लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १४

विकिस्रोतः तः
← सर्गः १३ लघुयोगवासिष्ठः
सर्गः १४
[[लेखकः :|]]
सर्गः १५ →


मुनिव्याधोपाख्यानम्।।
चतुर्दशः सर्गः।।
राम उवाच।।
एवंस्थिते हि भगवञ्जीवन्मुक्तस्य सन्मतेः।
अपूर्वाऽतिशयः कोऽसौ भवत्यात्मविदां वर।।[6-14-1]
पूर्वं स्वविचारेण दुर्बोधमपि तत्त्वं गुरूपदेशात्सुबोधमिति दर्शितम्। इदानीं बुद्धतत्त्वस्य विश्रान्तस्य नास्ति प्रायेण लौकिको व्यवहार इति निदर्शनार्थं मुनिव्याधवृत्तान्तो निरूप्यते-एवमिति।। एवंस्थिते जीवन्मुक्तस्य आकाशगमनादयोऽतिशया न सन्तीति पूर्वमुक्तम्। एवंस्थिते सति अस्य सन्मतेर्जीवन्मुक्तस्य अपूर्वोऽतिशयः कोऽसौ भवति।।
वसिष्ठ उवाच।।
ज्ञस्य कस्मिंश्चिदेवाङ्ग भवत्यतिशयेन धीः।
नित्यतृप्तः प्रशान्तात्मा स आत्मन्येव तिष्ठति।। [6-14-2]
ज्ञस्येति।। ज्ञस्य धीः कस्मिंश्चिदेव विश्वविलक्षणे कुत्रचिदेव तत्त्वे अतिशयेन भवति। स च तावतैव नित्यतृप्तः प्रशान्तात्मा च सन्नात्मन्येव तिष्ठति नान्यदाशास्ते।।
मन्त्रसिद्धैस्तपःसिद्धैस्तन्त्रसिद्धैश्च भूरिशः।
कृतमाकाशयानादि का तत्र स्यादपूर्वता।।[6-14-3]
मन्त्रेति।। का तत्र स्यादपूर्वता आकाशगमनादेः पक्ष्यादिसाधारणत्वात् जीवभावस्य वा निवृत्तेः को वा अपूर्वातिशय इत्यर्थः।।
अणिमाद्यपि संप्राप्तं तादृशैरेव भूरिशः।
यत्नेन साधितत्वात्तैर्नेतरेणात्मदर्शिना।।[6-14-4]
अणिमाद्यपि अष्टविधमैश्वर्यमपि तादृशैर्मन्त्रादिसिद्धैरेव भूरिशः संप्राप्तम्। इतरेम त्वात्मदर्शिना न संप्राप्तम्। कुतः। तैरेव मन्त्रादिसिद्धैर्यत्नेन साधितत्वात्। आत्मदर्शिना त्वणिमाद्यनपेक्षिणा प्रयत्नेनासाधितत्वात्।।
एष एव विशेषोऽस्य न समो मूढबुद्धिभिः।
सर्वत्रास्थापरित्यागान्नीरागममलं मनः।।[6-14-5]
एष एवेति।। अस्य ज्ञस्य सर्वत्र बाह्यवस्तुनि आस्थापरित्यागाद्धेतोः सर्वत्र मनो नीरागममलं चेति यत् एष एवास्य विशेषो मूढबुद्धिभिः समः साधारणो न भवति।।
एतावदेव खलु लिङ्गमलिङ्गमूर्तेः संशान्तसंसृतिचिरभ्रमनिर्वृतस्य।
तज्ज्ञस्य यन्मदनकोपविषादमोहलोभापदामनुदिनं निपुणं तनुत्वम्।।[6-14-6]
तमेव विशेषमाह-एतावदिति।। अलिङ्गमूर्तेर्वर्णाश्रमादिलिङ्गरहितस्य संशान्तसंसृतिचिरभ्रमनिर्वृतस्य संशान्तः संसृतिरूपः चिरभ्रमो यस्य। अतएव निर्वृतस्य निश्चिन्तस्य तज्ज्ञस्य मदनकोपविषादमोहलोभापदां कामक्रोधदिनिमित्तानां आपदामनुदिनं निपुणं निर्विकारं तनुत्वं क्षय इति यत् एतावदेव लिङ्गं विशेष इत्यर्थः।।
वसिष्ठ उवाच।।
यथा सत्त्वमुपेक्ष्य स्वं शनैर्विप्रो दुरीहया।
अङ्गीकरोति शूद्रत्वं तथा जीवत्वमीश्वरः।।[6-14-7]
यथेति।। यथा हि कश्चिद्विप्रः स्वमात्मीयं सत्त्वं जात्यादिभिः प्रशस्तत्वमुपेक्ष्याविचार्य दुरीहया पुत्रोत्पादनपर्यन्तशूद्राङ्गनासङ्गादिरूपया दुश्चेष्टया शूद्रत्वमङ्गीकरोति। तथाच मनुः-`शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्। जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते' इति। तथा दुरीहया स्वसंकल्पेन स्वाविद्यया वा ईश्वरोऽपि जीवत्वमङ्गीकरोति। `अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'ति श्रुतेः।।
