सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १३

विकिस्रोतः तः
← सर्गः १२ लघुयोगवासिष्ठः
सर्गः १३
[[लेखकः :|]]
सर्गः १४ →

इक्ष्वाकूपाख्यानम्।।
त्रयोदशः सर्गः।।
राम उवाच।।
भगवन्सर्वतत्त्वज्ञ चित्तेऽहंकारनामनि।
गलिते वा गलद्रूपे लिङ्गसत्त्वस्य किं भवेत्।।[6-13-1]
पूर्वं समाधिना विनापि महाकर्तृत्वादिनैव धीविश्रान्तिः सिद्ध्यतीत्युक्तम्। इदानीं स्वविचारेम बोद्धमशक्यमपि तत्त्वं गुरूक्तितो बोद्धुं शक्यत एवेति इक्ष्वाकूपाख्यानेनाख्यायते-भगवन्निति।। अहंकारनामनि चित्ते गलिते कलद्रूपे वा सति सत्त्वस्य प्राणिनः किंलिङ्गं चिह्नं भवेत्।।
वसिष्ठ उवाच।।
बलादपि हि संजाता न लिम्पन्त्याशयं सितम्।
लोभमोहादयो दोषाः पयांसीव सरोरुहयम्।।[6-13-2]
बलादिति श्लोकषट्कं वाक्यम्। अहं कारमये चित्ते गलति शिथिलिभवति दुष्कृते च गलति सति बलात् परेषां यत्नविशेषात्संजाता अपि लोभमोहादयो दोषाः पयांसि च सरोरुहमिव सितं विमलमाशयं न लिम्पन्ति न स्पृशन्ति।।
मुदिताद्याः श्रियो वक्त्रं न मुञ्चन्ति कदाचन।
गलत्यहंकारमये चित्रे गलति दुष्कृते।।[6-13-3]
मुदिताद्या मैत्र्यादयः शोभाहेतवः श्रियो वक्त्रं कदाचिदपि न मुञ्चन्ति।।
वासनाग्रन्थमश्छिन्ना इव त्रुट्यन्त्यलं शनैः।
कोपस्तानवमायाति मोहो मान्द्यं हि गच्छति।।[6-13-4]
वासनारूपा ग्रन्थयो विच्छिन्ना इव शनैस्त्रुट्यन्ति भ्रश्यन्ते कोपादयोऽपि क्षीयन्ते।।
कामः क्लमं गच्छति च लोभः क्वापि पलायते।
नोल्लसन्तीन्द्रियाण्युच्चैः खेदः स्फुरति नोच्चकैः।।[6-13-5]
इन्द्रियाणि उच्चैर्नौल्लसन्ति नहि स्फुरन्ति। खेदो दैन्यं च तथा पूर्ववन्न स्पुरति।।
न दुःखान्युपबृंहन्ति न शैत्यप्रदायिनी।।[6-13-6]
दुःखानि नोपबृंहन्ति न वर्धन्ते। सुखानि च न वल्गन्ति पारवश्यहेतवो न भवन्ति। हृदि शैत्यप्रदायिनी सर्वविषया समता उदेति।।
सुखदुःखादयस्त्वेते दृश्यन्ते यदि वा मुखे।
दृश्यन्त एव तुच्छत्वान्नतु लिम्पन्ति ते मनः।।[6-13-7]
सुखदुःखादयो मुखे दृश्यमाना अपि तत्तद्विकारैरभिनीयमाना अपि तुच्छत्वात् कल्पितत्वात् मनो न लिम्पन्ति।।
चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम्।
साधुर्गच्छत्युदेत्यस्य समता शीतचन्द्रिका।।[6-13-8]
चित्त इति श्लोकद्वयं वाक्यम्। किंचिच्चित्ते गलिते सति स साधुर्गीर्वाणानां गणस्यापि स्पृहणीयतां अभिलषणीयतां गच्छति।।
उपशान्तं च कान्तं च सेव्यमप्रतिरोधि च।
निभृतं चोर्जितं स्वच्छं भवतीत्यमलं वपुः।।[6-13-9]
तस्य च वपुरुपशान्तं कान्तं कान्तिमत् अप्रतिरोधि समाधेरप्रतिबन्धकं निभृतं निर्विकारं ऊर्जितं दैन्यरहितं स्वच्छं निर्मलं च सत् इत्थमनेन प्रकारेण सेव्यं भवति।।
भावाभावावरुग्णोऽपि विचित्रोऽपि महानपि।
नानन्दाय न खेदाय सतां संसृतिविभ्रमः।।[6-13-10]
भावाभावेति।। संसृतिविभ्रमः भावाभावावरुग्णोऽपि भावाभावाभ्यामुत्पत्तिविपत्तिभ्यां अवरुग्णोऽपि भङ्गयुक्तोऽपि विचित्रोऽपि महानपि सतां तत्त्वज्ञानिनां नानन्दाय न खेदाय। हर्षविषादहेतुर्न भवतीत्यर्थः।।
बुद्ध्यालोकनसाध्येऽस्मिन्वस्तुनयस्तमितापदि।
प्रवर्तते न यो मोहात्तं धिगस्तु नराधमम्।।[6-13-11]
बुद्ध्येति। बुद्ध्या यदालोकनं विचारः तन्मात्रसाध्ये अस्मिन्मोक्षलक्षणे अस्तमितापदि वस्तुनि यो मोहान्न प्रवर्तते तं धिगस्तु।।
विश्रान्तिमाप्तुमुचितां चिरसङ्गदुःखरत्नाकरं जननसागरमुत्तितीर्षोः।
कोऽहं कथं जगदिदं च परश्च कः स्यात्किं भोगकैरिति मतिः परमोऽभ्युपायः।।[6-13-12]
वसिष्ठ उवाच।।
भवतामादिपुरुष इक्ष्वाकुर्नाम भूपतिः।
इक्ष्वाकुवंशप्रभवो यथा मुक्तस्तथा शृणु।।[6-13-13]
इक्ष्वाकुर्नाम भूपालः स्वराज्यं परिपालयन्।
कदाचिदेकान्तगतो मनसा समचिन्तयत्।।[6-13-14]
जरामरणसंक्षोभसुखदुःखभ्रमस्थितेः।
अस्य दृश्यप्रपञ्चस्य को हेतुः स्यादिति स्वयम्।।[6-13-15]
जगतो न विवेदासौ कारणं चिन्तयन्नपि।
अथैकदापृच्छदसौ ब्रह्मलोकागतं मनुम्।
पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम्।।[6-13-16]
इक्ष्वाकुरुवाच।।
मां योजयति धार्ष्ट्य भगवन्करुणानिधे।
भवत्प्रसाद एवायं भवन्तं प्रष्टुमञ्जसा।।[6-13-17]
विश्रान्तिमिति।। उचितां विश्रान्तिं तत्त्वनिष्ठामाप्तुं चिरसङ्गनिमित्तानां दुःखरत्नानां आकरं जननसागरमुत्तितीर्षोः पुंसः किं भोगकैरिति वैराग्यपूर्वकोऽहं इदं जगच्च कथं केन प्रकारेणोत्पन्नं परः परमात्मा च कः कीदृशः स्यादिति विचारात्मिका मतिः परमो मोक्षोपायः।।[6-13-12,13,14,15,16,17]
कुतः सर्गोऽयमायातः स्वरूपं चास्य कीदृशम्।
कियदेतज्जगत्कस्य कदा केनेति कथ्यताम्।।[6-13-18]
कुत इति।। एतज्जगत् कियत् किंपरिमाणम्। कस्य किं ईश्वरस्य उत जीवानाम्। कदा कस्मिन्काले प्रादुर्भूतम्। केन वा कारणेन जातमिति कथ्यताम्।।
अहं कथं च विषमादस्मात्संसृतिविभ्रमात्।
विमुच्येयं घनास्तीर्णाज्जालादिव विहङ्गमः।।[6-13-19]
मनुरुवाच।।
अहो नु चिरकालेन विवेके सुविकाशिनि।
विततार्थपरिच्छेत्ता सारः प्रश्नस्त्वया कृतः।।[6-13-20]
यदिदं दृश्यते किंचित्तन्नास्ति नृप किंचन।
यथा गन्धर्वनगरं यथा वारि मरुस्थले।।[6-13-21]
अहमिति।। घनास्तीर्णात् घनं निरन्तरं यथा तथा आस्तीर्णात् प्रसारितात्।।[6-13-19,20,21]
मनःषष्ठेन्द्रियातीतं यत्तु नो दृश्यते क्वचित्।
अविनाशं तदस्तीह तत्सदात्मेति कथ्यते।।[6-13-22]
मन इति।। यत्तु वस्तु क्वचिदपि नो दृश्यते इदन्तया न प्रतीयते। मनःषष्ठेन्द्रियातीतं मनः षष्ठं येषामिन्द्रियाणां चक्षुरादीनां तान्यतीतं अविनाशं तदेव वस्त्वस्ति सद्रूपं तद्वस्तु आत्मेति कथ्यते।।
इयं तु सर्वदृश्याद्या राजन्सर्गपरम्परा।
तस्मिन्नेव महादर्शे प्रतिबिम्बमुपागता।।[6-13-23]
इयमिति।। तस्मिन्नेव आत्मन्येव। महादर्शे महति दर्पणे।।
भा स्वभावसमुत्पन्ना ब्रह्म्यः स्फुरणशक्तयः।
काश्चिद्ब्रह्माण्डतां यान्ति काश्चिद्गच्छन्ति भूतताम्।।[6-13-24]
न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मैवास्ति निरामयम्।
नैक्यमस्ति न च द्वित्वं संवित्सारं विजृम्भते।।[6-13-25]
भाः स्वभावसमुत्पन्नाः तेजसः स्वभावादुत्पन्नाः तेजसः स्फुरणस्वभावत्वात् ब्रह्म्यः ब्रह्मसंबन्धिन्यः स्फुरणशक्तयः विक्षेपशक्तयः काश्चिद्ब्रह्माण्डतां यान्ति ब्रह्माण्डतया विवर्तन्ते। काश्चित्स्फुरणशक्तयो भूततां प्राणिरूपतां गच्छन्ति।।[6-13-24,25]
एकं यथा स्फुरति वारि तरङ्गभङ्गैरेवं परिस्फुरति चिन्नच किंचिदेतत्।
त्वं बन्धमोक्षकलने प्रविमुच्य दूरे स्वस्थो भवाभवभयोऽभयसार एव।।[6-13-26]
एकमिति।। एकं वारि अनेकैस्तरङ्गभङ्गैर्यथा स्फुरति एवं चिदेकैव परितः स्फुरति एतद्दृश्यं किंचिदेव नास्ति। अतः कारणात्त्वं बन्धमोक्षकल्पने दूरे प्रविमुच्य अभवभयः संसारभयरहितः अभयसारःअभयं ब्रह्म तत्सार एव भूत्वा स्वस्थो भव।।
संकल्पोन्मुखतां याताः सत्यश्चिन्मात्रसंविदः।
आपस्तरङ्गत्वमिव यान्ति भूमिप जीवताम्।।[6-13-27]
संकल्पोन्मुखतामिति।। तस्याश्चिन्मात्ररूपायाः संविद एव संकल्पोन्मुखतां याताः सत्यः आपस्तरङ्गत्वमिव जीवतां यान्ति।।
ते जीवाः संसरन्तीह संसारे पूर्वमुत्थिते।
सुखदुःखदशामोहो मनस्येवास्ति नात्मनि।।[6-13-28]
त इति।। ते जीवाः पूर्वमुत्थिते संसारे संसरन्ति। सुखदुःखदशामोहश्च मनस्येवास्ति। आत्मनि तु नास्ति।।
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना।
तथानुभवमात्रात्मा दृश्येनात्मावलोक्यते।।[6-13-29]
अदृश्य इति।। अदृश्यः द्रष्टुमशक्योऽपि राहुर्गृहीतेन इन्दुनोपाधिना यथा दृश्यते तथा अनुभवमात्ररूपोऽप्यात्मा दृश्येन देहाद्युपाधिनावलोक्यते।।
न शास्त्रेणापि गुरुणा दृश्यते परमेश्वरः।
दृश्यते स्वात्मनैवात्मा स्वया सत्त्वस्थया धिया।।[6-13-30]
पथिकाः पथि दृश्यन्ते रागद्वेषविमुक्तया।
यथा धिया तथैवैते द्रष्टव्याश्चेन्द्रियारयः।।[6-13-31]
नेति।। स्वात्मनैव स्वपौरुषेणैव स्वया सत्त्वगुणनिष्ठया धिया आत्मा परमेश्वरो दृश्यते।।[6-13-30,31]
