लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ८

विकिस्रोतः तः
← सर्गः ७ लघुयोगवासिष्ठः
सर्गः ८
[[लेखकः :|]]
सर्गः ९ →

भगीरथोपाख्यानम्।।
अष्टम सर्गः।।
वसिष्ठ उवाच।।

संहृत्यं सर्वतश्चित्तं स्तिमितेनान्तरात्मना।
प्रवाहपतितं कुर्वन्निरिच्छस्तिष्ठ शान्तधीः।।[6-8-1]
पूर्वं सौषुप्तमौनसंपादकविवेकप्रदर्शनाय वेतालप्रश्ना निरूपिताः।
इदानीं तु दुर्लभापि चित्तविश्रान्तिः स्वप्रयत्नेनैव लभ्यत इति दर्शयितुं भगीरथकथा कथ्यते-संहृत्येति।। सर्वतो बाह्यविषयाच्चित्तं संहृत्य प्रत्याहृत्य स्तिमितेन स्वरूपनिष्ठेन अन्तरात्मनान्तःकरणेनोपलक्षितः प्रवाहपतितमाचारक्रमप्राप्तं कर्म कुर्वन्निरिच्छः शान्तधीस्तिष्ठ।।
आकाशविशदं कृत्वा मनसैव मनो मुनिः।
तिष्ठैकशमशान्तात्मा सर्वत्र समदर्शनः।।[6-8-2]
स्थिरबुद्धेरमूढस्य यथाप्राप्तानुवर्तिनः।
राज्ञो भगीरथस्येव दुःसाध्यमपि सिद्ध्यति।।[6-8-3]
आकाशेति।। मनसैव विचारतत्परेण स्वचित्तेनैव।।[6-8-2,3]
राम उवाच।।
यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम्।
भगीरथस्य संपन्नं तन्मे कथय वै प्रभो।।[6-8-4]
वसिष्ठ उवाच।।
आसीद्भगीरथो नाम राजा परमधार्मिकः।
भुवः समुद्रयुक्ताया मण्डलीतिलकोपमः।।[6-8-5]
संकल्पान्तरं प्रापुर्यथाभिमतमर्थिनः।
चन्द्रप्रसन्नवदनाद्यस्माच्चिन्तामणेरिव।।[6-8-6]
गङ्गासोपानपद्धत्या येन पातालवासिनः।
योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना।।[6-8-7]
यथेति।। चित्तचमत्कृत्या आश्चर्यकारिणी चित्तवृत्तिः चित्तचमत्कृतिस्तया।।[6-8-4,5,6,7]
यौवने वर्तमानस्य तस्य भूमीपतेरपि।
प्रविचारयतो लोकयात्रां पर्याकुलामिमाम्।।[6-8-8]
सुविरागचमत्कारविचारकणिकोदभूत्।
वयस्यपि च तारुण्ये दैवाद्वल्ली मराविव।।[6-8-9]
यौवन इति श्लोकद्वयं वाक्यम्।। सुविरागचमत्कारः शोभनो विरागचमत्कारो वैराग्यनिश्चयो यस्यां सा। विचारकणिका सूक्ष्मो विचारः।।[6-8-8,9]
एकान्ते चिन्तयामास महीपतिरसावथ।
जगद्यात्रामिमां नित्यमसमञ्जससंकुलाम्।।[6-8-10]
एकान्त इति।। असमञ्जससंकुलां असमञ्जसमन्याय्यं तेन संकुलां व्याकुलाम्।।
पुनर्दिनं पुनः श्यामा दानादानशतं पुनः।
तदेव शुष्कं विरसं लभ्यते कर्म कुर्वता।।[6-8-11]
पुनरिति।। श्यामा रात्रिः। कर्म सांसारिकं व्यापारम्। शुष्कं विरसं नीरसं विपरीतरसं वा। दानादानशतं लभ्यते त्यागभोगशतं प्राप्यते।।
