लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १२

विकिस्रोतः तः
← सर्गः ११ लघुयोगवासिष्ठः
सर्गः १२
[[लेखकः :|]]
सर्गः १३ →

भृङ्गीशोपाख्यानम्।।
द्वादशः सर्गः।।
वसिष्ठ उवाच।।
तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम्।
नान्यस्मादागतं राम जगद्रज्जुभुजङ्गवत्।।[6-12-1]
पूर्वमहंकृतिरेव मिथ्या शोकहतुरित्युक्तम्। इदानीं कथं तर्हि धीविश्रान्तिरित्याकाङ्क्षायां समाधिना विनापि महता कर्तृत्वादिना धियो विश्रान्तिः सिध्यतीति भृङ्गीशोपाख्यानेन निरूप्यते-तस्येति।। इदं जगत्तस्य सर्वप्रपञ्चाधिष्ठानस्य आत्मतत्त्वस्य विस्मृत्यैव अननुसंधानेनैव स्थितिं प्रामामिकबुद्धिं गतं अन्यस्मात्तु कारणान्नागतं रज्जुभुजङ्गवत्। यथाहि रज्ज्वारोपितो भुजङ्गो रज्जुस्वरूपाज्ञानादेव सिद्धो नान्यस्मात्कारणात्तद्वत्।।
आदित्यव्यतिरेकेण यो भावयति राघव।
रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः।।[6-12-2]
आदित्येति।। यः पुमानिदं रश्मिजालं आदित्यव्यतिरेकेण भावयति आदित्याद्भेदेन भावयति तस्य एतद्रश्मिजालं भास्वतोऽन्यदिव भवति।।
कनकव्यतिरेकेण केयूरं येन भावितम्।
केयूरमेव तत्तस्य न तस्य कनकं हि तत्।।[6-12-3]
कनकेति।। पूर्वोक्त एवार्थः।।
आदित्याव्यतिरेकेण रश्मयो येन भाविताः।
आदित्या एव ते तस्य निर्विकल्पः स उच्यते।।[6-12-4]
इदानीमभेदभावनामाह-आदित्येति।। येन पुंसा रश्मय आदित्याव्यतिरेकेण भाविताः तस्य ते रश्मयोऽप्यादित्या एव स पुमानभेददर्शी निर्विकल्प उच्यते।।
कनकाव्यतिरेकेण केयूरं येन भाव्यते।
कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते।।[6-12-5]
कनकेति।। कनकैकमहाबुद्धिः केयूरादिषु कनकमित्येकैव महती बुद्धिर्यस्य स पुमान् निर्विकल्प उच्यते।।
नानातामखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे।
संवेद्येन विनिर्मुक्ते संवित्तत्त्वे स्थिरो भव।।[6-12-6]
नानातामिति।। अखिलां नानातां त्यक्त्वा शुद्धचिन्मात्रकोटरे शुद्धस्य चिन्मात्रस्य कोटरे गर्भे स्थितं यत् संवेद्येन विनिर्मुक्तं संवित्तत्त्वं तत्रैव स्थिरः समाहितो भव।।
स्वयमात्मात्मनैवाशु शुक्तिं संकल्पनामिकाम्।
यदा करोति स्फुरितां स्पन्दशक्तिमिवानिलः।।[6-12-7]
तदा पृथगिवाभासं संकल्पकलनामयम्।
मनो भवति विश्वात्मा भावयन्स्वाकृतिं स्वयम्।।[6-12-8]
स्वयमिति श्लोकद्वयं वाक्यम्।। आत्मा स्वयमेव यदा संकल्पनामिकां शक्तिं अनिलः स्पन्दशक्तिमिव आत्मनैव न कारणान्तरेण स्फुरितां कार्योन्मुखीं करोति तदा पृथगिवाभासं आत्मनोऽन्यदिवाभासमानं संकल्पकलनामयं विश्वात्मा सर्वप्रपञ्चकारणं स्वाकृतिं स्वाकारमेव स्वयं भावयन्मनो भवति।।[6-12-7,8]
संकल्पमात्रमेवेदं जगदाभोगि दृश्यताम्।
