सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः २

विकिस्रोतः तः
← सर्गः १ लघुयोगवासिष्ठः
सर्गः २
[[लेखकः :|]]
सर्गः ३ →

देवपूजोपाख्यानम्।।
द्वितीयः सर्गः।।
वसिष्ठ उवाच।।
आभासमात्रमेवेदमित्थं संप्रति भासते।
अयं नामाहमित्यन्तरसदेव शरीरकम्।।[6-2-1]
पूर्वं प्राणवृत्त्यनुसंधानाच्चित्तविश्रान्त्या निर्वाणमुक्तम्। इदानीं तद्वदेव देवपूजयापि चित्तविश्रान्तिलक्षणं निर्वाणं भवतीत्युच्यते। तत्र तावद्देहाभिमानस्य सर्वनिर्वाणोपायप्रतिबन्धकत्वात् तन्निवृत्तये हितं किंचिदुपदिशति-आभासमात्रमिति।। इदं शरीरं वस्तुत आभासमात्रं प्रतीतिमात्रसिद्धमपि संप्रति अविचारदशायामित्थं अमित्यहमिति चात्मनो भेदेनाभेदेन चाभिमानविषयतयान्तरन्तःकरणे भासते। विचार्यमाणं पुनरसदेव मिथ्थैव कल्पितत्वात्।।
मांसास्थिमयनिर्माणदेहोऽहमिति विभ्रमम्।
त्यज संकल्पनिर्माणदेहाः सन्ति सहस्रशः।।[6-2-2]
मांसेति।। मांसास्थिमयं निर्माणं यस्य तादृसो देहोऽहमिति यो विभ्रमः तं त्यज। एवंविधानां संकल्पकल्पितानां देहानां सहस्रशो विद्यमानत्वादित्यर्थः।।
सुखतल्पगतो येन स्वप्नदेहेन दिक्तटान्।
परिभ्रमसि हे राम स देहस्ते क्व संस्थितः।।[6-2-3]
देहासत्यत्वमेवाह-सुखेति।। सुखतल्पगतस्य ते दिक्तटभ्रमणहेतवो ये स्वप्नदेहास्तेषामसत्यत्वं त्वयाभ्युपगतस्य ते दिक्तटभ्रमणहेतवो ये स्वप्नदेहास्तेषामसत्यत्वं त्वयाभ्युपगतमेवेत्यर्थः।।
जागरायां मनोराज्ये येन स्वर्गपुरान्तरम्।
परिभ्रमसि मेरुं वा स देहस्ते क्व संस्थितः।।[6-2-4]
जागरायामिति।। जाग्रद्दशायामपि मनोरथपथेन प्रवहतश्चित्तस्य देहविस्मरणपर्यवसितं यत्पारवश्यं तन्मनोराज्यम्। तत्रापि मिथ्यादेहेनैव देशान्तरभ्रमणमित्यर्थः।।
दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम्।
दीर्घं वापि मनोराज्यं संसारं रघुनन्दन।।[6-2-5]
दीर्घेति।। दीर्घं वा चित्तविभ्रमं नीलं नभ इतिवच्चिरकालानुवृत्तां भ्रान्तिम्।।
आभासमात्रमेवेदं न सन्नासज्जगत्रयम्।
इत्यन्यकलनात्यागं सम्यगालोकनं विदुः।।[6-2-6]
अभ्यासमात्रमिति।। जगत्रयं सन्न बाध्यत्वात्। असन्न प्रतीयमानत्वात्। अतः आभासमात्रं प्रतिभासमात्रमेव न वास्तवमित्यन्यकलनात्वात्। अतः आभासमात्रं प्रतिभासमात्रमेव न वास्तवमित्यन्यकलनात्यागमेव सम्यगालोकनं विदुः।।
अवश्यमेव हि मया मर्तव्यमिति निश्चयः।
इत्यात्ममरणप्राप्तौ किं मुधा परितप्यते।।[6-2-7]
अवश्यमिति।। मरणस्य जननेनैव आवश्यकत्वनिश्चयात्तत्प्राप्तौ परितापो व्यर्थ इत्यर्थः।।
अवश्यमेव जातेन किंचित्सुविभवादिकम्।
प्राप्तवंय पुरुषेणेति लाभेष्वर्थेषु को मदः।।[6-2-8]
अवश्यमिति।। जातेन जीवता पुरुषेण सुविभवादिकं किंचिच्छ्रेयः प्राप्तव्यमिति निश्चयादर्थलाभेषु मदोऽपि नोचित इत्यर्थः।।
प्रविभागं परित्यज्य पदार्थपटलव्रजे।
आभासमात्रे सामान्यमिदमालोकयानघ।।[6-2-9]
प्रविभागमिति।। पदार्थपटलव्रजे पदार्थवर्गसमुदायात्मके प्रपञ्चे प्रविभागं भेदबुद्धिं परित्यज्य इदमाभासमात्रमेव सामान्यं सर्वानुवृत्तं सच्चिन्मात्रमेवालोकय अनुसंधत्स्व।।
आभासमात्रमखिलं वित्तामर्शकलङ्कितम्।
ततस्तदपि संत्यज्य निराभासो भवोत्तम।।[6-2-10]
आभासेति।। यतः कारणादाभासमात्रमपि चित्तामर्शकलङ्कितं चित्तसंबन्धदूषितं ततः कारणादपि आभासमात्रमपि संत्यज्य निराभासो भव निर्विकल्पो भव।।
रागो द्वेषश्च सर्पौ द्वौ न विलीनौ मनोबिले।
यस्य कल्पतरोस्तस्मात्किं नामाङ्ग न लभ्यते।।[6-2-11]
राग इति।। रागद्वेषाख्यौ द्वौ सर्पौ मनोबिले न विलीनौ न तावास्थितौ किंतु निर्गतौ स एव कल्पतरुः सर्वपुरुषार्थसाधकत्वात्। तस्माद्रागादिरहितात्पुंसः सकाशाल्लोके किं नाम श्रेयो न लभ्यते। सर्वमपि श्रेयो लभ्यत इत्यर्थः।।
ये प्रज्ञागर्वमापन्ना विदग्धाः शास्त्रशालिनः।
रागद्वेषमया मान्यगर्दभास्ते धिगस्तु तान्।।[6-2-12]
य इति।। ये पुनः शास्त्रशालिनो विदग्धाः लौकिकवैदिकव्यवहारनिपुणा अपि प्रज्ञागर्वं प्रज्ञावन्तो वयमेवेत्यहंकारमापन्नाः सन्तो रागद्वेषमयाः रागद्वेषभूयिष्ठा भवन्ति ते मान्यगर्दभाः दूरभारवहनक्षमत्वात् बहुमूल्या ये गर्दभास्तत्तुल्याः तान् धिगस्तु। ते न स्प्रष्टव्या इत्यर्थः।।
इदं संसारचक्रं हि नाभौ संकल्पमात्रकम्।
संरोधितायां वहनाद्रघुनन्दन रुध्यते।।[6-2-13]
इदमिति।। संसारो जननमरणादिप्रवाहः स एव चक्रं भ्रमणशीलत्वात् तस्य संकल्पात्मकं चित्तमेव नाभिः प्रवर्तकत्वात् अतश्चित्तनिरोधे संसारो निरुध्यते।।
क्षोभितायां मनोनाभ्यामिदं संसारचक्रकम्।
प्रयत्नाद्रोधितमपि प्रवहत्येव वेगतः।।[6-2-14]
परं पौरुषमाश्रित्य बलं प्रज्ञां च युक्तितः।
नाभिं संसारचक्रस्य चित्तमेव निरोधयेत्।।[6-2-15]
क्षोभितायामिति।। मनसि क्षोभिते संसारः प्रवहत्येव न तु प्रकारान्तररेण रोद्धुं शक्यते।।[6-1-14,15]
प्रज्ञासौजन्ययुक्तेन सास्त्रसंवलितेन च।
पौरुषेण न यत्प्राप्तं न तत्क्वचन लभ्यते।।[6-2-16]
प्रज्ञेति।। प्रज्ञा प्रतिभा। सौजन्यं शमादिसंपत्। शास्त्रं अध्यात्मविद्या। पौरुषं पुरुषस्य कर्म।।
भयप्रदमकल्याणां धैर्यसर्वस्वहारिणम्।
मनःपिशाचमुत्सृज्य योऽसि सोऽसि स्थिरो भव।।[6-2-17]
भयेति।। मनोविकारे परित्यक्ते स्वरूपमेवावशिष्यत इत्यर्थः।।
चित्तयक्षदृढक्रान्तं न सास्त्राणि न बान्धवाः।
