लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ९
← सर्गः ८ | लघुयोगवासिष्ठः सर्गः ९ [[लेखकः :|]] |
लवणोपाख्यानम्।।
नवमः सर्गः।।
वसिष्ठ उवाच।।
यत्कृतं मनसा नाम तत्कृतं विद्धि राघव।
यत्त्यक्तं मनसा तावत्तत्त्यक्तं विद्धि राघव।।[3-9-1]
एवं नानाख्यानैः परमात्माश्रयमायाविवर्तभूतमनोबिलासात्मकं द्वैतानर्थजातं मिथ्या तदधिष्ठानं ब्रह्मात्मतत्त्वमेव सत्यमिति प्रतिपादितम्। इदानीमेवं प्रतिपादनादुत्पन्नापि ब्रह्मात्मतत्त्वप्रतीतिश्चित्तैकाग्र्याभावादनुभवपर्यवसायिनी न भवति यतोऽतस्तदैकाग्र्यसिद्ध्यर्थं तस्य बाह्यवृत्तिनिरोधः कर्तव्य इति तत्र तत्र प्रतिपादितमपीह विशेषतः प्रतिपादयितुमाह-यत्कृतमिति।। नामशब्दः प्रसिद्धौ।।
यस्याचपलतां यातं मनो मननवर्जितम्।
अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ।।[3-9-2]
अचपलतामचञ्चलताम्। अचपलतायास्तत्त्वमेवाह-मननवर्जितमिति। संकल्पादिवर्जितमित्यर्थः। असौ पुमाननुत्तमपदेन सर्वोत्तमोपायेन ध्यानेन चित्तस्य चिन्मात्रशेषतालक्षणेनानुगतोऽन्वितो भवति। अतो महाफलत्वान्मनसोऽचापल्यं संपादनीयमित्यर्थः।।
संयमान्मनसः शान्तिमेति संसारविभ्रमः।
मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः।।[3-9-3]
ननु ध्यानफलेनापि मनसश्चापल्येन संसारान्मुमुक्षोः किं भवेत्तत्राह-संयमादिति।। अस्पन्दतामिति छेदः।।
मनसो वृत्तयो या या भोगसंकल्पविभ्रमाः।
संसारविषवृक्षाणां ता एवाङ्कुरपङ्क्तयः।।[3-9-4]
शब्दाद्याकाराणां चित्तवृत्तीनां सांसारिकदेहशतहेतुताप्रदर्शनपूर्वकं तन्निरोधोपायमाह-मनसो वृत्तय इत्यादिश्लोकत्रयेण।। भोगा विषयसंकल्पा वृत्तयः शब्दादिवृत्तयः शब्दादिविषयास्ता एवेत्यन्वयः।।
अस्य चित्तमहाव्याधेश्चिकित्सायां परौषधम्।
स्वायत्तं शृणु वक्ष्यामि सुसाध्यं स्वादु निश्चितम्।।[3-9-5]
औषधस्य परत्वमेव साधयति-स्वायत्तमित्यादिना।। लोके किंचिदौषधं सहायं विना स्वेनैव साधयं न भवति। नेदं तथेत्याह-स्वायत्तं स्वाधीनम्। स्वेनैव साधयमिति यावत्। स्वाधीनमपि किंचिद्दुःसंपादमस्ति, नेदं तथेत्याह-सुसाध्यमिति।। स्वायत्तं सुसाध्यमप्युपयोगकाले किंचिदौषधं सुस्वादु न भवति नेदं तथेत्याह-स्वाद्विति। एवंविधमपि किंचिदौषधमनैकान्तिकफलं नेदं तथेत्याह- स्वाद्वितमिति। फलतो निर्णीतमित्यर्थः।।
त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः।
जितमेव मनस्तेन बाह्यं प्रसरमुज्झता।।[3-9-6]
अभिमतमिष्टं वस्तु त्यजन्निरामयः पश्चात्तापरहित इत्यर्थः। बाह्यं प्रसरं मनसो बाह्यविषयेषु संचारमुज्झता त्यजता।।
स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम्।
यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम्।।[3-9-7]
इष्टविषयत्यागे प्रोक्साहजननाय तमकुर्वाणं निन्दति-स्वायत्तमिति।। एकान्तहितं नियमेव हितम्। कदाचिदप्यहितं न भवतीत्यर्थः। स्वेप्सितत्यागः स्वेष्टविषयत्यागः स एव वेदनं वेदनोपायत्वात्।।
शास्त्रसंगमतीक्ष्णेन चिन्ततातप्तमतापिना।
छिन्धि त्वमायसेनायो मनसैव मुने मनः।।[3-9-8]
इष्टवस्तुत्यागो नाम जयोपायश्चेत्तर्हि तत्त्यागस्य क उपाय आह-शास्त्रेति।। शास्त्रसंगमोऽध्यात्मशास्त्रश्रवणादिः। यद्वा संगमः साधुसंगतिः। यथा लोहकारोऽग्नितप्तमयस्तद्विपरीतेन शस्त्रसंबन्धी घर्षणपाषाणादिस्तत्संगमेनाधारेण छेदनदक्षेण आयसा छिनत्ति तद्वद्योगक्षेमचिन्ताभिस्तप्तमविवेकिमनोऽतापिना चिन्ताभिरसंक्षुब्धेन विवेकशालिमनसा छिन्धि।।
स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा।
मनःप्रशममात्रेण विना नास्ति शुभा गतिः।।[3-9-9]
मनोनिग्रहं विनापि पुरुषार्थप्राप्तिमाशङ्क्याहस्वेति।। स्वेप्सितत्यागसाध्यत्वादुपचारात्स्वेप्सितत्यागरूपिणा।।
सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा।
असंकल्पनशस्त्रेण छिन्नं चित्तं गतं यदा।।[3-9-10]
कासौ शुभा गतिरित्यत आह-सर्वमिति।। संकल्पनं शोभनाशोभनाधअयासलक्षणं तदभावोऽसंकल्पनं तदेव शस्त्रं तेन संकल्पशब्दितशोभनाशोभनाध्यासाभ्यां हि रागद्वेषावुत्पद्येते तत्त्यागे तयोरनुदयाच्चित्तं जितमेव भवतीत्यसंकल्पनमेव शस्त्रमित्युक्तम्।।
तां महापदवीमेकां कामप्यधिवसंश्चिरम्।
चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव।।[3-9-11]
मनोनिग्रहं विना शुभगतेरभावे तदर्थं तन्निग्रहः कार्य इत्याह-ता महापदवीमित्यादिश्लोकत्रयेण।। महापदवीति ब्रह्मोच्यते। सा हि महापदवी यस्यामनन्ता जीवा युगपदेवासंबाधं संचरन्ति। कामप्यर्क्यामित्यर्थः। अधिवसन्नधिरुह्य वसन्। तस्यां मनो धारयन्नित्यर्थः। चिद्भक्षितं चिन्ताग्रस्तं चित्तं चिन्मात्रशेषं कृत्वेत्यर्थः।।
भव भावनया मुक्तो युक्तः परमया धिया।
धारयात्मानमव्यग्रो ग्रस्तं चित्तं ततः परम्।।[3-9-12]
आत्मानं चित्तं धारय ब्रह्मणि ततः परं चित्तं चिन्ताग्रस्तं भवति।।
परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम्।
तां महापदवीमेहि यत्र नासि न चेतरत्।।[3-9-13]
मनुष्योऽहममुष्य पुत्रः कर्ता भोक्तेत्यभिमन्यमानस्त्वं यत्र नासि यस्यां पदव्यां न भवसि त्वदितरज्जगच्च नास्ति तामद्वितीयां ब्रह्माभिधानमहापदवीमेवैहि गच्छ।।
अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते।
जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम्।।[3-9-14]
अद्यापि मनोजयो न सिद्ध्येद्विक्षेपस्य तज्जयविघआतकत्वात्स न कर्तव्यो मनोजये प्रवृत्तेनेत्याह-अनुद्वेग इति।। तथाचोक्तं भगवता-`स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा' इति। येन मनोजयेन त्रिलोकीविजयस्तृणम्। त्रैलोक्यविजयोऽपि तृणवत्प्रतिभातीत्यर्थः।।
ध्यानतो हृदयाकाशे चितिचिच्चक्रधारया।
मनो मारय निःशङ्कं ततो बध्नन्ति नाधयः।।[3-9-15]
पुनरपि मनोनिग्रहोपायमाह-ध्यानत इति।। हृदयाकाशोऽन्तःकरणवृत्तीनां भावाभावयोः संधेश्च साक्षितया प्रतीयमानायां चिति विषये ध्यानतः प्रवृत्तया चिच्चक्रधारया ज्ञानचक्रधारया।।
यदि रम्यमरम्यत्वे त्वया संविदितं विदा।
छिन्नान्येव तदङ्गानि चित्तस्येति मतिर्मम।।[3-9-16]
ननु चित्तस्य स्वभावतो बाह्यप्रबणत्वादात्मध्यानमेव न संभवतीत्यत आह-यदीति।। विदा विवेकिना त्वया रम्यं रमणीयं वस्तु अरम्यत्वेऽरमणीयतया मग्नतया संविदितं यदि। रमणीयता बुद्धिगृहीतमरमणीयतया विज्ञातं यदीत्यर्थः। तत्तर्हि रागमूलस्य विषयेषु रमणीयताध्यासस्य निवृत्त्या रागानिवृत्तेः चित्तस्याङ्गानि वृत्तयश्छिन्नान्येव भवन्ति।।
अयं सोऽहमितं तन्मे एतावन्मात्रकं मनः।
तदभावनमात्रेण दात्रेणेव विलूयते।।[3-9-17]
असंकल्पनशस्त्रेण छिन्नमिति यदुक्तं तन्मनःस्वरूपकथनपूर्वकं प्रपञ्चयति-अयमित्यादिना।। अयमहमस्मि सोऽहमस्मीत्यभिज्ञाप्रत्यभिज्ञे। इदं संनिहितं वस्तु एतद्व्यवहितं वस्तु एतदिदं वस्तु ममेत्यादि योजनीयम्। एतावन्मात्रकं एतावत्परिमाणं तदभावनामात्रेणासंकल्पमात्रेण। संक्लपत्यागेनेतियावत्। दात्रेण लवित्रेण छेदनसाधनेन विलूयते संछिद्यते।।
छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते।
वातेनाकल्पनेनैवं तथान्तर्धूयते मनः।।[3-9-18]
अकल्पनेनासंकल्पेन।।
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः।।[3-9-19]
