम्” हितो० । उत्पादयति णिच् णिनि ।
२ उत्पादके । “दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहर-
स्तथा” या० स्मृ० उभयतः स्त्रियां ङीप् ।

उत्पाद्य अव्य० उद् + पद--णिच्--ल्यप् । १ जनयित्वेत्यर्थे “क्री-

त्वा स्वयं वाप्युत्पाद्य” मनुः । “पुत्रानुत्पाद्य संस्कृत्य-
वृत्तिं चैषां प्रकल्पयेत्” स्मृतिः । कर्म्मणि यत् ।
जननीये त्रि० । “लावण्य उत्पाद्य इवास यत्नः” कुमा०

उत्पाली स्त्री उन्नतिं पालयति पाल--अण् गौरा० ङीष् ।

आरोग्ये शब्दच० ।

उत्पाव पु० उद् + पु “उदि श्रयतियौतिपूद्रुवः” पा० अपं

बाधित्वा घञ् । उत्पवने यज्ञियपात्रादेः संस्कारभेदे

उत्पिञ्जर(ल) त्रि० उद् + पिजि--कलन् वा लस्य रः । अत्यर्था-

कुले । “कुर्व्वाणमुत्पिञ्जरजातपत्रैः” माघः ।
उत्पिञ्जरीभूतदलैरित्यर्थः रलयोरभेदः” मल्लि० । “तदुत्
पिञ्जलकं युद्धमासीद्देवासुरोपमम्” भा० द्रो० २५ अ० ।

उत्पिब त्रि० उद् + पा--श । उद्धृत्य पायिनि ।

उत्पिष्ट त्रि० उर्द्ध्वतः पिष्टं उद् + पिष--क्त । उर्द्धतः कृत

पेषणे १ उन्मथिते । “सन्धिमुक्तमुत्पिष्ट विश्लिष्टं
विवर्त्तितमवक्षिप्तमतिक्षिप्तं तिर्व्यक्क्षिप्तमिति षड्विधम्”
सुश्रतीक्ते षड्विधसन्धिमुक्तरूपेऽस्थिभङ्गे तत् कार्य्यं तत्रोक्तं
“विशेषेणोत्षिष्टे सन्धावुभयतः शोफावेदनाप्रादुर्भावो-
विशेषतस्तत्र नानाप्रकारा वेदना रात्रौ प्रादुर्भबन्ति” ।

उत्पीड त्रि० उद्--पीड--अच् । संघर्षणेन १ पीडके २ संबा-

धके च । भावे घञ् । ३ उन्मथने । “स तु वाणवरोत्-
पीडाद्विस्रवत्यसृगुल्वणम्” भा० व० २१ अ० “आकाङ्क्षन्तीं
नयनसलिलोतीडरुद्धावकाशाम्” मेघ० । ल्युट् ।
उत्पीडन तत्र न० । अ । तत्रैव स्त्री । शतृ उत्पीड़यत्
उत्पीडाकारके । “अन्योन्यमुत्पीडयदुत्पलाक्ष्याः”
कुमा० । स्त्रियां ङीप्

उत्पुच्छ नामधातुः पुच्छमुदस्यति उद + पुच्छ + णिङ् उत्पुच्छयते ।

उत्पुच्छ पु० उत्क्षिप्तः पुच्छोयेन प्रा० व० वा क्षिप्तलोपः ।

ऊर्द्धक्षिप्त पुच्छे पशौ ।

उत्पुट त्रि० उद्घाटितं पुटमस्य प्रा० ब० वा घाटितलोपः ।

पुटशून्ये प्रफुल्ले । तेन निर्वृत्तम् सङ्कलादि० अण् ।
औत्पुट तेन निष्पाद्ये त्रि० । तेन हरति उत्सङ्गादि० ठञ्
औत्पुटिक तेन हारके त्रि० स्त्रियां ङीप् ।

उत्पुटक पु० उद् + पुट--क्वुन । सश्रुतोक्ते पाल्यामुपद्रवभेदे ।

“अतऊर्द्ध्वं नामलिङ्गे वक्ष्ये पाल्यामुपद्रवान् । उत्पाटक-
श्चोत्पुटकः श्यावः कण्डूयुतोभृशम् । अवमन्थः
सकण्डूको ग्रन्थिको जम्बुलस्तथा । स्रावी च दाहवांश्चैव
शृण्वेषां क्रमशः क्रियाम्” । लेपमुत्पुटके दद्यात् तैल
मेभिश्च साधितम्” सुश्रु० ।

उत्पुत त्रि० उद् + पु--क्त । पवित्रादिना कृतोत्पवनसंस्कारे

पात्रादौ । इट्पक्षे उत्पवितोऽप्यत्र त्रि० । तेन हरति
उत्सङ्गा० अण् । औत्पुत तेन हारके त्रि० ।

उत्पेय त्रि० उद्धृत्य पेयम् । उद्धृत्यपेये जलादौ ।

उत्प्रभ त्रि० उद्गता प्रभाऽस्य प्रा० ब० गतलोपः । १ उद्गत

प्रभान्विते २ उदर्च्चिषि बह्नौ पु० हेम० ।

उत्प्राशन न० उद्धृत्य प्राशबम् । उत्तोल्य भोजने

उत्प्रास पु० उद् + प्र + अस--दीप्त्यादिषु घञ् । उपहासे । “प्रियं

सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा” सा० द० ।

उत्प्रेक्षण न० उद् + प्र--ईक्ष--भावे ल्युट् । १ उद्भावने

२ लिङ्गादिना कस्यचित् पदार्थस्य सम्भावने । ३ ऊर्द्ध्व-
दृष्टौ त । णिनि । उत् प्रेक्षिन् तत्कारके त्रि० स्त्रियां ङीप्

उत्प्रेक्षा स्त्री उद् + प्र + ईक्ष--अ । उद्भावने अर्थालङ्कारभेदे

अलङ्कारशब्दे पृष्ठे ३९५ विवृतिः ।

उत्प्लवन न० उद् + प्नु--ल्युट् । उपरि प्लवने (भासा) अनिमज्जने

उत्प्लवा स्त्री उत्प्लवति उद् + प्लु--अच् । सौक्ययां शब्दच०

उत्फाल पु० उद् + फल--घञ् । १ उल्लम्फे २ ऊर्द्ध्वतोविसरणे च

उत्फुल्ल त्रि० उद् + फल--क्त नि० । १ विकशिते दलानाम-

न्योन्यविश्लेषेण प्रकाशिते “उत्फुल्लनीलनलिनोदर
तुल्यभासः” माघः । २ उचाने त्रि० ३ स्त्रीणां गुप्तेन्द्रिये
न० मेदि० ।

उत्स पु० उनत्ति जलेन उन्द--स किच्च नलोपः । पर्व्वतादेः

१ स्रवज्जलस्य पातस्थाने । २ जलप्रवाहे च “आसिञ्चिन्नुत्वम्
गौतमाय तृष्णजे” ऋ० १, ५४, ५, “विष्णोः पदे वरग्रे
मध्व उत्सः” ऋ० १, ५४, ५ बहु साकं सिषिचुरुत्स-
मुद्रिणम्” २, २४, ४, “उत्सो वा तत्र जायतां ह्रदो वा
पुण्डरीकवान्” उथ० ६, १०६, १, उत्से भवः उत्सा०
अञ् । औत्स तद्भवे त्रि० ३ ऋषिभेदे ततः गोत्रे
अश्वादि० फञ् औत्सायन तद्गोत्रे पुंस्त्री० स्त्रियां ङीप्
पृष्ठ ११२९

उत्सक्थ त्रि० ऊर्द्ध्वं गते सक्थिनी अस्य ष समा० स्त्रियां ङीष् ।

ऊर्द्धोरुके “उत्सक्थ्या अवगुदंधेहि समञ्जि चारया
वृषन्” यजु० २३, ३१ ।

उत्सङ्ग पु० उत्पत्य सजतेऽत्र उद् + सन्ज आधारे घञ् ।

१ मध्यभागे “दरीगृहोत्सङ्कनिषक्तभासः” कुमा० “दृषदो-
वासितोत्सङ्गाः” रघुः । “तत्सैकतोत्रसङ्गबलिक्रि-
याभिः” रघुः “शय्योत्सङ्गे निहितमसकृद्दुः खदुःखेन
गात्रम्” मेघ० । २ क्रोड़े “तस्योत्सङ्गप्रणयिन इव स्रस्त-
गङ्गादुकूलाम्” “उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य
वीणाम्” मेघ० ऊर्द्धतया सजतेऽत्राधारे घञ् । ३ उपरि-
भागे “सौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः” मेघ०
उत्क्रान्तः सङ्गम् अत्या० स० । ४ सन्यासिनि सङ्करहिते
तत्त्वज्ञे प्रा० स० । ५ ऊर्द्धृतः संसर्गे च ।

उत्सङ्गादि हरतीत्यर्थे ठञ्निमित्ते “हरत्युत्सङ्गादिभ्यः”

पा० उक्ते शब्दसमूहे स च गण उत्सङ्ग उडुप उत्प्लुत
उत्सन्न उत्पुट पिटक पिटाक” औत्सङ्गिकः सि० कौ० ।

उत्सङ्गिन् त्रि० उत्सङ्ग ऊर्द्ध्वसंसर्गः अस्त्यस्य इनि स्त्रियां

ङीप् । ऊर्द्ध्वसंसर्गयुक्ते ।

उत्सङ्गित त्रि० उत्सङ्गिनः उत्संसृष्टाः कृताः उत्सङ्गिन् +

तत्करोतीत्यर्थे णि--कर्मणि क्त । संसर्गयुक्तीकृते । “उत्स-
ङ्गितोत्तुङ्गतरङ्गबाहुः” माघः ।

उत्सञ्जन न० उद् + सन्ज--णिच् ल्युट् । १ ऊर्द्ध्वतः संयोजने

उत्क्षेपणे । “सम्भननोत्सञ्जनाचार्य्यकरणेत्यादि” पा०
तत्र उत्सञ्जने “दण्डमुन्नयति उत्क्षिपतीत्यर्थः” गि--कौ० ।

उत्सत्ति स्त्री उद + सद--क्तिन् । उच्छेदे ।

उत्सधि पु० उत्सः जलप्रवाहोधीयतेऽस्मिन् धा--कि उप०

स० । जलप्रवाहवति कूपादौ “अर्कैरूर्द्ध्वं नुनुद्र उत्सधिं
पिबध्यै” ऋ० १, त्त८, ४,

उत्सन्न त्रि० उद्--सद--क्त । १ उच्छिन्ने समूलमुच्छिन्ने २ नष्टे च

“मकरध्वजैवोत्सन्नविग्रहः” काद० ३ अल्पायाससाध्ये च
“उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यानि” शत० ब्रा० २,
५, २, ४८, दर्शपौर्ण्णमासवच्चातुर्मास्यानामनुष्ठानबाहुल्या-
भावादुसन्नयज्ञत्वम्” भा० तेन हरति उत्सङ्गा० ठञ् ।
औत्सन्निक तेन हारके त्रि० ।

उत्सर्ग पु० उद् + सृज--कर्मणि घञ् । १ सामान्यविधाने, तस्या-

सति बाधके सर्व्वतः प्रसृतत्वात्तथात्वम् । “क्वचिदपवा-
दविषर्येऽप्युसर्गोऽभिनिविशते” पात० भा० । “अपवादैरि-
वोत्सर्गाः--कृतव्यावृत्तयः परैः” कुमा० २ न्याय्ये । भावे
घञ् । ३ अपानवायोर्व्यापारे विष्ठोत्सर्गः ४ त्यागे ५ दाने
“तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च” मनुः “श्री-
लक्षणोत्सर्गविनीतवेशाः” कुमा० ६ समाप्तौ व्रतोत्सर्गः ।
“उत्सर्गमेके सुत्योपगुणत्वात्” आश्व० श्रौ० १, ४, २१, ०
“स्तोमोत्सर्गो वैकस्याह्नः” कात्या० २४, ७, २५, ७ वार्षि-
कवेदपाठसमाप्तौ । वेदाध्ययनोत्सर्गकालश्च मिता०
दर्शितो यथा “पौषमासस्य रोहिण्यामष्टकायामथापि
वा । जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्बहिः” या०
“पौषभासस्य रोहिण्यामष्टकायां ग्रामाद्बहिर्जलसमीपे
छन्दसां वेदानां स्वगृह्योक्तबिधिना उत्सर्गं कुर्य्यात् ।
यदा पुनर्भाद्रमासे उपाकर्भ तदा माघशुक्लस्य प्रथमदिवसे
उत्सर्गं कुर्यात् । यथोक्तं मनुना “पौषे तु छन्दसां
कुर्याद्बहिरुत्सर्जनम्बुधः । माघशुक्लस्य वा प्राप्ते पूर्वाह्णे
प्रथमेऽहनीति” । तदनन्तरम्पक्षिणीमहोरात्रं वा बिरम्य
शुक्लपक्षेषु वेदान् कृष्णेष्वङ्गान्यधीयीत । यथाह मनुः
“यथाशास्त्रन्तु कृत्वैवमुत्सर्गं छन्दसां बहिः । बिरमे-
त्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् । अत उर्द्धं तु
छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि तु सर्बाणि
कृष्णपक्षेषु सम्पठेदिति” । अत्रानध्यायमाह या०
“त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि
चोत्सर्गे स्वशाखश्रोत्रिये तथा” “उत्सर्गे मनूक्तप-
क्षिण्यहोरात्राभ्यां सहास्य विकल्प” इति मिता० “ओंपूर्वा
व्याहृतीः सावित्रीञ्च त्रिरभ्यस्य वेदादिमारभेत्” “तथो-
त्सर्गे” आश्व० गृ० ३, ५, १२, १३, उत्सर्जनशब्दे विवृतिः ।

उत्सर्गिन् त्रि० उत्सर्गोऽस्त्यस्य इनि । उत्सर्गयुक्ते ।

“अयनमुत्सर्गिणाम्” २४, ४, २३, त्रिष्वभिप्लविकेषु एकस्या-
हेनाग्निष्टोमस्योत्सर्गेणास्योत्सर्गित्वम्” कर्कः । अयनं
गवामयनम् ।

उत्सर्जन न० उद् + सृज--ल्युट् । १ दाने, २ त्यागे, च । वेदोत्-

सर्गरूपे षण्मासकर्त्तव्ये वैदिकानां ३ क्रियाभेदे स च
आश्व० गृ० उक्तो यथा “मध्यमाष्टकायामेताभ्यो
देवताभ्योऽन्नेन हुत्वाऽपोऽभ्यवयन्ति” २० सू० । “मध्य-
माष्टकाग्रहणं षण्मासान्तोपलक्षणार्थम्” । तेन तस्याः
समीपे माघ्यां पौर्णमास्यामित्यर्थः शाखान्तरे चैवं
दृश्यते । “एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्य
आज्यम्, इत्युक्तम् । अग्निमीड़ इत्यादिभ्योऽन्नेन हुत्वा
स्थालीपाकग्रहणमकृत्वाऽन्नेनेति यत्नेन ब्रुवत् गृहसिद्ध
मन्नं गाह्यमिति दर्शयति, ततः स्विष्टकृत्, ततो वेदारम्भ-
पृष्ठ ११३०
णम् । ततो होमशेषं समाप्यापोऽबगाहन्त इत्यर्थः
नारा० “एता एव तद्देवतास्तर्पयन्ति” २१ सू० ।
“स्नात्वा सावित्राद्या नव अग्निमीड़ इत्याद्याश्च
विंशतिं तर्पयन्तीत्यर्थः । ऋग्देवता आदिश्य तर्पयेयुः ।
द्वितीयान्तं कृत्वा तर्पयामीत्येकान्नत्रिंशद्वाक्यानि कृत्वा
तावत्कृत्वस्तर्पयेयुः” ना० वृ० । “आचार्यान् ऋषीन् पितॄं-
श्च” २२ सू० । यच्च ब्रह्मयज्ञाङ्गं तर्पणमुक्तं तदेत-
दङ्गत्वेनेदानीमपि कार्यमित्यर्थः । चशब्दो देवतातर्पण
सनुच्चयार्थः । तेन प्रजापत्याद्या अपि तर्प्याः । देवतास्त-
र्पयन्तीत्यत्र देवताग्रहणमत्रापि समुच्चयार्थम् क्रमश्च
तन्त्राक्त एव” ना० वृ० । “एतदुत्सर्जनम्” २३ सू० ।
“अस्येयं संज्ञा । ततः षण्मासान् षड़ङ्गान्यधीयीत ।
षण्मासानधीयीतेत्यारभ्य एवमन्ता धर्मा ग्रहणाध्ययन
एतेत्याहुरेके । अन्ये त्वविशेषेणेत्याहुः” ना० वृ० ।
उत्सर्गशब्दे दर्शितेन कालेनास्य विकल्प० शाखिभेदेन
व्यवस्थाप्यः “पौषे तु छन्दसां कुर्य्याद्बहिरुत्सर्जनं
बुधः” भनुः ।

उत्सर्पण न० उद् + सृप्--ल्युट् । १ उत्सृज्य पुरतोगतौ, २ उल्लङ्घने च

उत्सर्पिन् त्रि० उत्सर्पति णिनि । उत्पतिष्णौ “पयोधरोत्-

सर्पिषु शीर्य्यमाणः” रघुः । “उत्सर्पिभिः प्रांशु-
मिवांशुजालैः” किरा० २ अतिशयिते स्त्रियां ङीप् ।
“उत्सर्पिणी खलु महतां प्रार्थना” शकु० सा च
हेमचन्द्रोक्ते कालचक्रार्न्तगते ३ कालगतिमेदे “सागर
कोटिकोटीनां विंशत्या स समाप्यते । अवसर्पिण्यां
षड़रा उत्सर्पिण्यां तएव विपरीताः । एवं द्वादशभिररै-
र्विवर्त्तते कालचक्रमिदम्” हेम० ।

उत्सर्य्या स्त्री उत् + सृ--यत् । १ ऋतुसत्यां गर्भयोग्यावस्थापन्नायां गवि जटा०

उत्सव पु० उद् + सू--अप् । आनन्दजनकव्यापारे विवाहादौ ।

“ऋद्धिमन्तमधिकर्द्धिरुत्सवः पूर्व्वमुत्सवमपोहतुत्तरः” “स
कृत्वा विरतोत्सवान्” रघुः । “धर्मसेतुसमाकीर्ण्णां
यज्ञोत्सववतीं शुभाम्” “हृष्टपुष्टजनाकीर्णां नित्योत्सव-
समाकुलाम्” भा० व० २०६ अ०

उत्सवसङ्केत पु० उत्सव आनन्दजनकः सङ्केतः स्त्रीपुंसयोः

रत्यर्थमनुरागादाह्वानम् यस्य । अस्येयं स्त्रीत्येवं दाम्पत्य-
नियमशून्ये स्त्रीपुंसयोरनुरागमात्रहेतुकस्वैरविहार-
शालिनि पार्वतीये जातिभेदे । भा० स० अर्ज्जुनस्यो-
त्तरदिग्विजये “पौरवं युधि निर्ज्जित्य दस्यून् पर्व्वत-
बासिनः । गणानुत्सवसङ्केता नजयत् सप्त पाण्डवः,
२६ अ० अत्र नीलक० दर्शितरीत्यैव व्याख्या । तद्धर्मके
प्रतीचीस्थेऽपि जातिभेदे “गणानुत्सवसङ्केतान् व्यजयत्
पुरुषर्षभः” नकुलस्य प्रतीचीविजये ३१ अ० “शरैरुत्-
सवसङ्केतान् स कृत्वा विरुतोत्सवान्” रघुः ।

उत्सादन उद् + सद--णिच्--ल्युट् । १ उत्सारणे, २ उद्वर्त्तने कषाय

द्रव्येण स्नेहाद्यपसारणे ३ उच्छेदकरणे “उत्सादानार्थं
लोकानां रात्रौ घ्नन्ति ऋषीनिह” भा० व० १०३
अ० । “उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः” भा०
व०१०० अ० । “न हि द्वैतवने किञ्चित् विद्यतेऽन्यत् प्रयोज-
नम् । उत्सादनमृते तेषां वनस्थानां महाद्युते!” भा०
व० २३७ अ० । स्थानान्तरनयने “क्रयणवेद्यारम्भण प्रव-
र्ग्योत्सादनेत्या०” कात्या०१४, १, १३, “उपसदन्ते प्रव-
र्ग्योत्सादनम्” कात्या० १८, ३, १० । उत्साद्यतेऽत्र उद् +
सद--णिच् आधारे ल्युट् । महावीरादिपरित्यागदेशे ।
“उत्सादनदेशं गच्छन्ति सामगानानन्तरम्” कात्या०
२६, ७, १०, उत्सादनदेशं प्रति आगच्छन्ति उत्सादनं
महावीराणां परित्यागः स यत्र देशे विहितः श्रुतौ” कर्क०

उत्सादनीय त्रि० उद् + सद--णिच्--कर्म्मणि अनीयर १ उच्छेद्ये

२ उन्मूलनीये उस्वर्त्तनीये कषादिद्रव्ये । “कुर्य्यादुन्सा-
दनीयानि सर्पींष्या लेपनानि” च सुश्रु० ।

उत्सादि पु० भवाद्यर्थे “उत्सादिभ्योऽञ् पा० अञ् प्रत्ययप्र-

कृतिशब्दगणे । स च उत्स उदपान विकर विनद महानद
महानस महाप्राण तरुण तलुन (वष्कयाऽसे) पृथिवी धेनु
पङ्क्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर
ग्रीष्म पीलुकुण(उदः स्थानदेशे) पृशदंश भल्लकीय रथन्तर
मध्यन्दिन वृहत् महत् सत्वत् कुरु पञ्चाल इन्द्रावसान उष्णि-
ह् ककुभ् सुवर्ण देव (ग्रीष्मादच्छन्दसि) औत्स तद्भवे त्रि० ।

उत्सादित त्रि० उद् + सद--णिच्--क्त । उन्मूलिते उद्वर्त्तिते च

“भद्रासनेषूपविष्टः परिधायाम्बरं लघुः । सस्नौ चन्दनसं-
युक्तैः पानीयैरभिमन्त्रितैः । उत्सादितः कषायेण
बलवद्भिः सुशिक्षितैः” भा० द्रो० ८२ अ० ।

उत्सारक पु० उद् + सृ--णिच्--ण्वुल् । द्वारपाले हेमच०

तेन हि प्रभुद्वारतो जना दूरीक्रियन्ते इति तस्य तथा
अपसारके त्रि० ।

उत्सारण न० उद् + सृ--णिच्--ल्युट् । १ दूरीकरणे, २ चालने, ३ स्थानान्तरकरणे च ।

उत्सारित त्रि० उद् + सृ--णिच्--क्त । दूरीकृते चालिते

“गुण्यान्त्यमङ्कंगुणकेन हन्यादुत्सारितेनैवमुपान्तमादीन्” लीला०
पृष्ठ ११३१

उत्साह पु० उद् + सह--घञ् । १ उद्यमे, २ अध्यवसाये, कर्त्तव्य

कृत्येषु ३ स्थिरतरे प्रयत्ने “उत्साहो मन्त्रमूलं स्यादिति
नोतिविदां मतम् । प्रभुशक्तिर्मन्त्रमूला तस्मादुत् साहवान्
भवेत्” इत्युक्ते राज्ञां ४ गुणविशेषे, “चारेणोत् साहयोगेन
क्रिययैव च कर्मणाम्” मनुः । “नीताविवोत् साहगुणेन
सम्पद्” कुमा० । ५ कल्याणे, शब्दरत्नावली ६ सूत्रे, मेदिनी
“कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते” सा० द०
उक्तलक्षण्के वीररसस्य ७ स्थायिभावे । स च
वीररसस्य स्थायी भावः “रतिर्हासश्च शोकश्च-
क्रोधीत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ
प्रोक्ताः शमस्तथा” स्थायिनो विमज्यस्य “उत्तमप्रकृति-
र्वीरः उत्साहस्थायिभावकः” तत्रोक्तेः । तत्र उद्यममात्रे
“मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन”
शकु० “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः” गीता
“महोत्साहः स्थूललक्ष्यः कृतज्ञोवृद्धसेवकः” या० स्मृ०
अस्त्यर्ये बला० मतुप् इनि वा उत्साहिन् उत्साहवत्
तद्विशिष्टे त्रि० स्त्रियां ङीप् ।

उत्साहक त्रि० उद् + सह--ण्वुल् । उत् साहान्विते “तृज-

काभ्यामिति” पा० षष्ठीनिषेधेऽपि याजका० षष्ठ्यो
समासः । कार्य्योत्साहकः ।

उत्साहन न० उद् + सह--णिच्--ल्युट् । उत्साहजनने

उत्साहवर्द्धन पु० उत्साहं वर्द्धयति वृध--णिच्--ल्यु ।

वीररसे । वृध--ल्युट् ६ त० । उत्साहस्य वृद्धौ न० ।

उत्साहशक्ति स्त्री उत्साहएवशक्तिर्बलम्! राज्ञां विक्रम-

हेतौ बले । “षड़्गुणाः शक्तयस्तिस्त्रः प्रभावोत्साह
मत्रजाः” अमरः । “कर्तव्येषु कर्येषु स्थेयान् प्रयत्न
उत्साहः” मल्लि० ।

उत्सिक्त त्रि० उद् + सिच--क्त । १ उद्रिक्ते अतिशयिते २ वृद्धि-

युक्ते ३ उद्धते गर्विते च । “जानीयादस्थिरां वाचमुत्सिक्त
मनसां तथा” मनुः ।

उत्सुक त्रि० उत्सुवति षु प्रेरणे मितद्र्वादि० डु कन् ।

१ इष्टावाप्तये कालक्षेपासहिष्णौ २ इष्टार्थोद्युक्ते च
“दिनावसानोत्सुकबालवत्सा” “श्रुत्वा रामः पियोदन्तं मेने
तत्सङ्गमोत्सुकः” “वत्सोत्सुकापि स्तिमिता सपर्य्याम्”
“आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ” रघुः ।
उत्सुकस्य भावः ष्यञ् । औत्सुक्य तद्भावे न० । “इष्टाम
वाप्तेरौत्स्युक्यं कालक्षेपासहिष्णुता । चित्ततापत्व
रास्वेददीर्घनिश्वसितादिकृत्” सा० द० । “औत्सुक्येन
कृतत्वरा सहभुवा व्यावर्त्त्यमाना ह्रिया” रत्ना० । भृशा०
अभूततद्भावार्थे क्यङ् । उत्सुकायते उत्सुकायमाना
“यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके” भट्टिः

उत्सूत्र त्रि० उत्क्रान्तः सूत्रम् अत्या० स० । विधानसूत्रा-

तीते “अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना” माघः ।

उत्सूर पु० उत्क्रान्तः अतिक्रान्तः सूरं सूर्य्यम् अत्या०

स० । दिनात्यये हेमच० उत् सूर्य्यादयोऽप्यत्र । “ओत्
सूर्य्यमन्यान्त्स्वापयाब्युषम्” । अथ० ४, ५, ७, “उत्सूर्य्य-
शायिनश्चासन् सर्व्वेचासन् प्रगे निशा” भा० शा० २२८ अ०

उत्सृज्य अ० उद् + सृज--ल्यप् । १ त्यक्त्वेत्यर्थे “ऋदुपत्वात्

कर्म्मणि क्यप् । २ त्यक्तव्ये त्रि०

उत्सृष्ट त्रि० उद् + सृज--क्त । १ त्यक्ते २ दत्ते च । “ब्राह्मणा-

नाह यत्किञ्चित् मयोतुसृष्टं तु निर्ज्जने । तत्
कश्चिदन्यो न नयेत् विभाज्यत्वं यथाक्रमम् । न वाह्यं
न च तत्क्षीरं पातव्यं केनचित् क्वचित्” । ब्रह्म पु० ।
“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः” या० स्मृ० ।

उत्सेक पु० उद् + सिच--घञ् । १ गर्व्वे, “उपदा विविशुः

सम्यक्नोत्सेकाः कोशलेश्वरम्” रघुः । “नोत्सेकमगम-
च्चेदं कदाचिदिह नः कुलम्” भा० आ० ११० अ० ।
२ उद्रेके “पातव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे”
सुश्रु० । ३ उद्धृत्य बहिः सेचने च ।

उत्सेकिन् त्रि० उत् सेक + अस्त्यर्थे इनि । १ अतिशयिते

२ गर्वयुक्ते च स्त्रियां ङीप् । “भाग्येष्वनुत सेकिनी” शकु०

उत्सेचन न० उत्क्रम्य आधारमतिक्रम्य सेचनम् ।

आधारातिक्रमेण प्लवने (उप्चान)

उत्सेध पु० उत्सेधति कारणमतिक्रम्य वर्द्धते उद् +

सिधगत्याम् अच । १ देहे तस्य शुक्रशोणितरूपसूक्ष्मकार-
णातिक्रमेण वर्द्धनात्तथात्वम् । भावे घञ् । २ उन्नतौ
तस्य कृदभिहितभावत्वात् “पुत्रवित्तार्ज्जनात् पितेत्यादौ,
पुत्रार्जितवित्त इव उन्नत्याश्रयेऽपि वृत्तिः तथात्वेऽपि
विशेषणसमासे ब्राह्मणश्रमणादिवत् परनिपातः हिमनि-
ष्यन्दपाण्डर इत्यादिवदिति भेदः । यथा “पयोध-
रोत्सेधनिपातचूर्ण्णिताः इति कुमा० “तस्य प्रमाण-
मार्द्रमाहिषचर्म्मोत् सेधमुपदिशन्ति” सुश्रु० । “उत्
सेधनिर्द्धूतमहीरुहां ध्वजैः” माघः “तच्छाखाचमसा दीर्घाः
प्रादेशाश्चतुरङ्गुलाः । तथैवोत्सेधतोज्ञेयाश्चतुरस्रास्तु
इत्यपि” छन्दोगप० “पयोधरोत् सेधविशीर्ण्णसंहति”
कुमा० । कर्त्तरि अच् । ३ उच्चे त्रि० । “वायव्यं श्वेतंपुच्छे
उत्सेधमेव तं कुरुते तस्मादुत् सेधं प्रजाभयेऽभि संश्र-
यन्ति” शत० ब्रा० १३, २, २, ९, “उत्सेधमुच्चं पर्व्वतादिकं
प्रासादं वा” भा० ।
पृष्ठ ११३२

उत्स्वन पु० उच्चैःस्वनः । १ उच्चशब्दे । ब० । २ तद्वति त्रि० ।

उत्स्वप्न त्रि० उत्क्रान्तः अतिक्रान्तः स्वप्न तन्मर्य्यादाम् अत्या०

स० । निद्रायां बाह्येन्द्रियाणां विलीनत्वेमन मनसैव सर्व्व-
व्यवहारनियमेन तदतिक्रमेण जाग्रदयस्थावत् स्पष्टवच-
नादिव्यवहारे । उत्स्वप्नमिव चरति क्यङ् उत्स्वप्तायते
यथा मृच्छकटिके “विदूषक उत्स्वप्नायते” स्वप्नदृष्ट-
पदार्थस्य स्पष्टवाचा व्यवहरतीत्यर्थः । एवमुत्तरराम
चरितेऽपि “अत्थि एत्थ अज्जौत्त” इत्यादिना
सीताया उत्स्वप्तो वर्ण्णितः ।

उद् अव्य० उ--क्विप् तुक् “उदोऽनूर्द्धचेष्टायाम्” पा० नि० पृषो०

दत्वम् । १ प्रकाशे, २ विमागे, ३ लाभे, ४ ऊर्द्धे, ५ उत्कर्षे,
६ प्राबल्ये, ७ आश्चर्य्ये, ८ शक्तौ, ९ प्राधान्ये, १० बन्धने,
११ अभावे, १२ मोक्षे, “तस्य उदिति नामेति” श्रुतेः
१३ ब्रह्मणि च । गणरत्ने उदः अर्थानंभिधाय उदाहृतं
यथा “उत् प्राबल्यवियोगोर्द्ध्वकर्म्मलाभप्रकाशाश्चर्य्य-
मोक्षणाभावदलप्राधान्यशक्तिषु” तत्र प्राबल्ये उद्बलः
वियोगे उद्गच्छति । ऊर्द्ध्वचेष्टायाम् उत्तिष्ठति । लाभे
ग्रामात् शतमुत्पन्नम् । प्रकाशने उच्चरति चाश्चर्य्ये
उत्मुकः । मोक्षणे उद्गतः । अभावे उत्पथः । दलने
उत्फुल्लः । प्राधान्ये उद्दिष्टः शक्तौ उत्साहः”

