लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ३
← सर्गः २ | लघुयोगवासिष्ठः सर्गः ३ [[लेखकः :|]] |
सर्गः ४ → |
बिल्वोपाख्यानम्।।
तृतीयः सर्गः।।
राम उवाच।।
तव वाक्यसुधासेकैर्न तृप्तिरुपजायते।
भूयः कथय मे ब्रह्मन्कांचित्तत्त्वमयीं कथाम्।।[6-3-1]
पूर्वमपूर्वेण देवपूजाविधानेन चित्तस्यान्तर्मुखतया निर्वाणमित्युक्तम्। इदानीमद्वितीयं ब्रह्मैवान्तर्भावितसर्वार्थं व्याप्य स्थितमित्यत्र बिल्वफलं निदर्शयन्नाख्यानान्तरमारभते। तत्र चित्तसमाधये प्रकारान्तरेण बोदयितुमुपक्रमते।।
वसिष्ठ उवाच।।
यथा प्राप्तिक्षणे वस्तु प्रथमं तुष्टये तथा।
न प्राप्त्येकक्षणादूर्ध्वमिति को नानुभूतवान्।।[6-3-2]
यथेति।। वाञ्छितं वस्तु प्रथमं प्राप्तिक्षणे यथा तुष्टये भवति तथा प्राप्त्येकक्षणात्प्राप्तिसंबन्धिन एकस्मात्क्षणादूर्ध्वं तुष्टये न भवतीति को नानुभूतवान्। अयमर्थः सर्वैरेवानुभूयत इत्यर्थः।।
वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तदा।
तस्मात्क्षणसुखे सक्तिं बालो भध्नाति नेतरः।।[6-3-3]
तस्मादस्मिन्क्षणसुखे बाल एवासक्तिं बध्नाति नेतरः प्रेक्षावान्।।
वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम्।
तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज।।[6-3-4]
तदपि क्षणसुखं कल्पितमेव न वास्तवमित्याह-वाञ्छेति।। वाञ्छाक्षणे तु या तुष्टिरुत्पद्यते तत्र तस्यां तुष्टौ वाञ्छैव कारणम्। वाञ्छान्वयव्यतिरेकानुविधायित्वात्तुष्टेः सा कल्पितापि तुष्टिरतुष्टिपर्यन्ता अतुष्टौ पर्यवस्यति। तस्मादनर्थपर्यवसितां क्षणसुखहेतुं वाञ्छां परित्यज।।
आशा यातु निराशत्वमभावं यातु भावना।
अमनस्त्वं मनो यातु तवासङ्गेन जीवतः।।[6-3-5]
आशेति।। अतश्च असङ्गेन विषयेष्वनास्थया जीवतो व्यवहारवतस्तव आशा भविष्यदिष्टवस्तुवाञ्छा निराशत्वं निरुद्यमत्वं यातु। भावना विषयवासना च अभावं यातु। मनश्च निर्वासनं सत् अमनस्त्वं निर्विकल्पतां यातु।।
वासनारहितैरन्तरिन्द्रियैराहरन्त्क्रियाम्।
न विक्रियामवाप्नोषि स्ववत्क्षोभशतैरपि।।[6-3-6]
वासनेति।। अतश्च त्वं वासनारहितैरिन्द्रियैश्चक्षुरादिभिः क्रियामाहरन् अनुतिष्ठन्नप्यन्तरन्तःकरणे विकारं नाप्नोषि। क्षोक्षशतैर्वातवर्षादिभिः विक्षोभशतैरपि खमाकाशं यथा विकारं नावाप्नोति तद्वत्।।
चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ।
वासनाप्राणसंरोधादनिमेषं मनः कुरु।।[6-3-7]
चित्तेति।। चित्तस्योन्मेषनिमेषाभ्यामाविर्भावतिरोभावाभ्यामेव संसारप्रलयोदयौ भवतः तस्मात्तदेव मनोवासनासंरोधात्प्राणसंरोधाद्वा पूर्वोक्तादनिमेषं विलीनं कुरु।।
