लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १

विकिस्रोतः तः
लघुयोगवासिष्ठः
सर्गः १
[[लेखकः :|]]
सर्गः २ →

निर्वाणप्रकरणम्।।
भुशुण्डोपाख्यानम्।।
प्रथमः सर्गः।।
वसिष्ठ उवाच।।
दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम्।
चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत्।।[6-1-1]
इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुर्महान्।
एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव।।[6-1-2]
अथ निर्वाणप्रकरणं निरूप्यते। तत्र पञ्चदशाख्मयानानि-भुशुण्डः देवपूजा बिल्वफलं शिला अर्जुनः शतरुद्राः वेतालः भगीरथः किरातचिन्तामणिगजाख्योपाख्यानत्रयगर्भः शिखिध्वजः कचः मिथ्याभृङ्गी इक्ष्वाकुः व्याधः भूमिकाश्चेति। तत्र प्राणवृत्त्यनुसन्धानाच्चित्तविश्रान्त्या निर्वाणमिति भुशुण्डोपाख्यानेन निरूप्यते। तत्र हितमुपदिशति-दिक्कालेति श्लोकद्वयं वाक्यम्। अहं दिगादिभिरनवच्छिन्नमाद्यन्तरहितं चिन्मात्रं ब्रह्मैवास्मि इतरद्देहादिकं नास्तीत्यन्तर्मत्वा निश्चित्य मुक्तामुक्तवपुः अभिमानपरित्यागान्मुक्तं प्रारब्धवशादमुक्तं च वपुर्येन तादृशः सन्स्वात्मसुखः आत्मारामो भव। अस्ति मुक्त्वेति पाठे एकं ब्रह्मैवास्ति इतरन्नेति मत्वा अन्तरहमित्यहन्तां मुक्त्वा अमुक्तवपुर्जीवास्ति इतरन्नेति मत्वा अन्तरहमित्यहन्तां मुक्त्वा अमुक्तवपुर्जीवन्नेव स्वात्मसुखो भवेति योजना।।[6-1-1,2]
यावदज्ञानकलना यावदब्रह्मभावना।
यावदास्था जगज्जाले तावच्चित्तादिकल्पना।।[6-1-3]
अन्यथा संसारो न निवर्तत इत्याह-यावदिति।। ब्रह्मभावना ब्रह्मैवेदं सर्वमिति भावनाया अभावो यावदनुवर्तते अतएवाज्ञानकलनाऽज्ञानमयो बन्धश्च यावदनुवर्तते अतश्च जगज्जाले आस्था यावत्तावदेव चित्तादिकल्पना चित्तं जीवो विद्येत्यादिभेदकल्पना प्रवर्तते।।
नास्ति चित्तं न चाविद्या न मनो नास्ति जीवकः।
एताश्च कलना राम कृता ब्रह्मण एव ताः।
ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रतिजृम्भते।।[6-1-4]
वस्तुतस्तु न काचिद्भेदकल्पनेत्याह-नास्तीति।। चित्तं शुद्धसत्त्वप्रधानमन्तःकरणम्। मनस्तु रजोगुणप्रचुरं संकल्पविकल्पात्मकमन्तःकरणम्।।
देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता।
यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः।।[6-1-5]
देह इति।। पूर्वोक्तस्यैव प्रपञ्चः दृश्ये परकीयदेहादौ आत्मता चेतनत्वबुद्धिः। यद्वा। दृश्ये प्रतिमादौ आत्मता परमात्मभावः। देवताबुद्धिरित्यर्थः।।
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम्।
जुह्वतोऽन्तर्निवर्तन्ते मुनेश्चित्तादिविभ्रमाः।।[6-1-6]
चित्तादिकल्पनाया निवृत्त्युपायमाह-अन्तरिति।। अन्तर्मुखतया सर्वात्मकोऽहमिति परिपूर्णात्मभावनया त्रिजगत्तृणं तृणवदुपेक्षणीयं दृश्यं चिद्वह्नौ सर्वप्रपञ्चाधिष्ठानभूते स्वात्मचैतन्ये जुह्वतः दृग्व्यतिरेकेण दृश्यस्याभावात् विलापयतो मुनेश्चित्तादिविभ्रमा निवर्तन्ते।।
चिदात्मास्मि निरंशोऽस्मि पारावारविवर्जितः।
रूपं स्मर निजं स्फारं माऽस्मृत्या संमितो भव।।[6-1-7]
कैषा अन्तर्मुखतेत्याकाङ्क्षायां चित्स्वरूपमाह-चिदात्मेति।। पारावारविवर्जितः पूर्वोत्तरावधिरहितो निरंशश्चिदात्मास्मीति निजं स्फारं व्याप्तं रूपं स्मर अनुसंधत्स्व। इयमेवान्तर्मुखतेति भावः। अस्मृत्या निजस्वरूपविस्मरणेन संमितः परिच्छिन्नो मा भव। असीति पाठे यतश्चिदात्मासि अतो निजं स्फारं रूपं स्मरेति योजना।।
य एवातितरां शत्रुः सत्वरं मरणोद्यतः।
तमेवाकृत्रिमं मित्रं यः पश्यति स पश्यति।।[6-1-8]
य इति।। यः अतितरां शत्रुः सत्वरं मारणोद्यतश्च तमेव तथाविधमेव शत्रुं यो रागद्वेषरहिततया अकृत्रिमं मित्रं पश्यति स शत्रुमित्रयोः समदर्शी पुमान् पश्यति। जानात्यात्मतत्त्वमित्यर्थः।।
समूलकाषं कषति नदी तट इव द्रुमम्।
यः सौहृदं मत्सरं च स हर्षामर्षदोषहा।।[6-1-9]
समूतेति।। यः सौहृदं मत्सरं च रागं द्वेषं च समूलकाषं कषति सवासनं परित्यजति स पुमान् हर्षामर्षादिदोषान् हन्ति।।
अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका।
क्षीयते भावितेनान्तः शरदा मिहिका यथा।।[6-1-10]
अध्यात्मेति।। अन्तः अन्तःकरणे भावितेन चिरं वासितेन अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका तृष्णारूपा विषजन्या विषूचिका क्षीयते। शरदा मिहिका यथा शरत्कालेन हिममिवष।।
यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा।
तद्वचोऽन्तर्विशत्युच्चैस्तप्ते क्षेत्रे यथा पयः।।[6-1-11]
अध्यात्मशास्त्रमध्यात्मविन्मुखादेव श्रुतं चित्ते लगति नान्यथेत्याह-यत्रेति।। यत्र यस्मिन्पुरुषे उपादेयवाक्यत्वं आप्तत्वेन स्वचेतसा भावितं निश्चितं तद्वचस्तस्यैवाप्तस्य वाक्यं उच्चैः प्रकर्षेण अन्तः अन्तःकरणे विशति प्रविशति। तप्ते क्षेत्रे पयो जलमिव।।
अपर्यालोचितात्मार्था अपरामृष्टसंविदः।
स्पन्दन्ते चेतनोन्मुक्तास्तृणवन्मूढबुद्धयः।।[6-1-12]
गुरुमुखेन स्वानुभवेन च विचाराभावे संशय एव पर्यवस्यतीत्याहअपर्यालोचितेति।। अपर्यालोचितात्मार्थाः आत्मैवार्थः प्रतिपाद्यो यस्मिन् शास्त्रे तदात्मार्थमध्यात्मशास्त्रं तदपर्यालोचितमविचारितं यैस्ते। अपरामृष्टसंविदः अविचारितस्वरूपसंविदश्च मूढबुद्धयः सर्वे तृणवत्स्पन्दन्ते इतस्ततश्चलन्ति। संदिहन्त इत्यर्थः।।
सर्वेषामेव चैतेषां स्थितैवैषा चिदव्यया।
किंत्वबोधवशादस्याः परां कृपणतां गताः।।[6-1-13]
ननु सर्वेषामपि जीवानां चिद्रूपत्वात्कथं केषांचित्संदेह इत्यत्राह-सर्वेषामिति।। सत्यं सर्वेषामेवैतेषां जीवानामव्यया चिदेषा स्थितैव स्वरूपत्वेनावस्थितैव। किंत्वस्याः स्वरूपत्वेनावस्थितायाश्चितः अबोधवशादनाद्यविद्यामहिम्ना अननुसंधानवशात् परां निरवधिकां कृपणतां क्षुद्रतां गताः।।
तर्जनं गर्जनं मूढाद्धनुर्दण्डगुणादिव।
श्रूयते मरणायैव चिद्बोधपरिवर्जितम्।।[6-1-14]
तामेव कृपणतां दूषयन्नाह-तर्जनमिति।। धनुर्दण्डगुणादिव धनुष्यारोपितायाः मौर्व्या इव मूढादज्ञाज्जनात् चिद्बोधपरिवर्जितं स्वरूपचितोऽवबोधरहितं तर्जनं भर्त्सनं गर्जनं कण्ठकोलाहलश्च मरणायैव भूतद्रोहायैव श्रूयते। धनुर्गुणवन्मूढो हि स्वनन् परेषां नाशायैव कल्पते। अतो न तस्मात्किंचिदपि श्रोतव्यमिति भावः।।
तस्मिन्यदधमे दत्तं तत्त्यक्तं सान्द्रकर्दमे।
तेन सार्धं कथा या सा कौलेयाह्वानमम्बरे।।[6-1-15]
स मूढो दानसन्मानादिकं किंचिदपि नार्हतीत्याह-तस्मिन्निति।। तस्मिन्नात्मावबोधविधुरे अधमे दत्तं धनं कर्दमे क्षारे उप्तमिव तेन सह संकथापि अम्वरे निरावरणप्रदेशे।।
अज्ञत्वमापदां निष्ठा का हि नापदजानतः।
इयं संसारसरणिर्वहत्यज्ञप्रसादतः।।[6-1-16]
कौलेयकबाधाया अपरिहार्यत्वं दर्शयति। तस्मात्सर्वापदां संसारसरणेश्चाज्ञानमेव मूलमित्याह-अज्ञत्वमिति।। अज्ञत्वं अज्ञानं आपदां जरामरणादीनां निष्ठा निष्पत्तिहेतुः। कुतः। हि यस्मात्कारणात् अजानतः पुरुषस्य का आपन्न स्यात्। सर्वाप्यापत्स्यादेव। इयं च संसारसरणिरज्ञानमेव प्रसादतो वहति प्रवर्तते। संसारप्रवृत्तेरज्ञप्रवृत्तिमूलत्वात्।।
यदेव गोषपदाकारं ज्ञधियः पेलवं जगत्।
तदेवापारपर्यन्तमगाधममहात्मनः।।[6-1-17]
यदिति।। ज्ञधियः ज्ञानिनो बुद्धेर्यदेव जगद्गोष्पदाकारं गोष्पदभिव पेलवमल्पमवभासते तदेव जगत् अमहात्मनोऽज्ञस्य अगाधमपारपर्यन्तं च प्रतीयते। दुस्तरं भवतीत्यर्थः।।
संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत्।
तत्सच्चिदानन्दमयमस्तीह कलनोज्झितम्।।[6-1-18]
इत्थमात्मज्ञादेव गुरोः श्रोतव्यमित्युक्त्वा तत्त्वं बोधयितुमाह-संवेद्येनेति।। संवेद्येन विषयेणापरामृष्टं असंश्लिष्टं शान्तं सर्वात्मकं च यद्वस्तु सच्चिदानन्दमयं कलनोज्झितं निष्कलं तदेव वस्तुतोऽस्ति।।
समुदेति स्वतस्तस्मात्कला कलनरूपिणी।
सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा।।[6-1-19]
समुदेतीति।। तस्मात्परब्रह्मणः सकाशात्कलनरूपिणी बन्धनस्वभावा कला अविद्या स्वत एव न तु परेच्छया वा समुदेति। सा च कलना सूक्ष्मादिभेदात्रिधा कल्प्यते।।
सत्त्वं रजस्तम इति चैषैव प्रकृतिः स्मृता।
एषैव संसृतिर्जन्तोरस्याः पारं परंपदम्।।[6-1-20]
