लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ५

विकिस्रोतः तः
← सर्गः ४ लघुयोगवासिष्ठः
सर्गः ५
[[लेखकः :|]]
सर्गः ६ →

अर्जुनोपाख्यानम्।।
पञ्चमः सर्गः।।
राम उवाच।।
ज्ञानं ज्ञातव्यमखिलं दृष्टं द्रष्टव्यमक्षतम्।
लीलयेदं तु पृच्छामि भूयो बोधाभिवृद्धये।।[6-5-1]
पूर्वं विचित्राप्यखण्डैकरसा चिच्छिलात्वेन निरूपिता। इदानीं तु सर्वं ब्रह्मेति विवेकिनो युद्धादिरपि चित्तविश्रान्तिबाधको न भवतीति दर्शयितुं अर्जुनाख्यायिका वर्ण्यते।।
जगत्सहस्रनिर्माणमहिम्नो दर्पणस्य तु।
पुर्यष्टकस्य भगवन् रूपं कथय कीदृशम्।।[6-5-2]
जगदिति।। जगतां सहस्रस्य निर्माणं महिमा यस्य तस्य दर्पमवन्निर्मलस्य पुर्यष्टकस्य रूपं कीदृशं तत्कथय।।
वसिष्ठ उवाच।।
अनाद्यन्तं जगद्बीजं यद्ब्रह्मास्ति निरामयम्।
तदेव कलनायुक्तमत्र जीव इति स्मृतः।।[6-5-3]
अनाद्यन्तमिति श्लोकत्रयं वाक्यम्।। जगद्बीजं ब्रह्मैव कलनायुक्तमविद्यायुक्तं सत् जीव इति स्मृतः।।
नृरूपं शुद्धचिन्मात्रं कलाकलनवर्जितम्।
कलनोतन्मुखतां यातमत्र जीव इति स्मृतः।।[6-5-4]
स जीवः खलु देहेऽस्मिंश्चिनोति स्पन्दते स्फुटम्।
अहंभावादहंकारो मननान्मन उच्यते।।[6-5-5]
नुर्जीवस्य वस्तुतः कला माया तस्याः कलनं ग्रासः तेन वर्जितम्। यदा स्वयमेवाऽविद्योन्मुखतां यातं गतम्। अत्र चिन्मात्रात्मस्वरूपविस्मरणे ज्ञाते अहंभावादहमित्यभिमानादहंकारः स्मृतः। मननात्संकल्पादिरूपान्मन उच्यते।।[6-5-4,5]
बोधनिश्चयतो बुद्धिरिन्द्रदृष्टेस्तथेन्द्रियम्।
देहभावनया देहो घटभावनया घटः।
एष एव स्वभावात्मा जनैः पुर्यष्टकं स्मृतः।।[6-5-6]
बोधस्य निश्चयरूपाद्व्यापाराद्बुद्धिरुच्यते। तथा इन्द्रदृष्टेः इन्द्र आत्मा तेन दृष्टत्वात्तत्तत्कर्मोपार्जितत्वादिन्द्रियमुच्यते। `इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टम्' इत्यादिना सूत्रेणेन्द्रियशब्दस्य इन्द्रदृष्टमित्यर्थे निपातितत्वात्। देहरूपबावनया देहो भवति। घटाकारभावनया घटो भवति। एवंस्वभावात्मा एवंप्रकारस्वभावस्वरूप एष एवात्मा तज्ज्ञैर्जनैः पुर्यष्टकमिति स्मृतः। तल्लक्षणं तु-`अहंकारकलायुक्तं बुद्धिजीवसमन्वितम्। तत्पुर्यष्टकभित्युक्तं भूतहृत्पद्मषट्‌पदः' इति पूर्वमुक्तम्।।
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिपातिनी।
या संविज्जीव इत्युक्ता तद्धि पुर्यष्टकं विदुः।।[6-5-7]
इदानीं प्रकारान्तरेण लक्षणमाह-ज्ञत्वेति।। ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिपातिनी ज्ञोऽहं कर्ताहं भोक्ताहं साक्ष्यहं इत्याद्यभिमानवती या संविज्जीव इत्युक्ता तदेव संवित्स्वरूपं पुर्यष्टकं विदुः। अन्तःकरणमणिप्रतिबिम्बिता कर्तृत्वभोक्तृत्वाद्यभिमानवती संविदेव जीवः पुर्यष्टकं चेत्यर्थः।।
पुर्यष्टकवशेनैव स्वप्नात्स्वप्नान्तरं यथा।
असत्यमेव पश्यन्ति जनास्तद्वदिदं जगत्।।[6-5-8]
पुर्यष्टकेति।। यथा जनाः पुर्यष्टकवशेनैव स्वप्नात्स्वप्नान्तरमसत्यमेव पश्यन्ति तद्वदिदं जगदपि पश्यन्ति।।
पुण्डरीकाक्ष निर्दिष्टामसंसक्तिमतिं शुभाम्।