उदक न० उन्द--ण्वुल् नि० नलोपश्च । जले “अनीत्वा

पङ्कतां धूलिमुदकं नावतिष्ठति” माघः । “सकृत् प्रसिञ्च-
त्युदकं नामगोत्रेण वाग्यतः । प्रोषिते कालशेषः स्यात्
पूर्णेदत्तोदकः शुचिः” । या० स्मृ० “यावानर्थ उदपाने-
सर्व्वतः संप्लुतोदके” गीता । “उदकस्योदः संज्ञायाम्”
पा० समासे संज्ञायामुदकस्योदादेश उदपानः उदधिः
उदमेघः । क्षीरोदः । “पेषंवासवाहनधिषु” पा० ।
पूर्व्वपदस्थस्य उदादेशः । उदपेषं पिनष्टि उदवासः
“सहस्यरात्रीरुदवासतत्परा” कुमा० उदवाहनः
उदधिर्घटः पूरयितव्ये उकहलादौ परे वा । उदकुम्भ
उदककुम्भः । “शान्त्युदकुम्भहस्ताः” भट्टिः पूर्व-
यितव्य इत्याद्युक्तेः उदकपर्वत उदकस्थाली इत्यादौ न ।
“मन्थौदनसक्तुविन्दुवज्वभारहारवीबधगाहेषु च”
पा० । उदमन्थः उदकमन्थः (जलविलोड़नम्) ।
उदौदनः उदकौदनः (उदकेन सिद्धः ओदनः) । “उदौदनं
पाचयित्वा सर्पिष्मन्तमश्नीयात्” शत० ब्रा० १४, ९, ४, १५ ।
उदसक्तवः (उदकमिश्रितसक्तवः) । उदाबन्दुः उदवज्रः
उदभारः उदहारः (जलहारकः) उदवीबधः उदगाहः
(जलावगाहः)पक्षे न । २ उदकसाघ्ये तर्पणे च । “ऊनद्विवर्षं
निखनेत् न कुर्य्यादुदकं ततः” । “कृतोदकान्
समुत्तीर्ण्णान्” “कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्वि-
जाम् “न ब्रह्मचारिणः कुर्य्युरुदकं पतिताश्च ये ।
“नाशौचोदकभाजनम्” इति च या० स्मृ० ।

उदककृच्छ्र पु० “उदकसक्तुभ्यां मासाभ्यवहारेणौदक-

कृच्छ्रः” इति विष्णूक्ते व्रतभेदे ।

उदकक्रिया स्त्री उदकेन क्रिया तर्पणम् । शास्त्र विहिते

जलादितर्पणे “एवं मातामहाचार्य्यप्रेतानामुदकक्रिया”
या० स्मृ० । “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा ।
“पिण्डोदकक्रियाहेतोः” स्मृति “उदककर्मोदककार्य्या-
दयोऽप्यत्र न० । उदकदानमप्यत्र न० । “तोयकर्मणि-
चारब्धे राज्ञामुदकदानिके” भा० आ० १ अ० ।

उदकपरीक्षा स्त्री विवादादौ लौकिकप्रमाणालाभे कार्य्ये

दिव्यशपथभेदे तत्प्रकारश्च मिता० व्य० । “सत्येन
माभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदघ्नोदकस्थस्य
गृहीत्वोरू जलं विशेत्” या० उक्तः । प्रपञ्चस्तु मिता०
व्य० । दि० तत्वे च अनुसन्धेयः ।

उदकम् अव्य० उन्द--अकमु किच्च । क्लेदे गणर० । साक्षा०

कृञिवा गतित्वम् । उदकंकृत्यौदकंकृत्वा क्लेदं कृत्वेत्यर्थः ।

उदकमेह पु० उदकमिव मेहः । सुश्रुतोक्ते मेहभेदे ।

तल्लक्षणं तत्रैव “तत्र श्वेतमवेदनमुदकसदृशमुदकमेही
मेहति” । इक्षुमेह शब्दे ९१० पृष्ठे विवृतिः ततः
अस्त्यर्थे इनि । उदकमेहिन् तद्युक्ते त्रि० स्त्रियां ङीप् ।

उदकल त्रि० उदकमस्त्यस्य सिध्मा० वा लच् । उदकयुक्ते

लजभावे मतुप् मस्य वः । उदकवत् तत्रार्थेस्त्रियां ङीप् ।
पिच्छा० इलच् । उदकिल तत्रार्थे त्रि० ।

उदकशुद्ध त्रि० उदकेन शुद्धः । १ स्वाते २ उदकस्पर्शेन शद्धे

च । ततः भवादौ अण् अनुशति० द्वि पदवृद्धिः । औदकशौद्ध
तद्भवे त्रि० ।

उदकषट्पल न० “सक्षारैः पञ्चकोलैस्तु पलिकैस्त्रि

गुणोदकैः । समक्षीरं घृतप्रस्थं ज्वरार्शःप्लीहकासनुत्”
चक्रदत्तोक्ते घृतभेदे ।

उदकान्त पु० उदकमेवान्तः सीमा । उदकपर्य्यन्ते ।

“सरस्वत्याः पश्चिमे उदकान्ते दीक्षेरन्” आश्व० श्रौ० १२,
६, २, “ओदकान्तात्सुहृज्जनोऽनुगन्तव्यः” शकु० ।
पृष्ठ ११३३

उदकीय पु० नामधातु आत्मन उदकमिच्छति उदक +

क्यच् । उदकीयति अतितर्षायान्तु उदन्यति ।

उदकीर्ण्ण(र्य्य) पु० उदकेन कीर्णः(र्य्यः)संज्ञायाम्

उदादेशः । महाकरञ्जे राजनिर्घ० र्य्यान्तः रत्नमा० ।

उदकेचर पु० उदके जले चरति अच् वा सप्तम्या अलुक् ।

जलचरे मत्स्यादौ । अध्वर्य्युर्मत्स्य सामदोराजेत्याह
तस्योदकेचरा विशस्त इव आसत इति मत्स्याश्च”
शत० ब्रा० १३, ४, ३, १२ जलचरे १ पक्षिकूर्मादौ च ते
च सुश्रुते विभाजिताः ते च आनूपशब्दे ७३१ पृष्ठे
दर्शिताः । साप्तम्यालुकि उदकचरोऽप्यत्र, णिनि,
उदकचारिन् अप्यत्र स्त्रियां ङीप् ।

उदकोदर न० सुश्रुतोक्ते उदरवृद्धिकारकरोगे । उदरशब्दे

विवृतिः “उदकोदरिणस्तु वातहरतैलाभ्यामित्यादि” सुश्रु०

उदक्त त्रि० उद् + अन्च--क्त । कूपादित उत्तोलिते ।

“उदक्तमुदकं कूपात्” सि० कौः ।

उदक्प्रवण त्रि० उदक् उत्तरा प्रवणं निम्नम् । क्रम-

शोदक्षिणत उत्तरनिम्ने । “ऊषर उदक्प्रवणे समे वा”
कात्या० २, ३, ४ । २ उत्तरमार्गगतिहेतौ च “एष वा
उद्रक्प्रवणोयज्ञो यत्रैवंविद् ब्रह्मा भवति” छा० उ० ।
“उदक्प्रवणः उत्तरमार्गं प्रति हेतुरित्यर्थः” भा० ।
“प्राची हि देवानां दिगथो उदक्प्रवणोदोची हि मनुष्याणां,
दिग्दक्षिणतः पुरोषं प्रत्युदूहत्येषा वै दिक् पितॄणां सा
यद् दक्षिणा प्रवणा स्यात्” शत० ब्रा० । १, २, ५, १७ ।

उदक्य त्रि० उदकमर्हति दण्डा० यत् । १ जलार्हे व्रीह्यादौ ।

२ तत्स्नानार्हेऽशुचौ ३ ऋतुमत्यां स्त्री । तस्याश्च स्नानदिव
सपर्य्यन्तमशुद्धेः ततः शुद्ध्यर्थमुदकार्हत्वात् तथात्वम् ।
“उदक्या सूतिका वापि अन्त्यजं संस्पृशेद्यदि । त्रिखत्रेणैव
शुध्येत इति शातातपोऽब्रवीत्” शु० त० वृद्धपरा० ।
“उदक्यया च संभाषां न कुर्व्वीत कदाचन” भा० अ० प०
१०४ अ० । “उदक्ययासते ये च द्विजाः केचिदन-
स्नयः” भा० शान्ति० १६५ अ० । अथ प्रसङ्गात् प्रथम-
रजोदर्शनतिथ्यादिफलतदीयधर्मभेदा उच्यन्ते ते च विधा-
मपारिजाते दर्शिता यथा । “प्रथमर्त्तौ द्वितीये वा शुभाशुभ
निरीक्षणम् । कर्त्तव्यं ज्ञातिप्रिः सम्यग् धर्म्मशास्त्रबिधान-
तः” । तत्र वस्त्रफलम् । वराहसंहितायाम् “सुभगा श्वेतव-
स्त्राढ्या रोगिणीरक्तवाससा । नीलाम्बरधरा नारी विधवा
जायते ध्रुवम् । भोगिनी पीतवस्त्रा स्यान्नववस्त्रा पतिब्रता ।
दुर्भगा शीर्णवस्त्रा च सुमगा क्षौमवस्त्रिणी” । रजोवर्णफलम् ।
“आलोहिते भवेद्बन्ध्या श्वेतवर्णे च पुत्रिणी । कृष्णे च
विधवा नारी रजस्येतत्तुलक्षणम्” विवाहोत्तरकालभेद-
फलम् “ऊढानां वत्सरार्धेन मासे पक्षे तथा खलु । रज
सोदर्शनं स्त्रीणां सर्वदैवाशुभावहम्” । अथ तिथिफलम्
“आद्यर्त्तौ विधवा नारी प्रतिपद्यावृताऽसृजा । वैधव्यदा
प्रतिपदा द्वितीया पुत्रवर्द्धिनी । सौभाग्यदा तृतीया
च चतुर्थी सुखनाशिनी । पञ्चमी सुभगा चैव पष्ठी
सम्पत्तिनाशिनी । सप्तमी धननाशाय, पुत्रदा सोख्य
दाष्टमी । नवमी क्लेशदा स्त्रीणां दशमी च सुखप्रदा ।
एकादश्यर्थनाशाय द्वादशी रतिवर्द्धिनी । त्रयोदशी शुभा-
ज्ञेया दुर्भगा च चतुर्दशी । पौर्णमासी त्वमावास्या
दुःखरोगविवर्द्धिनी” । अथ मासफलम् तत्रैव “चैत्रेमासि
विशेषेण वैधव्यं लभते ध्रुवम् । वैशाखे बहुपुत्राढ्या ज्यैष्ठे
रोगावृता भवेत् । आषाढो मृत्युदः प्रोक्तः श्रावणोधनहा
भवेत् । भाद्रे तु दुर्भगा क्लीवा ह्याश्विने च तपस्विनी ।
कार्त्तिके निर्द्धना बाला मार्गशीर्षेबहुप्रजा । पौषे स्यात्
पुंश्चली नारी माघे पुत्रसुखान्विता । फाल्गुने सर्व्व
सपन्ना प्रथमर्त्तौ फलं स्मृतम्” । अथवारफलम् ।
“आदित्ये विधवा नारी सोमे दैन्यमवाप्नुयात् । मङ्गले
ह्याप्तघाताय बुधे च धनिनी भवेत् । गुरौ च भर्त्तृसुखदा
कन्यापुत्रपसूर्भृगौ । पौश्चल्यकारिणी मन्दे म्रियते
भर्त्तुरग्रतः” । अन्यत्रान्यथापि “रुग्णा पतिब्रता दुःख
पुत्रिणी भोगभागिनी । पतिव्रता क्लेशभोगा सूर्य्यवारादिषु
क्रमात्” अथ वेलाफलम् । “प्रातःकाले रजः स्त्रीणां
प्रथसं शोकवर्द्धनम् । सङ्गवे सुखसन्तत्यै मध्याह्ने
धनसन्ततिः । अपराह्णे धनावाप्तिः सायाह्ने मध्यमं फलम् ।
पूर्ब्बरात्रे सुखायालं मध्यरात्रे धनक्षयः । पररात्रेऽर्थ
नाशाय प्रथमर्त्तुफलं स्मृतम्” । अथ स्थानफलम् ।
“गृहमध्ये सुस्वावाप्तिर्गृहद्वारे वियोगिनी । शय्यायां
सुखदा भूमावनेकापत्यसन्ततिः” । द्रष्टृफलम् । “पुर-
न्ध्य्रा दृश्यते यत्तु रजः स्त्रीणां सुस्वाय तत् । विश्वस्तया
तु यद्दृष्टं रजो वैधव्यदं स्मृतम् । रजः पश्यति चेत्क-
न्या पुमान्वा तत्सुखं भवेत् । स्वयं दृष्टं तथा स्त्रीणा
मात्मघाताय कल्पते” । अथावासफलम् । “पितुर्गृहे रजो
दैन्यं विदधाति पितुः कुले । देवस्थाने पितृस्थाने
धनस्थानेऽन्यवेश्मनि । मार्गे भर्त्तृवियोगे च चण्डालाढ्ये
मृतप्रजा” । अथ नक्षत्र फलम् । “अश्विनी सुखदा स्त्रीणां
भरणी कामबर्द्धिनी । कृत्तिका दैन्यदा ज्ञेया रोहिणी
पृष्ठ ११३४
सुखदा भवेत् । मृगस्तु कामभोगाय सुखदं रुद्रदैवतम् ।
अदित्यृक्षं सुखं दद्याद्गुरुभं सुखवर्द्धनम् । अश्लेषा
शुभनाशाय शोकायाथ मघा मता । वैधव्यं फल्गुनीद्वन्द्वे
हस्तः पुत्विवर्द्धनः चित्रा चित्रतनुं नारीं कुरुते
नात्र संशयः । स्वाती शुभाय नारीणां विशाखा
सुखनाशिनी । अनुराधार्थभोगाय ज्येष्ठा भर्तृवियोगदा ।
शुभहाप्यशुभं मूलं पूर्ब्बषाढार्थनाशिनी । सुखदा
चोतराषाढा श्रवणः सुखवर्द्धनः । धनिष्ठापञ्चकं स्त्रीणां प्रथ-
मर्त्तौ सुखप्रदम् । तिथिरेकगुणा प्रोक्ता नक्षत्रं च
चतुर्गुणम् । बारः षष्ठगुणो ज्ञेयो मासश्चाष्टगुणः स्मृतः ।
वस्त्रं दशगुणंविद्याद्दर्शनं च ततोऽधिकम् । अशुभं चेद्रजः
स्त्रीणां प्रथमर्त्तौ हि दृश्यते । विधान तत्र कर्त्तव्यम-
रिष्टघ्नं विशेषत” इति । अथ योगादिफलम् ।
परिधस्य तु पूर्ब्बार्द्धे व्यतीपाते च वैधृतौ । व्याघातशूलयो-
र्विष्ट्यामशुभं प्रथमार्त्तवम्” । विष्टिर्विष्टि भद्रेत्यर्थः । अन्य-
त्रापि । “अमा संक्रान्तिविष्ट्यादौ व्यतीपाते च वैधृतौ ।
परिघस्य तु पूर्व्वार्द्धे षट्च गण्डातिगण्डयोः । व्याघाते
नव, शूले तु नाड्यः पञ्चदशैव तु । वैधव्यमर्थहानिञ्च
सुतनाशं महत् भयम् । वैधव्यं शत्रुवृद्धिञ्च दारिद्र्यं क्षीणजीव-
नम् । तेजोहानिं समायाति एषु पुष्पवती क्रमात् । अथ
राशिफलम् । “मेषे सव्यभिचारा स्याद्वृषभे परभोगिणी ।
मिथुने धनभोगाढ्या कर्कटे व्यभिचारिणी । पुष्पाढ्या
सिंहराशौ तु कन्यायां श्रीमती तथा । विलक्षणा
तुलायां तु वृश्चिके तु पतिब्रता । दुश्चारिणी धनुःपूर्वे
त्वपरे च पतिब्रता । मकरे मानहीना च कुम्मे निर्द्धन
बन्ध्यता । मीने विलक्षणा लग्ने ग्रहसंस्था विवाह-
वत्” । अथ लग्नफलम् नारसिंहीये० । “लग्नस्य सप्तम-
स्थाने सूर्य्यो वैधव्यकारकः । पुत्रहानिकरस्त्वारो बुधः
सत्पुत्रदो भवेत् । वृहस्पतिर्धनायुष्यं शुक्रः सापत्न्यका-
रकः । शनैश्चरे च बन्ध्या स्याद्राहौ तु मरणं ध्रुवम्” ।
अथ गुरुशुक्रोदयफलम् । “आयुः श्रीः प्रीतिरारोग्यमुदिते
गुरुभार्गवे । मन्दोदये विरोधः स्यात् क्लेशः स्यात्तामसोदये ।
तामसो राहुः । अन्यच्च । “संमार्जनीकाष्ठतृणाग्निशूर्पान्
हस्ते दधाना कुलटा तदा स्यात् । तल्पोपयोगे तमसि-
स्थिता चेद्दृष्टं रजो भाग्यवती तदा स्यात्” इत्यादि सर्वं
ज्योतिःशास्रतोऽवगन्तव्यम् ।
अथ ऋतुस्वरूपम् । “नाभिमूले स्थितं पुष्पञ्चतुर्दलसम-
न्वितम् । तास्वन् सर्वाश्च दधते गर्भसम्भवकारणम् ।
अधोमुखं स्थितं स्त्रीणां तद्दल मुकुलाकृति । बाल्यात्-
परवय प्राप्तौ मुकुलं विकसद्भवेत् । उत्फुल्लं कुसुमं स्त्रीणां
स्वभावात् प्रस्रवेद्रजः । तदा प्रभृति सर्वासां मासि मासि-
ऋतुर्भवेदिति” । अथ प्रथमर्त्तौ मङ्गलाचारः प्रयो-
गपारिजाते स्मृतिचन्द्रिकायाम् । “प्रथमर्त्तौ तु पुष्पिंण्याः
पतिपुत्रवती स्त्रियाः । अक्षतैरासनं कुर्य्यात्तस्मिंस्तामु-
पवेशयेत् । हरिद्रागन्धपुष्पादीन् दद्यात्ताम्बूलकस्रजः ।
आशिषोवाचयेयुस्ताः पतिपुत्रवती भव । दापैर्नीराजनं
कुर्यात्सदीपे वासयेद्गृहे । ताः सर्वाः पूजयेत्पश्चाद्गन्धपुव्या-
क्षतादिभिः । लवणापूपमुद्गादि दद्यात्ताभ्यः स्वश-
क्तितः” । अन्यच्चाह दक्षः । “आर्त्तवाभिप्लुता नारी नैका
वेश्मनि संविशेत् । न संसर्गं ब्रजेदद्भिःस्नात्वा पापात्-
प्रमुच्यते । अञ्जनाभ्यञ्जने स्वानं प्रवासं दन्तधावनम् ।
न कुर्यात्सार्त्तवा नारी ग्रहाणामीक्षणं तथा । नखानां
कृन्तनं रज्जुतालपत्रादिबन्धनम्” । नेत्यनुवृत्तौ सएव “दग्धे
शरावे भुञ्जीत पेयं चाञ्जलिना पिबेत्” । अथ रजस्वला
स्पर्शशुद्धिविधानम् स्मृतिरत्नावल्यां दक्षः “उदक्ये द्वे
सगोत्रे वा सवर्णे वाऽथवा पुनः । तयोः स्नानं मिथः
स्पर्शे पञ्चगव्यं ततः पिबेत् । सवर्णे योनिसम्बन्धे सगीत्रे
च रजस्वले । मिथः संस्पृशतोऽमत्या स्नानमात्रेण
शुद्ध्यतः । मत्यैकरात्रं नाश्नीतः पञ्चगव्यं पिबेत्ततः ।
उदक्ययोर्यदान्योन्यमसम्बन्धः सवर्णयोः । स्पृशेदमत्या
स्नात्वा च तस्मिन्नाद्यात् शुचिर्भवेत्” । तस्मिन् स्पर्श-
दिने । “मत्या तु नाऽऽद्यादाशुद्धेर्भुक्ता चेत् प्रतिवासरम् ।
उपोषणं तदा केचिदाहुस्तदिदनसंख्यया । उपवासे-
त्पशक्ता चेत्तत्समं दानमाचरेत् । सम्भाषेतां स्पृशेतां
वा ब्राह्मण्यौ च रजस्वले । आस्नानकालान्नाश्नीतो-
ह्युभे मत्या मिथः क्वचित् । स्वात्वोपवासं कुर्य्यातां
पञ्चगव्येन शुध्यतः । एवमभ्यसतश्चाब्दप्रायश्चितं
समाचरेत् । मत्या रजस्वलान्योन्यं वृषलीं ब्राह्मणी स्पृ-
शेत् । आस्नानकालान्नाश्नीयादतिकृच्छ्रं समाचरेत् ।
चाण्डालं सार्त्तवा नारी संस्पृशेत् भोजनान्तरे । वाग्यता
बहिरासीनाऽऽस्नानकालादुपोषणम् । प्राजापत्यञ्चरेत्
पश्चात् पञ्चगव्यं ततः पिबेत् । विप्रान् द्वादशसंख्याकान्
भोजयित्वा विशुध्यति । पुष्पिणी संस्पृशेन्मोहादशुद्धं वा
नरंस्त्रियम् । स्नानादर्वाङ् न मुञ्जीत भूक्त्वा कृच्छ्रं
समाचरेत् । स्पृष्ट्वोदक्या पञ्चनखान् द्विशफैकशफान् पशून् ।
अण्डजानि च सर्वाणि नाद्यादा स्नानवासरात्” । परा-
पृष्ठ ११३५
शरः । “रजस्वला यदा दष्टा शुना जम्बूकरासनैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुद्ध्यति । उर्द्धं तु द्वि-
गुणं यामे र्वक्त्रे तु त्रिगुणं तथा । चतुर्गुणं स्मृतं मूर्द्ध्नि
दंशेऽन्यत्राव्रता मवेदिति” ।
तस्या वैमित्तिकस्नानशुद्धिस्नानप्रकारस्तत्रैव दर्शितः
यथा । तत्र वैमिचिकस्नातप्रकारस्तु स्मृव्यर्थसारे । “स्नाने
नैपित्तिके प्राप्तै रजोदर्शने पात्रान्तरिततोयेन स्नात्वाद्भिः
सिक्तगात्रा साङ्गोपाङ्गं वस्त्रं संनिष्पीड्यान्यवस्त्रधारणं
कृत्वा व्रतञ्चरेदिति” । अथ शुद्धिस्नानं स्मृत्यर्थसारएव ।
“रजस्वला षष्टिमृत्तिकामिः शौसं कृत्वा मलं प्रक्षाल्य-
दन्तधावनपूर्व्वकं संगवे स्नायात्” इति । अथ स्नाना-
नन्तरमपि रजःख्यवे विशेषोऽभिधीयते । कात्यायनेन
“रजस्वला सदा नारी त्रिरात्रमशुचिर्भवेत् । प्रथमेऽहनि
चाण्डाली द्वितीये ब्राह्मघातिनी । तृतीये रजकी प्रोक्ता
चतुर्थेऽहनि शुद्ध्यति । मर्त्तुः शुद्धा चतुर्थेऽह्नि स्नाता
नारो रबस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽ-
हनि शुद्ध्यती” त्युक्त्वाभिहितम् । “रागजं रोगजञ्चैव द्रव्य
जं कालजं तथा । यद्रागरोगद्रव्योत्थं तद्रक्तं प्राह
मार्गवः । कालजं तु रजःसंज्ञं तस्मात् तत्रैव
साऽशुचिः” । एषां लक्षणानि । “अर्वाक् प्रसूतेरुत्पन्नं मेदो-
बध्याङ्गवासु णत् । तद्रागजमिति प्रोक्तं प्रजोद्भेद-
समुद्भवम् । रोगेण यद्रशः स्त्रीणामन्वहं संप्रवर्त्तते ।
नाऽशुसिः स्त्री ततस्तेन यतो वैकारिकं मलम् । अन्त्र्यदि-
दोषवैषम्यादसकृत्संप्रवर्त्तते । रोगजं तत्समुद्दिष्टमथ
द्रव्यजमुच्यते । द्रव्यजं धातुवैषम्यहेतुद्रव्योपभोगज-
मिति” । “आरभ्य चार्त्तवदिनादेकविंशतिवासरे । मासा-
दूर्द्ध्वं रजोयत् स्यात्तत्कालजमुदाहृतम् । रजस्वला यदा
नारी पुनरेव रजस्वला । सा० विंशतिदिनादूर्द्ध्व
त्रिरात्रमशुचिर्भवेत्” । ततः पूर्वं तु “रजस्वला यदि
स्नाता पुवरेव रजस्वला । अष्टादशदिनादर्वागशुचित्वं
न विद्यते । एकोबविंशतेरर्वागेकाहं स्यात् ततोद्व्यहम् ।
विंशत्प्रमृत्युत्तरेषु त्रिरात्रमशुचिर्भवेदिति” । कश्य-
पस्तु । “रजस्वला सती नारी पुनरेव रजस्वला ।
अष्टादशाहात् प्राम्बापि अशुचिः स्यात्त्रिरात्रकम् ।
त्रयोदशदिवादूर्द्ध्वं रजसा युज्यते यदा । अष्टादशाहात्
वाग्वाऽपि त्रिरात्रमिति निश्चयः । एकादशेत्वहोऽरात्रं
त्रिरात्रं द्वादशेऽहनि । उर्द्ध्वं त्रिरात्रं विज्ञेयमिति कुण्ड-
लिचोदितमित्यादि” परस्परविरुद्ववचनम्” जातिगुणवयोऽ-
स्थादेशर्भदेन व्यवस्थापनीयम्” । स्नानकालोत्तरानुत्तरत्वेन
व्यवस्थेति रघु० । रजःकालाज्ञाने प्रजापतिराह “अविज्ञाते
मले सा च मलवद्वसना यदि । कृतं गेहेषु जुष्ठं स्याच्छु-
द्धिस्तस्याः त्रिरात्रतः । रजः प्राप्तकालसंदेहेऽपि सएवाह ।
“निःसंदेहे परिज्ञाने आर्त्तवे शुद्धिकारणम् । संदेह-
मात्रे स्नानं स्यादित्युवाच प्रजापतिरिति” । अथ रात्रौ
रजोदर्शने विशेषः । “अर्द्धरात्रपर्य्यन्तं पूर्व्वदिनमिव्यपरे
परदिनगणना वा त्रिमागाया रात्रेर्मागद्वयं पूर्ब्बदि-
यान्तर्गतमित्यव्ये । सूर्य्येदयाबधिपूर्वदिनमित्यपरे । तदाह
काश्यपः । “उदिते तु यदा सूर्य्ये नारीणां दृश्यते रजः ।
जनवं वा विपत्तिर्वा यस्याहस्तस्य शर्वरो । अर्द्धरात्रावधिः
कालः सूतकादौ विधीयते । रात्रिं कुर्य्यात्त्रिभागां तु
द्वौ भागौ पूर्पगामिणौ । उत्तमोऽंशः प्रगातेन युज्य-
ते मृतसूतके । रात्रावेव समुत्पन्ने मृते रजसि सूतके ।
पूर्व्वमेव दिनं ग्राह्यं यावन्नाम्युदितोरविरिति” । अत्रापि
देशाचारादिना व्यवस्था द्रष्टव्या । अथ रजस्वलाया
ज्वरादिरोगसंभवे शुद्धिविधानं स्मृत्यर्थसारे । रजस्वलां
ज्वरितां चतुर्थेऽहनि सचेलनवगाह्याचम्य दशकृत्वोद्वादश
कृत्वो वान्या तां स्पृष्टाचमेदिति” । उशनापि “ज्वरा-
भिमूता था मारी रजसापि परिप्लुता । कथं तस्या
भवेच्छौचं शुद्धिः स्यात् केव कर्मणा? । चतुर्थेऽहनि संप्राप्ते
स्मृशेदन्या तु तां स्त्रियम् । सा सचेलावगाह्यापः स्नात्वा
स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचामेच्च पुनः
पुनः । अन्वे च वाससां त्यामस्ततः शुद्धा भवेत्तु सा । दद्या-
च्छंक्त्या ततोदानं प्रुण्याहेन विशुध्यति । आतुराणां तु सर्वे-
षामेवं शुद्धिर्विधीयत” इति । अथोदक्यास्पष्टानां
चेतनानां सचेलं स्नानम् अचेतनपीठादीनां प्रक्षाल
नं, तत्रोदक्यादिस्पृष्टाचेतनस्पर्शे आचमनम् “उदक्याऽशु-
त्तिभिः स्नायात्संस्पृष्टस्तैरुपस्पशेदिति” याज्ञवल्क्यस्पर-
रणात् उदक्यादिस्पृष्टचेतनस्पर्शे तु द्वितीयस्वापि स्नान-
मेव यथाह मनुः “दिवाकीर्त्तिमुदक्यां च पतितं सूति-
कां तथा । शवन्तत्स्पर्शिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यति”
तृतोयस्य त्वाचमनं यथाह संवर्त्तः “तत्स्मर्शिनं स्पृशे-
द्यस्तु स्नानं तस्य विधीयते । ऊर्द्ध्वमाचमनं प्रोक्तं
द्रव्याणां प्रोक्षणं तथा” एतदमतिविषयं बुद्धिपूर्वस्पर्शे
तु तृतीयस्यापि स्नानमेव “पतितचण्डालसूतिकोदक्या-
शवस्पर्शितत् स्पर्श्युपस्पर्शने सचेलमुपस्पर्शनाच्छुद्धिरिति”
गौतमस्यरणात् । चतुर्थास्याचमनं यथाह देवसः “उप-
पृष्ठ ११३६
स्पृश्याशुचिस्पृष्टं तृतीयं चापि मानवः । हस्तौ पादौ
च तोयेन प्रक्षाल्याचम्य शुद्ध्यति” अशुद्धस्योदक्यादिस्पर्शेतु
देवलः “अशुद्धान् स्वयमप्येतानशुद्वस्तु यदि स्पृशेत् ।
स शुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः । श्वादिस्पर्शे
तूपवासःकृच्छ्रस्तु श्वपचादिके” इति । अधिकमार्त्तवशब्दे
८०८ पृष्ठे उक्तम् ।

उदगद्रि उदगुत्तरस्यामद्रिः । हिमाचले । उदक्पर्वतीदयोऽप्यत्र ।

उदगयन न० उदक् उदीच्यामयनम् । १ उत्तरायणे । ७ ब० ।

माघादिके मासषट्के “उदगयने आपूर्य्यमाणे पक्षे
कल्याणे नक्षत्रे चौलकर्म्मोपनयनगोदानविवाहा” आश्व०
गृ० १, ४, १, “अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्”
मनुः । उत्तरायणशब्दे ११०४ पृ० विवृतिः ।

उदग्दश न० उदक् उत्तरा दशा यस्य । उत्तराग्रे वस्त्रे

“उत्तीर्य्यान्यानि वासांसि परिधाय सकृदेनान्यापीड्योद-
ग्दशानि विसृज्यासत आनक्षत्रदृर्शनात्” आ० गृ०
४, ४, १०, “उदग्दशानि उदगग्राणि” नारा० वृ० । “अथ
वासी द्विगुणं वा चतुर्गुणं वा प्राग्दशं वोदग्दशं वोपस्तृ-
णाति” शत० ब्रा० ३, ३, २, ९,

उदग्भूम त्रि० उदक् उन्नता भूमिर्यत्र अच् समा० । उत्कृष्टभूमिके देशे जटा०

उदग्र त्रि० उद्गतमखं यस्य । १ उच्चे उन्नते २ वृद्धे “हरिन्मणि-

श्याममुदग्रविग्रहः” किरा० “नयन् मधुलिहः श्वैत्यमुद-
ग्रदशनांशुभिः” “आक्रम्य संस्थितमुदग्रविशालशृङ्गम्”
माघः “अवन्तिनाथोऽयमुदग्रबाहुः” “संदधे दृशमुद-
ग्रतारकाम्” “क्षतात् किल त्रायत इत्युदग्र” रघुः ।
“वीर्य्योदग्रे राजशब्दे मृगे च” “सन्मङ्गलोदग्रतंरप्रभा-
वः” “आविष्कृतोदग्रतरप्रभावम्” रघुः । ३ उद्धते च ।
“मदोदग्रा ककुद्वन्तः” रघुः ।

उदग्रदत् त्रि० उदग्रा दन्ता यस्य दत्रादेशः स्त्रियां ङीप् । उन्नतदन्ते

उदग्राभ पु० उदकं गृह्णाति ग्रह--अण् उप० स० संज्ञाया

मुदादेशः चेदे हस्य भः । १ मेघे “एवा पवस्व मदिरो
मदायोदग्राभस्य नमयन् बधश्नैः” ऋ० ९, ९७, १५, “उदग्राभ-
मुदकग्राहिणं मेघम्” भा० लोके तु उदग्राह इत्येव ।
उदग्रा उन्नता आभायस्य । २ महाप्रभे त्रि० ।

उदङ्क पु० उदच्यते उद्ध्रियतेऽत्र उद् + अन्च--घञ् । “उदङ्को-

ऽनुदके” पा० नि० कुः १ चर्ममये घृतादिपात्रे (कुपो) तैलो-
दङ्कः घृतोदङ्कः । उदच्यते आकृष्येतेऽनेन करणे घञ् ।
आकर्षणसाधने २ संदंशे “हृदयोदङ्कसंस्थानं कृतान्ताना-
यसन्निभम्” भट्टिः । ३ ऋषिभेदे पु० “अब्रवीन्म उदङ्कः
शौल्वायनः” शत० ब्रा० १४, ६, १०, ४, अस्य द्वन्द्वे
अद्वन्द्वे च उपका० बहुत्वे गोत्रप्रत्ययस्य वा लुक् ।
औदङ्कायनाः उदङ्काः ।

उदङ्मुख त्रि० उदक् उत्तरा मुखमस्य । उत्तरमुखे “मण्डपं

कारयेत्तत्र प्राङ्मुखं वाप्युदङ्मुखम्” अन्नाचलमण्डपे पुरा०
“ऋतं भुङ्क्तेह्युदङ्मुखः” । “यथाशास्त्रमुदङ्मुखः” । “मूत्रो
च्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः” मनुः । “उदङ्
मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन्”
मनुः । “उदङ्मुखःसोऽस्त्रविदस्त्रमन्त्रम्” रघुः । “स्थानाद-
स्मात् सरसनिचुलादुत्पतोदङ्मुखःखम्” मेघ० ।