एतेषु नादरः कार्यः सता नैवावधीरणम्।
पदार्थमात्रताविष्टास्तिष्ठन्त्वेते यथास्थितम्।।[6-13-32]
पदार्थजातं देहादिधिया संत्यज्य दूरतः।
आशीतलान्तःकरणो नित्यमात्ममयो भव।।[6-13-33]
देहोऽहमिति या बुद्धिः सा संसारनिबन्धिनी।
न कदाचिदियं बुद्धिरादेया हि मुमुक्षुभिः।।[6-13-34]
एतेष्विति।। सता विदुषा एतेषु देहेन्द्रियादिषु आदरो न कार्यः। अवधीरणं अवज्ञापकं नैव कार्यम्। एते देहादयः कदार्थमात्रताविष्टाः पदार्थमात्रतामिति बुद्धिविषयाः सन्तो यथास्थितं तिष्ठन्तु।।[6-13-32,33,34]
न किंचिन्मात्रचिन्मात्ररूपोऽस्मि गगनादणुः।
इति या शाश्वती बुद्धिः सा न संसारबन्धनी।।[6-13-35]
नेति।। न किंचिन्मात्रचिन्मात्ररूपः न किंचिन्मात्रं विश्वविलक्षणं यच्चिन्मात्रं तद्रूपः।।
यथा विमलतोयानां बहिरन्तश्च भानवम्।
तेजस्तिष्ठति सर्वत्र तथात्मा सर्ववस्तुषु।।[6-13-36]
यथेति।। भानवं सूर्यसंबन्धि तेजो विमलतोयानां बहिरन्तश्च सर्वत्र यथा तिष्ठति तथैवात्मा सर्ववस्तुषु बहिरन्तश्च सर्वत्र तिष्ठति।।
सन्निवेशांशवैचित्र्यं यथा हेम्नोऽङ्गदादिना।
आत्मनस्तदतद्रूपा तथैव जगदादिना।।[6-13-37]
सन्निवेशेति।। यथा हेम्नः सन्निवेशांशवैवित्र्यं सन्निवेशः संस्थानं अंशा एकदेशाः तेषां वैचित्र्यं नानारूपतैव अङ्गदादिना केयूरादिभूषणभावेन नच वस्त्वन्तरं तथैव आत्मनो मायासहायस्य संनिवेशांशवैचित्र्यां एवं तदतद्रूपा चेतनाचेतनात्मिका जगदादिना लोकलौकिकप्रपञ्चभावः।।
विनाशवाडाक्रान्तं कल्पकालमहार्णवम्।
जगज्जालतरङ्गिण्यो यान्ति भूततरङ्गिकाः।।[6-13-38]
विनाशेति।। भूततरङ्गिकाः भूतानि प्राणिन एव तरङ्गा यासां ताः जगज्जालान्येव तरङ्गिण्यो नद्यः विनाशवाडवाक्रान्तं विनाशेनैव वाडवाग्निना व्याप्तं कल्पकालमहार्णवं प्रलयकालमेव महार्णवं यान्ति। नद्यः समुद्र इव जगज्जालानि प्रलयकाले लीयन्त इत्यर्थः।।
तस्याप्यद्याप्यपूर्णस्य यः पाता कालवारिधेः।
तमात्मानं महागस्त्यं राजन्भावय सर्वदा।।[6-13-39]
तस्येति।। अद्यापि गतेष्वपि कल्पकोटिष्विदानीमपि अपूर्णस्य तस्यापि सर्वसंहर्तुरपि कालवारिधेः कालस्यैव समुद्रस्य यः पाता संहर्ता तं महागस्त्यमगस्त्यादपि महाप्रभावमात्मानं सर्वदा भावय।।
अनात्मन्यात्मतामस्मिन्देहादौ दृश्यजालके।
त्यक्त्वा सत्त्वमुपारूढो गूढस्तिष्ठ यथासुखम्।।[6-13-40]
अनात्मनीति।। अनात्मनि देहादौ दृश्यजालके आत्मतामात्माभिमानं त्यक्त्वा सत्त्वं ज्ञानमुपारूढो गूढः संवृताकारो यथासुखं तिष्ठ।।
कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम्।
यथा रोदिति पुत्रार्थं तथात्मार्थमयं जनः।।[6-13-41]
कुचेति।। यथाहि काचिज्जननी जनयित्री नारी कुचकोटरसंसुप्तं कुचयोरन्तरे प्रसुप्तं सुतं विस्मृत्य तत्रत्यमबुद्ध्वा पुत्रार्थं पार्श्वयोः शयने चापश्यन्ती हन्त क्व यातः सुत इति तदर्थे रोदिति तथात्यन्तसन्निहितमप्यात्मानं विस्मृत्यायं जनस्तदर्थं आत्मान्वेषणार्थं रोदिति खिद्यते।।
अजरामरमात्मानमबुद्ध्वा परिरोदिति।
हा हतोऽहमनाथोऽहं नष्टोऽस्मीति वपुर्व्यये।।[6-13-42]
अजरेति।। अयं जनः अजरामरमात्मानं अबुद्ध्वा वपुर्व्यये देहनाशे सति हा हतोऽहमनाथोऽहं नष्टोऽस्मीति च परिरोदिति।।
यथा वारि परिस्पन्दान्नानाकारं विलोक्यते।
तथा संकल्पवशतश्चिद्ब्रह्मपरिबृंहितम्।।[6-13-43]
यथेति।। वारि जलं यथा परिस्पन्दवशात्तरङ्गफेनबुद्बुदादिरूपेण नानाकारं विलोक्यते तथा चिद्रूपं ब्रह्म संकल्पवशतः परिबृंहितं परितो वियदादिरूपेण विवृद्धं सत् नानाकारं विलोक्यते।।
संस्थाप्य संकल्पकलङ्कमुक्तं चित्तं त्वमात्मन्युपशान्तशङ्कः।
स्पन्देऽप्यविस्पन्द इवेश्वरात्मा स्वस्थाः सुखी राज्यमिदं प्रशाधि।।[6-13-44]
संस्थाप्येति।। संकल्पकलङ्कमुक्तं चित्तमात्मनि संस्थाप्य उपशान्तसंकल्पः सन्स्पन्देऽपि विक्षेपेऽपि अस्पन्द इव स्पन्दरहित इव स्वस्थो निर्विकार ईश्वरात्मा सुखी राज्यमिदं प्रशाधि पालय।।
मनुरुवाच।।
