सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ६

विकिस्रोतः तः
← सर्गः ५ लघुयोगवासिष्ठः
सर्गः ६
[[लेखकः :|]]
सर्गः ७ →

शतरुद्रोपाख्यानम्।।
षष्ठः सर्गः।।
वसिष्ठ उवाच।।
अथ राघव वक्ष्येऽहमितिहासमिमं शृणु।
यद्वृत्तं कस्यचिद्भिक्षोः किंचिन्मननशालिनः।।[6-6-1]
पूर्वं विवेकिनो युद्धादिरपि चित्तविश्रान्तिबाधको नेति दर्शयितुमर्जुनाख्यायिका वर्णिता। इदानीमेषा जन्मपरम्परा स्वसंकल्परूपभ्रान्तिपरम्परामात्रसिद्धेति। इदानीमेषा जन्मपरम्परा स्वसंकल्परूपभ्रान्तिपरम्परामात्रसिद्धेति दर्शयितुं दृष्टान्ततया शतरुद्राख्यायिका निरूप्यते।।
आसीत्कश्चिन्महाभिक्षुः समाध्याभ्यासतत्परः।
नित्यं स्वव्यवहारेण क्षपयत्यखिलं दिनम्।।[6-6-2]
आसीदिति।। महाभिक्षुः महान्परिव्राट्। व्यवहारेण समाध्यभ्यासप्रभृतिना।।
समाध्यभ्यासशुद्धं तत्तस्य चित्तं क्षणेन यत्।
चिन्तयत्याशु यद्भावं गच्छत्यम्ब्विव वीचिताम्।।[6-6-3]
समाधीति।। समाध्यभ्यासेन शुद्धं निर्मलं तस्य भिक्षोश्चित्तं यच्चिन्तयति भावयति आशु तस्य वस्तुनो भावं स्वरूपं गच्छति तद्रूपं भवति। अम्बु वीचितामिव।।
कदाचिच्च समाधानविरतोऽतिष्ठदेकधीः।
कंचित्संचिन्तयामास स्वासनस्थः क्रियाक्रमम्।।[6-6-4]
कदाचिदिति।।समाधानविरतः समाधेर्व्युत्थितः। क्रियाक्रमं व्यवहारप्रकारम्।।
तस्य चिन्तयतो जाता प्रतिभेयमिति स्वतः।
भावयाम्याशु लीलार्थं सामान्यजनवृत्तिताम्।।[6-6-5]
तस्येति।। चिन्तयतस्तस्य लीलार्थं विनोदार्थं सामान्यजनवृत्तितां सामान्यजनः साधारणजनः तद्वृत्तितां भावयामीति स्वत एवेयं प्रतिभा प्रतिज्ञाविशेषो जातः।।
इति संचिन्त्य चेतोऽस्य स्थितं किंचिन्नरान्तरम्।
स्पन्दसंस्थानसंत्यागमात्रेणावर्ततेऽम्ब्विव।।[6-6-6]
इतीति।। इति पूर्वोक्तप्रकारेण संचिन्त्य तस्य चेतस्तदा चिन्तानुसारेण नरान्तरं पुरुषान्तरमभूत्। तथाहि चेतश्चिन्तावशात्स्पन्दसंत्यागमात्रेण। स्पन्दश्चलनम्। संस्थानसंत्यागः पूर्वसंनिवेशत्यागः। पूर्ववासनात्याग इत्यर्थः। तन्मात्रेणावर्तते नरान्तरं प्रतिपद्यते अम्ब्विव। यथा हि जलं वायुवशाच्चलितं सत्पूर्वसंस्थानत्यागेन तरङ्गादिरूपतामापद्यते तद्वत्।।
तेन चिन्तानरेणाथ कृतं नामात्मवाञ्छया।
जीवटोऽस्मीति सहसा काकतालीयवाञ्छितम्।।[6-6-7]
तेनेति।। तेन चिन्तानरेण चिन्ताकल्पितपुरुषेण स्वयमेवास्मीति जीवटोऽस्मीति काकतालीयवाञ्छितं यदृच्छयाभिमतं न पुनरभिजनविद्यावृत्तादिना प्राप्तं नाम कृतम्। स्वेनैव काचिदुत्पन्ना संज्ञा कल्पितेत्यर्थः।।
जीवटो विजहाराथ स स्वप्नपुरुषश्चिरम्।
स्वप्ननिर्माणनगरे कस्मिंश्चित्पुरवीथिषु।।[6-6-8]
