लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १५
← सर्गः १४ | लघुयोगवासिष्ठः सर्गः १५ [[लेखकः :|]] |
सर्गः १६ → |
योगसप्तभूमिकोपाख्यानम्।।
पञ्चदशः सर्गः।।
वसिष्ठ उवाच।।
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमग्रिमम्।।[6-15-1]
पूर्वं विश्रान्तस्य बाह्यव्यवहारभारो नास्तीति दर्शितम्। इदानीं सर्वस्य चास्य ज्ञानशास्त्रस्य ज्ञानभूमिकासारत्वात् तत्स्वरूपं विस्तरेम निरूपयितुं अन्तिममिदमाख्यानमारभ्यते-सिद्धान्त इति।। शान्तमग्रिममिदं ब्रह्मैवास्ति अविद्या माया तत्कार्यं च नास्तीति सर्वप्रपञ्चापह्नव एवाध्यात्मशास्त्राणां सिद्धान्तः।।
शान्त एव चिदाकाशे स्वस्थे समसमात्मनि।
समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे।।[6-15-2]
निर्णीय केचिच्छून्यत्वं केचिद्विज्ञानमात्रताम्।
केचिदिश्वररूपत्वं विवदन्ते परस्परम्।।[6-15-3]
शान्त इति श्लोकद्वयं वाक्यम्।। शान्तादिलक्षणे ब्रह्मेति कलिताभिधे चिदाकाश एव केचिद्वादिनः शून्यत्वं केचित्तु विज्ञानमात्रतां केचित्पुनरीश्वररूपत्वं निर्णीय परस्परं विवदन्ते।।
सर्वमेव परित्यज्य महामौनी भवानघ।
निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः।।[6-15-4]
सर्वमिति।। त्वं च सर्वमेव विवादं परित्यज्य निर्मननो निःसंकल्पविकल्पः क्षीणचित्तो निर्वासनचित्तः प्रशान्तधीश्च सन् महामौनी बाह्यमननुसंदधन् निर्वाणवान् जीवन्मुक्तो भव।।
आत्मन्येव प्रशान्तात्मा मूकान्धबधिरोपमः।
नित्यमन्तर्मुखो भूत्वा त्वमास्वान्तः प्रपूर्णधीः।।[6-15-5]
आत्मनीति।। त्वं नित्यमन्तर्मुखो भूत्वा आत्मन्येव प्रशान्तात्मा निर्वृतचित्तः मूकान्धबधिरोपमः चित्तस्यान्तर्मुखत्वात् निष्फलबाह्येन्द्रियव्यापारः अन्तः प्रपूर्णधीरास्व तिष्ठ।।
जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि राघव।
अन्तः सर्वपरित्यागी बहिः कुरु यथागतम्।।[6-15-6]
जाग्रतीति।। जाग्रत्येव सत्येव बाह्येन्द्रियव्यापारे सुषुप्तस्थो निर्विकारचित्तः कर्मणि कुरु। तदेव स्पष्टयति-अन्तः सर्वपरित्यागी रागद्वेषादिकं सर्वं परित्यज्य बहिर्यथागतं यथाप्राप्तं कर्म कुरु।।
चित्तसत्ता परं दुःखं चित्तासत्ता परं सुखम्।
अन्तश्चित्तं चिदेकात्मा नय क्षयमवेदनात्।।[6-15-7]
चित्तेति।। यतश्चित्तसत्तासत्ते एव परे दुःखसुखे। अतश्चिदेकात्मा चिदेकरसः सन् अवेदनात् बाह्याननुसंधानाद्धेतोश्चित्तं क्षयं नय।।
दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्समम्।
एतावतात्मयत्नेन जिता भवति संसृतिः।।[6-15-8]
दृष्ट्वेति।। रम्यमरम्यं वा दृष्ट्वा पाषाणवत् समं निर्विकारं स्थेयम्। एतावतैवात्मयत्नेन संसृतिर्जिता भवति।।
संवेदनीयं न सुखं नासुखं नैव मध्यमम्।
एतावतात्मयत्नेन दुःखान्तोऽनन्त आप्यते।।[6-15-9]
संवेदनीयमिति।। सुखमेतत् दुःखमेतत् मध्यममनुभवरूपमेतदिति त्रितयमपि न संवेदनीयं नानुसंधानीयम्। एतावतात्मयत्नेन अनन्तो दुःखान्तः आत्यन्तिकी दुःखनिवृत्तिराप्यते।।
आपीनमण्डलशशाङ्कवदन्तरेव श्रीमद्रसायनमयः सुखमेति तज्ज्ञः।
विज्ञातसर्वभुवनत्रयवस्तुसारः कुर्वन्न नाम कुरुते परमभ्युपेतः।।[6-15-10]
राम उवाच।।
सप्तानां योगभूमीनामभ्यासः क्रियते कथम्।
कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः।।[6-15-11]
आपीनेति।। आपीनमण्डलशशाङ्गवत् पूर्णेन्दुवत्तज्ज्ञः अन्तः श्रीमद्रसायनमयः अमृतमयः सुखं स्वरूपसुखमेति। विज्ञातसर्वभुवनयवस्तुसारः तज्ज्ञः परं परमात्मानं अभ्युपेतः कर्माणि कुर्वन्नपि न नाम कुरुते न कुरुत एव अभिमानाभावात्।।[6-15-10,11]
वसिष्ठ उवाच।।
प्रवृत्तश्च निवृत्तश्च भवति द्विविधः पुमान्।
स्वर्गापवर्गोन्मुखयोः शृणु लक्षमेतयोः।।[6-15-12]
प्रवृत्त इति।। स्वर्गापवर्गोन्मुखयोः सकामधर्मानुष्ठानेन स्वर्गोन्मुखः प्रवृत्तः। निष्कामधर्मानुष्ठानेनापवर्गोन्मुखो निवृत्तः।।
कियत्तन्नाम निर्वाणं वरं संसृतिरेव मे।
इति निर्णीय कर्ता यः स प्रवृत्त उदाहृतः।।[6-15-13]
कियदिति।। तत् निर्वाणं नाम कियत् अल्पमेव। भोक्तव्यस्य वस्त्वन्तरस्याभावात्। संसृतिरेव मे वरं प्रार्थधनीयं वस्तु भोक्तव्यानां विषयसुखानामानन्त्यात्। इति निर्णीय यः प्रवृत्तिहेतुभूतानि कर्माणि कर्ता स पुमान्प्रवृत्त उदाहृतः।।
