सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ८

विकिस्रोतः तः
← सर्गः ७ लघुयोगवासिष्ठः
सर्गः ८
[[लेखकः :|]]
सर्गः ९ →

शाम्बरिकोपाख्यानम्।।
अष्टमः सर्गः।।
वसिष्ठ उवाच।।
स्वसंकल्पवशान्मूढो मोहमेति न पण्डितः।
धिया विचारधर्मिण्या मोहसंरम्भहीनया।
विचारय धिया सत्यमसत्यं हि परित्यज।।[3-8-1]
पूर्वस्मिन्सर्गान्तेऽभिहितनिर्विकल्पनिश्चयाश्रयणाय किं कर्तव्यमित्याशङ्क्य सत्यादिलक्षणब्रह्मविचारः कर्तव्य इति सोपपत्तिकमाह-स्वसंकल्पवशादित्यादिना सार्धेन।। विचार एव धर्मो धर्मवत्सदानुष्ठेयो यस्यास्तया मोहसंरम्भहीनया मोहाडम्बरहीनया धिया पण्डितो मोहं नैति।।
अबद्धो बद्ध इत्युक्त्वा किं मुधा परिशोचसि।
अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते।।[3-8-2]
अनन्ते चिद्धनानन्दे निर्विकल्पैकरूपिणि।
स्थिते द्वितीयस्याभावात्को बद्धः कश्च मुच्यते।।[3-8-3]
ननु बद्धोऽहं पाशबद्धशकुन्त इव किं कुर्यामित्यत आहअबद्ध इत्यादिना।। मुधा वृथा।।[3-8-2,3]
तस्मादुल्लासमात्रं तु मनसो बन्धतां गतम्।
मनःप्रशमने राम मोक्ष एवावशिष्यते।।[3-8-4]
वस्तुतो बन्धासंभवे फलितमाह-तस्मादिति।। मनस उल्लासमात्रं विजृम्भणमात्रम्।।
गोष्पदं योजनव्यूहः स्वासु लीलासु चेतसः।
कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम्।।[3-8-5]
ननु वस्तुतो बन्धरहितत्वे बन्धहेतुत्वं मनसः कथं संभवतीत्याशङ्क्य तदर्थं तस्य दुर्घटकारितामाह-गोष्पदमिति।। स्वासु संबन्धिनीषु लीलासु प्रवर्तमानस्य चेतसो योजनव्यूहो गोष्पदं भवति। योजनसमूहोऽपि गोष्पदवत्स्फुरतीत्यर्थः।। गोष्पदमपि योजनव्यूहो भवतीति द्रष्टव्यम्। दृश्यते हि स्वप्नादौ देशकालदैर्ध्यादिविभ्रमः।।
अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम्।
जागती हीन्द्रजालश्रीश्चित्तस्यान्तः स्थिता यथा।।[3-8-6]
अघटमानमपि घटयति मायामयं मन इत्युक्तमर्थमाख्यानमवतार्य विशदयति-अत्र ते श्रृण्वित्यादिना।। जागती जगत्संबन्धिनी चित्तस्यान्तर्यथा येन प्रकारेण संस्थिता तथा ज्ञास्यसीति सेषः।।
अस्त्यस्मिन्वसुधापीठे नानावनसमाकुलः।
उत्तरःपाण्डवो नाम स्फीतो जनपदो महान्।।[3-8-7]
तत्रास्ति लवणो नाम राजा परमधार्मिकः।
हरिश्चन्द्रकुलोद्भूतो भूमाविव दिवाकरः।।[3-8-8]
स्फीतः समृद्धो जनपदो देशः।।[3-8-7,8]
यद्यशःकुसुमोत्तसंपाण्डुरस्कन्धमण्डलाः।
सर्वे शैला विराजन्ते हाराः प्रोद्धूलिता इव।।[3-8-9]