सत्त्वमिति।। एषा सूक्ष्मादिभेदभिन्ना कलैव सत्त्वादिगुणत्रयात्मिका प्रकृतिः स्मृता। एषैव गुणत्रयात्मकप्रकृतिरूपा कलैव जन्तोः संसृतिर्बन्धहेतुः। अस्या एव पारं निवृत्तिः परंपदं कैवल्यम्।।
अत्र येतु त्रयः प्रोक्ता गुणास्तेऽपि त्रिधा स्मृताः।
नवधैव विभक्तेयमविद्या गुणरूपिणी।।[6-1-21]
अत्रेति।। अस्यां प्रकृतौ गुणाः ते प्रत्येकं त्रिधा स्मृताः। सत्त्वादीनां गुणान्तरैः सह व्यामिश्रितत्वात्। तथाहि सत्त्वं शुद्धं रजोमिश्रं चेति त्रिविधं। इत्थं रजस्तमसी चेति। एवं गुणत्रयात्मिकेयमविद्या कलाशब्दावाच्या नवधा विभक्ता।।
ऋषयो मुनयः सिद्धा नागा विद्याधराः सुराः।
इति भागमविद्यायाः सात्त्विकं विद्धि राघव।।[6-1-22]
ऋषय इति।। अत्र मन्त्रद्रष्टारो वसिष्ठविश्वामित्रादय ऋषयः। मौननिष्ठा मुनयः। ऋष्यादयो मिलित्वा अविद्यायाः सात्त्विको भाग इत्यर्थः।।
सात्त्विकस्यास्य भागस्य नागा विद्याधरास्तमः।
रजस्तु मुनयः सिद्धाः सत्त्वं देवा हरादयः।।[6-1-23]
तत्रावान्तरविभागमाह-सात्त्विकस्येति।। सात्त्विकस्यास्य भागस्य मध्ये नागा वासुकितक्षकप्रमुखाः फणीन्द्राः विद्याधराः खड्गलाङ्गुलिकाञ्जनादिविद्याधारिणो जीमूतकेतुप्रभृतयश्च तमः तमोमिश्रसत्त्वांशाः मोहभूयिष्ठत्वात्। मुनयः सिद्धाश्च रजः रजोमिश्रः सत्त्वांशः तपोनिष्ठतया प्रवृत्तिभूयिष्ठत्वात्। हरादयो देवाः सत्त्वं सात्तिवकभागः सत्त्वांशज्ञानभूयिष्ठत्वात्।।
भाग एष त्वविद्याया एवं विद्यात्वमागतः।
शुद्धं सत्त्वं ह्यविद्याया भागोऽविद्येति कथ्यते।।[6-1-24]
भाग इति।। अविद्याया मध्ये अविद्याप्रभेदानां नवानां मध्ये एष भागः सात्त्विकभागस्य सत्त्वांशो विद्याशब्दवाच्यत्वमागतः। यस्मात्कारणात् शुद्धं सत्त्वं शुद्धसत्त्वरूपो विद्याभाग एव विद्येति कथ्यते।।
राजसी तामसी चेति सृष्टिरेवं त्रिधा त्रिधा।
मौर्ख्यपिण्डः स्थावरादिः प्राप्तस्तामससीमताम्।।[6-1-25]
उक्तन्यायमन्यत्रातिदिशति-राजसीति।। एवमुक्तप्रकारेण राजसी तामसी च सृष्टिस्त्रिविधोक्ता। तथाहि। मनुष्याणामपि सर्वेषां राजसत्वे ज्ञानप्रधाना ब्राह्मणाः। सत्त्वांशः। युद्धादिप्रवृत्तिप्रधानाः क्षत्रियादयो रजोंऽशः। मोहबहुलाः सच्छूद्रादयस्तमोंऽशः। एवं तामसेषु तिर्यक्ष्वपि प्रकाशप्रवृत्तिमोहबाहुल्याद्गवादिषु त्रैविध्यं वेदितव्यम्। मौर्ख्यपिण्डः पिणिडीभूताज्ञानरूपः स्थावरादिः सर्गविशेषः। तामससीमतां तामससृष्टेः परमावधित्वं प्राप्तः।।
राम उवाच।।
मौर्ख्यमत्यन्तघनतामागतं समुपस्थितम्।
स्थावरादितनुं प्राप्तं कीदृशं भवति प्रभो।।[6-1-26]
मौर्ख्यमिति।। अत्यन्तघनतामतिसान्द्रतामागतं मौर्ख्यमज्ञानं स्थावरादितनुं प्राप्तं सत्कीदृशं समुपस्थितं भवति केन प्रकारेणावस्थितं भवति।।
वसिष्ठ उवाच।।
अमनस्त्वमसंप्राप्तं मनस्त्वादपि विच्युतम्।
तटस्थं रूपमाश्रित्य स्थितैषा स्थावरेषु चित्।।[6-1-27]
राम उवाच।।
मनस्त्वाद्विच्युता यत्र संस्थिता स्थावरेषु चित्।
तत्रादुरस्थितां मुक्तिं मन्ये वेदविदांवर।।[6-1-28]
अमनस्त्वमिति।। अमनस्त्वं पाषाणादिवन्निर्मनस्कतां असंप्राप्तं हिताहितप्राप्तिपरिहारार्थायाः प्रवृत्तेरसंभवात्। मनस्त्वादपि मनोव्यापारादपि विच्युतं स्मरणाद्यभावात्। इत्थं तटस्थं मनस्त्वामनस्त्वमध्यवर्ति यन्मौर्ख्यं तादृशं रूपमाश्रित्य चिदेषा स्थावरेषु स्थिता।।[6-1-27,28]
वसिष्ठ उवाच।।
सुप्तपुर्यष्टका यत्र चित्स्थिता सुखदायिनी।
मूकान्धजडवत्तत्र सत्तामात्रेण तिष्ठति।।[6-1-29]
सुप्तेति।। यत्र स्थावरेषु चिच्चैतन्यं सुप्तपुर्यष्टकाख्यं अहंकारकलायुक्तं बुद्धिबीजसमन्वितं तत्पुर्यष्टकमित्युक्तम्। शैवागमे तु `स्यात्पुर्यष्टकमन्तःकरणं धीकर्मकरणादि'त्यत उक्तं तादृशं पुर्यष्टकमिन्द्रियसमष्टिरूपं सुप्तं निलीनं यस्यां सा तादृशी सती सुखदायिनी सुषुप्ताविव सुखाविर्भावहेतुः स्थिता। तत्र स्थावरेषु मूकान्धजडेष्विव चित् सत्तामात्रेण तिष्ठति न पुनः प्रकटतया प्रकशते।।
राम उवाच।।
सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित्।
तत्रादूरस्थितां मुक्तिं मन्ये वेदविदांवर।।[6-1-30]
सत्तेति।। यत्र स्थावरेषु सत्ता चित्सत्ताद्वैततया सत्तया सहाभिन्नतया। सत्तामात्ररूपतयेति सत्ता चित्सत्ताद्वैततया सत्तया सहाभिन्नतया। सत्तामात्ररूपतयेति यावत्। संस्थिता संकल्पविकल्पाद्यभावात् तत्र स्थावरेषु मुक्तिमदूरस्थितां संनिहितां मन्ये। समाध्यवस्थासादृश्यादिति भावः।।
वसिष्ठ उवाच।।
बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात्।
सत्तासामान्यबोधो यः स मोक्षः स्यादनन्तकः।।[6-1-31]
बुद्धीति।। इदं जगद्विचार्य श्रुतियुक्तिविद्वदनुभवैः पर्यालोच्य यथावस्त्ववलोकनात् परमार्थनिश्चयात् बुद्धिपूर्वं यः सत्तासामान्यबोधः सत्तामात्रपर्यवसितो बोधः स ेवानन्तः पुनरावृत्तिरहितो मोक्षः स्यात्। अन्यथा महापातकैरेव कायिकैः स्थावरत्वसिद्धेर्मोक्षस्य सुलभत्वात् मोक्षशास्त्राणां वैयर्थ्यं स्यादिति भावः।।
परिज्ञाय परित्यागो वासनानां य उत्तमः।
सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः।।[6-1-32]
एतदेवाह-परीति।। परिज्ञाय विचार्य हेयत्वाद्वासनानां संसारहेतूनां यः उत्तमः परित्यागः संसारप्राप्तिरहितः परित्यागः कुतः। सत्तासामान्यरूपत्वात् चैतन्यस्य सर्वोपाधिविनिर्मुक्तत्वात् तदेव कैवल्यरूपं विदुः।।
विचार्यार्यैः सहालोक्य शास्त्राण्यध्यात्मभावनात्।
सत्तासामान्यनिष्ठत्वं तत्तद्ब्रह्म परं विदुः।।[6-1-33]
विचार्येति पूर्वोक्तस्यैव प्रपञ्चः। शास्त्राण्यध्यात्मशास्त्राणि आलोक्य गुरुमुखादवधार्य आर्यैः ब्रह्मवादिभिः सह विचार्य युक्तिभिः अनुचिन्त्य अध्यात्मभावनात्स्वचित्तेऽनुसंधानात् यत्सत्तासामान्यनिष्ठत्वं तदेव परं ब्रह्म विदुः।।
अन्तः सुप्तास्थिता मन्दा यत्र बीज इवाङ्कुरः।
वासना तत्सुषुप्तत्वं विद्धि जन्मप्रदं पुनः।।[6-1-34]
अन्तरिति।। यत्र यस्यां स्थावरदशायां वासना बीजाङ्कुर इव अन्तरन्तःकरणे सुप्ता निलीना तन्द्रा स्थिता तत्सुषुप्तत्वं गाढनिद्रासादृश्यात्। तत्पुनर्जन्मप्रदं विद्धि वासनाया निक्षिप्तधनवन्निगूढमवस्थानात्।।
अन्तः संलीनमननं परितः सुप्तवासनम्।
सुषुप्तं जडधर्मत्वाज्जन्मदुःखशतप्रदम्।।[6-1-35]
अन्तरिति।। अन्तः अभ्यन्तरे संलीनमननं निलीनमनोव्यापारं परितः सुप्तवासनं च यत् सुषुप्तं सुषुप्तसदृशी दशा तज्जडधर्मत्वात् जडेष्वेव वर्तमानत्वात् जन्मदुःखशतप्रदं जन्मनां दुःखशतानां च हेतुः।।
स्थावरादय एते हि समस्ता जडधर्मिणः।
सुषुप्तपदमारूढा जन्मयोग्याः पुनः पुनः।।[6-1-36]
स्थावरादय इति।। अन्तःकरणादेते स्थावरादयो जडधर्मिणः समस्ताः सुषुप्तपदमारूढा इति कृत्वा पुनःपुनः जन्मयोग्याः। सुषुप्ता हि पुनःपुनः संसरन्ति।।
यथा बीजेषु पुष्पाणि मृदो राशौ घटा यथा।
तथान्तःसंस्थिताः साधो स्थावरेषु स्ववासनाः।।[6-1-37]
यथेति।। बीजेषु चूतादिबीजेषु यथा अन्तः पुष्पाणि सूक्ष्मरूपतया संस्थितानि। पुष्पग्रहणमुपलक्षणं फलादीनाम्। यथाच मृदो राशौ मृत्तिकासमूहे घटाः संस्थिताः। घटग्रहणं च शरावोदञ्चनादीनामुपलक्षणम्। तथा स्थावरेषु स्ववासनाः स्वीयाः पुण्यापुण्यसंस्कारूपा जन्मान्तरहेतवः अन्तः स्थिताः।।
यत्रास्ति वासनाबीजं तत्सुषुप्तं न सिद्धये।
निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम्।।[6-1-38]
यत्रेति।। यत्र स्थावरदशायां वासना च तद्बीजमज्ञानं च संसारकारणमस्ति तत्सुषुप्तत्वमेव न तुर्यावस्था। तच्च सिद्धये कैवल्याय न भवति। यत्र यस्मिञ्जीवन्मुक्तपदे निर्बीजा निर्गतं बीजमज्ञानरूपं यस्याः सा शुद्धवासना प्रवर्तते तत्तुर्यं पदं सिद्धिदं स्मृतम्।।
वासनायास्तथा वह्नेर्ऋणव्याधिद्विषामपि।
स्नेहवैरिविषाणां च शेषः स्वल्पोऽपि बाधते।।[6-1-39]
वासनाया इति।। वह्न्यादीनामिव वासनायाः शेषः स्वल्पोऽपि बाधत इत्यर्थः।।
निर्दग्धवासनाबीजः सत्तासामान्यरूपवान्।
सदेहोऽपि विदेहो वा न भूयो दुःखभाग्भवेत्।।[6-1-40]
निर्दग्धेति।। निर्दग्धवासनाबीजः निर्दग्धा वासना तद्बीजमज्ञानं च येन तादृशः सत्तासामान्यनिष्ठत्वात् तद्रूपवान्पुरुषः सत्यसति वा देहे भूयो दुःखभाङ्न भवेत्।।
चिच्छक्तिर्वासनाबीजरूपिणी सर्वदेहिनाम्।