यामालिङ्ग्य महाबाहो जीवन्मुक्तमना मुनिः।।[6-5-9]
पाण्डोः सुतोऽर्जुनो नाम सुखं जीवितमात्मनः।
क्षपयिष्यति निर्दुःखं तथा क्षपय जीवितम्।।[6-5-10]
राम उवाच।।
भविष्यति कदा ब्रह्मन्सोऽर्जुनः पाण्डुनन्दनः।
कीदृशीं च हरिस्तस्य कथयिष्यत्यसक्तताम्।।[6-5-11]
इत्थं स्वप्नवत्प्रपञ्चस्य मिथ्यात्वं विनिश्चित्यार्जुनवत्सङ्गेन व्यवहर्तव्यमिति तत्कथां प्रस्तौति-पुण्डरीकाक्षेत्यादिना।।[6-5-9,10,11]
वसिष्ठ उवाच।।
यमः कदाचिद्भगवान्गते प्रतिचतुर्युगे।
तपः प्रकुरुते भूतदलनात्पापशङ्कया।।[6-5-12]
यम इति श्लोकद्वयं वाक्यम्।। भगवान्यमः किल गतेषु चतुर्युगेषु कदाचिद्भूतद्रोहात्पापमशङ्कमानस्तन्निवृत्तये तपश्चरन्।।
कदाचिदष्टौ वर्षाणि दश द्वादश वापि च।
कदाचित्पञ्च सप्तापि कदाचित्षोडशापि वा।।[6-5-13]
उदासीनवदासीने तस्मिन्नियमसंस्थिते।
न हिनस्ति जगज्जाले मृत्युर्भूतानि कानिचित्।।[6-5-14]
कदाचिदष्टौ वर्षाणि तपः कुरुते किल। कदाचिद्दश कदाचिद्द्वादश कदाचित्पञ्च कदाचित्सप्त कदाचित्षोडश वर्षाणि इत्येवं च बहुधा तपः कुरुते।।[6-5-13,14]
तेन नीरन्ध्रभूतैघं निःसंचारं महीतलम्।
भवति प्रावृषि स्वेदी कुञ्जरो मशकैरिव।।[6-5-15]
अथ तानि विचित्राणि भूतानि बहुयुक्तिभिः।
क्षपयन्ति सुरा राम भुवो भारनिवृत्तये।।[6-5-16]
एवं युगसहस्राणि व्यवहारशतानि च।
समतीतान्यनन्तानि भूतानि च जगन्ति च।।[6-5-17]
वैवस्वतो नाम यमो य एष पितृनायकः।
अनेन त्वधुना साधो परिक्षीणेषु केषुचित्।।[6-5-18]
तेनेति।। तेन मृत्योर्हिंसायामप्रवृत्त्या हेतुना प्रावृषि मदवशात्स्वेदी कुञ्जरो मशकैरिव भूतलं नीरन्ध्रभूतौघं सत् निःसंचारं संचरितुमशक्यं भवति।।[6-5-15,16,17,18]
युगेष्वघविघाताय वर्षाणि द्वादशात्मनि।
व्रतचर्येह कर्तव्या दूरास्तजनकर्षणा।।[6-5-19]
वैवस्वत इति श्लोकद्वयं वाक्यम्। विवस्वतः सूर्यस्य पुत्रेणापि यमेन तथैवाघविघाताय तथैव द्वादशर्वाणि दूरास्तजनकर्षणा दूरपरिहृतजनमारणा व्रतचर्या तपश्चर्या कर्तव्या।।
तेनेयमुर्वी नीरन्ध्रा भूतैर्मर्त्यैरमृत्युभिः।
दीना प्रघनगुल्मैव भारभूतैर्भविष्यति।।[6-5-20]
भूभारपरिभूताङ्गी हरिं शरणमेष्यति।
हरिर्देहद्वयेनाथ महानवतरिष्यति।।[6-5-21]
वसुदेवसुतस्त्वेको वासुदेव इति श्रुतः।
देहो भविष्यति हरेर्द्वितीयः पाण्डुनन्दनः।।[6-5-22]
धृतराष्ट्रसुतैः सार्धं संग्रामेऽत्यन्तदारुणे।
उपेष्यन्त्यर्जुनेनैते योद्धुं तद्बन्धवोऽखिलाः।।[6-5-23]
अर्जुनः स्वजनान्दृष्टा तान्सर्वान्मरणो न्मुखान्।
विषादमेष्यत्युद्योगं युद्धाय न करिष्यति।।[6-5-24]
तेनेति।। प्रघनगुल्मा प्रघना निरन्तरा गुल्माः स्तम्बा यस्यां सा तथा।।[6-5-20,21,22,23,24]
तमर्जुनाभिधं देहं प्राप्तकार्यैकसिद्धये।
हरिर्बुद्धेन देहेन बोधयिष्यति युक्तिभिः।।[6-5-25]
तमिति।। बुद्धेन देहेन बोधवता कृष्णावताररूपेण।।
अन्तमव्यक्तमनादिमध्यमात्मानमालोकय राजसिंह।
संविद्वपुःस्फारमलब्धदोषमजोऽसि नित्योऽसि निरामयोऽसि।।[6-5-26]