जीवट इत्यादि।। इयमिह जीवटप्रभृतिरुद्रपर्यन्ता बिक्षोः स्वप्नपरम्परा।।
तत्र पानं पपौ मत्तो दमनिद्रामवाप च।
स्वप्ने ददर्श विप्रत्वं पाठानुष्ठानतुष्टिमत्।।[6-6-9]
जीवटः स्वप्ने पाठानुष्ठानतुष्टिमत् वेदसास्त्रपाठेन तदुक्ताचरणेन च तुष्टिमत् कृतकृत्यम्।।
प्रतिभामात्रसंपन्नं चित्ते देशान्तराप्तिवत्।
कदाचित्स द्विजश्रेष्ठस्त्वहर्व्यापारनिष्ठया।।[6-6-10]
सुष्वापान्तर्व्यवहृदिर्बीजावस्थामिव द्रुमः।
द्विजोऽपश्यत्स्वयं स्वप्ने सामन्तत्वमथात्मनिः।।[6-6-11]
प्रतिभासमात्रेणैव संपन्नं विप्रत्वं ददर्श। चित्ते देशान्तराप्तिवत्। तथाहि चित्ते देशाद्देशान्तरमापद्यते तद्वत्। स च द्विजश्रेष्ठः कदाचिदहर्व्यापारनिष्ठया दिवसव्यापारभरेण श्रान्तिहेतुना बीजरूपतां पादप इव।।[6-6-10,11]
स सामन्तः कृताहारः कदाचिद्धननिद्रया।
अपश्यद्राजतां स्वप्ने ककुब्लयपालिनीम्।।[6-6-12]
घननिद्रामागतः स्वप्ने आत्मनि पताकायुक्तहस्त्यश्वादिसेनयैव जलदमालया युक्तं सामन्तत्वं मण्डलेश्वरत्वमपश्यत्। स च सामन्तः स्वप्ने ककुब्वलयपालिनीं निखिलदिङ्भण्डलपालनसमर्थां राजतां चक्रवर्तितामपश्यत्।।
स कदाचिन्नृपः स्वस्थः सुष्वापास्तमितेहितः।
अपश्यत्स्वात्मनि स्वप्ने सुरस्त्रीत्वमनिन्दितम्।।[6-6-13]
स च नृपः सुरस्त्रीत्वम्।।
सा सुरस्त्री रतिश्रान्ता निद्रां गाढामुपागता।
अपश्यदात्मनि स्वप्ने मृगीत्वमतिचञ्चलम्।।[6-6-14]
सा च सुरस्त्री मृगीत्वम्।।
सा मृगी लोलनयना कदाचिन्निद्रया युता।
स्वप्ने ददर्श वल्लीत्वं स्वाभयासाद्रूढमात्मनि।।[6-6-15]
सा मृगी वल्लीत्वम्।।
तिर्यञ्चोऽपि प्रपश्यन्ति स्वप्नं चित्ते स्वभावतः।
दृष्टानां च श्रुतानां च चेतःस्मरणमक्षतम्।।[6-6-16]
ततस्तिर्यञ्चोऽपीत्यर्थान्तरन्यासः। यतो दृष्टानां श्रुतानां च चेतोऽक्षतमनुपहतं स्मरणं स्मृतिः ततो हेतोः संस्कारवशात्तिर्यञ्चोऽपि स्वप्नं पश्यन्ति।।
सा बभूव लता पुष्पफलपल्लवशालिनी।
वनदेवीवनक्रीडालतागृहविलासिनी।।[6-6-17]
सा च लता वनदेवीनां वनक्रीडासु लतागृहवद्विलासिनी विलसन्ती बभूव।।
बीजान्तःस्थाङ्कुराकारसमज्ञेयाधिरूढया।
सापश्यदन्तःसंवित्त्या स्फुटं लम्बनमात्मनः।।[6-6-18]
सा च लता बीजान्तःस्थाङ्कुराकारसमज्ञेयाधिरूढया बीजान्तर्गतस्याङ्कुरस्य य आकारः तत्समेन निगूढेन ज्ञेयवस्तुना अधिरूढया आश्रितया अन्तःसंवित्त्या आत्मनो लतादेहधारिणो लम्बने लताबावोचितं वृक्षादौ क्वचिल्लम्बनामपश्यदिति लतायास्तादृग्दशा दर्शिता।।
कंचित्कालं सुषुप्तस्थकलया जडतां घनाम्।
अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थितम्।।[6-6-19]