कल्पान्तेत्यादयः प्रायेण स्पष्टार्थाः।।
असंकल्पातिसाम्राज्ये सकलसिद्धिदे।
असंकल्पातिसाम्राज्ये तिष्ठावष्टब्धतत्पदः।।[3-9-20]
असंकल्पातिसाम्राज्ये असंकल्पो निर्विकल्पसमाधिः स एवातिसाम्राज्यमतिशयितसाम्राज्यं तस्मिन्नवष्टब्धतत्पदोऽवलम्बितब्रह्मस्वरूपः।।
संकल्पमात्रविभवेन मनोरिणा त्वं निर्जीयसे विविधवस्तुनिदर्शनेन।
संतोषमात्रविभवेन मनो विजित्य नित्योदितेन सुखमेहि निरीप्सितेन।।[3-9-21]
संतोषमात्रविभवेन मनसा मनो विजित्य नित्योदितेन स्वयंप्रकाशत्वात्सर्वदा भातेन तुर्येणेत्यर्थः। तस्य विशेषणं निरीप्सितेनेति निरभिलषितेन।।
परमपावनया हिमशीतया समतया मतयात्मविदामपि।
शमितया मितयान्तरहन्तया यदवशिष्टमजं पदमस्तु तत्।।[3-9-22]
संतोषवत्समताया अपि मनोनिग्रहाङ्गतां दर्शयन्नुपसंहरति-परमपावनयेति।। आत्मविदां मतया संमतया इष्टानिष्टप्राप्तौ हर्षविषादरहिततालक्षणसमतया। तत्पूर्वकध्यानाभ्यासेनेत्यर्थः। मिताय परिच्छिन्नया अहन्तया अहंभावेन शमितया हेतुना मितया सत्यया यदवशिष्टं पदं तदस्त्वित्यन्वयः। समतापूर्वकध्यानाभ्यासेनाहंकारे शमिते यदनिदंरूपं तुरीयाख्यमवशिष्टं भवति तत्तवास्त्वित्यर्थः।।
वसिष्ठ उवाच।।
नहि चञ्चलताहीनं मनः क्वचन विद्यते।
चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता।।[3-9-23]
यैषा हि चञ्चला स्पन्दशक्तिश्चित्तत्त्वसंस्थिता।
तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम्।।[3-9-24]
नहि चञ्चलताहीनमित्यादयो यत्तत्सदसतोर्मध्यमित्यतः प्राक्तनाः श्लोकाः प्रायेण स्पष्टार्थाः।।[3-9-23,24]
यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते।
तदेव च तपः शास्त्रं सिद्धान्तो मोक्ष उच्यते।।[3-9-25]
तदेव मनसोऽमृतत्वमेव शास्त्र शास्त्रश्रवणं तत्फलत्वात्प्रामाणिकत्वेनोरीकृतोऽर्थः सिद्धान्तः। स एव मोक्ष उच्यते तदुपायत्वात्।।
तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते।
वासनापरनाम्नीं तां विचारेण विनाशय।।[3-9-26]
अविद्याकार्यत्वादविद्योच्यते। वासनामूलत्वाद्वासनापरनाम्नीम्।।
अविद्यया वासनया तयान्तश्चित्तसत्तया।
विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते।।[3-9-27]
त्यागवशादभिमतवस्तुत्यागवशाद्विलीनया। उक्तं च पूर्वम्-`त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः। जितमेव मनस्तेन बाह्यं प्रसरमुज्झता' इति।।
यत्तत्सदसतोर्मध्यं यन्मध्यं चित्तजाड्ययोः।
तन्मनः प्रोच्यते राम द्वयदोलायिताकृति।।[3-9-28]
ज्ञानाभ्यासेनैव मनसो मारणीयतां वक्षंस्तस्य स्वरूपकथनपूर्वकं यथाभ्यासं निष्पद्यमानरूपतामाह-यत्तत्सदसतोरित्यादिश्लोकचतुष्टयेन।। सदसतोरात्मानात्मनोर्मध्यं मध्यस्थं यथा लोके मध्यस्थमुभयानुकूलं भवत्येवं मन आत्मानात्मानुकूलं भवति अत उपायविशेषेण जेतव्यमित्यभिप्रायः। आत्मानात्मधर्मयोरपि चैतन्यजाड्ययोरनुकूलं मन इत्याह-यन्मध्यं चित्तजाड्ययोरिति। द्वयदोलायिताकृति अहमिदंवृत्तद्वयात्मना परिणामशीलत्वादुक्तद्वये दोलायिता आकृतिराकारो यस्य तत्तथा।।
जाड्यानुसंधानहृतं जाड्यात्मकतयेद्धया।
चेतो जडत्वमायाति दृढाभ्यासवशेन हि।।[3-9-29]
जाड्यानुसंधानहृतं जडचिन्तापरवशीकृतं चेतो दृढाभ्यासवशेनेद्धया दीप्तयाभिवृद्धया जाड्यात्मकतया जडत्वमायाति जडभावं प्राप्नोति। जडदेहादिप्रधानं भवतीत्यर्थः। उपलभ्यते हि प्राकृतानां मनस्तादृशम्।।
विबोधैकानुसंधानाच्चिदंसात्मतया मनः।
चिदेकतामुपायाति दृढाभ्यासवशादिह।।[3-9-30]
विशिष्टो बोधो विबोधः साक्षी तस्मिन्नेकस्मिन्नेवानुसंघानं विबोधैकानुसंधानं तस्माच्चिदंशेतिविशेषणमत्राप्याकर्षणीयम्। चिदंशोऽनिदमंश आत्मा स्वरूपं यस्य मनसस्तच्चिदंशात्म तस्य भावस्तत्ता तयाहं ब्रह्मास्मीति निरन्तरानुसंधानान्मनश्चिदाकारं सच्चितो भेदेनाविभाव्यमानस्वरूपमवतिष्ठत इत्यर्थः।।
पौरुषेण प्रयत्नेन तस्मिन्नेव पदे मनः।
योज्यते तत्पदं प्राप्य भवत्यभ्यासतो हि यत्।।[3-9-31]
उक्तं विशदयति-पौरुषेणेति।। पदे वस्तुनि।।
अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा।
विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव।।[3-9-32]
फलितमाह-अत इति।। चेतसा विवेकिना चित्तेन। निरातङ्को निरामयः। निरुपद्रव इत्यर्थः।।
मन एव समर्थं हि मनसो दृढनिग्रहे।
अराजा किं समर्थः स्याद्राज्ञो राघव निग्रहे।।[3-9-33]
चित्तादन्येनापि चित्तस्याक्रमणाशङ्कायामाह-मन एवेत्यादि।।
तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम्।
आवर्तैरूह्यमानानां दूरे स्वं मन एव नौः।।[3-9-34]
मनसैव मनश्छित्त्वा पाशं परमबन्धनम्।
भवादुत्तारयात्मानं नासावन्येन तार्यते।।[3-9-35]
ग्राहो नक्रः आवर्तैर्दाराद्यवर्तैर्दूरमूह्यमानानामिति संबन्धः।।[3-9-34,35]
ययोदेति मनोनाम्नी वासनावासितान्तरा।
तां तां परिहरेत्प्राज्ञस्ततोऽऽविद्याक्षयो भवेत्।।[3-9-36]
भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम्।
भावाभावौ ततस्त्यक्त्वा निर्विकल्पः सुखी भव।।[3-9-37]
मनसा मनश्छेदप्रकारमेव संक्षेपविस्तराभ्यामाह-यथोदेतीत्यादिश्लोकद्वयेन।। वासनेति वासनामूला वृत्तिर्गृह्यते। वासितं संस्कृतमन्तरं मनःप्रदेशो यया सा वासितान्तरा। वृत्त्या हि नष्टयान्तःकरणे संस्कारो जन्यत इति वेदान्तिन आचक्षते। तार्किकास्तु वृत्त्यैव ज्ञानख्ययेति। ततो भेदबुद्धित्यागात् अन्तरं भावाभावौ भेदिनौ त्यक्त्वा। तद्विषयविकल्पौ त्यक्त्वेत्यर्थः ।।[3-9-36,37]
एष एव मनोनाशस्त्वविद्यानाश एव च।
यद्यत्संविदितं किंचित्तत्रास्याः परिवर्जनम्।।[3-9-38]
अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः।
अनेनैव प्रयत्नेन ब्रह्म संपद्यते क्षणात्।।[3-9-39]
एष एवेत्यादिद्वयं स्पष्टार्थम्। प्रयत्नेन। विषयेषु रमणीयताध्यासत्यागविषयेणेत्यर्थः।।[3-9-38,39]
अविद्याऽविद्यमानैव नष्टप्रज्ञेषु विद्यते।
नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः।।[3-9-40]
नन्वविद्याया विद्यमानत्वान्मन इव ज्ञानेन निवृत्त्यसंभवात्तन्निवर्तकज्ञानलाभाय मनोनिरोधतदुपायोपन्यासो व्यर्थ इत्याशङ्क्याह-अविद्येति।। अविद्यमानेति पदच्छेदः। नाम्नैवाविद्यानाम्नैवाभाव एव हि नाम्नो मुख्योऽर्थः।। [3-9-40]
श्रीराम उवाच।।
अविद्याविभवप्रोत्थं निबिडं पुरुषस्य हि।
नश्यत्यान्ध्यं कथमिदं भूयोऽपि भगवन्वद।।[3-9-41]
सम्यक्प्रज्ञस्य सा कुत इत्युक्तमर्थं तावत्संसारभृगुष्वित्यादिना प्रपञ्चयितुं रामस्य प्रश्नमुत्थापयति-अविद्याविभवप्रोत्थमिति।। अज्ञानैश्वर्योद्भूतम्।।
वसिष्ठ उवाच।।
तावत्संसारभृगुषु स्वात्मना सह देहिनाम्।
आन्दोलयति नीरन्ध्रदुःखकण्टकशाखिषु।।[3-9-42]
अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी।
स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी।।[3-9-43]
दुःखान्येव कण्टकशाखिनः कण्टकवृक्षा नीरन्ध्राः कण्टकशाखिनो येषु ते तथोक्तास्तेषु संसारभृगुषु संसारसानुष्वान्दोलयति।।[3-9-42,43]
अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते।
दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते।।[3-9-44]