उदचमस पु० उदकस्य उदकधारणार्थश्चसमः संज्ञाया

मुदादेशः । उदकस्थापनार्हे चसमरूपे पात्रभेदे “अथा-
न्तरेणोदचमसं निनयति” शत० ब्रा० ७, २, १, १७ । “चतसॄषु
चतसृषु त्रींस्त्रीनुदचमसान्निनयति” कात्या० १७, ३, ४,

उदच् त्रि० उद् + अन्च--क्विप् । १ ऊर्द्ध्व गते उत्तरे २ देशे

३ अनन्तरे ४ काले उत्तरदिग्देशकालवृत्तौ च । ५ उत्तर-
दिशि स्त्री ङीप् अचोऽल्लोपे उद्यादेशे दीर्घः उदीची
“तेनोदीचीं दिशमनु रवेः” मेघ० । ततः अस्ताति तस्य
लुक् । प्रथमापञ्चमीसप्तम्यन्तार्थे वर्त्तमाने दिग्देशशकाले
अव्य० “अयने द्वे गतिरुदग् दक्षिणार्कस्य वत्सरः”
अमरः “उपवीणयितुं ययो रवेरुदगावृत्तिपथेन नारदः”
रघुः “संपूयोत्पुनात्युदगग्राभ्याम् पवित्राभ्याम्”
“उदगग्नेरुत्सृप्य कुशर्ल कारयन्ति” सं० त० गोभि० । “प्राग-
मुदग्रं वा धौतं वस्त्रं प्रसारयेत्” वि० पा० स्मृ० ।
“आचम्योदक्परावृत्य” मनुः । “क्षारसिन्धोरुदक्स्थम्” सि० शि० ।

उदज पु० उद् + अज--अच् व्यभावः । पशुप्रेरणे ।

उदजिन पु० उत्क्रान्तमजिनम् अत्या० स० । चर्म्मातीते

निरुदकादि० अस्यान्तोदास्तता ।

उदज्ञ पु० उदकं जानाति ज्ञा--क संज्ञायाम् उदादेशः

ऋषिभेदे तस्यापत्यम् तिका० फिञ् । औदज्ञायनि
तदपत्ये पुंस्त्री०

उदञ्च् त्रि० उद + अन्च--विच् । उदक्शब्दार्थे । भत्वे

उदञ्चः उदञ्चा इति भेदः । ततः प्रथमान्ताद्यर्थे अस्ताति
तस्यलुक् । उदङ्प्रथमान्ताद्येर्थ दिग्देशादौ अव्य० “यान्
षडुदङ्ङेति तान् मासान्” छा० उ० । उदङ् उत्तरस्याम् ।

उदञ्चन न० उद् + अन्च--णिच् करणे ल्युट् । १ पिधानार्थे

पात्रे (ढाकना) । “प्रतिप्रस्थाता संस्रवावानयत्युन्नेता
चमसेन वोदञ्चनेन वा” शत० ब्रा० ४, ३, ५, २१,
पृष्ठ ११३७
“प्रतिप्रस्थाता च संस्रवावाधवनीयादुन्नेतोदञ्चनेन चमसेन
वा “कात्या० १०, ५, १ । भावे ल्युट् । २ ऊर्द्ध्वक्षेपणे । कर्त्तरि
ल्यु । ३ उत्क्षेपके त्रि० । “सत्पतिर्विश्वासामूधः स
धियामुदञ्चनः ऋ० ५, ४४, १३ । “उदञ्चन ऊर्द्ध्व-
मुद्गमयिता” भा० ।

उदञ्चित त्रि० उद्--अन्च--पूजायां क्त १ पूजिते । णिच्--क्त ।

२ ऊर्द्ध्वंगमिते ३ उत्क्षिप्ते । हेम० “उदञ्चिताक्षोऽञ्चि
तदक्षिणोरुः” भट्टिः ।

उदञ्चु त्रि० उद् + अन्च--उन् । उद्गतिर्शले । बाह्वा०

अपत्ये इञ् । औदञ्चवि तदपत्ये पुंस्त्री० ।

उदण्डपाल पु० उद्भिन्नमण्डं पलति गच्छति कारणतया

पल--गतौ अण् उप० स० । १ मत्स्ये २ सर्पे च मेदि० तयोर
ण्डोद्भेदेन जातत्वात्तथात्वम् ।

उदद्या स्त्री उद् + अद--बा० यत् । तैलपिपीलिकायां शब्दार्थचि० ।

उदधान पु० उदकं धीयतेऽत्र आधारे ल्युट् । उदादेशः ।

१ कुम्भे २ मेघे च ।

उदधि पु० उदकानि धीयन्तेऽस्मिन् घा--आधारे कि

उदादेशः । १ समुद्रे, २ घटे च । “उदधेरिव निम्नगाशतैः”
“चन्द्रोदय इवोदधेः” रघुः । “यैः कृतः सर्व्वभक्षोग्निरपेयश्च
महौदधिः” मनुः । समुद्रसामान्यस्येयं संज्ञा तत्तत्-
पदसमभिव्याहारे तु विशेषस्य बोधः । यथा क्षारोदधिः
क्षीरोदधिः सुरोदधिः । ३ मेघे च । “हृदय मप्स्वायुरपो
दत्तोदधिं भिन्त” यजु० १८, ५४ । ४ उदकधानकर्त्तृ
सूर्य्ये च “संसूर्य्येण दिद्युतदुदधिर्निधिः” यजु० ३८, २२
सूर्व्यस्य च जलपूर्ण्णामृताभिर्नाड़ीभिर्जलाकर्षणेन
तद्धारणात्तथात्वं यथा च तस्यामृताधायकत्वम्”
तथाऽमृतशब्दे ३२३ पृष्ठे उक्तम् ।

उदधिक्रा त्रि० उदधिं क्रामति क्रम--वि ङीप् । समुद्र-

क्रामके ।

उदधिमल पु० उदधेर्मल इव । समुद्रफेने राजव० ।

उदधिमेखला स्त्री उदधिर्मेखलेव यस्याः । मध्यस्थाने

समुद्रवेष्टितायां पृथिव्याम् । भूगोले “भूमेरर्द्धं क्षारसिन्धो-
रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः । अर्द्ध्वेऽन्यस्मिन्
द्वीपषट्कस्य याम्येक्षारक्षीराद्यम्बुधीनां निवेशः” सि० शि०
उक्तेः याम्यार्द्धे एवाम्बुधीनां निवेशात् तेषां पृथिवी
मध्यवेष्टकतया मेखलातुल्यत्वम् ।

उदधिसुता स्त्री ६ त० । १ लक्ष्याम् तस्या उदधिजातत्वात्

तथात्वम् । उदधितनयाद्रयोऽप्यत्र २ चन्द्रे पु० ।

उदन् न० उन्द + कनिन् । उदके । “उदकशब्दादेशोऽयमि-

त्यन्ये अन्यएवायं शब्द इत्यपरे । “धाराश्चर्मेवोदभि
र्वुन्दन्ति भूम” ऋ०, १, ८५, ५ “अव त्मना भरते फेनमु-
दन्” ऋ० १, १०४, ३, । उदन् उदनीत्यर्थः परमे व्योमन्
इति वत् सप्तम्या लुक् नलोपाभावश्च

उदन्त पु० उद्गतोऽन्तोनिर्ण्णयो यस्मात् । १ वार्त्तायाम् वृत्तान्वे

कुशलादिकयने, । “श्रुत्वा रामः प्रियोदन्तम्” रघुः
“कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः” मेघ०
“एवंप्रायेण चास्योदन्तेन” काद० । २ साधौ, मे स्वार्थेकन् ।
तत्रैव उद्गतोऽन्तोऽस्य पाकवशात् प्रा० ब० गतलोपः ।
३ पाकवशात् प्राप्तान्ते त्रि० “शृतमसदिति तदाहुर्यर्ह्यु-
दन्तं तर्हि जुहुयादिति तद्धैनोदन्तं कुर्य्यादुप ह
दहेद्यदुदन्तं कुर्य्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नोदन्तं
कुर्य्यात्” शत० ब्रा० २, ३, १, १४, “अधिश्रितं वारुणमुदन्तं
पौष्णम्” कात्या० २५, २, ३,

उदन्तिका स्त्री उदन्तमुद्गतान्तं करोति उदन्त + णिच् +

ण्वुल् टाप् अत इत् । तृप्तौ हारा० ।

उदन्य नामधातु अतिगार्द्ध्येनोदकमिच्छति क्यच् निपा०

उदन्यति औदन्यीत् उदन्याम्--बभूव आस चकार । उदनिता-
उदन्यिता उदन्या ।

उदन्या स्त्री अतिगार्द्ध्येन उदकमिच्छति क्यजन्तात् अ ।

१ पिपासायाम् । “व्यस्यन्नुदन्यां शिशिरैः पयोभिः” भट्टिः
बेदे० बा० नयनार्थेऽपि क्यच् । २ उदकनयने च
“अथयत्रैतत्पुरुषः पिपासतिनाम तेज एव तत्पीतं नयते
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येव तत्तेज आचष्ट
उदन्येति” छा० उ० यथा च पुरुषस्य पिपासां भवति
तद्भाष्ये समर्थितं यथा
“यत्र यस्मिन् काल एतन्नाम पिपासति पातुमिच्छतीति
पुरुषो भवति । अशिशिषतीतिवदिदमपि गौणमेव नाम
भवति । द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्ग
देहं क्लेदयन्त्यःशिथिलीकुर्य्युरब्बाहुल्याद्यदि तेजसा न
गोष्यन्ते । नितराञ्च तेजसा शोष्यमाणास्वप्सु
देहभावेन परिणममानासु पातुमिच्छा पुरुषष्य जायते
तदा पुरुषः पिपासति नाम तदेतदाह । तेजएव तत्तदा
पीतमबादि शोपयेद्देहगतलोहितप्राणभावेन नयते
परिणमयति । तद्यथा गोनाय इत्यादि समानमेव । तत्तेज
आचष्टे लोकः । उदन्येति उदकं नयतीत्युदन्या उद
न्येतीति छान्दसम्” । पिपासा च प्राणस्य धर्म्मः यथाह
पृष्ठ ११३८
शा० ति० “बुभुक्षा च पिपासा च प्राणस्य, मनसः
स्मृतौ । शोकमोहौ, शरीरस्य जन्ममृत्यू, षडूर्मयः” । उद्नः
अयम् उदन्य उदकसम्बन्धिनि त्रि० “विश्वा उदन्वया
वर्षाधारा उदन्या इव” ऋ० २, ७, ३, “उदन्या उदकस-
म्बन्धिनी” भा०

उदन्यु त्रि० उदन्य--नामधातोः उन् । पिपासौ “तृष्णजे

न दिव उत्सा उदन्यवे” ५, ५७, १, “हरिं नर्व
तेऽव ता उदन्युवः” ऋ० ९, ८६, २७, उदन्युवः उदके-
च्छावन्तः” भा० उवङ् छान्दसः ।

उदन्वत् पु० उदकानि सन्त्यस्मिन् मतुप् उदन्भावः मस्य वः ।

१ समुद्रे “उदन्वदम्भःपरिवीतमूर्त्तिः” माघः । “नवैरुदन्या-
निव चन्द्रपादैः” कुमा० “अवकाशं किलोदन्वान्” ते च
प्रापुदन्वन्तं बुबुधे चादिपूरुषः” रघुः । वेदे नि० । २
उदकयुक्तमात्रे त्रि०” स्त्रियां ङीप् । “उद्वदन्वता परिदीया
रथेन” ऋ० ५, ८३, ७, “उदन्वता उदकयुक्तेन रथेन” भा०
“उदन्वतीरनुदकाश्च याः” ऋ० ७, ५४, ४,

उदप आघाते सौत्रः पर० सक० सेट् । उदपति । औदपीत् औदापीत् ।

उदपात्र न० उदकपूर्ण्णं पात्रम् उदादेशः । जलपूर्ण्णे पात्रे

“भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम्” मनुः ।

उदपान पु० न० उदकं पीयतेऽस्मिन् पा ल्युट् उदादेशः ।

कूपसमीपस्थे स्वाते क्षुद्रजलाधारे । “तड़ागा उदपानानि
वाप्यः प्रस्रवणाणि च” निर्जलेषु च देशेषु खानया-
मासुरुत्तमान् । उदपानान्” रामा० । “अल्पवर्षप्रस्र-
वणोदपानोदकप्रायः” सुश्रु० । ७ त० । उदपानमण्डूकः
पौत्रेसमितादि० ७ स० युक्त्यारोह्या० । आद्युदास्तता ।