अनन्तमिति।। राजसिंहेति शोकवैक्लव्यनिरासाय संबोधनम्। देहादिव्यतिरिक्तमनन्तादिलक्षणमात्मानमेवालोकय विचारय। यतस्त्वमजोऽसि अतएव नित्योऽसि निरामयोऽसि। तत्र संविद्वपुःस्फारमित्येकं पदम्। संविद्रूपेण वपुषा स्फारमभिवृद्धम्। व्याप्तमित्यर्थः।।
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।[6-5-27]
नेति।। अयं देहादिव्यतिरिक्त आत्मा कदाचिदपि न जायते न म्रियते वा। जननमरणयोर्देहधर्मत्वात्। अयमात्मा भूत्वा भवनक्रियामनुभूय भूयः पुनर्न भविता भवनक्रियारहितो न भवति। अयमात्मा न भूत्वा भवनरहितः पुनर्भविता वा न भवतीत्युभयथावापि योजनीयम्। यतोऽयं भूत्वा पुनर्घटादिवन्न भविता अतो न म्रियते। यतश्च पूर्वं न भूत्वा पुनः कालान्तरे भविता वा न भवति। अजो न जायत इत्युक्तार्थोपपादनम्। इत्थमजो नित्यश्च नित्यशब्देन कादाचित्कसत्तारूपोऽपि विकारो निरस्यते। शाश्वतः अपक्षयरहितः। पुराणः वृद्धिरहितः। नूतनं हि वस्तु वर्धते। अयमात्मा शरीरे हन्यमानेऽपि स्वयं न हन्यते न विपरिणम्यत इति षड्भावविकारराहित्यमुक्तम्।।
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय।
ब्रह्मार्पितसमाचारो ब्रह्मैव भवसि क्षणात्।।[6-5-28]
योगस्थ इति।। सिद्ध्यसिद्ध्योः समत्वं योगः तन्निष्ठः सन्सङ्गईश्वरो मे तुष्यत्वित्यपि फलाकाङ्क्षां त्यक्त्वा कर्माणि ईश्वराराधनार्थं कुरु। इत्थं ब्रह्मार्पितसमाचारः ब्रह्मार्पितसत्कर्मा त्वं ब्रह्मैव भवसि।।
ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः।
ईश्वरः सर्वभूतात्मा भव भूषितभूतलः।।[6-5-29]
ईश्वरार्पितसर्वार्थः ईश्वरार्पिताः सर्वे अर्थाः शुभाशुभरूपा येन तादृशः सन्नीश्वरात्मा ईश्वरे अर्पित आत्मा येन तथाभूतश्च निरामयः सर्वभूतात्मा भूषितभूतल ईश्वरो भव।।
संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः।
संन्यासयोगयुक्तात्मा कुर्वन्मुक्तमतिर्भव।।[6-5-30]
अर्जुन उवाच।।
सङ्गत्यागस्य भगवंस्तथा ब्रह्मार्पणस्य च।
ईश्वरार्पणरूपस्य संन्यासस्य च सर्वशः।।[6-5-31]
तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो।
क्रमेण कथयैतन्मे महामोहनिवृत्तये।।[6-5-32]
संन्यस्तेति।। संन्यासयोगयुक्तात्मा कर्मफलत्यागः संन्यासयोगः।।[6-5-30,31,32]
श्रीभगवानुवाच।।
सर्वसंकल्पसंशान्तौ प्रशान्तघनवासनम्।
न किंचिद्भावनाकारं तद्ब्रह्म परमं विदुः।।[6-5-33]
सर्वेति।। सर्वेषां संकल्पानां संशान्तौ सत्यां प्रशान्तघनवासनं निर्वासनमतश्च न किंचिद्भावनाकारं न विद्यते किंचिदपि भावनायोग्यं रूपं यस्य तादृशं विशुद्धं चिन्मात्रं यदस्ति तदेव परं ब्रह्म विदुः।।
तदुद्योगं विदुर्ज्ञानं योगं च कृतबुद्धयः।
ब्रह्म सर्वं जगदहं चेति ब्रह्मार्पणं विदुः।।[6-5-34]
कर्मणां यः फलत्यागस्तं संन्यासं विदुर्बुधाः।
त्यागः संक्लपजालानामसङ्ग इति कथ्यते।।[6-5-35]
तदिति।। तदर्थमुद्योगस्तदुद्योगस्तम्।।[6-5-34,35]
समस्तकलनाजालस्येश्वरैकत्वभावनम्।
गलितद्वैतनिर्भासमेतदेवेश्वरार्पणम्।।[6-5-36]