शक्नुवन्ति परित्रातुं गुरवो न च मानवम्।।[6-2-18]
संशान्तचित्तवेतालं गुरुशास्त्रार्थबान्धवाः।
शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान्मृगं यथा।।[6-2-19]
चित्तेति।। मनःपिशाचपरवशस्तु केनापि परित्रातुं न शक्यत इत्यर्थः।।[6-1-18,19]
भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत्पदम्।
प्रविचार्य महार्थं स्वमेकमात्मानमाश्रयेत्।।[6-2-20]
भोगेति।। भोगाभोगा विषयविस्ताराः। आर्यस्य जीवन्मुक्तस्य महार्थं परमार्थसिद्धमात्मनमेकाश्रयेत्। अहार्यत्वमिति पाठे स्वात्मन एवमहार्यत्वं प्रविचार्य तमेवात्मानमाश्रयेदित्यर्थः।।
अत्रेमामपरां दृष्टिं महामोहविनाशिनीम्।
शृणु या कथिता पूर्वं मम कैलासकन्दरे।
संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना।।[6-2-21]
अत्रेति।। अपरां दृष्टिं अन्यं आत्मज्ञानोपायम्।।
अस्तीन्दुकरसंबारभासुरः परमो दिवः।
कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम्।।[6-2-22]
तत्रास्ते भगवान्देवो हरश्चन्द्रकलाधरः।
तं पूजयन्महादेवं तस्मिन्नेव गिरौ पुरा।।[6-2-23]
अस्तीति ।। दिवः स्वर्गादपि परम उत्कृष्टः।।[6-2-22,23]
कदाचिदवसं गङ्गातटे विरचिताश्रमः।
तपोऽर्थं तापसाचारे चिराय रचितस्थितिः।।[6-2-24]
कदाचिदिति श्लोकद्वयं वाक्यम्।।
पुष्पार्थं स्यूतपुटिकः पुस्तकव्यूहसंग्रही।।[6-2-25]
एवंगुणविशिष्टस्य कैलासवनकुञ्जके।
तपः प्रचरतो राम समकालोऽस्य वर्तत।।[6-2-26]
स्यूतपुटिकः। पुटिका पूजापुष्पनिक्षेपयोग्या पुटिका सा स्यूता प्रोता येन स तथा। पुस्तकव्यूहसंग्रही ज्ञानशास्त्रविषयाणां पुस्तकानां यः समूहस्तत्संग्रहशीलः।।[6-2-25,26]
अथैकः स कदाचित्तु बहुलस्याष्टमे दिने।
गते श्रावणपक्षस्य रात्र्यग्रे क्षयमागते।।[6-2-27]
दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्विव।
खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च।।[6-2-28]
एतस्मिन्समये तत्र यामार्धे प्रथमे गते।
समाधिं तनुतां नीत्वा स्थितोऽहं बाह्यमग्नदृक्।।[6-2-29]
अथेति श्लोकचतुष्टयं वाक्यम्। कदाचित्तु बहुलस्य श्रावणपक्षस्य गते अतीते अष्टमे दिने रात्रेरग्रभागे क्षयमागते सति स एकोऽहं समाधिं तनुतां नीत्वा बाह्यग्नदृक्स्थितः सन्।।[6-2-27,28,29]
अपश्यं कानने तेजो झगित्येव समुत्थितम्।
शुभ्राशतसंकाशं चञ्चदिन्दुगणोपमम्।।[6-2-30]
प्रकटीकृतदिक्कुञ्जं तदालोक्य मया स्मयात्।
अन्तःप्रकाशशालिन्या बुद्धिदृष्ट्या विलोकितम्।।[6-2-31]
यावत्पश्यामि तं सानुं प्राप्तश्चन्द्रकलाधरः।
गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः।।[6-2-32]
कानने झगित्येव समुत्थितं शुभ्राभ्रशतसंकाशं चञ्चदिन्दुगणोपमं तेजोऽपश्यमित्यन्वयः। झटित्यर्थे झगितीति शाकटायनः पपाठ।।[6-2-30,31,32]
शिष्यानुद्बोध्य तत्रस्थान् गृहीत्वार्घ्यं सुसंयतः।
अगमं सुमनास्तस्य दृष्टिपूतमहं पुरः।।[6-2-33]
तत्र पुष्पाञ्जलिं दत्त्वा दूरादेव त्रिलोचनः।
दत्त्वार्घ्येण मया देवः संप्रणम्याभिवन्दितः।।[6-2-34]
ततश्चन्द्रप्रभासख्या ऋद्ध्या शीतलया तया।
दृशा सर्वार्तिहारिण्या चिरमस्म्यास्पदीकृतः।।[6-2-35]
पुष्पसानूपविष्टाय तस्मै त्रैलोक्यसाक्षिणे।
अर्घं पुष्पं तथा पाद्यमभ्युपेत्यार्पितं मया।।[6-2-36]
शिष्यानिति।। शिष्यानुद्बोध्य समाधेर्व्युत्थाप्य तस्य परमेश्वरस्य दृष्टिपूतं पुरोभागमगमम्।।[6-2-33,35,35,36]
मन्दारपुष्पाञ्जलयो विकीर्णा बहवः पुनः।
नानाविधैर्नमस्कारैः स्तोत्रैश्चाभ्यर्चितः शिवः।।[6-2-37]
मन्दारेति।। नानाविधैस्तत्र नमस्काराणां अष्टाङ्गपञ्चाङ्गादिभेदेन स्तोत्राणां च लौकिकवैदिकभेदेन भिन्नत्वान्नानाविधात्वम्।।
ततो भगवती गौरी तादृश्यैव सपर्यया।
संपूजिता सखीयुक्ता गणमण्डलिका तथा।।[6-2-38]
पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा।
तत्रोपविष्टं प्रोवाच मामर्धेन्दुकलाधरः।।[6-2-39]
तत इति।। तादृश्यैव यादृशी शिवस्य विहिता तादृश्येव गणमण्डलिका प्रमथसमूहः।।[6-2-38,39]
ब्रह्मन्प्रशमशालिन्यः प्राप्तविश्रान्तयः परे।
कच्चित्कल्याणकारिण्यः संविदस्ते स्थिराः पदे।।[6-2-40]
कच्चित्तपस्ते निर्विघ्नं कल्याणमनुवर्तते।
कच्चित्प्राप्यं मनः प्राप्तं कच्चिच्छाम्यन्ति भीतयः।।[6-2-41]
एवंवादिनि देवेशे सर्वलोकैककारणे।
गिरानुनयशालिन्या मयोक्तं रघुनन्दन।।[6-2-42]
त्वदनुस्मृतकल्याणवतामिह महेश्वर।
न च किंचन दुष्प्रापं न च काश्चन भीतयः।।[6-2-43]
ब्रह्मन्निति।। परे पदे प्राप्तविश्रान्तयः ते संविदः स्थिराः कच्चित्। योगान्तराया न सन्ति कच्चिदित्यर्थः।।[6-2-40,41,42,43]
त्वदनुस्मरणानन्दपरिपूरितचेतसाम्।
न ते सन्ति जगत्कोशे प्रणमन्ति न ये पुरः।।[6-2-44]
त्वदिति।। त्वदनुस्मरणजनितानन्देन परिपूरितचेतसां त्वद्भक्तानां पुरः पुरोभागे ये न प्रणमन्ति ते जगत्कोशे न सन्ति।।
ते देशास्ते जनपदास्ता दिशस्ते च पर्वताः।
त्वदनुस्मरणैकान्तधियो यत्र स्थिता जनाः।।[6-2-45]
ते देशा इति।। देशाः अङ्गवङ्गकलिङ्गादयः। जनपदा ग्रामाः। त्वद्भक्तनिवासा एव देशादयः श्लाघ्या इत्यर्थः।।
फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम्।
तनोति चैष्यतो बीजं त्वदनुस्मरणं विभो।।[6-2-46]