उदमान पु० “कुल्या स्यादष्टभिर्द्रोणैर्द्रोणपादेन चाढकः ।

अस्यार्द्धशतिकोभाग उदमान उदाहृत” इत्युक्ते मानभेदे ।

उदय पु० उद् + इ--अच् । ज्योतिषोक्ते राशेरुदयरूपे १ लग्ने ।

आधारे अच् । “यैर्यत्र दृश्यते भास्वान् स तेषामुदयः
स्मृतः” इत्युक्तलक्षणे रवेर्द्वष्टियोग्यस्थाने २ उदयाचले पूर्व्व
पर्व्वते । “उदयाचलव्यर्वाहतेन्दवपुः” माघः “उदय-
गिरिवनालीबालमन्दारपुष्पम्” उद्भटः । भावे अच् ।
३ प्रथमदर्शनयोग्यभवने, ४ वृद्धौ, ६ उद्भवे ७ उत्गमे
“आत्मोदयः परग्लानिः” माघः “प्रभातसमयमिव पूर्वदिग्माग
रागानुमेयमित्रोदयम्” काद० । “गवोदयं नाथमिवौष-
धीनाम्” “निवातस्तिमितां वेलां चन्द्रोदय इबोदधेः”
“उदयमस्तमयञ्च रघूद्वहति” रघुः । “अपमेषोदयं
वर्षमदृष्टकुमुमं फलम्” । “यौ तु स्वप्नावबोधौ तौ
भूतानां प्रलयोदयौ” । कुमा० “उदये मदवाच्यमुज्-
झता” । “आगमैः सदृशारम्म आरम्भसदृशोदयः” ।
“प्रसृतावुदयापवर्गयोः” रघुः । “वीलाङ्कुरः प्रागुद-
यादिवाम्भः” कुमा० ८ उत्कर्षे । “विजितजगत्त्रयोदयम्”
माघः । ग्रहाणामुदयश्च स्वाधिष्ठितराशीनामुदयात्
“निजनिजोदयलग्नसमुद्गमे समुदयोऽपि मुबेद्भनभःस-
दाम्” सि० शि० । राशीनां देशभेदेनोदयकालवि-
शेषः सि० शि० । तत्रादौ निरक्षदेशलङ्कादौ
सन्मानसाधनं यथा “एकस्य राशेर्वृहती ज्यका या
द्वयोस्त्रिभस्यापि कृतीकृतानाम् । स्वस्वापमज्याकृ-
तिवर्जितानां मूलानि तासां त्रिगुणा ३४३८ हृतानि ।
स्वस्वद्युमौर्व्या विमजेत् फलानां चापान्यघोऽधः परिशो-
धितानि । क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामु-
दयासवः स्युः” शि० । “एकस्य राशेर्बृहती ज्येत्य-
ष्टमी ज्या । द्वयोरिति षोड़शी ज्या । त्रिमस्येति
त्रिज्या । आसां र्वर्गितानां स्वकीयस्वकीयक्रान्तिज्यावर्गै-
र्वर्जितानां मूलानि त्रिज्यागुणितानि स्वस्वद्युज्यया
विभजेत् । फलानां चापान्यधोऽधः परिशोधितानीति, तृतीयात्
द्वितीयं द्वितीयात् प्रथमं शोध्यम् । प्रथमं तथाविधमेव ।
एवं लङ्कोदयासवः स्युः । अत्रोपपत्तिः । अत्रोद्वच्छतः
क्रान्तिदृत्तस्य तिर्यक्स्थितत्वात् त्त्र्यस्राणि क्षेत्राण्युत्पद्यन्ते ।
तद्यथा । मेषान्तस्य ज्या क्रान्तिवृत्ते कर्णः । तत्क्रान्तिज्या-
लङ्काक्षितिजे मुजः । तद्वर्गान्तरपदं मेषान्तेऽहोरात्रवृत्ते-
क्रोटिः । एवं राशिद्वयस्य ज्या कर्णः । तत्क्रान्तिज्या
भुजः । तद्वर्गान्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटिः ।
एवं तिराशिज्या कर्णः परमाक्रान्तिज्या भुजः । परमाल्प-
द्युज्या कोटिः । एताः कोटयश्चापकरणार्थं त्रिज्यवृत्ते
परिणामिता त्रिज्यागुणाः स्वस्वद्युज्यया मक्तास्तासां चापानि ।
प्रथम मेषोदयस्य कालः । द्वितीयं राशिद्वयस्य ।
तृतीयं राशित्रयस्य । अतो विश्लेषितानीत्युपपन्नम् ।
इदानी प्रकान्तरेणाह” प्रमि० । “कीटादिराश्य-
न्वजकोटिजीवास्त्रिज्या ३४३८ गुणाः स्वस्वदिन-
ज्ययाप्ताः । चापीकृताः प्राग्वदधो विशुद्धाः कीटादि-
कानामुदयासवो वा” शि० । “कोटादिराश्यन्तजकोटिजीवास्ता
एकद्वित्रिराशिज्या मवन्ति १७१९ । २९७७ । ३४३८ ।
एतास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति । वैव
वृषभान्ते व्युज्या सैव कीटान्तेऽपि ३२१८ । यैव भेषान्ते-
द्युज्या सैव सिंहान्तेऽपि ३३६६ । कन्यान्ते द्युज्या त्रि-
पृष्ठ ११३९
ज्यैव ३४३८ । आभिस्ता भाज्याः । फलानां चापान्य-
धोऽधः शुद्धानि कीटादीनामुदयासवः स्युर्निरक्षे वा । त
एव मिथुनवृषभमेषाणामित्यर्थः । अत्रोपपत्तिः । क्रान्ति-
वृत्ते बषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कीटान्ते
निबध्यते तस्य सूत्रस्यार्द्धमेकाराशेर्ज्या भवति । एवं सूत्र-
स्यैकप्तग्रं मेषान्ते बद्ध्वा द्वितीयं यिंहान्ते तस्य सूत्रस्यार्धं
राशिद्वयस्य ज्या भवति । एवं मेषतुलादौ वद्वसूत्रस्यार्धं
त्रिज्या । एता एव वृषभान्तमेषान्तमीनान्ताहोरात्रवृत्तानां
ज्या भवन्ति यतस्तत्संपातेषु क्रान्तिवृत्ते सूत्राणि बद्वानि ।
अतस्तासां त्रिज्यावृत्तपरिणतानां चापान्तराणि कीटा-
दिकानामुदया मवन्तीति गोले प्रदर्शयेत् । इदानीं
पुनः प्रकारान्तरेणाह प्रमि० । “मेषादिजीवास्त्रिगृहद्यु-
मौर्व्या ३१४१ क्षुण्णा हृताः स्वस्वदिनज्यया वा । चापी-
कृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवो वा” शि० ।
स्पष्टार्थमिदम्, अस्योपपत्तिर्गोले कयितैव सुगमा च अथ
निष्पन्नांस्तानसूनाह” प्रमि० । “तेऽभ्राद्रिभूपा १६७०
गुणगोऽद्रिचन्द्राः १७९३ सप्ताग्निनन्देन्दुमिता १९३७
अथैते । क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः क्रमोत्क्रमस्थैश्च
विहीनयुक्ताः । मेषादिषस्मामुदयाः स्वदेशे तुलादितोऽमी
च विलोमसंस्थाः । उदेति राशिः समयेन येन तत्सप्तमो-
ऽस्तं समुपैति तेन” शि० । “अत्र घनु करणे जीवानां स्थू-
लत्वाद्द्वितीयतृतोयावुदयौ नान्यैः सम्यक्पठितौ । अत्र
प्रथमप्रकारेण प्रथम उदयो गृह्यते । द्वितीयादिप्रकारेण
द्वितीयतृतीयौ । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । निरक्ष-
स्वदेशार्कोदययोरन्तरं चरम् । निरक्षे स्वदेशे च मेषादिः
सममुदेति । मेषान्त आदौ स्वक्षितिजे, तत उन्मण्डले
लगति । अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति ।
एवं वृषमिथुनयोरपि । कर्क्यादौ तु चरस्वण्डानामुपची-
तयमानत्वाद्धनं तानि परिणमन्ति । तुलादौ तून्मण्डल-
स्याधःस्थितत्वाच्चरस्वण्डानि घनं भवन्ति । मकरादौ
तु चरखण्डनामपचीयमानत्वादृण परिणमन्ति । इत्यादि
गोले सम्यग्विलोक्यते” प्रमि० । “चरखण्डाश्च तत्रैवोक्ता
यथा “स्वदेशजैस्तच्चरखण्डकैर्वा लघुज्यकावद्रविदोस्त्रिभा-
गात् । मेषादिराशित्रितयस्य यानि चराण्यधोऽधः
परिशोधितानि । तानि स्वदेशे चरखण्डकानि दिङ्नागसत्र्यंश-
गुणै १० । ८ । ३ । २० र्विनिघ्नी । पलप्रभा तोयपलात्मकानि
स्थूलानि वा स्युश्चरखण्डकानि । स्थूलं चरं चाम्बुपला-
त्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम्” शि० । “अथ वा
तच्चरं वक्ष्यमाणैस्त्रिभिः खण्डकैः स्वदेशजैर्लघुज्याप्रकारेणां-
शसितदशाप्तमित्यादिना साध्यम् । कस्मादित्याह । रविदो-
स्त्रिपागात् । अर्कस्य सायनांशस्य यो भुजस्तस्य यस्त्र्यंश-
स्तस्मादंशमितदशाप्तमित्यादिना । अथ खण्डकानि ।
मेषादिराशित्रयस्येत्यादि सुगमम् । अथ स्थूलखण्डकैर्य-
च्चरं तत् स्थूलं पानीयपलात्मकं भवति । तत् षड़्गुणं
प्राणात्मकम् । तस्माद्यदि घनुः क्रियते तदा सूक्ष्मं
चरार्धं स्यात् । अत्रोपपत्तिः । एकमङ्गुलं पलभां प्रकल्प्य
एकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षड्भिर्वि-
मज्य पानीयपलात्मकानि कृत्वा यावदधोऽधो विशोध्यन्ते
तावद्दिङ्वागसत्र्यंशगुणा उत्पद्यन्ते । अतोऽनुपातः ।
तद्येकाङ्गुलया पलमयैतानि चरखण्डानि तदेष्टया
किमिति । एवं चरखण्डानि स्युः । परं तानि ज्यात्मकानि
यतः पूर्वं स्वल्पत्वात् धनुर्नोत्पन्नम् । अत एव तत्प्राण-
चापं यदि वापि स्वक्ष्ममित्युक्तम् । खण्डकैश्चरकरणे
लघुज्यासाधनवद्वासना । तत्र लघुज्याखण्डकानि नव
चरखण्डकानि त्रीणि परमे राशित्रये भुजे यथा त्रीणि
लभ्यन्ते । तदर्थं रविदोस्त्रिमागादित्युक्तम्” प्रमि० ।
गोलाध्याये च उदयान्तरकर्म्मोपत्तियुक्तं देशान्तर
सहितं स्पष्टतया तत्साधनमुक्तं यथा “अहर्गणो
सध्यमसावनेन कृतश्चलत्वात् स्फुटसावनस्य । तदुत्य-
खेटा उदयान्तराख्यकर्मोद्भवेतोनयुताः फलेन । लङ्कोदये
स्युर्न कृतास्तथाद्यैर्यतोऽन्तरन्तच्चलमल्पकञ्च” शि० योयमहर्गण
आनीतः स मध्यमसावनेनैव कुवः? स्फुटसावनस्य चलत्वात्
तथाविधेनानुपातेन स्फुटो मायातीत्यर्थः युगादेरारभ्य
वर्तमानरविवर्षादेः प्राक् यावान् मध्यमसावनस्तावानेव
स्फुटसावनः स्यात् किन्तु रविवर्षादेरूर्द्धं यावान् मध्यमसा
वनस्तावान्न स्फुटा अतस्तदुत्यखेटा उदयान्तराख्यकर्मो
द्भवेन फलेनानयुताः सन्तो लङ्कोदये स्वुर्नान्यथा लङ्का-
यां भास्करोदये मध्या इति यदन्यैरुक्तं तदसत् ।
अथोदयान्तरकर्माह” प्रमि० “मध्यार्कभुक्ताअसवीनि
रक्षे ये ये च मध्यार्ककलासमानाः । तदन्तरं यत्
स्फुटमध्ययोस्तत् द्युपिण्डयोः स्याद्विवरं गतिघम् ।
हृतं द्युरात्रासुभिराप्तलिप्ता हीनाग्रहाश्चेदसवोऽल्पकाः
स्युः । तदत्यथाढ्यास्तु निजोदयैश्चेद्भक्तासु पूर्वं विहितं
तदानीम् । कृतं तथा स्याच्चरकर्ममिश्रं कर्म ग्रहाणामुदयास्त-
राख्यम्” शि० । “सायनांशेन रविणा मेषादेरारभ्य ये भुक्ता-
राशयस्तत्सबन्धिनो ये निरक्षोदयासवो गगनंभूधरषट्क-
पृष्ठ ११४०
चन्द्राः १६७० । इत्यादयस्तेषामैक्यं कृत्वा भुज्यमान
राशेर्ये भुक्तभागास्तांस्तदुदयासुभिः सङ्गुण्य त्रिंशता ३०
विभज्य लब्धासवोऽपि तत्र क्षेप्याः एवं मध्यार्कभुक्तासवः
स्युः । भदिनान्तादूर्ध्वं तावत्यस्वात्मके काले लङ्कायां मध्य-
मस्यार्कस्योदयः । तत्काले हि ग्रहाः साध्याः अथ चाहर्ग-
णेन ये सिद्धास्ते मध्यमार्ककलामितेऽस्वात्मके काले
भदिनान्तादूर्ध्वं जाताः, अतोऽसूनां कलानां च यदन्तरं
तेनार्कोदयोऽन्तरितः । अतस्तदुदयान्तराख्यं कर्मोच्यते
तैरन्तरासुभिर्ग्रहगातिं सङ्गुण्यार्कसावनाहोरात्रासुभि
२१६५९ र्विभज्य लब्धकला ग्रहे ऋणं कार्याः यदि
कलाभ्योऽसवोऽल्पकाः स्युः, अन्यथा धनं, यदि तु स्वदेशोदयै
र्मध्यमार्कभुक्तानसूनानीयैदंकर्म कृतं तदौदयिकानां
ग्रहाणां चरकर्मापि कृतं स्यात् यदि तु स्फुटार्कभुक्तानसून्
स्वोदयासुभिरानीयेदं कर्म कृतं तदोदयान्तरभुजान्तर
चरकर्माणि त्रीण्यपि कृतानि स्युः तर्हि कथमिदमुदयान्त-
राख्यं कर्माद्यैर्न कृतं तदाह यतोऽन्तरं तच्चलमल्पकञ्च
पर्षचरणान्तेषु चतुर्ष्वपि अन्तराभावः तन्मध्येष्वन्तरस्य वृद्धि-
क्षयौ । इदानीं देशान्तरस्वरूपमाह” प्रमि० “येऽनेन लङ्कोद-
यकालिकास्ते देशान्तरेण स्वपुरोदये स्युः । देशान्तरं प्रा-
गपरं तथान्यद्याम्योत्तरं तच्चरसंज्ञमुक्तम्” शि० । “ये
उदयान्तरकर्म्मणा लङ्कायामौदयिका ग्रहा जातास्ते
देशान्तरकर्म्मणा स्वपुरौदयिकाः स्युः । तच्च देशान्तरं
द्धिविधम् एकं पूर्वापर, मन्यद्याम्योत्तरं तच्चरसंज्ञ-
मुक्तं तत्र तावत्पूर्वापरमाह” प्रमि० । “यल्लङ्कोज्ज-
यिनीपुरोपरिकुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं
बुधैर्निगदिता सा मध्यरेखा भुवः । आदौ प्रागु-
दयोऽपरत्र विषये पश्चाद्धि रेखोदयात् स्यात्तस्मात् क्रियते
तदन्तरभवं खेटेष्वृणं स्वं फलम्” शि० । “लङ्काया मेरु-
पर्यन्तं मीयभाना या रेखा उज्जयिनीकुरुक्षेत्रादिदेशान्
स्पृशन्ती याति सा मध्यरेखेत्युच्यते । रेखायां यदार्कोदय
स्तत्कालात् पूर्व्वमेव पूर्वदेशे भवति रेखोदयकालादनन्तरं
पश्चिमदेशेऽर्कोदयः । तदन्तरकालस्तदन्तरयोजनैः स्पष्टभूवे-
ष्टनाद्यनुप्रातेन ज्ञायते यदि स्फुटपरिधियोजनैः षष्टि ६०
घटिका लभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किमितीति
त्रैराशिकेन देशान्तरघटिकालभ्यन्तेमध्यगत्याऽथ चानीता
ताड्यस्त भिरनुपातः यदि घटीषष्ट्या ग्रहस्य गतिकला
लम्यन्ते तदा देशान्तरघटीभिः किमिति अथ योजनैरेवाऽ-
नुपातः । यदि स्फुटपरिधियोजनैर्गतिः प्राप्यते तदा देशा-
न्तरयोजनैः किमिति फलं कलाः प्रागृणं, यतस्तत्रा दावुदयः
पश्चाद्धनं यतस्तत्र रेखोदयादनन्तरमर्कोदय इत्युपपन्नम् ।
इदानींभूगोलेस्फुटपरिधिप्रदेशं स्फुटतानुपातं चाह” प्रमि०
“स्वदेशमेर्वन्तरयोजनैर्यल्लम्बांशजैर्मेरुगिरेः समन्तात् । वृत्तं
स्फुटो भूपरिधिर्यतः स्यात्त्रिज्याहतो लम्बगुणः कृतोऽस्मात्”
शि० “स्वपुरस्य मेरुगर्भस्य चान्तरे यावन्ति योजनानि
तावन्ति लम्बांशजानि यतो निरक्षदेशस्वपुरान्तरयोजनान्यक्षां-
शजानि, भागेभ्यो योजनानि च व्यस्तमित्युपपद्यत इत्यर्थः
तैर्लम्बांशजैर्योजनैर्मेरुगिरेः समन्ताद्यद्वृत्तमुत्पद्यते स स्फुटं
मूपरिधिः यो मध्यपरिधिः पठितः स निरक्षदेशो-
परि । अयन्तु स्वपुरोपरि, अतः किञ्चिन्न्यूनो भवति अथ
तदानयनं मध्यपरिधेरभीष्टन्त्रिज्यातुल्यं व्यासार्धं प्रकल्प्य
तस्मिन् व्यासार्धे स्वपुरे यावती लम्बज्या तावत् स्फुटपरिधे-
र्व्यासार्धं भवितुमर्हति अतस्तेन त्रैराशिकं यदि त्रिज्या-
व्यासार्धे मध्यमः प्ररिधिर्लभ्यते तदा लम्बज्यामिते कः
इति फलं स्फुटपरिधिरित्युपपन्नम्” प्रमिताक्षरा ।
इष्टकाले लग्नाद्यानयनम् अष्टमशब्दे ५१९ पृष्ठ लङ्को-
दयप्रमाणदर्शनपूर्वकमुक्तप्रायम् विशेषस्तु सि० शि० ।
“तात्कालिकार्केण युतस्य राशेरभुक्तभागैर्गुणितोदयात् स्वात् ।
मोग्यासवः खाग्निहृतादवाप्ता भुक्तासवो भुक्तलवैः स्युरे-
वम् । इष्टासुसङ्घादपनीय भोग्यांस्तदग्रतो राश्युदयांश्च
शेषम् । अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्ध्वपूर्वैर्भवनैर-
जाद्यैः । युक्तं तनुः स्यादनयनांशहीनमिष्टासवोऽल्पा यदि
भोग्यकेभ्यः । त्रिंशद्गुणाः स्वोदयभाजितास्ते लब्धांश-
युक्तो रविरेव लग्नम्” शि० । “यस्मिन् काले लग्नं ज्ञेयं
तस्मिन् काले तात्कालिकोऽर्कः सायनांशः कार्यः । तेनार्केण
युतस्य राशेर्ये भोग्यांशास्तैस्तदुदयासवो गुण्यास्त्रिंशता
भाज्याः । ये लब्धास्ते भोग्यासवः स्युः । अथेष्टासुभ्यो भो
ग्यासून् विशोध्य तदग्रतो यावन्त उदयाः शुध्यन्ति
तावन्तः शोध्याः । ततः शेषात् खरामगुणादशुद्धोदयेन
भक्ताद्यल्लब्धमंशाद्यं तदशुद्धोदयात् पूर्वं यावन्तो मेषाद्य-
उदयास्तावद्भी राशिभिर्युतमयनांशैश्च रहितं तल्लग्नं स्यात् ।
अथ यदीष्टासवो भोग्येभ्योऽल्पः तदेष्टासवस्त्रिंशद्गुणास्तदु-
दयासुभिर्भाज्याः । फलेनांशाद्येन युतो रविर्लग्नं स्यात्”
प्रमि० लग्नांशादिना कालानयनं तत्रैव दर्शितं यथा
“अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढ्यः समयो
विलग्नात् । यदैकभे लग्नरवी तदा तद्भागान्तरंस्वोदयखाग्नि-
भागः । लग्नेऽल्पके तु द्युनिशात् स शोध्यस्तात्क्रालि-
पृष्ठ ११४१
कार्कादसकृच्च कालः । चेत् सावनाः प्रष्टुरभीष्टनाड्यस्त-
दैव तात्कालिकतिग्मरश्मेः ॥ आर्क्ष्यो यदेष्टाघटिका
विलग्नं कालश्च तत्रैदयिकात् सकृच्च” शि० । “अर्कस्य प्राग्वद्भो-
ग्थकालः साध्यः । लग्नस्य सायनांशस्य भुक्तकालः साध्यः
तयोरैक्यमर्कादग्रतो लग्नपर्य्यन्तं ये मध्ये राशयस्तेषा-
मुदयाश्च क्षेप्यास्तत्रैव । एवं लग्नात् कालो भवति ।
अत्र यदैकराशौ लग्नार्कौ भवतस्तदा तयोरन्तरांशैः स्वो-
दयं सङ्गुण्य त्रिंशता भजेत् फलमिष्टकालः स्यात् । परं
थद्यर्काल्लग्नमधिकम् । यद्यल्पं तदा स कालोऽहोरात्राच्छो-
ध्यः । शेषमिष्टकालः स्यात् । अत्रेष्टकालसाघनेऽर्कस्य
भोग्यमौदयिकादेव क्रियते । यतः कालज्ञानात् तात्का-
लिकत्वमर्कस्य कार्य्यम् । अतः स्थूलः काल आयाति ।
अनेन कालेन तात्कालिकमर्कं कृत्वा मुहुः कालः
साधयितुं युज्यते । परं यदि प्रष्टुः सावनघटिका इष्टाः ।
एतदुक्तं भवति । उदयानन्तरमेतावतीष्वर्कसावनघटिकासु
कीदृग् लग्नं भवतीत्येतदभीष्टं तदैव तात्कालिकार्काल्लग्नं
साध्यते तदैव च लग्नादसकृत् कालः । यदा पुनरिष्टघटिका
आर्क्ष्यस्तदौदयिकादेवार्काल्लग्नं लग्नात् कालः सकृच्च ।
अत्तोपपत्तिः सुगमा । तात्कालिकीकरणकारणता गोले
कथिता व्याख्याता च । इदानीं विलोमेन लग्नसाधनमाह”
ग्रमि० । “भुक्तासु शुद्धेर्विपरीतलग्नं भुक्तांशगेहाप्तलवोनि-
तोऽर्कः” शि० “यदोदयात् पूर्वघटीषु लग्नमिष्टं तदा
शेषासुभ्यो विशोध्य तत्कालिकर्मर्कं कृत्वा तस्य भुक्तासवः
साध्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावतो
विलोमेन विशोधयेत् । शेषात् खरामगुणितादविशुद्धो
दयभक्ताद् ये लब्धा अंशास्तैस्तथार्कभुक्तांशैश्च तथा
विशुद्धोदयतुल्यैराशिभिश्चोनीकृतो रविर्लग्नं भवति
प्रमि० । होराद्रेक्काणोदयसाधनमपि तत्रैव यथा
“क्षेत्राणां स्थूलत्वात् स्थूलाउदया भवन्ति राशीनाम् ।
सूक्ष्मार्थी होराणां कुर्य्याद्द्रेक्काणकानां वा” शि० “यथा
राश्युदयाः साधितास्तथा होरोदया अपि साध्याः । त
द्यथा पञ्चदशादिपञ्चदशभागोत्तरभागाणां ज्या होरा-
ज्याः षड् भवन्ति । ताभिर्मिथुनान्तद्युज्या ३१४१ पृथक्
पृथग्गुण्या स्वस्वद्युज्यया भाज्या । फलानां धनूंष्यधो-
ऽधः शुद्धानि । षष्ठात् पञ्चमं पञ्चमाच्चतुर्थ--मित्यादि ।
शेषाणि होरोदयासवो भवन्ति । एवं दशादिदशोत्तरभा-
गैर्द्रेक्काणोदया भवन्ति । ते च नव । तथा होरांशा-
नाह षट् चराणि । यान्यधोऽधः शुद्धानि तानि तेषां
चरखण्डानि तैः क्रमोत्क्रमस्थैः क्मोत्क्रमस्था ऊनयुताः
सन्तः स्वदेशे होरोदया भवन्ति । मेषादीनां द्वादश,
ते च व्यस्तास्तुलादीनाम् । एवं चतुर्विंशतिः २४ । एवमेव
द्रेक्काणोदयाः षट्त्रिंशत् । तथा चार्कस्य सायनांशस्य
मागाः पञ्चदश १५ हृता गता होराः स्युः । शेषांशास्ते
भुक्तास्ते पञ्चदशभ्यः शुद्धा भोग्यांशाः स्युः । भोग्यां-
शघ्नः स्वदेशहोरोदयः वञ्चदशहृताः फलं भोग्यासवः स्युस्ता-
निष्टासुभ्यो विशोध्य तदग्रतो होरोदयांश्च शोधयेत् ॥ शेषं
पञ्चदशगुणमशुद्धहोरोदयेन भजेत् फलं लवाः ।
अशुद्धपूर्व्वाणां होरोदयानां संख्यया गुणितैः पञ्चदशभि-
र्युताः सन्तो लग्नस्यांशा मवन्ति । एवं लग्नात् कालसाध-
नेऽपि । एवमेव दृक्कणोदयैरपि लग्नसाधनम् । तत्र
पञ्चदशस्थाने दश १० गुणने भजने च कल्प्याः । एवं
होरोदयैर्दृक्काणोदयैर्वा साधितं लग्नादिकमुदयान्तराख्यं
कर्म्म च सूक्ष्मं भवति अन्यथा स्थूलम्” प्रमि० ।
ग्रहाणामुदयान्तरकर्म तत्रोक्तम् “भानोः फलं गुणि-
तमर्कयुतस्य राशेर्व्यर्क्षोदयेन खखनागमही १८००
विभक्तम् । गत्या ग्रहस्य गुणितं द्युनिशासु भक्तं स्वर्णं ग्रहे-
ऽर्कवदिदं तु भुजान्तराख्यम्” शि० । “अर्कस्य यद्भुजफलं
थस्मिन् राशौ रविर्वर्त्तते तस्य राशेः सम्बन्धी यो
निरक्षोदयस्तेन तद्गुणितराशिकलाभि १८०० र्भक्तं
पुनर्ग्रहगत्या गुणितमहोरात्रासुभि २१६५९ र्भक्तं यत्
फलं तद्ग्रहेऽर्कवत् धनर्णं कार्य्यम् । यद्यर्कस्य भुजफ-
लम् धनं, तदा सूर्य्यस्यान्येषां च धनम् । यदि ऋणं
तदा ऋणमित्यर्थः । अत्रोपपत्तिः । ये मध्यमार्कौ-
दयिकास्ते स्फुटार्कौदयिकाः क्रियन्ते । तत्रार्कफलस्यासु-
करणायानुपातः । यदि राशिकला १८०० निरक्षोद-
यासुभिरुद्गच्छन्ति तदा फलकलाः कतिभिरिति ।
लब्धं भास्वत्फलोत्था असवो भवन्ति । अथान्योऽनु-
पातः । यदि द्युनिशासुभिर्गतिकला लभ्यन्ते तदैभिः
किमिति । ताः कला ऋणं धनं च यतो मध्यमार्कोद-
यात् प्राक् स्फुटार्कोदयः स्यादृणे तत्फले स्वं यतोऽऽनन्त-
रमित्युपपन्नम् । इदानीमुदयान्तरमाह” प्रमि० । “युक्तायनां
शस्य तु मध्यमस्य भुक्तासवोऽर्कस्य निरक्षदेशे । मेषादि-
भुक्तोदयसंयुता ये यश्चायनांशान्वितमध्यभानोः । लिप्ता-
गणस्तद्विवरेण निध्नी गतिर्ग्रहस्य द्युनिशासुभक्ता । स्वर्ण-
ग्रहे चेदसवोऽधिकोना इदं ग्रहाणामुदयान्तराख्यम्” शि०
“मध्यमार्कस्य सायनांशस्य ये राशेर्भुक्तभागास्तैस्तदुदयं
पृष्ठ ११४२
निरक्षदेशीयं संगुण्य त्रिंशता विभजेत् फलं तस्य
राशेर्भुक्तासवः । अथ मेषाद्या येऽर्केण भुक्ता राशयस्तेषां
च निरक्षोदयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवः
स्युः । अथ मध्यमार्कस्य सायनांशस्य कलाः कायांः ।
तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगति-
र्गुण्या द्युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनं
कार्याः यदि कलाभ्योऽसवोऽधिकाः स्युः, यदि न्यू-
नास्तदा ऋणम् । अत्रोपपत्तिः । इह यः पूर्व्वमह-
र्गणः कृतः समध्यमसावनमानेन स्फुटसावमस्य चलत्वात् ।
रविमध्यगतिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघ-
टिकाः ६०, ५९, ८ । इदं मध्यममर्कसावनम् । ता
गतिकला यैरसुभिरुद्गच्छन्ति तद्युताः वष्टिघटिकाः स्फुटसाव-
भम् । तच्चलम् । प्रत्यहं गत्यन्यत्वात् प्रतिमासं राश्यु-
दयान्यत्वाच्च । तादृशोऽहर्गणः कर्त्तुं नायातीति मध्यमः
कृतः । तेन सम्यनर्कोदये ग्रहा न भवन्ति कदाचिदर्कोदयात्
प्राक् कदाचिदनन्तरम् । अत एव प्रागुक्तम् । “दशशिरः
पुरि मध्यमभास्करे क्षितिजसर्न्निधिगे सति मध्यमः” शि०
इति । अथ स्फुटमध्याहर्गणयोरन्तरानयनम् । मेषादेरा-
रभ्य येऽर्कभुक्ता राशयस्ते वैरसुभिरुद्गच्छन्ति त एकीकृता ।
तावत्यस्वात्मके काले भदिनान्तादूर्द्ध्वमहर्गणेन भवितव्यम् ।
अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः । अतोऽसूनां
कलानां च यदन्तरं तावद्भिरसुभिरहर्गणोऽन्तरितः । यद्य-
होरात्रासुभिर्गतिर्लभ्यत तदैभिरन्तरासुभिः किमिति । फलं
ग्रहेषु स्वं यद्यसवोऽधिकाः । अन्यथा ऋणमित्येतदुक्तं
युक्तमेव” । इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्ति
तेषां प्रतीत्यर्थमन्यदप्याह” प्रमि० । “चेत् स्वोदयैः स्फुटर-
वेरसवः कृतास्ते विश्लेषिताश्च यदि मध्यरवेः कलाभिः ।
बाह्वन्तराख्यमुदयान्तरकं चराख्यं कर्मत्रयं विहितमौद-
यिके तदा स्यात्” शि० । “यदि स्फुटरवेः स्वोदयेन भुक्तासवः
कृता मेषादिस्वोदयैश्च युतास्तेषामसूनां मध्यमार्ककलानां
च यदन्तरं तेन भुक्तिर्गुणिता द्युनिशासुभिर्भक्ता
यद्यसवोऽधिकास्तदा फलं ग्रहे स्वम् । अन्यथा ऋणम् ।
एवं कृते सति भुजान्तरमुदयान्तरं चराख्यं च कर्मत्र-
यमपि कृतं स्यादौदयिके ग्रहे । इदानीं प्रकारान्तरेणौद-
यिककर्माह” प्रमि० । “मध्याद्रवेरयनभागयुताद्द्विनिघ्ना-
द्दोज्या खघुर्गतिगुणा खनगाश्चि २७० भक्ता । स्वर्णं ग्रहे
युगयुजोः पदयोर्विलिप्तास्वेवं स्फुटं खलु भवेदुदयान्तरं
वा” शि० । “मध्यमार्कस्थ सायनांशस्य द्विगुणितस्य या
लघुस्वण्डकैर्दोर्ज्या तया गुणिता ग्रहगतिः खनगयमै
२७० र्हृता फलं विकलादि ग्रहे धनम् । एवं युग्मपद-
स्थितेऽर्के । अयुग्मपदस्थिते त्वृणम् । अत्रोपपत्तिः । क्रा-
न्तिवृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिः
पञ्चदशभिर्घटिकाभिरुद्गच्छन्ति । परं नैकैको राशिः पञ्च-
भिरत उदयान्तरकर्म पदमध्यं यावदुपचीयते ततोऽप-
चोयते । अत एव पदान्तरेषु तस्याभावः । पदमध्येषु
परमता । यदत्र निरक्षोदयैः कर्म दर्शितं तद्बालावबोधा-
र्थम् । तत् स्थूलम् उदयानां स्थूलत्वात् । अत एवार्य्य
सट्टादिभिः सूक्ष्मत्वार्थं दृक्काणोदयाः पठिताः” । इदमु-
दयान्तरं कर्म यथा सग्भवति तथोच्यते । मध्यमार्कस्य
सायानांशस्य दोर्ज्यां द्युज्यां च कृत्वा तया द्युज्यया सा
दोर्ज्या भाज्या मिथुनान्तद्युज्यया गुणनीया । तस्या
धनुषो येऽसवस्तैर्मध्यमार्कस्य सायनांशस्य भुजकला ऊनाः
सत्यः स्फुटा अन्तरासवो भवन्ति । तैरुदयोऽन्तरित इत्यर्थः
एवं पदमध्ये षडिवंशतिः पलानि किञ्चिदधिकानि
भवन्वि । तानि ज्याप्रकारेण साधयितुमर्को द्विगुणितः ।
द्विगुणितस्यार्कस्य यावद्भुजः क्रियते तावत् पदमध्ये राशि-
त्रयं भवति । तद्दोर्ज्यया लघ्व्या षडिवंशत्या चानुपातः ।
यदि खार्कमितया दोर्ज्यया षडिवंशतिर्लभ्यते तदाभीष्टया
किमिति । अत्र षड्किशत्या खार्का अपवर्त्तिता गुणक-
स्थाने रूपम् १ । हरस्थाने सार्धाश्चत्वारः । फलं पानीय-
पलानि । पुनरन्योऽनुपातः । यदि पानीयपलषष्ट्या
गतिकलातुल्या विकला लभ्यन्ते तदैभिः किमिति । पूर्वं लघ्वी
दोर्ज्या गुणः सार्धाश्चत्वरो हरः । इदानीं षष्टिर्हरः अतो
ग्रहगतेर्दोर्ज्या गुणः । हरयोर्घातो हरः खनगाश्विनः
२७० इत्युपपन्नम् । ओजपदेऽसवः कलाभ्य ऊना एव
भवत्यतस्तत्र ऋणम् । युम्मपदे त्वधिका अतस्तत्र धनम्” प्रमि०
ग्रहाणां दृश्यादृश्ययोः चन्द्रे विशेषस्य च निरूपणं तत्रैव
“निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः
सदृश्यः । दिनेऽपि चन्द्रो रविसन्निधानान्नास्तं गतश्चेत् सति
दर्शने भा” शि० । “दिनकरेऽस्तंगते यदिष्टकाले लग्नं
तदिष्टलग्नम् । तस्माद्ग्रहश्चोदयाख्यलग्नं न्यूनमस्ताख्यं
चाधिकं यदि भवति तदा ग्रहो दृश्यः इतोऽन्यथा
चेददृश्यः । एवं लक्षणे सति चन्द्रो दिवसेऽपि दृश्यः ।
यदि ग्रहो दृश्यस्तदा ग्रहस्य छाया साध्या” प्रमि० ।
ताराग्रहाणामुदयास्तममयोर्ज्ञापनं यथा सू० सि०
रङ्गना० । “अथोदयास्तमययोः परिज्ञानं प्रकीर्त्यते । दिवा-
पृष्ठ ११४३
करकराक्रान्तमूर्त्तीनामल्पतेजसाम्” सू० । “अथ नक्षत्र-
ग्रहयुत्यधिकारानन्तरम् । सूर्य्यकिरणाभिभूता मूर्त्ति-
र्विम्बं येषां तेषां चन्द्रादिषड्ग्रहाणां नक्षत्राणां
च । अतएवाल्पतेजसां न्यूनप्रभावतामुदयास्तमययोः
अग्रिमकाले सूर्य्यादधिकासन्निहितसन्निहितत्वसम्भावनया
क्रमेणोदयास्तयोः सूर्यान्निःसृतस्य यस्मिन् काले
यदन्तरेण प्रथमदर्शनं सम्भावितं स उदयः । सूर्याद्दूर-
स्थितस्य यस्मित् काले यदन्तरेण प्रथमादर्शनं सम्भा-
वितं सोऽस्तः । अनेन नित्योदयास्तव्यवच्छेदस्तयोरि-
त्यर्थः । परिज्ञानं सूक्ष्मज्ञानप्रकारः प्रकीर्त्यते अति
सूक्ष्मत्वेन मयोच्यत इत्यर्थः । तथा च ग्रह इत्युद्देशे-
ऽस्तमनमुद्दिष्टमपि तस्य पूर्व्वमेव सूर्यासमत्व एव
सम्भवात् तद्विलक्षणतया ग्रहयुतिप्रसङ्गे नोक्तम् । नक्षत्र-
ग्रहयुतिस्तु ग्रहयुतिवदिति तदनन्तरमुक्ता । अतः प्रति-
बन्धकजिज्ञासापगमेऽवश्यवक्तव्यत्वादस्यावसरसङ्गतित्वात्
तत्सङ्गत्या नक्षत्रग्रहयुत्यधिकारानन्तरं प्रागुद्दिष्टमस्तमनं
तत्प्रसङ्कादुदयश्च प्रतिपाद्यत इति भावः । तत्र प्रथमं पञ्च-
ताराणां पश्चिमास्तपूर्वोदयावाह” र० ना० । “सूर्यादभ्यधिकाः
पश्चादस्तं जीवकुजार्कजाः । ऊनाः प्रागुदयं यान्ति शुक्र-
ज्ञौ वक्रिणौ तथा” सू० “वक्रगती शुक्रबुधौ तथा सूर्यादधि-
कौ पश्चिमास्तं गच्छतः । सूर्यादल्पौ पूर्वोदयं प्राप्नुतः ।
शेषं स्पष्टम् । अथ चन्द्रबुघशुकाणां पूर्वास्तपश्चिमोदया
वाह र० ना० । “ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभा-
र्गंवाः । व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः” सू० ।
“शीघ्रयायिनः सूर्य्यगत्यधिकगतय इत्यर्थः । एतेन
बुधशुक्रावर्कगत्यल्पगती सूर्यादल्पौ पूर्वास्तमधिकौ च पश्चिमो-
दयं न प्राप्तुत इत्युक्तम् । शेषं स्पष्टम् । अत्रोप-
पत्तिः । रविगतितोऽल्पगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां
दर्शनयोग्यो भवितुमर्हति । यतः सूर्यस्याधिकत्वेन
बहुगतित्वाच्चोत्तरोत्तरमधिकविप्रकर्षात् प्रवहवशेन न्यूनस्य
पूर्वमुदयादधिकस्यानन्तरमुदयनियमात् । ग्रहस्य क्रान्ति-
जसंलग्नताकालानन्तरं यावत् सूर्यस्य तादृशः
कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात् । एवं यदाल्प-
गतिः सूर्यादधिकस्तदा प्रवहवशेनार्कस्य पूर्वमुदयादनन्त-
रमुदितग्रहस्य दर्शनासम्भवात् प्रवहवशेनादौ न्यूनार्क-
स्यास्तसम्भवादनन्तरमधिकग्रहस्यास्तसम्भवात् सूर्यास्तान-
न्तरं पश्चिमभागे ग्रहदर्शनसम्भवेऽप्यधिकगतिसूर्यस्य
पृष्ठस्थितत्वेनोत्तरोत्तरमधिकसन्निकर्षात् पश्चिमायामदर्श-
नं सम्भवत्येव । ते तु भौमगुरुशनयः । वक्रत्वे न्यू-
नगतित्वाद्बुथशुक्रौ चेति । अथार्कगतितोऽधिकगति-
ग्रहः । सूर्यादूनस्तदोक्तरीत्योत्तरोत्तरभधिकसन्निकर्षात्
पूर्वस्मिन्नदर्शनं याति । यदा सूर्यादधिकस्तदोक्तरीत्यो-
त्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः । ते तु शीघ्रा-
श्चन्द्रबुधशुक्रा इत्युपपन्नमुक्तम् । अथाभीष्टदिन आसन्ने
सूर्योदयास्तकालिकौ सूर्यदृग्ग्रहौ तत्कालज्ञानार्थं
कार्यावित्याह” र० ना० । “सूर्थास्तकालिकाः पश्चात् प्राच्यामु-
दयकालिकौ । दिवाकरग्रहौ कुर्याद्दृक्कर्माथ ग्रहस्यतु” सू० ।
“पश्चात् पश्चिमास्तोदयसाधनेऽभीष्टदिन आसन्ने सूर्य-
ग्रहौ सूर्यास्तकालिकौ कुर्याद्गणकः । पूर्व्वास्तोदय-
साधने सूर्योदयकालिकौ कुर्यात् दिनेऽभीष्टकाले
कुर्यात् । चकारो विकल्पार्थकः । अनन्तरं ग्रहस्य दृक्कर्म्म
आयनाक्षदृक्कर्म्मद्वयं कुर्यात् । तुकार आक्षदृक्कर्मश्लोव-
पूर्व्वार्द्धोक्तमिति विशेषार्थकः । अत्रोपपत्तिः । पश्चाद-
स्तोदयसाघने पश्चिमायां तद्दर्शनमिति सूर्यास्तका-
लिकौ सूर्यग्रहावशिष्टकालांशसाधनार्थं सूक्ष्मौ । पूर्वो-
दयास्तमाधने पूर्वदिशि तद्दर्शनमिति सूर्योदयकालिकौ
सूर्यग्रहावशिष्टकालांशसाधनार्थं सूक्ष्मावन्यकाले तु
किञ्चित्स्थूलावपि कृतौ दृक्कर्मसंस्कृतग्रहस्य सूर्यवत् क्षितिज-
संलग्नतायोग्यत्वादृक्कर्मसंस्कृतो ग्रहः कार्य इति । अथेष्टका-
लांशानयनमाह” र० ना० । “ततोलग्नान्तरप्राणाः कालांशाः
षष्टिभाजिताः । प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः” सू० ।
“ततस्ताभ्यां सूर्य्यदृग्ग्रहाभ्यां लग्नान्तरप्राणाः “भोग्या-
सूनूनकस्याथ” इत्युक्तप्रकारेणान्तरकालासवः षष्टिभक्ता इष्टाः
कालांशा भवन्ति । प्रागुदयास्तसाधने प्रतीच्यां, पश्चिमो-
दयास्तसाधने षड्भयुतयोः षड्राशियुक्तयोः सूर्य्यदृग्ग्रह-
योर्लग्नान्तरासवः । अनन्तरासवस्तद्वत् षष्टिभक्ता इष्टका-
लांशा भवन्तीत्यर्थः । अत्रोपपत्तिः । दृग्ग्रहसूर्य्याभ्याम-
न्तरकालो ग्रहस्य सूर्य्योदयकाले दिनगतं पूर्वोदयास्तनि-
मित्तमुपयुक्तम् । एवं पश्चिमोदयास्तनिमित्तं सूर्य्यदिग्ग्र-
हाभ्यामस्तकालासुभिरन्तरकालः सूर्य्यास्तकाले ग्रहस्य
दिनशेषकाल उपयुक्तः तत्रास्तकालानामनुक्तेरुदयासुभिः
साधनार्थं सषड्भौ सूर्य्यदृग्ग्रहौ कृतौ स कालोऽस्वात्मकः ।
यदि अहोरात्रासुभिश्चक्रकलातुल्यैश्चक्रांशा लभ्यन्ते
तदेष्टासुभिः क इत्यनुपाते प्रमाणफलयोः फलापवर्त्तनेन
हरस्थाने षष्टिः । अतोऽस्वात्मकान्तरकालः षष्टिभक्त इष्ट-
कालांशा इत्युपपन्नमुक्तम् । अत्रेदमवधेयम् । सूर्योदयकालि-
पृष्ठ ११४४
काभ्यामर्कदृग्ग्रहाभ्यामानीतेन दिनगतेन पूर्वं चाल्यो-
दृग्ग्रहः । सूर्य्यास्तकालिकाभ्यां सषड्भाभ्यामर्कदृग्ग्रहा-
भ्याभानीतेन दिनशेषेणाग्रे चाल्यः सषड्भो दृग्ग्रहः ।
क्रमेण ग्रहोदयास्तकाले प्राक्पश्चिमदृग्ग्रहौ भवतः ।
ताभ्यां सूर्य्यसषड्भसूर्य्याभ्यां च क्रमेण पूर्व्वरीत्यन्तर-
कालो ग्रहस्य सूर्य्योदयास्तकाले क्रमेण दिनगतशेषौ
नाक्षत्रौ षष्टिभक्तौ कालांशाविष्टौ सूक्ष्मौ । अथेष्टकालि-
काभ्यामानीतकालेन पूर्व्ववच्चालिताभ्यां प्राक्पश्चिमदृग्-
ग्रहाभ्यां सूर्य्यसषड़भसूर्याभ्यां चानीतकालो नाक्षत्रोऽपि
सूक्ष्मासन्नः । सूर्य्योदयास्तसम्बन्धाभावात् तदुत्पन्नाः
कालांशा अपि तथा । अथ सूर्योदयास्तकालिकाभ्यामानी-
तैकवारं कालात् कालांशाः स्थूला इष्टकालिकाभ्यामा-
नीतैकवारकालात् कालांशा अतिस्थूलाः उभयत्र कालस्य
सावनत्वात् । न हि सावनषष्टिघटीभिश्चक्रपरिपूर्त्तिर्येन
सूक्ष्माः सिद्ध्यन्तीति । अथ यैः कालांशैरुदयोऽस्ती वा
भवति तान् विवक्षुः प्रथमं गुरुशनिभौमानां कालांशानाह”
र० ना० । “एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च । अस्तां-
शा भूमिपुत्रस्य दशसप्ताधिकास्ततः” सू० । “तत इष्टकालां-
शावगमानन्तरमस्तांशाः । अस्तो यैरंशैर्भवति तेऽंशा
अस्तीपलक्षणादुदयांशा ज्ञेयाः । अमरेज्यस्य गुरोरेकादश
कालांशाः । शनेः पञ्चदश सङ्ख्या कालांशानाम् । चः
समुच्चये । भौमस्य सप्ताधिका दश सप्तदश कालांशा इत्यर्थः ।
अथशुक्रस्याह” र० ना० । “पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्-
महत्तया । प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः” सू०
“शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात् स्थूलबिम्बतया
पश्चिमायामस्तोऽष्टामिः कालांशैः प्राच्यामुदयश्च तैः
नाधिकैः । प्राच्यां शुक्रस्याल्पत्वादणुबिम्बत्वाद्दशभिः
कालांशैरस्तं गणकः कुर्य्यात् नाल्पैः । पश्चिमायामु-
दयस्तस्याणुबिम्बस्य दशभिः कालांशैरेव ज्ञेयः । अथ
बुधस्याह” र० ना० “एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः । वक्री-
शीघ्रगतिश्चार्कात्करोत्यस्तमयोदयौ” सू० । “वक्री शींघ्रगतिः ।
चः समुच्चये । बुधः सूर्य्याद्द्वादशभिश्चतुर्दशभिश्च कालांशै-
रस्तोदयौ एवं शुक्ररीत्या करोति । पश्चादस्तं
प्रागुदयं च द्वादशभिः कालांशैर्महाबिम्बतया बुधः
करोति । प्रागस्तं पश्चादुदयं च चतुर्दशभिः कालां-
मैरणुबिम्बत्वाद्बुधः करोतीत्यर्थः । अथ प्रोक्ते-
ष्टकालांशाभ्यामस्तस्योदयस्य वा गतैष्यत्वज्ञानमाह”
र ना० । “एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः ।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्त्तयः” सू० । “एम्य
एकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकैरिष्टकालांशै-
र्दृश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति । तथा
चास्तसाधने दृश्यत्वे अस्त एष्यः । उदयसाधने दृश्यत्व
उदयो गत इति भावः । अल्पैरिष्टकालांशैर्ग्रहा लोके
भूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषां
ते अदृश्या अभीष्टकाले भवन्ति । नन्वदृश्याः कुतो
भवन्तीत्यत आह । भानुभाग्रस्तमूर्त्तय इति सूर्यासन्न-
त्वेन सूर्य्यकिरणदीप्त्या ग्रस्ता अभिभूता सूर्य्यकिरणप्रति-
हतलोकनयनाविषयो मूर्त्तिर्बिम्बस्वरूपं येषां त इत्यर्थः ।
तथा चास्तसाधने अदृश्यत्वेऽस्तो गतः । उदयसाधनेऽदृ-
श्यत्व उदय एष्य इति भावः । अत एव । “उक्तेभ्य
ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात् ।
अतोऽन्यथा चास्तमयोऽवगम्यः” इति भास्कराचार्योक्तं
सङ्गच्छते । अत्रोपपत्तिः उक्तकालांशतुल्येष्टकालांशे यत्काले
ग्रहौ साधितौ तत्काले एव ग्रहस्योदयोऽस्तो वार्ककृतः ।
उक्तकालांशानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतु-
त्वप्रतिपादनात् । तथा चेष्टकालांशा उक्तेभ्योऽल्पास्तदा
ग्रहस्यास्तङ्गतत्वमेवेत्युदयसाधन इष्टकालांशा उक्तेभ्योऽल्पा-
स्तदेष्टकालादग्रे ग्रहस्योदयः । यदीष्टकालांशा उक्तेभ्यो-
ऽधिकास्तदेष्टकालाद्ग्रहस्योदयः पूर्वं जातः । एवमस्तसा-
धन इष्टकालांशा अधिकास्तदेष्टकालादग्रे ग्रहास्तः ।
यदीष्टकालाशा न्यूनास्तदेष्टकालात् पूर्वं ग्रहास्तो जात
इत्युपपन्नमुक्तम् । अथोदयास्तयोर्गतैष्यदिनाद्यानयनमाह”
र० ना० । “तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः ।
दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः” सू० । “उक्तेष्ट-
कालांशयोरन्तरस्य कलाः सूर्य्यग्रहयोर्गत्योः कलात्मकान्तरेण
भक्ताः । दिनादिकमुदयास्तयोः फलमुदयास्तयोर्गतैष्यदिनाद्यं
भवतीत्यर्थः । वक्रगतिग्रहस्य विशेषमाह । लब्धमिति ।
वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयोः कलात्मक-
गतियोगेन भक्ताः फलं गतैष्यदिनाद्यं ज्ञेयम् । अत्रो-
पपत्तिः । यदा सूर्यग्रहयोर्गव्यन्तरकलाभिरेकं दिनं
तदेष्टप्रोक्तकालांशयोरन्तकलाभिः किमित्यनुपातेनोदयास्तयो-
रभीष्टकालाद्गतैष्यदिनाद्यवगमः । वकग्रहे गु सूर्यग्रहयोर्ग-
तियोगेन प्रत्यहमन्तरवृद्धेर्गतियोगादनुपात उपपन्न इत्यु-
पपन्नमुक्तम् । अथ ग्रहगतिकलयोः क्रान्तिवृत्तस्थत्वात्
कालांशान्तरस्याहोरात्रवृत्तस्थत्वाच्चानुपातः प्रमाणेच्छयो-
र्वैजात्येनायुक्त इति मनसि धृत्वा तयोरेकजातित्वसम्पा-
पृष्ठ ११४५
दनार्थं ग्रहगत्योरिच्छाजातीयत्वं वदंस्तदन्तरेणानुपात-
स्तु युक्त एवेत्याह” र० ना० । “तल्लग्नासुहते भुक्ती
अष्टादशशतोद्धृते । स्यातां कालगती ताभ्यां दिनादि
गतगम्ययोः” सू० । “भुक्ती रविग्रहयोर्गती कलात्मिके
तल्लग्नासुहते कालसाधनार्थं ग्रहस्य यो राश्युदयो
गृहीतस्तेनाखात्मकोदयेन गुणिते अष्टादशशतेन भक्ते
फले सूर्यग्रहयोः कालांशवत् कालगती स्याताम् ।
ताभ्यां गतिभ्यां गतगम्ययोरुदयास्तयोर्दिनादि पूर्वोक्त-
प्रकारेण साध्यम् । न तु पूर्वोक्तप्रकारेण, यथास्थित-
गतिभ्यां स्थूलत्वापत्तेः । अत्रोपपत्तिः । यदि एकराशि-
कलाभीराश्युदयासवस्तदा गतिकलाभिः क इत्यनुपा-
तेनाहोरात्रवृत्ते गत्यसवः कलासमा इत्युपपन्नमुक्तम् ।
अथ नक्षत्राणां सूर्यसान्निध्यवशादस्तोदयज्ञानार्थं कालां-
शान् विवक्षुः प्रथममेषामाह” र० ना० । “स्वात्यगस्त्र्य-
मृगव्याधचित्राज्येष्ठाः पुनर्वसुः । अभिजिद्ब्रह्महृदयं
त्रयोदशभिरंशकैः” सू० । “मृगव्याधो लुब्धकः । त्रयोद-
शभिः कालांशैर्दृश्यादृश्यानि नक्षत्राणि भवन्ति । शेषं
स्पष्टम् । अथान्येषामाह” र० ना० । “हस्तश्रवणफाल्गुन्यः श्रवि-
ष्ठारोहिणीमघाः । चतुर्दशांशकैर्दृश्या विशाखाश्विनदैव-
तम्” सू० । फाल्गुन्यः पूर्वोत्तराफाल्गुनीद्वयम् । आश्विनदैव-
तमश्विनीकुमारो दैवतं स्वामी यस्येत्यश्विनीनक्षत्रम् । दृश्या
उपलक्षणाददृश्या अपि लिङ्गपरिणामश्च यथायोम्यं
बोध्यः । शेषं स्पष्टम् । अथान्येषामाह” र० ना० । “कृत्ति-
कामैत्रमूलानि सार्पं रौद्रर्क्षमेव च । दृश्यन्ते पञ्चदशभि-
राषाढ़ाद्वितयं तथा” सू० । “कृत्तिकानुराधासूलनक्षत्राणि
पञ्चदशभिः कालांशैर्दृश्यन्ते । उपलक्षणान्न दृश्यन्तेऽपि ।
एवकारीन्यूनाधिकव्यवच्छेदार्थः । अश्लेषार्द्रा । चःसमुच्चये ।
आषाढाद्वितयं पूर्वोत्तराषाढाद्वयं तथा पञ्चदशकालां-
शैर्दृश्यन्त इत्यर्थः । अथान्येषामवशिष्टानामाह” र० ना० ।
“भरणीतिष्यसौम्यानि सौक्ष्यात् त्रिःसप्तकांशकैः । शेषाणि
सप्तदशभिर्दृश्यादृश्यानि भानि तु” सू० । “तिष्यः पुष्यः
सोमदैवतं मृगशिरो नक्षत्रमेतानि नक्षैत्राणि सौक्ष्म्यादणुबिम्ब-
त्वात् त्रिःसप्तकांशकैरेकविंशतिकालांशैर्दृश्यादृश्यानि ।
उदितान्यस्तङ्गतानि च भवन्तोत्यर्थः । शेषाणि पूर्वाधि-
कारोक्तनक्षत्रेषूक्तातिरिक्तानि शततारापूर्वोत्तराभाद्रप-
दारेवतीसंज्ञानि ब्रह्मापांवत्सापसञ्ज्ञानि च सप्त-
दशभिः कालांशैर्दृश्यादृश्यानि भवन्ति । तुकारो दृश्या-
दृश्यानीत्यत्र समुच्चयार्थकः । अथ द्रिनाद्यानयनार्थमि-
च्छाया एव प्रमाणजातोयत्वकरणमाह” र० ना० ।
“अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः । विभज्य
लब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथ वा” सू० । “दृश्यांशाः
कालांशा अष्टादशशतगुणितास्तान् स्वोदयासुभिर्ग्रहराश्यु-
दयासुभिर्भक्ता लब्धाः क्षेत्रांशाः क्रान्तिवृत्तस्यांशास्तै-
रंशैर्दृश्यादृश्यता उदयास्तौ प्रकारन्तरेणोक्तरीत्या ज्ञेयौ ।
कालांशाभ्यां क्षेत्रांशावानीय तदन्तरकला यथास्थितगत्यो-
रन्तरेण योगेन वा भक्ताः फलमुदायास्तयोर्गतैष्यदिनाद्यं
पूर्वागतमेव स्यादित्यर्थः । अत्रोपपत्तिः । यदि राश्यु-
दयासुभिरेकराशिकलास्तदा कालांशकलातुल्यासुभिः का
इति क्रान्तिवृत्ते कलास्ताः षष्टिभक्ता अंशा इति पूर्व-
मेवेच्छास्थाने कालाशा एव धृता लाघवात् । इत्युक्तमु-
पपन्नम् । ग्रहाणाममुकदिश्यस्तोऽमुकदिश्युदय इत्यु-
क्तम् । तथा नक्षत्राणां नोक्तम् गत्यभावाद्वियोगयोगा-
सम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह” र० ना० ।
“प्रागेषामुदयः पश्चादस्तोदृक्कर्म पूर्ववत् । गतैष्यदिवसप्राप्ति-
र्भानुभुक्त्या सदैव हि” सू० । “एषां नक्षत्राणां प्राच्यामुदयः
प्रतीच्यामस्तो गत्यभावादल्पगतिग्रहवत् । एषां नक्षत्राणां
दृक्कर्माक्षदृक्कर्म पूर्व्ववत् पूर्वप्रकारेण कार्यम् । परन्तु
श्लोकपूर्व्वार्धोक्तमिति ध्येयम् । सदा नित्यम् । एवका-
रात् कदाचिदप्यन्यथा नेत्यर्थः । हि निश्चयेन ।
रविगत्या गतैष्यदिवसानां लब्धिः स्यात् । नक्षत्रगत्यस-
म्भावात् योगे ग्रहगतिवत् । अथ कतिपयानां नक्षत्राणां
सूर्यसान्निध्यवशादस्तो नास्तीत्याह । “अभिजिद्ब्रह्महृ-
दयं स्वातीवैष्णववासवाः । अहिर्बुध्नमुदक्स्थत्वान्न
लुप्यन्तेऽर्करश्मिभिः” सू० । अभिजित् । ब्रह्महृदयम् ।
अनेनैकदेशस्य ब्रह्मणोऽपि ग्रहणम् । स्वातीश्रवणधनिष्ठाः ।
अहिर्बुध्नमुत्तराभाद्रपदा एतानि नक्षत्राण्युत्तरदिक्-
स्थत्वादुत्तरविक्षेपाधिक्यादित्यर्थः । सूर्यकिरणैर्न लुप्यन्ते
अस्तं न यान्तीत्यर्थः । अत्रीपपत्तिः “यस्योदयार्का-
दधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्ष्यात् । तिग्मां-
शुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथञ्चित्” ।
इति भास्कराचार्योक्ता । परमिदमुक्तमष्टाक्षभायाम् । अन्यथा
पूर्व्वाभाद्रपदाया अपि तथात्वापत्तेरिति दिक्” र० ना० ।
“यथा भौमादीनां सूर्यसान्निध्योदयास्तासन्ने दीप्त्या
सकलबिम्बदर्शनं तथा चन्द्रस्य स्वोदयास्तकाले सकलबिम्बद-
र्शनं शुक्लत्वेन न भवति । किन्तु बिम्बैकदेश एव शुक्लत्वेन
दृश्यत इति भौमादिविसदृशत्वं चन्द्रस्य कुत इत्याशङ्का-
पृष्ठ ११४६
याः पूर्व्वाधिकारे समुपस्थितेस्तदुत्तरभूतशृङ्गोन्नमनाधिका-
रोऽवश्यमुपस्थित आरब्धो व्याख्यायते । तत्र शृङ्गोन्नते
रुदयकालात् पूर्वकालेऽस्तकालानन्तरकाले चासन्नकतिपय-
दिवसेषु दर्शनात् पूर्वाधिकारे चन्द्रस्य कालांशानुक्त्या
तदुदयास्तानुक्तेश्च प्रथममुपस्थितचन्द्रोदयास्तयोः
साधनमतिदिशति” र० ना० । “उदयास्तविधिः प्राग्वत्
कर्त्तव्यः शीतगोरपि । भागैर्द्वादशभिः पश्चाद्दृश्यः
प्राग्यात्यदृश्यताम्” सू० । “चन्द्रस्य अपिशब्दः पूर्वाधि-
कारोक्तैर्ग्रहनक्षत्रैः समुच्चयार्थकः । उदयास्तविधिरु-
दयास्तयोः साधनप्रकारः प्राग्वत् पूर्वाधिकारोक्त-
रीत्या गणकेण कार्यः । ननु कालांशानां पूर्वमनुक्तेः
कथं तत्सिद्धिरत आह । भागैरिति । द्वादशभि-
रंशैश्चन्द्रः पश्चिमायां दृश्य उदितो भवति । प्राच्यामदृ-
श्यतामस्तं प्राप्नोति । अत्र पश्चात् प्रागिति पुनरुक्तमपि
पूर्वं बुधशुक्रयोः साहचर्येण चन्द्रोदयास्तदिगुक्ता
तत्साहचर्येण चन्द्रस्य पश्चिमास्तपूर्वोदयौ वर्तेते इति कस्य-
चिन्मन्दबुद्धेर्भ्रमस्य वारणायेति ध्येयम्” ।
सूर्य्योदये विशेषः शु० त० गृ० सं० । “रेखामात्रं च
दृश्येत रश्मिभिश्च समन्वितम् । उदयं तं विजानीया-
द्धोमं कुर्य्यात् विचक्षणः” “उदयादोदयाद्भानोर्भौमसावन
वासरः” सू० सि० । “सावनः स्यादहोरात्रमुदयादो-
दयाद्रवेः” काल० मा० ब्रह्म० सि० । गुरुशुक्रोदये च
सर्व्वमङ्गलकार्य्याणि कर्त्तव्यानि । अगस्त्योदयः अगस्त्य-
शब्दे उक्तः । “प्रससादोदयादम्भः कुम्भयोने र्महौजसः”
रघुः ।

