लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ७

विकिस्रोतः तः
← सर्गः ६ लघुयोगवासिष्ठः
सर्गः ७
[[लेखकः :|]]
सर्गः ८ →

वेतालोपाख्यानम्।।
सप्तमः सर्गः।।
वसिष्ठ उवाच।।
सुषुप्तमौनवान्भूत्वा त्यक्त्वा चित्तविलासिताम्।
कलनामलिनिर्मुक्तस्तिष्ठावष्टब्धतत्पदः।।[6-7-1]
पूर्वमेषा जन्मपरम्परा स्वसंकल्परूपभ्रान्तिसिद्धेति निदर्शयितुं शतरुद्राख्यानमुक्तम्। इदानीं सौषुप्तमौनसंपादकं कर्कटीप्रश्नसङ्घवद्दुर्घटो वेतालप्रश्नसङ्घो निरूप्यते-सुषुप्तेति।। चित्तविलासितां संकल्पादिरूपं चित्तविलासं त्यक्त्वा कलनामलनिन्मुक्तः वासनारूपमलरहितः सुषुप्तमौनवान् वक्ष्यमाणलक्षणसुषुप्तमौनयुक्तो भूत्वा अवष्टब्धतत्पदः अवलम्बितब्रह्मभावस्तिष्ठ।।
राम उवाच।।
वाङ्मौनमक्षमौनं च काष्ठमौनं चि वेद्म्यहम्।
सुषुप्तमौनं मौनेश ब्रह्मन्ब्रूहि किमुच्यते।।[6-7-2]
वसिष्ठ उवाच।।
द्विविधः प्रोच्यते राम मुनिर्मुनिवरैरिह।
एकः काष्ठतपस्वी स्याज्जीवन्मुक्तस्तथेतरः।।[6-7-3]
वागिति।। वाङ्मौनादीनां लक्षणं वक्ष्यते। हे मौनेश मुनीनां समूहो मौनं तस्येश। मुनिश्रेष्ठेत्यर्थः।।[6-7-2,3]
अभावितायां शुष्कायां क्रियायां बद्धनिश्चयः।
हठाज्जितेन्द्रियग्रामो मुनिः स्यात्काष्ठतापसः।।[6-7-4]
अभावितायां ब्रह्मभावनारहितायां अतश्च शुष्कायां नीरसायां क्रियायां प्राणायामादिरूपायां बद्धनिश्चयः सन् हठयोगाज्जितेन्द्रियग्रामो मुनिः काष्ठतापसः स्यात्।।
यथा भूतमिदं बुद्ध्वा भावितात्मात्मनि स्थितः।
लोकोपमोऽपि तृप्तोऽन्तर्यः स मुक्तो मुनिः स्मृतः।।[6-7-5]
यथेति।। यो मुनिः इदं जगद्यथा भूतं तथा बुद्ध्वा ब्रह्मैवेदं सर्वमिति निश्चित्य भावितात्मा ब्रह्मैवाहमिति निश्चितात्मतत्त्वः आत्मनि स्थितः स्वरूपमेवानुसंदधानो व्यवहारमात्रेण लोकोपमोऽपि अन्तःस्वरूपसुखानुभवात्तृप्तस्तिष्ठति स मुनिर्जीवन्मुक्तः स्मृतः।।
एतयोर्योऽभवद्भावः शान्तयोर्मुनिनाथयोः।
चित्तनिश्चयरूपात्मा मौनशब्देन कथ्यते।।[6-7-6]
उभयानुगतं सामान्यलक्षणमाह-एतयोरिति।। शान्तयोर्निर्विकारचित्तयोरेतयोः प्रकृतयोः प्रवृत्तयोर्मुनिनाथयोः चित्तनिश्चयरूपात्मा योगेन तत्त्वज्ञानेन वा यश्चित्तस्य निश्चय एकनिष्ठता तद्रूप आत्मा स्वभावो यस्य तादृशो भावोऽभिप्रायो मौनशब्देन कथ्यते।।वाङ्मौनं वचसां रोधो बालादिन्द्रियनिग्रहः।
अक्षमौनं परित्यागश्चेष्टानां काष्ठसंज्ञकम्।।[6-7-7]
सुषुप्तमौननिरूपणाय प्रथमं मौनान्तराणि लक्षयन्नाह-वागिति।। वचसां निरोधाज्जातं वाङ्मौनं बलाद्धठयोगवशाच्चक्षुरादिन्द्रियनिग्रहोऽक्षमौनम्। तद्वशादेव चेष्ठानां शरीरतदवयवक्रियाणां परित्यागः काष्ठमौनम्।।
प्रस्फुरच्चित्तकलनमेतन्मौनत्रयं स्थितम्।
