लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ७
← सर्गः ६ | लघुयोगवासिष्ठः सर्गः ७ [[लेखकः :|]] |
सर्गः ८ → |
बालकाख्यायिकोपाख्यानम्।।
सप्तमः सर्गः।।
वसिष्ठ उवाच।।
प्रबुद्धानां मनो रम ब्रह्मैवेदं हि नेतरत्।
सर्वशक्ति परंब्रह्म नित्यमापूर्णमव्ययम्।।[3-7-1]
अतीतसर्गान्ते `मनोबन्धनमायाति कोशकारकृमिर्यर्थ'ति दृष्टान्तोपादानान्मनसस्त्यक्तव्याभिधानाच्चासतस्त्यागायोगात्तस्य सत्यत्वं प्राप्तं, तत्सत्यत्वे च तद्विकारस्य जगतः सत्यत्वमिति सर्वस्य द्वैतस्य सत्यत्वमाशङ्क्य तस्य बालकाख्यानच्छलेन तुच्छत्वं प्रदिपादयितुं प्रस्तावयति-प्रबुद्धानामित्यादिना।। प्रबुद्धानां ब्रह्मविदां इदं जगदाकारेण विजृम्भमाणं मनो ब्रह्मैव न ततोऽन्यदनन्यद्वा, किं तर्हि तुच्छमेवेत्यर्थः। मनो ब्रह्मेति बाधायां सामानाधिकरण्यम्। हिशब्दः शून्यादिप्रसिद्धद्योतनार्थः। कुतो मनआदेर्ब्रह्मतावन्मात्रत्वमित्याशङ्क्य तत्कारणत्वात्तस्य तन्मात्रत्वं युक्तमित्याह-सर्वशक्तीति।। सर्वस्मिन्मनआदौ कार्ये शक्तिर्मायाख्या यस्य तत्तथोक्तम्। सर्वाः शक्तयः सर्वकार्यविषया यस्मिन्निति वा। अव्ययमपक्षयरहितम्।।
न तदस्ति न तस्मिन्यद्विद्यते विततात्मनि।
ययोल्लसति शक्यासौ प्रकाशं सोऽधिगच्छति।।[3-7-2]
ननु विचित्रपदार्थानां मध्ये कस्यचिदब्रह्मकार्यस्यापि संभवात्कथं सर्वस्य ब्रह्मतावन्मात्रत्वमित्यत आह-न तदस्तीति।। विततात्मनि तस्मिन्नधिष्ठाने यत्कार्यं न विद्यते तन्न सर्वशक्ति परंब्रह्मेत्यत्र याः सर्वाः शक्तयो ब्रह्मनिष्ठतयाभिहितास्तास्तत्कार्येष्वस्पष्टमुपलभ्यन्त इत्याह-ययोल्लसति शक्त्येत्यादिना।। असौ परमात्मा स्वाश्रयाणामनेक-शक्तिनां मध्ये यया शक्त्योल्लसति विवर्तते।।
चिच्छक्तिर्ब्रह्मणो राम शरीरेषूपलभ्यते।
स्पन्दशक्तिश्च वातेषु दार्ढ्यशक्तिस्तथोपले।।[3-7-3]
सा शक्तिः कुत्रोपलभ्यत इत्यत आह-चिच्छक्तिरित्यादिना।। उपले पाषाणे।।
द्रवशक्तिरथोऽम्भःसुः दाहशक्तिस्तथानले।
शून्यशक्तिस्तथाकाशे नाशशक्तिर्विनाशिनि।।[3-7-4]
शून्यशक्तिरमूर्तनिष्पादनशक्तिः।।
यथाण्डान्तर्जले बर्हिः सर्वोऽस्तीदं तथात्मनि।
फलपत्रलतापुष्पशाखाविटपमूलवान्।
वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम्।।[3-7-5]
सर्वं द्वैतजातं प्रलयकालेऽनभिव्यक्तनामरूपतया ब्रह्मण्येव वर्तते। उत्पत्तिकाले प्राप्ते अण्डान्तर्जलाद्बर्हिरिव तस्मादेव मायाविनः क्रमेण विजृम्भते। तत्रापि दृष्टेरेव सृष्टित्वान्मनआदिक्रमेणैव विजृम्भते। तच्च मनआदिकं द्वैतमविचारदशायां बालकोपलालनायोक्तोऽसमञ्जसकथार्थ इव सत्यवत्प्रतीयमानमपि तत्त्वनिरूपणे तुच्छमेवेत्येतदर्थजातमाह-फलपत्रेत्यादिना।। लता कोमलशाखा। अत्र विटपशब्देनापुनरुक्ततायै वृक्षस्कन्धो गृह्यते।।