अथ सैव लता सुषुप्तस्थकलया सुषुप्तस्थस्य यादृशी कला संवित्तिः तादृश्यैव कलया घनां जडतां निद्रारूपं जाड्यमनुभूय स्वप्ने स्वात्मानं भ्रमरं स्थितं ददर्श।।
स बभूव सरोजिन्यां व्यसनी बिसनालगः।
क्वचिदेव रतिं याति चेतो जडमतेरपि।।[6-6-20]
तामाजगाम नलिनीं परिलोलयितुं गजः।
रम्यवस्तुक्षयायैव मूढानां जृम्भते पदम्।।[6-6-21]
स च भ्रमरः सरोजिन्यां व्यसनी आसक्तः सन् बिसनालगो बभूव। तथाहि जडमतेरपि रसानभिज्ञस्य कृमिकीटादेरपि चेतः क्वचिदेव स्त्रीव्यक्तौ रतिं याति।।[6-6-20,21]
नलिन्या स तया सार्धं तत्र चूर्णत्वमाययौ।
भ्रमरो वारणालोकाद्वारणालोकबावनात्।।[6-6-22]
स च भ्रमरस्तया नलिन्या सार्धं गजेन चूर्ण्यमानस्तद्रूपालोकभावनया।।
ददर्शात्मानमामोदमत्तहस्तितयोदितम्।
शुष्कसागरगम्भीरे गजः खाते पपात ह।।[6-6-23]
आत्मानमामोदमत्तहस्तितया आमोदेन गन्धविशेषेण मत्तो यो हस्ती तद्भावेनोदितं ददर्श। स च गजः केनचिद्राज्ञा खाते गर्ते निपात्य।।
बभूव वल्लभो राज्ञो बध्वा तेनाशु शिक्षितः।
क्वचित्समरसंमर्दे घातितोऽस्तमुपाययौ।।[6-6-24]
बद्धः शिक्षितश्च राजवल्लभो भूत्वा क्वचित्समरे हन्यमानः।।
गण्डस्थभ्रमराभ्यासाद्गजो भूयोऽप्यभूदलिः।
पुनः करिखुराक्रान्त्या पद्मिन्या चूर्णतां ययौ।।[6-6-25]
गण्डस्थलगतभ्रमरभावनया पुनर्भ्रमरोऽभूत्। स च भ्रमरः करिपदाक्रान्त्या चूर्णितः।।
पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः।
कलहंसश्चिरतरं योनिष्वन्यासु संलुठन्।।[6-6-26]
पार्श्वस्थहंससंवित्त्या कलहंसो बभूव। स च कलहंसो योन्यन्तरेषु लुठन्।।
यदृच्छया कदातित्तु जातः पद्मजसारसः।
ब्रह्मसारसतां यातो विजहार स सारसः।।[6-6-27]
यदृच्छया पद्मजस्य ब्रह्मणः सारसो हंसो जातः।।
स कदाचिद्ददर्शाथ रुद्रं रुद्रपुरे खगः।
तत्र बिद्धिरभूत्तस्य रुद्रोऽहमिति निश्चिता।।[6-6-28]
स च खगो हंसः कदाचिच्च ब्रह्मणो रुद्रपुरगमने रुद्रं दृष्ट्वा तद्भावनया रुद्रोऽहमिति संस्कारवशान्निश्चितबुद्धिरभूत्।।
रुद्रभूतवपुस्तत्र विजहार यथेच्छया।
तैस्तैः शिवपुराचारैर्गणगोष्ठीविलासिभिः।।[6-6-29]
रुद्रेति।। तत्र रुद्रपुरे वपुः रुद्राकारवपुरयं हंसो गणगोष्ठीविलासिभिः प्रमथपरिषत्संभूतैस्तैः प्रसिद्धैः शिवपुराचारैः रुद्रलोकव्यवहारैः शिवमाहात्म्यवर्णनादिभिः यथेच्छया विजहार।।
रुद्रस्त्वनुत्तमज्ञानविलासिन्या तया ततः।
स्वमशेषमुदन्तं तमपश्यत्प्राक्तनं धिया।।[6-6-30]
रुद्र इति।। स रुद्रः अनुत्तमज्ञानविलासिन्या सर्वोत्तमज्ञानविस्तारया धिया प्राक्तनं पूर्वजन्मसंभूतमशेषतस्तमुदन्तं वृत्तान्तमपश्यत्।।