ज्ञानामृतैककलशो धृतिज्योत्स्नानिशाकरः।
अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो।।[6-2-47]
त्वदनुस्मरणोदारचिन्तामणिमता मया।
सर्वासामापदां मूर्ध्नि दत्तं भूतपते पदम्।।[6-2-48]
इत्युक्त्वा सुप्रसन्नं तं भगवन्तं महेश्वरम्।
अवोचं प्रणतो भूत्वा यद्राम तदिदं शृणु।।[6-2-49]
भगवंस्त्वत्प्रसादेन पूर्णा मे सकला दिशः।
किंनु पृच्छामि देवेश संदेहं तत्र निर्णयम्।।[6-2-50]
ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगमनामयम्।
सर्वपापक्षयकरं सर्वकल्याणावर्धनम्।।[6-2-51]
देवार्चनविधानं तत्कीदृशं भवति प्रभो।
महेश्वर उवाच।।
शृणु ब्रह्मविदांश्रेष्ठ देवार्चनमनुत्तमम्।।[6-2-52]
फलमिति।। त्वदनुस्मरणं भूतस्य पुण्यस्य पुरा कृतस्य सुकृतस्य फलं अपुण्यस्यासंभवात्। वर्तमानस्य पुण्यस्य सेचनं तनोति।। पुण्यं संवर्धयतीत्यर्थः। ईश्वरानुस्मरणेन पुण्यस्य साद्गुण्यात् एष्यतो भविष्यतः पुण्यस्य बीजं ईश्वरस्मरणापूतचेतसः पुण्यकरणेच्छाप्रवृत्तेः।।[6-2-46,47,48,49,50,51,52]
न देवो देहरूपो हि न देवश्चित्तरूपकः।
अकृत्रिममनाद्यन्तं देवनं देव उच्यते।।[6-2-53]
नेति सार्धत्रयं वाक्यम्। साकारस्य वस्तुनः परिच्छिन्नत्वात् नश्वरत्वाच्चाकृत्रिममनाद्यन्तं देवनं चिन्मात्रमेव देवशब्दार्थः।।
आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः।
अकृत्रिममनाद्यन्तं देवनं चिच्छिवं विदुः।।[6-2-54]
देवः कः स्यादिति त्वेतत्प्रथमं तावदुच्यते।
तदेव देवशब्देन कथ्यते तत्प्रपूजयेत्।।[6-2-55]
आकारेति।। आकारादिभिः परिच्छिन्ने मिते वस्तुनि देवत्वेनाभ्युपगम्यमानत्वे सति तदकृत्रिमत्वादिदेवलक्षणं कुतः संभवेत्। तस्मादकृत्रिमत्वादिलक्षणं देवनमेव चिच्छिवं चिद्रूपं शिवं विदुः।।[6-2-54,55]
अज्ञातशिवतत्त्वानामाकाराद्यर्चनं कृतम्।
योजनाध्वन्यशक्तस्य क्रोशाध्वा परिकथ्यते।।[6-2-56]
अज्ञातेति।। अज्ञातशिवतत्त्वानां ईदृशं चिच्छिवमजानताम्।।
चिद्व्योमैव किलास्तीह पारावारविवर्जितम्।
सर्वत्रासंभवच्चेत्यं कल्पान्तेषु च शिष्यते।।[6-2-57]
चिदिति।। पारावारविवर्जितं उत्तरपूर्वावधिरहितं असंभवच्चेत्यं दृश्यासंस्पृष्टं यद्वस्तु कल्पान्तेषु च शिष्यते तदेव चिद्व्योम सर्वत्रास्ति।।
बोधः साम्यं शमश्चेति पुष्पाण्यग्र्याणि तस्य तैः।
शिवं चिन्मात्रममलं पूज्यं पूजाविदो विदुः।।[6-2-58]
शमबोदादिभिः पुष्पैर्देव आत्मा यदर्च्यते।
तत्तु देवार्चनं विद्धि नाकारार्चनमर्चनम्।।[6-2-59]
बोध इति।। वोधस्तत्त्वज्ञानं साम्यं तस्य पूर्णतादृष्टिः शमो निर्विकारचित्ततेति। तस्य चिच्छिवस्य अग्र्याणि श्रेष्ठानि पुष्पाणि तैः शिवं पूज्यं विदुः।।,6-2-58,59]
अकृत्रिममनाद्यन्तमद्वितीयमखण्डितम्।
अबहिःसाधनासाध्यं सुखं तस्मादवाप्यते।।[6-2-60]
अकृत्रिममिति।। अबहिःसाधनासाध्यं बहिःसाधनादिभिः बाह्यप्रयत्नैः असाध्यं कैवल्यं सुखं तस्मात्पूर्वोक्ताद्देवार्चनादवाप्यते।।
संवित्सर्वकलातीता सर्वभावान्तरस्थिता।
नित्यं सदसतोर्मध्ये सत्तासामान्यरूपिणी।
महासत्तात्मतां प्राप्ता देवशब्देन कथ्यते।।[6-2-61]
देवपूजाया बाह्याभ्यन्तरभेदेन द्वैविध्यस्य वक्ष्यमाणत्वात्। ब्राह्यपूजां वक्तुं तदुचितां देवतामाह-संविदिति।। सर्वकलातीता निवृत्तप्रतिष्ठ विद्याशान्तिशन्त्यतीताख्यपञ्चकलातीता। पञ्चभूतात्मप्रपञ्चातीत्यर्थः। यदुक्तमम्बास्तवे-`भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्यानले मरुति शान्तिरतीतशान्तिः। व्योम्नीति ये किल कलाः कलयन्ति तत्त्वं तासां हि दूरतममम्बपदं त्वदीयम्'इति।। सदसतोः कारणकार्ययोर्भावाभावयोर्वा मध्ये सत्तासामान्यरूपिणी संविन्महासत्तात्मतां प्राप्ता अन्तर्बहिश्च सर्वत्र परिपूर्णतया महासत्ताशब्दवाच्या सती देवशब्देन कथ्यते।।
विकल्पकलिता सैव चित्स्वरूपपरिच्युता।
जाड्यं क्रमाद्भावयन्ती प्रयाति कलनास्पदम्।।[6-2-62]
विकल्पेति।। सैव संविद्विकल्पकलिता जाड्यं भावयन्ती क्रमाच्चित्स्वरूपात्परिच्युता सती कलनापदं दृश्यभावं प्रयाति।।
देशकालादिशक्तीनामुल्लासैर्वलिता क्रमात्।
जीवो भूत्वा भवत्याशु बुद्धिः पश्चादहं मनः।।[6-2-63]
एतदेव विवृणोति-देशेति। देशकालादिशक्तीनामुल्लासैः प्रभावैर्वलिता क्षुभिता सती क्रमाज्जीवो भूत्वा आशु बुद्धिर्भवति पश्चादहंकारो भवति। पश्चान्मनो भवति।।
मनस्त्वं समुपायाता संसारमवलम्बते।
चण्डालोऽस्मीति मननाच्चण्डालत्वमिव द्विजः।।[6-2-64]
मनस्त्वमिति।। संसारमवलम्बते मनोमूलत्वात्तस्य। यथा हि कश्चिद्द्विजो बाल्य एव देशान्तरे नीतोऽपि विमोहाच्चण्डालैः सह चिरमुषित्वा तदीयान्नपानदूषितब्राह्मण्यः पश्चात्कथंचित्प्रबुध्याहं चण्डालोऽस्मि सततं तत्संबन्धादिति मन्यमानश्चण्डालत्वमवलम्बते तद्वदित्यर्थः।।
इयमस्मीति बोधेन देहस्था परिपातिनी।
मग्ना मोहमहापङ्के दुःखाद्दुःखं व्रजत्यसौ।।[6-2-65]
इयमिति।। असौ संविदियमहमस्मीति परिच्छिन्नभावेन देहस्था सती परिपातिनी देहाभिमानेन तदपायवती दुःखाद्दुःखं व्रजति।।
पुष्टं संकल्पमात्रेण यदिदं दुःखमागतम्।
तदसंकल्पमात्रेण क्षयि कात्र कदर्थिता।।[6-2-66]
यत्किंचिदपि संकल्प्य नरो दुःखे निमज्जति।
न किंचिदपि संकल्प्य सुखमव्ययमश्नुते।।[6-2-67]
स्वविवेकानिलैः कृत्वा संकल्पजलदक्षयम्।