न सत्यं नच मिथ्यैव स्वप्नजालमिवोत्थितम्।।[6-12-9]
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्वदन्व्यवहरन्स्वपन्।
नापूर्वं विद्यते सर्वं सत्यमित्येव भावयन्।।[6-12-10]
यद्यत्करोति तद्विद्धि चिन्मात्रममलं ततम्।
ब्रह्म प्रबृंहिताकारं तस्मादन्यन्न विद्यते।।[6-12-11]
संकल्पेति।। अतः कारणादिदं आभोगि विस्तीर्णं जगत्संकल्पमयमेव दृश्यातां न सत्यम्। तत्त्वज्ञानेन बाध्यत्वात्। न च मिथ्यैव व्यवहार्यत्वात्। किं तर्हि स्वप्नजालमिवानिर्वचनीयत्वेनोत्थितम्।।[6-12-9,10,11]
पदार्थजाते सर्वस्मिन्संवित्सारतया स्थिते।
संविदेवेदमखिलं जगन्नान्यास्ति कल्पना।।[6-12-12]
पदार्थेति।। पदार्थजते वस्तुसमूहे सर्वस्मिन्नपि संवित्सारतया संविन्मात्रतया संविन्मात्रे प्रमाणतया स्थिते सति संविदेव हि भवति विषयसत्त्वोपशमे शरणमिति न्यायात्।।
संभवादखिलाकारेणैकस्या एव संविदः।
संवेद्यमपि नास्त्येव बन्धमोक्षावतः कथम्।।[6-12-13]
मोक्षोऽयमेष खलु बन्ध इति प्रसह्य चिन्तां निरस्य सकलां विकलाभिमानः।
मौनि वशी विगतमानमदो महात्मा कुर्वन्स्वकार्यमनहंकृतिरेव तिष्ठ।।[6-12-14]
महाकर्ता महाभोक्ता महात्यागी भवानघ।
सर्वाः शङ्काः परित्यज्य धैर्यमालम्बय शाश्वतम्।।[6-12-15]
राम उवाच।।
किमुच्यते महाकर्ता महात्यागी किमुच्यते।
किमुच्यते महाभोक्ता सम्यक्कथय मे प्रभो।।[6-12-16]
वसिष्ठ उवाच।।
एतद्व्रतत्रयं राम पुरा चन्द्रार्धमौलिना।
भृङ्गीशाय तु संप्रोक्तं येनासौ विज्वरः स्थितः।।[6-12-17]
सुमेरोरुत्तरे शृङ्गे पूर्वं शशिकलाधरः।
अतिष्ठदग्निसंकाशे समग्रपरिवारवान्।।[6-12-18]
तमपृच्छन्महातेजास्तत्त्वं जिज्ञासुरादरात्।
भृङ्गीशः प्रणतो राम बद्धाञ्जलिरुमापतिम्।।[6-12-19]
भृङ्गीश उवाच।।
संसाररचनां नाथ तरङ्गतरलामिमाम्।
अवलोक्य विमुह्यामि तत्त्वविश्रान्तिवर्जितः।।[6-12-20]
कमन्तर्निश्चयं कान्तमुररीकृत्य सुस्थिरम्।
अस्मिञ्जगज्जीर्णगृहे तिष्ठामि विगतज्वरः।।[6-12-21]
ईश्वर उवाच।।
सर्वाः शङ्का परित्यज्य धैर्यमालम्ब्य शाश्वतम्।
महाकर्ता महाभोक्ता महात्यागी भवानघ।।[6-12-22]
भृङ्गीश उवाच।।
किमुच्यते महाकर्ता महाभोक्ता किमुच्यते।
किमुच्यते महात्यागी सम्यक्कथय मे प्रभो।।[6-12-23]
ईश्वर उवाच।।
रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले।
यः करोत्यनपेक्षैव महाकर्ता स उच्यते।।[6-12-24]
मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः।
यः करोति गतोद्वेगं महाकर्ता स उच्यते।।[6-12-25]
सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः।
निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते।।[6-12-26]
उद्वेगानन्दरहितः समया स्वच्छया धिया।