येन प्राप्तेन लोकेऽस्मिन्नाप्राप्तमवशिष्यते।
तत्कृतं सुकृतं मन्ये शेषं कर्म विषूचिका।।[6-8-12]
पुनः पुनः पर्युषितं कर्म कुर्वन्न लज्जते।
मूढबुद्धिरमूढस्तु किं कुर्यात्किल बालवत्।।[6-8-13]
अथैकदोद्विग्नमनाः कदाचित्रितुलं गुरुम्।
एकान्ते संसृतेर्भीतः समपृच्छद्भगीरथः।।[6-8-14]
जरामरणोहादिरूपाणां भयकारिणाम्।
भगवन्सर्वदुःखानां कथमन्तः प्रजायते।।[6-8-15]
येनेति।। येन वस्तुना प्राप्तेन सता अप्राप्तं वाञ्छितं किंचिदपि नावशिष्यते तदेव कृतं सुकृतं मन्ये। शेषमन्यत्कर्म विषूचिकैव। पुनःपुनः प्रवृत्तिहेतुत्वात्। बन्धनिवृत्तिहेतुरेव सत्कर्मेत्यर्थः। यदाह प्रह्लादः-`तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये। आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्' इति।।[6-8-12,13,14,15]
त्रितुल उवाच।।
चिरसाम्यात्मनोत्थेन निर्विभागविलासिना।
राजञ्ज्ञेयावबोधेन पूर्णेन भरितात्मना।।[6-8-16]
क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयोऽभितः।
संशया विलयं यान्ति सर्वकर्माणि चानघ।।[6-8-17]
चिरेति श्लोकद्वयं वाक्यम्।। चिरसाम्यात्मना चिरं साम्यरूपेण सर्वावगताकारेण। यदुत्थितः यदुदितः तेन निर्विभागविलासिना निर्विशेषं स्फुरता पूर्णेन अखण्डेन भरितात्मना व्याप्तेन ज्ञेयावबोधेन ज्ञेयस्य परतत्त्वस्य साक्षात्कारेण सर्वदुःखानि क्षीयन्ते। ग्रन्थयो बन्धहेतवः अहंकारादयस्त्रुट्यन्ति छिद्यन्ते। संशयाः कैवल्यमस्ति न वा आत्मा परमानन्दरूपो भवति न वेत्येवमादयः शममायान्ति। सर्वकर्माणि पुण्यापुण्यरूपाणि सर्वाण्यपि कर्माणि शममायान्ति। `भिद्यते हृदयग्रन्थिः' इत्यादिश्रुतेः।।[6-8-16,17]
ज्ञेयं तु विदुरात्मानं संशुद्धज्ञप्तिरूपिणम्।
स च सर्वगतो नित्यं नास्तमेति न चोदयम्।।[6-8-18]
किं तज्ज्ञेयमित्यत आह-ज्ञेयमिति।। ज्ञानस्वरूपो नित्यः सर्वगतश्च विशुद्ध अत्मैव ज्ञेय इत्यर्थः।।
भगीरथ उवाच।।
चिन्मात्रं सर्वगं शान्तमस्ति निर्मलमच्युतम्।
देहादि नेतरत्किंचिदिति वेद्मि मुनीश्वर।।[6-8-19]
चिन्मात्रमिति श्लोकद्वयं वाक्यम्।। शान्तत्वादिलक्षणं चिन्मात्ररूपं निर्गुणं ब्रह्मैवास्ति। इतरदात्मव्यतिरिक्तं देहादिरूपं वस्तु किंचिदपि वस्तुतो नास्तीति वेद्मि।।
किंत्वत्र प्रतिपत्तिर्मे स्फुटतामेति न प्रभो।
एतावन्मात्रसंवित्तिः स्यामहं सर्वदा कथम्।।[6-8-20]