परां निर्मलतामेहि शरदीव नभोन्तरम्।।[6-2-68]
स्वसंकल्पनकालुष्यं विनिवार्यात्मनात्मनः।
परं प्रसादमासाद्य परमानन्दवान्भव।।[6-2-69]
पुष्टमिति।। इदं संसारदुःखं यद्यस्मात्कारणात्संकल्पमात्रेणैवागतं तेनैव पुष्टं संवर्धितं च तत्तस्मात्कारणात् असंकल्पनमात्रेण संकल्पाभावेनेव क्षयि क्षीयते। अतोऽत्र संसारे का कदर्थिता। न काचिदित्यर्थः।।[6-2-66,67,68,69]
सर्वशक्तिमयो ह्यात्मा शक्तिमण्डलताण्डवैः।
संसारं तन्निवृत्तिं च सर्वमासादयत्यलम्।
समचिन्मात्ररूपस्य सर्वस्यानाकृतेरपि।।[6-2-70]
सर्वेति।। आत्मा सर्वशक्तिमयात्वाच्छक्तिमण्डलस्य ताण्डवैरुल्लासैः संसारं तन्निवृत्तिं च सर्वमासादयति।।
इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च।
तथा नियतिसत्ता च महासत्ता च सुव्रत।।[6-2-71]
शक्तयः का इत्यशङ्क्याह-इच्छेति श्लोकद्वयं वाक्यम्।। इच्छादीनां सत्ताहेतुत्वात् अभेदोपचारेमच्छैव सत्तेत्येवं सामानाधिकरण्यनिर्देशः। तथाहि कस्यचिद्वस्तुनः इच्छामात्रेणैव सत्ता संपद्यते यथा सुखादेः। कस्यचित्तु व्योम्ना यथा शब्दादेः। कस्यचित्तु कालेन यथा पल्लवकुसुमादेः। कस्यचिन्नियत्यायथा द्वीपान्तर एव। केषांचिद्वस्तूनां महासत्ता पुनः सर्वत्रास्ति प्रत्ययहेतुः आत्मनः स्वरूपसत्ता।।
ज्ञानशक्तिः क्रियाशक्तिः कर्तृताऽर्तृतापि च।
इत्यादिकानां शक्तीनामन्तो नास्ति परात्मनः।।[6-2-72]
ज्ञानशक्तिः ज्ञानहेतुः शक्तिरित्थं क्रियाशक्तिः कर्तृता क्रियासमवायहेतुः सत्तशक्तिः अकर्तृता तद्विपरीता इत्यादीनां परात्मशक्तीनामन्तो नास्ति।।
उल्लासशक्त्या संसारः सर्वतः संप्रवर्तते।
निरोधशक्त्या निःशेषमयमायाति संक्षयम्।।[6-2-73]
पूजाक्रमेषु सर्वेषु देहादाहे पवित्रकम्।
त्याज्यदेहावबोधात्मग्राह्यं यत्नात्पवित्रकम्।।[6-2-74]
एष देवः स परमः पूज्य एष सदा सताम्।
पूजनं ध्यानमेवान्तर्नान्यदस्त्यस्य पूजनम्।।[6-2-75]
उल्लासेति।। संसारोज्जृम्भणहेतुः उल्लासशक्तिः तन्निवृत्तिहेतुः निरोधशक्तिरित्यर्थः।।[6-2-73,74,75]
तस्मात्रिभुवनाधारं नित्यं ध्यानेन पूजयेत्।
चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम्।।[6-2-76]
तस्मादिति श्लोकपञ्चकं वाक्यम्।। यस्मादस्य देवस्य ध्यानमेव पूजनं तस्मादित्थं त्रिभुवनाधारं देवं ध्यानेन नित्यं पूजयेदित्यन्वयः। समस्ताभासभासनं सर्वेषां प्रकाशकानां सूर्यादिनामपि प्रकाशकं अन्तस्थचित्प्रकाशं शरीरान्तः स्फुरच्चित्प्रकाशरूपं स्वं सर्वेषां स्वरूपभूतम् आशये हृदये या अहन्ता अहंभावः तस्यां सारं चिदचिदात्मकेऽहंकारे चिद्रूपस्यैव सारभूतत्वात्। तदुक्तं प्रेक्षाणके-`अहमित्यग्रिमबोधे चिदचिद्रूपे यदस्ति चिद्रूपम्। यत्साक्षादपरोक्षं सूक्ष्मं ब्रह्मास्ति सूक्ष्मदृग्वेद्यम्' इति। अपारस्य परमाकाशस्य यो विपुल आभोगो विस्तारः स एव कन्धरा कण्ठदेशो यस्य। अनन्तस्याधस्तनाकाशस्य यः कोशोऽभ्यन्तरविस्तारः स एव पादसरोरुहं यस्य।।[6-2-76,77,78]
नानाविधमहालोकगृहीतपरमायुधम्।
हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम्।।[6-2-79]
नानाविधा ये महान्तो लोका भूरादयः त एव गृहीतानि स्वहस्तस्वीकृतानि परमाण्यायुधानि यस्य। हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परमिति सिसृक्षितभाविब्रह्माण्डाभिप्रायेणेति वेदितव्यम्।।
प्रकाशपरमाकाशपारगापारविग्रहम्।
अध ऊर्ध्वं चतुर्दिक्षु विदिक्षु च निरन्तरम्।।[6-2-80]
प्रकाशस्य परमाकाशस्य पारगः स्वयमपारश्च विग्रहो यस्येति।।
ब्रह्मेन्द्ररिरुद्रेशप्रमुखामरमण्डितम्।
इमां भूतश्रियं तस्य रोमालिं प्रविचिन्तयेत्।।[6-2-81]
ब्रह्मेति।। भूतपरम्परा तस्य देवस्य रोमालिरित्यर्थः।।
विविधारम्भकारिण्यस्त्रिजगद्यन्त्ररज्जवः।
इच्छाद्याः शक्तयस्तस्य चिन्तनीयाः शरीरगाः।।[6-2-82]
एष देवः स परमः पूज्य एव सदा सताम्।
चिन्मात्रो ह्यनुभूतात्मा सर्वगः सर्वसंश्रयः।।[6-2-83]
विविधेति।। त्रिजगदेव यन्त्रकल्पितं संस्थानं पराधीनक्रियं द्रव्यं तस्य रज्जवः प्रवृत्तिहेतवः। इत्थंभूता इच्छाद्याः पूर्वोक्ताः शक्तयः तस्य शरीरगाश्चिन्तनीयाः।।[6-2-82,83]
अनन्तः स पराधारः सत्तामात्रैकविग्रहः।
विवर्तितजगज्जालः कालोऽस्य द्वारपालकः।।[6-2-84]
अनन्त इति।। अनन्तः निरवधिकः पराधराः परमात्मनः शक्तिरूपत्वात्तदाश्रयः सत्तामात्रैकविग्रहः तद्रूपत्वात् विवर्तितजगज्जालः विविधं प्रवर्तितं जगज्जालं येन। कानिचिज्जगन्ति बहिर्निःसारयति कानिचित्त्वन्तःप्रवेशयति कानिचित्तु तथैव स्थापयतीति कृत्वा सोऽयं प्रसिद्धः कालोऽस्य देवस्य द्वारपालकः द्वाःस्थ इव ईश्वरेच्छानुसारेण जगतां प्रवर्तनात्।।
सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिकम्।
सर्वतः स्पर्शनमयं सर्वतो रसनान्वितम्।।[6-2-85]
सर्वत्र श्रवणाकीर्णं सर्वत्र मननान्वितम्।
सर्वतो मननातीतं सर्वत्र परमं शिवम्।
इति संचिन्त्य देवशमर्चयेद्विधिवत्ततः।।[6-2-86]
सर्वत्रेति सार्धश्लोकद्वयं वाक्यम्। `विश्वतश्चक्षु'रित्यादिश्रुतेः। सर्वत्र सर्वन्द्रियशक्तियुक्तं सर्वतो मननातीनं मनोव्यापारागम्यं सर्वत्र परमशिवरूपं देवेशमेवं पूर्वोक्तप्रकारेण संचिन्त्य विधिवदर्चयेत्।।[6-2-85,86]
स्वसंविदात्मा देवोऽयं नोपहारेण पूज्यते।
