सामग्री पर जाएँ

वराहपुराणम्/अध्यायः १६०

विकिस्रोतः तः
← अध्यायः १५९ वराहपुराणम्
अध्यायः १६०
[[लेखकः :|]]
अध्यायः १६१ →

अथ मथुरापरिक्रमप्रादुर्भावः ।।
श्रीवराह उवाच ।।
अष्टम्यां मथुरां प्राप्य कार्त्तिकस्यासिते नरः ।।
स्नात्वा विश्रांतितीर्थे तु पितृदेवार्च्चने रतः ।। १ ।।
विश्रांतिदर्शनं कृत्वा दीर्घविष्णुं च केशवम् ।।
प्रदक्षिणायाः सम्यग्वै फलमाप्नोति मानवः ।। २ ।।
उपवासरतः सम्यगल्पमेध्याशनोऽथवा ।।
दन्तकाष्ठं च सायाह्ने कृत्वा शुद्ध्यर्थमात्मनः ।। ३ ।।
ब्रह्मचर्येण तां रात्रिं कृत्वा सङ्कल्प्य मानसे ।।
धौतवस्त्रेण सुस्नातो मौनव्रतपरायणः ।। ४ ।।
तिलाक्षतकुशान् गृह्य पितृदेवार्थमुद्यतः ।।
दीपहस्तो वनं गत्वा श्रान्तो विश्रान्तिजागरे ।। ५ ।।
यथानुक्रमणं तैश्च ध्रुवाद्यैर्ऋषिभिः कृतम् ।।
एवं परंपरायातं क्रमणीयं नरोत्तमैः ।। ६ ।।
प्रदक्षिणा वर्त्तमाना भक्तिश्रद्धासमन्वितः ।।
सर्वान्कामानवाप्नोति हयमेधफलं लभेत् ।। ७ ।।
एवं जागरणं कृत्वा नवम्यां नियतः शुचिः ।।
ब्राह्मे मुहुर्त्ते संप्राप्ते ततो यात्रामुपक्रमेत् ।। ८ ।।
तथा प्रारभयेद्यात्रां यावन्नोदयते रविः ।।
प्रातः स्नानं तथा कुर्यात्तीर्थे दक्षिणकोटिके ।। ९ ।।
प्रक्षाल्य पादावाचम्य हनुमन्तं प्रसादयेत् ।।
सर्वमङ्गलमाङ्गल्यं कुमारं ब्रह्मचारिणम् ।। 160.१० ।।
विज्ञाप्य सिद्धिकर्त्तारं यात्रासिद्धिप्रदायकम् ।।
यस्य संस्मरणादेव सर्वे नश्यन्त्युपद्रवाः ।। ११ ।।
यथा रामस्य यात्रायां सिद्धिस्ते सुप्रतिष्ठिता ।।
तथा परिभ्रमन्तेऽद्य भवान्सिद्धिप्रदो भव ।। १२ ।।
इति विज्ञाप्य विधिवद्धनूमन्तं गणेश्वरम् ।।
दीपपुष्पोपहारैस्तु पूजयित्वा विसर्ज्जयेत् ।। १३ ।।
तथैव पद्मनाभं तु दीर्घविष्णुं भयापहम् ।।
विज्ञाप्य सिद्धिकर्त्तारं देव्यश्च तदनन्तरम् ।। १४ ।।
दृष्ट्वा वसुमतीं देवीं तथैव ह्यपराजिताम् ।।
आयुधागारसंस्थां च नृणां सर्वभयापहाम् ।। १५ ।।
कंसवासनिकां तद्वदौग्रसेनां च चर्च्चिकाम् ।।
वधूटीं च तथा देवि दानवक्षयकारिणीम् ।। १६ ।।
जयदां देवतानां च मातरो देवपूजिताः ।।
गृहदेव्यो वास्तुदेव्यो दृष्ट्वानुज्ञाप्य निर्गमेत् ।। १७ ।।
मौनव्रतधरो गच्छेद्यावद्दक्षिणकोटिके ।।
प्राप्य स्नात्वा पितृँस्तर्प्य दृष्ट्वा देवं प्रणम्य च ।। १८ ।।
नत्वा गच्छेदिक्षुवासां देवि कृष्णसुपूजिताम् ।।
बालक्रीडनरूपाणि कृतानि सह गोपकैः ।।
यानि तीर्थानि तान्येव स्थापितानि महर्षिभिः ।।१९।।
ख्यातिं गतानि सर्वाणि सर्वपापहराणि च ।।
