वराहपुराणम्/अध्यायः १५९

विकिस्रोतः तः
← अध्यायः १५८ वराहपुराणम्
अध्यायः १५९
[[लेखकः :|]]
अध्यायः १६० →

अथ मथुराप्रदक्षिणा विध्यादिकम् ।।
धरण्युवाच ।।
श्रुतं सुबहुशो देव तीर्थानां गुणविस्तरम् ।।
प्रोच्यमानं तु पुण्याख्यं त्वत्प्रसादाज्जनार्दन ।। १ ।।
न दानैर्न तपोभिश्च न यज्ञैस्तादृशं फलम्।।
भूमेः प्रदक्षिणायाश्च यादृशं तीर्थसेवया ।। २ ।।
भुवश्च चतुरन्तायास्तीर्थप्रक्रमणं हरे ।।
सर्वतीर्थाभिगमनमस्ति दुर्गतरं नृणाम् ।। ३।।
अस्ति कश्चिदुपायोऽत्र येन सम्यगवाप्यते ।।
प्रसादसुमुखो भूत्वा तत्सर्वं कथयस्व मे ।। ४ ।।
श्रीवराह उवाच ।।
भद्रे शृणु महत्पुण्यं पृथिव्यां सर्वतोदिशम् ।।
परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम् ।।५।।
भूम्याः परिक्रमे सम्यक्योजनानां प्रमाणकम् ।।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।। ६ ।।
तीर्थान्येतानि देवाश्च तारकाश्च नभस्थले ।।
गणितानि समस्तानि वायुना जगदायुषा ।। ७ ।।
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च ।।
जाम्बवत्याश्च पुत्रेण रावणेन हनूमता ।।८।।
एतैरनेकधा देवैः ससागरवना मही ।।
क्रमिता बलिना चैव बाह्यमण्डलरेखया ।। ९ ।।
अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना ।।
तथा च पूर्वं देवेन्द्रैः पंचभिः पाण्डुनन्दनैः ।।159.१०।।
योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि ।।
क्रमिता न क्रमिष्यन्ति न पूर्वे नापरे जनाः ।।११।।
अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः ।।
मनसापि न शक्यंते गमनस्य च का कथा ।। १२ ।।
सप्तद्वीपे च तीर्थानां भ्रमणाद्यत्फलं भवेत् ।।
प्राप्यते चाधिकं तस्मान्मथुरायाः परिक्रमे।। १३ ।।
मथुरां समनुप्राप्य यस्तु कुर्यात्प्रदक्षिणम् ।।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।।१४।।
तस्मात्सर्वप्रयत्नेन सर्वकामानभीप्सुभिः।।
कर्त्तव्या मथुरां प्राप्य नरैः सम्यक्प्रदक्षिणा ।।१५।।
धरण्युवाच ।।
यथाविधानक्रमणं मथुरायामवाप्यते ।।
प्रदक्षिणाफलं सम्यगनुक्रमविधिं वद।।१६।।
श्रीवराह उवाच ।।
पुरा सप्तर्षिभिः पृष्टो ब्रह्मा लोकपितामहः ।।
इदमेव पुरा प्रोक्तं यथा पृष्टा त्वया ह्यहम् ।।१७।।
श्रुत्वा सर्वपुराणोक्तं तीर्थानुक्रमणं परम् ।।
पृथिव्याश्चतुरन्तायास्तथा तद्वक्तुमुद्यतः ।।१८।।
सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।।
सर्वदानेषु यत्प्रोक्तमिष्टापूर्त्तेषु चैव हि ।। १९ ।।
यत्फलं लभ्यते विप्रास्तस्माच्छतगुणोत्तरम् ।।
प्रक्रमान्मथुरायास्तु सत्यमेतद्वदामि वः ।। 159.२० ।।
इत्युक्त्वा ऋषयो जग्मुरभिवाद्य स्वयम्भुवम् ।।
आगत्य मथुरां देवीमाश्रमांश्चक्रिरे द्विजाः ।। २१ ।।
ध्रुवेण सहिताश्चासन्कामयानास्तु तद्दिनम् ।।
कुमुदस्य तु मासस्य नवम्यां शुक्लपक्षके ।। २२ ।।
मथुरोपक्रमं कृत्वा सर्वपापैः प्रमुच्यते ।। २३ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुराप्रदक्षिणादिकं नामैकोनषष्ट्यधिकशततमोऽध्यायः ।। १५९ ।।