किंतु अत्रास्मिन्नर्थे प्रतिपत्तिः ज्ञानं स्थिरप्रतिष्ठां नैति। अतः एतावन्मात्रसंवित्तिः चिन्मात्रानुसंधानमयः कथं केन प्रकारेण स्यां तं प्रकारं निरूपयेत्यर्थः।।त्रितुल उवाच।।
ज्ञानेन ज्ञेयनिष्ठत्वमेति चेतो हृदम्बरे।
ततः सर्ववपुर्भूत्वा भूयो जीवो न जायते।।[6-8-21]
ज्ञानेनेति।। ज्ञानेन वक्ष्यमाणलक्षणेन ज्ञानसाधनेन चेतो यदा हृदम्बरे हृदयाकाशे ज्ञेयनिष्ठत्वं स्वरूपनिष्ठत्वमेति ततस्तदा जीवः सर्ववपुर्भूत्वा सर्वात्मको भूत्वा भूयो न जायते। अन्तर्मुखतया स्वरूपनिष्ठत्वे स्वयमेव सर्वात्मकं ब्रह्म भूत्वा पुनर्जीवभावं नैतीत्यर्थः।।
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।
नित्यं च समचित्तत्वमिष्टनिष्टोपपत्तिषु।।[6-8-22]
किं तज्ज्ञानमित्यत्राह-असक्तिर्विषयेष्वनासक्तिः। पुत्रदारगृहादिषु अनभिष्वङ्गः ममताराहित्यम्। इष्टानिष्टोपपत्तिषु प्रियाप्रियेषु नित्यं समचित्तत्वं हर्षविषादराहित्यम्।।
विवक्तदेशसेवित्वमरतिर्जनसंसदि।।[6-8-23]
अनन्ययोगेन अभेदभावनया आत्मनः स्वरूपस्य अनारतमविच्छिन्नं तद्भावनं ब्रह्मभावनं ब्रह्मैवाहमित्यनुसंधानम्। विविक्तदेशसेवित्वं विविक्तः पूतो निर्जनश्च यो देशः तत्सेवनशीलत्वम्। जनसंसदि पामरजनसभायां अरतिरनवस्थानम्।।
अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम्।
एतज्ज्ञानमिति प्रोक्तमज्ञानं स्यादितोऽन्यथा।।[6-8-24]
अध्यात्मज्ञाननिष्ठत्वं आत्मविषयकज्ञानतत्परत्वम्। तत्त्वज्ञानार्थदर्शनं तत्त्वज्ञानप्रयोजनस्यात्यन्तिकदुः-खोपरमस्यानुसंधानम्। एतत्पूर्वोक्तं ज्ञानसाधनत्वात् ज्ञानमिति प्रोक्तम्। इतोऽन्यथा उक्तसाधनविपरीतं विषयासक्त्यादिकमज्ञानम्। संसारहेतुत्वादित्यर्थः।।
रागद्वेषक्षयकरं संसारव्याधिभेषजम्।
अहंकारोपशान्तौ तद्राजञ्ज्ञानमवाप्यते।।[6-8-25]
रागेति।। देहादावहंकारभावत्वस्यात्मज्ञानप्रतिबन्धकत्वात् तदुपशान्तावेवात्मनः स्वरूपमवगम्यत इत्यर्थः।।
भगीरथ उवाच।।
शरीरेऽस्मिंश्चिरारूढो गिरौ तरुरिव स्वके।
अहंभावो महाभाग वद मे त्यज्यते कथम्।।[6-8-26]
शरीर इति।। संसारस्यानादित्वात्तन्मूलत्वभूतस्याहंकारस्य रूढमूलतया त्यागो दुष्कर इति भावः।।
त्रितुल उवाच।।
पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनाम्।
गत्वा विकसितां सत्तामहंकारलयं व्रजेत्।।[6-8-27]
पौरुषेणेति।। पौरुषेण प्रयत्नेन वासनाक्षयहेतुः सम्यग्ज्ञानसमाध्यभ्यासादिरूपः पौरुषः प्रयत्नः तेन भोगौघभावनां विषयवासनां त्यक्त्वा विकसितां परिपूर्णां सत्तां गत्वा आश्रित्य अहंकारलयं व्रजेत्। साधयेदित्यर्थः।।