अस्याः शिष्टरूपेण स्थिताया अविद्याया इत्यतः परं परमात्मानम्। पूर्वार्धोक्तं विशदयति-दृष्ट इति।।[3-9-44]
इच्छामात्रमविद्येयं तन्नाशो मोक्ष उच्यते।
स चासंकल्पशस्त्रेण सिद्धो भवति राघव।।[3-9-45]
सर्वगतबोधशब्दितब्रह्मणो दर्शनस्य क उपाय इत्याशङ्क्य विषयेष्विच्छायां सत्यां श्रवणादेरपि वैयर्थ्यात्तेषु केन सिद्ध्यतीत्यत आह-स चेति।। विषयेषु रमणीयताध्यासः संकल्पस्तदभावोऽसंकल्पः स एव शस्त्रं तेन।।[3-9-45]
मनागपि मनोव्योम्नि वासनारजनीक्षये।
कालिका तनुतामेति चिदादित्यप्रकाशनात्।।[3-9-46]
ईषद्वैराग्यमपि फलाय संकल्पते किमु वक्तव्यं पूर्णवैराग्यमित्याशयेनाह-मनागिति।। मनाक्किंचिद्वासनात्र विषयेच्छा तत्प्रकरणात्। कालिका तिमिरसंहतिः। वासनैव रजनी रात्रिस्तस्या मनागपि क्षये सति चिदेवादित्यस्तस्य प्रकाशनात् अविद्याकालिका तनुतां कृशतामेति।।
श्रीराम उवाच।।
यावत्किंचिदितं दृश्यं साविद्या क्षीयते च सा।
आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः।।[3-9-47]
यावत्किंचिदिति स्पष्टार्थः।।
वसिष्ठ उवाच।।
चेत्यानुपातरहितं सामान्येन च सर्वगम्।
यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः।।[3-9-48]
चेत्यानुपातरहितं ज्ञेयानुगतिशून्यं यथान्तःकरणं शब्दादीञ्ज्ञेयाननुगच्छति नैवं चित्तत्त्वं ताननुगच्छतीत्यर्थः। सामान्येन समतयैव न्यूनाधिकभावं विनैव सर्वगं चितस्तत्त्वबाधितं रूपं चित्तत्त्वं सर्वस्याभावादेव सर्वगमित्यप्यनाख्येयम्। यद्वा शब्दप्रवृत्तिनिमित्ताभावादनाख्येयम्। विषयसंनिधावपि निर्विकारम्। अशेषविषेषरहितं परिपूर्णं सत्यं यच्चैतन्यं तदात्मेत्यर्थः। तस्य च ब्रह्मणः सकाशाद्भेदं व्युदस्यति-परमेश्वर इति।।
सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमव्ययम्।
कल्पनान्या मनोनाम्नी विद्यते नहि काचन।।[3-9-49]
तस्य च ब्रह्मणः सकाशाद्भेदं व्युदस्यति-परमेश्वर इति।।
न जायते न म्रियते किंचिदत्र जगत्रये।
नच भावविकाराणां सत्ता क्वचन विद्यते।।[3-9-50]
नन्वसतो वन्ध्यापुत्रादेर्जन्माद्यदर्शनाज्जन्मादिषड्भावविकारवत्तयोपलभ्यमानं जगत्कथं तत्र विद्यत इत्यत आह-न जायत इति।। यस्माज्जगज्जन्मादिनिरूपणानर्हं तस्मात्सत्ता न विद्यत इति युक्तमुक्तम्।।
केवलं केवलाभासं सर्वसामान्यमक्षयम्।
चेत्यानुपातरहितं चिन्मात्रमिह विद्यते।।[3-9-51]
उपसंहरति-केवलमिति।। केवलमद्वितीयं केवलाभासं केवलं प्रमाणव्यापारं विनैवाभासते प्रकाशत इति केवलाभासम्। स्वयंप्रकाशमित्यर्थः। सर्वसामान्यं सममेव सामान्यम्। ब्रह्मादिस्तम्बपर्यन्तेष्वन्यूनाधिकतयावस्थितमित्यर्थः। चेत्यानुपातरहितं चेत्येषु ज्ञेयेषु शब्दादिष्वनुपातस्तदाकारपरिणामस्तेन शून्यम्।।
तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे।
शान्ते समसमाभोगे निर्विकारोदितात्मनि।।[3-9-52]
उक्तस्वरूपमनूद्य तस्मिन्नधिष्ठाने तद्विपरीतद्वैतानर्थकल्पकमाह-तस्मिन्नित्यादिना त्रयेण।। तते व्याप्ते समसमोऽत्यन्तं सम आभोगः परिपूर्णता यस्य तत्समसमाभोगम्। तस्मिन्निर्विकारतयोदितो भात आत्मा स्वरूपं यस्य तन्निर्विकारोदितात्म तस्मिन्।।
यैषा स्वभावातिगतं स्वयं संकल्प्य धावति।
चिच्चेत्यं स्वयमम्लाना मननान्मन उच्यते।।[3-9-53]
यैषेति। स्वभावं सत्यज्ञानादिस्वरूपमतिगतमतिक्रान्तं स्वभावातिगतं स्वभावविपरीतं जडादिरूपं चेत्यं दृश्यं संकल्प्य या चिज्जडाजजलक्षणा स्वसंकल्पितं चेत्यमेवानुधावति नाधिष्ठानचिन्मात्रं सा स्वयमम्लाना स्वतो ब्रह्मरूपत्वान्म्लानिरहिताप्युपद्रवरहिताप्युपाधिसंश्लेषान्म्लानेव प्रतीयमाना मन एवोच्यते। तदुपाधित्वात्। `मन्वानो मन'इतिश्रुतेः।।
एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः।
विभागकल्पनाशक्तिर्लहरीवोत्थिताम्भसः।।[3-9-54]
विभागकल्पनाशक्तिः भेदकल्पनाशक्तिरुत्थिता साम्भसो मनोरूपेणोद्गता लहरीवोर्मिरिव।।
अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति।
येनैव जाता तेनैव वह्निज्वालेन वायुना।।[3-9-55]
नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः।
सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः।।[3-9-56]
कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम्।
इति भावानुरूपेण व्यवहारेण बध्यते।।[3-9-57]
नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः।
इति भावानुरूपेण व्यवहारेम मुच्यते।।[3-9-58]
नाहं मांसं न वास्थीनि देहादन्यः परोऽस्म्यहम्।
इति निश्चयवानन्तः क्षीणाविद्यो विमुच्यते।।[3-9-59]
कल्पितैवमविद्येयमनात्मन्यात्मभावना।
पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव।।[3-9-60]
एवं द्वैतानार्थमूलं प्रदर्श्य तन्नाशोपायमाह-अत इति।। यत इयं मनोनाम्नी विभागकल्पनाशक्तिरुचितकारणरहिता नहि ब्रह्म निर्विकारं वस्तु तदुचितं कारणं भवितुमर्हति, अतः संकल्पसिद्धा प्रतिभाससिद्धा सा च संकल्पेनैव वक्ष्यमाणेन सर्वं ब्रह्मेत्येवंरूपेण नश्यति। येनैवेत्यादयो मनो यदनुसंधत्त इत्यतः प्राक्तनाः श्लोकाः स्पष्टार्थाः।।[3-9-55,56,57,58,59,60]
मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः।
क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः।।[3-9-61]
न केवलं संकल्पितेन मनसो बन्धकत्वं संकल्पितार्थेष्विन्द्रियप्रवर्तकतयापीत्याह-मनो यदन्विति।।
परं पौरुषमाश्रित्य यत्नात्परमया धिया।
भोगाशाभावनां चित्तात्समूलामेवमुद्धरेत्।।[3-9-62]
यतः सत्यायामेव रागवासनायां मनसोऽपि बन्धकत्वं नासत्यायामतः सा त्याज्येत्याह-परं पौरुषमिति।। भोगाशाभावनां भोगवासनां मूलेनाध्यासलक्षणेन सह वर्तत इति समूला ताम्।।
मम पुत्रा मम धनमयं सोऽहमिदं मम।
इतीयमिन्द्रजालेन वासनैवाधिवल्गति।।[3-9-63]
माभवाज्ञो भव ज्ञस्त्वं जहि संसारवासनाम्।
अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि।।[3-9-64]
तर्ह्यभ्यासलक्षणमूलोद्धरणार्थं किं कार्यमित्याशङ्क्य तन्मूलवासनोद्धरणं कार्यमित्याह-मम पुत्रा इति।। इन्द्रजालेनेतीत्थंभावे तृतीया। इन्द्रजालस्वरूपकथनं मम पुत्रा इत्यर्धेन।।[3-9-63,64]
कस्तवायं जडो मूको देहो भवति राघव।
यदर्थं सुखदुःखाभ्यामवशः परिभूयसे।।[3-9-65]
कस्तवेति स्पष्टार्थः।।
अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम्।
यदसत्यमविद्याख्यं तत्पुरः परिवल्गति।।[3-9-66]
अनुक्रोशव्याजेनाविद्यानिरासाय प्रोत्साहयति-अहो न्विति।।
तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना।
स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः।।[3-9-67]
वाल्मीकिरूवाच।।
एवमुक्तो भगवता वसिष्ठेन महात्मना।
विकासितान्तःकरणो रामो गिरमथाददे।।[3-9-68]
अविद्यानिरासाय प्रयतमानेन अवर्जनीयानि भुक्त्यादिकार्याणि कुर्वतापि न तत्र रागः कार्य इत्याह-तिष्ठत इति।। रागानुरञ्जनारागानुषङ्गः।।[3-9-67,68]
श्रीराम उवाच।।
अहो विचित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः।
अविद्यमाना या विद्या तया विश्वं खिलीकृतम्।।[3-9-69]
पद्मोत्थतन्तुभिरद्रिबन्धनतुल्यं किमत्राश्चर्यं दृष्टं तत्राह-अविद्यमानेत्यादि।। खिलीकृतं रिक्तीकृतम्। पुरुषार्थरहितं कृतमित्यर्थः।।