वत्सपुत्रं ततो गच्छेत्सर्वपापहरं परम् ।।
अर्कस्थलं वीरस्थलं कुशस्थलमनन्तरम् ।। 160.२० ।।
पुण्यस्थल महास्थल महापापविनाशनम् ।।
पंचस्थलानि तत्रैव सर्वपापहराणि च ।। २१ ।।
येषां तु दर्शनादेव ब्रह्मणा सह मोदते ।।
शिवं सिद्धमुखं दृष्ट्वा स्थलानां फलमाप्नुयात् ।। २२ ।।
हयमुक्तिं ततो गच्छेत्सिंदूरं ससहायकम् ।।
श्रूयते चात्र ऋषिभिर्गाथा गीता पुरातनी ।। २३ ।।
अश्वारूढेन तेनैव यत्रेयं समनुष्ठिता ।।
अश्वो मुक्तिं गतस्तत्र सहायसहितः सुखम् ।।२४।।
राजपुत्रः स्थितस्तत्र यानयात्रा न मुक्तिदा ।।
तस्माद्यानैश्च यात्रा तु न कर्त्तव्या फलेच्छया।।२५।।
तस्मिंस्तीर्थे तु तं दृष्ट्वा स्पृष्ट्वा पापैः प्रमुच्यते ।।
कुण्डं शिवस्य विख्यातं तत्र स्नानफलं महत् ।।२६।।
मल्लिकादर्शनं कृत्वा कृष्णस्य जयदं शुभम् ।।
ततः कदंबखण्डस्य गमनात्सिद्धिमाप्नुयात् ।। २७ ।।
चर्चिका योगिनी तत्र योगिनीपरिवारिता ।।
कृष्णस्य रक्षणार्थं हि स्थिता सा दक्षिणां दिशम् ।। २८ ।।
अस्पृश्या चास्पृशा चैव मातरौ लोकपूजितौ ।।
बालानां दर्शनं ताभ्यां महारक्षां करिष्यति ।। २९ ।।
वर्षखातं ततो गत्वा कुण्डं पापहरं परम् ।।
गत्वा स्नात्वा पितॄँस्तर्प्य सर्वपापैः प्रमुच्यते ।। 160.३० ।।
क्षेत्रपालं ततो गत्वा शिवं भूतेश्वरं हरम् ।।
मथुराक्रमणं तस्य जायते सफलं तथा ।। ३१ ।।
कृष्णक्रीडासेतुबन्धं महापातकनाशनम् ।।
बालानां क्रीडनार्थं च कृत्वा देवो गदाधरः ।। ३२।।
गोपकैः सहितस्तत्र क्षणमेकं दिनेदिने ।।
तत्रैव रमणार्थं हि नित्यकालं स गच्छति ।। ३३ ।।
बलिह्रदं च तत्रैव जलक्रीडाकृतं शुभम् ।।
यस्य सन्दर्शनादेव सर्वपापैः प्रमुच्यते ।। ३४ ।।
ततः परं च कृष्णेन कुक्कुटैः क्रीडनं कृतम् ।।
यस्य दर्शनमात्रेण चण्डोऽपि गतिमाप्नुयात् ।। ३५ ।।
स्तम्भोच्चयं सुशिखरं सौरभैः सुसुगन्धिभिः ।।
भूषितं पूजितं तत्र कृष्णेनाक्लिष्टकर्मणा ।। ३६ ।।
तस्य प्रदक्षिणं कृत्वा परिपूज्य प्रयत्नतः ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं व्रजेत्तु सः ।।३७।।
वसुदेवेन देवक्या गर्भस्य रक्षणाय च ।।
कृतमेकान्तशयनं महापातकनाशनम् ।। ३८ ।।
ततो नारायणस्थानं प्रविशेन्मुक्तिहेतवे ।।
परिक्रम्य ततो देवान्नारायणपुरोगमान् ।। ३९ ।।
दृष्ट्वा ततः सुविज्ञाप्य गणं विधिविनायकम् ।।
कुब्जिकां वामनां चैव ब्राह्मण्यौ कृष्णपालिते ।। 160.४० ।।
अनुज्ञाय ततः स्थानं द्रष्टुं गर्त्तेश्वरं शिवम् ।।
दृष्टमात्रेण तत्रैव यात्राफलमवाप्यते ।। ४१ ।।
महाविद्येश्वरी देवी आरक्षं पापकं हरेत् ।।
