वराहपुराणम्/अध्यायः १५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५७ वराहपुराणम्
अध्यायः १५८
[[लेखकः :|]]
अध्यायः १५९ →

अथ मथुरातीर्थप्रादुर्भावः ।।
श्रीवराह उवाच ।।
विंशतिर्योजनानां तु माथुरं मम मण्डलम् ।।
यत्रतत्र नरः स्नातो मुच्यते सर्वकिल्बिषैः ।।१।।
वर्षाकाले तु स्थातव्यं यच्च स्थानं तु हर्षदम् ।।
पुण्यात्पुण्यतरं चैव माथुरे मम मण्डले ।।२।।
सप्तद्वीपेषु तीर्थानि पुण्यान्यायतनानि च ।।
मथुरायां गमिष्यन्ति प्रसुप्ते तु सदा मयि ।। ३ ।।
सुप्तोत्थितं तु दृष्ट्वा मां मथुरायां वसुन्धरे ।।
ते नरा मां प्रपश्यन्ति सर्वकालं न संशयः ।। ४ ।।
सुप्तोत्थितं तु वसुधे दृष्ट्वा मे मुखपङ्कजम् ।।
सप्तजन्मकृतं पापं तत्क्षणादेव मुञ्चति ।।५।।
मथुरावासिनो लोकाः सर्वे ते मुक्तिभाजनाः ।।
मथुरां समनुप्राप्य दृष्ट्वा देवं तु केशवम् ।। ६ ।।
स्नात्वा पुनस्तु कालिन्द्यां मम लोके महीयते ।।
स तत्फलमवाप्नोति राजसूयाश्वमेधयोः ।। ७ ।।
प्रदक्षिणीकृतो येन मथुरायां तु केशवः ।।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।।८।।
घृतपूर्णेन पात्रेण समग्रेण च वाससा ।।
केशवस्याग्रतो दत्त्वा दीपकं तु वसुन्धरे ।। ९ ।।
पंचयोजनविस्तारमायामं पंच विस्तरम् ।।
दीपमालासमाकीर्णं विमानं लभते नरः ।। 158.१० ।।
सर्वकामसमृद्धं तदप्सरोगणसेवितम् ।।
रम्यमालासमाकीर्णं भोगाढ्यं सर्वकामिकम् ।।११।।
समारोहति वै नित्यं प्रभामण्डलमण्डितम् ।।
ये देवा ये च गन्धर्वाः सिद्धाश्चारणपन्नगाः ।। १२ ।।
तं स्पृहन्ति सदा देवि पुण्यमस्ति कृतं भुवि ।।
यदि कालान्तरे पुण्यं हीयतेऽस्य पुरा कृतम् ।। १३ ।।
सतां पुण्यगृहे देवि जायते मानवो हि सः ।।
धरण्युवाच ।।
क्षेत्रं हि रक्षते देव कस्त्विदं पापनाशनम्।।१४।।
पशुभूतपिशाचैश्च रक्षोभूतविनायकैः ।।
एवमादिभिराकृष्टं तत्क्षेत्रं फलदं भवेत् ।। १५ ।।
श्रीवराह उवाच ।।
मत्क्षेत्रं ते न पश्यन्ति मत्प्रभावात्कदाचन ।।
न विकुर्वन्ति ते दृष्ट्वा मत्पराणां हि देहिनाम् ।। १६ ।।
रक्षार्थं हि मया दत्ता दिक्पालास्तु वरानने ।।
लोकपालास्तु चत्वारस्तीर्थं रक्षन्ति ये सदा ।। १७ ।।
पूर्वां रक्षति इन्द्रस्तु यमो रक्षति दक्षिणाम् ।।
पश्चिमां रक्षते नित्यं वरुणः पाशभृत्स्वयम् ।।१८।।
उत्तरां वै कुबेरस्तु महाबलपराक्रमः ।।
मध्यं तु रक्षते नित्यं शिवो देव उमापतिः ।।१९ ।।
मथुरायां गृहं यस्तु प्रासादं कुरुते नरः ।।
चतुर्भुजस्तु विज्ञेयो जीवन्मुक्तो न संशयः ।।158.२०।।
मथुराया महाभागे कुण्डे च विमलोदके ।।
गम्भीरे सर्वदा देवि तिष्ठते च चतुर्भुजः ।।२१।।