समस्तेति।। समस्तकलनाजालस्य सर्वस्यापि संकल्पविकल्पजालस्य गलितद्वैतनिर्भासं भेदावभासरहितं यथा तथा ईश्वरैकत्वभावनं ईश्वर एव सर्वान्तर्यामी तथा प्रवर्तयति तद्वलासोऽयं सर्वो व्यवहार इति यत्तन्मयत्वभावनं एतदेव सर्वव्यवहारस्य तन्निवेदनमेव ईश्वरार्पणम्।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्तत्वैवमात्मानं मत्परायणः।।[6-5-37]
मन्मना इति।। एवमनेन प्रकारेण आत्मानं चित्तं युक्त्वा मयि संयोज्य मत्परायणः सन्मामेवैष्यसि।।
सामान्यं परमं चेति द्वे रूपे विद्धि मेऽनघ।
पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम्।।[6-5-38]
परं रूपमनाद्यन्तं यन्ममैकमनामयम्।
ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते।।[6-5-39]
यावदप्रतिबुद्धस्त्वमनात्मज्ञतयास्थितः।
तावच्चतुर्भुजाकारदेवपूजापरो भव।।[6-5-40]
तत्क्रमात्संप्रबुद्धस्त्वं ततो ज्ञास्यसि तत्परम्।
मम रूपमनाद्यन्तं येन भूयो न जायसे।।[6-5-41]
सामान्यमिति श्लोकचतुष्टयं वाक्यम्।। साकारं निराकारं च मे द्वे रूपे तत्राप्रबुद्धदशायां शङ्खचक्रगदापद्मधराकारं रूपं उपास्यं तदुपासनया च क्रमाच्चित्तवृत्तिद्वारा च परं ब्रह्मरूपं द्वितीयरूपं ज्ञातं कैवल्यपर्यवसितं सिद्ध्यतीत्यर्थः।।[6-5-38,39,40,41]
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्।।[6-5-42]
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।[6-5-43]
निर्मानेति।। निर्मानमोहाः मानोऽभिमानोऽहंकार इति यावत्। मोहस्तन्निमित्तमज्ञानं ताभ्यां निष्क्रान्ताः। जितौ सङ्गदोषौ यैस्ते। अध्यात्मनित्या आत्मानुसंधाननिरताः अतश्च विनिवृत्तकामाः सुखदुःखसंज्ञैर्द्वन्द्वैर्विमुक्ता अमूढाः विद्वांसः द्वन्द्वानुसंधानरहिताः तत्पदं गच्छन्ति।।,6-5-42,43]
यथाप्राप्तानुवर्ती च भव भूषितभूतलः।।[6-5-44]
नित्यं स्वगुमनिष्ठो निर्योगक्षेमः इष्टानिष्टप्राप्तिपरिहारयोरुदासीनः आत्मवानप्रमत्तचित्तश्च त्वं यथाप्राप्तमनुवर्तमानो भूषितभूतलो भव भूषितपृथ्वीतलो भूयाः।।
अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले।
गुरुशास्त्रानुगो मार्गः परित्याज्यो न धीमता।।[6-5-45]
अज्ञानादात्मनः साधो सत्तामायाति वासना।
आत्मज्ञाने महाबोदाद्विलयं याति वासना।।[6-5-46]
अपीति।। महत्यामप्यापदि गुरूपदिष्टः शास्त्रमार्गो धीमता न परित्याज्यः।।[6-5-45,46]
इति गदितवति त्रिलोकनाथे क्षणमिव मौनमुपस्थिते पुरस्तात्।
अथ मधुप इवासिताब्जाखण्डे वचनमुपेष्यति तत्र पाण्डुपुत्रः।।[6-5-47]
इतीति।। वचनमुपेष्यति। वक्ष्यतीत्यर्थः।।
अर्जुन उवाच।।
परिगलितसमस्तशोकभारा परमुदयन्भगवन्मतिर्गतेयम्।
मम तव वचनेन लोकभर्तुर्दिनपतिना परिबोधिताब्जिनीव।।[6-5-48]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे अर्जुनोपाख्यानं नाम पञ्चमः सर्गः।। 5 ।।
परीति।। दिनपतिना अब्जिनीव त्रिलोकभर्तुस्तव वचनेन परिबोधिता मम मतिः परिगलितसमस्तशोकभारा सती परमुदयं प्रकाशं गता।।
इति श्रीवसिष्ठविवरणे निर्वाणप्रकरणेऽर्जुनोपाख्यानं नाम पञ्चमः सर्गः।। 5 ।।