निरावरणविज्ञानवपुः स भगवान्हरः।
उवाच स्वयमेकान्ते स्वस्वप्नशतविस्मितः।।[6-6-31]
निरावरणेति।। निरावरणं जन्मान्तरैरप्यावरणरहितं विज्ञानमेव वपुर्यस्य स भगवान्हरः स्वस्वप्नशतविस्मितः स्वीयेन स्वप्नशतेन विस्मितः सन्नेकान्ते स्वयमेवैवमुवाच।।
अहो विचित्रा मायेयं बत विश्वविमोहिनी।
असत्यैवापि सद्रूपा सुदृढा मरुवारिवत्।।[6-6-32]
अहो इति।। इयं माया असत्यैवापि मिथ्याभूतापि मरुवारिवत्सुदृढा सती सद्रूपा विश्वं विमोहयति। बतेति खेदे।।
एवमत्यन्तचित्रासु संसारारण्यभूमिषु।
बह्वीष्वहमिति भ्रान्तस्त्वशून्यास्विव भूरिशः।।[6-6-33]
कस्मिंश्चिदभवं सर्गे त्वहं जीवटनामकः।
कस्मिंश्चिद्ब्राह्मणश्रेष्ठः कस्मिंश्चिद्वसुदाधिपः।।[6-6-34]
हंसः पद्मवने भूत्वा विन्ध्यकक्षे च वारणः।
एवं योनिशतं गच्छन्यातोऽहमिति रुद्रताम्।।[6-6-35]
एवमिति श्लोकत्रयं वाक्यम्। अत्यन्तचित्रासु संसारारण्यभूमिषु बह्वीषु भ्रान्तोऽहं सुमनोमात्रकल्पनादनेकेषु मार्गेषु जीवटादिरूपेम योनिशतं गच्छन्निति देहानां रुद्रतां यातः।।[6-6-33,34,35]
अत्र वर्षसहस्राणि चतुर्युगशतानि च।
समतीतान्यनन्तानि दिनानुचरितानि च।।[6-6-36]
अत्रेति श्लोकद्वयं वाक्यम्।। असौ रुद्रः अत्र जन्मान्तरेषु वर्षसहस्रादिर्भूयान् कालो गतः।।
तांस्तान्सर्वान्खसंसारानुत्थायालोकयाम्यहम्।
सम्यगालोकदानेन तेभ्य एव करोम्यहम्।।[6-6-37]
तस्मात्तांस्तान्नानारूपान् स्वसंसारानुत्थाय गत्वा आलोकयामि तेभ्यश्च सम्यगालोकदानेन सम्यग्ज्ञानप्रदानेन तान्मया सह एकीकरोमि।।
इति संचिन्त्य रुद्रोऽसौ तं सर्गे प्रजगाम ह।
यत्र भिक्षुर्विहारस्थः सुप्तः शव इव स्थितः।।[6-6-38]
इत्येवं संचिन्त्य यत्र सर्गे भिक्षुर्विहारस्थः मठे स्थितः। विहरन्त्यस्मिन् भिक्षव इति विहारो मठ उच्यते। सुषुप्तः शववदास्ते तं सर्गं प्रजगाम।।
बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च।
द्योतयामास सस्मार भिक्षुरप्यात्मनो भ्रमम्।।[6-6-39]
बोधयित्वेति।। अथतं क्षिक्षुं बोधयित्वा तं बोध्यचेतसा चित्तेन चेतनेन ज्ञानेन च योजयामास। भिश्रुरप्यात्मनो भ्रमं सस्मार।।
रुद्रमात्मानमालोक्य जीवटादिमयं तथा।
बोधादविस्मयार्होऽपि स भिक्षुर्विस्मयं ययौ।।[6-6-40]
रुद्रमिति।। स भिक्षुरात्मानं रुद्रमालोक्य तथा जीवटादिमयं चात्मानमालोक्य बोधात्परमार्थावगमात् अविस्मयार्होऽपि मायामहिम्ना विस्मयं ययौ।।
अथ रुद्रस्तथा भिक्षुर्द्वावेवोत्थाय जग्मतुः।
क्वापि जीवटसंसारं चिदाकाशैककोणगम्।।[6-6-41]
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च।