उत्तंसः शेखरः। यथाहुः क्षीरस्वामिनः-`शेते शिरसि शेखरः। उत्तंसोऽपी'ति। यस्य लवणस्य यशांस्येव कुसुमोत्तसास्तैः पाण्डुराणि शुभ्राणि स्कन्धमण्डलानि येषां ते यद्यशःकुसुमोत्तंसास्तैः पाण्डुराणि शुभ्राणि स्कन्धमण्डलानि येषां ते यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः। प्रसिद्धं हि लोके कुसुमोत्तंसैः परागपतनात्स्कन्धमण्डलानि पाण्डुराणि भवन्तीति। प्रोद्धूलिता विमलीकृताः। दिगन्तव्याप्तकीर्तिरिति तात्पर्यार्थः।।
जिह्मतां यो न जानाति न दृष्टा येन गृध्नुता।
उदारता येन धृता वाचकेन यथाभिधा।।[3-8-10]
स कदाचित्सभास्थाने सिंहासनगतोऽभवत्।
सुखोपविष्टे तत्रास्मिन्राजनीतिविदांवरे।।[3-8-11]
जिह्मतां कापट्यम्। गृध्नुरभिकाङ्क्षाशीलस्तस्य भावो गृध्नुता। गृधु अभिकाङ्क्षायामिति धातोः `त्रसिगृधी'त्यदिना क्नुः। उदारता दातृता वा। महत्त्वं वा वाचकेन वक्त्राअभिधा अभिधानं अभिधाख्यो व्यापारो वा।।[3-8-10,11]
सभां विवेश साटोपं कश्चिन्नामेन्द्रजालिकः।
स ननाम महीपालं शिखरोदारकन्धरम्।।[3-8-12]
साटोपं ससंभ्रमम्। शिखरं श्रृङ्गं तद्वदुदारा उत्तमा कन्धरा ग्रीवा यस्य स तथोक्तः तम्।।
उवाचोत्कन्धरं भूपं स पद्ममिव षट्‌पदः।
विलोकय विभो तावदेकामिह खरोलिकाम्।
पीठस्थ एव साश्चर्यं चन्द्रोदयमिवावनौ।।[3-8-13]
उत्कन्धरं उद्गतग्रीवम्। एकां प्रधानाम्। खरोलिकामित्यत्र इन्द्रजालविद्याभ्यासो विवक्षितः।।
इत्युक्त्वा पिच्छिका तेन भ्रामिता भ्रमदायिनी।
नानाविरचनाबीजं मायेव परमात्मनः।।[3-8-14]
पिच्छिकात्र मयूरपत्रभारः। नानाविरचनाबीजं नानानिर्माणकारणम्।।
तां ददर्श महीपालस्तेजोरेणुविराजिताम्।
सभां सैन्धवसामन्तो विवेशास्मिन्क्षणे ततः।।[3-8-15]
ततः पिच्छिकादर्शनादनन्तरं अस्मिन्नेव क्षणे सैन्धवसामन्तः सिन्धुदेशीयनृपसामन्तः सभां विवेश।।
तं चैवानुजगामाश्वः सौम्यः परमवेगवान्।
सामन्तोऽश्वमुपादाय पार्थिवं समुवाच ह।।[3-8-16]
तं सामन्तमश्वश्चानुजगामेति राज्ञो भ्रान्तिर्बभूवेत्यर्थः। एवमुत्तरत्रापि ज्ञेयम्।।
इदमुच्चैश्रवप्रख्यं हयरन्तं महीपते।
प्रभुणा मम भूचक्रप्रभोः संप्रहितं तव।।[3-8-17]
राजते हि पदार्थश्रीर्महतामर्पणाच्छुभा।
इत्युक्तवति तस्मिन्स प्रत्युवाचेन्द्रजालिकः।।[3-8-18]
सदश्वमेनामारुह्य भुवनं विहर प्रभो।
अश्वमालोकयामास तेनोक्त इति भूपतिः।।[3-8-19]
अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः।
बभूवालोकयन्नश्वं लिपिकर्मार्पितो यथा।।[3-8-20]
उच्चैश्रवा इन्द्रस्याश्वस्तत्प्रख्यं तत्संकाशम्। प्रहितं संप्रेषितम्।।[3-8-17,18,19,20]
तस्थौ मुहूर्तयुग्मं तु ध्यानासक्त इवात्मनि।
ततस्ते विस्मयापन्ना ययुश्चिन्तां सभासदः।।[3-8-21]
संदेहागरे मग्नाः स्थितास्तत्र च मन्त्रिणः।