नित्यमक्लेशलभ्येन शीतलेनाविनाशिना।
एकेनैवामृतेनैष बोधेन स्वेन पूज्यते।।[6-2-87]
पूजाविधौ विशेषं दर्शयितुमाह-स्वसंविदिति सार्धश्लोकत्रयं वाक्यम्।। अयं स्वसंविदात्मा देवो बाह्योपहारेम न पूज्यते किंत्वक्लेशलभ्येन शीतलेन चिन्तासंतापरहितेन अविनाशिना एकेनैव बोधामृतेन पूज्यते।।
एतदेव परं ध्यानं पूजैषैव परा स्मृता।
यदनारतमन्तःस्थशुद्धचिन्मात्रवेदनम्।।[6-2-88]
न केवलं बोधामृतमुपहार एव अपि तु पूजापि तदेवेत्याह-एतदिति।। अनारतमविच्छिन्नं अन्तःस्थस्य शुद्धस्य चिन्मात्रस्य वेदनमनुसंधानं यदस्ति एतदेव ध्यानं एषैव परमा पूजा।।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।
प्रलपन्विसृजन्गृगृह्णञ्शुद्धसंविन्मयो भवेत्।।[6-2-89]
ध्यानोपहार एवात्मा ध्यानमस्य महार्चनम्।
विना तेनेतरेणायमात्मा लभ्यत एव नो।।[6-2-90]
ध्यानेनानेन सुमते निमेषांस्तु त्रयोदश।
मूढोऽपि पूजयित्वेशं गोप्रदानफलं लभेत्।।[6-2-91]
पूजयित्वा निमेषाणां शतमेकमिति प्रभुम्।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः।।[6-2-92]
पूजयित्वा स्वमात्मानं घटिकार्धं त्विति प्रभुम्।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः।।[6-2-93]
ध्यानबल्युपहारेम स्वयमात्मानमात्मना।
घटिकां पूजयेद्यस्तु राजसूयं लभेत सः।।[6-2-94]
मध्याह्नपूजनादित्थं राजसूयैकलक्षभाक्।
दिवसं पूजयित्वैवं परे धाम्नि वसेन्नरः।।[6-2-95]
अनारतानुसंधानप्रकारमेवाह-पश्यन्निति।। स्वसंनिधानमात्रेण सूर्यवत्सर्वेन्द्रियव्यापारान् प्रवर्तयन् यः सर्वस्य साक्षी स विशुद्धसंविन्मात्ररूपोऽहमिति सर्वदानुसंदध्यादित्यर्थः। तदुक्तं हस्तामलके-`निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः। रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मेति।।[6-2-89,90,91,92,93,94,95]
एषोऽसौ परमो योग इयं सा परमा क्रिया।
बाह्यसंपूजनं प्रोक्तमेतदुत्तममात्मनः।
इदानीं संप्रवक्ष्येऽहमन्तःपूजनमात्मनः।।[6-2-96]
ध्यानकालातिशयेन फलातिशयं निरूप्य बाह्यपूजामुपसंहरन् आभ्यन्तरपूजामुपचक्रमते-एष इति सार्धत्रयं वाक्यम्।। परमा क्रिया परमं तपः।।
नित्यमेव शरीरस्थमिमं ध्यायेत्परं शिवम्।
शयानमुत्थितं चैव व्रजन्तमथ वा स्थितम्।।[6-2-97]
स्पृशन्तमभितः स्पृश्यं त्यजन्तमथवाभितः।
भुञ्जानं संत्यजन्तं च भोगानाभोगपीवरान्।।[6-2-98]
नित्यमिति श्लोकद्वयं वाक्यम्। शरीरस्थं देहाभिमानिनं जाग्रदाद्यवस्थासु बहुधा व्यापृतमिममेव जीवं परं शिवं ध्यायेदित्यन्वयः।।[6-2-97,98]
प्रवाहपतितार्थस्थस्वबोधस्नानशुद्धिमान्।
नित्यावबोधार्हणया बोधलिङ्गं प्रपूजयेत्।।[6-2-99]
मनो मननशक्तिस्थं प्राणापानान्तरोदितम्।
हृत्कण्ठतालुमध्यस्थं भ्रूनासापुटपीठगम्।
षट्‌त्रिंशत्पदकोटिस्थमुन्मन्यन्तदशातिगम्।।[6-2-100]
प्रवाहेति श्लोकद्वयं वाक्यम्। प्रवाहपतितार्थस्थस्वबोधस्नानशुद्धिमान् प्रवाहोऽत्र बहिर्मुखश्चित्तवृत्तिप्रवाहः तत्पतितस्तद्विषयोऽर्थो घटादिः तत्स्थं तत्र प्रतिफलितं तच्च तत्स्थं च स्वरूपचैतन्यं च। घटाद्याकारायां चित्तवृत्तौ प्रतिबिम्बितमात्मचैतन्यमित्यर्थः। तस्य बोधोऽनुसंधानं- तदेव स्नानं हि प्रवाहपतितार्थस्थितस्य स्वरूपस्यावबोधः तेन शुद्धिमान् शुद्धः सन्मनो मननशक्तिस्थं मनसो या मननशक्तिः तत्स्थं तत्प्रवर्तकम्। प्राणापानयोरन्तरे उदितं तयोः प्रवर्तकत्वात्। तदुक्तं सांबेन-`प्राणापानौ वहति च समौ यौ मिथो ग्राससक्तौ देहस्थं तं सपदि परमादित्यमाद्यं प्रपद्ये' इति। हृत्कण्ठतालुमध्यस्थं हृन्मध्ये कण्ठमध्ये तालुमध्ये च स्थितं हृदादीनां मर्मस्थानतया तत्र विशेषेणाभिव्यक्तं भ्रूनासापुटपीठगं भ्रूमध्ये नासाग्रे चोपास्यं इत्थंभूतं बोधरूपं लिङ्गं नित्यावबोदार्हणया निरन्तरानुसंधानरूपया पूजया प्रपूजयेत्। लिङ्गं हि शक्त्या युक्तं पिण्डिकान्तरे उदितं मध्यस्थं पीठगं च भवति तद्वदिदमिति भावः।।[6-2-99,100]
सहस्रपादावयवः सकेशनखदन्तकः।
स्वदेहे संविदाभासो देवोऽयमिति भावयेत्।।[6-2-101]
सहस्रेति श्लोकपञ्चकं वाक्यम्।। हस्तपादादिसर्वासर्वावयवप्राप्तचैतन्यः स्वदेहे वर्तमानो यश्चिदाभासः अहंकारप्रतिबिम्बितचैतन्यरूपो जीवः अहमिति प्रतीयते अयमेव देवः बिम्बप्रतिबिम्बयोरभेदात्।।
विचित्राः शक्तयो बह्व्यो नानाचारा मनोदृशाम्।
उपासते मामनिशं पत्न्यः कान्तमिवोत्तमम्।।[6-2-102]
मनोदृशां बाह्येन्द्रियाणां मनसो बाह्यार्थग्रहणसाधनत्वात् मन एव दृग्येषामिति बहुव्रीहिर्वा। मनोविना बाह्येन्द्रियाणां स्वस्वविषयग्रहणासामर्थ्यात् तेषां मनोदृशां नानाचाराः पृथग्भूतव्यापारा अतएव विचित्रा बह्व्यः शक्तयो रूपादिग्रहणसामर्थरूपाः पत्न्यः कान्तं स्ववल्लभमिव मां सर्वेन्द्रियशक्तिप्राणप्रदं जीवात्मरूपं देवमनिशमुपासते।।
मनो मे द्वारपालोऽयं निवेदितजगत्रयम्।
चिन्तेयं मे प्रतीहारी द्वारस्था शुद्धरूपिणी।।[6-2-103]
इत्थंभूतस्य देवस्य मे निवेदितजगत्रयं विज्ञापितविश्ववृत्तान्तं मन एव द्वारपालः। इत्थं बाह्यार्थविषया चिन्तैव मे द्वारस्था शुद्धरूपिणी विश्वसनीया प्रतीहारी अन्तःपुरस्था।।
ज्ञानानि च विचित्राणि भूषणान्यङ्गगानि मे।
कर्मेन्द्रियाणि द्वाराणि बुद्धीन्द्रियगणैः सह[6-2-104]