अस्यास्त्वदर्शनं यत्तदविद्येत्युच्यते बुधैः।।[6-1-41]
चिच्छक्तिरिति।। या खलु चिच्छक्तिः ब्रह्मचैतन्यरूपायाश्चितः शक्तिः वासनाबीजरूपिणी वासनारूपा तद्बीजाज्ञानरूपा च स्वापधर्मिणी निद्राहेतुश्च विद्यते। यत् अस्याश्चिच्छिक्तेर्हेतोश्चितः स्वरूपस्य तत्प्रसिद्धमदर्शनं अप्रतीतिः सा आवरणशक्तिरविद्येत्युच्यते। यत्तदविद्येति पाठे तद्दर्शनकारणमविद्येत्युद्देश्यगतलिङ्गोपादानान्नपुंसकत्वम्।।
अविद्यायास्तु भागेन प्रधानेनेतरं दहेत्।
तावद्यावन्मिथो घर्षाद्‌द्वयं शाम्येच्छिवं भवेत्।।[6-1-42]
अविद्याया इति।। अविद्याया उक्तलक्षणायाः गुणत्रयात्मकत्वाद्गुणानां च प्रत्येकं त्रिविधत्वान्नवधा विभक्तायाः प्रधानभूतो यो भागः शुद्धसत्त्वरूपः तेन विद्याशब्दवाच्येन भागेन इतरमविद्याभागं तावद्दहेत्। यावद्भावगद्वयं विद्याविद्यारूपं मिथोघर्षात् परस्पराभिभवाद्दृढं सम्यक् शाम्येत् विद्यया अविद्यानिवर्त्यमाना विद्यामपि निवर्तयति अन्त्यशब्देनोपान्त्यशब्द इवेति भावः।।
एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः।
एष एव क्षयोऽस्या यद्ब्रह्मेदमिति निश्चयः।।[6-1-43]
एतावदिति।। इदं जगद्ब्रह्म न ब्रह्मात्मकं न भवति किं तर्हि वियदादिरूपमेवेति यो निश्चयः एतावदेवाविद्यात्वं अविद्याव्यापारः इदं ब्रह्मेति यो निश्चयः एष एव तस्या अविद्यायाः क्षय इति संक्षेपः।।
निश्चयो यो हरादीनां हृदि तिष्ठति निर्मलः।
ऋषीणां नारदादीनां स ते भवतु राघव।।[6-1-44]
प्रकृतमनुसरति-निश्चय इति।। हरादीनां देवातानां नारदादीनामृषीणां च हृदि निर्मलो यो निश्चयो वर्तते स निश्चयस्ते भवतु। त्वमपि तमेव जीवन्मुक्तमार्गमवलम्बस्वेत्यर्थः।।
राम उवाच।।
येनैते भगवन्धीरा निश्चयेन महाधियः।
विशोकाः संस्थितास्तन्मे ब्रह्मन्प्रब्रूहि तत्त्वतः।।[6-1-45]
येनेति।। एते हरादयो येन निश्चयेन विशोका जीवन्मुक्ताः संस्थिताः तं निश्चयं तत्त्वतो मे ब्रूहि।।
वसिष्ठ उवाच।।
यदिदं किंचिदाभोगि जगज्जालं प्रदृश्यते।
तत्सर्वममलं ब्रह्म बृंहदेतद्वयवस्थितम्।।[6-1-46]
यदिति।। प्रतीयमानं दृश्यमखिलं ब्रह्मैवेति हरादीनां निश्चय इत्यर्थः।।
ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा।
ब्रह्माहं ब्रह्म मच्छत्रुर्ब्रह्म मन्मित्रबान्धवाः।।[6-1-47]
एतदेव प्रपञ्चयति-ब्रह्मेति।। प्रकाशिका चित्। प्रकाश्यं च चेतनाचेतनात्मकं ब्रह्मेत्यर्थः। भूतपरम्परा वियदादिमहाभूतसमूहः। अहमिति मच्छत्रुरिति च हरादीनां निश्चयः स्वरूपाभिनयः।।
अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत्।
अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषः।।[6-1-48]
नन्वेकमेवेदं जगत्तत्कथं कस्यचिद्दुःखाय कस्यचित्सुखाय च स्यादित्याशङ्क्य दृष्टान्तेनोपपादयन्नाह-अज्ञस्येति।। ज्ञानाज्ञानकृतोऽयं विशेष इत्यर्थः।।
सर्वमेव हि ब्रह्मेति भाविते ब्रह्म वै पुमान्।
पीतेऽमृतमयः को नाम न भवेत्किल।।[6-1-49]
ज्ञानप्रकारमेव सदृष्टान्तमाह-सर्वमिति।। ब्रह्मैवेति भाविते निश्चिते।।
आभासमात्रममलं सर्वभूतावबोधकम्।
सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते।।[6-1-50]
आभासमात्रमिति।। आभासमात्रं विषयासंस्पृष्टज्ञानरूपं यद्वस्तु तच्चिद्ब्रह्मेति चिद्रूपं परं ब्रह्मेत्यनुभूयते। चिद्ग्रहणं शब्दब्रह्मणो निवृत्त्यर्थम्।।
असंस्तुताध्वगालोके मनस्यन्यत्र संस्थिते।
या प्रतीतिरनागस्का तच्चिद्ब्रह्मास्मि सर्वगः।।[6-1-51]
एतदेवोदाहरणेन स्पष्टयन्नाह-असंस्तुतेति।। असंस्तुतस्य पूर्वमपरिचितस्याध्वगस्यालोके दर्शने सति मनसि चान्यत्र वस्त्वन्तरे स्वाभिमते संस्थिते सति अनागस्का निखिलविकल्पनिर्मुक्ता या प्रतीतिरस्ति तत्सर्वगं चिद्ब्रह्मास्मि। अत्रासंस्तुतेत्यनेन पूर्वानुभवजनितसंस्कारमहीम्ना विकल्पानां नोदय इत्युक्तम्। अध्वगेत्यनेन कालविलम्बाभावात् विकल्पोदयस्यावकाशो नास्तीति दर्शितम्। मनसोऽन्यत्रावस्थानकथनात्तात्कालिकविकल्पकल्पनापि न संभवतीति सूचितमित्यनुसंधेयम्। नच प्रतीतिरेव नोदेतीति वक्तुं बाह्येन्द्रियप्रनाडिकया बहिर्मुखायाः संविदः प्रकाशकत्वाव्यभिचारात्। अन्यथा निर्विकल्पकाभावे तन्मूत इति पृष्टस्य तद्विषयस्मरणसंभवाच्च। तस्मान्निर्विकल्पतया विषयदोषनिर्मुक्ता निर्मला प्रतीतिरस्तीत्यभ्युपगन्तव्यम्।।
असंस्तुताध्वगालोके मनस्यन्यत्र संस्थिते।
या प्रतीतिरनागस्का तच्चिद्ब्रह्मास्मि सर्वगः।।[6-1-52]
सर्वसंकल्पफलदं सर्वतेजःप्रकाशकम्।
सर्वोपादेयसीमान्तं चिदात्मानमुपास्महे।।[6-1-53]
सर्वेति।। सर्वेषां संकल्पानां फलदं जगत्स्वामित्वात्तादृशं चिदात्मानमुपास्महे।।[6-1-52,53]
इति निश्चयवन्तस्ते महान्तो विगतैनसः।
सत्याः सत्ये पदे शान्ते समे सुखमवस्थिताः।।[6-1-54]
इतीति।। इति निश्चयवन्तः पूर्वोक्तप्रकारनिश्चययुक्ताः अतएव विगतैनसः निष्पापाः सत्याः सति सद्रूपे ब्रह्मणि साधवः ते नारदादयो महान्तः समे एकरूपे शान्ते निर्विकारे सत्ये अबाध्यस्वरूपे परे ब्रह्मणि सुखं यता तथा अवस्थिताः। सत्यासत्य इति पाठे दृग्रूपत्वात् सत्ये दृश्यरूपत्वात् असत्य इति व्याख्येयम्।।
इति पूर्वधियो धीराः समनीरागचेतसः।
न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा।।[6-1-55]
इतीति।। इति अनेन प्रकारेण पूर्णधियः परिपूर्णबुद्धयः ब्रह्मनिष्ठत्वात्। अतएव समं नीरागं च चेतो येषां धीरा जीवितं न नन्दन्ति मरणं च न निन्दन्ति आत्मरामत्वात्।।
राम उवाच।।
सम्यग्ज्ञानविलासेन वासनाविलयोदये।
जीवन्मुक्तपदे ब्रह्मन्नूनं विश्रान्तवानहम्।।[6-1-56]
प्राणस्पन्दनिरोधेन वासनाविलयोदये।
जीवन्मुक्तपदे ब्रह्मन्वद विश्रम्यते कथम्।।[6-1-57]
सम्यगिति।। सम्यग्ज्ञानस्य विलासेन महिम्ना प्राणनिरोधेन वा कथं केन प्रकारेण वासनाविलये सति जीवन्मुक्तौ विश्रम्यते।।[6-1-56,57]
वसिष्ठ उवाच।।
संसारोत्तरणे युक्तिर्योगशब्देन कथ्यते।
आत्मज्ञानप्रकारोऽस्य प्राणानां संयमस्तथा।।[6-1-58]
संसारेति।। संसारस्योत्तरणे या युक्तिः उपायः स एव योगः स च आत्मज्ञानं प्राणनिरोधनमिति द्विविधः।।
प्रकारौ द्वावपि प्रोक्तौ योगशब्देन यद्यपि।
तथापि रूढिमायातः प्राणयुक्तावसौ भृशम्।।[6-1-59]
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः।
प्रकारो द्वौ ततो देवो जगाद परमः शिवः।।[6-1-60]
प्रकाराविति।। प्रकारद्वयसाधारणोऽपि योगशब्दः प्राणनिरोधे भृशं रूढ इत्यर्थः।।[6-1-59,60]
तत्प्रोक्तं भवते ज्ञानं योगक्रममथो शृणु।
अत्र ते कथयिष्यामि वृत्तान्तं परमाद्भुतम्।।[6-1-61]
अहं कदाचिदास्थाने स्वर्गेऽतिष्ठं शतक्रतोः।
श्रुतवान्नारदादिभ्यः कथास्ताश्चिरजीविनाम्।।[6-1-62]
कथाप्रसङ्गे कस्मिंश्चिदथ तत्राभ्युवाच ह।
शातातपो नाम मुनिः प्रस्तावे चिरजीविनाम्।।[6-1-63]
तदिति अर्धवाक्यम्।। तत्संसाररोत्तरणसाधनं ज्ञानं भवते पूर्वमेव प्रोक्तम्। अतः परं योगक्रमं प्राणनिरोधस्योपायभावं शृणु।।[6-1-61,62,63]
मेरोरीशानकोणस्थे पद्मरागमयोद्भिदि।
अस्ति कल्पतरुः श्रीमान् शृङ्गे सर्वमनोरमे।।[6-1-64]
तस्य कल्पतरोर्मूर्ध्नि दक्षिणे स्कन्धकोटरे।
कलधौतलताप्रोते विद्यते विमलाशयः।।[6-1-65]
मेरोरिति।। पद्मरागमयोद्भिदि पद्मरागमणिमया उद्भिदः तरुगुल्मादयो यस्मिंस्तस्मिन् मेरोः शृङ्गे कल्पतरुरस्तीति संबन्धः। पद्मरागमये दिवीति पाठे पद्मरागमये मेरोः शृङ्गेया द्यौः स्वर्गस्तत्र कल्पतरुरस्तीति योजना। `एकविंशा अमीस्वर्गानिविष्टा मेरुमूर्धनी'ति स्वर्गाणां बाहुल्यश्रवणात्।।[6-1-64,65]
तस्मिन्निवसति श्रीमान्भुशुण्डो नाम वायसः।
वीतरागो बृहत्कोशो ब्रह्मेव निजपञ्जरे।।[6-1-66]
स यथा जगतां कोशे जीवतीह सुराश्चिरम्।
चिरंजीवि तथा स्वर्गे न भूतो न भविष्यति।।[6-1-67]
सस दीर्घायुः स नीरोगः स श्रीमान्स महामतिः।
स विश्रान्तमतिः शान्तः स कान्तः कालकोविदः।।[6-1-68]
इति तेन भुशुण्डोऽसौ भूयः पृष्टेन वर्णितः।
यथा च देवदेवानां सभायां सत्यमुक्तवान्।।[6-1-69]
कथावसरसंशान्तावथ याते सुरव्रजे।
भुशुण्डं विहगं द्रष्टुमहं यातः कुतूहलात्।।[6-1-70]
भुशुण्डः संस्थितो यत्र मेरोः शृङ्गोत्तमोत्तमे।
कल्पद्रुमस्थमद्राक्षं शाखाचक्रमिव स्थितम्।।[6-1-71]