एतेषां हठमौनानां विषयः काष्ठतापसः।।[6-7-8]
प्रस्फुरदिति।। एतत्पूर्वोक्तं मौनत्रयं प्रस्फुरच्चित्तकलनं विलसच्चित्तवासनं स्थितम्। अत एतेषां हठमौनानां काष्ठताः पस एव विषय आश्रयो न जीवन्मुक्त इत्यर्थः।।
अविभागमनायासं यदनाद्यन्तमास्थितम्।
ध्यायतोऽध्यायतश्चैव सौषुप्तं मौनमुच्यते।।[6-7-9]
अथ चतुर्भिश्लोकैः सुषुप्तमौनमाह-अविभागमिति।। धअयायतोऽध्यायतो वा अन्तर्मुखस्य बहिर्मुखस्य वा मुनेरविभागं अविद्यमानजाग्रदादिविभागं अनायासं अविद्यमानकर्मेन्द्रियनिरोधक्लेशं अनाद्यन्तं उपक्रमोपसंहाररहितं यदास्थितं ब्रह्मनिष्ठत्वं एतत्सौषुप्तं सुषुप्तिसंभवं मौनं उच्यते। महायोग एव सुषुप्तमौनमित्यर्थः। यदाह सर्व5योगी-`प्रपञ्चस्य भानेऽप्यभाने समं यन्न वा विद्ययाऽविद्ययाऽविद्ययालिङ्गिताङ्गम्। तदात्मस्वरूपं तदानन्दसान्द्रं परंब्रह्मभावं महायोगमाहुः' इति। यथाच शैवे-`शिवः स्वभाव एवैकश्चिन्त्यते निरुपाधिकः। यया सैव मनोवृत्तिर्महायोग इहोच्यते' इति।।
यथाभूतमिदं बुद्ध्वा जगन्नानात्वविभ्रमम्।
यदास्थितमसंदेहं सौषुप्तं मौनमुच्यते।।[6-7-10]
यथेति।। नानात्वविभ्रमं नानात्वेन परिभ्रान्तमिदं जगद्यथाभूतं येन प्रकारेण निष्पन्नं तं प्राकरं बुद्ध्वा ब्रह्मण्यध्यस्तत्वात्तदात्मकं निश्चित्य असंदेहं निर्विकल्पं यद्ब्रह्मभावेनास्थितं तच्च सौषुप्तं मौनमेव। क्वचित्तु सौषुप्तं मौनसंगतमिति पाठः। तत्र मौनसंगतं मौनसंस्थानं मौनस्य प्रकारमित्यर्थः।।
अनेकसंविद्रूपात्म शिवमेवेदमाततम्।
इत्यास्थितमनन्तं यत्सौषुप्तं मौनमुच्यते।।[6-7-11]
अनेकेति।। इदं जगत् अनेकसंविद्रूपात्म अनेकसंविद्रूपा आत्मानः स्वभावा यस्य तादृशमाततं व्याप्तं शिवं ब्रह्मैवेति यदनन्तं निरवधिकमास्थितं ब्रह्मनिष्ठत्वं तत्सौषुप्तं मौनमुच्यते।।
आकाशं नैव चाकाशं सर्वमस्ति च नास्ति च।
इति स्थितं समं शान्तं यत्तन्मौनं सुषुप्तवत्।।[6-7-12]
आकाशमिति।। सर्वं जगत् आकाशं चिदाकाशविवर्तत्वादाकाशं नैव मूर्तिमत्त्वात् तथास्ति च अधिष्ठानसत्तायाः सद्रूपेण प्रतीतेः नास्ति च कल्पितत्वात् इति जगतो ब्रह्मव्यतिरेकेण नास्तित्वं निश्चित्य सममेकाकारं शान्तं निर्विकारं यत्स्थितं या निष्ठा तत्सुषुप्तवन्मौनम्। सुषुप्ततुल्यं मौनमित्यर्थः।।
सुषुप्तमौनं योगीशैर्द्विविधैः प्राप्यते खलु।
सांख्ययोगिन एके स्युरपरे योगयोगिनः।।[6-7-13]
सुषुप्तेति।। सांख्ययोगिनो योगयोगिनश्च वक्ष्यन्ते।।
सम्यग्ज्ञानावबोधेन सुसुद्धैकसमाधिनः।
संख्ययैवावबुद्ध्येयुस्ते सांख्या योगिनः स्मृताः।।[6-7-14]