यन्त्राणां पञ्जरं यावद्भग्नं लज्जादिनाखिलम्।
अकिंचनत्वशेषेण स्फुटा तावदहंकृतिः।।[6-8-28]
यन्त्राणामिति।। लज्जादि अनुचिते कर्मणि चेतसः संकोचो लज्जा। आदिशब्दाज्जातिकुलाभिमानादिग्रहणम्। तदुक्तम्-`घृणा शङ्का स्पृहा लज्जा जुगुप्सा चेति पञ्चमी। कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीर्तिताः' इति। तादृशं लज्जादिरूपं यन्त्राणां पञ्जरं अकिंचनत्वशेषेण स्वरूपातिरिक्तं किंचिदपि यस्य नास्ति सोऽकिंचनः तद्भावमात्रशेषेण यावदखिलं न भग्नं न त्यक्तं तावदहंकृतिः स्फुटा न निवर्तत इत्यर्थः।।
सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः।
तदहंकारविलये त्वमेव परमं पदम्।।[6-8-29]
सर्वमिति।। एतत्सर्वं लज्जाभिमानादिकं सर्वमित्यर्थः।।
शान्ताशेषविशेषणो विगतभीः संत्यक्तसर्वैषणो गत्वा नूनमकिंचनत्वमरिषु त्यक्त्वा समग्रां श्रियम्।
शान्ताहंकृतिरस्तदेहकलनस्तेष्वेव भित्रामटन् मामप्युज्झितवानलं यदि भवस्युच्चैस्तदुच्चैरसि।।[6-8-30]
शान्तेति।। शान्तान्यशेषविशेषणानि ब्राह्मणोऽहं गृहस्थोऽहमित्यादिनि यस्य। विगता भीर्भयहेतुः यस्मात् संत्यक्ताः सर्वा एषणाः पुत्रकलत्रादिवाञ्छा येन स तादृशः सन् संत्यक्ताः सर्व एषणाः पुत्रकलत्रादिवाञ्छा येन स तादृशः सन् अरिषु समग्रां श्रियं त्यक्त्वा अकिंचनन्वमेव गत्वा आश्रित्य शान्ताहंकृतिरस्तदेहकलनस्येष्वेवारिषु भिक्षामटन् मामपरित्याज्यं गुरुमपि अलं सम्यगुज्झितवान् यदि भवसि तत्तर्हि उच्चैरस्युच्चैरसि उन्नतादप्युन्नतोऽसि। सर्वोत्कृष्टं ब्रह्मैवासीत्यर्थः।।
वसिष्ठ उवाच।।
अथ तस्य गुरोर्वक्त्रादित्याकर्ण्य भगीरथः।
मनस्याहितकर्तव्यः स्वव्यापारपरोऽभवत्।।[6-8-31]
अथेति।। मनस्याहितकर्तव्यः गुरुपदिष्टं कर्तव्यं चित्ते निधायेत्यर्थः। स्वव्यापारपरः राज्यचिन्ता स्वव्यापारः तत्र तात्पर्यवानिवाभूत्।।
ततः कतिपयेष्वेव वासरेषु गतेषु सः।
अग्निष्टोममखं चक्रे सर्वत्यागैकसिद्धये।।[6-8-32]
गोभूम्यश्वहिरण्यादि ददौ धनमशेषतः।
द्विजदेवार्तबन्धुब्यो गुण्यागुण्यं विचारयन्।।[6-8-33]
दिवसत्रयमात्रेण सर्वमेव परित्यजन्।
स्ववस्त्रमात्रशेषोऽसावसीद्राजा भगीरथः।।[6-8-34]
तत इति।। सर्वत्यागैकसिद्धये सर्वधनत्यागावसरसंपादनायेत्यर्थः।।[6-8-32,33,34]
अथ सर्वार्थरिक्तं तु खिन्नप्रकृतिपौरकम्।