उदयगामिनी स्त्री उदयं सूर्य्योदयं गच्छति मुहूर्त्तादिना

व्याप्नोति गम--णिनि ङीप् । “सूर्य्योदयावधिमुहूर्त्तादिका-
लव्यापिन्यां तिथौ । कर्मानुष्ठाने उदयकाले कियन्मानस्य
ग्राह्यता तन्निर्ण्णीतम्” का० मा० । “व्रतोपवासनियमे-
षटिकैका यदा भवेत् । उदये सा तिथि ग्राह्या विपरीता
तु पैतृके” ब्र० पु० । “व्रतोपवासस्नानादौ घटिकैका यदा
भवेत् । उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी”
विष्णु० ध० पु० । “आदित्योदयवेलायां याऽल्पापि च
तिथिर्भवेत् । पूर्ण्णा इत्येव सा ज्ञेया प्रभूता नोदयं विना”
देवलः । “यां तिथिं स मनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया स्नानदानजपादिषु” देवलः ।
“उदयन्नेव सविता यां तिथिं प्रतिपद्यते । सा तिथिः
सकला ज्ञेया दानाध्ययनकर्मसु” व्यासः । “पक्षद्वयेऽपि
तिथयस्तिथिं पूर्ब्धां तथोत्तराम् । त्रिभिर्मुहूर्त्तौर्वध्यन्ति
सामान्योऽयं विधिः स्मृतः” पैठी० । “उदिते दैवतं भानौ
पैत्र्यं चास्तमिते रवौ । द्विमुहूर्त्तं त्रिरह्नश्च सा तिथि-
र्हव्यकव्ययोः” बौधा० । “भानाबुदिते सत्युत्तरकालेऽ-
ह्नोमुहूर्त्तद्वयं दैवत्यम् । तस्मिंश्चास्तमिते ततः पूर्वकाली-
नमह्नोमुहूर्त्तत्रयं पितृदैवत्यमतस्तावत्कालव्यापिनी या
तिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या” अत्राशङ्कापूर्वकं
माधवेन समाहितम् । नन्वस्त्वेवं कृत्स्नदिबसाभ्यनुज्ञा-
तथाप्युत्तरबिद्धयास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्ष-
णीयमिति विवेचनीयम् । तत्र बौधायनेन अल्पापीत्यभि-
धानात् निमेषमात्रं प्रतिभाति, व्यासेन उदयन्नेवेत्य-
भिधानात् तथैव प्रतिभाति । भतिष्यत्पुराणे तु षटिका-
मात्रं बौधायनवचनान्तरे द्विभुहूर्त्तमित्येवं विरोधमाशङ्क्य
“अत्रोच्यते “पौर्वाह्णिक्यस्तु तिथयस्त्रिमुहूर्त्ताः फलप्रदाः”
वृ० या० वचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमुहूर्त्तमिता-
यास्तिथेर्ग्रहणम् । त्रिमुहूर्त्तन्यूनायास्तिथेः पूर्वाह्णव्या-
प्त्यभावात् पूर्वाह्णस्य च पञ्चधा विभक्तस्य मुख्यत्वात्
उदिते भानौ त्रिमुहूर्त्तातिथिर्ग्राह्या । यत्तु “त्रिमुहूर्त्ता
न कर्त्तव्या या तिथ्युदयगामिनीति” न तत् त्रिमुहूर्त्तव्या-
प्तेर्बाधकं प्रत्युतोद्वोलकमेव । तथा हि प्रतिषेधः सर्वत्र
प्रसक्तिपूर्व्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्व्वाह्णिकवाक्यात्
त्रिमुहूर्त्तवेधविधायिपैठीनसिवाक्याद्वा भवति तस्य प्रसक्तं
त्रिमुहूर्त्तत्वं समतिथौ बाधकाभावात्तथैव तिथिक्षये त्वधिक
व्याप्तिविधित्सया प्रतिषिध्यते अतश्च तत्र चतुर्थमुहूर्त्त-
स्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यात् । तिथिवृद्धावपि
मुहूर्त्तत्रयमेव मुख्यं मुहूर्त्तद्वयं त्वनुकल्पः । एतदेव सूचयितुं
द्विमुहूर्त्तापीत्यत्र अपिशब्दः पठ्यते” । ततः प्रासङ्गिकमन्यत्
समाधाय उपसंहृतम् यथा “प्रकृते तु सूर्य्योदये मुहू-
र्त्तत्रयव्यापिनी प्रतिपद्दानव्रतयोर्ग्रहीतव्या एवं सत्यु-
दयमात्रव्याप्तिशास्त्रं घटिकामात्रव्याप्तिशास्त्रं च वैश्वानरा-
धिकरणन्यायेनावयुत्यानुवादरूपतया त्रिमुहूर्त्तव्याप्तिं
प्रशंसति । अथवा यदा पूर्बेद्युरुदयकालं परित्यज्योपरि
सर्वत्र व्याप्नोति परेद्युरुदयकालमात्रं व्याप्नोति
तदानीमुदयानन्तरभाविन्यामुख्यायास्त्रिमुहूर्त्तव्याप्तेर्दिनद्वयेऽप्य-
भावेन द्वयोरपि दिनयोर्गौणकालत्वे सति किं ग्राह्यमिति
वीक्षायां पूर्व्वदिने गौणकर्मकालव्याप्नेर्भूयस्त्वात्तस्यैव ग्रह-
णंन्यायतः प्राप्तं केनापि निमित्तेन तत्प्रत्यूहे सति परेद्युः
कर्मकालव्याप्तिसम्प्रादनाय पूर्णत्वमभिधायोदयविहीमस्य
पृष्ठ ११४७
ष्वाप्तिबाहुल्यस्य हेयत्वोक्तिव्याजेन तदेव प्रशस्यते ।
“आदित्योदयवेलायां याल्पापि च तिथिर्भवेत् । पूर्णा
इत्येव मन्तव्या प्रमूता नोदयं विनेति” । यदा पूर्वेद्युः
सङ्गवमारभ्य परेद्युरुदयात्प्रागेव तिथिक्षयवशात्प्रतिपत्स-
माप्ता तदा यद्यपि दिनद्वये सोदयमुहूर्त्तत्रयस्पर्शो नास्ति
तथापि पूर्वेद्युरेवानुष्ठेयम् । “सा तिथिः सकला ज्ञेया
यस्यामस्तमितोरविः इतिवचनेन सम्पाद्यायाः सोदयत्रि-
मुहूर्त्ताया व्याप्तेर्विद्यमानत्वात् । यदा न परेद्युरुदय-
मुहूर्त्तव्याप्तिरस्ति तदा पूर्वेद्युरेवानुष्ठानम् । अस्तमयव्या-
प्तेरधिकत्वात् । अतएव पद्मपुराणेऽभिहितम् । “व्रते
स्नाने तथा नक्ते पितृकार्य्ये विशेषतः । यस्यामस्तङ्गतो-
भानुः सा तिथिः पुण्यभाग्भवेदिति” । तत्रैव
द्वितीयाप्रकरणे च दैवं षड्विधम् उपवासैकभक्तनक्ताया
चितदानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्दे-
नैव संगृहीताः । पित्र्यं द्विविधम् एकोद्दिष्टं पार्वणं
चेति । तत्र सर्व्वत्र कर्म्मकालव्याप्तिर्मुख्या ।
अवशिष्टा गौणः । तिथिव्याप्तिश्च द्विविधा स्वाभाविक
तिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति । तद्यथा
यदा सङ्गवपर्य्यन्तामावास्या तदानीमुपरितमध्याह्नो
मुख्ययैव प्रतिपदा व्याप्तो भवति । यदा मध्याह्नादिमारभ्य
तिथिक्षयवशात् परेद्युः सङ्गवान्ता प्रतिपद्भवति तदा
पूर्व्वेद्युर्गौणकालव्याप्तिमुपजोव्यैकमक्तानुष्ठानाय तत्स्वीकारे
सति मध्याह्नेऽवश्यानुष्ठेयत्वात् तत्र च स्वाभाविकप्रति-
पद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्रतिपद्व्याप्तिः
स्वीकृता एवञ्च सति कर्म्मकालव्याप्तौ सर्व्वस्मृतीनामत्यन्त
निर्बन्धदर्शनात् कर्म्मकालव्याप्तिशास्त्रमितरेभ्यः प्रबल
मिति निश्चीयते । तदनुसारेण द्वितीयाद्याअपि तिथयौप
वासादौ दैवेः एकोद्दिष्टादौ पित्र्ये च कर्म्मकालव्याप्ति
युक्ताः स्वीकर्त्तव्याः । उपवासस्तु सर्व्वतिथिषु नारदीये
दर्शितः । “शुक्ला वा यदि वा कृष्णा प्रतिपत्प्रभृतीन् तिथीन् ।
उपोष्यैव बलिन्दत्त्वा विधिना त्वपरे दिने । ब्राह्मणान्
भोजयित्वा तु सर्व्वपापैः प्रमुच्यत” इति । उपवासस्या
होरात्रः कर्म्मकालः । तस्मात्तद्व्यापिजी तिथिर्ग्राह्या
तदसम्भवे खण्डतिथिरपि । तत्र का ग्राह्येति निरूप्यते ।
तत्र सूर्य्योदये त्रिमुहूर्त्ता ततोऽधिका वा प्रतिपद्भवति उत्तर-
दिनेचास्तमयादर्वाक् त्रिमुहूर्त्ता ततोऽधिका वा तृतीया भवति
मेयमुभयविद्धा द्वितीया । तत्र वेधकतिथेरुदयेऽस्तमये वा
त्रिम्हूर्त्तत्वं वंधप्रयोजकं न तु ततोन्यूनत्वे । तदेव
पैठिनसिवाक्येन पूर्वमुदाहृतम् । वेध्यतिथेश्च त्रिमूहूर्त्त
सद्भावोऽपेक्षित इति “द्विमुहूर्त्तं त्रिरह्णश्च” इत्यनेन सुमन्तु
वचनेन दर्शितम् । “उदयास्तमययोरेव वेध” इत्यस्यायमर्थः
“उदये सा विथिर्ग्राह्या विपरीता तु पैतृके” इत्यादिभिः
कात्यायनचनैरवगन्तव्यः । एवं सति उदाहृतविषये
द्वितीया उभयवेधेऽपि उत्तरविद्धैवोपास्या युग्मादिवाक्ये-
नान्वयव्यतिरेकाभ्यामुत्तरवेधस्य प्राशस्त्याभिधानात्” इति ।
पाद्मन्तूवासरूपदैवविषयं तदप्युक्तं तेनैव । “यद्यप्युपो-
ष्यत्वं साक्षान्नांभिहितं तथापि कर्म्मान्तरविशेषानुपा-
दानादुपवासविषयत्वं परिशेष्यते तथा हि न तावत्
पित्र्यविषयत्वं सम्भवति “द्वितीयादिकयुग्मानां पूज्यता
नियमादिषु । एकोदिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिदेशनेति”
व्यासेन युग्मादिशास्त्रस्य सर्व्वादिशास्त्रस्य च दैवपै-
त्र्यविषयकत्वेन व्यवस्थापनात् इति” । एवञ्चोपवसे-
तरदैवकर्मणि उदयगायिन्या ग्राह्यता तदपवादकं
युग्मशास्त्रम् । तत्र च पैठीनसिवचनेन त्रिमुहूर्त्त
तिथेरेव वेधप्रयोजकताऽभिधानेन ततो न्यूनकालि-
कतिथ्या वेधाभावात् गौड़देशीया यत् स्वर्शमात्रेण
वेधं कल्पयन्ति तत्साहसमात्रम् रघुनन्दनेन कुत्रापि तथा
वेधानुक्तेः कालमा० हेमाद्रिप्रभृतिषु द्विमुहूर्तादिव्याप्तावेव
वेधकत्वव्यवस्थापनात्, युग्मशास्त्रस्य सामान्यशास्त्रतया
वेधसामान्यप्रतिपादनेऽपि पैठीनसिना तस्य विशेषाभिधा-
नात्तथैव ग्रहणस्य युक्तत्वमित्युत्पश्यामः । युग्मा-
दिशास्त्रस्य बाधधकन्तु “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वती
प्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” ति० त०
देवी० पु० “भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः ।
तिथावुदयगामिन्यां सर्वास्ताः कारयेद्वुधः” दुर्गो० त० नन्दि०
पु० “शरत्काले महापूजा क्रियते या च वार्षिकी । सा
कार्य्योदयगामिन्यां न तत्र तिथियुग्मता” तत्रैव पुरा०
“पूर्ब्बाह्णे तु सदा कार्य्याः शुक्ला मनुयुगादयः । दैवे
कर्म्मणि पित्रे च कृष्णा चैवापवाह्णिके । हेमा०
नारदीयम् “युगादिमन्वादिश्राद्धादिषु शुक्लपक्षे उदयव्या-
पिनी तिथिर्ग्राह्या कृष्णपक्षे ऽपराह्णव्यापिनी ग्राह्या
स्मृत्यर्थसारश्च दिनद्वये तु तथा लाभे परैवेति हेमाद्रिः ।
विधानपारिजातादयोऽप्येवम् । निर्ण्ण० सि० “सवैधृ-
तिर्व्यतीपातो युगमन्वादयस्तथा । सम्मुखा उपवामेषु
दानादावन्तिमा स्मृता” अनन्तभर्त्तृधृतवचने
आदिपादात् श्राद्धसंग्रह इत्याह । इदन्त्ववधेयम् । “कर्मणो-
पृष्ठ ११४८
यस्य यः कालस्तत्कालव्यापिनी तिथिः । तया कर्माणि
कुर्वीत ह्रासवृद्धी न कारणम्” कर्म्मणोविहितकालव्या-
पिन्या एव ग्राह्यत्वाभिधानेन यत्रतिथिक्षयवशात् उभ
यदिने श्रुत्युक्तत्रिधाविभक्तदिनतृतीयांशरूपपूर्व्वाह्णाव्याप्ति-
स्तत्र प्रतियोगिवैयधिकरण्यघटितव्याप्तेः प्रवेशनेन
मुहूर्त्तकालव्याप्तावपि पूर्व्वाह्णव्यापकतया ग्रहणमित्येव
रघुनन्दनस्याशयः । तथा च “श्रारभ्य तस्यां दशमी च
यावत्” इत्यादौ यथा पूजायान्तत्तथीनां प्रतियोगिवैयकरण्य-
घटितव्यापकताप्रवेश एवमत्रापि मुहूर्त्तव्यापकतानातोन्यून-
दण्डादिव्यापने ग्राह्यता । भवति च द्वित्रमुहूर्त्तव्यापिन्या-
अपिमुहूर्त्तव्यापितेति सर्व्वं सुस्थम् । तेन मुहूर्त्तन्यूनतायां
न ग्राह्यता द्विमुहूर्त्तादिव्याप्तिस्तु मुख्येति । एवञ्च युग्मा-
दिशास्त्राविषये कृष्णप्रतिपदादौ उभयदिने पूर्व्वाह्णमुहूर्त्त-
व्यापित्वेऽपि त्रिमुहूर्त्ताया एव ग्राह्यतेति विवेकः ।
एवमस्तगामिन्यामपि अस्तादर्वाक् त्रिमुहूर्त्तायास्तिथेः ।
पित्रे ग्राह्यतेत्यपि बोध्यम् ।

उदयगिरि पु० उदय उदयस्थानं गिरिरिव । सूर्य्यादेरुदय-

स्थाने पर्वतवदाच्छादके भूवृत्तपादे “उदयगिरिवनालीबाल
मन्दारपुष्पम्” उद्भट्टः उदयगिरिशिखरसंस्थिते प्रतप्तकनक-
निकरपीतलीहिते सवितरि” सुश्रु० उदयाचलादयोऽप्यत्र ।
“श्रितोदयाद्रेरभिसायमुच्चकैः” माघः । भूगोलपादस्यैव यथा
सूर्य्याद्याच्छादकत्वम् तथा सिद्धान्तग्रन्थे स्थितम् । यद्यपि
सूर्य्योदयस्य देशविशेषे विशेषस्थाने एव सम्भवः तथापि
निरक्षदेशावधिकएव देशे मुख्यत्वम् “लङ्कापुरेऽर्कस्य
यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्याम् । अधस्तदा
सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव । यत्रो-
दितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र गतः प्रति-
ष्ठाम् तद्याम्यतोऽन्ये च ततोऽखिलानामुदक्स्थितोमेरुरिति
प्रसिद्धम्” सिद्धान्तशिरोमणौ तथैव व्यवस्थापितम् ।
तथा च लङ्कादिपुरीचतुष्ठयस्य भूवृत्तपादान्तरस्थितत्वेन
द्वितीयपुर्य्युपरिस्थेसूर्य्यादौ प्रथमं दृश्यता तत्पूर्व्वादिस्थदेशे
तु ततः पूर्वम् । पश्चात् स्थितदेशेषु च ततः पश्चात् दृश्यता
एवञ्च भूवृत्तपादेनाच्छादने तदतिक्रमे दर्शनयोग्यत्वादु-
दयः । ततश्च यत्र देशे यदा दर्शनं तत्र तदा तद्देशापेक्षया
सूर्य्यादेर्भूविम्बपादोपरिस्थितत्वेन तत्स्थानस्य
उदयगिरित्वम् यत्र चादर्शनं तद्देशवासिनामस्तगिरित्वं शास्त्रेषु
कल्पितम् । एवञ्च निरक्षदेशावधि भूवृत्तपादान्तरेषु स्थित
लङ्कापुरवासिनां यमकोटिरेवोदयस्थानमेवमन्यत्र कल्प्य-
म् । लिङ्गपुराणे तु अन्याः पुरीरुक्त्वा तत्रोदया-
दिव्यवस्थामाह “मानसोपरि माहेन्द्री प्राच्यां मेरोः
स्थिता पुरी । दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणे ।
सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः ।
अमरावती संयमिनी सुखा चैव विभा क्रमात् । लोकपालो-
परिष्टात्तु सर्वतो दक्षिणायने । काष्ठाङ्गतस्य सूर्यस्य
गतिर्या तां निबोधत । दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषु-
रिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ।
सर्व्वैः सांयामनैःसौरो ह्युदयो दृश्यते द्विजाः! । स एवं
सुखवत्यान्तु निशान्तस्थः प्रदृश्यते । अस्तमेति तदा सूर्यो
विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावत्यां यथाऽसौ
याति भास्करः । तथा संयमिनीं प्राप्य सुखाञ्चैव विभां
खगः । यदा पराह्णस्त्वग्नेय्यां पूर्वाह्णोनैरृते द्विजाः! ।
तदा त्वपररात्रश्च वायुभागे सुदारुणः । ऐशान्यां पूर्वरा-
त्रस्तु गतिरेषास्य सर्वत” इति । व्याख्यातञ्च छा० उ०
आनन्दगिरिणा “तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्नं तत्रे
शकोणस्थानां तृतीययाममाग्नेयकोणस्थानामाद्ययामं
संयसिन्याउदयं च करेति सविता । एवं यदा याम्ये मध्याह्ने
तिष्ठति तदैन्द्रे अस्तमयः, आग्नेये तृतीययामः, नैरृ-
तिकोणे प्रथमो यामः, वारुणे उदयः । यदा च वारुणे
मध्याह्नस्तदायाम्येऽस्तमयः, निरृतिकोणे तृतीयो
यामः, वायव्ये प्रथमयामः, सौम्ये उदयः । यदा च
सौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः, वायव्ये तृतीयया-
मः, ईशानकोणे प्रथमो यामः, ऐन्द्रे उदयः ।
तथाग्नेयकोणे वर्त्तमानस्तत्रस्थानां मध्यं दिनम्,
यमेन्द्रपुर्योराद्यतृतीययामौ, नैरृतेशानकोणयोरुदयास्तमयौ
च करोति” एतच्च मानसापेक्षयैवोदयास्तमयकीर्त्तनान्न पूर्वोक्तेन
विरुद्धम् “अथ यदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्ता
दूर्द्धौदेताऽर्वागस्तमेता इत्यादि” छा० उ० भाष्ये “पश्चादुत्तरत
ऊर्द्ध्वमुदेता विपर्ययेणास्तमेता । पूर्वस्मात्पूर्वस्माद्द्वगुणोत्त-
रोत्तरेण कालेनेत्यपौराणं दर्शनम् । सवितुश्चतुर्दिशमि-
न्द्रयमवरुणसोमपुरीषूदयास्तमयकालस्य तुल्यत्वं हि
पौराणिकैरुक्तम् । मानसोत्तरस्य मूर्द्धनि मेरोः प्रदक्षिणा-
वृतेस्तुल्यत्वादिति” इत्याशङ्क्य अत्रोक्तः परिहार
आचार्यैरमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्बासः
स्यात् । उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षु-
र्गोचरतापत्तिस्तदत्ययश्चास्तमयं न परमार्थत उदयास्तामये
स्तः । तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति तेनैव
पृष्ठ ११४९
मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरता-
पत्तेस्तदत्ययस्य चाभावात् । तथाऽमरावत्याः
सकाशाद्द्विगुणकालं सांयमिनीं पुरों वसत्यतस्तन्निवासिनः
प्राणिनः प्रति दक्षिणतः इवोदेत्युत्तरतोऽस्तमेतीत्युच्यते-
ऽस्मद्बुद्धिञ्चापेक्ष्य तथोत्तरास्वपि पुरीषु योजना । सर्वे-
षाञ्च मेरुरुत्तरो भवति । यदाऽमरावत्यां मध्याह्नगतः
सविता तदा सांयमिन्यामुद्यन् दृश्यते तत्र मध्याह्नगोचरो
वारुण्यामुद्यन्दश्यते । तथोत्तरस्यां प्रदक्षि णावृत्तेस्तुल्य-
त्वात् । इलावृतवासिनां सर्वतः पर्व्वतप्राकारनिवारिता-
दित्यरश्मीनां सवितोर्द्ध्व इवोदेताऽर्वागस्तमेता दृश्यते
पर्वतोर्द्धच्छिद्रप्रवेशात्सवितृप्रकाशस्य । तथर्गाद्यमृतोपजी-
विनाममृतानाञ्च द्विगुणोत्तरोत्तरवीर्य्यवत्त्वमनुमीयते
भोगकालद्वैगुण्यलिङ्गेन” छा० उ० भाष्यम् ।

उदयन पु० उद् + इ--ल्यु । १ अगस्त्ये मुनौ, कुसुमाञ्जलिप्रभृ-

तिग्रन्थकारके २ उदयनाचार्य्ये च । “व्यातेने किरणावली-
मुदयनः” द्रव्यकिरणावली । अयञ्च आत्मतत्त्वविवेकादिना-
नाग्रन्थकर्ता । ३ वृषभराजे “उदयनमिवानन्दितवत्सकु-
लम्” काद० ४ वत्सराजे च । वत्सराजचरितञ्च वृहत्कथायां
विस्तरेण वर्णितम् । “प्राप्यावन्तीनुदयनकथाकोविदग्राम-
वृद्धान्” मेघ० उद + इ--भावे ल्युट् । ५ उदये न०
“पूर्वतः सागरस्येव चन्द्रस्योदयनं प्रति” भा० भी० ५८ अ०
“एषा युक्ते परावतः सूर्य्यस्योदयनादधि” ऋ० १, ४८, ५,
“सप्तर्षीणाञ्चोदयनमादित्यस्य” शत० ब्रा० १३, ८, १९ ।
६ समाप्तौ च “सैषा त्रिवृत्प्रायणा त्रिवृदुदयना” ता० ब्र० २,
१५, ३ त्रिवृत् ऋग्नवकम् उदयने समाप्तौ यस्याः” भा० ।

उदयनीया स्त्री उदयने सभाप्तौ विहिता तन्निमित्तत्वेन तत्स-

म्वन्धिनी वा छ । समाप्तिनिमित्ते १ इष्टिभेदे “गार्हपत्य
उदनीयामाचरति” आश्व० श्री० ६, ४, १, १, नेदमादिषु
मार्जनमर्वागुदयनीयायाः” ४, २, ६, । चरुमेक्षणबर्हिर्नि-
दूधात्युदयनीयायै” कात्या० ७, ५, १६, । अवभृथादुत्थान
निमित्ते २ अतिरात्रे पु० “हस्तावेवोदयनीयोऽतिरात्रः”
शत० ब्रा० १२, १, ३, ३, अवभृथादुदेत्योदयनीयेन चरित्वानुब-
न्ध्यस्य पशुपुरोडाशमनु दैविकानां हवींषि निर्वपति” ९,
५, १, ३४ । “प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमु-
ञ्चन्ति” । “अथो यथा प्रायणीयेऽतिरात्रे समिधेनीरु-
नूच्य ब्रूयादुदनीयएवातोऽनुवक्ताऽस्मीति” ९, ४, ४, १५, १६

उदयवेला स्त्री सूर्यस्य तत्किरणस्यंवा उदयस्य वेला समयः ।

१ सूर्य्योदयकाले २ अरुणोदयकाले च “माघेमास्यसिते पक्षे
रटन्त्याख्यचतुर्द्दशी । तस्यामुदयवेलायां स्रात्वा नावेक्षते
यमम्” म० त० यमः । “उदयवेलायाम् अरुणोदयवेला-
यामिति” म० त० रघु० । शा० ति० उक्ते ३ भूतानामुदय-
समये च भूतोदयशब्दे विवृतिः ।