प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ।
तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु।।[6-3-8]
प्राणेति।। प्राणस्पन्दस्यापि चित्तस्फुरणहेतुत्वात्संसृतिहेतुत्वमतस्तमपि प्राणमभ्यासप्रयोगाभ्यां पवननिरोधाभ्यासात् प्रकृष्टोद्योगात् मनोनिरोधाद्वाऽनिमेषमस्पन्दं कुरु। मनश्च बध्यते येन पवनस्तेन बध्यत इति मनोनिरोधस्यापि प्राणनिरोधहेतुत्वात्।।
मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ।
तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंयमैः।।[6-3-9]
मौर्ख्येति।। मौर्ख्यमज्ञानं तदपि कर्मद्वारा संसारहेतुः। तथाहि। अज्ञानादन्यथाज्ञानं तस्माद्रागद्वेषौ ताभ्यां पुण्यापुण्यरूपा प्रवृत्तिः ततो जन्मादिदुःखमयः संसार इति। तन्मौर्ख्यं गुरुशास्त्रार्थसंयमैः। गुरूपदेशात् शास्त्रार्थानुसंधानात्संयमाच्च बलात्पुरुषप्रयत्नाद्विलीनं प्रनष्टं कुरु।।
असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम्।
प्राणानां वा निरोधेन तदेव परमं पदम्।।[6-3-10]
असंविदिति।। चित्तं कर्तृ असंवित्स्पन्दमात्रेण संविदः स्पन्दो बहिर्मुखतया स्फूर्तिस्तदभावोऽसंवित्स्पन्दमात्रेण संविदः स्पन्दो बहिर्मुखतया स्फूर्तिस्तदभावोऽसंवित्स्पन्दः तन्मात्रेण वा प्राणनिरोधेन वा अचित्ततां निर्विकल्पत्वं याति तदेवोचित्त्वमेव परं पदं मुक्तिः।।
दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम्।
तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः।।[6-3-11]
दृश्येति।। दृश्यदर्शनसंबन्धे अभिमतविषयाणां इन्द्रियैः संबन्धे सति यत्पारमार्थिकं परमार्थभूतं स्वात्मनि संभूतं सुखमाविर्भवति तदन्तैकान्तसंवित्त्या। अन्तशब्दः स्वरूपवाची तस्य पारमार्थिकसुखस्यान्तःस्वरूपं तस्यैव एकान्तसंवित्त्या निरन्तरानुसंधानेन। ब्रह्मसंवित्त्या स्वरूपसुखसंवित्तरेव ब्रह्मदृष्टिरित्यर्थः। `अयमात्मा ब्रह्मे' ति श्रुतेः। तथा ब्रह्मदृष्ट्या मनसः क्षयो लयः स्यात्।।
यत्र नाभ्युदितं चित्तं तद्वै सुखमनुत्तमम्।
क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति।।[6-3-12]
चित्तलये सति तदेव स्वरूपसुखं कैवल्यसुखं संपद्यत इत्याह-यत्रेति।। यत्र यस्मिन्सुखे चित्तं नाभ्युदितं चित्तवृत्तयः संकल्पविकल्पादयो नोद्यन्ति तदेवाकृत्रिमं सुखं निजानन्दः। कैवल्यसुखमिति यावत्। तच्च क्षयातिशयनिर्मुक्तं सुखं निजानन्दः। कैवल्यसुखमिति यावत्। तच्च क्षयातिशयनिर्मक्तं नित्यं निरतिशयं चेति कृत्वा नोदेति न च शाम्यति।।
ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्यमुच्यते।
नानार्थान्यत्वभाक्चित्तं बोदात्ताम्रं सुवर्णवत्।।[6-3-13]
ननु ज्ञानिनश्चित्तलयाभावात् कथं जीवतो मुक्तिरित्यत्राह-ज्ञस्येति।। ज्ञस्य चित्तं न चित्ताख्यं चित्तमिति नाख्यायते किंतर्हि ज्ञचित्तं सत्यमुच्यते ब्रह्मैवेत्यर्थः। यस्मात्कारणान्नानार्थान्यत्वभाक् नानारूपैः कामसंकल्पादिभिरर्थैरन्यत्वभाक् ब्रह्मणः सकाशाद्भेदभागेव चित्तं चित्तशब्दार्थः। ज्ञस्य तु चित्तं बोधात् परिपूर्णब्रह्मबोधात् तदभिन्नं सत् संपद्यते। यथा ताम्रं युक्तिवसात्सुवर्णभावमापद्यते तद्वत्।।
चित्तं चित्तत्वमायाति किंचित्कालं जगत्स्थितौ।
विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्युत।।[6-3-14]
चित्तमित्ति।। चित्तं कर्तृ जगत्स्थितौ किंचित्कालं विहृत्य तुर्यावस्थायां श्रवणमननादिक्रमात् समाध्यवस्थायां सिद्धायां चित्तत्त्वं चित्स्वरूपमायाति। अतः परं तुर्यातीतं भवति। जाग्रदादित्रये सति तदपेक्षया समाध्यवस्थायां तुर्यत्वं सर्वदा समाधौ जाग्रदाद्यभावात्तुर्यत्वमपि नास्तीत्यर्थः।।
ब्रह्मैव भूरिभुवनभ्रमविभ्रमोच्चैरित्थं स्थितं सममनेकतयैकमेव।
सर्वात्मकं भवति नेतरदङ्ग किंचिच्चित्तादिकं च न हृदीव हि संनिवेशः।।[6-2-15]
वसिष्ठ उवाच।।
अत्रेमामवबोधाय विस्मयोल्लासशालिनीम्।
अपूर्वं चैव संक्षेपाद्राम रम्यां कथां शृणु।।[6-3-16]
ब्रह्मेति।। सर्वात्मकं ब्रह्मैकमेव भूरिभुवनभ्रमविभ्रमोच्चैर्भूरिभुवनभ्रान्तिविलासपरम्पराभिः इत्थं वियदादिप्रकारेणानेकतया समं युगपदेव स्थितम्। इतरच्छित्तादिकं किंचिदत्र नास्ति। संनिवेशः संस्थानं च व्योमादीनां प्रतीयमानं नास्ति। ननु प्रतीतस्य मिथ्यात्वं क्व दृष्टमित्यत्राह-हृदीवेति।। यथा स्वप्नदशायां हृदि चित्ते प्रतीयमानं वस्तु तत्संनिवेशश्च नास्ति तद्वत्।।[6-3-15,16]
योजनानां सहस्राणि विपुलं विमलं स्फुटम्।
युगैरप्यजरद्रूपमस्ति बिल्वफलं महत्।।[6-3-17]
योजनानामिति श्लोकत्रयं वाक्यम्।। चिद्धनमन्तर्गतसर्वार्थं च ब्रह्मैवापूर्वबिल्वफलत्वेन निरूप्यते। अजरद्रूपं ब्रह्मणो जरादिविकाररहितत्वात्।।
पुराणमपि बालेन्दुदलमार्दसुन्दरम्।
महाकल्पान्तवात्याया अपि वेगैरचालितम्।।[6-3-18]
पुराणमपि बालेन्दुशकलवन्मार्दवेन सुन्दरं आनन्दमयत्वात्। अचालितं निष्कर्मत्वात्।।
योजनायुतकोटीनां कोटिलक्षशतैरपि।
वैपुल्येनापरिच्छेद्यं मूलमाद्यं जगत्स्थितेः।।[6-3-19]