तस्मिन्निति।। तस्मिन् विहगालये भुशुण्डो नाम भुवनेषु सर्वेष्वपि सुखं डयते विहरतीति भुशुण्ड इति प्रसिद्धः।।[6-1-66,67,68,69,70,71]
तस्य कच्छेषु कुञ्जेषु लतापत्रेषु पर्वसु।
पुष्पेष्वालयसंलीनान्विहगान्दृष्टवानहम्।।[6-1-72]
तस्येति।। कच्छाः जलप्रायाः कोटरप्रदेशाः। कुञ्जाः लतादिभिः पिहितप्रदेशाः। लताः शाखाः। पत्राणि पलाशानि। पर्वाणि ग्रन्थयस्तेष्वालयान्विधाय तत्र संलीनान्विहगान् दृष्टवान्। भुशुण्डान्वेषणार्थमित्यर्थः।।
निशानाथकलाखण्डमृणालशलैधितान्।
विरिञ्जिरथ हंसानां पोतकान्सामगायिनः।।[6-1-73]
उद्गीर्णमन्त्रनिचयान्स्वाहाकारनिभस्वनान्।
शुकान्काकान्कोकिलांश्च पक्षिणोऽन्याननेकशः।।[6-1-74]
गौरीकबरबर्हौघान्कौमारान्वरबर्हिणः।
स्कन्दोपन्यस्तनिःशेषशैवविज्ञानकोविदान्।।[6-1-75]
तत्र पश्याम्यहं यावदेकान्ते स्कन्धकोटरे।
अपरिक्षुभिताकाराः सभायां वायसाः स्थिताः।।[6-1-76]
तेषां मध्ये स्थितः श्रिमान्भूशुण्डः प्रोन्नताकृतिः।
परिपूर्णमना मौनी समः सर्वाङ्गसुन्दरः।।[6-1-77]
प्राणस्पन्दावधानेन नित्यमन्तर्मुखः सुखी।
प्रसन्नगम्भीरमनाः पेशलः स्निग्धवाक्सुधीः।।[6-1-78]
अथ तस्याहमपतं दीप्यमानवपुः पुरः।
चुक्षोभ वायसं स्थानं नीलोत्पलसरः क्षणम्।।[6-1-79]
अशङ्कितमपि प्राप्तं ददर्श मामनन्तरम्।
भुशुण्डस्तु वसिष्ठोऽयं प्राप्त इत्यवबुद्धवान्।।[6-1-80]
पत्रपुञ्जात्समुत्तस्थौ मेघशाव इवाचलात्।
हे मुने स्वागतमिति प्रोवाच मधुराक्षरम्।
मामुवाच महातेजाः सौहार्दान्मधुराक्षरम्।।[6-1-81]
निशानाथेति चतुर्भिः श्लोकैर्वाक्यम्।। विरिञ्चिरथं हंसपोतकादीन् पक्षिणो यावत्पश्यामि तावदेकत्र स्कन्धकोटरे सभायां वायसा अपरिक्षुभिताकाराः स्थिता इत्यन्वयः। अपिरिक्षुभितत्वं च गुरुसंनिधौ चापलानौचित्यात् अन्तर्मुखत्वाद्वेति वेदितव्यम्। हंसादिनां सामागायनमन्त्रोच्चारणशैवागमविज्ञानादिकं ब्रह्मलोकादौ महर्षिभिः सामगानादौ सहवासादिति द्रष्टव्यम्।।[6-1-73,74,75,76,77,78,79,80,81]
संकल्पमात्रजाताभ्यां कराभ्यां कुसुमाञ्जलिम्।
मह्यमाशु तदैवादान्मेघो हैममिवोत्करम्।।[6-1-82]
इदमासनमित्युक्त्वा नवं कल्पतरुच्छदम्।
उपानिन्ये महाबुद्धिः स्वयमेव खगाधिपः।।[6-1-83]
समन्तात्खगवृन्देषु दर्शनोन्मुखदृष्टिषु।
तस्मिन्कल्पलतापुञ्जे ह्युपविष्टोऽहमासने।।[6-1-84]
अर्घ्यपाद्यादि संपाद्य भुशुण्डस्तुष्टमानसः।
मामुवाच महातेजाः सौहार्दमधुराक्षरम्।।[6-1-85]
भुशुण्ड उवाच।।
अहो भगवतास्माकं प्रसादो दर्शितश्चिरात्।
दर्शनामृतमेघेन यत्सिक्ताः सद्द्रुमा वयम्।।[6-1-86]
किमर्थमद्यागमनं क्लेशेनात्मा कदर्थितः।
वचनश्रवणोत्कानामाज्ञां नो दातुमर्हसि।।[6-1-87]
त्वत्पाददर्शनादेव सर्वं ज्ञातं मया मुने।
चिरजीवितचर्चाभिर्वयं वः स्मृतिमागताः।।[6-1-88]
संकल्पेति।। सत्यसंकल्पतया संकल्पमात्रेण करौ प्रादुर्भूतावित्यर्थः। हैममुत्करमिव सौवर्णं पुष्पप्रकरमिव।।[6-1-82,83,84,85,86,87,88]
ज्ञातत्वदागमोऽप्येवं यत्त्वां पृच्छाम्यहं मुने।
भवद्वाक्यामृतास्वादवाञ्छैव मयि जृम्भते।।[6-1-89]
इत्युक्तवानसौ पक्षी भुशुण्डश्चिरजीवितः।
त्रिकालामलसंवेदी तत्र प्रोक्तमिदं मया।।[6-1-90]
विहंगम महाराज सत्यमेतत्त्वयोच्यते।
द्रष्टुमभ्यागतोऽस्म्यद्य त्वामेव चिरजीविनम्।।[6-1-91]
तदेवं संशयं छिन्धि भगवन्मम तत्त्वतः।
कस्मिन्कुले भवाञ्जातो ज्ञातज्ञेयः कथं भवान्।।[6-1-92]
कियदायुश्च ते साधो वृत्तं स्मरसि किंच वा।
केनायं वा निवासस्ते निर्दिष्टो दीर्घदर्शिना।।[6-1-93]
अथ राम भुशुण्डोऽसौ न प्रहृष्टो न वक्रधीः।
यत्पृच्छसि मुने सर्वं शृणु तत्कथयाम्यहम्।।[6-1-94]
भवादृशामिमामाज्ञां को विलङ्घयितुं क्षमः।
इत्युक्त्वा विहगाधीशः सर्वं कथितवानिदम्।।[6-1-95]
भुशुण्ड उवाच।।
अस्त्यस्मिञ्जगति श्रेष्ठ सर्वनाकनिवासिनाम्।
देवदेवो हरो नाम देवदेवाभिवन्दितः।।[6-1-96]
ज्ञातेति ज्ञातत्वदागमोऽपि अवगतत्वदागमननिमित्तोऽपि। एवमनेन प्रकारेण त्वां यद्यस्मात्कारणात् पृच्छामि सेयं कारणभूता भवद्वाक्यामृतास्वादवाञ्छैव मयि जृम्भते। भवद्वाक्यश्रवणवाञ्छयैव भवदागमननिमित्तं जानन्नपि पृच्छामीत्यर्थः।।[6-1-89,90,91,92,93,94,95,96]
शिरःखुराः खुरकराः करदन्ता मुखोदराः।
ऋक्षोष्ट्राजेभवक्त्राश्च प्रमथा यस्य लालकाः।।[6-1-97]
यथा गणास्तथैवान्या परिवारा हि मातरः।
नृत्यन्ति मातरस्तस्य पुरो भूतगणा नताः।।[6-1-98]
वसन्ति गिरिकूटेषु व्योम्नि लोकान्तरेषु च।
अवटेषु श्मशानेषु शरीरेषु च देहिनाम्।।[6-1-99]
जया च विजया चैव जयन्ती चापराजिता।
सिद्धा रक्ताऽलम्बुषा च उत्पला चेति देवताः।।[6-1-100]
सर्वासामेव मातॄणामष्टावेतास्तु नायिकाः।
आसामनुगतास्त्वन्यास्तासामनुगताः पराः।।[6-1-101]
तासां मध्ये महार्हाणां मातॄणां मुनिनायक।
अलम्बुषेति विख्याता माता मानद विद्यते।।[6-1-102]
शिरःखुरा इति।। शिरसि खुराः शफानि येषां ते। खुरेषु करा येषां ते खुरकराः। खुराकाराः करा येषां ते वा। करदन्ताः करस्था दन्ता येषां ते च। मुखोदराः मुखान्युदरेषु येषां ते च। ऋक्षोष्ट्राजेभवक्त्राश्च ऋक्षाः भल्लूकाः उष्ट्राः क्रमेलकाः अजाः छागाः इभा गाजः तेषां वक्त्राणीव वक्त्राणि येषां ते तादृशाश्च। नानारूपाः प्रमथा यस्य देवस्य लालकाः क्रीडाहेतवः।।[6-1-97,98,99,100,101,102]
वज्रास्थितुण्डश्चण्डाख्य इन्द्रनीलाचलोपमः।
तस्यास्तु वाहनः काको वैष्णव्या गरुडो यथा।।[6-1-103]
इत्यष्टैश्वर्ययुक्तास्ता मातरो रौद्रचेष्टिताः।
कदाचिन्मिलिता व्योम्नि सर्वाः केनापि हेतुना।।[6-1-104]
उत्सवं परमं चक्रुः परमार्थप्रकाशकम्।
जहसुर्ननृतुश्चैव पपुरुच्चैर्जगुस्तथा।।[6-1-105]
इत्युत्सवे वर्तमाने तासां वाहास्तथोत्तमाः।
तथैव मत्ता जहसुर्ननृतुः पपुरासवम्।।[6-1-106]
तत्रैकत्रासवोन्मत्ताः क्वचिन्ननृतुरम्बरे।
रथहंस्यः स्थिता ब्राह्मयः काकश्चालम्बुषारथः।।[6-1-107]
संजातरतयस्तत्र सर्वा हंस्यो मदाकुलाः।
रेमिरे सह काकेन चण्डकेनाथ तास्तदा।।[6-1-108]
अथ ता गर्भधारिण्यो बभूवुरतितोषिताः।
देव्यश्च कृतनृत्यास्ताः प्रशान्तमदतां ययुः।।[6-1-109]
ततो देव्यो हरश्चैव परिवारसमन्विताः।
सर्वाः संतुष्टमनसः स्वां स्वामुपययुर्दिशम्।।[6-1-110]
अन्तर्वत्न्यो बभूवुस्ता ब्राह्म्यो हंस्यो मुनीश्वर।
वृत्तान्तं कथयामासुर्ब्राह्म्या देव्या यथास्थितम्।।[6-1-111]
हे वत्स्यः सांप्रतं वत्सवत्यो मे रथकर्मणि।
न समर्था भवन्त्यो हि स्वैरं चरत सांप्रतम्।।[6-1-112]
इति गर्भालया हंसीरुक्त्वा देवी दयापरा।
निर्विकल्पसमाधाने ब्राह्मी तस्थौ यथासुखम्।।[6-1-113]
हंस्योऽपि पक्कगर्भास्ताः सुवते स्म यथाक्रमम्।
वैरञ्चे सरसि स्फारे तनयानेकविंशतिः।।[6-1-114]
एवं ताभ्यस्तु हंसीभ्यो जाता वयमिमे मुने।
भ्रातरश्चण्डतनया वायसा एकविंशतिः।।[6-1-115]
मातृभिः सह हंसीभिर्ब्राह्मी भगवती ततः।
चिरमाराधितास्माभिः समाधिविरता सती।।[6-1-116]
प्रसादपरया काले भगवत्या ततः स्वयम्।
तथैवानुगृहीताः स्मो यथा मुक्ता वयं स्थिताः।।[6-1-117]
संतृप्तमनसः शान्तास्त्वेकान्ते ध्यानसंस्थितौ।
तिष्ठाम इति निश्चित्य पितुः पार्श्वे वयं गताः।।[6-1-118]
वन्दित्वा पितरं तत्र नत्वा देवीमलम्बुषाम्।
तया दृष्टाः प्रसादेन प्रोक्तवन्तस्तदा वयम्।।[6-1-119]
तात ज्ञातमलं ज्ञेयं ब्राह्मया देव्याः प्रसादतः।
किंत्वेकान्तस्थितेः स्थानमभिवाञ्छाम उत्तमम्।।[6-1-120]
तेनायं सर्वबाधानामगम्यः कल्पपादपः।
कथितं स्थानमस्माकं ज्ञानिना सर्वदर्शिना।।[6-1-121]
ततः कृतनमस्कारास्तस्माद्देशाद्विनिर्गताः।
इमं कल्पतरुं प्राप्य तिष्ठामो विगतज्वराः।।[6-1-122]
अद्य मे फलितं पुण्यैश्चिरकालोपसंभृतैः।
निर्विघ्नमेव पश्यामि यद्भवन्तं मुनीश्वरम्।।[6-1-123]
वज्रेति।। वज्रास्थितुण्डः वज्रं वज्रवत्कठिनं अस्थितुण्डं अस्थिमयं मुखं यस्य सः। चण्डाख्यः चण्ड इत्याख्या यस्य तादृशः काकः तस्या अलम्बुषाया वाहनमस्ति।।[6-1-103 TO 6-1-123]
रसायनमयी शान्ता परमानन्ददायिनी।
नानन्दयति कं नाम साधुसंगतिचन्द्रिका।।[6-1-124]
नातः परतरं किंचिन्मन्ये कुशलमात्मनः।
सन्तो यदनुगम्यन्ते संत्यक्तसकलैषणाः।।[6-1-125]