भूतानि द्विविधान्येव प्रतिसर्गे स्फुरन्ति वै।
आद्यचित्स्पन्दजातानि तानि निष्कारणानि वै।।[6-14-8]
भूतानीति श्लोकद्वयं सार्धं वाक्यम्।। द्विविधान्येव भूतानि चराचररूपाः प्राणिनः प्रतिसर्गं स्फुरन्ति प्रादुर्भवन्ति। तत्र यानि भूतानि आद्यचित्स्पन्दजातानि। स्पन्दः स्फुरणं सिसृक्षेति यावत्। आद्यचित्स्पन्दाज्जातानि भूतानि निष्कारणानि कर्मादेर्जनमकारणस्याभावात् आत्मनश्च निर्विकारत्वेनाकारणत्वात्।।
ईश्वरात्समुपागत्य पुनर्जन्मान्तराणि तु।
भूतान्यनुभवन्त्यङ्ग स्वकृतैरेव कर्मभिः।
कार्यकारणभावोऽयमीदृशो जन्मकर्मभिः।।[6-14-9]
ईश्वरात्समुपागत्य तु भूतानि स्वकृतैः कर्मभिरेव पुनःपुनर्जन्मान्तराणि अनुभवन्ति। जन्मकर्मणोरयं कार्यकारणभाव ईदृशः उक्तप्रकारः प्रथमं जन्म कर्मणः सुकृतदुष्कृतरूपस्य कारणम्। अनन्तरं तु कर्म जन्मनो नामरूपस्य कारणमित्यर्थः।।
अकारणमुपायान्ति सर्वे जीवाः परास्पदात्।
पश्चात्तेषां स्वकर्माणि कारणं सुखदुःखयोः।।[6-14-10]
आत्माज्ञानात्समुत्पन्नः संकल्पः कर्मकारणम्।।[6-14-11]
संकल्पित्वं हि बन्धस्य कारणं तत्परित्यज।
मोक्षस्तु निःसंकल्पित्वं तदभ्यासं धिया कुरु।।[6-14-12]
एतदेव स्पष्टयति-अकारणमिति अर्धत्रयं वाक्यम्।। सुखदुःखयोरित्युपलक्षणम्। जात्यायुषोरपि नानारूपयोः स्वकर्माण्येव कारणम्। आत्माज्ञानात् आत्मतत्त्वस्याज्ञानात् समुत्पन्नः संकल्पस्तु कर्मणां कारणम्।।[6-14-10,11,12]
सावधानो भव त्वं च ग्राह्यग्राहकसंगमे।
अजस्रमेव संकल्पदशाः परिहरञ्शनैः।।[6-14-13]
सावधान इति।। चशब्दो हेत्वर्थे। अतो हेतोः स्वसंकल्पदशाः शनैरभ्यासक्रमेण परिहरन् ग्राह्यग्राहकसंगमे दृश्यदर्शनसंबन्धे अजस्रमेव सावधानो भव अव्यवहितो भव।।
मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव।
भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव।।[6-14-14]
अवधानप्रकारमेवाह-मा भवेति।। ग्राह्यभावात्मा दृश्यभावादात्माऽभिमानी मा भव। ग्राहकात्मा द्रष्टृत्वाभिमानी मा भव किंतर्हि अखिलानां भावानां कर्मकर्त्रादिवासनां त्यक्त्वा यच्छिष्टं वस्तु कर्मादिविलक्षणं तन्मयो भव।।
अजस्रं यं यमेवार्थं पतत्यक्षगणोऽनघ।
बध्यते तत्र रागेण विरागेण विमुच्यते।।[6-14-15]
अजस्रमिति।। अक्षगणः इन्द्रियसमूहोयं यमेवार्थमजस्रं पतति गच्छति तत्र रागेण चेत्पतति तर्ही बध्यते। विरागेण चेत्पतति तर्ही विमुच्यते।।
यत्किंचिद्रोचते चित्ते तद्बद्धोऽसि भवस्थितौ।
न किंचिद्रोचते चित्ते तन्मुक्तोऽसि भवस्थितौ।।[6-14-16]
एतदेवाह-यदिति।।
तस्मात्पदार्थनिचयाद्राम स्थावरजङ्गमात्।
तृणादेर्देवपर्यन्तान्मा किंचित्तव रोचताम्।।[6-14-17]
अरतिः सन्यदश्नासि यत्करोषि जहासि यत्।
न कर्तासि न भोक्तासि तत्र मुक्तमतिः शमी।।[6-14-18]