इदं तद्वज्रतां यातं तृणमत्र जगत्रये।
अविद्ययापि यन्नाम सर्गो निगडबन्धनः।।[3-9-70]
सर्गः प्रपञ्चः। अपिशब्दो नामशब्दश्च कुत्सने। अविद्ययापि सर्गो निगडबन्धन इति यन्नाम तस्मात्तृणमात्रं तदिदं जगत्रयं वज्रतां प्राप्तमित्यन्वयः।।
अन्यच्च संशयोऽयं मे महात्मन्हृदि वर्तते।
लवणोऽसौ महाभागः किंनामा पदमाप्तवान्।।[3-9-71]
वसिष्ठ उवाच।।
अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममद्भुतम्।
लवणोऽसौ यथा जातश्चण्डालत्वं मनोभ्रमात्।।[3-9-72]
अन्यच्च प्रष्टव्यमस्तीति शेषः।।[3-9-71,72]
मनः कर्तृफलं भुङ्क्ते न शरीरं क्रियाफलम्।
येनैतद्बुध्यसे नूनं तदाकर्णय राघव।।[3-9-73]
हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ।
एकान्तैकोपविष्टेन चिन्तितं मनसा चिरम्।।[3-9-74]
वक्ष्यमाणवृत्तान्तकथनफलमाह-मन इति।। साभासं मन एव कर्तृ तदेव च फलं क्रियाफलं भुङ्क्ते न शरीरं येन वृत्तेन तद्बृत्तमाकर्णय श्रृणु।।[3-9-73,74]
पितामहो मे सुमहान् राजसूयस्य याजकः।
अहं तस्य कुले जातस्तं यजे मनसा मखम्।।[3-9-75]
मखं क्रतुं यजे कुर्वे इत्यन्वयः।।
इति संचिन्त्य मनसा कृत्वा संभारमग्रतः।
राजसूयस्य दीक्षायां प्रविवेश महीपतिः।।[3-9-76]
ऋत्विजश्चाह्वयामास सन्मुखीकृत्य देवताः।
देवानामन्त्रयामास ज्वालयामास पावकम्।।[3-9-77]
मनसेति पदं दीक्षायामित्यनेनापि संबध्यते। सप्तमी द्वितीयार्थे।।[3-9-76,77]
त्सयेत्थं यजमानस्य मनोसोपवनान्तरे।
ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया।।[3-9-78]
भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम्।
व्यबुध्यत दिनस्यान्ते स्व एवोपवने नृपः।।[3-9-79]
एवं स लवणो राजा राजसूयमवाप्तवान्।
मनसैव हि जुष्टेन युक्तस्तस्य फलेन च।।[3-9-80]
अतश्चित्तं परं विद्धि भोक्तारं सुखदुःखयोः।
जन्मनः पावनोपाये सत्ये योजय राघव।।[3-9-81]
अग्रेणाधिकेन सह वर्तत इति साग्रः। ईषदधिकः संवत्सरो गत इति। तस्य मनसि प्रतिभातं न वस्तुतः। साग्रः संवत्सरो गतः व्यबुध्यत दिनस्यान्त इति वक्ष्यमाणविरोधात्।।[3-9-78,79,80,81]
शृणु शाम्बरिकस्याथ वृत्तान्तं रघुनन्दन।
यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम्।।[3-9-82]
शाम्वरीक ऐन्द्रजालिकः। लावणीं लवणराजसंबन्धिनीम्।।
तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान्।
अहं सभ्यैस्ततस्तत्र गते शाम्बरकारिणी।।[3-9-83]
किमेतदिति यत्तेन पृष्टेन पृथिवीभुजा।
चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं बचः।।[3-9-84]
शम्बरस्यासुरस्येदं शाम्बरमन्द्रजालं तत्कारिणि।।[3-9-83,84]
शृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम्।
राजसूयस्य कर्तारो ये हि ते द्वादसाब्दिकम्।।[3-9-85]
अतिदुःखं प्राप्नुवन्ति नानाकारदशामयम्।
अतः शक्रेण गगनाद्दुःखाय लवणस्य सः।।[3-9-86]
तत् कारणम्। ईहितं चेष्टितम्। नानाकारदशामयं नानाकारावस्थाप्रयुरं द्वादशाब्दिकम्। दुःखमपि प्राप्नुवन्तीति यदुक्तं न तद्राजसूयस्य पुरुषहितैकप्रवृत्तवेदविहितस्य फलम्।।[3-9-85,86]
प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः।
राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम्।।[3-9-87]
प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः।।
अगमत्स नभोमार्गं सुरसिद्धनिषेवितम्।।[3-9-88]
किंतु तदानीमुद्बुद्धपूर्वदुरितस्यैवेत्यवगन्तव्यम्। महती चासावापच्च महापत्ताम्[3-9-87,88]
वसिष्ठ उवाच।।
अतः परं प्रवक्ष्यामि शृणु राम यथातथम्।
अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि।।[3-9-89]
एवं किंनामापदमाप्तवानिति प्रासङ्गिकप्रश्नस्योत्तरमाख्यायेदानीम्-`अविद्य विद्यमानैव नष्टप्रज्ञेषु विद्यते। नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः' इत्यत्रोक्ता हेया विद्या। योपादेया विद्या तां प्रज्ञानापरपर्यायविद्यां चोदितां संक्षेपविस्ताराब्यामवस्थाकथनादिना प्रपञ्चयति-अज्ञानभूः सप्तपदेत्यादिना। अज्ञानमेव भूः भूमिः। यथा लोके भूः स्वामिने स्वानुकूलं फलं ददाति तथाऽज्ञानमपि भूः सा च सप्त पदानि यस्यां सन्तीति सप्तपदा। सप्तावस्थोपेतेत्यर्थः। ज्ञभूर्ज्ञानभूमिरित्यर्थः। ज्ञस्य भूर्ज्ञभूरिति पक्षेऽपि स एवार्थः। हिशब्दो विद्वत्प्रसिद्धौ।।
पदान्तराण्यसंख्यानि भवन्त्यन्योन्यमेतयोः।
एते प्रतिपदं बद्धमूले स्वं फलतः फलम्।।[3-9-90]
पदान्तराण्यवान्तरावस्था इत्यर्थः। वक्ष्यति च-एकैका शतशाखात्र नानाविभवरूपिणी'ति। एतयोर्भूम्योः सप्तापि पदानि पृथक्पृथक्फलं प्रयच्छन्ति तानि च प्ररूढमूलान्येव न प्रशिथिलमूलानि फलं प्रयच्छन्तीत्याह-एते इति।। प्रतिपदमित्येतत्फलत इति क्रियापदेनापि संबध्यते।।
स्वरूपावस्थितिर्मुक्तिरस्तद्भ्रंशोऽहन्त्ववेदनम्।
एतत्संक्षिप्य तत्प्रोक्तं तज्ज्ञात्वा ज्ञत्वलक्षणम्।।[3-9-91]
भीम्योः स्वामिनौ लक्षयति-स्वरूपेति।। तद्भ्रंशः स्वरूपावस्थितिलक्षममुक्तेः सकाशाद्भ्रंशः। तत्स्वरूपमेवाह-अहन्त्ववेदनमिति।। अहम्भावज्ञानम्। अहमिति भ्रान्तिरित्यर्थः।।
शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये।
रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः।।[3-9-92]
न केवलं मुक्तिशाली तज्ज्ञोऽहङ्कारादिबन्धशाल्यज्ञ इति तयोर्लक्षणे रागादिराहित्यतत्साहित्ये अपि तयोर्लक्षणे इत्याह-शुद्धेत्यादिना।।
यत्स्वरूपपरिभ्रंशश्चेत्यार्थचितिमज्जनम्।
एतस्मापदपरो मोहो न भूतो न भविष्यति।।[3-9-93]
चेत्यार्थोऽहमादिर्ज्ञेयपदार्थः तद्विषया चिच्चेत्यार्थचिदहमादिज्ञेयपदार्थभ्रान्तिः तस्यां मज्जनं नाम तत्परत्वम्। मोहशब्देन मोहकार्यं गृह्यते। अहङ्काराद्यध्यासपरत्वादन्यदतिशयितं मोहकार्यं न भूतं न भविष्यति। इदमेव परमं मोहकार्यं रागद्वेषादिसकलदोषनिदानत्वादित्यर्थः।।
अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः।
निरस्तमननाकारा स्वरूपस्थितिरुच्यते।।[3-9-94]
चित्ते अर्थादर्थान्तरं विषयाद्विषयान्तरं याति गच्छति सति मध्ये वृत्त्योः संधौ या द्रष्टुः स्थितिः। कीदृशी सेत्यत आह-निरस्तमननाकारा निरस्तविकल्पा। अयमर्थः-वृत्तिसंधिसाक्षितया यन्निर्विकल्पकं चैतन्यमस्ति तदेव स्वरूपं तदात्मनावस्थितिः स्वरूपपस्थितिरिति।।
संशान्तसर्वसंकल्पा या शिलावदवस्थितिः।
जाड्यनिद्राविनिर्मुक्ता सा स्वरूपस्थितिः स्मृता।।[3-9-95]
संशान्तसर्वसंकल्पेति जागरितमोहार्थादित्यादिस्वरूपावस्थितिर्मुक्तिरित्युक्तं तत्र कासौ स्वरूपावस्थितिरित्यत आह-संशान्तेति।। जागरितं व्युदस्यति-जाड्यनिद्राविनिर्मुक्तेति।। सुषुप्तिस्वप्नौ शिलावत्। प्रकटपाषाणवदित्यर्थः। अवस्थात्रयमतीत्य तुरीयतयाऽवस्थानं स्वरूपस्थितिरित्यर्थः।।
अहन्तांशेक्षते शान्ते भेदे निष्पन्दचित्तता।
अजडा या प्रकचति तत्स्वरूपमिति स्थितम्।।[3-9-96]
बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च।
जाग्रत्स्वप्नस्तथाः स्वप्नः स्वप्नजाग्रत्सुषुप्तकम्।।[3-9-97]
अथ या निष्पन्दचित्तता निश्चलचित्तता तत्साक्षिभूतेत्यर्थः। प्रकचति प्रकाशते तत्स्वरूपमिति स्थितम्।।[3-9-96,97]
