लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ३
← सर्गः २ | लघुयोगवासिष्ठः सर्गः ३ [[लेखकः :|]] |
सर्गः ४ → |
सुच्युपाख्यानम्।।
तृतीयः सर्गः।।
वसिष्ठ उवाच।।
एतत्ते कथितं राम दृस्यदोषनिवृत्तये।
लीलोपाख्यानमनघं घनतां जगतस्त्यः।।[3-3-1]
आकाशजाख्यानलीलाख्यानाभ्यां विस्तरेण प्रतिपादितमर्थं सुखप्रतिपत्तये संक्षेपेण वक्तुं प्रस्तावयति-एतदिति।। दृश्यदोषनिवृत्तये दृश्यमेव सत्यतया प्रतीयमानं दोषस्तस्य निवृत्तये। घनतां सान्द्रतान्सत्यतामिति यावत्।।
असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम्।
बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम्।।[3-3-2]
असतोऽनिर्गवचनीयप्रपञ्चस्याभासः स्फुरणं यस्मात्तदसदाभासम्। यद्वा असन्नविद्यमान आभासो दृश्यो यस्मिंस्तदसदाभासम्। अच्छात्म स्वच्छरूपम्। ब्रह्मशब्दस्यार्थद्वयमाह-प्रबृंहितं मायिकप्रपञ्चेनोपचितं प्रबृंहितम्। बृहन्निरङ्कुशमहत्त्वसंपन्नम्। तत्त्वदृष्टिविपरीतदृष्टिभ्यां बृहास्ति चेत्तर्हिदं तदिति यद्भायादि'ति भगवद्वचनाच्च।।
तस्य यत्सममापूर्णं शुद्धसत्त्वमचिह्नितम्।
तद्विदामप्यनिर्देश्यं तच्छान्तं परमं पदम्।।[3-3-3]
नन्वेवंविधं ब्रह्मास्ति चेत्तर्हीदं तदिति विविच्य निर्दिश्यतामित्यत आह-तस्य यदिति।। समं दृश्योत्पत्तिनाशयोरेकरूपम्। यद्वा सर्वेषु भूतेषु समम्। अचिह्नितमलाञ्छितम्। विदां ज्ञानिनामप्यनिर्देश्यमवाच्यं क्षीरमाधुर्यवत्। शान्तं निर्विकारम्। `तद्विष्णोः परमं पदमि'त्यादिश्रुतिप्रमाणकं तदिति सूचयति-परमं पदमिति।।
ब्रह्मणः स्फुरणं किंचिद्यदवाताम्बुधेरिव।
दीपस्याथाप्यवातस्य तं जीवं विद्धि राघव।।[3-3-4]
उक्तं ब्रह्मतत्त्वमध्यारोपापवादाभ्यां विशदयति-ब्रह्मणः स्फुरममित्यादिभिः सप्तभिः। अथशब्दोऽर्थान्तरोपन्यासे। अपिः समुच्चये। अवाताम्बुधेरिव अवातस्थदीपस्येवापि ब्रह्मणः किंचिद्यत्स्फुरणं चलनमस्ति तं जीवं विद्धि जानीहि।।
तदेव घनसंवित्त्या यात्यहन्तामनुक्रमात्।
वह्न्यणुस्त्विन्धनाधिक्यात्स्वां प्रकाशकतामिव।।[3-3-5]
तदेव तत्स्पुरणमेव घनसंवित्त्या सान्द्रसंकल्पेन। निबिडाहंकारभावनयेतियावत्। अहन्तामहंकारतां वह्नेरग्नेः सूक्ष्मोंऽशो वह्न्यणुः।।
संकल्पोन्मुखतां यातस्त्वहंकारो भवत्युत।
चित्तं चेतो मनो माया प्रकृतिश्चेति नामभिः।।[3-3-6]
संकल्पोन्मुखतां मनोभावनाभिमुखताम्। अप्यर्थे उतशब्दः। अहंकार उत संकल्पोन्मुखतां यतः सन् चित्तमित्यादिनामभिरुच्यमानं वस्तु भवतीत्यध्याहृत्य योजनीयम्।।[3-3-6]
परस्मात्कारणादेवं मनः प्रथममुत्थितम्।
मननात्मकमाभोगि तेनेदं तन्यते जगत्।।[3-3-7]