क्वचित्कच्चित्कदाचिच्च तस्मादुद्यन्ति शक्तयः।
देशकालविचित्रत्वात्क्ष्मातलादिव शालयः।।[3-7-6]
क्वचिदिति।। तस्माद्ब्रह्मण उद्यन्ति कार्यरूपेण प्रकाशन्त इत्यर्थः। क्ष्मातलाद्भूतलात्।।
स आत्मा सर्वगो राम नित्योदितमहावपुः।
यन्मनाङ्मननीं शक्तिं धत्ते तन्मन उच्यते।।[3-7-7]
स आत्मा सर्वगो रामेति।। नित्योदितमहावपुः सर्वदा स्वयं भाति पूर्ण आत्मा यद्यदा मनागीषन्मननीं मननवतीं शक्तिं धत्ते। विवर्तमानमननाच्छक्त्यवच्छिन्नो भवतीति यावत्। तत्तदा मन उत्युच्यते।।
आदौ मनस्तदनु बन्धविमोक्षदृष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाना।
इत्यादिका स्थितिरियं हि गता प्रतिष्ठमाख्यायिका सुभगबालजनोदितेव।।[3-7-8]
आदौ मन इति समष्टिरूपं विविक्षितम्। तदनु तदनन्तरं बन्धविमोक्षदृष्टी बन्धमुक्तिज्ञाने उत्पद्येते। तयोरनुत्पत्तौ भोगापवर्गार्थं सृष्ट्यसंभवप्रसङ्गात्। स्मर्यते भोगापवर्गार्थे सृष्टिः-`बुद्धीन्द्रियमनःप्राणाञ्जनानामसृजद्विभुः। मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च' इति। आदिशब्देन चित्तादिर्गृह्यते। सुभगेति संबोधनम्, एकं पदं वा। सुभगबालजनाय सुश्रीकबालजनायोदिताख्यायिकावदित्यादिका द्वैतस्थितिः प्रतिष्ठामचलतयावस्थितिं गता। अविचारकारणाद्दृढसत्यबुद्धिविषयतां प्राप्तेत्यर्थः।।
श्रीराम उवाच।।
किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः।
क्रमेण कथयैतन्मे मनोवर्णनकारणम्।।[3-7-9]
किमुच्यत इत्यादय आसर्गसमाप्तेः श्लोकाः स्पष्टार्थाः। क्वचित्किंचिद्विविच्यते-मनोवर्णनकारणमिति।। सविलासं मनः तुच्छमपि विचारोज्झितचेतसां सत्यवत्प्रतीयत इत्येवंविधस्य मनोवर्णनस्य मनःस्वरूपबोधनस्य कारणम्।।
वसिष्ठ उवाच।।
कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव।
कांचिद्विनोदिनीं वार्तां धात्रि संकथयाशु मे।।[3-7-10]
सा बालस्य विनोदाय धात्री तस्य महामते।
अख्यायिकां कथयति प्रसन्नमधुराक्षराम्।।[3-7-11]
धात्रीं उपमातरम्। कथय वद।।[3-7-10,11]
क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः।
धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने।।[3-7-12]
द्वौ न जातौ तथैकस्तु गर्भ एव हि न स्थितः।
अथाप्युत्तमलाभार्थमेकदा ते शुभास्त्रयः।।[3-7-13]
असमञ्जससमत्वसिद्ध्यर्थं पत्तनं विशिनष्टि। अत्यन्तासति तुच्छ इत्यर्थः।।
स्वकीयाच्छून्यनगरान्निर्गता विमलाशयाः।
गच्छन्तो गगने वृक्षान्ददृशुः फलशालिनः।।[3-7-14]
तेषु विश्रम्य विश्रम्य भुक्त्वा स्वादु च तत्फलम्।
ययुः सुखं विलासेन ते त्रयो राजसूनवः।।[3-7-15]
आशयोऽभिप्रायः।।
सरित्रितयमासेदुस्ततः कल्लोलमालितम्।
तत्रैका परिशुष्कैव मनागप्यम्बु न द्वयोः।।[3-7-16]