अधिगतपरमात्मनोऽपि मन्ये भवदवलोकनशान्तदुष्कृतस्य।
मम सफलमिहाद्य जन्म साधो सकलभयापहरो हि साधुसङ्गः।।[6-1-126]
वसिष्ठ उवाच।।
इत्युक्त्वार्घ्यं च पाद्यं च भूयो दत्तवति स्वयम्।
भुशुण्डविहगे तस्मिन्निदं रामाहमुक्तवान्।।[6-1-127]
भ्रातरस्ते विहङ्गेश तादृक्तत्त्वा महाधियः।
इह कस्मान्न दृश्यन्ते त्वमेवैको हि दृश्यसे।।[6-1-128]
भुशुण्ड उवाच।।
तिष्ठतामिह नः कालो भूयानतिगतो मुने।
युगानां पङ्क्तयः क्षीणाः कल्पानां च महामते।।[6-1-129]
एतावता च कालेन सर्व एव ममानुजाः।
तनूस्तृणमिव त्यक्त्वा शिवे परिणताः पदे।।[6-1-130]
दीर्घायुषो महान्तोऽपि सन्तोऽपि बलिनोऽपि वा।
सर्व एव निगीर्यन्ते कालेनाकलितात्मना।।[6-1-131]
अहमुवाच।।
कल्पान्तेषु महाबुद्धे वहत्स्वग्न्यम्बुवायुषु।
प्रतपत्सु तथार्केषु कथं तिष्ठसि विज्वरः।।[6-1-132]
भुशुण्ड उवाच।।
यदा शाम्यति कल्पान्ते व्यवहारो जगद्गतः।
कृतघ्न इव मन्मित्रं तदा नीडं त्यजाम्यहम्।।[6-1-133]
रसायनेति।। रसायनमयी रागादिदोषनिवर्तकत्वात्। शान्ता तापत्रयापाकरणात्। परमानन्ददायिनी ज्ञानोपदेशहेतुत्वात्। इत्थंभूता सा साधूनां संगतिरूपा चन्द्रिका कं नाम नानन्दयति।।[6-1-124,125,126,127,128,128,130,131,132,133]
आकाश एव तिष्ठामि विगताखिलकल्पनम्।
स्तब्धप्रकृतिसर्वाङ्गो मनो निर्वासनं यथा।।[6-1-134]
आकाश इति।। स्तब्धप्रकृतिसर्वाङ्गः स्तब्धा निश्चला प्रकृतिः शरीरं सर्वाङ्गानि सर्वावयवाश्च यस्य तादृशः सन् निर्वासनं मन इव वासनाविहीनं जीवन्मुक्तचित्तमिव विगताखिलकल्पनं विगता अखिलाः कल्पना यस्मिन्कर्मणि तत्सर्वकल्पनारहितं यथा तथा तिष्ठामि। दग्धप्रकृतिसर्वाङ्गमिति पाठे ज्ञानाग्निना दग्धा प्रकृतिरविद्या सर्वाङ्गानि च कामसंकल्पविचिकित्सादीनि यस्येति मनोविशेषणं वेदितव्यम्।।
प्रतपन्ति यदादित्या व्योमाङ्गणगतो ह्यहम्।
वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः।।[6-1-135]
प्रतपन्तीति।। यदा प्रलयसमये आदित्या द्वादशापि युगपदेवोदिताः प्रतपन्ति तदा व्योमाङ्गणे गतोऽहं वारुणीं वरुणसंबन्धिनीं धारणां भावनां च बध्वा धीरधीर्निश्चलबुद्धिस्तिष्ठामि। वरुणो यथा अपां मध्यमध्यासीनो बाह्यमातपसंतापं नावगच्छति तद्वद्भुशुण्डोऽहमपि वरुणभावनया तन्मयत्वमासाद्य तद्वदेव बाह्यं संतापं नानुभवामीत्यर्थः।।
यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः।
पार्वतीं धारणां बध्वा खे तिष्ठाम्यचलं तदा।।[6-1-136]
यदेति।। यदा प्रलयवायवः शकलिताद्रीन्द्रा वान्ति तदा पार्वतीं धारणां बध्वा आकाशे अचलं तिष्ठामि। भूमिष्ठानामेव पर्वतानां संहार्यत्वेन तत्रैव प्रलयवायुसंरम्भात् तत्संरम्भाविषये ब्रह्माण्डबहिराकशे साधारणवायुसंक्षोभाभावाय पार्वतीं धारणामालम्ब्य सुखं तिष्ठामीत्यर्थः।।
जगद्गलति मेर्वादि यात्येकार्णवतां यदा।
वायवीं धारणां बध्वा संप्लवेऽचलधीस्तदा।।[6-1-137]
जगदिति।। एकार्णवसमयेऽपि वायुधारणायाः संप्लवे उप्येव तरामि।।
ब्रह्माण्डपारमासाद्य तत्त्वान्ते विमले पदे।
सुषुप्तावस्थया तावत्तिष्ठाम्यचलरूपया।।[6-1-138]
यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति।
तत्र प्रविश्य ब्रह्माण्डं तिष्ठामि विहगालये।।[6-1-139]
मत्संकल्पवशेनैव कल्पे कल्पे पुनः पुनः।
अस्मिन्नेव गिरेः शृङ्गे तरुरित्थं भवत्ययम्।।[6-1-140]
वसिष्ठ उवाच।।
यथा तिष्ठसि पक्षीन्द्र धारणाभिरखण्डितः।
कल्पान्तेषु तथा कस्मान्नान्ये तिष्ठन्ति योगिनः।।[6-1-141]
ब्रह्माण्डेति श्लोकद्वयं वाक्यम्।। प्रलये सति ब्रह्माण्डस्य पारं बहिर्भागमासाद्य तत्त्वान्ते ब्रह्माण्डावरणभूतानां भूम्यप्तेजोवाय्वाकाशाहंकारमहत्प्रकृतिरूपाणां सप्तानां तत्त्वानामन्ते विमलेपदे सुषुप्तावस्थया तावत्तिष्ठामि। यावत्कमलजः पुनः सृष्टिकर्मणि तिष्ठति तदा पुनः सृष्टौ ब्रह्माण्डं प्रविश्य विहगालये तिष्ठामि।।[6-1-138,139,140,141]
भुशुण्ड उवाच।।
ब्रह्मन्नियतिरेषा हि दुर्लङ्घ्या पारमेश्वरी।
मयेदृशेन वै भाव्यं भाव्यमन्यैश्च तादृशैः।।[6-1-142]
ब्रह्मन्निति।। नियतिर्नियमनात्मिका पारमेश्वरी शक्तिः।।
न शक्यते चालयितुमवश्यं भवितव्यता।
यद्यथा तत्तथैतद्धि स्वभावस्यैष निश्चयः।।[6-1-143]
नेति।। विचालयितुं विलङ्घयितुम्। भवितव्यता दैवगतिः। नियतिरिति ईश्वरवादे। भवितव्यतेति निरीश्वरवादे। स्वभावस्यैष निश्चय इति स्वभाववाद इति मतभेदेनोक्तमुररीकृतमित्यनुसंधेयम्।।
वसिष्ठ उवाच।।
ज्ञानविज्ञानवान्वीरो योगयोग्यमनोगतिः।
किं किं स्मरसि कल्याण चित्रमस्मिञ्जगत्रये।।[6-1-144]
ज्ञानेति।। तत्र ज्ञानं मोक्षहेतुस्तत्त्वज्ञानं लौकिकनिखिलकलाशास्त्रादिविशेषज्ञानम्। चित्रमाश्चर्यम्।।
भुशुण्ड उवाच।।
बृहत्तरशिलावृक्षामजाततृमवीरुधम्।
अशैलवनवृक्षौघां स्मरामीमां धरामधः।।[6-1-145]
बृहत्तरेति।। अधः अतीते कल्पान्ते।।
दशवर्षसहस्राणि दशवर्षशतानि च।
भस्मभारभरापूर्णां संस्मरामि धरामधः।।[6-1-146]
दशवर्षेति। शोषणदहनानन्तरं विलम्बितायामतिसृष्टावेकादशसहस्रवर्षाणि भस्मभारपरिपूर्णैव धरा स्थितेत्यर्थः।।
चतुर्युगान्तमपरां नीरन्ध्रां वनपादपैः।
चतुर्युगान्तमपरां नीरन्ध्रैरचलैर्वृताम्।।[6-1-147]
अनगस्त्यामिमामेकविन्ध्यपर्वततां गताम्।
चतुर्युगान्तमपरां संस्मरामि जगत्कुटीम्।।[6-1-148]
चतुर्युगान्तमिति श्लोकद्वयं वाक्यम्।। अपरां कल्पान्तरगताम् जगत्कुटीं जगदाधारभूतां धरां चतुर्युगान्त एकस्मिंश्चतुर्युगे वनपादपैः नीरन्ध्रां संस्मरामि। अन्यस्मिंश्चतुर्युगे नीरन्ध्रैरचलैर्वृतां संस्मरामि। अन्यस्मिंश्चतुर्युगे अगस्त्येन महर्षिणा शून्यामतएव च नियामकाभावादेकविन्ध्यपर्वततां गतां विन्ध्येनैवैकेन व्याप्तां संस्मरामि।।[6-1-147,148]
सुरापब्राह्मणं तात निषिद्धसुरशूद्रकम्।
स्वैरवृत्तिसतीकं च कंचित्सर्गं स्मराम्यहम्।।[6-1-149]
सुरापेति।। सुरापा ब्राह्मणा यस्मिन्। निषिद्धसुरावर्जितसुरापानाः शूद्रा यस्मिन्। स्वैरवृत्तयः स्वेच्छाचारिण्यः सत्यः कुलाङ्गना यस्मिंस्तादृशं कंचित्सर्गं सृष्टिं स्मरामि।।
जन्मेन्दुभास्करादीनामिन्द्रोपेन्द्रव्यवस्थितिम्।
हिरण्याक्षापहरणं वाराहोद्धरणं क्षितेः।।[6-1-150]
जन्मेति श्लोकत्रयं वाक्यम्।। इन्दुभास्करादीनां जन्म उत्पत्तिम् इन्द्रोपेन्द्रव्यवस्थितिं इन्द्रस्योपेन्द्रस्य च मर्यादाम्। क्षितेर्हिरण्याक्षेणापहरणं वराहेण चोद्धरणम्।।
कल्पनं पार्थिवानां च वेदानयनमेव च।
मन्दरोन्मूलनं चाब्धेरमृतार्थे च मन्थनम्।।[6-1-151]
अजातपक्षो गरुडः सागराणां समुद्भवः।
इत्यादिका याः स्मृतयः स्वल्पातीतजत्क्रमाः।।[6-1-152]
पार्थिवानां मन्वन्तराधिपतीनां कल्पनम्। वेदानां सोमकेन सुरारिणापहृतानां मत्स्यावतारेणानयनम्। मन्दरस्य मन्थानत्वपरिकल्पनाय सुरासुरैरुन्मूलनम्। अमृतार्थमब्धेर्मन्थनं च तृतीया स्मृतिरस्ति। उत्पादिका एवमादयः स्वल्पातीता जगत्क्रमा यासु ताः स्मृतयः स्मर्तव्यार्थः।।[6-1-151,152]
बालैरपि हि तास्तात स्मर्यन्ते तासु को ग्रहः।।[6-1-153]
बालैरपीति।। बालैरपि स्मर्यन्ते अतः कारणात्तासु स्मृतिषु को ग्रहः को वा आदरः। मां प्रत्येतादृशो वृत्तान्तो न प्रष्टव्य इति भावः।।
ततो जगति जातेषु भगवन्युष्मदादिषु।
भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु।।[6-1-154]
सनत्कुमारभृग्वीशस्कन्देभवदनादिषु।
गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु।
तथाद्यतनसर्गेषु स्मरणे गणनैव का।।[6-1-155]
तत इति सार्धश्लोकद्वयं वाक्यम्।। युष्मदादिषु भरद्वाजादिषु सनत्कुमारादिषु तथाद्यतनसर्गेषु च यत्स्मरणं तत्र स्मरणे का गणना को वा आदरः।।[6-1-154,155]
मुने ते ब्रह्मपुत्रस्य जन्माष्टममिदं किल।
संस्मराम्यष्टमे सर्गे तस्मिंस्त्वं मम संगतः।।[6-1-156]
मुने इति।। ब्रह्मपुत्रस्य ब्रह्मणो मानसपुत्रस्य ते इदं जन्म अष्टमं किल। अष्टमे जन्मनि ब्रह्मपुत्रस्त्वं जात इत्यर्थः। तस्मिन्नष्टमे सर्गे जन्मनि ते मे च संगतिमिदानीं वर्तमानामपि पूर्वमेव स्मरामि।।
कदाचिज्जायसे व्योम्नः कदाचिज्जायसे जलात्।
कदाचिज्जायसे शैलात्कदाचिज्जायसेऽनलात्।।[6-1-157]
जन्मान्तरेषु कुतो जात इत्यत्राह-कदाचिदिति।। कदाचित्कस्मिंश्चिन्मन्वन्तरे।।