सर्गात्मभिर्विभुः स्पन्दैः क्रीडते बालवत्स्वयम्।
संहारात्मकशक्त्याथ संहृत्यात्मनि तिष्ठति।।[6-13-45]
सर्गेति।। विभुर्व्यापकः आत्मा सर्गात्मभिः स्पन्दैर्बालवत् क्रीडते। अथ स्वयमेव संहारात्मकशक्त्या संहरणस्वभावया शक्त्या सर्वं संहृत्यात्मन्येव तिष्ठति।।
स्वयमस्य तथा शक्तिरुदेत्याबध्यते यया।
स्वयमस्य तथा शक्तिरुदेत्युन्मुच्यते यया।।[6-13-46]
स्वयमिति।। अस्यात्मनः स्वमेव तथा तादृशी शक्तिरुदेति यया शक्त्या आबध्यते यया च स्वयमुन्मुच्यते तथाभूता शक्तिरप्यस्य स्वयमेवोदेति। ब्धमोक्षहेतू शक्ती उभे अप्यात्मनः स्वभावसिद्धे इत्यर्थः।।
चन्द्रार्कवह्नितप्तायोरत्नादीनां यथार्चिषः।
यथा पत्रादि वृक्षाणां निर्झराणां यथा कणाः।।[6-13-47]
चन्द्रेति।। श्वलोकद्वयं वाक्यम्। चन्द्रार्कवह्नितप्तायोरत्नादीनां चन्द्रश्च अर्कश्च वह्निश्च तप्तायश्च रत्नानि च तान्यादिर्येषां तेषां तेजोद्रव्याणमर्चिषो ज्वाला यथा अभिन्ना अपि भिन्नतया कल्पिताः। यथा च वृक्षाणां पत्राणि। यथा निर्झराणां प्रवाहाणां कणाः शीकराः।।
तथेदं ब्रह्मणि स्फारे जगद्बुद्ध्यादि कल्पितम्।
दुःखप्रदमतज्ज्ञानां तदेतावदवस्थितम्।।[6-13-48]
तथेदं जगद्बुद्ध्यादि जगद्बुद्दिर्भूतबुद्धिर्भौतिकबुद्धिरित्यादिकं सर्वं स्फारे ब्रह्मणि कल्पितं सत् तदेव ब्रह्मात्मकमेव अविद्यावशात्तु अवस्थितं अतज्ज्ञानां दुःखदं प्रवर्तते।।
अहो नु चित्रा मायेयं तात विश्वविमोहिनी।
सर्वाङ्गप्रोतमप्यात्मा यदात्मानं न पश्यति।।[6-13-49]
अहो इति।। इयं चित्रा माया विश्वविमोहिनी अहो यत् यस्मात्कारणात् आत्मा पुरुषः सर्वाङ्गप्रोतमपि सर्वेष्ववयवेषु व्याप्तमपि आत्मानं स्वरूपं न पश्यति नावबुध्यते।।
चिदाकाशमयं सर्वं जगदित्येव भावयन्।
यस्तिष्ठत्युपशान्तोऽन्तः स ब्रह्मकवचः सुखी।।[6-13-50]
चिदाकाशेति।। ब्रह्मकवचः ब्रह्मैव परिपूर्णब्रह्मभावनैव कवचं रक्षकं यस्य स एव सुखी जीवन्मुक्तः।।
अहमर्थविमुक्तेन भावेनाभावरूपिणा।
सर्वं शून्यं निरालम्बं चिद्रूपमिति भावयेत्।।[6-13-51]
अहमिति।। अहमर्थोऽहंकारः तद्विमुक्तेनाभावरूपिणा निरुपाधिकत्वव्यपदेशेन भावेनाशयेन सर्वं जगत्कर्म निरालम्बं निराश्रयं चिद्रूपं शून्यं चिदाकाशमिति भावयेत्।।
इदं रम्यमिदं नेति बीजं तद्दुःखसंततेः।
तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः।।[6-13-52]
इदमिति।। इदं रम्यमिदमरम्यमिति भेदभावनं तद्दुःखसंततेर्बीजं तस्मिन् बीजे साम्याग्निना दग्धे दुःखस्य कुतोऽवसरः।।
राजन्नभावनास्त्रेण रम्यारम्यविभागिना।
पौरुषातिशयेनाशु स्वेनैवान्तर्विलूयताम्।।[6-13-53]
राजन्निति।। रम्यारम्यविभागिना अभावनारूपेणास्त्रेण स्वेन पौरुषातिशयेन च अन्तरेव विलूयतां छिद्यताम्।।
अभावनेन भावनं विलूय कर्मकाननम्।
परं समेत्य तानवं विशोक एव तिष्ठ भो।।[6-13-54]
अभावनेनेति।। भावनं भेदभावनं तन्निबन्धनं कर्मकाननं च अभावनेन शस्त्रेण विधूय परं तानवं वासनातानवं समेत्य विशोक एव तिष्ठ। भो इति संबोधनम्।।
भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो गलितकलनाभासोल्लासो विवेकविलासवान्।
अधिगतपरानन्दस्पन्दश्चिराय निरामयः शमसमसितस्वच्छाभोगो भवाभयचिद्वपुः।।[6-13-55]
भरितेति।। भरितभुवनाभोगः परिपूर्णात्मभावनया पूरितभुवनविस्तारो भूत्वा विभागबहिष्कृतो बेदबुद्धिरहितो गलितकलनाभासोल्लासो निर्वासनज्ञानविलासः विवेकविलासवान् अधिगतपरानन्दस्पन्दो निरामयः शमेन समः सित उज्ज्वलः स्वच्छो निर्मलश्चाभोगः परिपूर्णता यस्य तादृशश्च सन् चिराय अभयचिद्वपुः अभयं चिद्रूपं वपुर्यस्य तादृशो भव।।
मनुरुवाच।।
शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत्।
प्रथमा भूमिकैषोक्ता योगस्य नवयोगिनः।।[6-13-56]
अथ ज्ञानभूमिकाः सप्त संक्षेपेण दर्शयन्नाह-शास्त्रेति।। शास्त्रसत्सङ्गादिभिः प्रज्ञाविवर्धनं योगस्य प्रथमा भूमिकेत्यर्थः। पूर्वं तु शुभेच्छेत्युक्ता।।