सम्यगिति।। सम्यग्ज्ञानाबोधेन तत्त्वज्ञानोदयेन सुसिद्धो य एकसमाधिः एतस्मिन्नद्वितीये ब्रह्मणि चित्तविश्रान्तिस्तदुपलक्षिता ये योगिनः ते संख्ययैव सम्यग्ज्ञानेनैवावबुद्धा इति कृत्वा सांख्ययोगिनः स्मृताः।।
प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः।
अनामयमनाद्यन्तं ते स्मृता योगयोगिनः।।[6-7-15]
प्राणादीति।। ये तु युक्त्या आष्टाङ्गयोगेन प्राणादीनामनिलानां संशान्तो सत्यां अनामयमनाद्यन्तं च पदमागतास्ते योगयोगिनः स्मृताः।।
उपादेयं तु सर्वेषां शान्तं पदमकृत्रिमम्।
यत्सांख्यैः प्राप्यते स्थानं परं योगैस्तदेव हि।।[6-7-16]
उपादेयमिति।। शान्तमकृत्रिमं पदमेव सर्वेषां योगिनामुपादेयं अतो हेतोः सांख्यैर्योगिमिर्यत्स्थानं प्राप्यते योगैरपि तत्परं स्थानं प्राप्यते।।
यत्र प्राणमनोवृत्तिरत्यन्तं नोपलभ्यते।
वासनावागुराक्रान्ता तद्विद्धि परमं पदम्।।[6-7-17]
किं तत्पदमित्यत्राह-यत्रेति।। यत्र यस्मिन्पदे वासनावागुराक्रान्ता वासनैव वागुरा बन्धकत्वात् तया आक्रान्ता व्याप्ता प्राणमनसोर्वृत्तिर्व्यापारः अत्यन्तं सम्यङ्नोपलभ्यते तदेवात्मस्वरूपं परमं पदं विद्धि परब्रह्मस्वरूपं विद्धि।।
मनो मुधैवाभ्युदितमसदेवानवेक्षणात्।
स्वप्ने स्वमरणाकारं प्रेक्षमाणं न विद्यते।।[6-7-18]
मन इति।। मनस्तावद्वस्तुतोऽसदेव अनवेक्षणादविचारान्मुधैव स्वप्ने मरणप्रत्ययवदुत्थितं अतः प्रेक्षमाणं विचार्यमाणं सन्न विद्यते। अविचारसिद्धस्य विचारेण निवृत्तिर्युक्तैवेति भावः।।
एकतत्त्वघनाभ्यासः प्राणानां विलयस्तथा।
मनोविनिग्रहश्चेति मोक्षशब्दार्थसंग्रहः।।[6-7-19]
एकेति।। एकतत्त्वघनाभ्यासः एकस्यैव स्वाभिमतस्य तत्त्वस्य निरन्तरमनुसंधानं तथा प्राणानां विलयः मनोनिग्रहश्चेति त्रितयमेव मोक्षशब्दस्य संग्रहः। अत एतावदेव मोक्षसाधनमित्यर्थः।।
एकार्थाभ्यसनप्राणरोधचित्तपरिक्षयाः।
एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम्।।[6-7-20]
एकेति।। एकतत्त्वाभ्यासादीनां त्रयाणां मध्ये एकस्मिन्नपि सिद्धे इतरे अपि सिद्ध्यन्तीत्यर्थः।।
अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी।
कुसुमामोदवन्मिश्रे तिलतैल इव स्थिते।।[6-7-21]
अविनाभाविनी इति श्लोकद्वयं वाक्यम्।। जन्तूनां प्राणचेतसी कर्तृणी अविनाभावित्वात्तिलतैलवत् कुसुमामोदवदादाराधेयवच्च मिश्रे परस्परसंगते एव स्थिते।।
आधाराधेयवच्चैव एकाभावे विनश्यतः।
कुरुतश्च स्वनाशेन कार्यं मोश्राख्यमुत्तमम्।।[6-7-22]
अतो हेतोरेकस्याभावे द्वे अपि नश्यतः स्वनाशेन कारणेन मोक्षाख्यमुत्तमं कार्यं कुरुतश्च।।
एकस्मिन्सुदृढे तत्त्वे तावद्भावं विभावयेत्।
भावो भावत्वमायाति स्वाभ्यासाद्यावदाततम्।।[6-7-23]