आसेदुराजग्मुः। कल्लोला ऊर्मयस्तैर्मालितं संजातमालम्। मालाकारैः कल्लोलैर्युक्तमित्यर्थः। मनागीषदपि।।
परिशुष्का भृशं यासौ तस्यां ते सस्नुरादृताः।
चिरं कृत्वा जलक्रीडां पीत्वा क्षीरोपमं पयः।।[3-7-17]
सस्नुः स्नातवन्तः। पयो जलम्।।
अथासेदुर्दिनस्यन्ते भविष्यन्नगरं त्रयः।
दूरश्रुतसमुल्लापं खेलन्नागरमण्डलम्।।[3-7-18]
ददृशुस्तत्र रम्याणि त्रीण्यथो भवनानि ते।
एक निर्भित्ति निस्तम्भमनुत्पन्नं गृहद्वयम्।।[3-7-19]
अभित्ति मन्दिरं चारु प्रविष्टास्ते नृपात्मजाः।
प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम्।।[3-7-20]
समुल्लापो मिथ उच्चैर्भाषणम्। दूराच्छ्रुतः समुल्लापो यस्य तत्तथा दूरश्रुतसमुल्लापम्। खेलन्नागरमण्डलं क्रीडन्नगरभवप्राणिजातं तादृशं मण्डलजातं यस्मिन्नगरे तत्तथोक्तम्।।[3-7-18,19,20]
तत्र खर्परतां याते द्वे एका चूर्णतां गता।
जगृहुश्चूर्णतां यातां स्थालीं ते शुद्धबुद्धयः।।[3-7-21]
खर्परतां कपालताम्।।
तस्यां द्रोणत्रयं पक्वं न्यूनं द्रोणत्रयेण तु।
अन्धस्ततो द्विजैर्भुक्तं निर्मुक्तैर्बहुभोजिभिः।।[3-7-22]
विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः।
भविष्यन्नगरे तस्मिन्राजपुत्रास्त्रयो हि ते।।[3-7-23]
सुखमेव स्थिताः पुत्र मृगयाव्यवहारिणः।
धात्र्येति कथिता राम बालकाख्यायिका शुभा।।[3-7-24]
निश्चयं स ययौ बालो निर्विचारणया धिया।
एषा हि कथिता राम बालकाख्यायिका तव।।[3-7-25]
अष्टाढको द्रोण इत्युच्यते। तथाचोक्तम्-`पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम्। चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्।। अष्टाढको भवेद्द्रोणो द्विद्रोणः शूर्प उच्यते' इति। क्वचिद्देशे चतुराढको द्रोण इति व्यवहारः। राजपुत्रैर्यद्द्रोणत्रयं पक्वं तद्द्रोणत्रयेणैव न्यून्।।[3-7-22,23,24,25]
इयं संसाररचना विचारोज्झितचेतसाम्।
बालकाख्यायिका चेत्थमवस्थितिमुपागता।।[3-7-26]
बालकाख्यायिका चेत्थमिति।। इत्थं बालकाख्यायिका चेति संबन्धः।।
संकल्पजालकलनैव जगत्समग्रं संकल्पजालकलनात्तु मनोविलासः।
संकल्पमात्रमलमुत्सृज निर्विकल्पमाश्रित्य निश्चयमवाप्नुहि राम शान्तिम्।।[3-7-27]
इति श्रीयोगवासिष्ठसारे मोक्षोपाय उत्पत्तिप्रकरणे बालकाख्यायिकोपाख्यानं नाम सप्तमः सर्गः।। 7 ।।
संकल्पेति।। समग्रं जगत्संकल्पजालकलनैव। संकल्पपुञ्जभ्रान्तिरेवेत्यर्थः। संकल्पजालकलनेति किमुच्यते तत्राह-संकल्पजालकलनात्त्विति।। फलितमाह-संकल्पमात्रमिति निर्विकल्पवस्त्वाकारम्। यद्वा निर्विकल्पं निःसंशयं निश्चयं ब्रह्मात्मविषयम्। शान्तिं संसारोपरतिम्।।
इति श्रीमत्परमहंसपरिव्राजकाकार्योत्तमसुखपूज्यपादशिष्यश्रीमदात्मसुखकृतौ वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणे बालकाख्यानं नाम सप्तमः सर्गः।। 7 ।।