चलार्मवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत्।
अनेकजन्मनामन्ते विवेकी जायते पुमान्।।[6-15-14]
चलेति।। चलार्मवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् चलयोरर्णवयोर्युगस्य युग्मस्य छिद्रे मध्यवर्तितीरविवरे कूर्मस्य ग्रीवया साधनभूतया प्रवेशे सति यथा पुरतो निर्गमने पश्चान्निवर्तते तथैव छिद्रावस्थाने वा नच क्वापि विश्रान्तिः तथा प्राक्तनं भवसागरं परित्यज्य भवान्तरं प्रविविक्षोर्जीवस्य न क्वापि विश्रान्तिः। तथाहि। प्राक्तने जन्मनि जरामरणादिदुःखपरम्परा भाविनि बाल्यादिदुःखसंततिः मध्यवर्तिनि यातनादेहे गर्भवासे च महत् दुःखमिति। इत्थं दुःखमयानां अनेकेषां जन्मनां अन्ते पुमान् कुतश्चित् पुण्यपरिपाकात् विवेकी जायते।।
असारा बत संसारव्यवस्थालं ममैतया।
किं कर्मभिः पर्युषितौर्दिनं तैरेव नीयते।।[6-15-15]
असारेति।। संसारव्यवस्था असारा निःसारा बत। मम एतया संसारव्यवस्थया अलम्। पर्युषितैर्गतसारैः कर्मभिरपि किं फलं किमिति तैरेव पर्युषितैः कर्मभिर्दिनमखिलं नीयते।।
क्रियातिशयनिर्मुक्तं किं स्याद्विश्रमणं परम्।
इति निश्चयवान्योऽन्तः स निवृत्त इति स्मृतः।।[6-15-16]
क्रियातिशयेति।। क्रियातिशयेन निर्मुक्तं कर्मफलतारतम्यरहितं परमुत्कृष्टं विश्रमणं किं स्यात् इत्येवमन्तर्निश्चयवान् यो मुमुक्षुः स निवृत्त इति स्मृतः।।
कथं विरागवान्भूत्वा संसाराब्धिं तराम्यहम्।
एवं विचारणपरो यदा भवति सन्मतिः।।[6-15-17]
कथमिति श्लोकषट्कं वाक्यम्।। विरागो वैराग्यम्।।
विरागमुपयात्यन्तर्वासनास्वनुवासरम्।
क्रियासूदाररुपासु क्रमते मोदतेऽन्वहम्।।[6-15-18]
अनुवासरं प्रतिदिनं वासनासु विरागमुपयाति। उदाररूपासु प्रशस्तासु क्रमते कर्तुमुत्सहते। `वृत्तिसर्गतायनेषु क्रमः' इत्यात्मनेपदम्।।
ग्राम्यासु जडचेष्टासु सततं विचिकित्सति।
नोदाहरति मर्माणि पुण्यकर्माणि सेवते।।[6-15-19]
ग्राम्यास्विति।। ग्राम्यासु ग्रामे भवासु जडानां चेष्टासु कृष्यादिषु विचिकित्सति संशयेन युक्त इत्यर्थः। परेषां मर्माणि नोदाहरति नोद्धाटयति। `न कंचिन्मर्मणि स्पृशेत्' इति निषेधात्।।
अनन्योद्वेगकारीणि मृदुकर्माणि सेवते।
पापाद्बिभेति सततं न च भोगमपेक्षते।।[6-15-20]
अनन्योद्धेगकारीणि अन्येषामभयंकराणि। मृदुकर्माणि अहिंस्राणि कर्माणि।।
स्नेहप्रणयगर्भाणि पेशलान्युचितानि च।
देशकालोपपन्नानि वचनान्यभिभाषते।
तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम्।।[6-15-21]
स्नेहप्रणयगर्भाणि स्नेहः प्रेमा प्रणयो विश्रम्भस्तद्गर्भाणि।।
मनसा कर्मणा वाचा सज्जनानुपसेवते।
यतःकुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते।।[6-15-22]
मनसा वाचा च सज्जनान् ज्ञानिन उपसेवते शुश्रूषते। इत्थमाचरन्सन्मतिः प्रथमां शुभेच्छारूपामेकां भूमिकां प्राप्तो भवतीत्यन्वयः।।
एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति।
स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः।।[6-15-23]
एवमिति।। संसारोत्तरणं प्रति एवं पूर्वोक्तप्रकारेण यो विचारवान्स्यात् स एव भूमिकावानित्युक्तः प्रथमभूमीकां प्राप्त इत्युच्यते। शेषस्तु सन्मार्गवर्ती आर्य इति स्मृतः।।
विचारनाम्नीमितरामागतो योगभूमिकाम्।
श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः।
मुख्यया व्याख्यया ख्याताञ्श्रयति श्रेष्ठपण्डितान्।।[6-15-24]
विचारेति श्लोकपञ्चकं वाक्यम्।। श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः श्रुत्यादयः कर्माणि कर्तव्यानि अनुसंधेयानि च येषां तान्। मुख्यया प्रशस्तया व्याख्यया अध्यात्मशास्त्राणां व्याख्यानेन ख्यातान् श्रेष्ठपण्डितान् श्रयति। ध्यानकर्मणामिति पाठे निर्धारणे षष्ठी। श्रुत्यादितत्पराणां मध्ये ये श्रेष्ठाः पण्डितास्तान् श्रयतीत्यर्थः।।
पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम्।
जानात्यधिगतश्रव्यो गृहं गृहपतिर्यथा।।[6-15-25]
पदार्थप्रविभागज्ञः नित्यानित्यवस्तुप्रविभागज्ञः अधिगतश्रव्यः श्रुताध्यात्मशास्त्रः गृहपतिः गृहमिव कार्याकार्यविनिर्णयं तत्त्वतो जानाति।।
मदाभिमानमात्सर्यदम्भमोहातिशायिताम्।