अन्तर्धानं गता धात्री वारपञ्चकमुद्धृता।
मुने पञ्चसु सर्गेषु कूर्मेणैव पयोदधेः।।[6-1-158]
स्मरामि द्वादशं चेदममृताम्भोधिमन्थनम्।
वारत्रयं हिरण्याक्षो नीतवान्वसुधामधः।।[6-1-159]
रेणुकाजन्मतां यातः षष्ठवारमयं हरिः।
शतं कलियुगानां च हरेर्बुद्धदशाशतम्।।[6-1-160]
अन्तरिति।। अन्तर्धानं एकार्णवजले तिरोधानं कूर्मेणैव न तु वराहादिना।।[6-1-158,159,160]
त्रिंशत्रिपुरविक्षोभान्द्वौ दक्षाध्वरसंक्षयौ।
दश शक्रविघातांश्च चन्द्रमौलेः स्मराम्यहम्।
बाणार्थमष्टौ संग्रामानध्वरप्रमथत्रयम्।।[6-1-161]
त्रिंशदिति।। केनचिदविनयेन क्षुब्धाच्चन्द्रमौलेः सकाशाद्दशानां शक्राणां विघातान्पूर्वमनुभूतान् इदानीं स्मरामि।।
युगं प्रति धियां पुंसां न्यूनाधिकतया मुने।
क्रियाङ्गपाठवैचित्र्ययुक्तान्वेदान्स्मराम्यहम्।।[6-1-162]
युगमिति।। युगं प्रति युगापेक्षया पुंसां धियां पुरुषबुद्धीनां न्यूनतया अधिकतया च क्रियाङ्गपाठवैचित्र्ययुक्तान्। क्रिया वेदोक्तकर्मानुष्ठानम्। अङ्गानि व्याकरणादीनि। पाठोऽध्ययनप्रकारः। क्रियावैचित्र्येण पाठवैचित्र्येण युक्तान्वेदान्स्मरामि। द्वापरे कलौ च धर्मह्रासात्पुरुषबुद्धीनां ह्रासे सति तदनुसारेण वेदानां क्रियाङ्गपाठह्रासो भवति। त्रेतायां कृते च धर्मवृद्ध्या पुरुषबुद्धिप्रवृद्धौ सत्यां क्रियादिवृद्धिरिति वैचित्र्यमित्यर्थः।।
एकार्थानि समग्राणि बहुपाठानि चानघ।
पुराणानि प्रवर्तन्ते निवृत्तानि युगं प्रति।।[6-1-163]
एकार्थानीति।। निवृत्तानि संप्रदायाभावाद्युगान्ते निवृत्तानि युगं प्रति भारतादियुगापेक्षया पुरुषबुद्धिवैचित्र्यादेकार्थानि समानार्थान्येव बहुपाठानि पुराणानि पुनरपि प्रवर्तन्ते।।
इतिहासं महाश्चर्यमन्यद्रामायणाभिधम्।
ग्रन्थं लक्षप्रमाणं च ज्ञानशास्त्रं स्मराम्यहम्।।[6-1-164]
इतिहासमिति।। महाश्चर्यं महान्त्याश्चर्याणि यस्मिंस्तादृशं ज्ञानशास्त्रं मोक्षोपायनिरूपणपरं अतएव हेतोः अन्यद्रवणवधार्थात्प्रसिद्धाद्रामायणाद्भिन्नं रामायणाभिधं ग्रन्थं लक्षप्रमाणमिति संस्मरामि। अन्यदिति ज्ञानशास्त्रापेक्षया नपुंसकनिर्देशः।।
वार्मीकिनाम्ना जीवेन तेनैवान्येन वा कृतम्।
एतच्च द्वादशं वारं क्रियते विस्मृतिं गतम्।।[6-1-165]
वाल्मीकीति।। तेनैव यः प्रसिद्धस्य रामायणस्य प्रणेता तेनैव। अन्येन तस्मादन्येन वाल्मीकिनाम्ना जीवेन कृतमेतच्च ज्ञानशास्त्ररूपं रामायणं युगान्ते विस्मृतिं गतमिति कृत्वा द्वादशं वारमधुना क्रियते। यः पूर्वं रावणवधार्थानां ज्ञानशास्त्ररूपाणां च रामायणानां प्रणेता स एव वाल्मीकिः संप्रदायप्रवृत्तये परमेश्वराज्ञया पुनःपुनः आविर्भवति। अन्यो वा कश्चिज्जीवः तपोमहिम्ना वाल्मीकिभावमासाद्य रामायणसंप्रदायं प्रवर्तयतीर्यर्थः।।
द्वितीयमेतस्य समं भारतं नाम नामतः।
स्मरामि प्राक्तनं व्यासकृतं जगति विस्मृतम्।।[6-1-166]
द्वितीयमिति।। एतस्य रामायणस्य समं लक्षप्रमाणं भारतं नाम प्राक्तनं पूर्वकल्पातीतं व्यासकृतं द्वितीयमितिहासं जगति विस्मृतिं गतमपि स्मरामि। गतान्यपि भारतानि स्मरामीत्यर्थः।।
व्यासाभिधेन जीवेन तेनैवान्येन वा कृतम्।
एतच्च सप्तमं वारं क्रियते विस्मृतिं गतम्।।[6-1-167]
व्यासेति।। पूर्ववद्व्याख्येयम्।।
राक्षसक्षतये विष्णोर्महीमवतरिष्यतः।
अधुनैकादशं जन्म रामनाम्नो भविष्यति।।[6-1-168]
वसुदेवगृहे विष्णोर्भुवो भारनिवृत्तये।
अधुना षोडशं जन्म भविष्यति मुनीश्वर।।[6-1-169]
राक्षसेति।। रामावतारात्प्रागेव रामायणप्रवृत्तेरवतरिष्यतो भविष्यतीति च भावितया निर्देशः।।[6-1-168,169]
जगन्मयी भ्रान्तिरियं न कदाचन विद्यते।
विद्यते तु कदाचिच्च जलबुद्बुदवत्स्थिता।।[6-1-170]
जगदिति।। जगद्रूपा भ्रान्तिरियं कदाचित्कल्पान्ते नैव विद्यते। कदाचित्तु स्थितिकाले विद्यते। अतो जलबुद्वुदवत्स्थिता।।
दृश्यभ्रान्तिरनिष्टेयमन्तस्था संविदात्मनः।
जायते लीयते चाशु लोला वीचिरिवाम्भसि।।[6-1-171]
दृश्येति।। इयमनिष्टा नियता अतिविचित्रत्वात्। अनष्टेति पाठे नाशरहिता पुनरपि प्रादुर्भावात्। दृश्यभ्रान्तिरात्मनोऽन्तस्था संविदेव। अतो वीचिरम्भसीव लोला जायते लीयते च।।
नेहाभूदुत्तरा पूर्वं ककुब्नायं च भूधरः।
दिगुत्तराभूदन्यत्र पूर्वमेष महीधरः।।[6-1-172]
नेहेति।। पूर्वमतीते कल्पान्तरे इहास्मिन्प्रदेशे उत्तरा ककुब्नाभूत्। अयं मेरुश्च नाभूत्। अन्यत्रोत्तरा दिगभूत्। अयं महीधरश्चान्यत्राभूत्।।
अर्कादिऋक्षसंचारान्मेर्वादिस्थानकाद्दिशाम्।
संस्थानमन्यथा तस्मिन्स्थिते यान्ति दिशोऽन्यथा।।[6-1-173]
कलौ कृतयुगाचारान्कृते कलियुगस्थितिम्।
त्रेतायां द्वापरे चैव विपर्यासं स्मराम्यहम्।।[6-1-174]
वसिष्ठ उवाच।।
अथासौ वायसः श्रेष्ठो जिज्ञासार्थमिदं मया।
भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रके।।[6-1-175]
चरतां जगतः कोशे व्यवहारवतामपि।
कथं विहगराजेन्द्र देहं मृत्युर्न बाधते।।[6-1-176]
भुशुण्ड उवाच।।
जानन्नपि हि सर्वज्ञ ब्रह्मजिज्ञासयैव माम्।
पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि।।[6-1-177]
अर्केति।। अर्कादिऋक्षसंचारात्सूर्यादिग्रहसंचारात् मेर्वादिस्थानकात् मेरुप्रभृतिमर्यादापर्वतसंस्थानाच्च दिशां संस्थानं संनिवेशस्तस्मिन्मेर्वादिसंस्थाने अन्यथा स्थिते सति दिशोऽन्यथा प्रकारान्तरं यान्ति। दिशामादित्यादिग्रहसंचारं मेर्वादिसंनिवेशं च अपेक्ष्यं कल्पितत्वात् तदन्यथाभावे दिशामपि अन्यथात्वं भवतीति भावः।।[6-1-173,174,175,176,177]
तथापि यत्पृच्छसि मां तत्ते प्रकटयाम्यहम्।
आज्ञाचरणमेवाहुर्मुख्यमाराधनं सताम्।।[6-1-178]
तथापीति।। तथापि जानन्नपि यद्यस्मान्मां पृच्छसि तत्तस्मात्ते प्रकथयामि। सतां विदुषामाज्ञाचरणमेव आज्ञापितार्थानुष्ठानमेवाराधनमाहुः।।
दोषमुक्ताफलप्रोता वासनातन्तुसंततिः।
हृदि न ग्रथिता यस्य मृत्युस्तं न जिघांसति।।[6-1-179]
दोषेति।। दोषै रागद्वेषादिभिरेव मुक्ताफलैः प्रोता वासनारूपा तन्तुसंततिर्यस्य हृदि न ग्रथिता तं मृत्युर्न जिघांसति हन्तुं नेच्छति।।
विश्वासवृक्षक्रकचाः सर्वदेहलताघुणाः।
आधयो यं न भिन्दन्ति मृत्युस्तं न जिघांसति।।[6-1-180]
विश्वासेति।। विश्वासवृक्षक्रकचाः विश्वासानां पुत्रमित्रादिविषयाणां विश्रम्भाणामेव वृक्षाणां क्रकचाः विदारणसाधनानि क्रकचपत्राणि। सर्वदेहानामेव लतानां घुणा विलेखनपटवः कृमयः यत्कृते विलेखने घुणाक्षरमिति प्रसिद्धिः। आधयो मानसदुःखानि।।
शरीरतरुसर्पौघाश्चिन्तार्पितशिरःफटाः।
आशा यं न दहत्यन्तर्मृत्युस्तं न जिघांसति।।[6-1-181]
शरीरेति।। शरीराणामेव तरूणां सर्पौघाः सर्वसमूहवत्तापहेतवः। आशास्तृष्णाविशेषाश्चिन्तार्पितशिरःफटाः चिन्ताभिरर्पिताः शिरसि फटा यासां ताः। आशारूपाणां सर्पाणां चिन्ता एव शिरोभागस्थिताः फणा इत्यर्थः।।
रागद्वेषविषाघूर्णः स्वमनोबिलमन्दिरः।
लोभव्यालो न भुङ्क्ते यं मृत्युस्तं न जिघांसति।।[6-1-182]
पीताशेषविवेकाम्बुः शरीराम्भोधिवाडवः।
न निर्दहति यं कोपस्तं मृत्युर्न जिघांसति।।[6-1-183]
रागेति।। लोभव्यालः लोभरूपः सर्पः।।[6-1-182,183]
यन्त्रं तिलानां कठिनं राशिमुग्रमिवाकुलम्।
यं पीडयति नानङ्गस्तं मृत्युर्न जिघांसति।।[6-1-184]
यन्त्रमिति।। कठिनं दार्वादिमयत्वाद्दृढं तिलानां यन्त्रं तिलेभ्यस्तैलनिष्पीडनार्थं यन्त्रं कर्तृ उग्रं उन्नतत्वाद्भीषणम्।।
एकस्मिन्निर्मले येन पदे परमपावने।
संश्रिता चित्तविश्रान्तिस्तं मृत्युर्न जिघांसति।।[6-1-185]
एकस्मिन्निति।। संश्रिता संप्राप्ता तं मृत्युर्न जिघांसति।।
एते ब्रह्मन्महादोषाः संसारव्याधिहेतवः।
मनागपि न लुम्पन्ति चित्तमेकसमाहितम्।।[6-1-186]
मृत्युः कं वा न बाधत इति पृष्टे यस्याशयदोषा न सन्ति तं न बाधत इत्युक्तम्। तत्राशयदोषनिवृत्तिः कथमित्याकाङ्क्षायामिदानीं तन्निवृत्त्युपायमाह-एत इति।। संसारव्याधिहेतवः एते पूर्वोक्ता महादोषा एकसमाहितं एकस्मिंस्तत्त्वे समाधियुक्तं चित्तं मनागपि न लुम्पन्ति।।
आधिव्याधिसमुत्थानि चलितानि महाभ्रमैः।
न विलुम्पन्ति दुःखानि चित्तमेकसमाहितम्।।[6-1-187]
अन्धीकृतहृदाकाशाः कामकोपविकारजाः।
चिन्ता न परिहिंसन्ति चित्तमेकसमाहितम्।।[6-1-188]