प्रशशाम सभास्थाने जनकोलाहलो महान्।।[3-8-22]
युग्मं युगलम्। सभासदः सभायां वर्तमानाः।।[3-8-21,22]
विततविस्मितजिह्मितया तया जनतया भयमोहविषण्णया।
स्तिमितचक्षुषि भूमिपतौ स्थिते मुकुलिताब्जवनस्य धृता द्युतिः।।[3-8-23]
वसिष्ठ उवाच।।
मुहूर्तद्वितयेनाथ प्रबुबोध महीपतिः।
बभूवाथ प्रबुद्धोऽसावासनोपरि कम्पितः।।[3-8-24]
पुरोगैर्धार्यमाणोऽथ पर्याकुलमतिर्नृपः।
अथैव परिपप्रच्छुः सदस्या मन्त्रिणस्तदा।।[3-8-25]
सम्यक्प्राप्तप्रबोधं तु सादरं विनयान्विताः।
मनस्ते निर्मलं कस्मात्संभ्रमेषु निमञ्जति।।[3-8-26]
मनो मोहमुपादत्ते न महत्त्वविजृम्भितम्।
अथ राजाह साश्चर्यमुन्मीलितविलोचनः।।[3-8-27]
विततं विस्मितं महान्विस्मयो यस्यां जिह्मतायां ऐन्द्रजालिककुटिलतायां सा विततविस्मितजिह्मिता तया हेतुभूतया भूमिपतौ स्तिमितचक्षुषि स्थिते सतिभयमोहाभ्यां विषण्णया दुःखितया जनतया जनसमूहेन मुकुलिताब्जावनस्य द्युतिः शोभा धृता।।[3-8-23,24,25,26,27]
इदमाश्चर्यमाख्यानं शृणुताद्य सभासदः।
पिच्छिकामहमालोक्य जाल्मेन भ्रामितामिमाम्।।[3-8-28]
जाल्मेनासमीक्ष्यकारिणा। `जाल्मोऽसमीक्ष्यकारी स्यादि'त्यमरः।।
अश्वमारूढवानेनामात्मना भ्रान्तचेतसा।
गन्तुं प्रवृत्तो मृगयामेकोऽहमतिरंहसा।।[3-8-29]
अतिरंहसा अतिवेगेन।।
अनेनातिविलोलेन दूरे नीतोऽस्मि वाजिना।
भोगाभ्यासजडेनाज्ञो मुग्धः स्वमनसा यथा।।[3-8-30]
भोगाभ्यासेन वैषयिकसुखानुभववृत्त्या जडं ततोऽन्यपुरुषार्थानभिज्ञं भोगाभ्यासजडं तेनाज्ञोऽनात्मज्ञः। मुग्धः पशुवल्लौकिकप्रज्ञयापि हीनः।।
ततः प्रलयनिर्दग्धजगदास्पन्दभीषणम्।
निःपक्षि स्फारनीहारं निर्वृक्षमजलं महत्।
संप्राप्तोऽहमपर्यन्तमरण्यं श्रान्तवाहनः।।[3-8-31]
स्फारो भूरिर्नीहारस्तुषारो यस्मिन्नरण्ये तत्तथोक्तम्।।
तदरण्यमथासाद्य मतिर्मे खेदमागता।
आसूर्यान्तं दिनं तत्र प्रक्रान्तं सीदता मया।।[3-8-32]
आसूर्यान्तम् सूर्यास्तमपर्यन्तमित्यर्थः। प्रक्रान्तं प्रकर्षेणाटितम्।।
तदरण्यमथातीतमतिकृच्छ्रेण खेदिना।
विवेकिनेव संसारं प्राप्तवानथ जाङ्गलम्।।[3-8-33]
जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः।
यत्र स्फुरन्ति खण्डेषु पान्थानामिव बान्धवाः।।[3-8-34]
जाङ्गलं वनविशेषः।।[3-8-33,34]
तत्र जम्बीरखण्डस्य तलं संप्राप्तवानहम्।
आलम्बिता मया तत्र स्कन्धसंसर्गिणी लता।।[3-8-35]
मयि प्रलम्बमानेऽस्यां प्रयातः स तुरंगमः।
गङ्गावलम्बिनि नरे यथा दुष्कृतसंचयः।।[3-8-36]
चिरदीर्घाध्वगः खिन्नस्तत्र विश्रान्तवानहम्।
तत्र कल्पसमा रात्रिर्मोहमग्नस्य मे गता।।[3-8-37]