तत्र मुञ्चेत यः प्राणान् स्नानं कृत्वा वसुन्धरे ।।
वैष्णवं लोकमासाद्य क्रीडते स सुखादिव ।।२२।।
तत्रैव तु सदाश्चर्यं कथ्यमानं मया शृणु ।।
यदुच्यते वै सुश्रोणि कुण्डे तु विमलोदके ।। २३ ।।
हेमन्ते तु भवेच्चोष्णं शीतलं ग्रीष्मके भवेत् ।।
तेजसा मम सुश्रोणि तुषारतदृशोपमम् ।। २४ ।।
न वर्द्धते च वर्षासु ग्रीष्मे चापि न हीयते ।।
एतच्च महदाश्चर्यं तस्मिन्कुण्डे परं मम ।।२५।।
पदे पदे तीर्थफलं मथुरायां वसुंधरे।।
तत्र तत्र नरः स्नातो मुच्यते सर्वपातकैः ।। २६ ।।
वर्षासु स्थूलतीर्थेषु स्नातव्यं तु प्रयत्नतः ।।
कूपे ह्रदे देवखाते गर्तेषु च नदीषु च ।।२७।।
प्रवाहेषु च दिव्येषु नदीनां सङ्मेषु च ।।
वर्षासु सर्वतः स्नायाद्यदीच्छेत्परमां गतिम् ।। २८।।
अस्ति क्षेत्रं परं दिव्यं मुचुकुन्दं तु नामतः ।।
मुचुकुंदः स्वपित्यत्र दानवासुरपातनः ।। २९ ।।
तत्र कुण्डे नरः स्नात्वा प्राप्नोत्यभिमतं जलम् ।।
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ।। 158.३० ।।
27
इहजन्मकृतं पापमन्यजन्मकृतं च यत् ।।
शीघ्रं नश्यति तत्सर्वं कीर्त्तनात्केशवस्य तु ।।३१।।
किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने।।
नरके पच्यमानस्य गतिर्देवि जनार्दनः ।। ३२ ।।
कृत्वा प्रदक्षिणं देवि विश्रामं कुरुते तु यः ।।
नारायणसमीपे तु सोऽनन्तफलमश्नुते ।।३३।।
सुप्तोत्थितं हरिं दृष्ट्वा मथुरायां वसुन्धरे ।।
न तस्य पुनरावृत्तिर्जायते स चतुर्भुजः ।। ३४।।
कुमुदस्य तु मासस्य नवम्यां तु वसुन्धरे ।।
प्रदक्षिणीकृत्य भुवं सर्वपापैः प्रमुच्यते ।। ३५ ।।
ब्रह्मघ्नश्च सुरापश्च गोघ्नो भग्नव्रतस्तथा ।।
मथुरां तु परिक्रम्य पूतो भवति मानवः ।। ३६ ।।
अष्टम्यां प्राप्य मथुरां दन्तधावनपूर्वकम् ।।
ब्रह्मचर्येण तां रात्रिं कृतसंकल्पमानसः ।। ३७ ।।
धौतवस्त्रस्तु सुस्नातो मौनव्रतपरायणः ।।
प्रदक्षिणं तु कुर्वीत सर्वपातक नाशनम् ।।३८।।
प्रदक्षिणां प्रकुर्वाणमन्यो यः स्पृशते नरः ।।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ।।३९।।
मथुरायां नरो गत्वा दृष्ट्वा देवं स्वयम्भुवम् ।।
प्रदक्षिणायां यत्पुण्यं तत्पुण्यं लभते नरः ।। 158.४० ।।
देवस्याग्रे तु वसुधे कूपं तु विमलोदकम्।।
पितरश्चाभिनन्दन्ति पानीयं पिण्डमेव च ।।४१।।
चतुःसामुद्रिकं नाम त्रिषु लोकेषु विश्रुतम् ।।
तत्र स्नातो नरो भद्रे देवैश्च सह मोदते ।। ४२ ।।
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ।।४३ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रभावो नामाष्टपंचाशदधिकशततमोऽध्यायः ।। १५८ ।।