एकस्मिन्निति।। सुदृढे प्रामाणिके एकस्मिंस्तत्त्वे तावद्भावं चित्तवृत्तिं विभावयेत्। यावत्स्वाभ्यासाद्धेतोराततं भावत्वं भाव्यमानस्वरूपत्वमायाति।।
यदेकतानां भवति चेतस्तद्भवति क्षणात्।
शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः।।[6-7-24]
वसिष्ठ उवाच।।
संसृतिस्वप्नविभ्रान्तौ वेतालोदाहृतानिमान्।
प्रश्नानाकर्णय शुभान्प्रसङ्गात्स्मृतिमागतान्।।[6-7-25]
यदिति।। चेतः चित्तं यदेकतानं यस्मिन्वस्तुनि एकाग्रं भवति चिराभ्यासस्वभावतः चिरकालानुसंधानवशात् शान्ताशेषविशेषौघं निवृत्तनिखिलभेदं सत् क्षणात्तदेव वस्तु भवति।।[6-7-24,25]
अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः।
सं कंचिन्मण्डलं गर्वादाजगाम जिघांसया।।[6-7-26]
अस्तीति।। मण्डलं देशम्। जिघांसया भक्षणेच्छया।।
स वेतालोऽवसत्पूर्वं कस्मिंश्चित्सज्जनास्पदे।
बहुबल्युपहारेण नित्यतृप्ततया सुखी।।[6-7-27]
बहुबल्युपहारेण मांसादिकल्पितबहुविधबलिसमर्पणेन।।
निर्निमित्तं निरागस्कं पुरोऽप्यभ्यागतं न सः।
क्षुधितोऽपि नरं हन्ति सन्तो हि न्यायदर्शकाः।।[6-7-28]
स कालेनाटवीगेहो जगाम नगरान्तरम्।
न्याययुक्त्या नरं भोक्तुं क्षुधा समभिनोदितः।।[6-7-29]
निर्निमित्तमिति।। स वेतालः क्षुधितोऽपि निरपराधं नरं पुरोऽभ्यागतमपि निर्निमित्तं न हन्ति। हि यस्मात्कारणात्सन्तो विद्वांसः न्यायदर्शका न्यायस्य प्रवर्तकाः। वेतालो ब्रह्मवित्तया अन्यायेन न हन्तीत्यर्थः।।[6-7-28,29]
तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम्।
तमाह घनघोरेण शब्देनोग्रनिशाचरः।।[6-7-30]
वेताल उवाच।।
राजंल्लब्धोऽसि भीमेन वेतालेन मयाधुना।
क्व गच्छसि विनष्टोऽसि भव भोजनमद्य मे।।[6-7-31]
राजोवाच।।
भो रात्रिंचर निर्न्यायं मां चेदत्सि बलादिह।
तत्ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः।।[6-7-32]
वेताल उवाच।।
न त्वमाद्म्यहमन्यायं न्यायोऽयं हि मयोच्यते।
राजासि सकलाशाश्च पूरणीयास्त्वयार्थिनाम्।।[6-7-33]
तत्रेति।। रात्रिचर्याविनिर्गतम्। राजानो हि राज्यस्थितिं विचारयितुमेकाकिनः प्रच्छन्नवेषेण रात्रावटन्ति। तया रात्रिचर्यया विनिर्गतम्।।[6-7-30,31,32,33]
ममैतामर्थना राजन्संभवार्थां प्रपूरयन्।
प्रश्नानिमान्मयोक्तांस्त्वं सम्यगाख्यातुमर्हसि।।[6-7-34]
ममेति।। संभवार्थां संभवदर्थाम्।।
कस्य सूर्यस्य रश्मीनां ब्रह्माण्डानि कृशाणवः।
कस्मिंस्फुरन्ति पवने महागगनरेणवः।।[6-7-35]
स्वप्नात्स्वप्नान्तरं गच्छञ्शतशोऽथ सहस्रशः।
त्यजन्नत्यजति स्वच्छं कः स्वरूपं प्रभास्वरम्।।[6-7-36]
रम्भास्तम्भो यथा पत्रमात्रमेव पुनःपुनः।
अन्तरन्तस्तथान्तश्च तथा कोऽणुः स एव हि।।[6-7-37]
ब्रह्माण्डाकारभूतौ च सूर्यमण्डलमेरवः।