इति सप्तविधो मोहः पुनरेव परस्परम्।
श्लिष्टो भवत्यनेकाख्यः शृणु तस्य च लक्षणम्।।[3-9-98]
वेदान्तेषु अज्ञानभूः सप्तपदेत्युक्तं विवृणोति-बीजजाग्रदित्यादिना नानाविभवरूपिणीत्यन्तेन।। सप्तविधः सप्तप्रकारः। सप्तावस्थो मोहोऽज्ञानापरपर्यायः परस्परं श्लिष्टः संबद्धः सन् पुनरप्यनेकाख्यो भवति। सप्तानामवस्थानां यतासंभवं संभेदविशेषेण मोहः पुनरप्यनेकावस्थो भवतीत्यर्थः। तथाहि द्वयोरवस्थयोस्तिसृणां चतसृणां पञ्चानां षण्णां सप्तानां वा क्षणे क्षणे व्यत्ययेन उत्पादे सति पुनरप्यनेकावस्थो भवति।।
प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः।
भविष्यच्चितिजीवादिनामशब्दार्थबाजनम्।।[3-9-99]
प्रथममिति।। सुषुप्तेरुत्थाने प्रथमं चितो विश्वरूपायाः संबन्धि यच्चेतनं प्रतिबिम्बलक्षणं तद्बीजं जाग्रदित्युच्यत इत्यन्वयः। चेतनं विशिनष्टि-अनाख्यमित्यादिना।। अनाख्यं जीवाद्याख्यया तदानीमनुल्लेख्यं भविष्यच्चितिजीवादिनामशब्दार्थभाजनं भविष्यतां चितिजीवचेतनादिनामात्मकशब्दानां तदर्थानां च चित्तत्वप्राणभृत्त्वज्ञानकर्तृत्वादिलक्षणानां भाजनं पात्रमालम्बनमित्यर्थः।।
बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते।
एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संस्थितिं श्रृणु।।[3-9-100]
बीजजाग्रच्छब्दं विगृह्णाति-बीजरूपमिति।। उत्तरावस्थानां बीजरूपेण स्थितं च तज्जाग्रच्चेति बीजजाग्रदिति। एषेति बीजजाग्रत्परामृश्यते। विधेयावस्थानुरोधेन तस्य स्त्रीलिङ्गता। ज्ञप्तेर्जीवस्य नवा नूतनावस्था वृक्षस्याङ्कुरावस्थेव।।
नवप्रसूतस्य परादयं चाहमिदं मम।
इति यः प्रत्ययः स्वच्छस्तज्जाग्रत्प्रागबावनात्।।[3-9-101]
परात्परमात्मनो बिम्बात् नवप्रसूतस्याभिनवजातस्य जीवस्येति यः प्रत्ययस्तज्जाग्रदिति संबन्धः। इतिशब्दपरामृष्टमाह-य इति।। तत्रायं कार्यकारणसंघातोऽहमस्मीदं गृहादिकं ममेत्येवंरूपो यः प्रत्ययो जाग्रन्नामावस्थान्तरं न बीजजाग्रत्। कुतः अङ्कुरावस्थानन्तरभावी द्विदलावस्थेव। नापि महाजाग्रत् प्रागभावनात्पूर्वानुभवाभावात् पूर्वानुभवसंस्कारमपेक्ष्य हि प्रत्यभिज्ञारूपं महाजाग्रज्जायते।।
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः।
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुरन्।।[3-9-102]
जातिस्मरे पुरुषे महाजाग्रद्दर्शयति-अयं सोऽहमिति।। सोऽहमिति जन्मान्तरानुभवसंस्कारादुत्पन्न इति यावत्। यद्वा पूर्वजन्मापेक्षया वर्तमानजन्मैव जन्मान्तरं तस्मिन्प्राक्संस्कारादुदितः पीरवरः पीनो दृढ इत्यर्थः। अस्य च महाजाग्रत्त्वं महाकालस्पर्शितत्वात्पीवरत्वाच्चेति ज्ञेयम्। केचित्तु जन्मान्तरोदितो वान्तरोदित इति व्याचक्षाणाः सर्वसाधारणास्तादृशप्रत्ययो महाजाग्रदिति मन्यन्ते।।
अरूढमथवा रूढं सर्वथा तन्मयात्मकम्।
यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते।।[3-9-103]
अरूढमिति।। अरूढं अदृष्टं निष्पन्नं रूढं दृष्टं निष्पन्नं तन्मयात्मकं तन्मयस्वरूपम्। विषयस्वरूपमित्यर्थः। मनोराज्यशब्देनात्र प्रमारूपस्मृतिविलक्षणः सर्वोऽपि प्रत्ययो गृह्यते।।
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः।
अभ्यासं जाग्रतः प्राप्य स्वप्नोऽनेकविधो भवेत्।।[3-9-104]
अत एवाह-द्विचन्द्रेति।। पूर्वं कदाचिदपि विषयाननुभवे तद्विपर्यासायोगादभ्यासं प्राप्येत्युक्तम्।।
अल्पकालं मया दृष्टमेतन्नो वेति यत्र हि।
परामर्शः प्रबुद्धस्य स स्वप्न इति कथ्यते।।[3-9-105]
अल्पकालमिति।। प्रबुद्धस्य स्वप्नादुत्थितस्य परामर्शो यत्र यस्मिन्काले भवति तदा स स्वप्न इति कथ्यत इति संबन्धः। इतिशब्दपरामृष्टमाह-अल्पेति।। एतन्नो वेति संशयः कथमत आह्र।।
चिरसंदर्शनाभावादप्रफुल्लबृहद्वपुः।
चिरकालानुवृत्तश्च स्वप्नो जाग्रदिवोदित।।[3-9-106]
चिरसंदर्शनाभावाति। अप्रफुल्लबृहद्वपुः अप्रफुल्लमविस्पष्टं बृहद्वपुः स्थूलं स्वरूपं यस्य स तथोक्तः। जाग्रदिवोदितः जागरितमिव विस्पष्टमुदितः।।
स्वप्नजाग्रदिति प्रोक्तो जाग्रत्यपि परिस्फुरन्।
षडवस्थापरित्यागे जडा जीवस्य या स्थितिः।।[3-9-107]
जाग्रत्यपि परिस्फुरन् जागरेऽतिस्फुरणारूढतया स्पष्टं प्रकाशमान इत्यर्थः।।
भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः।
जगत्तस्यामवस्थायामन्धे तमसि लीयते।।[3-9-108]
भविष्यद्दुःस्वबोधाढ्या जाग्रत्स्वप्नयोर्भाविदुःखस्य बोधोऽनुभवः तदाढ्या तद्बीजवासनोपेतत्वात्तद्दार्ढ्यत्वम्। गतिरवस्था तमस्यज्ञानेऽन्तर्लीयते संस्कारशेषमिति शेषः।।
स्वप्नावस्था इति प्रोक्ता मया ज्ञानस्य राघव।
एकैका शतसंख्यात्र नानाविभवरूपिणी।।[3-9-109]
नानाविभवरूरिणी। विविधकार्यात्मिकेत्यर्थः।।
वसिष्ठ उवाच।।
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ।
नानया ज्ञातया भूयो मोहपङ्के निमज्जति।।[3-9-110]
वदन्ति बहुभेदेन ज्ञानिनो योगभूमिकाः।
मम त्वभिमता नूनमिमा एव सुखप्रदाः।।[3-9-111]
ज्ञभूः सप्तपदैव हीत्युक्तं विवृणोति-इमां सप्तपदामित्यादिना।।[3-9-110,111]
अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम्।
मुक्तिस्तु ज्ञेयमित्युक्ता भूमिका भूमाकान्तरे।।[3-9-112]
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता।
विचारणा द्वितीया तु तृतीया तनुमानसा।।[3-9-113]
सत्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता।।[3-9-114]
अव बोधोऽवगतिः साक्षादनुभवः। साप्तभूमिकं सप्तभूमिषु भवम्। सप्तावस्थोपेतमित्यर्थः।।[3-9-112,113,114]
आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोचति।
एतासां भूमिकानां त्वमिदं निर्वचनं शृणु।।[3-9-115]
निर्वचनं निरुक्तिः निकृष्यकथनम्।।
किं मूढ इव तिष्ठामि प्रेक्षेऽहं शास्त्रसज्जनैः।
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः।।[3-9-16]
अहं मूढ एव किमर्थं स्थितोऽस्मि। शास्त्रसज्जनैरुपायैः आत्मतत्त्वं प्रेक्षे। प्रकर्षणेक्ष इत्यर्थः। इच्छा वैराग्यपूर्विका शुभेच्छेत्युच्येते। इयं च प्रथमा भूमिका पुण्यकर्मफलभूतप्रत्यग्विविदिषारूपा। `विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति श्रुत्यादौ प्रसिद्धा। तथाच श्रुतिः-`तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति। तथाच वार्तिकम्-`प्रत्यग्विविदिषां बुद्धेः कर्माण्युत्पाद्य शुद्धितः। कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इवे'ति।।
सास्त्रसज्जनसंपर्को वैगाग्याभ्यासपूर्वकम्।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा।।[3-9-117]
अध्यात्मशास्त्रविचारः सदाचारप्रवृत्तिर्विचारणाप्रधानत्वाद्विचारणेत्युच्यते इति निर्वचनमभिप्रेत्याह-शास्त्रेति।। शास्त्रसंपर्कोऽध्यात्मशास्त्रविचारणा सज्जनसंपर्को ब्रह्मनिष्ठसेवा। शास्त्रसज्जनसंपर्कैरुपायैर्वैराग्याभ्यासो नाम वैराग्यहेतुभूतदृश्यमिथ्यात्वदोषदर्शनाभ्यासः। एषा च द्वितीया भूमिका।।
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वरक्तता।
यत्र सा तनुताभावात्प्रोच्यते तनुमानसा।।[3-9-118]