उदयान्तर न० उदयस्योदयज्ञानार्थम् अन्तरं यत्र । सि० शि०

उक्ते ग्रहाणामुदयज्ञानर्थं संस्कारभेदे उदयशब्दे विवृतिः ।

उदयास्तसूत्र न० “क्ष्माजे द्युरात्रसममण्डलमध्यभागजी-

वाग्रका भवति पूर्वपराशयोः सा । अग्राग्रयोः प्रगुण-
मत्र निबद्धसूत्रं यत्तद्वदन्ति गणका उदयास्तसूत्रम्”
सि० शि० उक्ते क्षितिस्वाहोरात्रवृत्तसम्पातयोर्बद्धे सूत्रे

उदर न० उद् + ऋ--अप् । १ जठरे नाभिस्तनयोर्मध्यभागे ।

“दश स्थानानि दण्डस्येत्युपक्रम्य “उपस्थमुदरं जिह्वा हस्तौ
पादौ च पञ्चमौ । चक्षुर्नासा च कर्ण्णौ च धनं देह
स्तथैवच” मनुः । “मस्तकोदरपृष्ठनाभिललाटनासाचिवुक-
वस्तिग्रीवाइत्येता एकैकाः” शरीरविभागे सुश्रुतः ।
“उदरञ्च गुदौ कोष्ठ्यौ विस्तारोऽयमुदाहृतः” या० स्मृ० ।
“उदरेऽन्नपक्तिः” शत० ब्रा० ८, ६, २१, ३ । “उदरं
पारिमाति मुष्टिना” “सदसत्संशयगोचरोदरी” नैष०
आधारे अप् । २ युद्धे । ३ मध्यभागमात्रे च “ताम्रो-
दरेषु तरुपल्लवेषु” रघुः “लतादिविहितोदरे” अम०
“कुसुममिव पिनद्धंपाण्डुपत्रोदरेण” शकु० उद् + दृ--अप्
पृषो० दलोपश्च, उदरस्थत्वाद्वास्योदरशब्दवाच्यता
“तात्स्थ्यात्तद्धर्म्मताभ्याञ्च तत्समीपतयाऽपि च ।
तत्साहचर्य्यात् शब्दानां वृत्तिरुक्ताचतुर्विधा” भा० प्र० उक्तेः ।
४ उदररोगे । उदररोगनिदानादि सुश्रुते उक्तं यथा
“अथात उदराणां निदानं व्याण्वास्यामः । धन्वन्तरिर्ध-
र्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमो बभूव । ब्रह्मर्षिपुत्रं
विनयोपपन्नंशिष्यं शुभं सुश्रुतमन्वशात्सः । पृथक् समस्तै-
रपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं
सप्तममष्टमञ्च दकोदरं चेति वदन्ति तानि । सुदुर्बलाग्नेर-
हिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा । स्नेहादिमि-
थ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः । गुल्-
माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः ।
कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः ।
त्वचः समुन्नम्य शनैः समन्ताद्विबर्द्धमाणो जठरं करोति ।
तत्पूर्व्वरूपं बलवर्णकाङ्क्षाबलीविनाशी जठरे हि राज्यः ।
जीर्णापरिज्ञानविदाहवत्यो वस्तौ रुजः पादर्गतश्च शोफः ।
सङ्गृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्द्धते कृष्णसिरावनद्धम् ।
पृष्ठ ११५०
सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत् १ ।
यच्छोषतृष्णाज्वरदाहयुक्तं पैत्तं सिरा यत्र भवन्ति पीताः ।
पीताक्षिविण्मूत्रनखाननस्य पित्तोदरम् २ तत्त्वचिराभिवृ-
द्धि । यच्छीतलं शुक्लसिरावनद्धं गुरुस्थिरं शुक्लनखाननस्य ।
स्निग्धं महच्छोफयुतं ससादं कफोदरम् ३ तच्च चिराभि-
वृद्धि । स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः ।
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसवनाद्वा ।
तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलि-
ङ्गम् ५ । तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च ।
स चातुरो मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यति
तृष्णया च । प्रकीर्त्तितं दूष्युदरन्तु घोरं प्लीहोदरम्
कीर्त्तयतो निबोध । विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्ट-
मत्यर्थमसृक् कफश्च । प्लीहाभिवृद्धिं सततं करोति प्लीहो-
दरम् ५ तत्प्रवदन्ति तञ्ज्ञाः । वामे च पार्श्वे परिवृद्धिमेति
विशेषतः सीदति चातुरोऽत्र । मन्दज्वराग्निः कफपित्तलि-
ङ्गैरुपदुतः क्षीणबलोऽतिपाण्डुः । सव्येतरस्मिन् यकृति प्रदुष्टे
ज्ञेयं यकृद्दाल्युदरं तदेव । तस्यान्त्रमन्नैरुपलेपिभिर्वा
बालाश्मभिर्वा सहितैः पृथग्वा । सञ्चीयते तत्र मलः सदोषः
क्रमेण नाड्यामिव सङ्करोहि । निरुध्यते चास्य गुदे पुरीषं
निरेति कृच्छ्रादपि चाल्पमल्पम् । हृन्नाभिमध्ये परिवृद्धि-
मेति यच्चोदरं विट्समगन्धिकञ्च । प्रच्छर्दयत् बद्वगुदं ६
विभाव्यं ततः परिस्राव्युदरं निबोध । शल्यं यदन्नोपप-
हितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा । तस्मात् स्नुता-
न्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु मूयः । नाभेरध-
श्चोदरमेति वृद्धिं निस्तुद्ध्यतेऽतीव विदह्यते च । एतत्परि-
स्राब्युदरं ७ प्रदिष्टं दकोदरं कीर्त्तयतो निबोध । यः
स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ बा निरूढः ।
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्व-
हानि । स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरम्पूर्व-
वदभ्युपैति । सिग्धं महत्सम्परिवृत्तनामि भृशोन्नतं पूर्ण्ण-
मिवाम्बुना च । यथा दृतिः क्षुभ्यति कम्पते च शब्दायते
चापि दकोदरं ८ तत् । आध्मानं गमनेऽशक्तिर्दौर्बल्यं
दुर्बलाग्निना । शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः ।
दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि । अन्ते
सलिलभावन्तु भजन्ते जठराणि तु । सर्वाण्येव परीपाकात्तदा-
तानि विवर्ज्जयेत्” । विस्तरस्तु भा० प्र० दृश्यः । गर्भपा-
तनजारोगा यकृत्प्लीहजलोदराः इत्युक्तेः पुंस्त्वमपि ।
५ अल्पे त्रि० “उदरमन्तरं कुरुते” श्रुतिः

उदरग्रन्थि पु० उदरे ग्रन्थिरिव । गुल्मरोगे हेम० । गुल्मशब्दे

विवृतिः उदरगुल्मोऽप्यत्र पु० “इक्षोर्विकारहारी च
भवेदुदरगुल्मवान्” शाता० स्मृतिः ।

उदरत्राण न० उदरं त्रायतेऽनेन त्रै--ल्युट् । (कमरबन्ध) उदरबन्धवस्त्रे हेम०

उदरथि पु० उद् + ऋ--घथिन् । समुद्रे उज्ज्वलदत्तः ।

उदरपिशाच त्रि० उदरे तत्पूर्त्तौ पिशाच इव । सर्व्वान्न-

भक्षके हेमच० ।

उदरपूरम् अव्य० उदर + पूर--साकल्ये णमुल् । उदरं साकल्येन पूरयित्वेत्यर्थे ।

उदरम्भरि त्रि० उदरं बिभर्त्तिं भृ--खि मुम् च । पञ्च-

यज्ञाव्यकरणेनात्मोदरमात्रपोषके ।

उदररोग पु० ६ त० । (उदरी) इति ख्याते रोगे । उदर

शब्दे विवृतिः । उदरव्याधिरप्यत्र “कदलोयवक्षारन्तु पानी-
येन प्रसाधितम् । तदास्वादेन नश्यन्ति उदरव्याधयोऽ-
खिलाः” गरु० पु० ।

उदरवत् त्रि० वृद्धमुदरमस्त्यस्य तुन्दादि० वृद्धतायाम्

मतुप् मस्यवः । वृददुदुदरयुक्ते । पक्षे--ठन् । उदरिक
इनि । उदरिन् पिच्छा० इलच् । उदरिल उक्तार्थे त्रि०
इनौ मतौ च स्त्रियां ङीप् ।

उदरशय पु० उदरे शेते शी--पार्श्वा० अच् । गर्मशये

उदरशाण्डिल्य पु० ऋषिभेदे “हृद्यश्चोदरशाण्डिल्यः पारा-

शर्य्यः कृषीबलः” भा० स० ७ अ० । “तं हैतमतिधन्वा शौनकः
उदरशाण्डिल्यायोक्त्वोवाच” छा० उ० ।

उदराध्मान न० ६ त० । (पेटफाँपा) रोगभेदे । तत्कार-

णमुक्तं सुश्रु० “कषायः संग्राहको रोपणः स्तम्भनः
शोधनो लेखनः शोषणः पोड़नः क्लेदोपशोषणश्चेति स एवं
गुणोऽप्येकएवात्यर्थमुपसेव्यमानोहृतपीड़ास्यशोषोदराध्मान-
वाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेपण-
प्रभृतीन् जनयति” । तच्चाजीर्ण्णस्य लिङ्गं तदप्युक्तं
सुश्रुते तच्च उद्गिरणशब्दे वक्ष्यते ।

उदरामय पु० उदरस्यामं रोगं याति नयति या--क ।

स्वनामख्याते रोगे अतिसारशब्दे पृ० विवृतिः । “शीतं
मधुयुतं कृत्वा पाययेतोदरायमये” “शर्करोपहितं शीतं
पाययेच्चोदरामये” सुश्रु० ।

उदरावर्त्त पु० उदरे आवर्त्त इव गभीरत्वात् । नाभौ ।

उदरिणी स्त्री० उदरं तत्स्थगर्भोऽस्त्यस्याः इनि ङीप् ।

गभिल्याम् ।
पृष्ठ ११५१

उदर्क पु० उद् + अर्कं--अर्च--वा घञ् । १ उत्तरकाले २ भाविफलके

शुभाशुभकर्म्मणि च । “तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च”
“सोऽनुभूयासुखोदर्कान्” प्रेत्येह च सुखोदर्कान् प्रजाधर्मान्
निबोधत” मनुः । “नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य”
दशकु० । “नानाप्रभृतयः समानोदर्का ऋतवो वा
असृज्यन्त” शत० ब्र० ८, ७, १, ३ ।

उदर्च्चिस् पु० उद् ऊर्द्ध्वमर्च्चिः शिखाऽस्य । १ उच्छिखे वह्नौ ।

उत्कृष्टकान्तित्वात् २ कदर्पे ऊर्द्ध्वरेतस्त्वात् ३ शिवे च ।
४ उन्नतशिखान्विते त्रि० “प्रदक्षिणप्रक्रमणात् कृशानोरुद-
र्च्चिषस्तन्मिथुनं चकाशे” “ऋचेवोदर्च्चिषं सूर्य्यम्” रघुः ।
“स्फुरन्नुदर्च्चिः सहसा तृतीयादक्ष्णः कृशानुःकिल निष्प-
पात” कुमा० । प्रा० स० । ५ उद्गतायां शिखायां न० स्त्री० ।

उदर्द्द पु० उद् + अर्द्द--अच् । “वरटादष्टसंस्थानः शोथः

संजायते बहिः । सकण्डूस्तोदबहुलश्छर्द्दिज्वरविदाह-
वान् । उदर्द्दमिति तं विद्याच्छीतपित्तमथापरे । वाता-
धिकं शीतपित्तमुदर्द्दञ्च कफाधिकम्” इति निदानोक्ते
रोगभेदे ।

उदर्य्य त्रि० उदरे भवः उदर + यत् । जठरभवे “यदुदर्य्यस्य

मेदसःपरिशिष्येत” शत० ब्रा० ३, ८, ४, ५, “पुरीतता नभ,
उदर्य्येण चक्रवाकौ” यज० २५, ८ ।

उदलावणिक त्रि० उदकीभूतं लवणमुदलवणम् उदादेशः ।

तेन पक्वम् ठञ् उत्तरपदवृद्धिः उदकीभूतलवणपक्वे व्यञ्ज-
नादौ हलायु० ।

उदवसित न० उद् + अव + सि--सो--वा क्त । गृहे अमरः ।

उदवाप पु० उदकं वपति पिण्डस्थानीयतया वप--अण्

उदादेशः उप० स० । जलमात्रेण १ श्राद्धकर्त्तरि
२ तर्पणकारिणि च । तस्यापत्यम् इञ् । औदवापि तदपत्ये
पुंस्त्री ततः तस्येदमित्यर्थे रैवति० छ । औदवापीय
तत्सम्बन्धिनि त्रि० ।

उदवास पु० उदके ब्रतार्थं वास उदादेशः । ब्रतार्थे

जलवासे । “अवाक्शिरास्तु योलम्बेत् उदवासं च योवसेत् ।
सततं चैकशायी यः स लभेतेप्सितां गतिम्” भा० आनु०
१७ अ० “सहस्यरात्रीरुदवासतत्परा” कुमा० ।

उदवाह पु० उद उदकं वहति वह--अण् उप० स० । जलवाहके

१ मेघे । “दिवा चित्तम कृण्वन्ति पर्जन्येनोदवाहेन” ऋ० १,
३८, ९, २ उदकवाहकमात्रे त्रि० “आ वोयस्तूदवाहासो
अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति” ऋ० ५, ५८, “उत्त्वा
वहन्तु मरुत उदवाहा उदप्रुतः” अथ० १८, २, २२,

उदशराव पु० उदकपूर्ण्णः शरावः शा० त० पूरयितव्ये

एकहलादौ उदादेशः । जलपूर्ण्णे शरावे “उदशरावे आत्मानम-
वेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ
होदशरावेऽपेक्षाञ्चक्राते” छा० उ० ६ प्र० ।

उदशुद्धि त्रि० उद्ना उदकेन शुद्धिः । स्नाते तस्यापत्यम् इञ् ।

औदशुद्धि तदपत्ये पुं स्त्री ततः यूनि इञन्तत्वात् फिञ्
तस्य पैला० लुक ।

उदश्रु त्रि० उद्गतमश्रु यस्य प्रा० ब० गतलोपः । उद्गत

नेत्रजले “तस्य पश्यन् स सौमित्रिरुदश्रुर्वसतिद्रुमान्”
रघुः ।

उदश्वित् न० उदकेन जलेन श्वयति वर्द्धते श्वि--क्किप् संज्ञा-

याम् उदादेशः । अर्द्धजलेन मथिते तक्रे अमरः । “पाने
मूत्रमुदश्विच्च दधि शुक्तञ्च भोजने” । मर्द्दनं दध्युदश्विद्भ्या-
मथ वा तण्डुलाम्बुना” सुश्रु० ।

उदसन न० उद् + अस--ल्युट् । १ निरसने २ उत्क्षेपणे च ।

उदस्थान न० उद्गा प्लावितं स्थानं शाक० त० । १ उदक

प्लाविते स्थाने । ततः भवार्थे उत्सा० अञ् । औदस्थान
तद्भवे त्रि० । उदनि स्थानं वासः । २ जलवासे । तत्
शीलमस्य छत्रा० ण । औदस्थान जलवासशीले त्रि० ।

उदहरण पु० उदकं ह्रियतेऽनेन हृ--करणे ल्युट् उदादेशः ।

कुम्भे । “प्रत्यगेकधनानयुग्मानुदहरणांस्त्रिप्रभृत्या पञ्च-
दशभ्यः” कात्या० ९, २, २३ । “उदहरणाः कलसाः”
इति कर्कः । “निधायोदहरणे त्रिर्विपल्ययते”
“अथैतमश्मानमुदहरणेऽवधाय” शत० ब्रा०९, १, २, ५, ६, ९ ।

उदहार त्रि० उदकं हरति हृ--अण् उप० स० उदादेशः ।

१ जलहारके “प्रविविक्तां नदीं रात्रावुदहारोऽहमागतः”
दत्तक० स्त्रियां ङीप् । “उतेन गोपा अदृश्रन्नदृश्रनुदः-
हार्य्यः सदृष्टो मृड्याति” यजु० १६, ७ । तेन सि० कौ०
“टिडढाणञित्यादि” सूत्रे तद्धिताणन्तस्यैव ग्रहणोक्तिश्चिन्त्या
अतएव मुग्धबो० कर्म्मण्यण्” पा० सूत्रपरिवर्त्तनेन “ढात्
षण्” इति सूत्रे ङीषर्थं षित्त्वं कृतम् । तथा च कुम्भ-
कारीत्येव साधु न तु कुम्भकारा । प्रयुज्यते च नाटकादौ
प्रतिहारीत्येव तत्र च प्रतिशब्दस्य प्रत्येकार्थत्वात् कर्म्मोप-
पदत्वं सुलभम् । भावे घञ् ६ त० । २ जलहरणे च ।

उदाज पु० उद् + अज--घञ् न कुत्वं व्यभावः । पशुप्रेरश्चे

उदात्त पु० उद् + आ + दा--क्त । वर्णोत्पत्तिस्थानेषु उच्चै

रुच्चारिते १ स्वरे २ तद्युक्ते त्रि० । “उच्चैरुदात्तः” पा० ।
“ताल्वादिषु सभागेषु स्थानेषुर्द्धभागे निष्पन्नोजुऽदात्तः”
सि० कौ० । “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा अचीति”
शिक्षाकृदुक्तेः अचामेव त्रैस्वर्य्यम् । अनेकाच्कपदे “अनुदात्तं
पृष्ठ ११५२
पदमेकवर्ज्जम्” पा० एकस्यैवोदात्तता अन्यस्य चानुदात्त-
तोक्ता । तत्रादौ सामान्यत उदात्तविधायकं सूत्रं दर्श्यते ।
“अञ्चेश्छन्दस्यसर्व्वनामस्थानम्” पा० । अञ्चेः परा
विभक्तिरुदात्ता । प्रतीचोबाहून् । “ऊडिदम्पदाद्यप्पुम्
रैदुभ्यः” पा० ऊट् इदम् पदादि अप् पुम् रै
दिव् इत्येभ्योऽसर्व्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः ।
एभिर्नृभिः । पद्दन्नोमास् हृन्निश इति षट् पदादयः ।
पद्भ्याम् । दद्भिः । नसा मासि । हृदा निशा । पुंसः ।
राया । दिवः । “अष्टनो दीर्घात्” पा० । दीर्घान्ताद-
ष्टनः परः शसादिरुदात्तः । अष्टभिः । “शतुरनुमोन-
द्यजादी” पा० अनुम् यः शतृप्रत्ययस्तदन्तादनोदात्तात् परा
नदी अजादिश्च शसादिर्विभक्तिरुदात्ता । जानती
जानतः । दधती दधत इत्यादौ तु अभ्यस्तानामादिरित्याद्यु-
दात्तत्वविधानेन अन्तोदात्तत्वाभावात् न तथा । सनुमस्तु
तुदन्तोत्यादौ न । “उदात्तयणोहल्पूर्ब्बात्” पा०
उदात्तस्थाने योयण् हल्पूर्ब्बस्तस्मात् परा नदी
शसादिर्विभक्तिश्च उदात्ता । नेत्री, नेत्रा, कृण्वता सवित्रा ।
“नोङ्धात्वोः” पा० अनयोर्यणः परे शसादय उदात्ता न
स्युः । ब्रह्मबन्ध्वासुभ्वा । “ह्रस्वनुड़भ्यां मतुप्” पा०
ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुप् उदात्तः । अब्धिमान्
उदधिमान् । नुट् अक्षण्वन्तः । “रैशब्दाच्च” बा० रैवान् ।
“नामन्यतरस्यास्” पा० । मतुपि योह्रस्वस्तदन्तादन्तोदा-
त्तात् परोनाम् उदात्तोवा । सुमतीनाम्” “ङ्याच्छन्दसि”
पा० ङ्याः परोनाम् उदात्तो वा । अभिभञ्जतीनाम् ।
“षट्त्रिचतुर्भ्यो हलादिः” पा० एभ्योहलादिर्वि-
भक्तिरुदात्ता । षड्भिः त्रिभिः । “न गोश्वन्सावर्ण्णराडङ्
क्रुङ्भ्यः” पा० एभ्यः परं प्रागुक्तं सावेकाचस्तृतीया
विभक्तिरिति न कार्य्यम् । “दिवोझल्” पा० दिवः परा
झलादिर्वोदात्ता । “नृ चान्यतरस्याम्” पा० । नुः
परा झलादिर्वोदात्ता । नृभिः । “उपोत्तमं रिति” पा०
रित्प्रत्ययान्तमुपोत्तममुदात्तम् । आहवनीयः । “मतोः
पूर्व्वमात् संज्ञायां स्त्रियाम्” मतोः पूर्वमाकारः उदात्तः
संज्ञायां स्त्रियाम् । उदुम्बरावती शरावती अमरावती
“एकादेशौदात्तेनीदात्तः” पा० । उदात्तेन सहैकादेश
उदात्तःस्यात् । क्व वोऽश्वाः । “स्वरितोवानुदात्ते पदादौ”
पा० अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः
स्परितो वा पक्षे उदात्तः । “वीदंज्योतिर्हृदये” । “उच्चै-
जरां वा वषट्कारः” पा० यज्ञकर्म्मणि वषट्शब्द
उच्चैस्तराम् अत्यन्तोदात्तः एकश्रुतिर्वा “सुब्रह्मणायां स्वरि-
तस्योदात्तः” पा० । सुब्रह्मण्याख्ये निगदे एकश्रुतिर्न स्यात्
स्वरितस्य उदात्तः स्यात् । “झल्युपोत्तमम्” पा० षट्त्रि
चतुर्भ्यो वा झलादिर्विभक्तिस्तदन्तेपदे उपोत्तममुदा-
त्तम् । पञ्चभिः दशभिः । “विभाषा भाषायाम्” पा० ।
उक्तविषये लोके वोदात्तः । “अन्तश्च तवै युगपत्” पा० तवै
प्रत्ययान्तस्याद्यन्तौ युगपदुदात्तौ । दातवै । “अस्थिदधिसक्-
थ्यक्ष्णामनङङुदात्तः” पा० । दध्यादेशोऽनङुदात्तः “चतुर-
नडुहोरामुदात्तः” पा० इत्यादीनि उदात्तविधायकामि ।
तत्र बह्वच्के पदे कस्योदात्ततेति निर्ण्णयाय आद्यन्तोदा-
त्तादिभेदेन” पा० त्रैविध्ययुक्तं तथा च केचिदाद्यु-
दात्ताः केचिदन्तोदात्ताः केचित् मध्योदात्ताः ।
तत्राद्युदात्तताबिधायकसूत्राणि आद्युदात्तशब्दे ७०६
पृ० उक्तानि अन्तोदात्तविधायकानि अन्तोदात्तशब्दे
२०६ पृ० दिङ्मात्रमुदाहृतानीत्यतः प्रसङ्गात्तान्यत्र
प्रदर्श्यन्ते “उञ्छादीनाञ्च” पा० अन्त उदात्तः स्यात्
उञ्चादयश्च । उञ्छम्लेच्छ जञ्ज जल्प जप बुध
युग (गरोदूष्ये) (वेदवेष्टनबन्धाः करणे) (स्तुयुद्रुव-
श्छन्दसि) (वर्त्तनिःस्त्रोत्रे) (दरःश्वभ्रे) (सान्त्वता-
पौ भावगर्हायाम्) (उत्तमसत्तमौ सर्व्वत्र) भक्ष गन्ध-
भोग मन्थ । अत्रैव निपातनात् युगबुधयोर्घञन्तत्वे-
ऽपि न गुणः” । “चतुरः शसि” पा० । चतुरोऽन्त-
उदात्तः शसि परे । चतुरः । चतेरुरन्निति नित्त्वादा-
द्युदात्तत्वेऽपि शसि अन्तोदात्ततैव । “अन्तोऽवत्याः”
पा० अवतीशब्दस्यान्त उदात्तः । वेत्रवती । “ईवत्याः”
पा० ईवत्यन्त स्यापि अन्त उदात्तः । अहीवती मुनीवती ।
“चितः” पा० चित्प्रत्ययान्तस्यान्त उदात्तः स्यात्” ।
“चितः सप्रकृतेर्वह्वकजर्थम्” वार्त्ति० । चिति प्रत्यये सति
प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तः । “नमन्तामन्यके सभे
“यके सरस्वति” तकत् कुरुते “तद्धितस्य” पा० चितस्त-
द्धितस्यान्त उदात्तः पूर्वेण सिद्धे ञित्स्वरबाधनाय । चफञ्
कौञ्जायनाः । “कितः” पा० कितस्तद्धितस्यान्त उदात्तः ।
ढक् आग्नेयः । “तिसृभ्योजसः” पा० अन्त उदात्तः । तिस्यः ।
“अन्तोदात्तादुत्तरपदादन्यतरस्याम्” पा० नित्याधिकारस-
मासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीया
विभक्तिरन्तोदात्ता वा । परमवाचा । “थलिच सेटीडन्ते
वा” पा० सेटि थलि परे इडुदात्तः इडन्तोवाआ-
दिर्वा । लुलुविथ चत्वारोऽपि पर्य्यायेणोदात्ताः ।
पृष्ठ ११५३