वैपुल्येनापरिच्छेद्यं अनन्तत्वात्। जगत्स्थितेराद्यं मूलं उपादानत्वात्। इत्थंभूतं महद्बिल्वफलमस्ति।।
तस्य बिल्वफलस्योच्चैर्ब्रह्माण्डानि समीपतः।
हरन्ति लीलां शैलाधोराजिकाकणपद्धतेः।।[6-3-20]
तस्येति।। तस्य बिल्वफलस्य समीपतः उच्चैर्ब्रह्माण्डान्यपि शैलाधः स्थितानां राजिकाकणानां पद्धतेर्लीलां हरन्ति किं वर्ण्यते तन्महत्त्वमित्यर्थः। राजिका कृष्णसर्षपः।।
न कदाचन पाकेन पातान्तेन समेति तत्।
सदैव पक्वमप्यङ्ग जरसा यन्न बाध्यते।।[6-3-21]
नेति।। तत्फलं कदाचन पातपर्यंन्तेन पाकेन न समेति न संयुज्यते नित्यत्वात्।।
मसस्तफलसारस्य फलस्यास्य महाकृतेः।
अन्तर्मज्जत्वमायाति संविच्छक्तिचमत्कृतिः।।[6-3-22]
समस्तेति।। समस्तफलसारस्य परमपुरुषार्थरूपत्वात्। अस्य प्रकृतस्य संविच्छक्तिचमत्कृतिः चिच्छक्तिस्फूर्तिरेव अन्तर्मज्जत्वं अन्तःस्थितसारत्वमायाति ब्रह्मणः संवित्सारत्वात्।।
संविच्छक्त्या तया तत्र ततस्तरलरूपया।
निज एव समे रूपे दृगित्थं संप्रसारिता।।[6-3-23]
संविदिति।। ततः बिल्वफलस्यानन्ततया तरलरूपया बहुविधपरिणामतया स्फुरद्रूपया संविच्छक्त्या समे निज एव रूपे। इत्थं वक्ष्यमाणप्रकारेण दृक् सिसृक्षापूर्विका दृष्टिः संप्रसारिता प्रवर्तिता।।
इदं व्योम महानन्तमियं कालमयी कला।
इयं नियतिरुद्युक्ता क्रियेयं स्पन्दरूपिणी।।[6-3-24]
ब्रह्मण्डमण्डपमिदमिमा आशाः क्रमो ह्ययम्।
इति सा तस्य बिल्वस्य निजमज्जामत्कृतिः।।[6-3-25]
तमेव प्रकारमाह-इदमिति द्वाभ्याम्।। उद्युक्ता जगन्ति नियन्तुमुद्यता नियतिरियं स्पन्दरूपिणी चलनस्वभावा क्रियारूपा शक्तिरियम्। निजमज्जाचमत्कृतिः निजायाः संविच्छक्तेः स्फूर्तिः। सर्वस्यापि प्रपञ्चस्य संविद्विलासरूपत्वात्।।[6-3-24,25]
राम उवाच।।
भगवन्सर्वसारज्ञ त्वयैषा बिल्वरूपिणी।
महाचिद्धनसत्तेह कथितेति मतिर्मम।।[6-3-26]
भगवन्निति।। महाचिद्धनसत्ता महती चिद्धनस्य ब्रह्मणः सत्ता।।
चिन्मज्जारूपमखिलमहन्तादीदमाततम्।
न मनागपि भेदोऽस्ति द्वैतैक्यकलनात्मकः।।[6-3-27]
यता ब्रह्मण्डकूष्माण्डमज्जामेर्वादिसंस्थितिः।
तथा चिद्बिल्वमज्जेयं ब्रह्माण्डादिजगत्स्थितिः।।[6-3-28]
इति श्रीनिर्वाणप्रकरणे बिल्वोपाख्यानं नाम तृतीयः सर्गः।। 3 ।।
चिदिति।। अहन्तादि अहंकारप्रकृतिमहदादिभिराततं विस्तीर्णमिदमखिलं जगच्चिन्मज्जारूपम्। अतश्च मनागपि तद्द्वैतैक्यकलनात्मको भेदाबेदविचाररूपो भेदो भेददृष्टिर्नास्ति।।[6-3-27,28]
इति श्रीवासिष्ठविवरणे निर्वामप्रकरणे बिल्वोपाख्यानं नाम तृतीयः सर्गः।। 3 ।।