बहिप्यर्थितामीषत्त्यजत्यहिरिव त्वचम्।।[6-15-26]
ईषद्बहिरर्थितां स्फुरितामपि मदाभिमानमात्सर्यदम्भममोहातिशायितां मदादीनामतिशयसंपत्तिं अहिस्त्वचमिव त्यजति।।
इत्थंभूतमतिः शास्त्रे गुरुसज्जनसेवया।
स रहस्यमशेषेण यथावदधिगच्छति।।[6-15-27]
इत्थंभूतमतिः पूर्वोक्तसद्वासनावासितमतिः सः द्वितीयभूमीकां प्राप्तो गुरुसज्जनसेवया साधनेन शास्त्रे रहस्यं तत्त्वं यथावत्सम्यगधिच्छति।।
असंसङ्गाभिधामन्यां तृतीयां योगभूमिकाम्।
ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम्।।[6-15-28]
असंसंगेति श्लोकपञ्चकं वाक्यम्।। असंसङ्गाभिधां तृतीयां तनुमानसेति या पूर्वोक्ता सैव मानमस्य। तनुत्वाद्विषयेष्वासङ्गाभावादसंसङ्गामिधासंपन्नेति न पूर्वोत्तरविरोधः।।
यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम्।
तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः।।[6-15-29]
शास्त्राणां अध्यात्मविषयाणां वाक्यार्थे आत्माद्वैतलक्षणे यथावन्निश्चलां मतिमाधाय तापसाश्रमेषु विश्रान्तैरध्यात्मनिष्ठैः सह अध्यात्मकथनक्रमैः।।
संसारनिन्दकैस्तद्वद्वैराग्यकथनक्रमैः।
शिलाशाय्यासनासीनो जरयत्यायुराततम्।।[6-15-30]
संसारनिन्दकैर्वैराग्यकथनैश्च शिलायामेव शय्यायां यत्रैवासन एवासीनः सन्नाततमायुर्जरयति क्षपयति।।
वनावनिविहारेण चित्तोपशमशोभिना।
असङ्गसुखसौख्येन कालं नयति नीतिमान्।।[6-15-31]
व्युत्थानदशायां वनावनिविहारेण समाधौ पुनश्चित्तोपशमशोभिना असङ्गसुखसौख्येन शब्दादिसङ्गसुखादन्यत् यत्सौख्यं तेन अविद्यमानं सङ्गसुखं येषां तेषां आत्मारामाणां यत्सौख्यं तेनेति वा स्वरूपसुखमुच्यते। तेन च कालं जीवितकालं नयति।।
अभ्यासात्साधुस्त्राणां करणात्पुण्यकर्मणाम्।
जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति।।[6-15-32]
इयं वस्तुदृष्टिः असंसङ्गाभिधायां भूमिकायां या ज्ञानकक्षा सेयमित्यर्थः।।
तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम्।
द्विषकारमसंसङ्गं तस्य भेदमिमं शृणु।।[6-15-33]
तत्रैवावातन्तरभेदनिरूपणायाह-तृतीयामिति।। तृतीयां भूमिकां प्राप्य बुद्धो ज्ञानी सामान्यं श्रेष्ठमेव च द्विप्रकारमसंसङ्गमनुभवति।।
द्विविधोऽयमसंसङ्गः सामान्यः श्रेष्ठ एव च।
नाहं भोक्ता न कर्ता च न बाध्यो न च बाधकः।।[6-15-34]
नेति।। अहं कर्ता न निष्क्रियत्वात्। भोक्ता च न नित्यतृप्तत्वात्। बाधकश्च न निर्व्यापारत्वात्।।
इत्यसञ्जनमर्थेषु सामान्यासङ्गनामकम्।।[6-15-35]
इत्येवमर्थेषु यदसञ्जनं सङ्गराहित्यं तत्सामान्यासङ्गनामकम्।।
प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा।
सुखं वा यदि वा दुःखं कैवात्र मम कर्तृता।।[6-15-36]
एतदेव प्रपञ्चयति-प्रागिति श्लोकत्रयं वाक्यम्।। सुखं वा दुःखं वा सर्वं निरीश्वरवादे प्राक्कर्मनिर्मितम्। सेश्वरवादे तु ईश्वराधीनमेव। अत्रास्मिन्पक्षद्वयेऽपि मम कैव कर्तृता। न काचिदित्यर्थः।।
भोगाभोगा महारोगाः संपदः परमापदः।
वियोगायैव संयोगा आधयो व्याधयो धियः।।[6-15-37]
भोगाभोगाः विषयविस्ताराः महारोगाः पर्यन्तपरितापित्वात् संपदः समृद्धयः परमापदः अर्जनरक्षणादिनिमित्तदुःखहेतुत्वात्। आधयश्चिन्ता धियो व्याधयः बुद्धिक्लेशहेतुत्वात्।।
कालः कवलनोद्युक्तः सर्वभावान्विनाशयन्।
तिष्ठतीति विचारो यः सामान्योऽसावसंगमः।।[6-15-38]
कालश्च कवलनोद्युक्तः संहारोद्यतः सन्सर्वभावान्विनाशयन् तिष्ठतीति यो विचारः असौ सामान्यासंगमः।।
अनेन क्रमयोगेन संयोगेन महात्मनाम्।
वियोगेनासतामन्तः प्रयोगेणात्मसंविदाम्।।[6-15-39]
श्रेष्ठमसङ्गमाह-अनेनेति श्लोकचतुष्टयं वाक्यम्।। अनेन पूर्वोक्तमयोगेन अभ्यासयोगेन महात्मनां संयोगेन असतां दुर्जनानां वियोगेन वर्जनेन आत्मसंविदां आत्मविचाराणां प्रयोगेण च।।
षौरुषेण प्रयत्नेन संतताभ्यासयोगतः।
करामलकवद्वस्तुन्यागते स्फुटतां दृढम्।।[6-15-40]
पौरुषेम प्रयत्नेन यः संतताभ्यासः समाध्यभ्यासः तद्योगतः करामलकवद्वस्तुनि स्फुटतामागते सति।।
नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम।
कृत्वा दूरतरे नूनमिति शब्दार्थभावनाम्।।[6-15-41]
नाहं कर्ता ईश्वरः प्राक्तनं वा कर्मैव कर्तेति शब्दार्थभावनां शब्दार्थानुसंधानं दूरतरेऽत्यन्तदूरे कृत्वा त्यक्त्वा।।