फिट्सूर्त्रषु १ मापदे केचित् शब्दा अन्तोदात्ताः दर्शिता
यथा । “फिषोऽन्तौदान्तः” १ । प्रातिपदिकं फिट् तस्यान्त-
उदात्तः स्यात् । उच्चैः । “पाटलापालङ्काम्बासागरार्था
नाम्” २ । एदर्थानामन्तौदात्तः । पाटला फलेरुहा
सुरूपा पाकलेति पर्य्यायाः । लघावन्त इति प्राप्तः ।
पालङ्कोव्याधिधातआरेवतआरग्बध इति पर्य्यायाः ।
अम्बार्थः माता । उनर्वनन्तानामाद्युदात्ते प्राप्ते । सागरः ।
समुद्रः । “गेहार्थानामस्त्रियाम्” ३ । गेहम् । नब्विषय-
स्येति प्राप्ते । अस्त्रियां किम् शाला आद्युदात्तोऽयम्
इहैव पर्य्युदासाज्ज्ञापकात् । “गुदस्य च” ४ । अन्त-
उदात्तःस्यान्नतु स्त्रियाम् । गुदम् । अस्त्रियां किम्
“आन्त्रेभ्यस्ते गुदाभ्यः” । खाङ्गशिटामदन्तानामित्यन्तरङ्ग-
माद्युदात्तत्वम् ततष्टाप् । “ध्यपूर्व्वस्य स्त्रीविषयस्य” ५ ।
धकारयकारपूर्वोयोऽन्त्योऽच् स उदात्तः । अन्तर्धा ।
स्त्रीविषयवर्ण्णेति प्राप्ते । छाया । माया । जाया ।
यान्तस्यान्त्यात् पूर्व्वमित्याद्युदात्तत्वे प्राप्ते । स्त्रीति किम्
बाह्यम् यञन्तत्वादाद्युदात्तम् । विषयग्रहणं किम्
इभ्या । क्षत्रिया । यतोऽनाव इत्याद्युदात्तैभ्यशब्दः ।
क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्व्वमिति मध्योदात्तः ।
“खान्तस्याश्मादेः” ६ । नखम् । उखा । सुखम् । दुःखम् ।
नखस्य खाङ्कशिटामित्याद्युदात्ते प्राप्ते । उखा नाम
भाण्डविशेषस्तस्य कृत्रिमत्वात् खय्युवर्ण्णं कृत्रिमाख्या चेदि-
त्युवर्णस्योदात्तत्वे प्राप्ते । अश्मादेः किम् शिखा । मुखम् ।
मुखस्य स्वाङ्गशिटामिति नब्विषयस्येति वा
आद्युदात्तत्वम् । शिखायास्तु शीङः खो निद्ध्व्रस्वश्चेति
उणादिषु नित्त्वोक्तेः अन्तरङ्गत्वाट्टापः प्रागेव खाङ्गशिटा-
मिति वा बोध्यम् । “बहिष्ठसंवत्सरतिशत्थान्तानाम्” ७ ।
एषामन्तं उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः ।
नित्त्वादाद्युदात्ते प्राप्ते । “बंहिष्ठैरश्वैः सुवृता रथेन” ।
“यद्बंहिष्ठन्नाति विधे” इत्यादौ व्यत्ययादाद्युदात्तः ।
संवत्सरः । अव्ययपूर्व्वपदप्रकृतिस्वरोऽत्र वाध्यते इत्याहुः ।
सप्ततिः । अशीतिः । लघावन्त इति प्राप्ते । चत्वारिंशत् ।
इहापि प्राग्वत् । अभ्युत्था । “नावभृथस्य” ८ ।
अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यते इत्याहुः । थाथादि-
सूत्रेण गतार्थमेतत् । “दक्षिणस्य साधौ” ९ । अन्त
उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनाम-
तया खाङ्गशिटामित्याद्युदात्तः । अर्थान्तरे तु लघावन्त
इति गुरुरुदात्तः । दक्षिणः सरलोदारपरच्छन्दानु-
बर्त्तिष्विति कोशः । “स्वाङ्गाख्यायामादिर्वा” १० । इह
दक्षिणस्याद्यन्तावुदात्तौ । दक्षिणो बाहुः आख्याग्रहणं
किम् । प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति ।
“छन्दसि च” ११ । अस्वाङ्गार्थमिदम् । दक्षिणः । इह
पर्य्यायेणाद्यन्तावुदात्तौ । “कृष्णस्यामृगाख्या चेत्” १२ ।
अन्तौदात्तः । वर्ण्णानान्तणेत्याद्युदात्ते प्राप्ते अन्तोदा-
त्तो विधीयते । कृष्णानां व्रीहीणाम् । “कृष्णो नो नाव
वृषभः” । मृगाख्यायान्तु “कृष्णो रात्र्यौ” । “वा नामधे-
यस्य” १३ । “कृष्णस्येत्येव । “अयं वा कृष्णोऽश्विना” । कृष्ण-
ऋषिः । “शुक्लगौरयोरादिः” १४ । नित्यमुदात्तः स्यादित्येके ।
वेत्यनुवर्त्ततैति तु युक्तम् । “सरो गौरा यथापि वेत्यत्रा-
न्तादात्तदर्शनात्” । “अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः” १५ ।
अङ्गुष्ठस्य स्वाङ्गानामकुर्व्वादीनामिति द्वितीयस्योदात्तत्वे
प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमाथं
छन्दस्येवेति । तेन लोके आद्युदात्ततेत्याहुः । “पृष्ठस्य
च” १६ । छन्दस्यन्तौदात्तः स्यात् भाषायाम् वा । पृष्ठम् ।
“अर्ज्जुनस्य तृणाख्या चेत्” १७ । उनर्वन्नन्तानामित्या-
द्युदात्तस्यापवादः । “अर्य्यस्य स्वाम्याख्या चेत्” १८ ।
यान्तस्यान्त्यात् पूर्व्वमिति यतोऽनाव इति वाद्युदात्ते
प्राप्ते वचनम् । “आशाया अदिगाख्या चेत्” १९ । दिगा-
ख्याव्यावृत्त्यर्थमिदम् । अतएव ज्ञापकाद्दिक्पर्य्यायस्याद्युदा
त्तता । “इन्द्र आशाभ्यस्परि” । “नक्षत्राणामाब्विषया-
णाम्” २० । अन्तौदात्तः स्यात् । अश्लेषाऽनुराधादीनां
लघावन्त इति प्राप्ते । ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्न-
न्तत्वेनाद्युदात्ते प्राप्ते वचनम् “न कुपूर्वः कृत्तिकाख्या
चेत्” २१ । अन्तौदात्ता न । कृत्तिका नक्षत्रम् । केचित्तु
कुपूर्वो य आप् तद्विषयाणामिति व्याख्याय आर्य्यिका
बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः । “घृतादी-
नाञ्च” २२ । “घृतं मिमिक्षे” आकृतिगणः । “ज्येष्ठ-
कनिष्ठयोर्वयसि” उदात्तः स्यात् । “ज्येष्ठ आह
चमसा” । “कनिष्ठ आह चतुरः” । वयसि किम्
ज्येष्ठः श्रेष्ठः, कनिष्ठोऽल्पिष्ठः । इह नित्त्वादाद्युदात्त
एव । “विल्वतिष्ययोः स्वरितो वा” २४ । अनयो-
रन्तः स्वरितो वा स्यात् । पक्षे उदात्तः । सि० कौ० ।
फिट्सूत्रे ३ पादे येषां द्वितीयाद्यचामुदात्तताऽभिहिता
तत् प्रदर्श्यते “अथ द्वितीयं प्रागीषात्” १ । ईषान्तस्य
हलादेरित्यतः प्राक् द्वितीयाधिकारः । “त्र्यषां प्राङ्मकरात” ।
मकरवरुड़ेत्यतः प्राक् त्र्यचामित्यधिकारः । “स्वाङ्गानाम-
पृष्ठ ११५४
कुर्वादीनाम्” ३ । कवर्ग्गरेफवकारादीनि वर्ज्जयित्वा
त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् । ललाटम् । कुर्वादी-
नान्तु कपोलः । रसना । वदनम् । “मादीनाञ्च” ४ ।
मलयः । मकरः । “शादीनां शाकानाम्” ५ । शीतन्या
शतपुष्पा । “पान्तानां गुर्वादीनाम्” ६ । पादपः
आतपः । लघ्वादीनान्तु अनूपम् । “युता-
न्यण्यन्तानाम्” ७ । युत अयुतम् । अनि धमनिः ।
अणि विपणिः । “मकरवरुड़पारेवतवितस्तेक्ष्वार्जिद्राक्षा-
कलोमाकाष्ठायुतष्ठाकाशीनामादिर्वा” ८ । एषामादि-
र्द्वितीयो वोदात्तः । मकरः । वरूड इत्यादि । “छन्दसि
च” ९ । अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादा-
दिर्द्वितीयं वोदात्तं ज्ञेयम् । “कर्द्दमादोनाञ्च” १० ।
आदिर्द्वितीयं वोदात्तम् । “सुगन्धितेजनस्य ते वा” ११ ।
आदिर्द्वितीयन्तेशब्दश्चेति त्रयः पर्य्यायेणोदात्ताः ।
सुगन्धितेजनाः । “नपः फलान्तानाम्” १२ । आदिर्द्वि-
तीयञ्चोदात्तम् । राजादनफलम् । “यान्तस्यान्त्यात्
पूर्व्वम्” १३ । कुलायः । “थान्तस्य च नालघुनी” १४ ।
नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा । सरथा
सेना “शिशुमारीदुम्बरबलीवर्दोष्ट्रारपुरूरवसाञ्च” १५ ।
अन्त्यात् पूर्ब्बमुदात्तं द्वितीयं वा । “साङ्काश्यकाम्पि-
ल्यनासिक्यदार्वाघाटानाम्” १६ । द्वितीयमुदात्तं वा ।
“ईषान्तस्य हलादेरादिर्वा” १७ । हलीषा । लाङ्गलीषा ।
४ पादे “शकटिशकट्योरक्षरमक्षरं पर्य्यायेण” १ । उदात्तम् ।
शकटिः । शकटी । “गोष्ठजस्य ब्राह्मणनामधेयस्य” २ ।
अक्षरमक्षरं पर्य्यायेणोदात्तम् । गोष्ठजः ब्राह्मणः अन्यत्र
गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ।
“पारावतस्योपोत्तमवर्जम्” २ । शेषं क्रमेणोदात्तम् ।
पारावतः । “धूम्रजानुमुञ्जकेशकालबालस्थालीपाकाना-
मधूजलस्थानाम्” ४ । एषाञ्चतुर्णान्धूप्रभृतीश्चतुरो
वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः
मुञ्जकेशः कालबालः स्थालीपाकः । “कपिकेशह-
रिकेशयोश्छन्दसि” १५ । कपिकेशः हरिकेशः ।
समासस्य बहुपदघटिततया कस्योदात्ततेति निर्णयाय
केचित् पूर्व्वपदप्रकृतिस्वराः केचित् उत्तरपदप्रकृतिस्वराः
केचित् पूर्व्वपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताः
केचित् उत्तरपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताः
इति विभागं मनसि निधाय पाणिनिना ६ अध्याये समास-
स्वरप्रकरणमारब्धं यथा “समासस्य” पा० अन्त उदात्तः ।
यज्ञश्रियम् । इति सामान्यतोविधाय विशेषमाह ।
तत्रादौपूर्व्वपदप्रकृतिस्वरः । “बहुव्रीहौ प्रकृत्या
पूर्वपदम्” पा० । उदात्तस्वरितयोगिपूर्व्वपदं प्रकृत्या स्यात्
ब० व्री० । अन्तोदात्ततापवादः । “सत्यश्चित्रस्रवस्तमः” ।
सर्वानुदात्ते पूर्वपदे तु अन्तोदात्तएव । समपादः । “तत्-
पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाऽव्ययद्वितीयाकृत्याः” ।
पा० । सप्तैते पूर्व्वपदभूतास्तत्पुरुषे प्रकृतिस्वराः ।
तुल्यश्वेतः समश्वेतः । किरिणा काणः किरिकाणः ।
मदयत्सखः । मदयति मादके इन्द्रे सखा । शस्त्रीश्यामः घन
श्यामः । “अव्यये नञ्कुनिपातानामिति वाच्यम्”
वार्त्ति० । अयज्ञः । नञित्याद्युक्तेः प्रोष्यपापीयानि-
त्यादौ न । द्वितीया क्षणसुखम् । कृत्या भोज्योष्णम् ।
“वर्णोवर्णेष्वेनेते” पा० वर्ण्णवाचिन्युत्तरपदे एतवर्ज्जिते
वर्ण्णवाचि पूर्व्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । वर्ण्णः
किं परमकृष्णः इत्यादौ, वर्णेषु किं कृष्णतिला इत्यादौ च
न, एवं कृष्णैत इत्यत्रापि । “गाधलवणयोः प्रमाणे” पा०
एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं
प्रकृत्या । अरित्रगाधम् तत्प्रमाणमित्यर्थः । गोलवणम्
यावद्गवे दीयते तावदित्यर्थः । “दायांद्यं दायादे” पा०
धनदायादः । “प्रतिबन्धि चिरकृच्छ्रयोः” पा० । प्रतिब-
न्धिवाचि पूर्व्वपदं प्रकृत्या एतयोः परयोः । गमनचिरम् ।
कथनकृच्छ्रम् । गमनादिकारणविकलतया चिरकालभावि
कृच्छ्रयोगितथा चात्र प्रतिबन्धः । अन्यत्र मूत्रकृच्छ्रमित्या-
दौ न । “पदेऽपदेशे” पा० व्याजवाचिनि उत्तरपदे
प्रागुक्तम् । मूत्रपदेन प्रस्थितः । अनपदेशे तु विष्णुपदम्
अत्र न “निवाते वातत्राणे” पा० पार्श्ववाचिनिवाते परे
वातत्राणवाचिनि तत्पुरुषे प्रागुक्तम् । कुटीनिवातम् ।
वातत्रालाभावे तु राजनिवाते वसतीत्यत्रं न “शार-
देऽनार्त्तवे” पा० आर्त्तवभिन्नवाचिनि शारदे परे
प्रागुक्तम् । रज्जुशारदमुदकम् । रज्वाः सद्य उद्धृत-
मित्यर्थः । आर्त्तवार्थत्वे तु उत्तमशारदमित्यादौ न ।
अध्वर्युकषाययोर्जातौ” पा० एतयोः परयोर्जातिवाचकस्य
प्राशुक्तम् । कठाध्वर्युः दौवारिककषायम् । अजातेस्तु
परमाध्वर्युरित्यादौ न “सदृशप्रतिरूपयोः सादृश्ये”
पा० पितृसदृशः पितृप्रतिरूपः । असादृश्ये तु
परमसदृश इत्यादौ न । सादृश्यमत्र पूज्यता न तु
सादृश्यमात्रम् सि० कौ० । “द्विगौ प्रमाणे” पा० द्विगौ
प्रमाणवाचिनि परे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः ।
पृष्ठ ११५५
सप्त समाः प्रमाणमस्य सप्तसमः ततः कर्म० “गन्तव्यपण्यं
बाणिजे” पा० बाणिजशब्दे परे एतदर्थकौ प्राग्वत् तत्पु-
रुषे । मद्रबाणिजः गोबाणिजः । अगन्तव्यादौ तु
परमबाणिज इत्यादौ न । “मात्रोपज्ञोपक्रमच्छाये नपुंसके” पा०
“मात्रादिषु परतः नपुंसकवाचिनि तत्पुरुषे प्रकृत्या ।
भिक्षामात्रम् । पाणिन्युपज्ञम् । नन्दोपक्रमम् । इक्षुच्छा-
यम् । नपुंसके किभ् वृक्षच्छाया इत्यादौ न । “सुखप्रिय-
योर्हिते” पा० । गमनसुखं गमनप्रियम् । “प्रीतौ च” पा०
प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणमुखं पयःपानम् । छात्र-
प्रियोऽनध्यायः । “स्वंस्वामिनि” पा० । गोस्वामी । अन्यत्र
परमस्वामीत्यादौ न । “पत्यावैश्वर्ये” पा० । गृहपतिः । “न
भूवाक्चिद्दिधिषु” पा० “प्रागुक्तं न । भूपतिः वाक्पतिः
चित्पतिः दिधिषुपतिः । “वा भुवनम्” पा० । प्रागुक्तं वा ।
भुवनपतिः । “आशङ्काबाधनेदीयस्सु सम्भावने” पा० ।
गमनाशङ्कमस्ति गमनाबाधम् गमननेदीयः । गमनमा-
शङ्क्यते आवाध्यते निकटतरमिति सम्भाव्यते इत्यर्थः ।
असम्भावने तु परमनेदीय इत्यादौ न । “पूर्वे
भूतपूर्वे” पा० भूतपूर्वार्थे पूर्वशब्दे परे पूर्वपदं प्रकृत्या ।
आढ्य पूर्वः । “सविधसनीडसमर्य्यादसवेशसदेशेषु सामीप्ये”
पा० । मद्रसविधम् । एवं सनीडादिषु । असामीप्ये तु
सह मर्य्यादया समर्य्यादं क्षेत्रम् चैत्रसमर्यादमित्यादौ न ।
“विस्पष्टादीनि गुणवचनेषु” पा० । विस्पष्टकटुकम् ।
विस्पष्ट विचित्र व्यक्त सम्पन्न पण्डित कुशल चपल
निपुण” एते विस्पष्टादयः । अगुणवचने तु विस्पष्ट-
ब्राह्मण इत्यादौ न । “श्रज्यावमकन्पापवत्सु भावः कर्म-
धारये” पा० । श्रुज्य, अधम, कन् इत्यादेशवति पापिवाचिनि
च परे भाववाचि पूर्वपदं प्रकृत्या । गमनश्रेष्ठं गमनज्यायः
गमनावमम् गमनकनिष्ठम् । गमनपापिष्ठम् । “कुमारश्च”
पा० । कर्मधारये पूर्वपदं प्रकृत्या । कुमारश्रमणः । “आदिः
प्रत्येनसि” पा० कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्म्म० ।
कुमारप्रत्येनाः । “पूगेष्वन्यतरस्याम्” पा० कुमारचातकाः
कुमारजीमूताः । “इगन्तकालकपालभगालशरीरेषु द्विगौ”
पा० । इगन्ते पञ्चारत्निः । काले पञ्चमास्यः दशमास्यः ।
पञ्चकपालः पञ्चभगालः । (भगालः पात्रभेदः) । पञ्चशरीरः ।
“वह्वन्यतरस्याम्” पा० । प्रकृत्या वा । बह्वरत्निः बहुमास्यः ।
“दिष्टिवितस्त्वोश्च” पा० । प्रकृत्या वा । पञ्चदिष्टिः पञ्च-
वितस्तिः । “सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्” पा० ।
अकालवाचि सप्तम्यन्तम् एषु परेषु प्रकृत्या । साङ्काश्य-
सिद्धः आतपशुष्कः भ्राष्ट्रपक्वः चक्रबन्धः । काले तु
पूर्वाह्णसिद्ध इत्यादौ न । परिप्रत्युपापा वर्ज्यमानाहो-
रात्रावयवेषु” पा० । एते प्रकृत्या वर्ज्यमानाहोरात्रावयव-
वाचिनि परे । परित्रिगर्त्तं वृष्टोदेवः । प्रतिपूर्वाह्णम् ।
प्रत्यपररात्रम् । उपपूर्वरात्रम् । अपत्रिगर्त्तम् । “उपसर्गा
आद्युदात्ताः अभिवर्ज्जम्” इति बहुब्रीहितत्पुरुषयोः
सिद्धत्वादव्ययीभावार्थमिदम्” सि० कौ० । “राजन्यबहुवचनद्व-
न्द्वेऽन्धकवृष्णिषु” पा० । बहुवचनान्तानां राजन्यानाम-
न्धकवृष्णिषु वर्त्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । शिनिवा-
सुदेवाः । “संख्या” पा० । द्वन्द्वे संख्यावाचि पूर्वपदं प्रकृत्या
“द्वादश त्रयोदश । “आचार्य्योपसर्जनश्चान्तेवासी” पा० ।
द्वन्द्वे प्रागुक्तम् । पाणिनीयवौडीयाः
“कार्त्तकौजपादयश्च” पा० । द्वन्द्वे एषां पूर्वपदं प्रकृत्या । ते च
कार्त्तकौजपौ सावर्णिकमाण्डूकेयौ अवन्त्यश्मकाः पैलश्या-
पर्णेयाः कपिश्यापर्णेयाः शौतिकाक्षपाञ्चालेयाः कटूकवा-
धूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः
आर्च्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डव-
तण्डाः अविमत्तकामविद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदा-
नच्युताः कठकालापाः कठकौथुमाः कौथुमलौगाक्षाः
स्त्रीकुमारम् मौदपैप्यलादाः । वत्सजरन्तः सौश्रुतपार्थवाः
जरामृत्यू याज्यानुवाक्ये । “महान् व्रीह्यपराह्णगृष्टीष्वास
जावालभारभारतहैलिहिलरौरवप्रवृद्धेषु” पा० । एषु परेषु
महच्छब्दः प्रकृत्या । महाव्रीहिः “सन्महदिति प्रति-
पदोक्तसमास एवायं स्वरः न षष्ठीसमासे” सि० कौ० ।
“क्षुल्लकश्च वैश्वदेवे” पा० । क्षुल्लकवैश्वदेवम् महावैश्वदेवम् ।
क्षुधं लाति क्षुल्लः ततः कन् । “उष्ट्रः सादिवाम्योः” पा०
उष्ट्रसादिः उष्ट्रवामिः । “गौःसादसादिसारथिषु” पा० ।
गोसादः गोसादिः गोसारथिः । “कुरुगार्हपतरिक्तगुर्वसूत
जरत्यश्लीलदृढरूपापरेबडबातैतिलकद्र्वः पण्यकन्दलोदा-
सीभाराणाञ्च” पा० । एषां सप्तानां समासानां दासीभारादेश्च
पूर्वपदं प्रकृत्या । ६ त० । कुरुगार्हपतम् । “वृजेरिति
वाच्यम्” वार्त्ति० वृजिगार्हपतम् । कर्म० रिक्तगुरुः । कर्म०
असूतजरती । क० अश्लीलदृढरूपा । पारेवडवेव इवार्थे क०
विभक्त्यलोपश्च नि० । क० वैतिलकद्रुः । क० पण्यकम्बलाः ।
६ त० । दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः
ओषधिचन्द्रमाः आकृतिगणः । “यस्य ततपुरुषस्य पूर्वपद-
प्रकृतिस्वर इष्यते न विशिष्य विधानं स सर्वोऽपि दासी-
भारादिषु दृश्यः” सि० कौ० “चतुर्थी तदर्थे” पा० । चतु-
पृष्ठ ११५६
र्थ्यन्तार्थाय यत् तद्वाचिनि परे पूर्वपदं प्रकृत्या । ४ त० ।
यूपदारु । “अर्थे” पा० । अर्थे परे चतुर्थ्यन्तं प्रकृत्या । देवा-
र्थम् । “क्ते च” पा० । क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । ४ त०
गोहितम् । “कर्मधारयेऽनिष्ठा” पा० । क्तान्ते परे पूर्व-
मनिष्ठान्तं प्रकृत्या । श्रेणिकृताः पूगकृताः श्रेण्या
कृतमित्यादौ न । निष्ठान्तस्यापि न, कृताकृतम् । “अहीने
द्वितीया” पा० । अहीनवाचिनि समासे क्तान्ते परे
द्वितीयान्तं प्रकृत्या । कष्टं श्रितः कष्टश्रितः । ग्रामगतः
“अनुपसर्ग इति वक्तव्यम्” वार्त्ति० । नेह सुखप्राप्तःकष्टाश्रितः ।
“तृतीया कर्मणि” पा० । कर्मवाचकक्तान्ते परे तृतीयान्तं
प्रकृत्या । रुद्रहतः महाराजहतः । कर्मणि किं रथेना-
यातः रथायात इत्यादौ न । “गतिरनन्तरः” पा० ।
कर्मार्थक्तान्ते परेऽव्यवहितोगतिः प्रकृत्या । पुरोहि-
तम् । व्यवधाने तु न अभ्युद्धृतः । “तादौ च निति
कृत्यतौ” पा० । तकारादौ निति तुशब्दभिन्ने कृति परे
गतिरनन्तरः प्रकृत्या । “प्रभूतौ सङ्गतिः गौः” कृत्स्वरा-
पवादः । तौ तु न, आगन्तुः । “तवै चान्तश्च युगपत्” पा०
तवै प्रत्ययान्तस्यान्त उदात्तः गतिश्चानन्तरः प्रकृत्या तच्च
युगपत् । अन्वेतवै । “अनिगन्तोऽञ्चतौ वप्रत्यये पा० ।
अनिगन्तगतिर्वप्रत्ययान्ताञ्चतौ पर प्रकृत्या । “येपराञ्च-
स्तान्” “न्यधी” पा० । तस्मिन् परे न्यधी गती प्रकृत्या ।
न्यङ् अध्यङ् । “ईषदन्यतरस्याम्” पा० । ईषत्कडारः ।
ईषद्भेद इत्यादौ तु कृत्स्वरएव । “हिरण्यपरिमाणं धने”
पा० । वा प्रकृत्या । द्विसुवर्णधनं कर्मधारयः । “प्रथमोऽ-
चिरोपसम्पत्तौ” पा० । प्रथमः प्रकृत्या नूतनत्वे । प्रथमवैया-
करणः । सम्प्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः ।
मुख्यार्थत्वे तु न । “कतरकतमौ कर्म्मधारये” पा० । वा
प्रकृत्या । कतरकठः । “आर्य्योब्राह्मणकुमारयोः” पा० ।
कर्म० प्रकृत्या । आर्य्यब्राह्मणः आर्यकुमारः । “राजा च”
पा० । राजव्राह्मणः राजकुमारः । “षष्ठी प्रत्येनसि” पा०
षष्ठ्यन्तोराजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्ये-
नाः । कर्म० न । “क्ते नित्यार्थे” पा० । क्तान्ते परे
नित्यार्थे समासे पूर्व्वं प्रकृत्या । नित्यहसितः “ग्रामः
शिल्पिनि” पा० । वा प्रकृत्या । ग्रामनापितः । अशिल्पिनि
न, ग्रामरथ्या । “राजा च प्रशंसायाम्” पा० । शिल्पि
वाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राज
नापितः राजकुलालः । अशिल्पिनि तु राजहस्तीत्यादौ न ।
एवम् अन्तोदात्ततापवादं पूर्व्वपदप्रकृतिस्वरमभि-
धाय आद्युदात्तस्वरमपि तदपवादतयाऽभिदधे ।
“आदिरुदात्तः” पा० । अधिकारीऽयम् । “सप्तमीहारिणौ
धर्म्येऽहरणे” पा० सप्तम्यन्तं हारिवाचि च आद्युदात्त
स्यात् धर्म्ये परे अहरणे । देयं यः स्वीकरोति स हारी-
त्युच्यते धर्म्म्यमित्याचारनियतं देयम् । मुकुटेकार्षा-
पणम् । हलेद्विपदिका । संज्ञायामिति सप्तमीसमासः
कारणाम्नि चेत्यलुक् । याज्ञिकाश्वः वैयाकरणहस्ती ।
क्वचिदयमाचारः मुकुटादिषु कार्षापणादि भृतित्वेन
देयम् याज्ञिकादीनां त्वश्वादिरिति तत्र याज्ञिकादीनां
धर्म्यरूपदेयस्य स्वीकारित्वात् याज्ञिकादिपदस्यो
दात्तत्वम् । बीजनिषेकादुत्तरकालं देहपुष्ट्यर्थं यद्दीयते
तद्धरणं तस्मिन् परे न । वाडवहरणम् । वङवाया अयं
वाडवः तस्मिन् हरणमित्यर्थः । परोऽपि कृत्स्वरो
हारिस्वरेण बाध्यते इत्यहरणनिषेधेन ज्ञापितम् । “युक्ते
च” पा० । युक्तवाचिनि समासे पूर्ब्बमाद्युदात्तम् ।
गोवल्लवः । कर्त्तव्ये तत्परश्चेह युक्तः । “विभाषाध्यक्षे”
पा० । अध्यक्षे परे प्रागुक्तं वा । गवाध्यक्षः ।
“पापञ्च शिल्पिनि” पा० । पापनापितः । पापाणके इति
प्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न । “गोत्रान्तेवासि
माणवब्राह्मणेषु क्षेपे” पा० । क्षेपे गम्ये एषु पूर्व्व-
पदमाद्युदात्तं स्यात् । तत्र गोत्रे भार्य्यासौश्रुतः ।
सुश्रुतापत्यस्य भार्य्यप्रधानतयेह क्षेपः । अन्तेवासिनि ।
कुमारीदाक्षाः ओदनपाणिनीयाः । कुमार्य्यादिलाभका
मनयैव दाक्ष्यादिप्रोक्तशास्त्राध्यायिनां क्षेपः । भिक्षा-
माणवः भिक्षां लस्येऽहमिति माणवः इति क्षेपः ।
भयब्राह्मणः भयेन ब्राह्मणः सम्पद्यते इति क्षेपः ।
“अङ्गानि मैरेये” पा० मधुमैरेयः मधुनो मद्याङ्गत्वात्
तत्परे तथात्वम् । “भक्ताख्यास्तदर्थेषु” पा० । भिक्षा-
दयोऽन्नविशेषाः कंसादिरूपपात्रस्य तदर्थत्वात् तत्परे
भिक्षादीनां प्रागुक्तम् । भिक्षाकंमः भाजीकंसः । “गो
विडालसिंहसैन्धवेषूपमाने” पा० । उपमानवाचिषु
एषु पूर्व्वपदमाद्युदात्तम् । धान्यगवः धान्यं गौरिवेति
वाक्ये गवाकृत्या सन्निविशेतं धान्यं धान्यगवः । गोवि-
डालः । तृणसिंहः सक्तुसैन्धवः । “अके जीविकार्थे” पा० ।
अकान्ते परे जीविकार्थवाचिनि समासे पूर्व्वपदमाद्यु
दात्तम् । दन्तलेखकः । दन्तलेखनेन जीविवावान् ।
“प्राचां क्रीडायाम्” पा० । प्राच्यानां क्रीडावाचिनि
समासे अकान्ते परे प्रागुक्तम् । उद्दालपुष्पभञ्चिका ।
पृष्ठ ११५७
“अणि नियुक्ते” पा० । अणन्ते परे नियुक्तवाचिनि
समासे प्रागुक्तम् । छत्रधारः । “शिल्पिनि चाकृञः”
पा० । शिल्पिवाचिनि अकृञः पराणन्ते परे प्रागुक्तम् ।
तन्तुवायः । अशिल्पिनि तु न, कुशलावः । कृञोऽपि
न कुम्भकारः । “संज्ञायाञ्च” पा० । अणन्ते प्रागुक्तम् ।
तन्तुवायो नाम लूताकृमिः । अकृञ इत्येव रथकारोनाम
ब्राह्मण इत्यत्र न । “गोतन्तियवं पाले” पा० । गोपालः
तन्तिपालः यवपालः । अनियुक्तार्थोऽयमारम्भः नियुक्ते
तु पूर्व्वेण सिद्धः । “णिनि” पा० । णिन्यन्ते परे प्रागुक्तम् ।
पुष्पहारी । “उपमानं शब्दार्थप्रकृतावेव” पा० । उप
मानवाचि पूर्व्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्र
क्रोशी ध्वाङक्षरावी । अशब्दार्थे तु वृकवञ्चीत्यादौ
न । प्रकृतिग्रहणेन उपसर्गेण शब्दार्थत्वे गर्द्दभोच्चारी-
त्यादौ न । “युक्तारोह्यादयश्च” पा० । एते आद्युदा
त्ताः । युक्तारोही आगतरोही आगतयोधी आगतपञ्ची
आगतनन्दी आगतप्रहारी । आगतमत्स्यः क्षीरहोता
भगिनीभर्त्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः
व्युष्टित्रिरात्रः गणपादः एकशितिपाद् पात्रेसम्भिता-
दयश्च युक्तारोह्यादिः । “दीर्घकाशतुषभ्राष्ट्रवटं जे” पा० ।
जे परे एतानि आद्युदात्तानि । दीर्घजः काशज
इत्यादि । “अन्त्यात् पूर्व्वं वह्वचः” पा० । बह्वचः पूर्ब्बस्या-
न्त्यात् पूर्व्वपदं जे परे आद्युदात्तम् । उपसरजः ।
आमलकीजः । “ग्रामेऽनिवसन्तः” पा० । ग्रामे परे
अनिवसद्वाचि पूर्व्वपदमाद्युदात्तम् । मल्लग्रामः, (मल्लसमूहः)
देवग्रामः (देवस्वामिकः ग्रामः) । निवसतस्तु दाक्षिग्राम
इत्यादौ न । “घोषादिषु च” पा० घोष इत्येव-
मादिषु चोत्तरपदेषु पूर्ब्बपदमाद्युदात्तं स्यात् । घोष
कट बल्लभ ह्रद वदरी पिङ्खल पिशङ्ग माला रक्षा
शाला कूट शाल्मली अश्वत्य तृण शिल्पी मुनि प्रेक्षा
घोषादि । दाक्षिघोषः । “छात्र्यादयः शालायाम्” पा० ।
छात्रिशाला व्याड़िशाला । ते च छात्रि पेलि भाण्डि
व्याडि आखण्डि आटि गोमि । “प्रस्थेऽवृद्धमकर्क्या-
नीनाम्” पा० । प्रस्थपरे अवृद्धं (यस्याद्यचः वृद्धिर्न)
तादृशपूर्वषदमाद्युदात्तं न तु कर्क्यादीनाम् । इन्द्रप्रस्थः ।
वृद्धस्य तु दाक्षिप्रस्थ इत्यादौ न । कर्क्यादयश्च कर्क्की
मघ्नी मकरी कर्क्कन्धु शमी करीर कन्दुक कवल वदरी ।
“मालादीनाञ्च” पा० । वृद्धार्थमिदम् । मालाप्रस्थम् ।
मालादयश्च । माला शाला शोणा द्राक्षा स्राक्षा क्षामा
काञ्ची एक काम । “अमहन्नवं नगरेऽनुदोचाम्” पा० ।
ब्रद्यनगरम् । महन्नवयोस्तु महानगरं नवनगरमित्यादौ
न । उदीचान्तु कार्त्तिनगरमित्यादौ न । “अर्म्मे चावर्णं
द्यच् त्र्यच्” पा० । अर्म्मे परे द्व्यच्कं त्र्यच्कं वाऽव-
र्णान्तं पूर्वपदमाद्युदात्तं स्वात् । गुप्तार्म्मम् । कुक्कुटा-
र्म्मम् । अनवर्णस्य वृहदर्ममित्यादौ न । अधिकाच्केऽपि
कपिञ्जलार्ममित्यादौ न । अमहवन्नमित्येव तेन महार्मम्
नवार्ममित्यादौ न । “न भूताधिकसञ्जीवमद्राश्मकज्ज-
लम्” पा० । अर्म्मे एतानि नाद्युदात्तानि । भूतार्मम् ।
एवं समासे पूर्वपदस्य आद्युदात्तनामाभिधाय त
स्यैव अन्तोदात्तताऽपि तत्र उक्ता यथा “अन्तः” पा०
अधिकारोऽयं प्रागुत्तरपदादिग्रहणात् । “सर्वं गुणकात्र्स्न्ये”
पा० । सर्व्वशब्दरूपं पूर्वपदमन्तोदात्तं स्यात् गुणसाकल्ये
गम्ये । मर्वश्वेतः सर्वमहान् । श्वेतत्वमहत्त्वगुणाभ्यां
कृत्स्नव्यापकताद्योतनादस्य तथात्वम् । सर्वसौवर्ण इत्यादौ
तु गुणेन व्याप्त्यभावान्न । अप्ताकल्ये तु सर्वेषां श्वेत-
तरः सर्वश्वेत इत्यादौ तरलोपे न । “संज्ञायां गिरिनिका-
ययोः” पा० । एतयोः पूर्ब्बमन्तोदात्तम् । अञ्जनागिरिः
मौण्डिनिकायः । असंज्ञायान्तु परमगिरिः ब्राह्मणनिकाय
इप्यादौ न । “कुमार्य्या वयसि” पा० । कुमारीपरे पूर्व-
पदमन्तोदात्तम् वयसि । वृद्धकुमारी जरत्कुमारी ।
कुमारीशब्दः पुंसा सह सङ्गमाभाववतीपरः वृद्धादिसामा-
नाथिकरण्यात् वयोवाचित्वमत्र । अवयसि तु परमकुमारी
त्यादौ न । “उदकेऽकेवले” पा० अकेवलं मिश्रं तद्वा-
चिनि समासे उदके परे पूर्वपदमन्तोदात्तम् । गुडोदकम् ।
गुडमिश्रितमुदकमित्यर्यः स्वरे कृतेऽत्र एकादेशे स्वरितो-
वानुकात्ते पदादाविति पक्षे स्वरितः । अमिश्रे तु शीतो-
दकम् इत्यादौ न । “द्विगौ क्रतौ” पा० द्विगावुत्तरपदे
कतुवाचिनि समासे प्रागुक्तम् । गार्ग्यत्रिरात्रः । अद्विगौ तु
अतिरात्र इत्यादौ न “सभायां नपुंसके” पा० क्लीवान्त
सभापरे प्रागुक्तम् । गोपालसभम् । अक्लीवे
राजसभेत्यादौ न । तत्पुरुषस्यैव ग्रहणं तेन रमणीयसभं
ब्राह्मणकुलमित्यादौ न । “पुरे प्राचाम्” पा० । देवदत्त
पुरम् । नान्दीपुरम् । अप्राचि तु शिवपुरमित्यादौ न ।
“अरिष्टगौडपूर्वेच” पा० । अरिष्टपुरम् । गौडपुरम् । पूर्व्व-
ग्रहणात् अरिष्टाश्रितपुरं गौडभृत्यपुरमित्यत्रापि स्यात् ।
“न हास्तिनफलकमार्द्देयाः” पा० । पुरे परे एतानि नान्तो
दात्तानि । हास्तिनपुरम् । फलकपुरम् । सार्द्देयपुरम् ।
पृष्ठ ११५८
“कुसूलकूपकुम्भशालं बिले” पा० कुसूलबिलम् ।
कूपबिलमित्यादि “दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु”
पा० । एषु परेषु दिग्वाचकशब्दाः अन्तोदात्ताः ।
पूर्व्वेषुकामशमी । अपरकृष्णमृत्तिका । पूर्वपञ्चालाः
पूर्व्वचानराटम् । इह पूर्वकालवाचित्वेऽपि पूर्वादेः दिशि
दृष्टत्वाद्दिक्छब्दत्वम् “आचार्य्योपसर्जनश्चान्तेवासिनि” पा०
आचार्य्योपसर्जने अन्तेवासिनि परे दिक्छब्दाः अन्तो-
दात्ताः । पूर्वपाणिनीयाः आचार्य्येत्युक्तेः पूर्ब्बान्तेवासी-
त्यादौ न । “उत्तरपदवृद्धौ सर्वञ्च” पा० । उत्तरपदस्ये-
त्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्व्वशब्दः
दिक्शब्दश्चान्तोदात्तः । सर्वपाञ्चालः पूर्वपाञ्चालः । “बहु-
ब्रीहौ विश्वं संज्ञायाम्” पा० । ब० ब्री० विश्वशब्दः पूर्व्वप-
दमन्तोदात्तं संज्ञायाम् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्या-
द्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः । कर्म० विश्वेदेवा
इत्यादौ न । अव्ययीभावात् बहुब्रीहावित्यधिकारः ।
“उदराश्वेषुषु” पा० । एषु परेषु पूर्वपदमन्तोदात्तं
स्यात् बहुव्रीहौ । वृषोदरः हर्य्यम्बः महेषुः । “क्षेपे”
पा० । निन्दने गम्ये प्रागुक्तम् । घटोदरः कटुकाश्वः
चलाचलेषुः । अनुदर इत्यत्र नञ्सुभ्यामिति पूर्वप्रति-
प्रतिषेधेन भवति” सि० कौ० । “नदी बन्धुनि” पा० । गार्गी-
बन्धुः । “निष्ठोपसर्गपूर्वान्यतरस्याम्” पा० । निष्ठान्तमुपसर्ग
पूर्व्वपदमन्तोदात्तं वा । प्रधौतपादः ।
एवं समासे आदिपदस्याद्यन्तोदात्ततां विधाय उत्तरपद-
स्याद्युदात्ततामाह यथा । “उत्तरपदादिः” पा० ।
उत्तपदाधिकारः आपादान्तम् । आद्यधिकारस्तु प्रकृत्या
भगालमित्यवधिकः । “कर्ण्णोवर्ण्णलक्षणात्” पा० । वर्णबा-
चिनः लक्षणवाचिनश्च परः कर्ण्णशब्दः आद्युदात्तो
बहुब्रीहौ । शुक्लकर्णः शङ्कुकर्णः । अन्यस्मात्तु शोभनकर्ण
इत्यादौ न । “संज्ञौपम्ययोश्च” पा० । उत्तरपदस्थं कर्ण
आद्युदात्तः । मणिकर्णः गोकर्णः । “कण्ठपृष्ठग्रीवाज-
ङ्घञ्च” पा० । संज्ञौपम्ययोर्बहुब्रीहौ । संज्ञायाम् शिति
कण्ठः काण्डपृष्ठः सुग्रीवः नाडीजङ्घः । औपम्ये
खरकण्ठः गोपृष्ठः अश्वग्रीवः गोजङ्घः । “शृङ्गमवस्थायाञ्च”
पा० । अबस्थायाम् उद्गतशृङ्गः द्व्यङ्गुलशृङ्गः अत्र
शृङ्गोद्गमनादिना वयो ज्ञाप्यते । संज्ञायाम् ऋष्यशृङ्गः ।
औपम्ये मेषशृङ्गः । “नञोजरमरमित्रमृताः” पा० ।
नञः पराएते आद्युदात्ता बहु० । अजरम् । अमरम् ।
अमित्रम् अमृतम् । “सोर्मनसी अलोमोषसी” पा० ।
सोः परे लोमोषसी त्यक्त्वा मन्नन्तमसन्तं चाद्युदात्त
बहु० । सुकर्माणः सुयुजः । सुमनाः सुब्रह्मा सुवर्च्चाः सुपे-
षसः । लोमोषसोस्तु सुलोमा सूषा इत्यादौ न ।
“क्रत्वादयश्च” पा० । सोः परे एते आद्युदात्ताः । सुक्रतुः
सुप्रतोकः । क्रतु दृशीक प्रतीक प्रतूर्त्तिहव्यभग । “आद्यु
दात्तं द्व्यच छन्दसि” पा० । यदाद्युदात्तं द्व्यच् तत् सोरु
त्तरं बहुव्रीहौ तथैव स्यात् वेदे लोके तु न । स्वश्वाः
सुरथाः । आद्युदात्तं किम् सुबाहुः । द्व्यच् किं
सुगुः सहिरण्य इत्यादौ न । “वीरवीर्य्यौ च” पा० । वेदे
सुवीरः सुवीर्य्यः लोके तु न । अत्र वीर्य्यग्रहणादन्यत्र
वीर्य्यशब्दस्य यदन्तत्वेऽपि यतोनावैत्याद्युदात्तं नेति
ज्ञापितम । “कूलतीरतूलमूलशालाक्षसममव्ययीभावे” पा० ।
बहुब्रीह्यधिकारोनिवृत्तः । अव्ययीभाव कूलादीन्याद्यु-
दात्तानि स्युः । उपकूलम् उपतीरम् उपशालम् ।
उपाक्षं सुषमम् निःषमम् । तिष्ठद्ग्वादि० स० । “कंस-
मन्थशूर्पपाय्य काण्डं द्विगौ” पा० । द्धिगौ एतानि आद्युदा-
त्तानि । द्विकंसः द्विमन्थः द्विशूर्पः द्विपाय्यम् द्विकाण्डम् ।
“तत्पुरुषे शालायां नपुंसके” पा० । क्लीवशालान्ते तत्पुरुषे
उत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । “कन्था च”
पा० । क्लीवलिङ्ग कन्थान्तस्तत्पुरुषः प्राग्वत् । सौशमिक-
कन्थम् । “आदिश्चिहणादीनाम्” पा० । कन्थान्ते
तत्पुरुषे क्लीवलिङ्गे चिहणादीनामादिरुदात्तः । न तु कन्था-
शब्दरूपस्योत्तरपदस्य पूर्व्वापवादः । चिहणकन्थम् ।
चिहणादिश्च चिहण मड़र मद्रुमर वैतुल पटत्क वैड़ालि-
कर्णक वैड़ालिकर्णि कुक्कुट चिक्कण चित्कण । “चेलखेटकटुक-
काण्डं गर्हायाम्” पा० । निन्दायां चेलादीन्युत्तर-
पदान्याद्युदात्तानि । पुत्रचेलम् । नगरखेटं दधिकटुकम् ।
प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां निन्दा व्याघ्रा०
स० । “चीरमुपमानम्” पा० । उत्तरपदस्थमुपमानं चीरम्
आद्युद्यत्तम् । वस्त्रं चीरमिव वस्त्रचीरम् । अनौपम्ये
तु परमचीरम् इत्यादौ न । “पललसूपशाकं मिश्रे” पा०
मिश्रार्थे समासे उत्तरपदस्थानामेषां प्राग्वत् । घृतपललं
घृतसूपः घृतशाकः । भक्ष्येण मिश्रीकरणमिति
समासः । अमिश्रे तु परमपललमित्यादौ न । “कूलसूद-
स्थलकर्षाः संज्ञायाम्” पा० । उत्तरपदस्थानामेषामादि-
रुदात्तः संज्ञायाम् । दाक्षिकूलम् । शाण्डिसूदम् ।
दाण्डायनस्थली । दाक्षिकर्षः ग्रामभेदस्य एताःसज्ञाः ।
असंज्ञायां तु परमकूलमित्यादौ न । “अकर्म्मधारये रा-
पृष्ठ ११५९
ज्यम्” पा० । ब्राह्मणराज्यम् कर्म्मधारये तु परमराज्यमि-
त्यादौ न । “वर्ग्यादयः” पा० । अकर्म्मघारय इत्येव । अर्जु-
नवर्ग्यः वासुदेवपक्ष्यः कर्म्मधा० परमवर्ग्य इत्यादौ न ।
वर्ग्यादिश्च दिगाद्यन्तर्गणः तच्छब्दे दृश्यः । “पुत्रःपुम्भ्यः”
पा० । पुंशब्देभ्यः परः पुत्र आद्युदात्तस्तत्पुरुषे ।
दासकिपुत्रः माहिषपुत्रः । स्त्रीभ्यस्तु दाक्षीपुत्र इत्यादौ
न । “नाचार्य्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः” पा० । एभ्यः
पुत्रोनाद्युदात्तः । आचार्य्यपुत्रः उपाध्यायपुत्रः ।
राजपुत्रः ईश्वरपुत्रः नन्दपुत्रः । ऋत्विक्पुत्रः याजक-
पुत्रः । संयुक्ताः संम्बन्धिनः । श्यालपुत्रः । ज्ञातिपुत्रः
भ्रातुष्पुत्रः । “चूर्णादीन्यप्राणिषष्ठ्याः” पा० । एतानि
प्राणिमिन्नषष्ठ्यन्तात् पराण्याद्युदात्तानि तत्पुरुषे ।
मुद्गचूर्ण्णम् । प्राणिनस्तु मत्स्यचूर्ण्णमित्यादौ न । चूर्ण्णा-
दयश्च । चूर्ण्ण करिव करिष शाकिन शाकट द्राक्षा
तूल कुन्दम दलप चमसी चक्वन चौल । “षट् च
काण्डादीनि” पा० । काण्ड चीर पलल सूप शाक कूल
इत्येतानि षट् अप्राणिषष्ठ्यान्तात् आद्युदात्तानि ।
दूर्वाकाण्डं दर्भचीरम् तिलपललम् मुद्गसूपः मूलकशाकम्
नदीकूलम् । “कुण्डं वनम्” पा० । वनवाचिनि तत्पुरुषे
कुण्डमाद्युदात्तम् । दर्भकुण्डम् कुण्डशब्दोऽत्र सादृश्ये ।
अथ उत्तरपदे प्रकृतिस्वरविधानसूत्राणि । “प्रकृत्या
भगालम्” पा० । भगालवाच्युत्तरपदं ततपुरुषे प्रकृत्या ।
कुम्भीभगालम् । कुम्भीनदालम् कुम्भीदापालम् । मध्यो-
दात्ताएते । प्रकृत्येत्यधिकारः अन्त इति यावत् । “शिते-
र्नित्याबह्वच् बहुब्रीहावभसत्” पा० । शितेः परं
नित्याबह्वच्कं प्रकृत्या बहुव्रीहौ । शितिपादः ।
शित्यंसः । पादः वृषा० आद्युदात्तः अंसशब्दः नित्-
स्वरवान् । शितेराद्युदात्तत्वात् बहुव्रीहौ पूर्व्वपदप्रकृति-
स्वरापवादेन उत्तरस्य प्रकृतिस्वरविधानात्तस्य बाधः ।
“गतिकारकोपपदात् कृत्” पा० । एभ्यः कृदन्तं प्रकृतिस्वरं
स्यात्तत्पुरुषे । गतेः, प्रकारकः प्रहरणम् । कारकात्
इध्मप्रव्रश्चनः । उपपदात् उच्चैःकारम् । ईषत्करः ।
शेषषष्ठोस० तु देवस्य कारकः देवकारक इआत्यादौ न ।
“उभे वनस्पत्यादिषु युगपत्” पा० । एषु पूर्व्वोत्तर
पदे युगपत् प्रकृत्या । वनस्पतिः वृहस्पतिः । ते च
बनस्पति वृहस्पति शचीपति तनूनपात् नराशंस शुनः-
शेफ शण्डामार्कौ तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्यू ।
“देवताद्वन्द्वे” पा० । उभे युगपत् प्रकृत्यास्तः । इन्द्रावरुणौ ।
“नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु” पा० ।
पृथिव्यादिवर्ज्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तन्न ।
“इन्द्राग्निभ्यां कं वृषणः” पृथिव्यादौ तु द्यावापृथिव्यौ
इत्यादौ स्यादेव । तत्र नि० आद्युदात्तः द्यावा, पृथिवी-
त्वन्तोदात्तः । एवं रुद्रसौमौ इन्द्रापूषणौ इत्यादौ ।
अथोत्तरपदे अन्तोदात्तताविधायकसूत्राणि यथा “अन्तः”
पा० । अधिकारोऽयम् । “थाथघञ्क्ताजवित्रकाणाम्”
पा० थ, अथ, घञ्, क्त, अच्, अप् इत्र, क,
एतदन्तानाम् उत्तरपदस्थानां गतिकारकोपपदात् परेषामन्त
उदात्तः । तत्र थ अपभृथः । अथ आवसथः ।
घञ् प्रभेदः । क्त पुरुष्टुतः । अच् प्रक्षयः । अप्
प्रलवः प्रस्तवः । इत्र प्रलवित्रम् । क गोवृषः मूल० क ।
गतिकारकोपदमिन्ने तु सुस्तुवैत्यादौ न सोः
पूजार्थत्वेन गतित्वाभावात् । “सूपमानात् क्तः”
पा० । सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । सुकृतम्
शशप्लुतः । “संज्ञायामनाचितादीनाम्” पा० ।
गतिकारकोपपदात् क्तान्तमन्तोदात्तं न तु आचितादौ ।
“उपहूतः शाकल्यः” आचितादौ न । आचितादयश्च ६ ३९
पृ० दर्शिताः । “प्रवृद्धादीनाञ्च” असंज्ञार्थमारम्भः ।
प्रवृद्धं यानं प्रवृद्धोवृषलः । प्रयुतासूष्णवः । आकर्षे
अवहितः (अवहितो भोगेषु) । खट्वारूढ़ः कविशस्तः
आकृतिगणोऽथम् । प्रवृद्धयानम् । अप्रवृद्धो वृषकृतो रथः ।
“कारकाद्दत्तश्रुतयोरेवाशिषि” पा० । कारकपदादुत्तर
पदपदस्थयोर्दत्तश्रुतशब्दयोरेव संज्ञायामन्तोदात्तः
आशीर्वादे गम्ये । देवदत्तः विष्णुश्रुतः । अनयोरेवेति
नियमात् देवपालित इत्यादौ न । “इत्थम्भूतेन कृतमिति च”
पा० । इत्थम्भूतेन कृतमित्यस्मिन्नर्थे यः समासः कृतः
ततःक्तान्तमुत्तरपदमन्तोदात्तम् । सुप्तप्रलपितम् । अत्रकृत-
मिति सामान्यक्रियावाचि । तृतीया कर्मणीत्यस्यापवादः ।
“अनोभावकर्मवचनः” पा० । कारकात् परमनप्रत्ययान्तं
भाववचनं कर्मवचनञ्चान्तोदान्तम् । भावे पयःपानम् ।
कर्मणि राजभोजनाः शालयः । “मन्क्तिन्व्याख्या-
नशयनासनस्थानयाजकादिक्रीताः” पा० । कारकात्
पराण्येतानि तत्पुरुषेऽन्तोदात्तानि । कृत्खरापवादः ।।
मन् रथवर्त्म । क्तिन् पाणिनिकृतिः । करणे ल्युट्
छन्दोव्याख्यानम् । तेन न पूर्ब्बेण गतार्थः । राजशयनम्
राजासनम् अश्वस्थानम् एषु आधारे ल्युट् ।
ब्राह्मणयाजकः । याजकादिश्च याजकादिशब्दे वक्ष्यते
पृष्ठ ११६०
गोक्रीताः । क रकभिन्नात्तु प्रभूतिः सङ्गतिः इत्यादौ तादौ
नितीति स्वरः । “सप्तम्याः पुण्यम्” पा० । अन्तो-
दात्तम् । अध्ययनपुण्यम् । तृतीयातत्पुरुषे तु
वेदपुण्यमित्यादौ न । “ऊनार्थकलहं तृतीयायाः” पा० ।
तृतीयायाः परावेतौ अन्तीदात्तौ तत्पुरुषे । माषोनम्
माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादः ।
अर्थेति स्वरूपग्रहणं तेन धान्यार्थ इत्यत्रापि अर्थशब्दस्य
तथात्वम् । ऊनशब्देन तदर्थग्रहणमिति केचित् । “मिश्र-
ञ्चानुपसर्गमसन्धौ” पा० । तृतीयायाः परम् अनुपसर्गं
मिश्रं प्राग्वत् । तिलमिश्रम् सर्पिर्मिश्रम् । मिश्रग्रहणे-
ऽन्यत्र सोपसर्गस्य ग्रहणमिति अनुपसर्ग विशेषणात् ज्ञापि-
तम् । सन्धौ तु ब्राह्मणमिश्रो राजा इत्यादौ न, ब्राह्मणैः
सह ऐकार्थ्यमापन्न इत्यर्थः । “नञोगुणप्रतिषेधे सम्पाद्य-
र्हहितालमर्थास्तद्धिताः” पा० । सम्पाद्याद्यर्थतद्धितान्ता-
गुणनिषेधार्थकनञः परेऽन्तोदात्ताः । न कर्णवेष्टनाभ्यां
सम्पादितं मुखं भवति अकार्णवेष्टनिकम् । न च्छेद-
मर्हति अच्छेदिकः । न वत्स्वेभ्योहितः अबत्सीयः ।
न सन्तापाय प्रभवति असन्तापीयः । “ययतोश्चातदर्थे”
पा० । तदर्थार्थभिन्नौ ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्थस्य
गुणनिषेधार्थात् नञः परस्यान्त उदात्तः । पाशानां समूहः
पाश्या न पाश्या अपाश्या । अदन्त्यम् । तदर्थार्थान्ते तु
अपाद्यमित्यादौ न । यतः तानुबन्धस्य ग्रहणात् इतरानु-
बन्धस्य यस्य अवामदेव्यमित्यादौ न । अत्र वामदेव ड्ड्य-
ड्ड्याविति ड्यत् ड्य वा । “अच्कावशक्तौ” पा० । अजन्तं
कान्तञ्च नञः परमन्तोदात्तमसामर्थ्येगम्ये । अपचः पक्तुं
न शक्तः । अलिखः । सामर्थ्येतु अपचोदीक्षित इत्याद्रौ
न । दीक्षितस्य न पाकासामर्थ्यं किन्तु निषेधादपचत्वम् ।
“आक्रोशे च” पा० । नञः परावच्कान्तावन्तोदात्तौ
क्षेपे । अपचोजाल्मःपक्तुं न शक्नोतीत्येवमाक्षिप्यते ।
अक्षिपः । “संज्ञायाम्” पा० । नजः परमन्तोदात्तं संज्ञा-
याम् क्षेपे । अदेवदत्तः “कृत्योकेष्णुच्चार्वादयश्च” पा० ।
नञः परे एतेऽन्तोदात्ताः स्युः । कृत्य अकर्त्तव्यः । उक
अनागामुकः । इष्णुच् अनलङ्करिष्णुः । खिष्णुचोऽपि ।
अनाढ्यम्भविष्णुः । अचारुः । चार्वायदश्च चारु साधु
यौधकि अनङ्गमेजय वदान्य अकस्मात् (वर्त्तमानवर्द्धमान-
त्वरमाणध्रियमानह्रियमाणरोचमानशोभमानाःसंज्ञायाम्)
(विकारसदृशे व्यस्तसमस्ते) गृहपति गृहपतिक (राजाह्नो-
श्छन्दसि) अराजा अनहः । भाषायां तु अव्ययस्वरः । “विभाषा
तृन्नन्नतीक्ष्ण शुचिषु” पा० । तृन् अकर्त्ता । अनन्नम् ।
अतीक्ष्णम् अशुचिः । पक्षे अव्ययस्वरः । “बहुव्रीहाविदमेत-
त्तद्भ्यः प्रथमपूरणयोः क्रियागणने” पा० । एभ्य एतयोरन्त
उदात्तः बहुव्रीहौ । इदं प्रथमं यस्य इदं प्रथमः ।
एवम् एतद्द्वितीयं तत्पञ्चमम । द्रव्यगणने तु अयं
प्रथमः प्रधानं येषां ते इदंप्रथमा इत्यादौ न ।
बहुव्रीहावित्यधिकारः । “संख्यायाः स्तनः” पा० । द्विस्तना
चतुःस्तना । “विभाषा छन्दसि” पा० । “द्विस्तनां करोति
वामदेव्यः” । पक्षे न “संज्ञायां मित्राजिनयोः” पा० ।
देवमित्रः कृष्णाजिनम् । असंज्ञायां प्रियमित्रः इत्यादौ
न । “ऋषिप्रतिषेधोमित्रे” वार्त्ति० । विश्वामित्र ऋषिः
अत्र न । “व्यवायिनोऽन्तरम्” पा० । व्यवधायकात् पर
मन्तरमन्तोदात्तम् । वस्त्रान्तरः । “मुखं स्वाङ्गम्” पा० ।
गौरमुखः । अस्वाङ्गे तु दीर्घमुखा शाला इत्यादौ न ।
“नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः” पा० ।
एभ्यः परं मुखंनान्तोदात्तम् तेन पूर्वपदप्रकृतिस्वरः ।
उच्चैर्मुखः । प्राङ्मुस्वः गोमुखः । गोमष्टिवत्सपूर्वपदस्यो-
पमानलक्षणोऽपि विकल्पोबाध्यते पुरस्तादपवादन्यायात् ।
“निष्ठोपमानादन्यतरस्याम्” पा० । निष्ठान्तादुपमावाचिनश्च परं
स्वाङ्गं मुखं वान्तोदात्तम् । प्रक्षालितमुखः पक्षे निष्ठोपसर्गेति
पूर्वपदान्तीदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि
भवति । सिंहमुखः । पक्षे पूर्वपदप्रकृतिस्वरः । “जातिका-
लसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः” पा० ।
सारङ्गजग्धः मासभूतः सुखभूतः । सुख दुःख तृप्त कृच्छ्र अस्त्र
आस्त्र अलीक प्रतीप करुण सोद इत्येतानि सुखादीनि ।
आच्छादनात्तु वस्त्रच्छन्न इत्यादौ न । कुण्डकृतः कुण्डमितः
कुण्डप्रतिपन्न इत्यादौ च न । वा जाते” पा० । एभ्यो
जातिशब्दोऽन्तोदात्तः । दन्तजातः मासजातः । पक्षे
पूर्व्वपदप्रकृतिस्वरः “नञ् सुभ्याम्” पा० । आभ्यां
परमन्तोदात्तं वहुव्रीहौ । अव्रीहिः सुमाषः । “कपि-
पूर्वम्” पा० । नञ् सुभ्यां परमुत्तरपदस्य पूर्व्वमुदात्तं
कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः । “ह्रस्वान्ते
अन्त्यात्पूर्वम्” पा० । ह्रस्वान्ते उत्तरपदे समासे अन्त्यात्
पूर्व्वपदमुदात्तं नञ्सुभ्यां बहुव्रीहौ । अव्रीहिकः सुमा-
षकः । “बहोर्नञ्वदुत्तरपदभूम्नि” पा० । उत्तरपदार्थे
बहुत्ववाचिनोबहोः परस्य पदस्य नञः परस्येव स्वरःस्यात् ।
बहुब्रीहिकः बहुमित्रः । अबहुत्वे तु बहुषु मानोऽस्य बहु
मान इत्यादौ न । “न गुणादयोऽवयवाः” पा० । अवयर्व-
पृष्ठ ११६१
वाचिवो बहोः परे गुणादयोनान्तोदात्ताः ब० व्री० ।
बहुगुणा रज्जुः । बह्वक्षरं पदम् । गुणादयश्च गुण अक्षर
अध्याय सूक्त छन्दः मान । गुणादिराकृतिगणः । अनवयवे
तु अध्ययनश्रुतसदाचारादिगुणपरत्वे बहुगुणोद्विज इत्यादौ
न । “उपसर्गात् स्वाङ्गं घ्रुवमपर्शु” पा० । प्रपृष्ठः ।
अध्र वे तु उद्बाहुरित्यादौ विपर्शुरित्यादौ च न । “वनं
समासे” पा० । समासमात्रे उपसर्गात् परं वनमन्तोदात्तं
स्यात् । प्रवणम् । “अन्तः” पा० । अन्तर् शब्दात् परं
वनमन्तोदात्तम् समासमात्रे । अन्तर्वणोदेशः । “अन्तश्च” पा० ।
उपसर्गादन्तशब्दोऽन्तोदात्तः । पर्य्यन्तः समन्तः । “न
निविभ्याम्” पा० । न्यन्तः व्यन्त इत्यादौ न । पूर्ब्बपदप्रकृतिस्वरे
यणि च कृते उदात्तस्वरितयोर्यण इति स्वरितः । “परे-
रभितोभावि मण्डलम्” पा० । परेः परम् अभितौभ-
यतो भावि कूलादि, मण्डलं चान्तोदात्तम् । परिकूलम्
परिमण्डलम् । “प्रादस्वाङ्गं संज्ञायाम्” पा० । प्रगृ-
हम् । स्वाङ्गे तु प्रपदमित्यादौ न “निरुदकादीनि च” पा० ।
निरुदक निरुपल निर्म्मक्षिक निर्म्मशक निष्कालक निष्-
कालिक निष्येष दुस्तरीप निस्तरीक निरजिन उदजिन
उपाआजिन (परेर्हस्तपादकेशकर्षाः) निरुदकादिराकृति-
गणः । एतानि अन्तोदात्तानि । निरुदकम् । “अभेर्मुखम्”
पा० । अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थमारम्भः ।
अभिमुखा शाला । “अपाच्च” पा० । अपमुखम् अत्रापि पूर्व्वव-
दारम्भः । अपमुखा शाला “स्फिगपूतवीणाञ्जोऽध्वकुक्षि-
सीरनासनाम च” पा० । अपादिमान्यन्तोदात्तानि ।
अपस्फिगम् अपपूतम् । अपाञ्जः । अपाध्वा समासान्तविधेर-
नित्यत्वात् नेह समा० । अपकुक्षि । अपसीरम् अपहलम् ।
अपनाम । स्फिगादिग्रहणमबहुब्रीह्यर्थम् अध्रुवार्थमस्वा-
ङार्थञ्च । “अधेरुपरिस्थम्” पा० । अध्यरूढोदन्तोऽधिदन्तः
दन्तस्योपरिजातोदन्त इत्यर्थः । अनुपरिस्थे अधिकरण-
मित्यादौ न । “अनोरप्रधानकनीयसी” पा० । अनोः
परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतोज्येष्ठम्
अनुज्योष्टैत्यादि । अत्र पूर्ब्बपदार्थप्राधान्यात् ज्येष्ठशब्द-
स्याप्रधानत्वम् । अनुगतः कनीयान् प्रा० स० ।
अनुकनीयान् । अत्र उत्तरपदार्थप्राघान्यम् । प्राधान्यार्थमेव
कनीयसः पृथग्ग्रहणम् । “पुरुषश्चान्वादिष्टः” पा० । अनोः
परः अन्वादिष्टवाची पुरुषः अन्तोदात्तः । अन्वादिष्टः
पुरुषः प्रा० स० । अनुपुरुषः । “अतेरकृत्पदे” पा० ।
अतेः परमकृदन्तं पदं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो-
नागः । अतिपदा गायत्री । कृत्पदे तु अतिचार
इत्यादौ न । “अतेर्धातुलोप इति वाच्यम्” वार्त्ति० ।
“प्रादिभ्योधातुजस्य वा चोत्तरपदलोप इति अत्यादयः
क्रान्त्याद्यर्थे द्वितीयययेति यत्र धातुलोपस्तत्रेवायं
स्वरः । तेन शोभनोगार्ग्यः प्रा० स० । अतिगार्ग्यः अत्र
न । अतिक्रान्तः कारुकम् । आतिकारुक इत्यत्रापि
स्यात् कारुकशब्दस्य कृदन्तत्वेऽपि धातुलोपएव कृदन्त निय
मनात् अतिकार इत्यादौ तु थातुलोपभावान्नेति भेदः ।
“नेरनिधाने” पा० । निधानमप्रकाशः तद्भिन्ने प्रकाशार्थे
नेरुत्तरपदमन्तोदात्तम् । निमूलम् न्यक्षम् । निधाने तु
निहितो दण्डः निदण्ड इत्यादौ अप्रकाशितः गुप्तो-
दण्ड इत्यर्थके न । “प्रतेरंश्वादयस्तत्पुरुषे” पा० । प्रति-
गतोऽंशुः प्रत्यंशुः प्रतिजनः प्रतिराजा समासान्तविधे-
नित्यत्वान्न टच् । बह्वब्रीहौ तु न । अंश्वादयश्च ३७ पृ०
दर्शिताः । “उपाद्द्व्यजजिनमगौरादयः” पा० ।
उपात् परं द्व्यच्कमजिनञ्चान्तोदात्तम् न तु गौरा-
दयः । ते च गौर तैष तैल लेट लोट जिह्वा कृष्णा
कन्या गुध कल्प पाद । उपदेवः उपेन्द्रः उपाजिनम् ।
गौरादौ उपगौर इत्यादौ न । “सोरवक्षेपणे” पा० ।
आक्षेपे गम्ये सोःपरमन्तोदात्तम् । सुप्रत्यवसितः
सुरत्रपूजार्थः वाक्यार्थस्तु निन्दा असूयथा तथाऽभिधा-
नात् । “विभाषोत्पुच्छे” पा० । उत्पुच्छे शब्दे
वान्तोदान्तः । उत्क्रान्तः पुच्छात्, पुच्छसुदस्यति
उत्पुच्छयतेर्वा एरच् । उभयस्याप्यत्र ग्रहणम् । उत्पुच्छः ।
“द्वित्रिभ्यां पद्दन्मूर्द्धसु बहुब्रीहौ” पा० । आभ्यां
परेष्वेषु अन्तोदात्तो वा बहुब्रीहौ । द्विपाद् त्रिपाद् ।
त्रिमूर्द्धा । ममासान्तविधेरनित्यत्वज्ञापकमिदम् । तत्पुरुषे तु
द्वयोर्मूर्द्धा द्विमूर्द्धेत्यादौ न । “सक्थञ्चाक्रान्तात्” पा० ।
कृतसमासान्तसक्थस्य अक्रान्तात् परस्य वान्तोदात्तः ।
गौरसक्थः श्लक्ष्णसक्थः । क्रान्तात्तु चक्रसक्थ इत्यादौ
न किन्तु षच्समासान्तस्य चित्त्वात् नित्यमन्तोदात्तता ।
“परादिश्छन्दसि बहुलम्” पा० । वेदे उत्तरपदस्थस्य शब्दस्यादि
रुदात्तो बहुलम् । “अञ्जिसक्थमालमेत” बहुलग्रहणात्
“परादिश्च परान्तश्च पूर्ब्बान्तश्चापि दृश्यते । पूर्ब्बादयश्च
दृश्यन्ते व्यतयो बहुलं ततः” वार्त्ति० । इति समासस्वराः ।
एवमुदात्ते विहिते क्वचित्तस्य निघातेनानुदात्तता स्यात्
तच्च निघातशब्दे सापवादं वक्ष्यते ।
“निहन्त्यरीनेकपदे यौदात्तः स्वरानिव” माघः । “अवि-
पृष्ठ ११६२
कत्थनः क्षमावानतिगम्भीरो महासत्वः । स्थेयान् निगूढ-
मानो धीरोदात्तो दृढव्रतः कथितः” सा० द० २ उक्ते
(पूर्बपदलोपेन) नायकभेदे । भावे क्त । ३ दाने ४ वाद्यभेदे
शब्दर० ५ अलङ्कारभेदे पु० । स च अलङ्कारशब्दे ३९६ पृष्ठे
दर्शितः । कर्त्तरि क्त ६ महति ७ समर्थे ८ दातरि च त्रि० ।