बोधयन्तस्त्रयोऽप्यासन्विस्मिता अप्यविस्मिताः।।[6-6-42]
एकरूपास्त्रिरूपास्ते रुद्रभिक्षुकजीवटाः।
जग्मुर्विप्रादिसंसारांस्तैश्च संमिलितास्तथा।।[6-6-43]
दिव्यज्ञाना विरेजुस्ते रुद्रांशाः शतमुत्तमम्।
रुद्रेण प्रेषिताः सर्वे ते प्रति स्वंस्वमालयम्।।[6-6-44]
तेन रुद्रेण तां मायामवलोक्य तथोदिताम्।
स्वांशास्तामेव संसारस्थितिं संप्रेषिताः पुनः।।[6-6-45]
प्रययुः स्वास्पदं तेऽपि जीवटब्राह्मणादयः।
स्वकलत्रैः समं देहं क्षपयित्वाथ कालतः।
रुद्रेण सह ते सर्वे देहान्ते रुद्रमाप्नुवन्।।[6-6-46]
अथेत्यादिना।। अथ रुद्रेण भिक्षुवज्जीवटादीनामपि प्रबोधने सति ते सर्वेऽपि रुद्रवद्दिव्यज्ञानतया रुद्रांशाः सन्तो विरेजिरे। ततो भिक्षोर्जन्मशतोपभोग्यं प्रारब्धशेषमनुसंधाय परमार्थरुद्रेण प्रेषिताः सन्तो जीवटादिसंक्रान्ता रुद्रांशाः स्वं स्वमालयं प्रापुः। रुद्राणां तत्स्थानानां च बहुत्वात् स्वंस्वमिति वीप्सया निर्देशः। तेऽपि जीवटब्राह्मणादयः स्वंस्वमास्पदं प्राप्य स्वकलत्रादिभिः सह स्थित्वा देहान्ते रुद्रमाप्नुवन्निति सार्धश्लोकषट्कार्थः।।[6-6-41,42,43,44,45,46]
वसिष्ठ उवाच।।
सर्वमस्ति चितः कोशे यद्यथालोकयत्यसौ।
चित्तथा तदवाप्नोति सर्वात्मत्वादसंशयम्।।[6-6-47]
सर्वमिति।। चितः कोशे कोशवत्समस्तवस्तुनिधौ स्वरूपे वस्त्विति।।
यत्स्वप्ने दृश्यते यच्च संकल्पैरवलोक्यते।
तत्तथा विद्यते तत्र सर्वकालं तदात्मकम्।।[6-6-48]
अतः सर्वात्मत्वादसौ चित् यथा येन प्रकारेण तदात्मकं तद्रूपं तत्सर्वकालं विद्यते सर्वस्यापि संविद्विवर्तत्वात्।।
संकल्पस्वप्नगं वस्तु यया च दशयाप्यते।
परमाभ्यासयोगाभ्यां विना त्वेतन्न लभ्यते।।[6-6-49]
यदि विद्यते तर्हि तत्प्राप्यत इत्यत्राह-संकल्पेति।। संकल्पस्वप्नगं संकल्पगतं वस्तु यया दशया प्राप्यते सैव सिद्धदशा अभ्यासयोगाभ्यां वायुनिरोधेन च विना न लभ्यते।।
येषां तु योगविज्ञानदृष्टयः फलिताः स्थिताः।
सर्वं सर्वत्र पश्यन्ति त एते शङ्करादयः।।[6-6-50]
येषामिति।। येषां तु सिद्धानां योगविज्ञानदृष्टयः। योगः समाधिर्विज्ञानमध्यात्मशास्त्रज्ञानं तज्जन्या दृष्टयो दर्शनानि फलिताः फलवत्यः स्थिताः त एते शङ्करादयः स्वसंकल्पानुसारेण सर्वं वस्तु सर्वत्र देशे काले च पश्यन्ति।।
सर्वं ह्यभिमतं कार्यमेकनिष्ठस्य सिद्ध्यति।
दक्षिणां ककुभं पश्यन्कः प्राप्नोत्युत्तरां दिशम्।।[6-6-51]
अभिमतं सर्वं कार्यमपि एकनिष्ठस्य तदेकनिष्ठस्यैव सिद्ध्यति। दक्षिणां ककुभं पश्यन्को नामोत्तरां दिशं प्राप्नोति।।
संकल्पार्थपरैरेव संकल्पार्थोऽवगम्यते।