अपरित्यजतोऽणुत्वं कस्याणोः परमाणवः।।[6-7-38]
कस्यानवयवस्यैव परमाणुमहागिरेः।
शिलान्तर्निबिडैकान्तरूपा मज्जा जगत्रयी।।[6-7-39]
वसिष्ठ उवाच।।
इत्युक्तवति वेताले वक्तुं प्रश्नान्विहस्य सः।
उवाच वचनं राजा दन्तांशुधवलाम्बरम्।।[6-7-40]
अथ श्लोकपञ्चकेन वेतालप्रश्नाः-कस्येति।। ते च षडप्युत्तरावसरे स्पष्टीभवन्ति।।[6-7-35,36,37,38,39,40]
राजोवाच।।
एष चित्सूर्य उदितः सर्वमेतत्तपत्यसौ।
विज्ञानात्मैष परमो भास्करो भाविताशयः।।[6-7-41]
तत्र ब्रह्माण्डानि कस्य सूर्यस्य रश्मीनां कृशाणवः सूक्ष्मा लेशा इति प्रश्नोत्तरं श्लोकद्वयेनाह-एष इति।। कस्य सूर्यस्येति पृष्टः सूर्यः चित्सूर्य एवेति भङ्ग्यन्तरेण त्वयोक्तः। यतोऽसौ चित्सूर्य एवैतत्पूर्वं जगत्तपति प्रकाशयति। `तस्य भासा सर्वमिदं विभाति' इति श्रुतेः। एष चित्सूर्य उदित इति क्वचित्पाठः। तत्र उदितः त्वयोक्त इत्ययमेवार्थः। तस्य प्रसिद्धसूर्यवैलक्षण्यमाह। एष विज्ञानात्मा भाविताशयः जीवरूपेण सर्वान्तःकरणप्रवर्तकः परमो भास्करः। भास्करादीनामपि तत्तेजोलेशत्वात्। तदुक्तं गीतासु-`यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इति।।
इमे ये भुवनाभोगास्तस्यैव त्रसरेणवः।
विज्ञानपरमार्कस्य भासा भान्ति भवन्ति च।।[6-7-42]
इमे भुवनाभोगास्तस्यैवविज्ञानपरमार्कस्य त्रसरेणुतुल्या अंशाः तस्यैव भासा भवन्ति च उत्पद्यन्ते प्रलीयन्ते च।।
कालसत्ता नभःसत्ता स्पन्दसत्ताथ चिन्मयी।
शुद्धचेतनसत्ता च सर्वमित्यादि पावनम्।।[6-7-43]
कस्मिन्पवने महागगनादयो रेणवः स्फुरन्तीति द्वितीयप्रश्नं श्लोकद्वयेन विवृणोति-कालेति।। कालसत्ता कालरूपायाः शक्तेः स्फूर्तिः। इत्थं नभःस्फूर्तिः नभःसत्ता। स्पन्दसत्ता स्पन्दस्वभावस्य वायोः सत्ता। अथ चिन्मयी शुद्धचेतनसत्ता केवलचेतनसृष्टिश्च इत्यादिचेतनाचेतनात्मकं पावनं चिद्बिम्बितं रूपम्।।
परमात्ममये वायौ रजः स्फुरति चञ्चलम्।
कुसुमाङ्ग इवामोदस्तदतद्रूपकं स्वतः।।[6-7-44]
चञ्चलं पञ्चभूतानि रजः कुसुमाङ्गे कुसुमावयवेष्वामोदवदुपरमात्ममये वायौ तदतद्रूपमरूपं च स्वतः स्फुरति तत्र। तद्रूपत्वं स्वरूपत्वात् भासमानत्वात् केनचिदाकारेण प्रतीतिहेतुत्वाच्च। अतद्रूपं त्वविकारित्वजडत्वदुःखमयत्वादिभिरिति द्रष्टव्यम्।।
जगदाख्ये महास्वप्ने स्वप्नात्स्वप्नान्तरं व्रजन्।
रूपं त्यजति नो शान्तं ब्रह्म शान्तत्वबृंहितम्।।[6-7-45]
स्वप्नात्स्वप्नान्तरं शतसहस्रशो गच्छन् पूर्वस्वप्नान् त्यजन्नपि स्वच्छं सुभासुरं च स्वरूपं न त्यजतीति तृतीयप्रश्नं श्लोकेन विवृमोति-जगदिति।। जगदेव महास्वप्नः मायामयत्वात् तत्र जन्मानि क्षुद्रस्वप्नाः तादृशान्स्वप्नाननुभवन्नप्यात्मा शान्तत्वबृंहितं ब्रह्मणो निर्विकारस्वरूपे कल्पितं शान्तं रूपं न त्यजति। संसरन्नपि जीवो ब्रह्मभावं न त्यजति संसारस्य कल्पितत्वादिति भावः।।