क्षेत्रस्य रक्षणार्थं हि यात्रायाः सिद्धिदां नृणाम् ।। ४२ ।।
प्रभा मल्ली च तत्रैव दृष्ट्वा कामानवाप्नुयात् ।।
महाविद्येश्वरी देवी कृष्णरक्षार्थमुद्यता ।। ४३ ।।
नित्यं सन्निहिता तत्र सिद्धिदा पापनाशिनी ।।
कृष्णेन बलभद्रेण गोपैः कंसं जिघांसुभिः ।। ४४ ।।
सङ्केतकं कृतं तत्र मन्त्रनिश्चयकारकम् ।।
तदा संकेतकैः सा च सिद्धा देवी प्रतिष्ठिता ।। ४५ ।।
सिद्धिप्रदा भोगदा च तेन सिद्धेश्वरी स्मृता ।।
संकेतकेश्वरीं चैव दृष्ट्वा सिद्धिमवाप्नुयात् ।। ४६ ।।
तत्र कुण्डं स्वच्छजलं महापातकनाशनम् ।।
ततो दृष्ट्वा महादेवं गोकर्णेश्वरनामतः ।। ४७ ।।
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।।
सरस्वतीं नदीं दृष्ट्वा ततो भद्राणि पश्यति ।। ४८ ।।
विघ्नराजं ततो गच्छेद्गणेशं विघ्ननायकम् ।।
सर्वसिद्धिप्रदं रम्यं दर्शनाच्च फलं लभेत् ।। ४९ ।।
गंगा साध्वी च तत्रैव महापातकनाशिनी ।।
दृष्ट्वा स्पृष्ट्वा तथा ध्यात्वा सर्वकामान्समश्नुते ।।160.५०।।
महादेवमुखाकारं नाम्ना रुद्रमहालयम् ।।
क्षेत्रपं तं परं दृष्ट्वा क्षेत्रवासफलं लभेत् ।। ५१।।
तस्मादुत्तरकोटिं च दृष्ट्वा देवं गणेश्वरम् ।।
द्यूतक्रीडा भगवता कृता गोपजनैः सह ।। ५२ ।।
नानापहासरूपेण जिता गोप्यो धनानि च ।।
गोपैरानीय ताश्चैव कृष्णाय च निवेदिताः ।।५३ ।।
गोपालकृष्णगमनं महापातकनाशनम् ।।
समस्तं बालचरितं भ्रमणं च यथासुखम् ।।५४।।
कृतं तत्र यथारूपं यद्रूपं च यथा तथा ।।
ऋषिभिः सेवितं ध्यातं विष्णोर्माहात्म्यमुत्तमम् ।।५५।।
ततो गच्छेन्महातीर्थं विमलं यमुनाम्भसि ।।
स्नात्वा पीत्वा पितॄंस्तर्प्य नाम्ना रुद्रमहालयम् ।। ५६ ।।
गार्ग्यतीर्थे महापुण्ये नरस्तत्र तथा क्रमेत् ।।
भद्रेश्वरे महातीर्थे सोमतीर्थे तथैव च ।। ५७ ।।
स्नात्वा सोमेश्वरं देवं दृष्ट्वा यात्राफलं लभेत् ।।
सरस्वत्याः सङ्गमे च देवर्षिपितृमानवान् ।। ५८ ।।
सन्तर्प्य विधिवद्दत्त्वा विष्णुसायुज्यमाप्नुयात् ।।
घण्टाभरणके तद्वत्तथा गरुडकेशवे ।। ५९ ।।
धारालोपनके तद्वद्वैकुण्ठे खण्डवेलके ।।
मन्दाकिन्याः संयमने असिकुण्डे तथैव च ।। 160.६० ।।
गोपानां तीर्थके चैव तथा वै मुक्तिकेश्वरे ।।
वैलक्षगरुडे चैव महापातकनाशने ।। ६१ ।।
तीर्थान्येतानि पुण्यानि यथा विश्रान्तिसंज्ञकम् ।।
एषु तीर्थेषु क्रमितो भक्तिमांश्च जितेन्द्रियः ।। ६२ ।।
देवान्पितॄन् समभ्यर्च्य ततो देवं प्रसादयेत् ।।
अविमुक्तेश देवेश सप्तर्षिभिरभिष्टुत ।। ६३ ।।
मथुराक्रमणीयं मे सफलं स्यात्तवाज्ञया ।।