संसाराम्बुनिधेः पारे सारे परमाकारणे।
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते।।[6-15-42]
परमकारणे सर्वकारणे सारे अबाधिते संसाराम्बुनिधेः पारे प्रपञ्चातीते परे ब्रह्मणि परे ब्रह्मणि मौनं शान्तं च यदासनं तच्छ्रेष्ठासङ्ग उच्यते।।
यन्नान्तर्न बहिर्नाधो नोर्ध्वं नाशासु नाम्बरे।
न पदार्थे नापदार्थे न जडे न च चेतने।।[6-15-43]
तदेव विशिनष्टि-यदिति श्वलोकद्वयं वाक्यम्।।
यद्भासनरूपमाश्रितमन्तरादिभिः देशविशेषैर्भावाभावरूपैः जडाजडरूपैर्वस्तुभिर्न परिच्छिद्यते।।
आश्रितं भासनं शान्तमभासनमभावनम्।
अनाद्यन्तमजं कान्तं तच्छ्रेष्ठासङ्ग उच्यते।।[6-15-44]
अभासनं अविद्यमानं स्वव्यतिरिक्तं भासनं प्रकाशकं यस्य। अभावनं अविद्यामानं भावनं स्वव्यतिरिक्तं कारणं यस्य तादृशं सर्वप्रकाशकं सर्वकारणं च अनाद्यन्तमजं शान्तं कान्तं च तत्तादृशं भासनरूपमाश्रितं श्रेष्ठासङ्ग उच्यते।।
संतोषामोदमधुरः सत्कार्यमलपल्लवः।
चित्तनालाग्रसंलीनो विघ्नकण्टकसंकटः।।[6-15-45]
अस्यास्तृतीयभूमिकाया हेतुमाह-संतोषेति श्लोकद्वयं वाक्यम्।। संतोषामोदमधुरः अलंबुद्धिः संतोषः तज्जन्येनामोदेन हर्षेण मधुरः मकरन्दवान्। सत्कार्याण्येवामलानि पल्लवानि पत्राणि यस्य सः। चित्तमेव नालः तस्याग्रे संल्लीनः विघ्रैरेव कण्टकैः संकटः संकीर्मः।।
विवेकपद्मां रूढोऽन्तर्विवेकार्कविकासितः।
फलं फलत्यसंसङ्गां तृतीयां भूमिकामिमाम्।।[6-15-46]
अन्तर्हृदये रूढो विवेकरूपेणार्केण विकासितः सन् विवेकपद्मां असंसङ्गां तृतीयामिमां भूमिकामेव फलं फलति।।
समवायाद्विशुद्धानां संचयात्पुण्यकर्मणाम्।
काकतालीययोगेन प्रथमोदेति भूमिका।।[6-15-47]
इदानीं प्रथमभूमिकाया हेतुमाह-समवायादिति।। विशुद्धानां निष्कल्मषाणां सज्जनानां समवायात् पुण्यकर्मणां संचयाच्च काकतालीययोगेन दैवगत्या प्रथमा भूमिकोदेति।।
भूमिः प्रोदितमात्रान्तरमृतङ्कुरिकेव सा।
विवेकेनाम्बुसेकेन रक्ष्या पाल्या प्रयत्नतः।।[6-15-48]
भूमिरिति।। सा प्रथमा भूमिरमृताङ्कुरिकेव प्रोदितमात्रापि विवेकेन विवेकरूपेणाम्बुसेकेन प्रयत्नतः पाल्या लक्ष्या च।।
येनांशेनोल्लसत्येषा विचारेणोदयं नयेत्।
तमेवानुदिनं यत्नात्कृषीवल इवाङ्कुरम्।।[6-15-49]
येनेति।। एषा भूमिका येनांशेनोल्लसति तमेवांशं विचारेम यत्नादनुदिनं कृषीवलोऽङ्कुरमिवोदयं नयेत्।।
एषा हि परिमृष्टान्तरन्यासां प्रसवैकभूः।
द्वितीयां भूमिकां यत्नात्तृतीयां प्राप्नुयात्ततः।।[6-15-50]
एषेति।। एषा भूमिका अन्तःपरिमृष्टा विचारेणोदयं नीता सती अन्यासां भूमिकानां प्रसवैकभूः। ततस्तस्या एव भूमिकाया हेतोर्द्वितीयां तृतीयां च भूमिकां प्राप्नुयात्।।
श्रेष्ठासंसङ्गता ह्येषा तृतीया भूमिकात्र हि।
भवति प्रोज्झिताशेषसंकल्पकलनः पुमान्।।[6-15-51]
श्रेष्ठेति।। यैषा श्रेष्ठा असंसङ्गता तृतीया भूमिकास्ति अत्र अस्यां भूमिकायां वर्तमानः पुमान् प्रोज्झिताशेषसंकल्पकलनो भवति।।
राम उवाच।।
मूढस्यासत्कुलोत्थस्य प्रवृत्तस्याधमस्य च।
अप्राप्तयोगसङ्गस्य कथमुत्तरणं भवेत्।।[6-15-52]
मूढस्येति।। मूढस्य अज्ञस्य प्रवृत्तस्य काम्यकर्मनिष्ठस्य।।
एकामथ द्वितीयां वा तृतीयां वैतरां च वा।
आरूढस्य मृतस्याथ कीदृसी भगवन्गतिः।।[6-15-53]
एकामिति।। द्वितीयां तृतीयामितरां च वा एकां भूमिकामारूढस्य अथानन्तरं मृतस्य कीदृशी गतिः।।
वसिष्ठ उवाच।।
मूढस्यारूढदोषस्य तावत्संसृतिरातता।
यावज्जन्मान्तरशतैर्नोदिता प्रथमात्र भूः।।[6-15-54]
प्रथमप्रश्नस्योत्तरं श्लोकत्रयेणाह-मूढस्येति।। आरूढदोषस्य प्रवृद्धरागादिदोषस्य मूढस्य जन्मान्तरशतैरपि यावत्प्रथमा भूमिका नोदिता तावत्संसृतिरेवातता भवति।।
अथवा साधुसंगत्या काकतालीययोगतः।
संसारस्य परामर्शीद्वैराग्यं समुदेति हि।।[6-15-55]
अथवा काकतालीययोगतः साधुसंगत्या संसारस्य परामर्शाद्दोषदर्ननाद्वैराग्योदये।।
वैराग्येऽभ्युदिते जन्तोरवश्यं भूमिकोदयः।
ततो नश्यति संसार इति शास्त्रार्थसंग्रहः।।[6-15-56]
भूमिकोदयात्संसारो नश्यतीति शास्त्रार्थसंग्रहः।।
योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः।
भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम्।।[6-15-57]