सीमान्तिने तृणमिव राज्यं स्वमरये ददौ।।[6-8-35]
अथेति।। अथ भगीरथः सर्वार्थरिक्तं सर्वधनशून्यं खिन्नप्रकृतिपौरकं खिन्नाः दीनाः प्रकृतयोऽमात्यादयः पौराः पुरजनाश्च यस्मिंस्तत्स्वं स्वीयं राज्यं तृणमिव सीमान्तिने सीमान्ते वर्तमानाय अरये ददौ। सामन्तिन इति पाठे सामन्ताः समन्तसंभवा देशास्तद्वते। समीपदेशाधिपतय इत्यर्थः।।
आक्रान्ते द्विषता राज्ये मनिसद्मनि मण्डले।
अधोवासोऽवशेषोऽसौ निर्जगाम स्वमण्डलात्।।[6-8-36]
यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात्।
तत्र ग्रामे अरण्येषु पुरेषुवास धैर्यवान्।।[6-8-37]
इत्यल्पेनैव कालेन प्रशान्तसकलैषणः।
परमेण शमेनासौ प्राप विश्रान्तिमात्मनि।।[6-8-38]
आक्रान्त इति।। द्विषता राज्ये राज्यभवे सद्मनि स्वगृहे मण्डले स्वराष्ट्रे च आक्रान्ते सति असौ भगीरथः अधोवासोऽवशेषः परिधानमात्रशेषो मुनिः मौननिष्ठः स्वमण्डलान्निर्जगाम।।[6-8-36,37,38]
भ्रमन्द्वीपानि भूपीठे कदाचित्कालयोगतः।
अवशः शत्रुणाक्रान्तं स्वमेव प्राप तत्पुरम्।।[6-8-39]
भ्रमन्निति।। अवशः स्वस्य गन्तव्यदेशाभावात्पथिकानुसारी शत्रुणा आक्रान्तं स्वयमेव तत्पुरं कदाचित्प्रापेत्यर्थः।।
नानागारांश्च तत्रासौ प्रवाहपतितांश्च तान्।
पौराणां मन्त्रिणां चैव शनैर्भिक्षामयाचत।।[6-8-40]
विविदुस्तं नृपं पौरा मन्त्रिणश्च भगीरथम्।
पूजयामासुरथं तं सविषादं सपर्यया।।[6-8-41]
प्रभो राज्यं गृहाणेति प्रार्थितोऽप्यरिणा मुनिः।
नाददे नावृताशेष तृणमप्यशनादृते।।[6-8-42]
कतिचिद्दिवसांस्तत्र नीत्वान्यत्र जगाम सः।
भगीरथोऽयं हा कष्टमिति लोकेन शोचितः।।[6-8-43]
अथान्यत्रोपशान्तात्मा परिविश्रान्तधीः सुखी।
आत्मारामः कदाचिच्च स प्राप त्रितुलं गुरुम्।।[6-8-44]
नानेति।। प्रवाहपतितान्मनः-प्रवाहानुसारेण प्राप्तान्।।,6-8-40,41,42,43,44]
स्वमेव स्वागतं कृत्वा तेन सार्धं भगीरथः।
किंचित्कासमुवासाद्रौ वने ग्रामे पुरे जने।।[6-8-45]
स्वमिति।। स्वमेव स्वागतं कृत्वा। स्वोचितं स्वागतादिसत्कारं कृत्वेत्यर्थः।।
समतामुपयातौ तौ गुरुशिष्यौ समौ स्थितौ।
कलयामासतुः स्वस्थौ विषादं देहधारणे।।[6-8-46]
समतामिति।। देहधारणं विषादं दुःखहेतुम्।।
किमयं धार्यते देहः किंवानेनोज्झितेन नौ।
यथाक्रमं यथाचारं तिष्ठत्वेष यथास्थितम्।।[6-8-47]
इति निश्चित्य तिष्ठन्तौ तौ वनाद्वनगामिनौ।
न ननन्दतुरानन्दं न दुःखं न च मध्यमम्।।[6-8-48]