आधीति।। महाभ्रमैः पुत्रकलत्रादिविषयव्यामोहैश्चलितानि प्रवृत्तानि।।[6-1-187,188]
ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः।
दुष्क्रमास्ते न कृन्तन्ति चित्तमेकसमाहितम्।।[6-1-189]
य इति।। अर्थाः संसारिककार्यासिद्धिहेतवः संपदः। आरम्भास्तदर्थमुद्यमाः गुणास्तदनुकूलाः शौर्यादय उदाहृताः। त्यागभोगादिपरितृप्तैः पामरजनैरुदीरिताः कीर्तिता ये दुष्क्रमाः परचित्तरञ्जनक्रमा नीतिशास्त्रेक्तास्तेषां दुःखत्वं दुःखभूयिष्ठत्वं पर्यन्तविरसत्वानित्यत्वादिना पूर्वमेव वैराग्यप्रकरणे निरूपितम्। ते दुरर्थादयः एकसमाहितं चित्तं न हिंसन्ति किं तर्हि विक्षिप्तं चित्तमेव संसारिणमिति।।
यदुदर्कहितं सत्यमनुपाधि गतभ्रमम्।
दुरीहितदशोन्मुक्तं तत्परं कारयेन्मनः।।[6-1-190]
एकसमाहितमित्युक्तं कुत्र वा समाहितमित्याकाङ्क्षायां चित्तसमाधेर्विषयं दर्शयितुमाह-यदिति।। यद्वस्तु उदर्कहितं उत्तरकाले बन्धमोक्षहेतु गतभ्रमं निवृत्ताविद्यं अतश्च अनुपाध्युपाधिरहितं अतएव दुरीहितदशायाः संसारदशाया उन्मुक्तं अतश्च सत्यमबाध्यं तिष्ठति। मनः कर्म तत्परं तादृक्परब्रह्मनिष्ठं कारयेत्। तथासति न मनोदोषः। असति च दोषकालुष्ये न इत्युभयमिति पूर्वोक्तनिर्वाहः।।
यदमृष्टमशुद्धेन चिरवैधुर्यदायिना।
अनेकत्वपिशाचेन तत्परं कारयेन्मनः।।[6-1-191]
यदिति।। चिरं वैधुर्यदायिना चिरकालं विरोधहेतुना अशुद्धेन अप्रामाणिकेन अनेकत्वपिशाचेन भेदभ्रमेण यद्वस्तु अस्पृष्टममृष्टम्। `एकमेवाद्वितीयं ब्रह्म' इति श्रुतेः।। मनस्तादृग्ब्रह्मपरं कारयेत्। भेदस्य विरोधहेतुत्वं विशदयितुमेव श्रुत्या भेदभावनायां भयं प्रतिपाद्यते। `यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति' इति श्रुतिः।।
आत्मचिन्ता समस्तानां दुःखानामन्तकारिणी।
युष्मदादिषु सुप्रापा दुष्प्रापा चास्मदादिषु।।[6-1-192]
आत्मेति।। अस्मदादिष्विति मन्दबुद्ध्युपलक्षणम्।।
समस्तकलनातीतं परां कोटिमुपाश्रितम्।
पदमासादयन्त्येतत्कथं सामान्यबुद्धयः।।[6-1-193]
मन्दानां दुष्प्रापत्वमेवाह-समस्तेति।। सामान्यबुद्धयो मन्दबुद्धयः।।
आत्मचिन्तासमानानां विविधानां मुनीश्वर।
आत्मचिन्तावयस्यानां मध्यादेकतमा मया।।[6-1-194]
सर्वदुःखक्षयकरी सर्वसौभाग्यवर्धिनी।
कारणं जीवितस्येह प्राणचिन्ता समाश्रिता।।[6-1-195]
इत्युक्तवन्तं विहगं भुशुण्ड पुनरप्यहम्।
जानन्नपीदमव्यग्रः पृष्टवान्क्रीडया मुनिः।।[6-1-196]
शातातप उवाच।।
सर्वसंशयविच्छेदिन्नत्यन्तचिरजीवित।
यथार्थं ब्रूहि मे साधो प्राणचिन्ता किमुच्यते।।[6-1-197]
आत्मचिन्ताया दुष्प्रापत्वादेव तत्समाना प्राणचिन्ता मयाश्रितेत्याह श्लोकद्वयेन-आत्मेति। आत्मचिन्तासमानत्वादेवंविधानामुपसानान्तराणां तद्वयस्यात्वम्।।[6-1-194,195,196,197]
भुशुण्ड उवाच।।
शृणु प्राणसमाधानं वक्ष्यमाणमिदं मया।
यस्येदं भगवन्सर्वं देहगेहं मनोरमम्।।[6-1-198]
तत्रोर्ध्वाधो द्विसंकेतौ प्रसृतावनिलौ मुने।
देहस्य मध्ये हृत्पद्मं तत्रैतौ समवस्थितौ।।[6-1-199]
प्राणापानाविति ख्यातौ प्रकटौ तौ वरानिलौ।
तयोरनुसरन्नित्यं मुने गतिरहं स्थितः।।[6-1-200]
शृण्विति सार्धश्लोकद्वयं वाक्यम्। प्राणसमाधानम्। प्राणगत्यनुसंधानमित्यर्थः।।[6-1-198,199,200]
शीतोष्णवपुषोर्नित्यं नित्यमम्बरपान्थयोः।
कलेवरमहायन्त्रवाहयोः श्रमहीनयोः।।[6-1-201]
हृदाकाशार्कशशिनोरग्नीषोमस्वरूपयोः।
तयोर्ममानुसरतः प्राणापानाभिधानयोः।।[6-1-202]
गतिः शरीरमरुतोः सशरीरमरुद्धयोः।
जाग्रत्स्वप्नसुषुप्तेषु सदैव समरूपयोः।
सुषुप्तसंस्थितस्येव ब्रह्म वाञ्छन्ति वासनाः।।[6-1-203]
शीतेति श्लोकत्रयं वाक्यम्।। शीतोष्णवपुषोः शीतवपुरपानः। उष्णवपुः प्राणः। हृदाकाशार्कशशिनोः। प्राणोऽर्कः। अपानः शशी।।[6-1-201,202,203]
सहस्रविनिकृत्ताङ्गद्बिसतन्तुलवादपि।
दुर्लक्ष्या विद्यमानापि गतिः सूक्ष्मतरानयोः।।[6-1-204]
सहस्रेति।। सहस्रविनिकृत्ताङ्गात् सहस्रं विनिकृत्तान्यङ्गानि यस्य तस्मात्। सहस्रधा छिन्नादित्यर्थः। बिसतन्तुलवादपि तयोः प्राणापानयोर्गतिः सूक्ष्मतरा दुर्लक्ष्या च।।
प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः।
सबाह्याभ्यन्तरे देहे प्राणोऽयमूर्ध्वगः स्थितः।।[6-1-205]
प्राण इति।। अयं प्राणः अनिशं स्पन्दशक्तिः स्पन्दरूपा चलनात्मिका शक्तिर्यस्य। सदा गतिर्यस्य तादृशस्तिष्ठति। अयं च प्राण ऊर्ध्वगः सन्सबाह्याभ्यन्तरे द्वादशाङ्गुलपर्यन्तं बहिर्निःसरणात् बाह्यनिःसरणात् बाह्यसहितं देहे यदभ्यन्तरं तत्र ऊर्ध्वगः स्थितः। पूर्वोत्तरार्धयोर्भिन्नत्वात्प्राणशब्दस्यापौनरुक्त्यम्।।
अपानोऽप्यनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः।
सबाह्याभ्यन्तरे देहे त्वपानोऽप्यमावाक्‌स्थितः।।[6-1-206]
अपान इति।। अयमपानस्तु अवाक् अधोगमनस्वभावः स्थित इत्ययमेव विशेषः। अन्यत्तु प्राणवदेवेत्यर्थः।।
जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः।
प्रवर्तते योऽभिज्ञस्य तं तावच्छ्रेयसे शृणु।।[6-1-207]
बाह्योन्मुखत्वं प्राणानां यद्वदम्बुजकोटरात्।
स्वरसेनास्तयत्नानामन्तस्थं रेचकं विदुः।।[6-1-208]
जाग्रत इति।। योऽयमुत्तमः प्राणायामोऽभिज्ञस्य प्राणापानगतिज्ञस्य जाग्रतः स्वपतश्चैव प्रवर्तते तं प्राणायामं तावच्छ्रेयसे शृणु[6-1-207,208]
द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः।
प्राणानामङ्गसंस्पर्शो यः स पूरक उच्यते।।[6-1-209]
द्वादशेति।। द्वादशाङ्गुलपर्यन्तं बाह्यप्रदेशमाक्रमतां प्राणानां प्राणवृत्तीनां ततो विस्तृतो योऽङ्गसंस्पर्शः प्राणावयवानां परस्परसंश्लोषः स पूरको बाह्यरूप उच्यते। शरीरापेक्षया बाह्यस्य द्वादशाङ्गुलपरिमितस्य प्रदेशस्य पूरणात्। स्वत इति पाठे स्वत एव बाह्यमाक्रमतामित्यन्वयः।।
बाह्यात्परापतत्यन्तरपाने यत्नवर्जितः।
योऽङ्गप्रपूरणः स्पर्शो विदुस्तमपि पूरकम्।।[6-1-210]
बाह्यादिति।। अपाने वायौ बाह्यत्प्रदेशादन्तः परापतति सति शरीराभ्यन्तरं प्रविशति सति यत्नवर्जितः अयत्नसिद्धः अङ्गप्रपूरणः शरीरप्रपूरणो यः स्पर्शस्तमपि पूरकं विदुः। अन्तः पूरकं विदुरित्यर्थः। शरीरान्तःपूरणात्।।
अपानेऽस्तं गते प्राणो यावन्नाभ्युदितो हृदि।
तावत्सा कुम्भकावस्था योगिभिर्यानुभूयते।।[6-1-211]
रेचकः पूरकश्चैव कुम्भकश्च त्रिधा स्थितः।
मृदन्तरस्था निष्पन्नघटवद्या स्थितिर्बहिः।।[6-1-212]
द्वादसाङ्गुलपर्यन्ते नासाग्रसमसंमुखे।
व्योम्नि नित्यमपानस्य तं विदुः कुम्भकं बुधाः।।[6-1-213]
अपान इति।। अपानवायावस्तं गते सति हृदि प्राणो यावन्नाभ्युदितः तावत्सा वायोर्निश्चला गतिः कुम्भकावस्थोच्यते या योगिभिरनुभूयते अयमवस्थाविशेषोऽन्तःकुम्भक इत्यर्थः शरीरस्यान्तरे च वायोः कुमिभितत्वात्।।[6-1-211,212,213]
बाह्योन्मुखस्य वायोर्या नासिकाग्रावधिर्गतिः।
तं बाह्यपूरकं त्वाद्यं विदुर्योगविदो जनाः।।[6-1-214]
बाह्येति।। बाह्योन्मुखस्य प्राणवायोः या नासिकाग्रवधिर्गतिरस्ति तं गतिविशेषं आद्यं बाह्यपूरकं विदुः। अपरस्यापि बाह्यपूरकस्य वक्ष्यमाणत्वादाद्यव्यपदेशः। नासिकाग्रलक्षणबाह्यदेशस्य पूरणाद्बाह्यपूरकत्वम्।।
नासाग्रदपि निर्गत्य द्वादशान्तावधिर्गतिः।
या वायोस्तं विदुर्धीरा अपरं बाह्यपूरकम्।।[6-1-215]
नासेति।। नासाग्रदपि निर्गत्य वायोर्या द्वादशान्तावधिर्गतिरस्ति तं गतिविशेषमपरं बाह्यपूरकं विदुः।।
बहिरस्तं गते प्राणे यावन्नापान उद्गतः।
तावत्पूर्णसमावस्थं बहिष्ठं कुम्भकं विदुः।।[6-1-216]
बहिरिति।। प्राणे बहिरस्तं गते सति यावदपानो वायुरन्तराकर्षणशीलो नोद्गतः तावत्पूर्णसमावस्थं पूर्मकुम्भतुल्यमवस्थाविशेषं बहिष्ठं कुम्भकं विदुः शरीराद्बहिरेव वायोः कुम्भितत्वात्।।
अन्तर्मुखत्वं वायोर्यदपानोदयरूपकम्।
तं बाह्यरेचकं विद्याच्चिन्त्यमानं विमुक्तिदम्।।[6-1-217]
द्वादशान्तात्समुत्थाय रूपपीवरता परा।
अपानस्य बहिष्ठं तमपरं पूरकं विदुः।।[6-1-218]
बाह्यनाभ्यन्तरांश्चैव कुम्भकादीननारतम्।
प्राणापानस्वभावांस्तान्रुध्वा भूयो न जायते।।[6-1-219]
अन्तरिति।। वायोरपानोदयरूपकं यदन्तर्मुखत्वं तं बाह्यरेचकं विद्यात्। बहिःकुम्भितस्य वायोः अन्तर्मुखतया रेचनात्।।[6-1-217,218,219]