रम्भास्तम्भो यथा पत्रमात्रमेवोत्तरोत्तरम्।
अन्तरन्तस्तथैवेदं विश्वं ब्रह्म विवर्त्यपि।।[6-7-46]
चतुर्थस्योत्तरमाह-रम्भास्तम्भेति।। रम्भास्तम्भः कदलीस्तम्भः स यथा अन्तरन्तर्विविच्य दृश्यमानः पुनःपुनः पत्रमात्रमेव तथा विवर्त्यपि विचित्रतया वर्तमानमपि विश्वमिदमन्तर्विचार्यमाणं ब्रह्मैव।।
सूक्ष्मत्वादप्यलभ्यत्वात्परमात्मा परोऽणुकः।
अनन्तत्वादसावेव प्राप्तो मेर्वादिमूलताम्।।[6-7-47]
ब्रह्माण्डादयो महान्तोऽपि भावा अणुत्वमपरित्यजन्त एव कस्याणोः परमाणव इति पञ्चमं प्रश्नं सार्धेन श्लोकेन विवृणोति-सूक्ष्मत्वादिति।। परमात्मा सूक्ष्मत्वादिदन्तया ग्रहीतुमशक्यत्वादलभ्यत्वात् प्राप्तुमशक्यत्वाच्च परोऽणुकः परमाणुतुल्यः। असावेव परमात्मा अनन्तत्वाद्देशकालादिभिरपरिच्छिन्नत्वान्मेर्वादिमूलतां परिच्छिन्नस्य मेर्वादेर्मूलतामुपादानत्वं प्राप्तः।।
परमाणुवदाभाति मेर्वादि पुरतोऽस्य तत्।।[6-7-48]
तच्च मेर्वादि वस्तु तस्य परमात्मनः पुरनतः परमाणुवदाभाति। परमात्ममहत्त्वापेक्षया मेर्वादीनामतिसूक्ष्मत्वात्।।
परोऽणुरेषोऽलभ्यत्वात्पूरकत्वान्महागिरिः।
सर्वावयवरूपोऽपि निरस्तावयवः पुमान्।।[6-7-49]
अनवयवस्य परमाणुरूपस्य महागिरेरियं जगत्रयी शिलान्तर्गता निबिडैकान्तरूपा कठिनैकस्वभावा मज्जा सारभूतोंऽश इति षष्ठं प्रश्नं सार्धश्लोकद्वयेन विवृणोति-पर इति।। एष पुमानलभ्यत्वादप्राप्यत्वात्परमाणुशब्दवाच्योऽपि शब्दपूरकत्वात् व्यापकत्वान्महागिरिरपि सर्वावयवरूपोऽपि स्थूलप्रपञ्चाकारतया दृश्यमानोऽपि वस्तुतोऽपि निरस्तावयवः।।
विज्ञप्तिमात्रसारत्वात्सर्वाधिष्ठानरूपिणः।
अस्य विज्ञप्तिमात्रस्य मज्जामात्रं जगत्रयम्।
विज्ञानमात्रमध्यं हि विद्धि साधो जगत्रयम्।।[6-7-50]
इति राजमुखाच्छ्रुत्वा वेतालः शान्तिमाययौ।
भावितात्मतया तत्र विचारोत्थितया तया।।[6-7-51]
उपशान्तवपुर्भूत्वा गत्वैकान्तमनिन्दितम्।
बभूवाविरलध्यानी विस्मृत्य विरलां क्षुधाम्।।[6-7-52]
इति श्रीयोगवासिष्ठसारे मोक्षोपाये निर्वाणप्रकरणे वेतालोपाख्यानं नाम सप्तमः सर्गः।। 7 ।।
सर्वप्रपञ्चाधिष्ठानरूपिणोऽस्य विज्ञप्तिमात्रसारत्वात् विज्ञानमात्रमेव सारोंऽश इति कृत्वा विज्ञप्तिमात्रस्यास्य पुंसो जगत्रयं मज्जामात्रं घनीभूतः सारोंऽश एव। हि यस्मात्कारणाज्जगत्रयं विज्ञानमात्रस्य मध्यं वर्तते अतो मध्यवर्तित्वान्मजाजरूपत्वं युज्यत इति भावः।।[6-7-50,51,52]
इति श्रीवासिष्ठविवरणे निर्वाणप्रकरणे वेतालोपाख्यानं नाम सप्तमः सर्गः।। 7 ।।