सन्तोऽतीतं न शोचन्ति भविष्यच्चिन्तयन्ति नो।
वर्तमानं च गृह्णन्ति क्रमप्राप्तं सदानघ।।[6-14-19]
मनसि ग्रथिताः पाशास्तृष्णामोहमदादयः।
मनसैव मनो नाम छेदनीयं विजानता।।[6-14-20]
तस्मादिति।। तव तुभ्यमित्यर्थः।।[6-14-17,18,19,20]
विवेकेनातितीक्ष्णेन बलादय इवायसा।
मनसैव मनश्छिन्धि संसारभ्रान्तिशान्तये।।[6-14-21]
क्षालयन्ति मलेनैव मलं क्षालनकोविदाः।
वारयन्त्यस्रमस्रेण विषं प्रतिविषेण च।।[6-14-22]
जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि तु।
तत्रास्य यत्परं रूपं तद्भज द्वे परित्यज।।[6-14-23]
पाणिपादमयो योऽयं देहो बोगाय वल्गति।
भोगार्थमेतज्जीवस्य रूपं स्थूलमिह स्थितम्।।[6-14-24]
विवेकेनेति।। विवेकेन अतितीक्ष्णं यन्मनस्तेन मनसा मलिनं मनश्छिन्धीत्यर्थः।।[6-14-21,22,23,24]
स्वसंकल्पमयाकारे यावत्संसारभावि यत्।
चित्तं तद्विद्धि जीवस्य रूपं रामातिवाहिकम्।।[6-14-25]
आद्यन्तरहितं सत्यं चिन्मात्रं निर्विकल्पकम्।
यत्तद्विद्धिपरं रूपं जीवस्याद्यं तृतीयकम्।।[6-14-26]
स्वेति।। चित्तमेवास्य जीवस्य आतिवाहिकम्। लोकान्तरगमनागमनयोग्यं सूक्ष्मरूपमित्यर्थः।।[6-14-25,26]
एतत्तुर्यपदं शुद्धमत्र बद्धपदो भव।
संपरित्यज्य पूर्वे द्वे मा तत्रात्ममतिर्भव।।[6-14-27]
एतदिति।। तुरीयं स्थूलसूक्ष्मकारणशरीरापेक्षया चतुर्थम्।।
राम उवाच।।
जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्वप्यलक्षितम्।
तुर्यं ब्रूहि विशेषेण विविच्य मुनिनायक।।[6-14-28]
जाग्रदिति।। जाग्रदादिषु त्रिषु स्थितं अवस्थितमपि जाग्रदादिभिरलक्षितं अवशेषितं असंस्पन्दं तुर्यं ब्रूहीत्यर्थः।।
वसिष्ठ उवाच।।
अहंभावानहंभावौ त्यक्त्वा सदसती तथा।
यदसंसक्तमस्वच्छं स्थितं तत्तर्यमुच्यते।।[6-14-29]
अहमिति।। यच्चैतन्यं अहंभावानहंभावौ अहं नाहमिति चाभिमानं सदसती सत्त्वासत्त्वाभिमानं च त्यक्त्वा असंसक्तं स्वच्छं च स्थितं तत्तादृशचैतन्यं तुर्यमुच्यते।।
या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः।
साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते।।[6-14-30]
येति।। स्वच्छा निष्कलङ्का समतया शान्ततया च जीवन्मुक्तस्य स्थितिरूपायां व्यवहृतौ साक्ष्यवस्था औदासीन्यावस्था सा तुर्यकलना तुर्यावस्थोच्यते।।
नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात्।
सुषुप्तभावो नाप्येतदभावाज्जडतास्थितेः।।[6-14-31]
नैतदिति।। एतत्तुर्यपदं जाग्रन्न स्वप्नश्च न संकल्पानामभावात्। एतत्सुषुप्तभावोऽपि न जडतास्थितेरभावात्।।
शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत्।
विलीनं तुर्यमित्याहुरबुद्धानां स्थिरं स्थितम्।।[6-14-32]
शान्तेति।। शान्ता ये सम्यक् प्रबुद्धाः तेषां यथास्तितमेवेदं जगत् ब्रह्मणि विलीनं तत्तुर्यमित्याहुः। अबुद्धानां तु स्थिरमेव स्थितम्।।
अहंकारकलात्यागे समतायाः समुद्गमे।
विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते।।[6-14-33]