`श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्युक्तश्रवणमननरूपां निदिध्यासनात्मिकां तृतीयां भूमिकां निर्वक्ति-विचारणेति।। यत्र यस्यामवस्थायां पूर्वभूमिकाभ्यां विचारणाशुभेच्छाभ्यां हेतुभ्यां इन्द्रियार्थेष्वनात्मपदार्थेष्वरक्तता विरक्ततोदिता सावस्था तनुमानसोच्यते। तनु मानसं यस्यां सा तत्र हेतुस्तनुताभावात्। स्थौल्यकारणरागनिवृत्त्या मानसस्य तनुत्वसद्भावाद्भूमिकाया निदिध्यासनरूपतां वक्ष्यति भगवान्वसिष्ठः-`अनास्थयेति भावानां पदभावनमान्तरम्। लक्ष्यार्थलग्नमनसः सामान्योऽसावसंगमः।। संसाराम्बुनिधेः पारे सारे परमकारणे। यन्मौनमश्रितं शान्तं तच्छ्रेष्ठासङ्ग उच्यते।। श्रेष्ठासंगमता ह्येषा तृतीया भूमिकाऽत्र हि। भवति प्रोज्झिताशेषसंकल्पकलनः पुमानि'ति। एतच्च भूमिकात्रयं ब्रह्मज्ञानसाधनमेव नतु ज्ञानकोटावन्तर्भवति भेदसत्याताबुद्धेरविनष्टत्वात्। अतएवैतज्जागरणमिति वक्ष्यति वसिष्ठः-`भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्मृतम्। यथावद्भेदबुद्ध्येदं जगज्जाग्रति दृश्यत'इति। `भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते' इति च। तथा महद्भिरप्युक्तम्-`अत्र भूमिकात्रितयं ब्रह्मविद्यायाः साधनमेव नतु विद्याकोटावन्तर्भवति। भेदसत्यत्वबुद्धेरनिवर्त्यत्वात्। अतएवैतज्जागरणमिति व्यपदिश्यत'इति।।
भूमिकात्रितयाभ्यासाच्चित्ताऽर्थविरतेर्वशात्।
सत्वात्मनि स्थितिः शुद्धे सत्वापत्तिरुदाहृता।।[3-9-19]
भूमिकेति।। त्रितयस्य ज्ञानभूमिकात्वं तु सत्वात्मनि तत्साधनत्वेनोपचारादिति ज्ञेयम्। अर्थविरतिरनात्मपदार्थेष्वरुचिः। चित्ते निष्पन्नाया अर्थविरतेर्वशात्सत्त्वात्मनि स्थितिः सत्तामात्रस्वरूपे ब्रह्मण्यवस्थितिः। तथाच वक्ष्यति-`सत्त्वशेष एवास्ते चतुर्थी भूमिकांगत'इति। यच्च स्वप्नाख्या चतुर्थी भूमिरपरोक्षज्ञानमेव न साधनकोटावन्तर्भवति। यतो वक्ष्यति-`सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे। निर्विभागमनाद्यन्तं योगिनो युक्तचेतसः।। समं सर्वं प्रपश्यन्ति चतुर्थीं भूमिकां गता'इति। पञचम्यादिभूमिकात्रये तु जीवन्मुक्तेस्तारतम्यं भवति। तत्र सप्तमी भूमिर्विदेहमुक्तिसदृशी। तथाचोक्तम्-`जीवन्मुक्तेस्तारतम्यं शिष्टे भूमित्रये भवेत्। विदेहमुक्तिसदृशी सप्तमी भूमिरुच्यत'इति। तास्तिस्रोऽसंप्रज्ञातसमाध्यभ्यासकृतेन चित्तोपरतितारतम्येन सिध्यन्ति। तदप्युक्तम्-पञ्चम्यादयस्तिस्रो भूमयो निर्विकल्पसमाध्यासकृतेन चित्तविश्रान्तितारतम्येन संपद्यन्त'इति।।
दशाचतुष्टयाभ्यासादसंसर्गफलाय च।
रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका।।[3-9-120]
दशेति।। दशाचतुष्टयाभ्यासादिति प्रागुक्तावस्थाचतुष्टयस्याभ्यासात्कारणात् रूढसत्त्वचमत्कार रूढः दृढनिष्पन्नः सत्त्वस्यान्तःकरणस्य चमत्कारः परमसूक्ष्मब्रह्मानन्दग्रहणवैदग्ध्यं यस्यां भूमिकायां सा तथोक्ता। यद्वा सत्त्वशब्देन सत्त्वगुणो गृह्यते। प्रवृद्धसत्त्वगुणचातुरी हि पञ्चमी भूमिका भवति। किमर्थं रूढसत्त्वचमत्कारेत्यत आह-असंसर्गफलायासंसक्तिफलाय प्रातिभासिकविषयेऽपि रागाभासस्यापि वृत्तिफलायेत्यर्थः। निरतिशयानन्दानुभवफलाय चेति चकारार्थः। इयं च पञ्चमी भूमिः सुषुप्तिरित्युच्यते। तथाच वक्ष्यति-`पञ्चमीं भूमिकामेत्य सुषुप्तिपदनामिकाम्। शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः' इति। अत्र समाधेः स्वयमेव व्युत्तिष्ठति।।
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम्।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात्।।[3-9-121]
भूमिकापञ्चकाभ्यासादिति। दृढमिति पदं आत्मारामतयाऽभावनादिति च पदद्वयेन संबन्धते। उक्तपञ्चमभूमौ निर्विकल्पात्तदा स्वयमेवोत्तिष्ठति अभावनादनुपलम्भात् परप्रयुक्तेनान्यकृतेनावबोधेन समाधेः सकाशात्स्वव्युत्थापनं अनात्मपदार्थस्य समाधौ विस्मृतस्य परप्रयत्नेन भावना पदार्थभावना सा यस्याः सा पदार्थभावनी गतिरवस्था दृढं स्वात्मारामतया हेतुनाभ्यन्तराणां सुखदुःखादीनीं बाह्यानां घटादीनां पदार्थानां दृढमभावनात्।।
परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम्।
पदार्थभावनी नाम षष्ठी संजायते गतिः।।[3-9-122]
परप्रयुक्तेनेति।। चिरं परप्रयुक्तेन प्रयत्नेनावबोधनं यदा भवति तदा षष्ठी गतिः संजायते इत्यन्वयः। केचित्तु साक्षात्कारो विशुद्धपदार्थज्ञानसाध्यो महावाक्यार्थविषयः तेन पदार्थभावनीयमवस्था मन्यन्ते तत्र निर्वाणप्रकरणवचनविरोधात्। `भूमिकायां विवासनः। षष्ठीं गाढसुषुप्ताख्यां क्रमात्पतति भूमिकाम्।। यत्र नासन्न सद्भूयो नाहं नाप्यनहंकृतिः। केवलं क्षीणमनन आस्तेऽद्वैतैक्यनिर्गतः।। निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः। अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थित'इति। किंच `शुद्धसंविन्मयानन्दभूर्या भवति पञ्चमी। अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठती'ति।।
भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भनः।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः।।[3-9-123]
षष्ठीभूमिकापेक्षया निकृष्टां पञ्चमीं भूमिकां प्राप्तस्य जीवन्मुक्ततामभिदधता। तत उत्कृष्टायाः षष्ठीभूमिकाया विद्याकोटिविष्टस्य स्वस्य सुतरामभ्युपगतत्वाच्च स्वभावैकनिष्ठत्वमिति। स्वो भावः स्वभावः स्वभावरूपस्तस्मिन्नेकस्मिन्नेव नितरां स्वतः परतो वा पुनरुत्थानं विनैव तिष्ठतीति स्वभावैकनिष्ठस्तस्य भावस्तत्त्वम्। `सप्तमी सा परिप्रौढा विषयोऽस्यां न जीवितादि'ति निर्वाणप्रकरणवचनात्। सप्तमभूमिकां प्राप्तस्य योगिनः स्वतः परतो वा पुनर्व्युत्थानमेव नास्तीति गम्यते। तथा महद्भिरप्युक्तम्-`तुरीयाभिधां सप्तमभूमिं प्राप्तस्य योगिनः स्वतः परतो वा व्युत्थानमेव नास्तीति' मुमुक्षुषु वर्तमानमवस्थात्रयात्मकं जागरितं चतुर्थभूम्यात्मकं स्वप्नं पञ्चमषष्ठभूमिकात्मिकां सुषुप्तिं चापेक्ष्य स्वरूपमेव तुर्यं चतुर्थं तद्गच्छतीति तुर्यगा गतिरवस्था तुरीयावस्थेत्यर्थः।।
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते।
विदेहमुक्तविषयं तुर्यातीतमतः परम्।।[3-9-124]
एषा सप्तमभूमिरूपा तुरीयावस्था जगति क्वचिदपि नास्त्येवेत्यत आह-एषा हीति।। जीवन्मुक्तेषु शुकादिषु विदेहमुक्तविषयं विदेहमुक्तगम्यम्।।
ये हि राम महाभागाः सप्तमीं भूमिकां गताः।
आत्मारामा महात्मानस्ते महत्पदमागताः।[3-9-125]
सप्तमीभूमिका सर्वोद्योगेन पुरुषधौरेयैः संपाद्येति ज्ञापयितुं तां प्राप्तां स्तौति-ये हीति।। महत्पदमागताः महास्थानं प्राप्ताः। महात्मतायाः पर्यवसानभूमिं प्राप्ता इत्यर्थः। महात्मपदं गता इति क्वचित् तत्रापि स एवार्थः।।
जीवन्मुक्ता न सज्जन्ति सुखदुःखरसस्थितौ।
प्राकृतेनार्थकार्येण किंचित्कुर्वन्ति वा न वा।।[3-9-126]
पार्श्वस्थबोधिताः सन्तः पूर्वाचारक्रमागतम्।
आचारमाचरन्त्येव सुप्तबुद्धवदक्षताः।।[3-9-127]
भूमिकासप्तकं त्वेतद्धीमतामेव गोचरम्।
प्राप्ताज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये।
सदेहा वा विदेहा वा ते मुक्ता नात्र संशयः।।[3-9-128]
