सामग्री पर जाएँ

वराहपुराणम्/अध्यायः १५७

विकिस्रोतः तः
← अध्यायः १५६ वराहपुराणम्
अध्यायः १५७
[[लेखकः :|]]
अध्यायः १५८ →

अथ मलयार्जुनतीर्थादिस्नानादिप्रशंसा ।।
श्रीवराह उवाच ।।
यमुनापारमुल्लङ्घ्य तत्रैव च महामुने ।।
मलयार्जुनकं तीर्थं कुण्डं तत्र च विद्यते ।। १ ।।
पर्यस्तं तत्र शकटं भिन्नभाण्डकुटीघटम् ।।
तत्र स्नानोपवासाभ्यामनन्तं फलमश्रुते ।। २ ।।
द्वादश्यां शुक्लपक्षस्य ज्येष्ठमासे वसुन्धरे ।।
तत्र स्नानेन दानेन महापातकनाशनम् ।। ३ ।।
ज्येष्ठस्य शुक्लद्वादश्यां स्नात्वा सुनियतेन्द्रियः ।।
मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ।। ४ ।।
यमुनासलिले स्नातः शुचिर्भूत्वा जितेन्द्रियः ।।
समभ्यर्च्याच्युतं सम्यक्प्राप्नोति परमां गतिम् ।। ५ ।।
अपि चास्मत्कुले जातः कालिन्दीसलिले प्लुतः ।।
अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ।। ६ ।।
इति गायन्ति पितरः परलोकगताः सदा ।।
द्वादश्यां ज्येष्ठमासे तु समभ्यर्च्य जनार्दनम् ।। ७ ।।
धन्योऽसौ पिण्डनिर्वापं यमुनायां करिष्यति ।।
तत्रैव तु महातीर्थे वने बहुलसंज्ञके ।। ८ ।।
तत्र स्नातो नरो देवि रुद्रलोके महीयते ।।
द्वादश्यां चैत्रमासे तु शुक्लपक्षे वसुन्धरे ।। ९ ।।
तत्र स्नातो नरो याति मम लोकं न संशयः ।।
अस्ति भाण्डह्रदं नाम परपारेषु दुर्ल्लभम् ।। 157.१० ।।
दृश्यन्तेऽहरहस्तत्र आदित्याः शुभकारिणः ।।
तत्र चार्कस्थले कुण्डे स्नानं यः कुरुते नरः ।। ११ ।।
सर्वपापविनिर्मुक्तः सूर्यलोकं व्रजेन्नरः ।।
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ।। १२ ।।
अर्कस्थलसमीपे तु कूपं तु विमलोदकम् ।।
सप्तसामुद्रिकं नाम देवानामपि दुर्ल्लभम् ।। १३ ।।
तत्र स्नानेन वसुधे स्वच्छन्दगमनालयः ।।
अथात्र मुंचते प्राणान्मम लोकं स गच्छति ।। १४ ।।
तत्र वीरस्थलं नाम क्षेत्रं गुह्यं परं मम ।।
आसन्नसलिलं चैव पद्मोत्पलविभूषितम् ।। १९ ।।
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः ।।
स मत्प्रसादात्सुश्रोणि वीरलोके महीयते ।। १६ ।।
अथाऽत्र मुञ्चते प्राणान्ममलोकं स गच्छति ।।
कुशस्थलं च तत्रैव पुण्यं पापहरं शुभम् ।। १७ ।।
तत्र स्नातो नरो देवि ब्रह्मलोके महीयते।।
अथात्र मुंचते प्राणान्मम लोकं स गच्छति ।।१८।।
तत्र पुष्पस्थलं नाम शिवक्षेत्रमनुत्तमम् ।।
तत्र स्नानेन मनुजः शिवलोके महीयते ।। १९ ।।
ख्याता एते पञ्च देशा महापापविनाशनाः ।।
तेषु स्नानेषु वसुधे ब्रह्मणा सह मोदते ।।157.२०।।
तत्र गोपीश्वरो नाम महापातकनाशनः ।।
कृष्णस्य रमणार्थं हि सहस्राणि च षोडश ।। २१ ।।
गोप्यो रूपाणि चक्रे च तत्र क्रीडनके हरिः ।।
यदा बालेन कृष्णेन भग्नार्जुनयुगं तथा ।।२२।।
शकटं च तदा भिन्नं घटभाण्डकुटीरकम् ।।
ताभिस्तत्रैव गोविन्दं क्रीडन्तं च यदृच्छया ।। २३ ।।
परिष्वज्य हि धर्मेण व्याजेन च सुगोपितम् ।।
मातलिस्तत्र चागत्य देवैरुक्तं यथोदितम् ।। २४ ।।
गोपवेषधरं देवमभिषेकं चकार ह ।।
आनीय सप्त कलशान्रत्नौषधिपरिप्लुतान् ।। २९ ।।