अग्रस्थार्थपरैरेव अग्रस्थार्थोऽवगम्यते।।[6-6-52]
संकल्पेति।। संकल्पार्थतत्परैरेवावगम्यते अग्रसंस्थितार्थः अग्रेष्वग्रगेषु संस्थितोऽप्यर्थः अग्रस्थार्थपरैः पुरोवर्तिवस्तुतत्परैरेवावगम्यते।।
अग्रस्थे बुद्धिसंस्थे यः संकल्पं प्राप्तुमिच्छति।
तदासावेकनिष्ठत्वाभावात्तन्नाशयेद्द्वयम्।।[6-6-53]
अग्रस्थे इति।। यो मूढः अग्रस्थे वस्तुनि बुद्धिसंस्थिते बुद्धौ स्थिते सति संकल्पे संकल्पितार्थं प्राप्तुमिच्छति तदा अविवेकी एकनिष्ठत्वाभावादेकत्र तात्पर्याभावात् तद्‌द्वयं अग्रस्थं कल्पितं चोभयं नाश्रयेत्। यद्बुद्धिस्थं न तु प्राप्तनुमिच्छति न तद्बुद्धिस्थिमित्युभयोरप्यसिद्धेर्विनाशः।।
इह विद्याधरोऽहं स्यामहं स्यामिह वैदिकः।
इत्येकज्ञानसाफल्यं दृष्टान्तस्त्वर्थसिद्धये।।[6-6-54]
इहेति।। अहं इह देशे काले संकल्पार्थं च विद्याधरः स्यामिति वा अहमिह वैदिकः स्यामिति वा यदेकध्यानसाफल्यं एकवस्तुविषयस्य ध्यानस्य फलसंबन्धः स एव कार्यसिद्धये दृष्टान्तः।।
तस्मादेकार्थनिष्ठत्वाद्भिक्षुजीवेन रुद्रताम्।
प्राप्य रुद्रात्मना लब्धा संकल्पार्थस्य सत्यता।।[6-6-55]
तस्मादिति।। तस्मात्पूर्वोक्ताद्धेतोरेकार्थनिष्ठत्वात् संकल्पार्थैकनिष्ठत्वात् भिक्षुरूपेण जीवेन रुद्रतां प्राप्य तेन रुद्रात्मना संकल्पार्थस्य सत्यता प्राप्ता।।
भिक्षुसंकल्पजीवास्ते प्रत्येकम तत्पृथग्जगत्।
पश्यन्ति रुद्ररूपत्वात्प्राप्ताः सर्वे च सत्यताम्।।[6-6-56]
भिक्ष्विति।। ते भिक्षुसंकल्पसिद्धा जीवा रुद्ररूपत्वात् संकल्पानां सत्यतां साफल्यं प्राप्तास्ततः प्रत्येकं तज्जगत्पृथक् विलक्षणं पश्यन्ति स्वतत्रत्वात्सत्यसंकल्पत्वाच्चेति भावः।।
एवं ते भिक्षुसंकल्पाज्जीवटब्राह्मणादयः।
रुद्रविज्ञानवशतः स्वसंकल्पपुरीर्गताः।।[6-6-57]
ततो रुद्रेण संगत्य विविशुस्तत्परं पदम्।।[6-6-58]
राम उवाच।।
एवं ते भिक्षुसंकल्पाज्जीवटब्राह्मणादयः।
कथं सत्यत्वमायाताः संकल्पार्थे क्व सत्यता।।[6-6-59]
वसिष्ठ उवाच।।
एकः सहस्रं भवति यथा चैष जनार्दनः।
अंशावतारलीलाभिः कुरुते जगतीं स्थितिम्।।[6-6-60]
एवं ते भिक्षुसंकल्पाज्जीवटब्राह्मणादयः।
संशुद्धसंविदेकांशाः सत्या इव किल स्थिताः।।[6-6-61]
इति श्रीयोगवासिष्ठसारे मोक्षोपाये निर्वाणप्रकरणे शतरुद्रोपाख्यानं नाम षष्ठः सर्गः।। 6 ।।
एवमिति।। ते पूर्वोक्ता भिक्षुसंकल्पकल्पिता जीवटब्राह्मणादयः रुद्रस्य महिम्ना स्वसंकल्पपुरीः स्वसंकल्पकल्पितानि स्थानानि गताः प्राप्ताः।।[6-6-57,58,59,60,61]
इति श्रीवासिष्ठविवरणे निर्वाणप्रकरणे शतरुद्रोपाख्यानं नाम षष्ठः सर्गः।। 6 ।।