विचारणा द्वितीया स्यात्तृतीयाऽसङ्गभावना।
विलापिनी चतुर्थी स्याद्वासनाविलयात्मिका।।[6-13-57]
विचारणेति।। विचारणा द्वितीया। असङ्गभावना तृतीया। इयमेव मनसः तनुत्वसंपादकत्वात् तनुमानसेति पूर्वमुक्ता। चतुर्थी तु वासनाविलयात्मकत्वात् विलापिनीत्युच्यते। पूर्वं तु वासनाविलयाच्चित्तस्य सत्त्वापत्त्या सत्त्वापत्तिरित्युक्ता।।
शुद्धसंविन्मयानन्दरूपा भवति पञ्चमी।
अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति।।[6-13-58]
शुद्धेति।। शुद्धो निर्वासनः संविन्मयश्च आनन्दः तद्रूपा पञ्चमी। अत्र अस्यां भूमिकायां अर्धसुप्तप्रबुद्धाभः अर्धसुप्तोऽर्धप्रबुद्धश्च यः तादृशव्यवहारो जीवन्मुक्तस्तिष्ठति।।
असंवेदनरूपा च षष्ठी भवति भूमिका।
आनन्दैकघनाकारा सुषुप्तसदृशस्थितिः।।[6-13-59]
असंवेदनेति अर्धत्रयं वाक्यम्। षष्ठी त्वसंवेदनरूपा आनन्दैकघनाकारा सुषुप्तसदृशस्थितिः।।
तुर्यावस्थोपशान्ता च मुक्तिरेव हि केवलम्।
समता स्वच्छता सौम्या सप्तमी भूमिका भवेत्।।[6-13-60]
उपशान्ता च सा भूमिका जाग्रदादित्रयातीतत्वात्तुर्यावस्था केवलं मुक्तिरेव।।
तुर्यातीता तु यावस्था परा निर्वाणरूपिणी।
सप्तमी सा परिप्रौढा विषयः सा न जीवताम्।।[6-13-61]
इत्यमेवासंवेदनरूपैव पदार्थाभाविनीति पूर्वमुक्ता। समतेति अर्धत्रयं वाक्यम्। या समता सर्वत्र परिपूर्णता या वा सौम्या स्वच्छता सा सप्तमी भूमिका निर्वामरूपिणी तुर्यातीता परा अवस्था परिप्रौढा सा सप्तमी जीवतां न विषया। विदेहमुक्तैकविषयेत्यर्थः। इयं तु स्वरूपनिष्ठतारूपा स्वच्छता तुर्यगेति पूर्वमुक्ता।।
पूर्वावस्थात्रयं त्वत्र जाग्रदित्येव संस्थितम्।
चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत्।।[6-13-62]
पूर्वेति श्लोकत्रयं वाक्यम्। उक्तासु सप्तसु पूर्ववस्थात्रयं जाग्रदिति संस्थितम्। चतुर्थी तु स्वप्न इत्युक्ता। यस्मात्तत्र जगत्स्वप्नाभं वर्तते।।
आनन्दैकघनीभावा सुषुप्ताख्या तु पञ्चमी।
असंवेदनरूपा तु षष्ठी भवति भूमिका।।[6-13-63]
पञ्चमी त्वानन्दैकघनीभावा सुषुप्ताख्या असंवेदनरूपा षष्ठी तुर्यपदाभिधा।।
अन्तःप्रत्याहृतिवशाच्चेत्यं चेन्न विभावितम्।
मनोवचोभिरग्राह्या स्वप्रकाशपदात्मिका।।[6-13-64]
मनोवचोभिरग्राह्य स्वप्रकाशपदात्मिका उत्तमा सप्तमी भूमिका तुर्यातीतपदावस्था।।
अन्तःप्रत्याहृतिवशाच्चेत्यं चेन्न विभावितम्।
मुक्त एवास्यसंदेहो महासमतया तया।।[6-13-65]
अन्तरिति।। चित्तस्यान्तःप्रत्याहृतिवशात् अन्तर्निरोधाद्धेतोश्चेत्यं न विभावितं चेत्तर्हि तया महासमतया हेतुना असंदेहः मुक्त एवासि।।
यद्भोगसुखदुःखांशैरपरामृष्टपूर्णधीः।
आत्मारामो नरस्तिष्ठेत्तन्मुक्तत्वमुदाहृतम्।।[6-13-66]
यदिति।। भोगसुखदुःखांशैः भोगेषु विषयेषु ये सुखदुःखांशाः तैरपरामृष्टपूर्णधीः सन्नरः आत्मारामस्तिष्ठेदिति यत् तन्मुक्तत्वमुदाहृतम्।।
व्यवहार्युपशान्तो वा भवत्येवंमतिः पुमान्।।[6-13-67]
व्यवहारीति।। एवंमतिः पूर्वोक्तप्रकारमतियुक्तो यः पुमान्स व्यवहारी भवतु उपशान्तो वा भवतु गृहार्थो वा भवतु यतिर्वा भवतु सशरीरोऽशरीरो वा भवतु सर्वथापि मुक्त एवेत्यर्थः।।
न म्रिये न जीवामि नाहं सन्नाप्यसन्नहम्।
अहं न किंचिच्चिदिति मत्वा जीवन्न शोचति।।[6-13-68]
नेति।। अहं न म्रिये न च जीवामि।। प्राणानां त्यागो धारणं च देहादिधर्म एव न पुनरात्मधर्म इत्यर्थः। अयमहं सन्न असन्नपि न अस्तिनास्तिव्यवहारयोरविषयत्वात्। अहं न किंचिच्चित् विश्वविलक्षणा चिद्रूप इति मत्वा जीवन्नपि न शोचति।।
अलेकोऽहमजरो नीरागः शान्तवासनः।
निरंशोऽस्मि चिदाकाश इति मत्वा न शोचति।।[6-13-69]
अहंमत्या विरहितः शुद्धो बुद्धोऽजरामरः।
शान्तः समसमाभास इति मत्वा न शोचति।।[6-13-70]
तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च।
यत्तदस्ति तदेवेति मत्वा भूयो न शोचति।।[6-13-71]
अलेपक इति।। अलेपको जीवो नीरागः शान्तवासनो निरंशश्चाहं चिदाकाशमस्मीति मत्वा न शोचति।।[6-13-69,70,71]