द्वितीयप्रश्नस्योत्तरं श्लोकपञ्चकेनाह-योगेति।। योगभूमिकया प्रथमादिष्वन्यतमयोत्क्रान्तजीवितस्य मृतस्य शरीरिणो जीवस्य भूमिकांशानुसारेण भूमिकाप्रकर्षानुसारेणैव पूर्वदुष्कृतं क्षीयते।।
ततः सुरविमानेषु लोकपालपुरेषु च।
मेरुपर्वतकुञ्जेषु रमते रमणीसखः।।[6-15-58]
ततः सुकृतमहिम्ना सुरविमानादिषु स्वर्गप्रदेशेषु रमणीसखो रमते।।
ततः सुकृतसंभारे दुष्कृते च पुरा कृते।
भोगक्षयात्परिक्षीणे जायन्ते योगिनो भुवि।।[6-15-59]
ततः पुरा कृते सुकृतसंभारे दुष्कृते च भोगक्षयात् क्षयहेतोर्भूमिकांशाच्च परिक्षीणे सति भुवि।।
शुचीनां श्रीमतां गेहे गुप्ते गुमवतां सताम्।
जनित्वा योगमेवैते सेवन्ते योगवासिताः।।[6-15-60]
शुचीनां गुणवतां श्रीमतां सतां गुप्ते सुरक्षिते गेहे योगिनो जायन्ते। जनित्वा चैते योगवासितत्वात् योगमेव सेवन्ते।।
तत्र प्राग्भावनाभ्यस्तं योगभूमिक्रमं बुधाः।
दृष्ट्वोपरिपतन्त्युच्चैरुत्तरं भूमिकाक्रमम्।।[6-15-61]
तत्र च प्राग्भावनाभ्यस्तं योगभिमिकाक्रमं दृष्ट्वा उत्तरं भूमिकाक्रमं परिपतन्ति अभ्यसन्ति।।
भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्मृतम्।
जाग्रतीवात्र विस्पष्टं भेदबुद्ध्यनुवर्तनात्।।[6-15-62]
भूमिकेति।। एतत्पूर्वोक्तं भूमिकात्रितयं जाग्रदिति स्मृतम्। कुतः अत्र अस्यां भूमिकायां जाग्रतीव विस्पष्टं भेदबुद्ध्यनुवर्तनात्।।
उदेति योगयुक्तानामत्र केवलमार्यता।
यां दृष्ट्वा मूढबुद्धीनामप्युदेति मुमुक्षुता।।[6-15-63]
उदेतीति।। अत्र भूमिकात्रये योगयुक्तानां पूर्वमार्यता केवलमुदेति यामार्यतां दृष्ट्वा मूढबुद्धीनामपि मुमुक्षुतोदेति।।
कर्तव्यमाचरन्काममकर्तव्यमनाचरन्।
तिष्ठति प्रकृताचारो यः स आर्य इति स्मृतः।।[6-15-64]
यथाचारं यथाचित्तं यथाशास्त्रं यथास्थितम्।
व्यवहारमुपादत्ते यः स आर्य इति स्मृतः।।[6-15-65]
आर्यलक्षणं श्लोकद्वयेनाह-कर्तव्यमिति।। प्रकृताचारः प्रकृतमावश्यकं देहधारणोपयुक्तमाचरन् यथास्थितं स्थितिर्मर्यादा तदनतिक्रम्य[6-15-64,65]
प्रथमायामङ्कुरितं भूमौ विकसितं ततः।
द्वितीयायां तृतीयायां फलत्यार्यत्वमुत्तमम्।।[6-15-66]
आर्यतायां मृतो योगी शुद्धसंकल्पसंभृतान्।
भोगान्भुक्त्वा चिरं कालं योगवाञ्जायते पुनः।।[6-15-67]
प्रथमायामिति।। आर्यत्वं प्रथमायां भूमावङ्कुरीतं भवति। ततो द्वितीयायां विकसितं सत् तृतीयायां फलति।।[6-15-66,67]
भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते।
सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे।।[6-15-68]
भूमिकेति श्लोकद्वयं वाक्यम्। पूर्वोक्तभूमिकात्रितयाभ्यासात् अज्ञाने क्षयमागते सम्यग्ज्ञानोदये च सति चित्ते पूर्णचन्द्रोदयोपमे सति।।
निर्विभागमनाद्यन्ते योगिनो युक्तचेतसः।
समं सर्वं प्रपश्यन्ति चतुर्थीं भूमिकां गताः।।[6-15-69]
अनाद्यन्ते वस्तुनि युक्तचेतसः चतुर्थी भूमिकां गता योगिनः सर्वं जगन्निर्विभागं समं प्रपश्यन्ति।।
अद्वैते स्थैर्यमायाते द्वैते प्रशममागते।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताः।।[6-15-70]
अद्वैत इति।। इताः प्राप्ताः।।
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते।
चित्तं तु शरदभ्रांशविलायं प्रविलीयते।।[6-15-71]
भूमिकेति।। चतुर्थी भूमिका स्वप्न उच्यते। यस्मात्तस्यां भूमिकायां चित्तं शरदभ्रांशविलायं प्रविलीयते। शरदभ्रांशवत्प्रविलीयत इत्यर्थः।।
सत्तावशेष एवास्ते पञ्चमीं भूमिकां गतः।
जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात्।।[6-15-72]
सत्तेति।। पञ्चमीं भूमिकां गतो योगी सत्तावसेष एवास्ते सन्मात्ररूप एवास्ते। यस्मात्कारणादत्र भूमिकायां चित्तस्य विलापनात् जगद्विकल्पो नोदेति।।
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम्।
शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके।।[6-15-73]
पञ्चमीमिति।। सुषुप्तपदनामिकां पञ्चमीं भूमिकामासाद्य शान्ताशेषविशेषांशः अद्वैतमात्रे तिष्ठति।।
गलितद्वैतनिर्भासो मुदितोऽन्तः प्रबोधवान्।
सुषुप्तघन एवास्ते पञ्चमीं भूमिकां गतः।।[6-15-74]
गलितेति।। पञ्चमीं भूमिकां गतो योगी गलितद्वैतनिर्भासो मुदितोऽन्तः प्रबोधवान् सुषुप्तघन एवास्ते सुषुप्तवद्धनीभूय एवास्ते।।
अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन्।
परिशान्ततया नित्यं निद्रालुरिव लक्ष्यते।।[6-15-75]
अन्तरिति।। अत्र बहिर्वृत्तिपरः सन्नपि अन्तर्मुखतया तिष्ठन्परिशान्ततया निद्रालुरिव नित्यं लक्ष्यते।।
कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः।
षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम्।।[6-15-76]
कुर्वन्निति।। एतस्यां पञ्चम्यां भूमिकायां अभ्यासं कुर्वन् क्रमाद्विवासनस्तुर्याभिधां षष्ठीमन्यां भूमिकां पतति।।
यात्रानासन्नसद्रूपो नाहं नाप्यनहंकृतिः।
केवलं क्षीणमनन आस्ते द्वैतैक्यनिर्गतः।।[6-15-77]
षष्ठभूमिकां प्राप्तस्य स्वरूपमाह-यत्रेति श्लोकत्रयं वाक्यम्।। यत्र यस्यां षष्ठभूमिकायां वर्तमानो योगी असत् असद्रूपो न व्यवहर्तृत्वात्। सद्रूपश्च न निर्वासनत्वात्। अहं न अहमित्यभिमानाभावात्। अनहंकृतिश्च न देहेन्द्रियादिप्रवर्तकत्वात् किं तर्हि केवलं क्षीणमननत्वात् निर्विकल्पत्वात्। द्वैतैक्यनिर्गतः भेदाभेदाभ्यां निर्गतो व्यपदेश्य आस्ते।।
निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः।
अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः।।[6-15-78]
किंच निर्ग्रन्थिः अहंकारस्य ग्रन्थिरूपस्य विच्छिन्नत्वात्। शान्तसंदेहो विभावनो विगतवासनश्च जीवन्मुक्तो योगी अनिर्वाणोऽपि देहं धारयन्नपि निर्वाणः निरहंकारत्वात् निर्वासनत्वाच्च चित्रदीप इव आलेख्यगतप्रदीप इव स्थितः।।
अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे।
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे।।[6-15-79]
अन्तरिति।। किंच प्रपञ्चदृष्टया अन्तःशून्यो निर्वासनत्वात्। बहिःशून्यो बहिरपि ब्रह्मैवेदं सर्वमित्यनुसंधानात्तथाच अम्बरे वर्तमानः शून्यकुम्भ इव रिक्तो घट इव भवति। किंच ब्रह्मदृष्ट्या अन्तःपूर्णः सर्वदान्तर्भावनात्। बहिश्च पूर्णो बहिरपि ब्रह्मभावनात्। तथाचार्णवे वर्तमानः पूर्णकुम्भ इव च भवति।।
किंचिदेवैष संपन्नस्त्वथवैष न किंचन।
षष्ठ्यां भूम्यामसौ स्थित्वा सप्तमीं भूमिमाप्नुयात्।।[6-15-80]
किंचिदिति।। एष ष्ठभूमिगतो योगी किंचिदेव वस्तुसंपन्नो जातः सद्रूपत्वात्। अथवा एष न किंचन संपन्नः अव्यपदेश्यत्वात्। इत्थं षष्ठ्यां भूमौ स्थित्वा असौ योगी सप्तमीं भूमिकामाप्नुयात्।।
विदेहमुक्तता तूक्ता सप्तमी योगभूमिका।
अगम्या वचसां शान्ता सा सीमा भवभूमिषु।।[6-15-81]
विदेहेति श्लोकचतुष्टयं वाक्यम्। सप्तमी योगभूमिका तु विदेहमुक्ततोक्ता शान्ता वचसां अगम्या च सा भवभूमिका तु विदेहमुक्ततोक्ता शान्ता वचसां अगम्या च सा भवभूमिका सीमा अवधिः। इतः परं भूमिकान्तरस्याभावात्।।
कैश्चित्सा शिव इत्युक्ता कैश्चिद्ब्रह्मेत्युदाहृता।
कैश्चिद्विष्णुरिति प्रोक्ता कैश्चिच्छून्यमिति स्मृता।।[6-15-82]
अर्थ इत्युदिता कैश्चित्कैश्चित्काल इति स्मृता।
कैश्चित्प्रकृतिपुंभावविभाग इति भाविता।।[6-15-83]
अन्यैरप्यन्यथा नानाभेदैरात्मविकल्पितैः।
नित्यमव्यपदेश्यापि कथंचिद्व्यपदिश्यते।।[6-15-84]
सा च निरुपाधिकत्वान्नित्यमव्यपदेश्यापि तत्तन्मतभेदेन तैस्तैर्वादिभिः शिवादिशब्दैः कथंचित्कल्पितोपाधिना व्यपदिश्यते।।[6-15-82,83,84]
स्पतैता भूमिकाः प्रोक्ता मया तव रघूद्वह।
आसामभ्यासयोगेन न दुःखमनुभूयते।।[6-15-85]
अत्र च सप्तानां योगभूमिकानां नामानि लक्षणानि च पूर्वमुक्तत्वान्नोक्तानि तत्तद्भूमिकावतां चिह्नान्येव तु पूर्वमनुक्तत्वादिह पृष्टानि प्रपञ्चितानि च यच्चात्र नोक्तं नामादिकं तदुत्पत्तिप्रकरणे लवणाख्याने द्रष्टव्यम्।।
वसिष्ठ उवाच।।
अस्त्यनन्तमदोन्मत्ता मृदुमन्थरचारिणी।
करिणीविग्रहव्यग्रा महादशनशङ्खिनी।।[6-15-86]
मा चेन्निहन्यते नूनमनन्तानर्थकारिणी।
तदैतासु समग्रासु भूमिकासु नरोऽजयी।।[6-15-87]
अस्तीति।। करिणी नाम इच्छा तस्याश्च मदो वासनाव्यूहः महादशनौ धर्माधर्मावित्यादिरामप्रश्नानन्तरं वसिष्ठ एव स्पष्टीकरिष्यति महादशनाभ्यामेव शङ्खिनी शङ्खवती करिणीति।।[6-15-86,87]
करिणी मदमत्ता सा यावन्न विजितौजसा।
को नाम सुभटस्तावत्संपत्समरभूमिषु।।[6-15-88]
राम उवाच।।
कासौ प्रमात्त करिणी काश्च ता रणभूमयः।
कथं निहन्यते चैषा क्व चैषा रमते चिरम्।।[6-15-89]