जम्बीरो दन्तशठाख्यो वृक्ष-। लता शाखा। `लता शाखा च शाखिनामि'त्यभियुक्तवचनात्।।[3-8-35,36,37]
न स्नातवान्नार्चितावान्न तदा भुक्तवानहम्।
केवलं तु गता रात्रिः सापदां धुरि तिष्ठतः।।[3-8-38]
सा रात्रिः। सापदामित्येकं पदं वा। धुरि भारे।।
सह शीतार्तमद्दन्तपङ्क्तिटाङ्कारशीत्कृतैः।
सार्धं तिमिरसंघातैः सा व्यतीयाय शर्वरी।।[3-8-39]
शीतार्तमद्दन्तपङ्क्तिटाङ्कारशीत्कृतैः शीतार्तस्य मम दन्तपङ्क्तौ ये टाङ्काराः यानि च शीत्कृतानि सीत्कारास्तैः सह तिमिरसंघातैश्च सार्धं शर्वरी रात्रिर्व्यतीयाय व्यतिक्रान्ताभूत्।।
प्रवृत्तस्तामहं स्फारां संप्रवृत्तस्ततः स्थलीम्।
न किंचिद्दृश्यते तत्र भूतं जरठजङ्गले।।[3-8-40]
भूतं प्राणिजातम्। जरठजङ्गले जीर्णवनर्विशेषे।।
अभिजातो गुणलवो यथा मूर्खशरीरके।
केवलं विगताशङ्कं खण्डभ्रमणचञ्चलाः।।[3-8-41]
स्वण्डभ्रमणमसकलभ्रमणम्।।[3-8-41]
चीचीकुचीति वचना विहरन्ति विहंगमाः।
अथाष्टभागमापन्ने व्योम्नो दिवसनायके।।[3-8-42]
चीचीकुचीति शब्दानुकारः। त्रिंशद्भागस्य व्योम्नोऽष्टभागं देशं दिवसनायके रवावापन्ने प्राप्ते सतीत्यर्थः।।
दृष्टा मया प्रभ्रमता दारिकौदनधारिणी।
तरतारकनेत्रां तां स्यामामधवलाम्बराम्।।[3-8-43]
अहमभ्यागतस्तत्र शर्वरीमिव चन्द्रमाः।
मह्यमोदनमाश्वेतद्बाले बलवदापदि।।[3-8-44]
दारिका बालिका तारकाकनीनिका नेत्रमध्यस्थकृष्णमणुलक्षणम् तरतारके परिभ्रमत्कनीनिके नेत्रे यस्याः सा तथोक्ता।।[3-8-43,44]
देहि दीनार्तिहारिण्यः स्फारितां यान्ति संपदः।
क्षुदन्तर्महतीयं मे बाले वृद्धिमुपेयुषी।।[3-8-45]
याञ्चयापि तया मह्यमित्थं दत्तं न किंचन।
यत्नप्रार्थितया लक्ष्म्या यता दुष्कृतिने धनम्।।[3-8-46]
स्फारितां भूरिताम् उपेयुषी उपगता।।[3-8-45,46]
केवलं चिरकालेन मय्यत्यन्तानुगामिनी।
खण्डात्खण्डे निपतति छायाभूते पुरः स्थिते।।,3-8-47]
खण्डाद्वृक्षादीनां समूहादन्यखण्डे निपततीति सप्तमी।।
तयोक्तं हारकेयूरीं चण्डालीं विद्धि मामिति।
राजन्याचनमात्रेण मत्तो नाप्नोषि भोजनम्।।[3-8-48]
हारकेयूरीति नाम।।
इत्युक्तवत्या गच्छन्त्या चलन्त्या च पदे पदे।
कुञ्जकेषु निषञ्जन्त्या लीलावनितयोदितम्।।[3-8-49]
कुञ्जकेषु निकुञ्जकेषु फलादिजिघृक्षया निषज्जन्त्या नितरां सङ्गं कुर्वन्त्या। गुञ्जकेष्विति क्वचित्। तत्र स्वकण्ठगतेषु बाह्येषु वा गुञ्जाफलेष्वित्यर्थः।।
ददामि भोजनमिदं भर्ता भवसि चेन्मम।
वाहयत्यत्र मे दान्तावुद्दाले पुक्कसः पिता।।[3-8-50]
तस्येदमन्नं भवति भर्तृत्वे दीयते स्थिते।
प्राणैरपि हि संपूज्या वल्लभाः पुरुषाः यतः।।[3-8-51]