तिर्यगूर्ध्वमधस्तान्मे व्यापको महिमा चितः।
तस्यानन्तविलासस्य ज्ञात्वेति क इव क्षयी।।[6-13-72]
तिर्यगिति।। चिद्रूपस्यानन्तविलासस्य मे महिमा तिर्यगूर्ध्वमधस्ताच्च व्यापको वर्तत इति ज्ञात्वा क इव क्षीयते।।
बद्धवासनमर्थो यः सेव्यते सुखयत्यसौ।
यत्सुखाय तदेवाशु वस्तु दुःखाय नाशतः।।[6-13-73]
बद्धेति।। योऽर्थो बद्धवासनं प्रगाढसङ्गं सेव्यते भुज्यते असावर्थः सुखयति सुखं करोति। यच्च वस्तु सुखाय जायते तदेवाशु नाशतो विनाशाद्धेतोः दुःखाय स्यात्।।
अविनाभावनिष्ठत्वं प्रसिद्धं सुखदुःखयोः।
तनुवासनमर्थो यः सेव्यते वा विवासनम्।
नासौ सुखाय तेनासौ नाशकाले न दुःखदः।।[6-13-74]
अविनेति।। इत्थं सुखदुःखयोरविनाभावनिष्ठत्वं प्रसिद्धं अतस्ते सहैव प्रवर्तेते निवर्तेते च। यस्त्वर्थस्तनुवासनं विगतवासनं वा सेव्यते असावर्थः सुखाय मदहेतवे न भवति। कालेन नाशात् दुःखदोऽपि न भवति।।
क्षीणवासनया बुद्ध्या कर्म यत्क्रियतेऽनघ।
तद्दग्धबीजवद्भूयो नाङ्कुरं प्रविमुञ्चति।।[6-13-75]
क्षीणेति।। यत्कर्म क्षीणवासनया बुद्ध्या क्रियते तत्कर्म दग्धबीजवत् भूयः सुखदुःखादिरूपमङ्कुरं न प्रविमुञ्चति।।
देहेन्द्रियादिना कर्म करणौघेन कल्पते।
एकः कर्तात्र भोक्ता वा क इवाङ्गोपपद्यते।।[6-13-76]
देहेति।। देहेन्द्रियादिना करणौघेन करणकलापेन कर्म कल्पते। अत्र करणसमूहे कः कर्ता भोक्ता वा उपपद्यते।।
भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः।
शशाङ्कशीतलः पूर्णो भाति भासेव भास्करः।।[6-13-77]
भावनामिति।। सर्वभावेभ्यः सर्वपदार्थेभ्यः सकाशात्तद्विषयां भावनां समुत्सृज्य प्रत्याहृत्य समुत्थितः सम्यक्कैवल्यायोद्यतः पुमान् शशङ्कवच्छीतलः पूर्णश्च भासा तेजसा भास्कर इव भाति।।
क्रियमाणा कृता कर्मतूलश्रीर्देहशाल्मलेः।
ज्ञानानिलसमुद्भूता प्रोड्डीय क्वापि गच्छति।।[6-13-78]
क्रियमाणेति।। देहशाल्मलेर्देह एव शाल्मलिर्वृक्षविशेषः तस्य संबन्धिनी क्रियमाणा कृता वा कर्मतूलश्रीः पुण्यापुण्यकर्मरूपा तूलसमृद्धिर्ज्ञानानिलसमुद्भूता तत्त्वज्ञानमहावायुना विक्षिप्ता सती प्रोड्डीय क्वापि गच्छति।।
सर्वैव हि कला जन्तोरनभ्यासेन नश्यति।
एषा ज्ञानकला त्वन्तः सकृज्जाता दिने दिने।।[6-13-79]
जन्तोः संबन्धिनी सर्वैव कला विद्या अनभ्यासेन पुनःपुनः परिशीलनाभावेन नश्यति। हिशब्दः प्रसिद्धौ। प्रसिद्धोऽयमर्थः।।
वृद्धिमेति बलादेव सुक्षेत्रव्युप्तबीजवत्।।[6-13-80]
ज्ञानं तु सुक्षेत्रव्युप्तशालिवत् अन्तर्वर्धत एव।।
एकः स्फुरत्यखिलवस्तुषु विश्वरूप आत्मा सरःसु जलधिष्विव तोयमच्छम्।
संशान्तसंकलनभूरिकलापमेकं सत्तांशमात्रमखिलं जगदङ्ग विद्धि।।[6-13-81]
एक इति।। सरःसु जलधिषु च तोयमिवाखिलवस्तुषु विश्वरूप एक एवात्मा स्फुरति अतः कारणादखिलं जगत्संशान्तसंकलनभूरिकलापं प्रशान्तसंकल्पभूयिष्ठकलापं सत्तांशमात्रमेकं वस्तु विद्धि।।
मनुरुवाच।।
यावद्विषयभोगशा जीवाख्या तावदात्मनः।
अविवेकेन संपन्ना या साप्याशा न तु स्वतः।।[6-13-82]
यावदिति श्लोकद्वयं वाक्यम्। आत्मनः पुरुषस्य यावत् यावन्तं कालं विषयभोगाशा वर्तते तावदेव जीवाख्या जीवभावः। सा आशाप्यविवेकेन संपन्ना न तु स्वतः।।
विवेकवशतो याता क्षयमाशा यदा तदा।
आत्मा जीवत्वमुत्सृज्य ब्रह्मतामेत्यनामयः।।[6-13-83]
यदा तु सा आशा विवेकवशतः क्षयं याता तदा अनामयः सन्नात्मा जीवत्वमुत्सृज्य ब्रह्मतामेति।।
ऊर्ध्वादधस्त्वधस्ताच्च पुनरूर्ध्वं व्रजंश्चिरम्।
मा संसारारघट्टस्य चिन्तारज्ज्वां घटीभव।।[6-13-84]
ऊर्ध्वादिति।। ऊर्ध्वादूर्ध्वलोकादधः अधोलोकं व्रजन्नधस्ताच्च पुनरूर्ध्वं व्रजन्कर्मवशतया संसारारघट्टस्य संसाररूपस्य घटीयन्त्रस्य चिन्तारज्ज्वां संकल्पनात्मकबन्धनरज्जौ मा घटीभव। अरघट्टघटवद्भ्रमणभाजनं माभूः।।
इदं ममाहमस्येति व्यवाहारं घनभ्रमम्।
ये मोहात्परिसेवन्ते तेऽधस्ताद्यान्त्यधः शठाः।।[6-13-85]