इत्येवं देवदेवेशं विज्ञाप्य क्षेत्रपं शिवम् ।। ६४ ।।
विश्रान्तिसंज्ञके स्नानं कृत्वा च पितृतर्पणम् ।।
गतश्रमं परिक्रम्य स्तुत्वा दृष्ट्वा प्रणम्य च ।। ६५ ।।
सुमङ्गलां ततो गच्छेद्यात्रासिद्धिं प्रसादयेत् ।।
सर्वमङ्गलमांगल्ये शिवे सर्वार्थसाधिके ।। ६६ ।।
यात्रेयं त्वत्प्रसादेन सफला मे भवत्विति ।।
पिप्पलादेश्वरं देवं पिप्पलादेन पूजितम् ।। ६७ ।।
विश्रान्तस्तु परिक्रम्य त्रातस्तत्र महातपाः ।।
उपलिप्य ततस्तस्य शीर्षोपरि महच्छिवम्।। ६८ ।।
स्वनाम्ना चिह्नितं स्थाप्य तदा यात्राफलं लभेत् ।।
कर्कोटकं तथा नागं महादुष्टनिवारणम् ।। ६९ ।।
दृष्ट्वा गच्छेत्ततो देवीं या कृष्णेन विनिर्मिता ।।
कंसभेदं प्रथमतः श्रुतं यत्र कुमन्त्रितम् ।। 160.७० ।।
सुखवासं च वरदं कृष्णस्याक्लिष्टकर्मणः ।।
सुखासीनं च तत्रैव स्थापितं शकुनाय वै ।। ७१ ।।
स्वानुकूलः स्वरो यत्र प्रवेशे दक्षिणः स्वनः ।।
ध्याता स्वभावे कृष्णेन स्वसा सातिसुखप्रदा ।। ७२ ।।
भयार्तेन च कृष्णेन ध्याता देवी च चण्डिका ।।
स्थापिता सिद्धिदा तत्र नाम्ना चार्त्तिहरा ततः ।।७३।।
दृष्ट्वा सर्वार्त्तिहरणं यस्या देव्याः सुखी नरः ।।
अग्रोत्तरं शुभवरं शकुनार्थं च याचतः ।। ७४ ।।
कृष्णस्य कंसघातार्थं संभूता सा तथोत्तरे ।।
तां दृष्ट्वा मनुजः कामान्सर्वानिष्टानवाप्नुयात् ।। ७५ ।।
वज्राननं ततो ध्यात्वा कृष्णो मल्लजिघांसया।।
निहत्य मल्लान्पश्चाद्धि वज्राननमकल्पयत्।। ७६ ।।
वाञ्छितार्थफलं चक्रे कृष्णेनास्य मनोरथान्।।
यस्यै यस्यै देवतायै तस्यै तस्यै ददौ मखम्।।७७।।
उपयाचितं तु माङ्गल्यं सर्वपापहरं शुभम्।।
कृष्णस्य बालचरितं महापातकनाशनम् ।। ७८ ।।
सूर्यं तं वरदं देवं माथुराणां कुलेश्वरम् ।।
दृष्ट्वा तत्रैव दानं च दत्त्वा यात्रां समापयेत् ।। ७९ ।।
एवं प्रदक्षिणं कृत्वा नवम्यां शुक्लकौमुदे ।।
सर्वं कुलं समादाय विष्णुलोके महीयते ।। 160.८० ।।
क्रमतः पदविन्यासाद्यावन्तः सर्वतो दिशः ।।
तावन्तः कुलसंभूताः सूर्ये तिष्ठन्ति शाश्वते ।। ८१ ।।
ब्रह्मघ्नश्च सुरापश्च चौरा भग्नव्रताश्च ये ।।
अगम्यागमने शीलाः क्षेत्रदारापहारकाः ।। ८२ ।।
मथुराक्रमणं कृत्वा विपाप्मानो भवन्ति ते ।।
अन्यदेशागतो दूरात्परिभ्रमति यो नरः ।। ८३ ।।
तस्य सन्दर्शनादन्ये पूताः स्युर्विगतामयाः ।।
श्रुतं यैश्च विदूरस्थैः कृतयात्रं नरं नरैः ।।८४।।
सर्वपापविनिर्मुक्तास्ते यान्ति परमं पदम् ।।८५।।
इति श्रीवराहपुराणे मथुरा परिक्रमप्रादुर्भावो नाम षष्ट्यधिकशततमोऽध्यायः ।। १६० ।।