अथोक्ता सा मया भर्ता भवामि तव सुव्रते।
केनापदि विचार्यन्ते वर्णजातिकुलक्रमाः।।[3-8-52]
दान्तौ दमयुक्तौ शिक्षितौ बलीवर्दौ। उद्दाले हलेनाकृष्टे क्षेत्रे भवतीति स्तमी।।[3-8-50,51,52]
ततस्तयोदनादर्धं मह्यमेकं समर्पितम्।
जम्बूफलरसः पीतः स भुक्तः पक्कणौदनः।।[3-8-53]
विश्रान्तं च मया तत्र मोहापहृतचेतसा।
मां हस्तेनाथ सादाय प्राणं बहिरिव स्थितम्।।[3-8-54]
पक्कणशब्देन शबरालयवाचिना पुक्कसगृहं लक्ष्यते।।[3-8-53,54]
दुराकृतिं दुराचारमाससाद भयप्रदम्।
पितरं पीरवराकारमवीचिमिव यातनाम्।।[3-8-55]
पीवराकारं पीनाकृतिम्। अवीचिर्नरकविशेषः।।
तयाहमनुषङ्गिण्या मातङ्गाय निवेदितः।
अयं मम भवेद्भर्ता तात हे तव रोचताम्।।[3-8-56]
मातङ्गश्चण्डालः। `चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः।।
स तस्या बाढमित्युक्त्वा दिनान्ते समुपस्थिते।
मुमोच दान्तावाबद्धौ कृतान्तः किंकराविव।।[3-8-57]
बाढमित्यव्ययमङ्गीकारे।।
नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितास्विव।
वेतालबन्धनात्तस्माद्दिनान्ते चलिता वयम्।।[3-8-58]
नीहाराभ्रकडारासु नीहाराभ्राणि तुषारवर्षाणि संध्याभ्राणि तैः कडारासु कपिलासु। `कडारः कपिलः पिङ्ग' इत्यमरः। दिक्षु प्रोद्धूलितास्विव सतीषु चलिता इति संबन्धः। वेताला बध्यन्तेऽस्मिन्निति वेतालबन्धनं वेतालस्थानं वनं तस्मात्।।
क्षणेन पक्कणं प्राप्ताः संध्यायां दीर्घजङ्गलात्।
विकर्तितवराहाश्वकपिकुक्कुटवायसम्।
शोषार्थप्रसृतार्द्रान्त्रतन्त्रीजालपतत्खगम्।।[3-8-59]
जङ्गलं वनविशेषः। पक्कणस्य लक्षणया पुक्कसालयस्य त्रीणि विशेषणानि विकर्तितेत्यादीनि। विकर्तिता विविधं छेदिता वराहादयो यस्मिन्स तथोक्तस्तम्। आन्त्राण्यत्र शिराः। शोषणार्थं प्रसृतार्द्रान्त्रतन्त्र्यस्तासां जाले पतन्तः खगाः पक्षिणो यस्मिन्स तथोक्तस्तम्।।
बालहस्तस्थितक्रव्यपिण्डक्कणितमक्षिकम्।
संभ्रमोपहितानल्पकदलीदलखण्डकम्।।[3-8-60]
क्रव्यमामिषम्। `पललं क्रव्यमामिषमि'त्यमरः। बालहस्तस्थितेषु क्रव्यपिण्डेषु क्वणिता ध्वनिता मक्षिका यस्मिन्स तथोक्तस्तम्।।
अहमास्थितवांस्तत्र नवे श्वशुरमन्दिरे।
श्वश्र्व मे केकराक्ष्या तु तेनासृङ्मयचक्षुषा।।[3-8-61]
जामातायमिति प्रोक्तं तया तदभिनन्दितम्।
बहुनात्र किमुक्तेन कस्मिंश्चिद्दिवसे ततः।।[3-8-62]
उपहितं उपक्षिप्तम्। केकराक्षीति नाम।।[3-8-61,62]
दत्ता च तेन सा मह्यं कुमारी भयदायिनी।
सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना।।[3-8-63]
कृष्णवर्णेन तेनेति पूर्वेणान्वयः।।
सरभसमभितो विनेदुरत्र प्रसृतमहामदिरासवाः श्वपाकाः।