विचित्राणि विविधवस्तुविषयाणि ज्ञानानि च मे अङ्गानि अवयवगतानि भूषणानि स्वरूपशोभाहेतुत्वात्। कर्मेन्द्रियाणि वागादीनि बुद्धीन्द्रियगणैः सह मे द्वाराणि बहिर्विहारहेतुत्वात्। अत्र च बुद्धीन्द्रियाण्येव गणाः विचित्ररूपत्वाच्चिच्छिवोपासकत्वाच्च।।
अयं सोऽहमनन्तात्मा व्यवच्छेदोज्झिताकृतिः।
तिष्ठामि भरितैकात्मा पूर्णः सर्वावपूरकः।।[6-2-105]
अयमपरोक्षतया प्रतीयमानः सोऽहं शिवरूपोऽहं व्यवच्छेदोज्झिताकृतिः परिच्छेदरहितस्वरूपत्वादनन्तात्मा निरवधिकात्मा पूर्णः सर्वैः पूरितः मयि समस्तवस्तुसंभवात्। सर्वावपूरकः अन्तर्यामितया सर्ववस्तुपूरणात्।। इत्थं भरितैकात्मा अखण्डाद्वितीयरूपस्तिष्ठामि इत्येव भावयेदित्यन्वयः।।
समः समरसाचारः समाभासः समाकृतिः।
सौम्यतामलमायाति पूजयित्वैवमव्ययम्।।[6-2-106]
सम इति।। समः पूर्णत्वात्समरसाचारः रागद्वेषरहितत्वादेकप्रकारव्यवहारः। समाभासः सर्वप्राणिनां चित्तेषु ममैवायं प्रिय इत्येकरूपतयावभासमानः। समाकृतिः सर्वदा निर्विकारत्वादित्थंभूतः सन् अव्ययमात्मानमेवं पूर्वोक्तेन प्रकारेण पूजयित्वा अलं सम्यक् सौम्यतां जीवन्मुक्ततामायाति।।
समया सर्वया बुद्ध्या चिन्मात्रं देववित्परम्।
यथाप्राप्तक्रमोत्थेन सर्वार्थेन समर्चयेत्।।[6-2-107]
समयेति।। देववित्पूर्वोक्तदेवस्वरूपज्ञः चिन्मात्रं परं देवं समया रागादिरहितया सर्वया सर्वेन्द्रियजन्यया बुद्ध्या यथाप्राप्तक्रमोत्थेन समुचितव्यापारसिद्धेन सर्वार्थेन च समर्चयेत्।।
मनागपि न कर्तव्यो यत्नोऽत्रापूर्ववस्तुनि।
कामसंवेदनेनाथ पूजयेच्चेतनं शिवम्।।[6-2-108]
भक्ष्यभोज्यान्नपानेन नानाविभवशालिना।
शयनासनयानेन यथाप्राप्तेन चार्चयेत्।।[6-2-109]
मनागिति।। अत्र पूजाविधौ मनागपि ईषदपि अपूर्ववस्तुनि दुर्लभवस्तुनि लाभाय यत्नो न कर्तव्यः। किं तर्हि कामसंवेदनेन इष्टवस्तुनिवेदनेन चेतनरूपं शिवं पूजयेत्।।[6-2-108,109]
कान्तान्नपानसंभोगसंभारादिविलासिना।
सुखेन सर्वरूपेण संबुद्ध्वात्मानमर्चयेत्।।[6-2-110]
एतदेव विवृणोति-कान्तान्नपानसंभोगसंगसंभारादिविलासिना। कान्तैर्मनोहरैरन्नैः पानैः संभोगसंभारैः स्रक्चन्दनादिभिरादिशब्दग्राह्यैरन्यैश्च सुखसाधनैर्विलासिना सर्वरूपेण सर्वप्रकारेण सुखेनात्मानं संबुध्य सम्यक् शिवरूपं बुद्ध्वार्चयेत्।।
आधिव्याधिपरीतेन मोहसंरम्भशालिना।
सर्वोपद्रवदुःखेन प्राप्तेनात्मानमर्चयेत्।।[6-2-111]
आधीति।। अत्र दुःखस्य पापरूपकालुष्यनिर्वर्तकत्वात् उद्वर्तनादिकल्कद्रव्यवत् आत्मोपयोगित्वात्पूजासाधनत्वं द्रष्टव्यम्।।
दारिद्र्येणाथ राज्येन प्रवाहपतितात्मना।
विचित्रचेष्टापुष्पेण शुद्धात्मानं प्रपूजयेत्।।[6-2-112]
दारिद्र्येणेति।। प्रवाहपतितात्मना वासनाप्रवाहादागतेन विचित्रचेष्टापुष्पेण हितेन विचित्रचेष्टाबुद्धिहेतुना दारिद्र्येण राज्येन वा शुद्धात्मानं देहादिव्यतिरिक्तमात्मानं समर्चयेत्।।
भोगानामनिषिद्धानां निषिद्धानां च सर्वदा।
त्यागेन चाथ रागेण स्वात्मानं बुद्धमर्चयेत्।।[6-2-113]
भोगानामिति।। अनिषिद्धानां रागेण निषिद्धानां त्यागेन चेत्यन्वयः।।
नष्टं नष्टमुपेक्षेत प्राप्तं प्राप्तमुपाहरेत्।
निर्विकारतयैतद्धि परमार्चनमात्मनः।।[6-2-114]
नष्टमिति।। एतन्नष्टोपेक्षणं प्राप्तोपादानं चेत्यर्थः। निर्विकारतया हर्षविषादविकारनिवृत्तिहेतुतया।।
आपातरमणीयं यत्तथाऽऽपातसुदुःसहम्।
सर्वमात्ममयं कुर्यान्नित्यात्मार्चापरो नरः।।[6-2-115]
आपातेति।।आपातरमणीयं प्राथमिकदृष्टावुपादेयमिव प्रतीयमानं सुखं तत्साधनं वा यदस्ति तथा आपातसुदुःसहं प्रतिकूलतया प्रतीयमानं दुःखं तत्साधनं च यत् एतदुभयमपि नित्यात्मार्चापरो नरः आत्ममयं आत्मसमर्पणेन तद्रूपं कुर्यात्।।
सर्वदा सर्वरूपेण यत्सर्वत्र स्थितं हितम्।
सर्वं प्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेत्।।[6-2-116]
सर्वदेति।। सर्वदा सर्वस्मिन्काले सर्वरूपेण नानारूपेण सर्वत्र अन्तर्बहिर्दिक्षु च यद्वस्तु स्थितं तत्सर्वं ब्रह्मैवेति निश्चित्य नित्यात्मार्चाव्रतं चरेत्। प्रतीतस्य सर्वस्यात्मार्पणेन ब्रह्मभावनिश्चय एवात्मार्चनव्रतमित्यर्थः।।
न वाञ्छता न त्यजता ज्ञेन प्राप्ताः स्वभावतः।
सरितः सागरेणेव भोक्तव्या भोगभूतयः।।[6-2-117]
नेति।। ज्ञेन ज्ञानिना अप्राप्तं अवाञ्छता प्राप्तं च न त्यजता स्वभावतः प्राप्ता भोगभूतयः सागरेण सरित इव भोक्तव्याः। तद्वुक्तं गीतासु-`आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी' इति।।
उद्वेगो नानुगन्तव्यस्तुच्छातुच्छासु दृष्टिषु।
व्योम्ना चित्रपदार्थेषु पतितापतितेष्विव।।[6-2-118]
उद्वेग इति। तुच्छातुच्छासु दृष्टिषु शून्याशून्यरूपासु पदार्थप्रतिपत्तिषु तेन उद्वेगश्चित्तविकारो नानुगन्तव्यः। चित्रेषु नानारूपेषु पक्षिमृगादिषु पदार्थेषु पतितेषु अपतितेषु वा व्योम्ना यथा उद्वेगः विकृतिर्नानुगम्यते तद्वत्।।
देशकालक्रियायोगाद्यदुपैति शुभाशुभम्।
अविकारगृहीतेन तेनैवात्मानमर्चयेत्।।[6-2-119]
देशेति।। देशकालकर्मवशात् शुभमशुभं वा यद्वस्तु समुपैति अविकारगृहीतेन निर्विकारस्वीकृतेन तेनैव शुभा शुभरूपेण वस्तुना आत्मानमर्चयेत्।।
आत्मार्चनविधानेऽस्मिन्प्रोक्ता द्रव्यश्रियस्तु याः।
एकेनैव समेनैता रसेन परिभाविताः।।[6-2-120]