किमिति श्लोकद्वयं वाक्यम्।। आनन्दं आनन्द्यते येन तं सुखहेतुं न नन्दतुः नाभ्यनन्दताम्। दुखं दुःखहेतुम्। मध्यमं अनुभवहेतुम्।।[6-8-47,48]
धनानि वाजिविभवाद्यैश्वर्यं चाष्टधोदितम्।
सिद्धैरप्यर्पितं तुष्टैर्मेनाते जर्जरं तृणम्।।[6-8-49]
अथैकदा पुरश्रेष्ठे कस्मिंश्चिन्मण्डलान्तरे।
अनपत्यं नृपं मृत्युरहरत्स्वमिवामिषम्।।[6-8-50]
तत्र प्रकृतयः खिन्ना नष्टदेशक्रमा नृपम्।
अन्विष्यन्तिस्म संयुक्तं गुमलक्ष्म्या विशालया।।[6-8-51]
तं भगीरथमासाद्य स्थितं भिक्षाचरं मुनिम्।
परिज्ञाय समानीय सैन्ये चक्रुर्महीपतिम्।।[6-8-52]
भगीरथः क्षणेनैव प्रावृषीवाम्बुना सरः।
वलितः सेनया गुर्व्या समारोहन्मतङ्गजम्।।[6-8-53]
भगीरथो जगन्नाथो जयतीति जनारवैः।
नीरन्ध्रतामुपाजग्मुर्गिरीन्द्राणां महागुहाः।।[6-8-54]
तत्र तत्पालयन्तं तं राज्यं राजानमादृताः।
आजग्मुः प्राक्प्रकृतयः प्राहुरित्थं मृताधिपाः।।[6-8-55]
राजन्नस्माकमधिपो यस्त्वया स पुरा कृतः।
मृत्युना विनिगीर्णोऽसौ मत्स्येनेवामिषं मृदु।।[6-8-56]
तत्त्वं पालयितुं राज्यं प्रसादं कर्तुमर्हसि।
अप्रार्थितोपयातानां त्यागोऽर्थानां च नोचितः।।[6-8-57]
धनानीति।। धनानि प्रसिद्धानि। वाजिविभवो वाजिसंपत्तिस्तदादि यद्राज्ञामैश्वर्यं तच्च तदप्यष्टधोदितं अणिमादिकं तच्च सिद्धैरष्टमहासिद्धिमद्भिः देवयोनिभेदैस्तुष्टैः प्रीतैरप्यर्पितमपि जर्जरं जीर्णं मेनाते। अन्तरायधियेति भावः।।[6-8-49,50,51,52,53,54,55,56,57]
वसिष्ठ उवाच।।
इति संप्रार्थितो राजा तदङ्गीकृत्य तद्वचः।
सप्तसागरचिह्नायाः स बभूव भुवः पतिः।।[6-8-58]
समः शान्तमना मौनी वीतरागो विमत्सरः।
प्राप्तकार्यैककरणरतिराहितविस्मयः।।[6-8-59]
इतीति।। तत्तादृशं तद्वचः तासां प्रकृतीनां वचः।।[6-8-58,59]
अथ वर्षसहस्राणि तपस्तप्त्वा सुदारुणम्।
स्वपितामहोत्तारणे भुवि गङ्गामयोजयत्।।[6-8-60]
अथेति।। पितामहाः सगरतनयाः तेषामुत्तारणार्थं नरकादुद्धरणार्थम्।।
भगीरथे महीपतौ यशःप्रचारवीथिका।
तदादि मार्गगा तु सा महीतलं बभूव ह।।[6-8-61]
इति श्रीलघुयोगवासिष्ठे मोक्षोपाये निर्वाणप्रकरणे भागीरथोपाख्यानं नाम अष्टमः सर्गः।। 8 ।।
भगीरथ इति।। यशःप्रचारवीथिका भगीरथस्य कीर्तिसंचारमार्गः तदादि स भगीरथः आदिर्यस्मिन्कर्मणि तद्यथा भवति तथेति।। महीतलं भवनक्रियाविशेषणम्।।
इति श्रीवासिष्ठविवरणे भगीरथोपाख्यानं नाम अष्टमः सर्गः।। 8 ।।