हतपटुपटहा विलासवन्तः स्वयमिव दुष्कृतराशयो महान्तः।।[3-8-64]
राजोवाच।।
ततः प्रभृति तत्राहं संपन्नः पुष्टपुक्कसः।
सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टकं गतम्।।[3-8-65]
सरभसं ससंभ्रमं सवेगं वा। अभितः उभयतः। विनेदुः विशिष्टं नादं चक्रुः। मदिरा च आसवाश्च मदिरासवाः प्रसृताः आस्याद्विगलिता महान्तो मदिरासवा येषां ते तथोक्ताः। आसवाः सुरामदिराः। अन्नस्वादुरसा सुरा। यथाहुः क्षीरस्वमिनः-`स्वादुरसा मदिरे'ति। श्वपाकाः श्वपचाः।।[3-8-64,65]
पुष्पिता सापि संपन्ना स्थिता गर्भवती ततः।
प्रासूत दुःखदां कन्यां विपद्दुःस्वक्रियामिव।।[3-8-66]
पुष्पिता संपन्ना रजस्वला जाता।।
सा कन्या ववृधे शीघ्रं मूर्खे चिन्तेव पीवरी।
पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम्।।[3-8-67]
पीवरी पीना।।
अनर्थमिव दुर्बुद्धिराशापाशविधायकम्।
पुक्कसी सा प्रसूताथ पुनरप्यर्भकं ततः।।[3-8-68]
दुष्टा चासौ बुद्धिश्चेति दुर्बुद्धिः आशा एव पाशा बन्धनहेतुत्वात्तेषां विधायकमुत्पादकं आशापाशविधायकम्।।
तया सह समास्तत्र मम बह्व्योऽतिवाहिताः।
शीतवातातपक्लेशविवशेन दशान्तरे।।[3-8-69]
कलत्रचिन्ताहतया धिया संदह्यमानया।
दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव।।[3-8-70]
समाः संवत्सरान्। दशान्तरे कालावस्थाभेदे। दशान्तरे शीतवातातपक्लेशविवशेनेति संबन्धः।।[3-8-69,70]
अथ गच्छति काले तु जराजर्जरितायुषि।
तृणोत्थदहनज्वालासमश्मश्रुधरे मयि।।[3-8-71]
तृणोत्थेति।। तृणोत्पन्नाग्निज्वाला हि श्वेता भवति।।
तत्र दुर्भिक्षमासीच्च परिशुष्कतृणं महत्।
अकाण्डमरणोड्डीनचण्डचण्डालमण्डलम्।।[3-8-72]
अकाण्डमनवसरो दुर्भिक्षकालस्तत्प्रयुक्तं मरणं काण्डमरणं तस्मान्निमित्तात् उड्डीनमुद्गतं चण्डमतिकोपनम्। `चण्डस्त्वत्यन्तकोपन'इत्यमरः। अकाण्डमरणोड्डीनं च तच्चण्डचण्डामण्डलं चेति विग्रहः।।
निरन्नतृणपत्राम्बु विन्ध्यकक्षं तदा ययौ।
न वर्षति घनव्राते दृष्टनष्टे क्वचिज्जने।।[3-8-73]
विन्ध्यकक्षं विन्ध्यपर्वतस्योदकबहुलप्रदेशम्। `उदप्रायमनूपं स्यात्पुंसि कच्छस्तथाविध'इत्यमरः।।
प्रौढाङ्गारगणे व्योम्नि गतौ वहति मारुते।
अकाण्डमभवद्भीममुद्दामदवपावकम्।।[3-8-74]
अकाण्डमनवसरो दुर्भिक्षकालः। कीदृशं तदकाण्डमित्यत आह-भीममित्याहि।। उद्दामो विबन्धनो दवपावको वनाग्निर्यस्मिंस्तुदुद्दामदवपावकम्।।
शोषिताशेषगहनं भस्मशेषतृणोलपम्।
तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये।।[3-8-75]