नाम्ला न कट्व्यो नो तिक्ता न कषायाश्च काश्चन।
चित्रैरपि रसैर्दिग्धा मधुरा एव ताः किल।।[6-2-121]
निर्विकारचित्ततारूपं शमं प्रशंसन्नाह-आत्मेति श्लोकद्वयं वाक्यम्। अस्मिन्नात्मार्चनविधाने याः शुभाशुभरूपा द्रव्यश्रियः पदार्थसंपदः प्रोक्ताः ताश्चित्रै रसैर्दिग्धाः उपचिता अपि एकेनैव शमेन रसेन भाविता वासिताः सत्यो रसान्तरं अम्लकटुतिक्तकषायादिकं परित्यज्य मधुरा एव भवन्ति किल। माधुर्यमिह रम्यता।।[6-2-120,121]
समता मधुरा रस्या रसशक्तिरतीन्द्रिया।
तया यद्भावितं चेत्थममृतं तत्क्षणाद्भवेत्।।[6-2-122]
समतेति।। समतारूपा मधुरत्वात् रस्या स्वादनीया या रसशक्तिः रसरूपा शक्तिरस्ति तया रसशक्त्या भावितं यच्चेत्यं दृश्यं तत्सर्वं क्षणादेवामृतं मधुरमेव भवेत्।।
समतामृतरूपेण यद्यन्नाम विभाव्यते।
तत्तदायाति माधुर्यं परमिन्दोरिव च्युतम्।।[6-2-123]
समतेति।। इन्दोश्चयुतममृतमिव परं माधुर्यमायातीत्यन्वयः।।
पूर्णेन्दुनेव पूर्णेन भाव्यं समसमत्विषा।
स्वच्छेन चिद्धनैकेन ज्ञेनाप्युपलरूपिणा।।[6-2-124]
पूर्णेति।। ज्ञेन ज्ञानिना समेन समत्विषा एकरूपचित्तवृत्तिना अतश्च पूर्णेन्दुनेव पूर्णेन स्वच्छेन चिद्धनैकेन ब्रह्मणा सह एकीभूतेन उपलरूपिणा पाषाणविन्निर्विकाररूपेण भाव्यम्।।
देशकालकरणक्रमोदितैः सर्ववस्तुसुखदुःखविभ्रमैः।
नित्यमर्चितशरीरनायकस्तिष्ठ शान्तसकलेच्छया धिया।।[6-2-125]
देशेति।। देशकालौ प्रसिद्धौ। करणं पुरुषव्यापारः। तेषां क्रमेण परिपाट्योदितैः सर्वेषां वस्तूनां सुखदुःखरूपैर्विभ्रमौर्विलासैर्नित्यमर्चितः शरीरनायक आत्मा येन स तादृशः सन् शान्तसकलेच्छया धियोपलक्षितस्तिष्ठ।।
ईश्वर उवाच।।
अविद्यां श्रेष्ठया श्रेष्ठः क्षालयन्नेव तिष्ठति।
मलं मलेनापहरन्युक्तिज्ञो रजको यथा।।[6-2-126]
आत्मार्चनेऽत्र ज्ञानस्यापेक्षितत्वात्तत्सिद्धये अविद्यामलक्षालनापायमाहअविद्यामिति।। श्रेष्ठः प्राज्ञः पुमान् श्रेष्ठया शुद्धसत्त्वजन्यत्वादुत्कृष्टया विमलवासनारूपया अविद्ययैव अविद्यां मलवासनारूपां क्षालयन्नेव तिष्ठति। यथाहि युक्तिज्ञ उपायवित् रजको वस्त्राणां मलं ऊषरादिना मलेनैवापहरति तद्वत्।।
अहेतवोऽप्यविद्यांशाः श्रेष्ठाः कारणतां गताः।
क्रमाद्गुरूपेदशाद्या आत्मज्ञानस्य सिद्धये।।[6-2-127]
अहेतव इति।। वस्तुतः अहेतवोऽपि गुरूपदेशाद्याः श्रेष्ठाः अविद्यांशाः क्रमात्कुतश्चिदुपायादात्मज्ञानस्य सिद्धये कारणतां गताः।।
क्रमे गुरूपदेशानां प्रवृत्ते शिष्यबोधनम्।
अनिर्देश्योऽप्यदृश्योऽपि स्वयमात्मा प्रसीदति।।[6-2-128]
एतदेव स्वष्टीकर्तुमाह-क्रम इति।। गुरूपदेशानां क्रमे शिष्यस्य बोधने प्रवृत्ते सति अनिर्देश्यो गुरूणा शब्दैः प्रतिपादयितुमशक्योऽपि विशेषेण चित्तवृत्त्या अदृश्योऽपि साक्षात्कर्तुमशक्योऽपि आत्मा स्वयमेव प्रसीदति प्रकाशये। तदुक्तं सूतसंहितायाम्-`स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः। वृत्त्या निवर्त्यमज्ञानं ग्रसते स्वेन तेजसा' इति।।
शास्त्रार्थैर्बुध्यते नात्मा गुरोर्वचनतो न च।
बुध्यते स्वयमेवैष स्वबोधवशतः स्वतः।।[6-2-129]
आत्मा शास्त्रैर्गुरुवाक्यैश्च इदन्तया नावबुध्यते किं तर्हि स्वबोधवशतः स्वरूपानुसंधानमहिम्ना स्वत एव बुध्यते।।
गुरूपदेशशास्त्रार्थैर्विना चात्मा न बुध्यते।
एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी।।[6-2-130]
यदि स्वत एवात्मा बुध्यते तर्हि गुरुसास्त्रादिभिः किमित्याशङ्क्य तदुपयोगिप्रकारमाह-गुरूपदेशेति।। एतत् संयोगसत्तैव तेषां गुरुशास्त्रार्थशिष्याणां संनिधिसत्तैव स्वात्मज्ञानप्रकाशिनी।।
गुरुशास्त्रार्थशिष्याणां चिरसंयोगसत्तया।
अहनीव जनाचार आत्मज्ञानं प्रवर्तते।।[6-2-131]
गुर्विति।। अहनि सूर्यसंनिधौ जनाचारो लोकव्यवहार इव।।
एवं देवार्चनं नित्यं ज्ञः कुर्वन्मुनिनायक।
यत्रास्मादादयो भृत्यास्तत्प्रयाति परं पदम्।।[6-2-132]
एवमिति।। अस्मदादयो हरिहरादयोऽपि यत्र यस्मिन्परब्रह्मपदे भृत्याः भृत्यवन्निकृष्टा वर्तन्त इत्यर्थः।।
अविद्यमानमेवेदं विद्यामानमिव स्थितम्।
आभासमात्रं त्रिजगन्नान्यदस्ति मुनीश्वर।।[6-2-133]
आत्मार्चनं सर्वं ब्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेदित्युक्तं तत्र जगतश्चिन्मयत्वेन ब्रह्मभावं प्रतिपादयितुं चिद्विवर्तप्रक्रियां प्रस्तौति-अविद्यमानमिति।। आभासमात्रं चिन्मात्रमेव।।
योऽसौ ब्रह्मदिशब्दार्थः संविदं विद्धि केवलाम्।
सा वेद्यमिव मच्छन्ती याति चिन्नामयोग्यताम्।।[6-2-134]
य इति।। यः प्रसिद्ध असौ परोक्षतया प्रतीयमानो ब्रह्मादिशब्दार्थः ब्रह्म परमात्मा परं ज्योतिरित्यादिशब्दानामर्थः प्रतिपाद्यं वस्त्वस्ति तां केवलां विशुद्धां चितिं विद्धि। सैव चिद्वेद्यं गच्छन्तीव सती नामयोग्यतां याति।।
क्षणाद्भावितवेद्यत्वादहन्तामनुगच्छति।
पुमान्भावनया स्वप्ने वनवारणतामिव।।[6-2-135]
क्षणादिति।। सैव चिद्भावितवेद्यत्वाद्भावितं वेद्यं दृश्यं यया तस्या भावः तत्त्वं तस्माद्वेद्यतादात्म्यभावनाद्धेतोरहन्तामहेंकाररूपतामनुगच्छति। पुमान्स्वप्ने वारणभावनया वारणतामिव।।
अस्या अहन्तारूपाया देशतां कालतां गताः।
संपद्यन्ते स्वयं शून्यरूपिण्यः सख्य एव ताः।।[6-2-136]