अष्टावेते महाबुद्धे रात्रिंदिवमनुस्मृताः।
स्वभावा देहवायूनां कथिता मुक्तिदा मया।।[6-1-220]
अव्यग्रमस्मिन्व्यापारे बाह्यं परिजहन्मनः।
दिनैः कतिपयैरेव पदमाप्नोति केवलम्।।[6-1-221]
अष्टाविति।। बाह्याः पूरकाद्यास्त्रयः आन्तराश्चत्रयः अतिरिक्तौ तौ द्वौ बाह्यपूरकावित्यष्‍विधत्वम्। तत्राद्यश्लोकद्वयेन स्थूलां प्राणापानगतिमाश्रित्य भेदद्वयमुक्तम्। अनन्तरश्लोकषट्केन सूक्ष्मां गतिमाश्रित्य षड्भेदा निरूपिता इति विवेकः।।[6-1-220,221]
एतदभ्यसतः पुंसो बहिर्विषयवृत्तिषु।
न बध्नाति रतिं चेतः श्वदृतौ ब्राह्मणो यथा।।[6-1-222]
एतां दृष्टिमवष्टभ्य ये स्थिताः स्तिरबुद्धयः।
प्राप्तं प्राप्तव्यमखिलं तैरखिन्नास्त एव हि।।[6-1-223]
तिष्ठता गच्छता नित्यं जाग्रता स्वपताथवा।
एषा चेत्क्रियते दृष्टिस्तन्न बन्धनमाप्यते।।[6-1-224]
एतदिति।। श्वदृतौ शुनकचर्मनिर्मितायां भस्त्रिकायाम्।।[6-1-222,223,224]
प्राणस्याभ्युदयो ब्रह्मन्पद्मयन्त्राद्धृदि स्थितात्।
द्वादशाङ्गुलपर्यन्ते प्राणोऽस्तं यात्ययं बहिः।।[6-1-225]
प्राणस्येति।। हृदि स्थितात्पद्मयन्त्रात् प्राणस्याभ्युदय उद्गमनं अयं प्राणो बहिरद्वादशाङ्गुलपर्यन्ते अस्तं याति।।
अपानस्योदयो बाह्याद्द्वादशान्तान्महामुने।
अस्तंगतिरथाम्भोजमध्ये हृदयसंस्थिते।।[6-1-226]
अपानस्येति।। यत्र प्राणस्य लयः तस्माद्द्वादशान्तात् अपानस्योदयः। यतश्च प्राणस्योदयः तत्र हृत्पद्मेऽपानस्य लयइत्यर्थः।।
अपानश्चन्द्रमा देहमाप्याययति बाह्यतः।
प्राणः सूर्योऽग्निरथवा पचत्यन्तरिदं वपुः।।[6-1-227]
अपान इति।। अपानश्चन्द्ररूपत्वाद्देहं द्वादशान्तररूपाद्बाह्यत आगत्योत्थापयति। आप्याययति पुष्णाति। प्राणस्तु सूर्याग्निरूपत्वादिदं वपुः पाकयुक्तं करोति।।
अपानशशिनोऽन्तःस्था कला प्राणविवस्वता।
यत्र ग्रस्ता तदासाद्य न भूयो जन्मभाङ्नरः।।[6-1-228]
इत्थं प्राणापानगतेः प्राणायामरूपेणानुसंधानप्रकारमभिधायेदानीं प्राणगत्यनुसंधानमुखेनात्मानुसंधानप्रकारमाह-अपानेति।। अपानशशिनः अपानरूपस्य चन्द्रस्य अन्तःस्था शरीरान्तर्गता कला एकदेशः प्राणविवस्वता प्राणाख्येन सूर्येण यत्र यस्मिन्नात्मतत्त्वे ग्रस्ता यस्य आत्मनः प्रयत्नेन संगता तत्पदं तदात्मतत्त्वमासाद्यानुसंधाय भूयः पुनर्नशोच्यते।।
प्राणार्कस्य तथान्तःस्था यत्रापानसितांशुना।
ग्रस्ता तत्पदमासाद्य न भूयो जन्मभाङ्नरः।
प्राणो गतागती कुर्वन्संधत्ते सूर्यचन्द्रताम्।।[6-1-229]
प्राणेति।। पूर्ववद्व्याख्येयम्। प्राणापानयोः परस्परोपरोधो यत्प्रयत्नवशाद्भवति तदेवात्मतत्त्वमनुसंधाय मुच्यत इत्यर्थः। प्राणार्कस्य अन्तःस्था कलेति संबन्धः।।
प्राणभक्षोन्मुखेऽपाने प्राणे वाऽपानभक्षके।
उभयोरन्तरालस्थं न भूयो जायते नरः।।[6-1-230]
प्राणेति।। इत्थमपाने प्राणभक्षोन्मुखे सति प्राणे अपानभक्षके सति यत्तत्त्वमुभयोः प्राणापानयोरन्तरालस्थं मध्यस्थं साक्षितया प्रवर्तते तत्पदं तदात्मतत्त्वमासाद्य नरो भूयो न जायत इत्यनुवृत्त्या संबन्धः।।
प्राणक्षयसमीपस्थ अपानोदयकोटिगः।
अपानप्राणयोर्मध्यं चिदात्मानमुपास्महे।।[6-1-231]
प्राणेति।। खलु चिद्रूप आत्मा प्राणक्षयसमीपस्थः प्राणस्य द्वादशान्तरे क्षये सति स्वयं समीपे तिष्ठति साक्षितया संनिधत्ते न तु स्वयं क्षीयते। अपानोदये च कोटिगः समीपगः साक्षी न तु स्वयमुदेति इत्थमपानप्राणयोर्मध्यं साक्षिणं चिदात्मानमुपास्महे अनुसंदध्महे।।
अपानोऽस्तं गतो यत्र प्राणो नाभ्युदितः क्षणम्।
कलाकलङ्करहितं तच्चित्तत्त्वमुपास्महे।।[6-1-232]
एतदेव विवृणोति-अपान इति।। कलाकलङ्करहितं अविद्यासंबन्धरहितम्।।
नापानोऽभ्युदितो यत्र प्राणश्चास्तमुपागतः।
नासाग्रगगनावर्तं तच्चित्तत्त्वमुपास्महे।।[6-1-233]
नापान इति।। यत्र चित्तत्त्वे प्राणोऽस्तमुपागतः अपानश्च नाभ्युदितः नासाग्रगगनावर्तं नासिकाया अग्रभागे यद्गनं द्वादशान्तरूपं तत्रावर्तमानं प्राणापानप्रवर्तकतया गमनागमने कुर्वाणं तत्तादृशचित्तत्त्वमुपास्महे।।
यदखिलकलनाकलङ्कहीनं परिकलितं च सदा कलागणेन।
अनुभवविभवं पदं तदग्र्यं सकलसुरप्रणतं परं प्रपद्ये।।[6-1-234]
यदिति।। तत्पदं अखिलकलनाकलङ्गहीनं परमात्मस्वरूपत्वात्। कलागणेन अविद्याव्यूहेन परिकलितं च परितो व्याप्तं च जीवरूपत्वात्। अनुभवविभवं स्वानुभवैकप्रमाणं तदग्र्यं परं पदं प्रपद्ये।।
एषा हि चिति विश्रान्तिर्मया प्राणसमाधिना।
क्रमेणानेन संप्राप्ता स्वयमात्मनि निर्मले।।[6-1-235]
एषेति।। अनेन पूर्वोक्तेन क्रमेण एषा चिति चिद्रूपे आत्मनि विश्रान्तिर्मया प्राप्तेति संबन्धः।।
न भूतं न भविष्यच्च चिन्तयामि कदाचन।
दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना।।[6-1-236]
नेति।। भूतं भविष्यच् न चिन्तयामि वर्तमानामेव दृष्टिमालम्ब्यात्मना स्वरूपेणैव तिष्ठामि।।
इदमद्य मया लब्धमिदं प्राप्यामि सुन्दरम्।
इति चिन्ता न मे तेन चिरं जीवाम्यनामयः।।[6-1-237]
न स्तौमि न च निन्दामि क्वचित्किंचित्कदाचन।
आत्मनोऽन्यस्य वा साधो तेन जीवाम्यनामयः।।[6-1-238]
न तुष्यति शुभप्राप्तौ नाशुभेष्वपि खिद्यते।
मनो मम समं नित्यं तेन जीवाम्यनामयः।।[6-1-239]
चिरंजीवित्वहेतुमात्मनः चित्तवृत्तिप्रकारमेव प्रपञ्चयितुमाह नवभिः श्लोकैः-इतमिति।। सुन्दरं अभिनवं वस्तु।।[6-1-237,238,239]
परमं त्यागमालम्ब्य सर्वमेव सदैव हि।
जीवितादि मया त्यक्तं तेन जीवाम्यनामयः।।[6-1-240]
परममिति।। परमं त्यागं त्यज्यतेऽनेनेति त्यागो वैराग्यम्। प्रकृष्टवैराग्यमित्यर्थः।।
प्रशान्तचालनं वीतशोकमस्तसमीहितम्।
मनो मम मुने शान्तं तेन जीवाम्यनामयः।।[6-1-241]
अयं बन्धुः परश्चायं ममायमयमन्यथा।
इति ब्रह्मन्न जानामि तेनास्मि चिरजीवितः।।[6-1-242]
प्रशान्तेति।। तत्र चालनं नाम वर्तमानेष्टवस्तुदर्शनकौतूहलम्। तदुक्तम्-`कुतूहलं रम्यदृष्टौ चालनं परिकीर्तितम्'इति। शोको नष्टेष्टवस्तुविषयः। समीहितं भविष्यदिष्टवस्तुवाञ्छितम्।।[6-1-241,242]
आशापाशविनुन्नायाश्चित्तवृत्तेः समाहितः।
संस्पर्शं न ददाम्यन्तस्तेन जीवाम्यनामयः।।[6-1-243]
सुखितोऽस्मि सुखापन्ने दुःखितो दुःखिते जने।
सर्वस्य प्रियमित्रं च तेन जीवाम्यनामयः।।[6-1-244]
आशेथि।। आशापाशपरवशायाः चित्तवृत्तेरन्तः संस्पर्शं यन्न ददामि समाहितत्वात् तेन जीवामि।।[6-1-243,244]
आपद्यचलधीरोऽस्मि जगन्मित्रं च संपदि।
भावाभावेषु नैवास्मि तेन जीवाम्यनामयः।।[6-1-245]
एतत्ते कथितं ब्रह्मन्यथास्मि चिरजीवितः।
त्वदाज्ञामात्रसिद्ध्यर्थं धार्ष्ट्येन ज्ञानपारग।।[6-1-246]
वसिष्ठ उवाच।।
अहो नु चित्रं भवता कथितं भूषणं श्रुतेः।
आत्मोदन्तः प्रकथितः परं विस्मयकारणम्।।[6-1-247]
तदस्तु तव कल्याणं प्रविशात्मगुहां शुभाम्।
मध्याह्नसमयोऽयं मे व्रजामि सुरमन्दिरम्।।[6-1-248]
आपदीति।। आपदि आपत्प्राप्तिसमये अचलवद्धीरोऽस्मि। संपत्प्राप्तौ जगतः सर्वस्य मित्रं च सर्वदा जगतः सर्वस्योपकारणात् भावाभावेषु नैवास्मि। एते भावाभावरूपाइति पदार्थगतं भेदं नानुसंदधामीत्यर्थः।।[6-1-245,246,247,248]
अनुव्रज्याकदर्थेन खगेन्द्रालमिति ब्रुवन्।
विष्टरादहमुत्थाय नभः खगवदाप्लुतः।।[6-1-249]
व्योम्नि योजनमात्रे तु मदनुव्रज्ययोगतः।
मया निवारितः कृच्छ्राद्दुस्त्यजा संगतिः सताम्।।[6-1-250]
या ते कृतयुगस्यादौ पुनस्तेनास्मि संगतः।
संगतोऽहं भुशुण्डेन मेरोः शृङ्गद्रुमेऽभवम्।।[6-1-251]
अथ राम कृते क्षीणे त्रेता संप्रति वर्तते।
मध्ये त्रेतायुगस्यास्य जातस्त्वं रिपुसूदन।।[6-1-252]
पुनरप्यष्टमे वर्षे तत्रैवोपरि भूभृतः।
मिलितोऽभूद्भुशुण्डो मे तथैवाजररूपवान्।।[6-1-253]
अन्विति।। अनुव्रज्याकदर्थेन अनुव्रजनक्लेशेन अलम्। अनुव्रज्यां मा कुर्वित्यर्थः।।[6-1-249,250,251,252,253]
इति संकथितं चित्रं भुशुण्डोदन्तमुत्तमम्।
श्रुत्वा विचार्य चैवान्तर्यद्युक्तं तत्समाचर।।[6-1-254]
इति श्रीवाल्मीकीये मोक्षोपाये निर्वाणप्रकरणे भुशुण्डोपाख्यानं नाम प्रथमः सर्गः।। 1 ।।
इतीति।। यद्युक्तं तत्समाचर। पूर्वोक्ताख्यानेषु भुशुण्डवृत्तान्ते च यद्युक्तं प्रतीयते तत्समाचरेत्यर्थः।।
इति श्रीवासिष्ठविवरणे निर्वाणप्रकरणे भुशुण्डोपाख्यानं नाम प्रथमः सर्गः।। 1 ।।