वसिष्ठ उवाच।।
अथेमं शृणु दृष्टान्तं कथ्यमानं मयाधुना।
प्रबुद्धोऽपि यथा बोधमुपैषि विबुधोपम।।[6-14-34]
अहमिति।। विशरारौ विशरणशीले।।[6-14-33,34]
कस्मिंश्चित्काननाभोगे महामौनव्यवस्थितम्।
दृष्ट्वाद्भुतमिदं किंचिन्मुनिं पप्रच्छ लुब्धकः।।[6-14-35]
पश्चादुपगतो बाणभिन्नं मृगमभिद्रुतम्।
मुने मदीयबाणेन विद्धो मृग इहागतः।
क्व प्रयातो मृग इति प्रत्युवाच स तं मुनिः।।[6-14-36]
कस्मिन्निति।। महामौनव्यवस्थितम्। महामौनं नाम द्वैतप्रपञ्चाननुसंधानम्।।[6-14-35,36]
समशीला वयं साधो मुनयो वनवासिनः।
नास्माकमस्त्यहंकारो व्यवहारेषु यः क्षमः।।[6-14-37]
सर्वाणीन्द्रियकर्माणि करोतीह सखे मनः।
अहंकारमयं तन्मे नूनं प्रगलितं चिरम्।।[6-14-38]
समेति।। समशीलाः समं ब्रह्मैव शीलयन्त्यनुसंदधत्त इति समशीलाः। शील समाधाविति धातुः।।[6-14-37,38]
जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन।
तुर्य एवावतिष्ठेऽहं तत्र दृश्यं न विद्यते।।[6-14-39]
वसिष्ठ उवाच।।
इति तस्य वचः श्रुत्वा मुनिमुख्यस्य राघव।
लुब्धकोऽर्थमविज्ञाय जगामाभिमतां दिशम्।।[6-14-40]
जाग्रदिति।। तुर्ये पूर्वोक्तायां तुर्यावस्थायाम्।।[6-14-39,40]
अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा।
निर्विकल्पा हि चित्तुर्यं तदेवास्तीह नेतरम्।।[6-14-41]
अत इति।। तुर्येतरा तुर्यव्यतिरिक्ता दशा वस्तुतो नास्ति कल्पितत्वात्। हि यस्मात्कारणात् निर्विकल्पा चिदेव तुर्यम्।।
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः।
शान्तं घोरं च मूढं च त्र्यात्म चित्तमिह स्थितम्।।[6-14-42]
जाग्रदिति।। हि यस्मात्कारणात् जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं चेतस एव रूपं अवस्था नात्मनोऽतो घोरं शान्तं मूढं चेति जाग्रदादिषु चित्तं त्र्यात्म त्रय आत्मानः स्वभावा यस्य तादृशं स्थितम्।।
घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम्।
मूढं सुषुप्तभावस्थं त्रिभिर्हीनं मृतं भवेत्।।[6-14-43]
एतदेव विवृणोति-जाग्रन्मयं चित्तं घोरं भवेत् सुखदुःखसंरम्भबाहुल्यात्। स्वप्नमयं चित्तं शान्तं तथाविधसंरम्भाभावात्। सुषुप्तभावस्थं मूढं जाड्यभूयिष्ठत्वात्। त्रिभिः शान्तदिरूपैः हीनं तु चित्तं मृतं भवेत् निर्विकारत्वात्।।
यच्च चित्तं मृतं यच्च सत्त्वमेकं स्थितं समम्।
तदेव योगिनः सर्वे यत्नात्संपादयन्ति हि।।[6-14-44]
यच्चेति। यच्च चित्तं तदेव चित्तं सममेकं च सत्त्वं सत्त्वगुणरूपं स्थितम्। अतस्तदेव चित्तं सर्वे योगिनो यत्नात्संपादयन्ति।।
समस्तसंकल्पविलासमुक्ते तुर्ये पदे तिष्ठ निरामयात्मा।
यत्र स्थिताः साधु सदैव मुक्ताः प्रशान्तभेदा मुनयो महान्तः।।[6-14-45]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे मुनिव्याधोपाख्यानं नाम चतुर्दशः सर्गः।। 14 ।।
समस्तेति।। यत्रच यस्मिंस्तुर्ये पदे।।
इति श्रीयोगवासिष्ठविवरणे निर्वामप्रकरणे मुनिव्याधोपाख्यानं नाम चतुर्दशः सर्गः।। 14 ।।