इदमिति।। इदं पुत्रकलत्रादिकं मम मदीयमहं वास्य पित्रादेः संबन्धीति व्यवहारं घनभ्रमं मोहाद्ये सेवन्ते ते शठाः अधस्तादधो यान्ति पुनःपुनरधोगतिमेव प्राप्नुवन्ति।।
अस्याहमेष मे सोऽयमहमेवं त यैः किल।
मोहो बुद्ध्या परित्यक्त ऊर्ध्वादूर्ध्वं प्रयान्ति ते।।[6-13-86]
अस्येति।। अहमस्य पित्रादेः संबन्धी एष पुत्रादिर्मे मदीयः अयमहमेतादृशोऽहमिति। एवं तु मोहो यैर्विवेकिभिः बुद्ध्या परित्यक्तः ते ऊर्ध्वादूर्धं प्रयान्ति उत्तरोत्तरमुत्कृष्टामेव गतिं प्रयान्ति।।
स्वप्रकाशं स्वमात्मानमवलम्ब्याविलम्बितम्।
आस्व संपूरिताकाशं जगन्ति नृप पश्य हे।।[6-13-87]
स्वप्रकाशमिति।। स्वप्रकाशं स्वमात्मानमविलम्बितमेवावलम्ब्य तत्त्वतो निश्चित्य आस्व सुखेन तिष्ठ। जगन्ति च सर्वाणि संपूरिताकाशमात्मानमेव पश्य।।
यदैवैवं चितो रूपं ततं बुद्धमखण्डितम्।
तदैव तीर्णसंसारः परमेश्वरतां गतः।।[6-13-88]
यदेति।। एवं ततं व्याप्तं चितो रूपं यदैवाखण्डितं यथा तथा बुद्धं तदैव तीर्मसंसारः सन् बोधात्परमेश्वरतां गतः।।
ब्रह्मेन्द्रविष्णुवरुणा यद्यत्कर्तुं समुद्यताः।
तदहं चिद्वपुः सर्वं करोमीत्येव भावयेत्।।[6-13-89]
ब्रह्मेति।। ब्रह्मादयो यद्यत् सृष्ट्यादिकं कर्तुं समुद्यातास्तत्सर्वं चिद्वपुरहं करोमीत्येव भावयेत् चिद्रूपस्यात्मन एकत्वात्।।
येषु येषु यदा यद्यद्दर्शनेषु निगद्यते।
सर्वमेवाङ्ग तत्सत्यं चिद्विलासो ह्यनङ्कुशः।।[6-13-90]
येष्विति।। येषु येषु दर्शनेषु वैदिकेष्ववैदिकेषु वा यदा यस्मिन्काले यद्यन्मतं निगद्यते तत्सर्वं सत्यमेव। हि यास्मात्कारणाच्चिद्विकलासः अनुङ्कुशो निरर्गलः।।
चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योरचेतसः।
यो भवेत्परमानन्दः केनासावुपमीयते।।[6-13-91]
चिदिति।। चिन्मात्रत्वं प्रयातस्य अतएव तीर्णमृत्योः उत्तीर्णसंसारस्य अचेतसः नष्टचित्तस्य यः परमानन्दो भवेत् असावानन्दः केन वा आनन्देनोपमीयते। ब्रह्मानन्दतुल्यस्यानन्दस्याभावात्।।
नात्मरूपं नान्यरूपं भुवनं भावयन्भव।
एतत्स्वरूपमासाद्य प्रकृतिः परिशाम्यति।।[6-13-92]
नापीति अर्धत्रयं वाक्यम्।। भुवनं जगत् कर्तृ नापि शून्यं अशून्यमपि न आत्मनोऽन्यस्य वस्तुनोऽभावात्। इत्थमनिर्वचनीयं भुवनं भावयन् भव। एतत् एतादृशमनिर्वचनीयं रूपमासाद्य प्रकृतिरविद्या भुवनादिरूपा परिशाम्यति।।
न देशो मोक्षनामास्ति न कालो नेतरा स्थितिः।
अहंकृतेर्विमोहस्य क्षयेणेयं विलीयते।
प्रकृतिर्भावनानाम्नी मोक्षः स्यादेष एव सः।।[6-13-93]
नेति अर्धत्रयं वाक्यम्।। मोक्षनामा मोक्षशब्दवाच्यो देशः कश्चिन्नास्ति। कालश्च मोक्षनामा नास्ति। इतरा स्थितिरवस्था वा मोक्षनाम्नी नास्ति। किंतु इयं भावनानाम्नी वासनारूपा प्रकृतिरविद्या अहंकृतिरूपस्य विमोहस्य क्षयेण विलीयते एष एव प्रकृतिविलय एव स मोक्षः स्यात्।।
प्रशान्तशास्त्रार्थविचारचापलो निवृत्तनानारसकाव्यकौतुकः।
निरस्तनिःशेषविकल्पविप्लवः समः सुखं तिष्ठति शाश्वतात्मकः।।[6-13-94]
प्रशान्तेति।। प्रशान्तं शास्त्रार्थविचाररूपं चापलं यस्य। निवृत्तं नानारसं काव्यविषयं कौतुकं यस्य। निरस्ता निःशेषा विकल्पविभ्रमा भ्रान्तयो यस्य तादृशः समः साम्यनिष्ठः पुमान् शाश्वतात्मकः सुखं तिष्ठति।।
मनुरुवाच।।
येन केनचिदाच्छन्नो येन केनचिदाशितः।
यत्र क्वचनशायी च स सम्राडिव राजते।।[6-13-95]
येनेति।। येन केनचिदनियतेन वस्त्रवल्कलकम्बलकन्थादिना आच्छन्नः आच्छादनवान्। येनकेनचिदनियतेन भोज्यवस्तुना आशितो भोजनवान्। येनकेनचिदनियतेन भोज्यवस्तुना आशितो भोजनवान्। यत्र क्वचन स्थण्डिले पर्यङ्के वा शायी यः स बाह्यवस्तुनिःस्पृहो ब्रह्मवित्सम्राडिव साम्राज्याधीश्वर इव राजते।।
वर्णधर्माश्रमाचारशास्त्रयन्त्रणयोज्झितः।
निर्गच्छति जगज्जालात्पञ्जरादिव केसरी।।[6-13-96]
वर्णेति।। वर्णधर्माश्रमाचारशास्त्रयन्त्रणया वर्णा ब्राह्मणादयः। आश्रमाः ब्रह्मचर्यादयः। वर्णधर्माणामाश्रमाचाराणां च यानि शास्त्राणि बोधकानि तेषां या यन्त्रणा नियमरूपा मर्यादा तया उज्झितो देहाद्यभिमानरहितः पुमान् पञ्जरात्केसरी सिंह इव जगज्जालान्निर्गच्छति।।