सप्तमीं भूमिकां प्राप्तादन्ये जीवन्मुक्ता विक्षेपदशायां कथं व्यवहरन्तीत्यत आह-जीवन्मुक्ता इत्यादि।। सुखदुःखरसस्थितौ सुखदुःखानुभवस्थितौ न सज्जन्ति आसक्तिं न कुर्वन्ति। हर्षविषादौ न कुर्वन्तीत्यर्थः। यद्वा आसक्तिस्तत्राभिमानस्तं न कुर्वन्तीत्यर्थः। अर्थकार्येण लोकसंग्रहलक्षणप्रयोजनमर्थः स एव कार्यं तेन हेतुना किंचित्कुर्वन्ति वा न वा कुर्वन्ति। आर्यकार्येणेति क्वचित्तत्रार्यकार्येण विद्वत्कार्येण। अनिषिद्धकार्येणेत्यर्थः।।[3-9-126,127,128]
ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति हि मुक्तता।
मृगतृष्णाम्बुबुद्ध्यादिशान्तिमात्रात्मकस्त्वसौ।।[3-9-129]
ननु ज्ञानदशाप्राप्तानां सदेहत्वे कथं मुक्ततेत्यत आह-ज्ञप्तिर्हीति।। ज्ञप्तिरत्र ज्ञानशा स एव पक्को ग्रन्थिस्तस्य विच्छेदो हि अहंकारलक्षणग्रन्थेः सकारणस्य विनाशः। स हि अहंकाराध्यासस्य सकारणस्य निवृत्तिं विना ज्ञानदशाया एव पक्वाया अयोगात्। ततः किं तत्राह-तस्मिन्निति।। तस्मिन्ग्रन्थिविच्छेदे सति मुक्तिर्हि सकारणग्रन्थिविच्छेदः। तर्हि सद्वा सदसदात्मा वा सदसद्विलक्षणो वा सर्वथाप्यनुपपत्तिरीत्यत आह-मृगतृष्णेति।। यथा मरीचिकोदकाध्यासनिवृत्तिरधिष्ठानमात्रं तथासौ ग्रन्थिविच्छेदोऽपीत्यर्थः।।
ये तु मोहाद्धनात्तीर्णास्ते प्राप्ताः परमं पदम्।
ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः।।[3-9-130]
येतु मोहादित्यादिसार्धत्रयं स्पष्टार्थम्।।
एतासु भूमिषु जयन्ति हि ये महान्तो वन्द्यास्त एव हि जितेन्द्रियशत्रवस्ते।
सम्राट् स्वराडपि च यत्र तृणायते तत्सारं पदं जगति ते समवाप्नुवन्ति।।[3-9-131]
वसिष्ठ उवाच।।
मनःप्रशमनोपायो योग इत्यभिधीयते।
सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः।।[3-9-132]
जयन्ति सर्वोत्कृष्टतया वर्तन्ते। सम्राट् मण्डलेश्वराणां शास्ता। स्वराडिन्द्रः।।[3-9-131-132]
एतासां भूमिकानां तु गम्यं ब्रह्माभिधं परम्।
त्वत्ताहन्तात्मना यत्र परता नास्ति काचन।
न क्वचिद्भेदकलना न भावाभावरञ्जना।।[3-9-133]
कीदृशं तद्ब्रह्माभिधं परं वस्तु तत्राहत्वत्तेति।। त्वत्ताहन्ते त्वमहंभावौ। आत्मतापरते आत्मभावपरभावौ। भेदकलना भेदज्ञानम्। भावाभावरञ्जना भावाभावाभिनिवेश इत्यादि यत्र नास्ति तत्परं ब्रह्मेत्यर्थः।।
सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम्।
अनामयमनाभासमनात्मकमकारणम्।।[3-9-134]
सर्वमिति।। सर्वं तद्व्यतिरिक्तस्याभावात्। शान्तमविद्यारागादिमलरहितम्। निरालम्बमाधाररहितम्। सर्वाधारमित्यर्थः। तदपि माययेत्यर्थः। व्योमस्थंस्वमहिमस्थम्। आधारानपेक्षितमित्यर्थः। शिवं मङ्गलम्। अनामयं निरुपद्रवम्। अनाभासं अप्रतिबिम्बम्।।
न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च।
मनोवचोभिरग्राह्यं शून्याच्छून्यं सुखात्सुखम्।।[3-9-135]
नेति।। अमध्यान्तं मध्यान्तरहितम्। न सर्वं मिथ्याभूतात्सर्वस्माद्विलक्षणम्। तर्हि वस्तुतः परिच्छेदः स्यादित्यत आह-सर्वमिति।। मनोवचोभिरग्राह्यत्वे हेतुः-शून्याच्छून्यमिति।। अत्यन्तनिराकारमित्यर्थः। शून्यादिप शून्यं चेत्तर्हि पुरुषार्थबहिर्भूतं तदित्यत आह-सुखात्सुखं परमानन्दरूपत्वात्।।
असंवेदनमाशान्तमात्मवेदनमाततम्।।[3-9-136]
तर्हि वेद्यं तदित्यत आह-असंवेदनमिति।। आसमन्ताच्छान्तं आशान्तम्। आत्मवेदनं स्वयंप्रकाशम्। आसमन्तात्ततं व्याप्तमाततम्।।
वसिष्ठ उवाच।।
एतत्ते कथितं राम ज्ञानं वै साप्तभूमिकम्।
त्वं माहात्म्यमविद्यायाः पुनः श्रृणु रघूद्वह।।[3-9-137]
लवणोऽसौ महीपालस्तत्र दृष्ट्वा तथा भ्रमम्।
द्वितीये दिवसे गन्तुं प्रवृत्तस्तां महाटवीम्।।[3-9-138]
एतत्ते कथितमित्यादयः काकतालीयवदित्यतः प्राक्तनाः श्लोकाः प्रायेण स्पष्टार्थाः। रघूद्वह रघूणां श्रेष्ठ।।
यत्र दृष्टं मया दुःखमरण्यानीं स्मरामि ताम्।
चित्तादर्शगतां विन्ध्ये कदाचिल्लभ्यतेऽपि सा।।[3-9-139]
इति निश्चित्य सचिवैः प्रययौ दक्षिणापथम्।
पुनर्दिग्विजयायैव प्राप्य विन्ध्यमहीधरम्।।[3-9-140]
अरण्यानीं महारण्यम्। `महारण्यमरण्यानी गृहारामास्तु निष्कुटा' इत्यमरः। आदर्शो दर्पणम्। लभ्यतेऽपीत्यपिशब्दः शङ्कायामा। `गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपी'त्यमरः।।[3-9-139,140]
पूर्वदक्षिमपाश्चात्त्यमहावनतटस्थलीम्।
बभ्राम कौतुकात्सर्वां व्योमवीथीमिवोष्णगुः।।[3-9-141]
अथैकस्मिन्प्रदेशे तां चिन्तामिव पुरोगताम्।
ददर्शोग्रामरण्यानीं परलोकमहीमिव।।[3-9-142]
कौतुकात् कुतूहलात्। `कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले। कामेख्याते मङ्गले चे'ति यादवप्रकाशः। उष्णगुः सूर्यः।।[3-9-141,142]
स तत्र विहरंस्तां तु स्ववृत्तान्सकलानपि।
दृष्टवान्पृष्टवांश्चैव ज्ञानवांश्च विसिस्मये।।[3-9-143]
तत्परिज्ञातवांश्चापि व्याधान्पुक्कसजान्पुनः।
विस्मयाकुलया बुद्ध्या भूयो बभ्राम संभ्रमी।।[3-9-144]
अथ प्राप महाटव्याः पर्यन्ते धूमधूसरम्।
तमेव ग्रामकं यस्मिन्सोऽभवत्पुष्टपुक्कसः।।[3-9-145]
तत्रापश्यज्जनांस्तांस्तान्स्त्रियस्तास्ताः कुटीरिकाः।।[3-9-146]
विसिस्मये विस्मयंचक्रे।।[3-9-143,144,145,146]
अन्यासु वृद्धासु सबाष्पनेत्रा स्वभर्तृयुक्तासु च वर्णयन्ती।
वृद्धातिकान्तारविशीर्णबन्धुस्तत्रातिदीना परिरोदितीदम्।।[3-9-147]
कान्तारं दुर्गममार्गः। `कान्तारं वर्त्म दुर्गममि'त्यमरः।।
हा पुत्रकाः कुत्र गताः स्थ दीना दृष्टेर्ममोत्सङ्गमपास्य दूरम्।
हा पुत्रि गुञ्जाफलदामहारे नीतासि मे दुर्विधिनातिदूरम्।।[3-9-148]
अस भुवीति धातोर्लण्मध्यमपुरुषबहुवचनम्। स्थ भवथ। गुञ्जाफलदामभिर्हारो यस्याः सा तथोक्ता। दामशब्देन मालोच्यते। दुर्विधिना दुर्दैवेन।।
हा राजपुत्रेन्दुसमानकान्त संत्यज्य शुद्धान्तविलासिनीस्ताः।
रतिं प्रयातोऽसि ममात्मजायां न सापि ते सुस्थिरतामुपेता।।[3-9-149]
शुद्धान्तविलासिनीरन्तःपुराङ्गनाः।।
संसारनद्या स्वतरङ्गभङ्गक्रियाविलासैर्विहितोपहासैः।
किं नाम तुच्छं न कृतं नृपेशो यद्योजितः पुक्वसकन्यकायाम्।।[3-9-150]
संसारेति।। तुच्छमत्रासमञ्जसम्। संसारनद्या किंनाम तुच्छं न कृतिमिति संबन्धः। कैः साधनैः स्वतरङ्गभङ्गक्रियाविलासैः स्वीयतरङ्गखण्डरूपैः कर्मविलासैर्विहितोपहासैरेकस्मिन्नेव जन्मनि राजत्वपुक्कसत्वे हेतुत्वेन विवेकिभिर्विहित उपहासो येषु ते तथोक्तास्तैः। यदिति हेतौ।।
एवं लपन्तीमवलोक्य वृद्धां दासीभिराश्वास्य नृपो निजाभिः।
पप्रच्छ वृत्तं किमिहासि का त्वं का ते सुता के च सुतास्तवेति।।[3-9-151]
उवाच सा बाष्पविलोचनाथ ग्रामस्त्वयं पुक्कसपोषनामा।
इहाभवत्पुक्कसपः पतिर्मे बभूव तस्येन्दुसमा सुतैका।।[3-9-152]
सा दैवयोगात्पतिमिन्द्रतल्यमिहागतं प्राप धरातलेन्द्रम्।
सा तेन सार्धं सुचिरं सुखानि भुक्त्वा प्रसूता तनयां सुतौ च।।[3-9-153]
केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्नेश्वर।
अवृष्टिदुःखमभवद्भीषणं भग्नमानवम्।।[3-9-154]
लपन्तीं विलपन्तीम्।।[3-9-51,52,53,54]
महता तन दुःखेन सर्वे ते ग्रामका जनाः।
विनिर्गत्य गता दूरं सर्वे ते पञ्चत्वमागताः।।[3-9-155]
तेनेमा दुःखभागिन्यः शून्ये वयमिह स्थिताः।
शोच्यांस्ताननुशोचन्त्यस्तिष्ठामो दुःखजीविताः।।[3-9-156]
इत्याकार्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः।
मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत्।।[3-9-157]
पञ्चत्वं मरणम्।।
तेषां समुदितैर्दानैः संमानैर्दुःखसंक्षयम्।
कृत्वा करुणयाविष्टो दृष्टलोकपरावरः।।[3-9-158]
आजगाम गृहं पौरैर्मुदितः प्रविवेश ह।
ज्ञाताविद्याखभावोऽसौ नीतो बोधं मया ततः।।[3-9-159]
इत्येवं राघवाविद्या महती भ्रमदायिनी।
अससत्सत्तां नयत्याशु सच्चासत्तां नयत्यलम्।।[3-9-160]
राम उवाच।।
कथमेतद्वद ब्रह्मन्स्वप्नः सत्यत्वमागतः।
संशयो भगवन्सोऽयं न मे गलति चेतसः।।[3-9-161]
समुदितैः। सुभाषितैः दानसंमानैः दानसत्कारैः। दृष्टा लोके परावरे उच्चावचा भावा येन स दृष्टलोकपरावरः।।[3-9-158,159,160,161]
वसिष्ठ उवाच।।
सर्वमेतदविद्यायां संभवत्येव राघव।
एतत्ते गाधिवृत्तान्ते स्फुटमग्रे भविष्यति।।[3-9-162]
मुहूर्तद्वयेन द्वादशवार्षिको लवणस्य विभ्रमः स्वप्न इत्युच्यते-`दुर्घटत्वमविद्याया भूषणं न तु दूषणम्। कथंचिद्धटमानत्वे ह्यविद्यात्वं न सिद्ध्यती'ति न्यायात् अघटमानघटनापटीयस्यामविद्यायां नासंभावितमेतदिति परिहरति-सर्वमिति।। सिंहासन एवासीनस्य लवणराजस्य मुहूर्तद्वितयेन द्वादशवार्षिकभ्रमः कालान्तरे तस्य च भ्रमस्याविसंवादित्वं लवणप्रतिभायाः सर्वपुक्कसप्रतिभानां च परस्परं संरम्भ इत्येवमादिकं सर्वशब्दार्थः। गाधिनामा ब्राह्मणः।।
काकतालीयवच्चेतोवासनावशतः स्वतः।
समुदन्ति महारम्भा व्यवहाराः परस्परम्।।[3-9-163]
यद्यप्यविद्यायां संभवत्येवैतत्सर्वं तथापि काचिदुपपत्तिर्वक्तव्येत्यत आह-काकतालीयवदित्यादि।। काकस्य तालतरुसंयोगसमय एव दैवात्तत्फलपतनं काकतालीयम्। चेतोवासनावशतश्चित्तस्य सदृशं भ्रमोत्पादकसंस्कारवशतः स्वतः स्वभावान्निमित्तान्तरं विनैव व्यवहाराऽभिज्ञालक्षणाः। समुदन्ति संवादं कुर्वन्ति। समानार्थभाजो भवन्तीत्यर्थः। आरम्भत इत्यारम्भः कार्यम्। महानारम्भो येषां व्यवहाराणां ते महारम्भाः। स्मर्यते च भारते-`युद्धे मृतानां वीराणां नानालोकान्प्राप्तानां धृतराष्ट्रदिशोकापनोदनार्थं भगवता व्यासेन तपःप्रभावात्तत्तल्लोकेभ्यः समाकृष्टानां दुर्योधनादीनां धृतराष्ट्रेण पाण्डवैः स्त्रीभिश्च संगतानां महारम्भा व्यवहाराः संवादिनो जायन्ते'इति।।
दृष्टं यत्पक्कणे राज्ञा तत्र शाम्बरिकेहया।
तत्र योल्लसिता विद्या सैवान्येद्युरिति ध्रुवम्।।[3-9-164]
दृष्टमिति।। तत्र सदसि स्थितेन राज्ञा शाम्बरीकेहया ऐन्द्रजालिकचेष्टया यद्यदा पक्कणे शबरालये दृष्टं तत्र तदा या याऽविद्योल्लासिता विवर्तते सा सैवान्येद्युरप्युल्लसिता।।
तत्काले लवणेनाशु दृष्टो यः स्वप्नविभ्रमः।
स एव संविदं प्राप्तो विन्ध्यपुक्कसचेतसाम्।।[3-9-165]
विन्ध्यपुक्कसचेतसां संविदं प्राप्तः। विन्ध्यपुक्कसचेतोभिः संविदित इत्यर्थः।।
लावणी प्रतिभा रूढा विन्ध्यपुक्कसचेतसि।
विन्ध्यपुक्कससंविद्धा रूढा पार्थिवचेतसि।।[3-9-166]
लावणी लवणराजसंबन्धिनी प्रतिभा विन्ध्यपुक्कसचेतस्यारूढा। लवणस्य चेतसि यत्प्रतिभातं तादृशमेव विन्ध्यपर्वतस्थुपुक्कसचेतस्सु प्रतिभातमित्यर्थः। विपरीतं किं न स्यादित्यत आह-विन्ध्येति।।
व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभानतः।
सत्ता सर्वपदार्थानां नान्या संवेदनादृते।।[3-9-167]
भ्रमव्यवहारस्य कथं तर्हि सत्यत्वमित्यत आह-व्यवहारगतेरिति।। न केवलमस्यैव व्यवहारस्वरूपस्य प्रातिभासिकं सत्त्वं सर्वस्यापि जगतस्तथेत्याह-सत्तेति।। स्वप्नपदार्थानामिव जागरितेऽपि सर्वपदार्थानां संवेदनात्प्रतिभासादृतेऽन्या सत्ता नास्ति। संवेदनमेव सत्ता। संवेदनदशायामेव सत्तेत्यर्थः। यद्वा प्रतिभानतः संवेदनादिति वाधिष्ठानचैतन्यमुच्यते। तथाच कल्पितानामधिष्ठानमेव सत्तेत्यर्थः।।
संबन्धे द्रष्टृदृश्यानां मध्ये द्रष्टुर्हि यद्वपुः।
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम्।।[3-9-168]
प्रकरणार्थं बुद्धिसौकर्यार्थमन्ते संक्षिप्याह-संबन्ध इति।। संबन्धे द्रष्टृदृश्यानां द्रष्टुः शब्दादिदृश्यानां च संबन्धे द्रष्टुः दृश्यबावलक्षणे जातानामनेकेषां मध्ये द्रष्टृदृश्यदर्शनानामन्तः कुसुमेषु सूत्रमिवानुगतस्य द्रष्टुर्यद्वपुः साक्षिणो यत्स्वरूपमस्ति। किंभूतम्। द्रष्टृदर्शनदृश्यादिवर्जितम्। दृश्याद्यभावेऽपि सुषुप्तिसमाध्योस्तत्साक्षिणो विद्यमानत्वात्। द्रष्टृदर्शनदृश्यफलवर्जितं तदिदं शोधितत्वंपदार्थरूपं तत्पदलक्ष्यं परमेव। यद्वा द्रष्टृदृश्यानां च पूर्वोक्तसंबन्धे भाविनि मध्ये पूर्वोत्तरवृत्त्योः संधौ द्रष्टुर्यद्वपुः जीवस्य यत्स्वरूपमस्ति तच्च द्रष्टृत्वेन दर्शनादिना च वर्जितं तदित्यादि समानम्।।
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा।।[3-9-169]
देशाद्देशमिति।। चित्ते देशाद्देशं गते विषयाद्विषयान्तरं गते सति मध्ये पूर्वोत्तरविषयज्ञानयोरन्तराले चेतसस्तदुपाधिकस्य जीवस्येत्यर्थः। वपुः स्वरूपम्। किंभूतम्। अजाड्यसंविन्मननं शब्दितसुषिप्तिस्वप्नजागरितवर्जितं तन्मयो भव तदात्मनिष्ठो भव।।
अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम्।
अचेतनं चाजडं च तन्मयो भव सर्वदा।।[3-9-170]
अजाग्रत्स्वप्ननिद्रस्येत्यत्र निद्राशब्देन सुषुप्तिर्गृह्यते। अचेतनं चेतनधर्मभूतावस्थात्रयरहितत्वात्। अजडं प्रज्ञानघनत्वान्निर्विकारतासर्ववस्त्वबभासकत्वाच्च।।
जडतां वर्जयित्वैकां शिलाया हृदयं हि यत्।
अमनस्कं महाबाहो तन्मयो भव सर्वदा।।[3-9-171]
जडतामिति।। अमनस्कं स्वभावतो मनोरहितं यच्छिलाया हृदयं पाषाणस्याभ्यन्तरस्वरूपं तज्जडतामेकां वर्जयित्वा विहाय कदाचित्तत्स्थास्यति चेत्तर्हि तन्मयो भव तन्निष्ठो भव। तत्सदृशस्वरूपनिष्ठो भवेत्यर्थः। शिलाया बाह्यस्वरूपं पदार्थान्तरसङ्गित्वादसङ्गात्मस्वरूपस्य दृष्टान्तो न भवति तदुपेक्ष्य तस्या हृदयं गृहीतम्।।
चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव।
भव भावनया मुक्तो युक्त्या परमयान्वितः।।[3-9-172]
यस्मादविवेकात्संसारस्तस्माद्विवेक एव यत्नः कर्तव्य इत्याह-चित्तं दूर इति।। भव भावनया मुक्तः संसारभावनया मुक्तः। युक्त्या श्रुत्यनुकूलया परमया। अत्यन्तदृढयेत्यर्थः।।
संसारोग्रारघट्टेऽस्मिन्या दृढा यन्त्रवाहिनी।
रज्जुस्तां वासनामेतां छन्धि राघव यत्नतः।।[3-9-173]
संसारेति।। संसारोग्रारघट्टयन्त्ररज्जुवासनां छिन्धीत्यर्थः।।
पूर्वं मनः समुदितं परमात्मतत्त्वात्तेनाततं जगदिदं स्वविकल्पजालैः।
शून्येन शून्यमपि तेन यताम्बरेण नीलत्वमुल्लसति चारुतराभिधानम्।।[3-9-174
]
पूर्वमिति।। शून्येनाल्पेन परमात्मतत्त्वेनानिर्वचनीयेन मनसा शून्यमनिर्वचनीयं जगदाततम् कल्पितमित्यर्थः।।
संकल्पसंक्षयवशाद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति।
स्वच्छं विभाति शरदीव स्वमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः।।[3-9-175]
इति श्रीवाल्मीकीये मोक्षोपाय उत्पत्तिप्रकरणे लवणोपाख्यानं नाम नवमः सर्गः।। 9 ।।
संकल्पेति।। मिहिका धूमाकारमेघाः शरद्यागतायां खमिव स्वच्छं चिन्मात्रं भातीत्यन्वयः।।
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीमदात्मसुखकृतौ वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणं नाम नवमः सर्गः।। 9 ।।
उत्पत्तिप्रकरणं समाप्तम्।।