न शोचति न चोदेति महाकर्ता स उच्यते।।[6-12-27]
जन्मस्थितिविनाशेषु सोदयास्तमयेष्वलम्।
सममेव मनो यस्य महाकर्ता स उच्यते।।[6-12-28]
न किंचन द्वेष्टि तथा न किंचिदभिकाङ्क्षति।
भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते।।[6-12-29]
सुखैर्दुःखैः क्रियायोगैर्भावाभावैर्भ्रमप्रदैः।
भुक्तैर्न संक्षुभ्यति यो महाभोक्ता स उच्यते।।[6-12-30]
जरामरणमापच्च राज्यं दारिद्र्यमेव च।
रम्यमित्येव यो भुङ्क्ते महाभोक्ता स उच्यते।।[6-12-31]
कट्वम्ललवणं तिक्तममृष्टं मृष्टमुत्तमम्।
अन्धः संयाति साम्येन महाभोक्ता स उच्यते।।[6-12-32]
सरसं नीरसं चैव सुरतं विरतं तथा।
यः पश्यति समं सौम्यो महाभोक्ता स उच्यते।।[6-12-33]
क्षीरे खण्डप्रकारे च शुभे वाप्यशुभे तथा।
समता सुस्थिरा यस्य महाभोक्ता स उच्यते।।[6-12-34]
इदं भोज्यमभोज्यं चेत्येवं त्यक्त्वा विकल्पितम्।
गतभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते।।[6-12-35]
आपदं संपदं मोहमानन्दमपरम्परम्।
यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते।।[6-12-36]
धर्माधर्मै सुखं दुःखं तथा मरणजन्मनी।
धिया येनेति संत्यक्तं महात्यागी स उच्यते।।[6-12-37]
सर्वेच्छाः सकलाः शङ्का सर्वेहाः सर्वनिश्चयाः।
धिया येन परित्यक्ता महात्यागी स उच्यते।।[6-12-38]
येन धर्ममधर्मं च मनो मननमीहितम्।
सर्वमन्तः परित्यक्तं महात्यागी स उच्यते।।[6-12-39]
यावती दृश्यकलना सकलेयं विलोक्यते।
सा येन सुष्ठु संत्यक्ता महात्यागी स उच्यते।।[6-12-40]
वसिष्ठ उवाच।।
इत्युक्तं देवदेवेन भृङ्गीशाय पुरानघ।
एतां दृष्टिमवष्टभ्य तिष्ठ राम गतज्वरः।।[6-12-41]
नित्योदितं विमलरूपमनन्तमाद्यं ब्रह्मास्ति नेतरकलाकलनं हि किंचित्।
इत्येव भावय निरञ्जनतामुपेतो निर्वाणमेहि सकलामलशान्तवृत्तिः।।[6-12-42]
अनामयं ब्रह्म समस्तकल्पकार्यैकबीजं परमात्मरूपम्।
बृहच्च तद्बृंहितसर्वभावं खमस्तिभातीव यदङ्ग किंचित्।।[6-12-43]
अन्यत्क्वचित्किंचिदिदं कदाचिन्न संभवत्येव सदप्यसच्च।
इत्येव साधो दृढनिश्चयोऽन्तः स्थित्वा गताङ्कविलासमास्व।।[6-12-44]
इदमखिलं जगत् संविदेवेति निश्चीयताम्। अत्रान्या कल्पना भेदकल्पना नास्ति। अखिलाकारेण एकस्या एव संविदः संभवाद्धेतोः।।[6-12-13 TO 6-12-44]
अन्तर्मुखः सन्सततं समस्तं कुर्वन्बहिष्ठं खलु कार्यजातम्।
न खेदमायासि कदाचिदेव निराकृताहंकृतितितामुपैषि।।[6-12-45]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे भृङ्गीशोपाख्यानं नाम द्वादशः सर्गः।। 12 ।।
अन्तर्मुखः अनुसंधाननिष्ठो बहिष्ठं शारीरं कार्यजातं कुर्वन् खेदं नायासि। निराकृताहंकृतितां च उपैषि।।
इति श्रीयोगवासिष्ठविवरणे निर्वाणप्रकरणे भृङ्गीशोपाख्यानं नाम द्वादशः सर्गः।। 12 ।।