वाचामतीतविषयो विषयाशादृशोज्झितः।
कामप्युपगतः शोभां शरदीव नभःस्थलम्।।[6-13-97]
वाचामिति श्लोकद्वयं वाक्यम्।। विषयाशादृशोज्झितः अत्यन्तविरक्तः पुमान्वाचामतीतविषयः अतीतवाग्विषयः शरदि नभःस्थलमिव कामपि निरुपाधिकां शोभामुपगतः।।
गम्भीरश्च प्रसन्नश्च गिराविव महाह्नदः।
परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि।।[6-13-98]
गिरौ स्थितो महाह्रद इव गम्भीरश्च प्रसन्नश्च परानन्दरसाक्षुब्धः परमानन्दास्वादनिश्चलः स्वात्मनि स्वात्मना स्वस्वरूपेण रमते।।
सर्वकर्मफलत्यागी नित्यतृप्तो निराश्रयः।
न पुण्येन न पापेन नेतरेण च लिप्यते।।[6-13-99]
सर्वेति।। नेतरेम विलिप्यते पुण्यपापाभ्यामितरेण जात्यायुर्भोगरूपेण तद्विपाकेनापि न लिप्यते।।
स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम्।
तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रज्जनम्।।[6-13-100]
स्फटिक इति।। स्फटिको मणिः प्रतिबिम्बेन नीलपीतादिना द्रव्येण यथा रञ्जनं तद्वर्णसंक्रान्तिं नायाति तथा तज्ज्ञो ब्रह्मविदपि कर्मफलेन अन्तःकरणेन रञ्जनं नायाति।।
विहरञ्जनतावृन्दे देहकर्तनपूजनैः।
खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव।।[6-13-101]
विहरन्निति।। जनतावृन्दे जनताः नानाजातीया जनसमूहाः तासां वृन्दे व्यूहे विहरन् भेदाभिमानरहितस्तज्ज्ञो देहस्य कर्तनैश्छेदनैः पूजनैः गन्धपुष्पादिभिरर्चनैः प्रतिबिम्बगतैः स्वदेहप्रतिबिम्बगतैश्छेदनपूजनैरिव खेदाह्लादौ न जानाति।।
निःस्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः।
संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः।।[6-13-102]
निःस्तोत्र इति।। तज्ज्ञः पुमान्निःस्तोत्रः स्वविषयात्परविषयाच्च स्तोत्रान्निष्क्रान्तो निर्विकारश्च पूज्यपूजाविवर्जितः स्वव्यतिरिक्तस्य पूज्यस्याभावात्। सर्वाचारनयक्रमैः कदाचित्संयुक्तः कदाचिद्वियुक्तश्च वर्तते।।
तस्मान्नोद्विजते लोको लोकान्नोद्विजते च सः।
रागद्वेषभयानन्दैस्त्यज्यतेऽपि च युज्यते।।[6-13-103]
तस्मादिति।। तस्मात्तज्ज्ञाल्लोको नोद्विजते सर्वभूताभयप्रदानात्। स च लोकान्नोद्विजते भयहेतोः स्वव्यतिरिक्तस्य वस्तुनोऽभावात्। रागादिभिस्त्यज्यते कदाचिद्युज्यते च।।
प्रमेये कस्यचिदपि नारोहति महाशयः।
प्रमेयीक्रियते चापि बालेनाप्यदुराशयः।।[6-13-104]
तनुं त्यजति वा तीर्थे श्वपचस्य गृहेऽथवा।
मा कदाचन वा राजन्वर्तमाने च वा क्षणे।।[6-13-105]
ज्ञानसंपत्तिसमये मुक्तोऽसौ विगताशयः।
अहंभ्रान्तिर्हि बन्धाय मोक्षो ज्ञानेन तत्क्षयः।।[6-13-106]
संपन्नो यस्य सोऽयं तु पूजार्हो मनुजैः सदा।
स पूजनीयः स स्तुत्यो नमस्कार्यः स यत्नतः।।[6-13-107]
स निरीक्ष्योऽभिवाद्यश्च विभूतिविभवैषिणा।।[6-13-108]
प्रमेय इति।। तज्ज्ञो महाशयत्वात् कस्यचिदपि प्रभोः प्रमेये प्रमाविषये नारोहति। महतामपि कदाचिद्दुर्लभो भवतीत्यर्थः। असौ तज्ज्ञोऽदुराशयत्वात् बालेनापि कदाचित् प्रमेयीक्रियते। बालस्यापि कदाचित् सुलभो भवतीत्यर्थः।।[6-13-104,105,106,107,108]
न यज्ञतीर्थैर्न तपःप्रदानैरासाद्यते तत्परमं पवित्रम्।
आसाद्यते क्षीणभवामयानां भक्त्या सतामात्मविदां पदं यत्।।[6-13-109]
नेति।। क्षीणभवामयानामात्मविदां सतां भक्त्या सेवया परमं पदमासाद्यते। तत्पवित्रं परमं पदं यज्ञतीर्थतपोदानैरपि नासाद्यते।।
वसिष्ठ उवाच।।
एवमुक्त्वा स भगवान्मनुर्ब्राह्मं गृहं ययौ।
इक्ष्वाकुरपि तां दृष्टिमवष्टभ्य स्थिरोऽभवत्।।[6-13-110]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकारणे इक्ष्वाकूपाख्यानं नाम त्रयोदशः सर्गः।। 13 ।।
एवमुक्त्वा स भगवानिति।। ब्रह्मगृहं ब्रह्मलोकम्।।[6-13-110]
इति श्रीयोगवासिष्ठविवरणे निर्वाणप्रकरणे इक्ष्वाकूपाख्यानं नाम त्रयोदशः सर्गः।। 13 ।।