उलपं लता। `लता प्रतानिनी वीरद्गुल्मिन्युलपमित्यपी'त्यमरः। भस्मशेषाणि तृणोलपानि यस्मिंस्तत्तथोक्तम्। विधिविपर्यये भाग्यवैपरीत्ये।।
जनाः केचिद्विनिष्क्रम्य गतास्ते ससुहृज्जनाः।
शीर्णाः केचन तत्रैव प्रविष्टा अनलं परे।
केचिच्छ्वभ्रेषु पतिताः केऽपि जाता मुमूर्षवः।।[3-8-76]
श्वभ्रेषु विवरेषु।।
अहं कलत्रमादाय कृच्छ्रात्तस्माद्विनिर्गतः।
सार्धं त्रिभिरपत्यैस्तु तया च सहितः शनैः।।[3-8-77]
कृच्छ्रादायासात्।।
प्राप्य तद्देशपर्यन्तं तत्र तालतरोस्तले।
अवरोप्य सुतान्स्कन्धात्ताननर्थानिवोल्बणान्।।[3-8-78]
विश्रान्तोऽस्मि ततस्तत्र रौरवादिव निर्गतः।
अथ चण्डालकन्यायां विश्रान्तायां तरोस्तले।।[3-8-79]
उल्वणान्प्रव्यक्तान्। `स्फुटं प्रव्यक्तमुल्बममि'त्यमरः।।[3-8-78,79]
सुप्तायां शीतलच्छाये द्वौ समालिङ्ग्य दारकौ।
पृच्छको नाम तनयो ममैष पुरतः स्थितः।।[3-8-80]
अत्यन्तं वल्लभोऽस्माकं कनीयान्मुग्धवागिति।
स मामुवाच दीनात्मा बाष्पपूरितलोचनः।।[3-8-81]
तात देह्याशु मे मांसं पातुं च रुधिरं क्षणात्।
पुनः पुनर्वदन्नेवं स बालस्तनयो मम।।[3-8-82]
प्राणान्तिकीं दशां प्राप्तः साक्रन्दो हि पुनः पुनः।
तस्य तामार्तिमालोक्य मया दुःखातिभारिणा।।[3-8-83]
दारकौ बालकौ। `दारकौ बालबेदकावि'त्यमरः।।[3-8-80,81,82,83]
सोढुं तामापदं तीव्रामशक्तेन हतात्मना।
मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया।।,3-8-84]
तत्र काष्ठानि संचित्य चितामाचितवानहम्।
चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी।।[3-8-85]
तस्यां तु यावदात्मानं चितायां निक्षिपाम्यहम्।
चलितोऽस्मि जवात्तावदस्मात्सिंहासनान्नृपः।
ततस्तूर्यनिनादेन जयशब्देन बोधितः।।[3-8-86]
अतिमित्राय कालोचितबन्धवे।।[3-8-84.85,86]
इति शाम्बरिकेणायं मोह उत्पादितो मम।
अज्ञानेनेव जीवस्य दशाशतसमन्वितः।।[3-8-87]
इत्युक्तवति राजेन्द्रे लवणे भूरितेजसि।
अन्तर्धानं जगामासौ तत्र शाम्बरिकः क्षणात्।।[3-8-88]
अत्रेदमूचुस्ते सभ्या विस्मयोत्फुल्ललोचनाः।
नायं शाम्बरिको देव यस्य नास्ति धनैषणा।।[3-8-89]
शाम्बरिकेण ऐन्द्रजालिकेन।।[3-8-87,88,89]
दैवी काचन मायेयं संसारस्थितिबोधिनी।
मनोविवर्तः संकार इति यस्यां प्रतीयते।
सर्वशक्तेरनन्तस्य विलासो हि मनो जगत्।।[3-8-90]
इति श्रीयोगवासिष्ठे मोक्षोपाये साम्बरिकोपाख्यानं नाम अष्टमः सर्गः।। 8 ।।
मनोविवर्तत्वाज्जगतो मनो जगदिति सामानाधिकरण्यमुपपन्नम्।।
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादश्रीमदात्मसृखकृतौ वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणे शाम्बरिकाख्यानं नाम अष्टमः सर्गः।। 8 ।।