संपत्समरभूमिषु संसारसंपद एव समरभूमयः संसारसंपदो राम तस्याः समरभूमय इति वक्ष्यमाणत्वात्।।[6-15-88,89]
वसिष्ठ उवाच।।
रामेच्छा नाम करिणी सेदं मेऽस्त्विति रूपिणी।
शरीरकानने मत्ता विविधोल्लासकारिणी।।[6-15-90]
रामेति श्लोकद्वयं वाक्यम्।। करिणी नाम इच्छा सा च इच्छा इदं मे अस्त्वित्येवंरूपिणी सा चेच्छारूपा करिणी शरीर एव कानने मत्ता सती विविधोल्लासकरणशीला।।
मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी।
मनोगहनसंलीना कर्मदन्तद्वयान्विता।।[6-15-91]
मत्तानीन्द्रियाण्येवोग्राः कलभा यस्यास्तादृशी। रसनाकलभाषिणी रसनैव रसना तदीया तया कलभाषणशीला। मन एव गहनं दुःप्रवेशस्थानं तत्र संलीना। कर्मदन्तद्वयान्विता पुण्यापुण्यलक्षमदशनद्वयवती।।
मदोऽस्या वासनाव्यूहः सर्वतः प्रसरद्वपुः।
इच्छानागी निहन्त्येषा कृपणाञ्जीवसंचयान्।।[6-15-92]
मद इति।। अस्याः खेच्छाकारिण्याः सर्वतः प्रसरद्वपुः वासनाव्यूह एव मदः एषा चेच्छानागी कृपणानेव जीवसंचयान्निहन्ति।।
संसारदृष्टयो राम तस्याः समरभूमयः।
भूयो यत्रानुभवति नरोजयपराजयौ।।[6-15-93]
संसारेति।। नरः पुमान् जयपराजयौ भूयो यत्रानुभवति ताः संसारदृष्ट्य एव तस्याः समरभूमयः।।
वासनेहा मनश्चित्तं संकल्पो भावनं स्पृहा।
इत्यादिर्निवहो नाम्नामस्या आशयकोशगः।।[6-15-94]
वासनेति।। आशयकोशगः आशयोऽन्तःकरणं स एव कोशः कोशगृहं तद्गतः तद्विषयो यो वासना ईहा मनश्चित्तं संकल्पो भावनं स्पृहेत्यादिः शब्दसमुदायः सोऽस्या इच्छाकरिण्या नाम्नां निवहः। इत्यादीति नपुंसकलिङ्गपाठे वासनेत्यादिपदकदम्बकं आशयकोशगोऽस्याः करिण्या नाम्नां निवह इति योजनीयम्।।
धैर्यनाम्ना वरास्त्रेण प्रसृतामवहेलया।
नागीं सर्वात्मिकामेतामिच्छां सर्वात्मना जयेत्।।[6-15-95]
धैर्येति।। अवहेलया इतरेषां सर्वेषामस्त्राणां अवज्ञया प्रसृतां सर्वात्मिकां सर्वविषयत्वाद्विषयैस्तादात्म्यापन्नां इच्छारूपां नागीं धैर्यनाम्ना वरास्त्रेण सर्वात्मना सर्वप्रकारेणापि जयेत्। धैर्यणैवाङ्कुशेनेच्छारूपां नागीं करिणीं वशीकुर्यादित्यर्थः। धैर्यं चात्र परे ब्रह्मणि चित्तस्य स्थैर्यम्।।
यावदस्त्विदमित्येवमियमन्तर्विजृम्भते।
तावदुग्रा कुसंसारमहाविषविषूचिका।।[6-15-96]
यावदिति।। इदमस्त्वित्येवंरूपा इयमिच्छाकरिणी यावदन्तर्विजृम्भते तावदेवेयमुग्र कुसंसारमहाविषविषूचिका विजृम्भते। कुत्सितः संसार एव महती विषजन्या विषूचिका।।
एतावानेव संसार इदमस्त्विति यन्मनः।
अस्य तूपशमो मोक्ष इत्येवं ज्ञानसंग्रहः।।[6-15-97]
एतावानेवेति।। इदमस्त्विति यन्मनःसंकल्पनमस्त्येतावानेव संसारः। सर्वस्यापि संसास्य मनोमूलत्वात् अस्य तु मनस उपसम एव मोक्षः। इत्येवं ज्ञानस्य ज्ञानोपदेशस्य संग्रः संक्षेपः।।
प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ।
तैलबिन्दुरिवादर्शे विश्राम्यत्युपदेशवाक्।।[6-15-98]
प्रसादेति।। स्वच्छा स्वयं निर्मला अतश्च प्रसादकारिणी परचित्तप्रसादहेतुरुपदेशवाक् परोपदेशपरगुरुवाक्यं निरिच्छे निःसंकल्पे अतश्च विमलाकृतौ शिष्ये आदर्शे दर्पणे तैलबिन्दुरिव विश्राम्यति संक्रामति। तैलबिन्दुरपि प्रसादहेतुः स्वच्छश्च। दर्पणोऽपि निरिच्छो विमलाकृतिश्च।।
मनागप्युदितैवेच्छा छेत्तव्यानर्थकारिणी।
असंवेदनशस्त्रेण विषस्येवाङ्कुरावली।।[6-15-99]
मनागिति।। अनर्थकारिणी इयमिच्छा मनागपि उदितैव विषस्य विषवृक्षस्य अङ्कुरावलीव असंवेदनशस्त्रेण संवेदनं बाह्यानुसंधानं तदभावोऽसंवेदनं तेनैव शस्त्रेण छेत्तव्या।।
इच्छाविच्छुरितो जीवो विजहाति न दीनताम्।
असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः।।[6-15-100]
इच्छेति।। जीवः इच्छया विच्छुरितः सन् दीनतां इष्टार्थसिद्धिनिमित्तं दैन्यं न विजहाति। भवाङ्कुर इच्छा च असंवेदनमात्रेण नोदेति।।
असंवेदनशस्त्रं तु तूष्णीं चित्तव्यवस्थितिः।
प्रत्याहारः स विज्ञेयस्तेनेच्छा विनिवार्यते।।[6-15-101]
किं तदसंवेदनमित्यत्राह-असंवेदनेति।। चित्तस्य तूष्णीं व्यवस्थितिरेवासंवेदनशस्त्रं स एव च प्रत्याहाररूपं योगांगं तेनैवेच्छा निवार्यते।।
इदं मेस्त्विति विज्ञानमाहुः कल्पनमुत्तमाः।
अर्थस्याभावनं यत्तत्कल्पनात्याग उच्यते।।[6-15-102]