उदात्तराघव न० नाटकभेदे ।

उदान पु० अन--घञ् ऊर्द्ध्वमानोऽस्य । ऊर्द्ध्वगतिशीले

कण्ठादिदेशवर्त्तिनि प्राणवृत्तिभेदे वायौ । “अथ
योऽस्योर्द्धसुषिः सौदानः स वायुः सआकाशः” छा० उ० ।
“आपादतलादारभ्योर्द्ध्वमुत्क्रमात् उत्कर्षार्थञ्च कर्म्म कुर्व-
न्निति उदानः” छा० उप० भा० । पदार्थादर्शे योगार्ण्णवे
तत्स्थानाद्युक्तम् “स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः ।
उद्वेजयति मर्म्माणि उदानो नाम मारुतः । विद्युत्पाव-
कवर्ण्णः स्यादुत्थानासनकारकः । पादयोर्हस्तयोश्चापि सर्व-
सन्धिषु वर्त्तते” । सुश्रुते च “यथाग्निः पञ्चघा भिन्नो
नामस्थानात्मकर्म्मभिः । भिन्नोऽनिलस्तथा ह्येको नामस्थानक्रि-
योमयैः । प्राणोदानौ समानश्च व्यानश्चापान एव च ।
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् । वायुर्य्यो
वक्त्रसञ्चारी स प्राणो नाम देहधृक् । सोऽन्नं प्रवेशयत्यन्तः
प्राणांश्चाप्यवलम्बते । प्रायशः कुरुते दुष्टो हिक्काश्वा-
सादिकान् गदान् । उदानो नाम यस्तूर्द्ध्वमुपैति पवनो-
त्तमः । तेन भाषितगीतादिविशोषोऽभिप्रवर्त्तते । ऊर्द्ध्व-
जत्रुगतान् रोगान् करोति च विशेषतः । आमपक्वा-
शयचरः समानी वह्निसङ्गतः । सोऽन्नं पचति तज्जांश्च
विशेषान्विविनक्ति हि । गुल्माग्निसङ्गातीसारप्रभृतीन्-
कुरुते गदान् । कृत्स्नदेहचरो व्यानो रससंवहनो-
द्यतः । स्वेदासृक्स्रावणो वापि पञ्चधा चेष्टयत्यपि ।
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान् । पक्वा-
धानालयो ऽपानः काले कर्षति चाप्ययम् । समीरणः
सकृन्मूत्रशुक्रगर्भार्त्तवान्यधः । क्रुद्धश्च कुरुते रोगान्-
घोरान् वस्तिगुदाश्रयान् । शुक्रदोषप्रमेहास्तु व्यानापान-
प्रकोपजाः । युगपत्कुपिताश्चापि देहं भिन्द्युरसंशयम्”
छान्दोग्ये च भोजनस्याग्निहोत्रस्थानीयतया सम्पादनेन
प्राणादिपञ्चकाहुतेर्नित्यं कर्त्तव्यता तत्फलञ्चोक्तम् यथा ।
“उरएव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वा-
हार्य्यपचन आस्यमाहवनीय इत्युपक्रम्य” । (तद्भाष्ये च
आस्यस्य हूयतेऽस्मिन्नन्नमित्याहवनीयत्वमुक्तम्)
आहुतिप्रकारः फलसहितो दर्शितो यथा ।
“तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामांहुतिं
जुहुयात्तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति, प्राण
तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये
तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चा-
दित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया
पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति १ । अथ यां द्वितीयां
जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति, व्याने
तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति
चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च
दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानुतृप्ति
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति २ ।
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्य-
पानस्तृप्यति, अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्या-
मग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां
तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाघितिष्ठतस्तत्तृप्यति
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्चसेनेति ३ । अथ यां चतुर्थीं जुहुयात्तां जुहुयात्
समानाय स्वाहेति समानस्तृप्यति, समाने तृप्यति मनस्तृ-
प्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्यु-
त्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधि-
तिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्ना-
द्येन तेजसा ब्रह्मवर्चसेनेति ४ । अथ यां पञ्चमीं जुहु-
यात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति, उदाने
तृप्यति वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति
यत्किञ्च वायुश्चाकाशश्चाघितिष्ठतस्तत्तृप्यति तस्यानुतृप्ति
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसे-
नेति ५ । स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारा-
नपोह्य भस्मनि जुहुयात्तादृक् तत्स्यात् । अथ य
एतदेवंविद्वानग्निहोत्रं जुहोति तस्य सर्व्वेष लोकेषु
सर्व्वेषु भूतेषु सर्व्वेष्वात्मसु हुतं भवति । तद्यथेषीका
तूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्व्वेपाप्मानः प्रदू-
यन्ते य एतदेवंविद्वानग्निहोत्रं जुहोति । तस्मादु
हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हेवास्य
तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः । यथेह क्षु-
धिता बाला मातरं पर्थ्युपासते । एवं सर्व्वाणि भूतान्यग्नि-
होत्रमुपासत इत्यग्निहोत्रमुपासत इति” ।

उदापु पु० उद् + आप--उन् । जरासन्धपौत्रे क्षतियभेदे ।

“जरासन्धस्य पुत्रोवै सहदेवः प्रतापवान् । सहदेवात्मजः
श्रीमानुदापुः स महायशाः । उदापुर्जनयामास पुत्रं
परमधार्मिकम्” । हरिव० ३२ अ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उत्पादित&oldid=57668" इत्यस्माद् प्रतिप्राप्तम्