गोपीमण्डलपातेन स्नापितो हेमकुण्डलः ।।
गोप्यो गायन्ति नृत्यन्ति कृष्ण कृष्ण इति ब्रुवन् ।। २६ ।।
तत्र गोपीश्वरं देवं मातलिः स्थाप्य पूजितम् ।।
कूपं च स्थापयामास मांगल्यैः कलशैः शुभैः ।। २७ ।।
सप्तसामुद्रिकं नाम कूपं तु विमलोदकम् ।।
देवस्याग्रे तु वसुधे गोपा यस्य महात्मनः ।। २८ ।।
पितरश्चापि नन्दन्ति पानीयं पिण्डमेव च ।।
सप्तसामुद्रिके कूपे यः श्राद्धं संप्रदास्यति ।।२९।।
पितरस्तारितास्तेन कुलानां सप्तसप्ततिः ।।
सोमवारे त्वमायां वै पिण्डदानं करोति यः ।। 157.३० ।।
पितरस्तस्य तृप्यन्ति कोटिवर्षशतान्यलम् ।।
गोविन्दस्य च देवस्य तथा गोपीश्वरस्य च ।। ३१ ।।
मध्ये तु मरणं यस्य शक्रस्यैति सलोकताम् ।।
तथा बहुलरुद्रस्य गोविन्दस्यैव मध्यतः ।।३२।।
तद्वद्ब्रह्माणमाशास्य गोपीशस्यैव मध्यतः ।।
एतेषु स्नानदानेन पिण्डपातेन भामिनि ।। ३३ ।।
नरस्तारयते पुंसां दश पूर्वान्दशापरान् ।।
एषु स्नातो नरो देवि देवैश्च सह मोदते ।। ३४ ।।
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति।।
वसुपत्रं महातीर्थं पुण्यं परममुत्तमम् ।। ३५ ।।
मथुरादक्षिणे पार्श्वे क्षेत्रं फाल्गुनकं तथा ।।
तत्र स्नात्वा च पीत्वा च परलोके महीयते ।। ३६ ।।
तत्र फाल्गुनके चैव तीर्थे परमदुर्ल्लभे ।।
वृषभाञ्जनकं नाम क्षेत्रं मे दुर्ल्लभं महत् ।। ३७ ।।
तत्राभिषेकं यः कुर्यात्स देवैः सह मोदते ।।
तत्र यो मुञ्चते प्राणान्मम लोकं स गच्छति ।। ३८ ।।
अस्ति तालवनं नाम धेनुकासुररक्षितम् ।।
मथुरापश्चिमे भागे अदूरादर्द्धयोजनम् ।। ३९ ।।
तत्र कुण्डं स्वच्छजलं नीलोत्पलविभूषितम् ।।
तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ।। 157.४० ।।
अस्ति संपीठकं नाम अस्मिन् क्षेत्रे परं मम ।।
तत्र कुण्डं विशालाक्षि प्रसन्नसलिलं शुभम् ।।४१।।
तत्र स्नानं च ये कुर्युरेकरात्रोषिता नराः।।
अग्निष्टोम फलं चैव लभन्ते नात्र संशयः ।। ४२ ।।
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ।।
देवकीगर्भसंभूतो वसुदेवगृहे शुभे ।। ४३ ।।
तत्र पुण्येन हि मया रविराराधितः शुभः ।।
लब्धः प्राज्ञो मया पुत्रो रूपवांश्च गुणान्वितः ।।४४।।
तत्रैवं तु ततो दृष्टः पद्महस्तो दिवाकरः ।।
मासि भाद्रपदे देवी तिग्मतेजा विभावसुः ।।४५।।
सप्तम्यां कृष्णपक्षस्य रविस्तिष्ठति सर्वदा ।।
तस्मिन्नहनि यः स्नानं कुर्यात्कुण्डे समाहितः ।।४६।।
न तस्य दुर्ल्लभं लोके सर्वदाता दिवाकरः ।।
आदित्येऽहनि सम्प्राप्ते सप्तम्यां तु वसुन्धरे ।। ४७ ।।
नरो वाप्यथवा नारी प्राप्नोत्यविकलं फलम् ।।
तत्रैव तु तपस्तप्तं राज्ञा शन्तनुना पुरा ।। ४८ ।।
आदित्यं तु पुरः स्थाप्य प्राप्तो भीष्मो महाबलः ।।
शन्तनुः प्राप्य तं पुत्रं गतो ऽसौ हस्तिनापुरम् ।।४९।।
तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ।। 157.५० ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये मलयार्जुनतीर्थादिस्नानादि प्रशंसा नाम सप्तपञ्चाशदधिकशततमोध्यायः ।। १५७ ।।