इदमिति।। इदं मेस्त्विति विज्ञानमेव कल्पनमाहुः। अर्थस्य बाह्यस्य यदभावनं तदेव कल्पनात्याग उच्यते।।
स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः।
तत्र प्रागनुभूतं च नानुभूतं च भाव्यते।।[6-15-103]
स्मरणमिति।। स्मरणमेव संकल्पं विद्धि। अस्मरणं च शिवं शान्तं ब्रह्म विदुः। तत्र च स्मरणे प्रागनुभूतं नानुभूतं च वस्तु भाव्यते विषयीक्रियते।।
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत्।
सर्वमेवाशु विस्मृत्य मूढस्तिष्ठ महामतिः।।[6-15-104]
अनुभूतामिति।। अनुभूतां नानुभूतां अनुभूतविषयामननुभूतविषयां च स्मृतिं विस्मृत्य विहाय काष्ठवत्सर्वमेव विस्मृत्य अननुसंधाय महामतिरेव सन् मूढस्तिष्ठ मूढवत्तिष्ठ।।
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति तत्।
असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते।।[6-15-105]
ऊर्ध्वबाहुरिति।। ऊर्ध्वबाहुः सर्वेषां प्रबोधाय उद्धृतभुजः सन्नेषोऽहं परमार्थदर्शी विरौमि घोषयामि। अत्र न कश्चिदपि शृणोति। अहो मोहमहिमेति शेषः। किं तद्विराव्यमित्यत्राह-असंकल्प इति। असंकल्प एव परं श्रेयः सोऽयं किमित्यन्तः सर्वैरपि मुमुक्षुभिर्न भाव्यते।।
किल तूष्णींस्थितेनैव तत्पदं प्राप्यते परम्।
परमं यत्र साम्राज्यमपि राम तृणायते।।[6-15-106]
किलेति।। परमं साम्राज्यमपि यत्र यस्मिन्पदे भाव्यमाने तृणायते तृणमिव तुच्छं भाति तत्परं पदं तूष्णींस्थितेनैव किल प्राप्यते। अहो सौलभ्यं परमपदस्येति शेषः।।
गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः।
स्पन्दो विगतसंकल्पस्तथा स्पन्दः स्वकर्मसु।।[6-15-107]
बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते।
संकल्पनं परो बन्धस्तदभावो विमुक्तता।।[6-15-108]
गम्येति।। गम्यदेशैकनिष्ठस्य गन्तव्यदेशतत्परस्य पान्थस्य पादयोः स्पन्दः संचारो यथा विगतसंकल्पः प्रतिपदं संकल्पाभावात् तथा ज्ञानिनो ब्रह्मनिष्ठस्य स्वकर्मसु स्पन्दो व्यवहारो विगतसंकल्पः।।[6-15-107,108]
सर्वं जगदिदं शान्तमनन्तं ध्रुवमव्ययम्।
पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम्।।[6-15-109]
सर्वमिति।। सर्वमिदं जगत् शान्तादिलक्षणं भूतार्थचिद्रूपं परमार्थचिन्मयं पश्यन् शान्तो यथासुखमास्व।।
अवेदनं विदुर्योगं शान्तमासनमुत्तमम्।
योगस्थः कुरु कर्माणि विकर्माण्यथ मा कुरु।।[6-15-110]
अवेदनमिति।। शान्तं निर्विकारं उत्तममासनमेव अवेदनयोगं निर्विकल्पसमाधिं विदुः। अतश्चय त्वं योगस्थः सिद्ध्यसिद्ध्योः समत्वं योगः तन्निष्ठः कर्माणि कुरु। नीरसो निष्कामो वा कुरु। अथवा आत्मारामतया कर्तव्याभावान्मा कुरु।।
अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम्।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः।।[6-15-111]
अवेदनमिति।। अवेदनमेव योगं अकृत्रिमं अप्रयाससिद्धं चित्तक्षयं च विदुः। अतश्चात्यन्तं तन्मयो भूत्वा यथासि यद्रूपोऽसि तथा तिष्ठ।।
अहंममेति संविदन्न दुःखतो विमुच्यसे।
असंविदन्विमुच्यसे यदीप्सितं तदाचर।।[6-15-112]
अहमिति।। त्वं अहं ममेति च संविदन् अभिमन्यमानो दुःखतो दुःखमयात्संसारान्न विमुच्यसे। इत्थमसंविदंस्तु विमुच्यसे। अत्र बन्धमोक्षसाधनद्वये यदीप्सितमभिमतं तदाचरेति निपुणोक्तिः।।
शिवं सर्गगतं शान्तं बोधात्मकमजं शुभम्।
तदेकभावनं राम कर्मत्याग इति स्मृतः।।[6-15-113]
इति श्रीयोगवासिष्ठसारे निर्वामप्रकरणे योगसप्तभूमिकोपाख्यानं नाम पञ्चदशः सर्गः ।। 15 ।।
प्रकृतोपसंहारव्याजेन महात प्रबन्धेनोपपादितमात्माद्वैतविज्ञानमुपसंहरन्नाह-शिवमिति।। यत्खलु शिवं ब्रह्म सर्गगतं परिपूर्णं शान्तं निर्विकारं अजं जन्मादिरहितं शुभं अशुभसंसारनिवर्तकं बोधात्मकं विशुद्धज्ञानात्मकं तदेकभावनं तस्यैव ब्रह्मण एकमद्वैतं यद्भावनं ब्रह्मैवेदं सर्वमिति यत्परिपूर्णं भावनं तदेव जीर्णपर्णवत् कर्मणां कुट्टनहेतुत्वात्कर्मत्याग इति स्मृतः इति विधीयमानकर्मत्यागरूपापेक्षया पुंल्लिङ्गनिर्देशः। असंवेदनमसंकल्पनं तूष्णींभाव इति यन्नैष्कर्म्यं कर्म प्रकृतं तस्यायमुपसंहार इति सर्वं समञ्जसम्।।
इति संसारतरणिनाम्नि योगवासिष्ठविवरणे निर्वाणप्रकरणे सप्तभूमिकोपाख्यानं नाम पञ्चदशः सर्गः।। 15 ।।