अस्या इति।। अहन्तारूपाया अहंकाररूपं प्राप्ताया अस्याश्चितो नानारूपास्ता एव शक्तयो देशकालतां देशकालादिरूपतां गताः सत्यः स्वयमेव सख्यः संपद्यन्ते। सहायभावं प्रतिपद्यन्त इत्यर्थः।।
ताभिः संवलिता सैव सत्ता जीवाभिधानिका।
भूत्वा बुद्धित्वमायाति नित्यमत्रपदे स्थिता।।[6-2-137]
ताभिरिति।। सैव चिन्मयी सत्ता ताभिर्देशकालादिभिः शक्तिभिः संवलिता वेष्टिता सती जीवाभिधानिका जीवरूपा भूत्वा अज्ञपदे स्थिता सती बुद्धित्वं बुद्धिरूपतामायाति।।
जीवशक्तिस्तथाभूता निश्चयैकविलासिनी।
शब्दशक्त्या क्रियाशक्त्या ज्ञानशक्त्यानुगम्यते।।[6-2-138]
जीवेति।। जीवशक्तिः जीवरूपा चिच्छक्तिः तथाभूता बुद्धित्वं प्राप्ता अतश्च निश्चयैकविलासिनी बुद्धेर्निश्चयात्मकत्वान्निश्चयेनैकेनैव विलसन्ती शब्दशक्त्यादिबिरनुगम्यते। तत्र शब्दव्यवहारहेतुः शब्दशक्ती।।
मिलित्वैष गणः क्षिप्रं स्मृतिं समनुकल्पयन्।
मनो भवति शुद्धात्म बीजं संकल्पशाखिनः।।[6-2-139]
मिलित्वेति।। एष गणः पूर्वोक्तोऽहंकारादिसमूहः शब्दशक्त्याद्यनुगतः स्मृतिं स्मरणशक्तिं समनुकल्पयन् संकल्पशाखिनो बीजभूतं शुद्धात्म स्वच्छं मनो भवति। शून्यात्मेति पाठे मायाकल्पिताकारमित्यर्थः।।
आतिवाहिकदेहोक्तिभाजनं तद्विदुर्बुधाः।
परामर्शैकरूपिण्यो ह्यनन्तास्तस्य शक्तयः।
व्योमादिरूपतामेत्य जगन्नाना विभाति तत्।।[6-2-140]
आतिवाहिकेति सार्धेन तदेव मनः आतिवाहिकदेहोक्तिभाजनं आतिवाहिकदेह इत्युक्तेरपि विषयं विदुः। मन एव आतिवाहिकदेह इत्यर्थः। तदेव मनः सृष्टिप्रकरणोक्तप्रकारेण व्योमादिरूपतामेत्य नानारूपं सज्जगत्तया विभाति।।
शून्य एव हि वेताल इवेत्थं चित्तवासना।
उदितेयं जगन्नाम्नी तच्छान्तौ शान्तिरक्षता।।[6-2-141]
शून्य इति।। यथाहि वेतालः कल्पितत्वात् शून्य एव न परमार्थः इत्थमनेनैव प्रकारेण चित्तवासनैव जगन्नाम्नी जगद्रूपा उदिता अतस्तस्याश्चित्तवासनायाः शान्तौ सत्यां अक्षता जगतः शान्तिः। कैवल्यमित्यर्थः।।
अहन्तायां जगति च मृगतृष्णाजले च यः।
सास्थास्तं धिग्घतनरं नोपदेश्यस्त्वसाविह।।[6-2-142]
अहन्तायामिति।। यो नरः अहन्तादिषु सास्थः परमार्थबुद्धियुक्तः तं हतनरं धिक्। असाविह ब्रह्मविद्यायां नोपदेशार्हः।।
जीवं विवेकिनमिहोपदिशन्ति तज्ज्ञा नो बालमुद्भ्रममसन्मयमार्यमुक्तम्।
अज्ञं प्रशास्ति किल यः कनकावदातां स स्वप्नदृष्टपुरुषाय सुतां ददाति।।[6-2-143]
ईश्वर उवाच।।
यथा पृष्टं मुने प्रोक्तं त्वयि कल्याणमस्तु ते।
देशं प्रयामोऽभिमतमागच्छोत्तिष्ठ पार्वति।।[6-2-144]
वसिष्ठ उवाच।।
इत्युक्त्वा नीलकण्ठोऽसौ त्यक्तपुष्पाञ्जलौ मयि।
ततार परिवारेण सममम्बरकोटरम्।।[6-2-145]
ततः प्रभृति तेनैव क्रमेणार्चनमात्मनः।
अद्ययावद्गतव्यग्रः कुर्वन्नहमवस्थितः।।[6-2-146]
जीवमिति।। इह तज्ज्ञाः ब्रह्मविदः विवेकिनमधिकारिणमेवमुपदिशन्ति बोधयन्ति। उद्भ्रमं उद्भूतविपरीतज्ञानम्। अतएवार्यैः सभ्यैः अन्यैर्मुक्तं परित्यक्तं असन्मयं अविद्यमानकल्पं बालं मूर्खं नोपदिशन्ति। यस्माद्धेतोरयोग्यमीदृशं प्रशास्ति स गुरुः स्वप्नदृष्टपुरुषाय कन्यकाप्रदानमिव व्यर्थमित्यर्थः।।[6-2-143,144,145,146]
अनेनार्चाविधानेन मयेमा राम वासनाः।
अखिन्नेनेव वाह्यन्ते व्यवहारपरा अपि।।[6-2-147]
अनेनेति।। इमाः संसारवासनाः अखिन्नेनेव विक्षेपरहितेनेव मया अतिवाह्यन्ते नीयन्ते।।
यथा प्राप्तक्रियाचारकुसुमैरात्मनोऽर्चनम्।
व्युच्छिन्नमव्युच्छिन्नं मे न कदाचिदहर्निशम्।।[6-2-148]
यथेति।। यथा प्राप्तक्रियाणामाचारानुष्ठानानि तैरेव कुसुमैरात्मार्चनं विच्छिन्नमपि लौकिकदृष्ट्या विच्छिन्नतया प्रतीयमानमपि मे निरन्तरानुसंधानवतः अहर्निशं कदाचिदपि न व्युच्छिन्नं भवति।।
ग्राह्यग्राहकसंबन्धः सामान्यः सर्वजन्तुषु।
योगिनः सावधानत्वं यत्तदर्चनमात्मनः।।[6-2-149]
दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा।
संसारविरलारण्ये विहरास्मिन्न खिद्यसे।।[6-2-150]
राम उवाच।।
इदानीं संशयो ब्रह्मन्विनिवृत्तो विशेषतः।
ज्ञातं ज्ञातव्यमखिलं जाता तृप्तिरकृत्रिमा।।[6-2-151]
नन्वेतादृशमेवात्मार्चनं सर्वसुलभमेवेत्याशङ्क्य योगिनो विशेषमाह-ग्राह्येति।। सर्वेषामपि देहिनां ग्नाह्यग्राहकसंबन्धः सामान्य एव तथापि पामरा बहिर्मुखतया पास्याम इति व्याकुला भवन्ति। योगी तु पूर्वोक्तप्रकारेणात्मैव देवता इयं च विचित्रा भोगसंपदस्यैव पूजेति सावधानो वर्तत इति विशेषः। तस्मादनुसंधानमेव पूर्वोक्तमात्मार्चनमित्यर्थः[6-2-149,150,151]
परामभेद्यामपरैर्दलिताशामतङ्गजाम्।
संसारसमरे सम्यग्धीरतामागतं मनः।।[6-2-152]
परामिति।। दलिताशामतङ्गजां विदलितदिग्गजां निवर्तितमनोरूपमतङ्गजामिति च।।
परिगलितविकल्पनामुपेतं प्रशमितवाञ्छमदीनसारसत्वम्।
त्रिजगति यदतिप्रसन्नरूपं प्रमुदितमन्तरनुत्तमं मनो मे।।[6-2-153]
इति श्रीयोगवासिष्ठसारे मोक्षोपाये निर्वाणप्रकरणे देवपूजोपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।
परीति।। मे मनः विकल्परहितं गलितवाञ्छम्। अदीनं दैन्यरहितं अतएव सारसत्वं उत्कृष्टज्ञानम्। प्रसन्नरूपं प्रमुदितं च सदनुत्तमं सर्वोत्तमं वर्तत इत्यन्वयः।।
इति संसारतरणिनाम्नि वासिष्ठविवरणे निर्वामप्रकरणे देवपूजोपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।