एवमुक्तक्रमेण परस्मात्कारणाद्ब्रह्ममः प्रथममुत्थितं मनस्तच्च मननात्मकं संकल्पात्मकमाभोगि च भवति। आभोगः परिपूर्णतास्यास्तीत्याभोगि स्वकार्यजगद्व्यापित्वात्।।
अपारावारविस्मातरसंवित्सलिलवल्गनैः।
चिदेकार्मव एवायं स्वयमात्मा विजृम्भते।।[3-3-8]
तस्याभोगित्वमुक्तं विशदयति-अपारेति।। पारं परंतीरम्। अवारं अर्वाक्तीरम्। `पारावारे परार्वाची तीरे' इति वचनात्। अपारावारो विस्तारो येषां तान्यपारावारविस्ताराणि संविद एव संकल्पापरपर्यायाः सलिलानि संवित्सलिलानि अपारावाराणि च तानि संवित्सलिलानि च तैश्चिदेकार्णव एवायमात्मा मनो भूत्वा अपारावारे विस्तारे संवित्सलिलवल्गनैः स्वयं जगद्रूपेण विजृम्भित इत्यन्वयः।।
दीर्घस्वप्नस्थितिं यातः संसाराख्यो मनोवशात्।
असम्यग्दर्शनात्स्थाणाविव पुंप्रत्ययो दृढः।।[3-3-9]
दीर्घस्वप्नेति स्पष्टार्थः। `वाचारम्भणं विकारो नामधेयमि'त्यादिश्रुतेः।।
द्वैतं यथा नास्ति चिदात्मजीवयोस्तथैव भेदोऽस्ति न जीवचित्तयोस्तथैव भेदोऽस्ति न चित्तसर्गयोः।।[3-3-10]
चिदात्मतत्त्वयोर्जीवब्रह्मणोः कार्यकारणयोर्द्वैतं भेदो यथा नास्ति तथा जीवमनसोः कार्यकारणयोर्नास्ति भेदः। एवं मनःप्रपञ्चयोरपि कारणाद्यात्मनोर्न भेदः।।
वसिष्ठ उवाच।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
राक्षस्योक्तं महाप्रश्नजालमावलिताखिलम्।।[3-3-11]
उक्तेऽर्थे सूच्युपाख्यानमवतारयति-अत्रैवेति।। क्वचिद्धिंसाविहाराणामपि तामसानां कथंचिद्धिंसानभिसंबन्धिपूर्वप्रयत्नतिशयेनापवर्गमार्गः। समुदेतीति दर्शनार्थं चेदमाख्यानमिति ज्ञेयम्। आवलिताखिलं क्रोडीकृतसर्वम्।।
अस्ति कञ्जलपङ्काद्रेरिवोग्रा शालभञ्जिका।
हिमाद्रेरुत्तरे पार्श्वे कर्कटीनाम राक्षसी।।[3-3-12]
कज्जलपङ्काद्रेः मषीपङ्कगिरेः उत्तरस्यां दिशि शालभञ्जिकेव पुत्तलिकेव प्रतीयमाना।।
स्थिरविद्युल्लतानेत्रा स्वर्जूरतरुजानुका।
वैदूर्यर्याग्रनखा स्नाय्वस्थिग्रन्थिदेहिनी।।[3-3-13]
स्थिरे ये विद्युल्लते तद्वन्नेत्रे यस्याः सा तथोक्ता। अभूतोपमैषा। खर्जूरतरुस्तृणप्रधानवृक्षविशेषः स च दीर्घो दर्दुरश्च भवति तद्वज्जानुनी यस्याः सा तथोक्ता। वैदूर्यत्नकृतसूर्यवदग्रनखानि यस्याः सा वैदूर्यसूर्याग्रनखा। वैदूर्यसूर्योग्रनखेति क्वचित्। स्नायवो वस्नसा देहवेष्टनानि स्नायूनामस्थ्नां च ग्रन्थिभिर्युक्तो देहो यस्याः स्नाय्वस्थिग्रन्थिदेहिनी।।
तस्या विपुलकायत्वाद्दुर्लभत्वान्निजान्धसः।
अतृप्तोऽर्णवलेखाया इवाभूञ्जाठरोऽनलः।।[3-3-14]
न कदाचन सा तृप्तिमुपयाति महोदरी।
वडवानलजिह्वेव चिन्तयामास चैकदा।।[3-3-15]
निजान्धसः स्वान्नस्य नरमांसादिलक्षणस्य अर्णवलेखाया जठरभवो वडवानल इव तस्य जाठरोऽनल औदर्योऽग्निरतृप्तोऽभूत।।[3-3-14,15]
जम्बुद्वीपगतान्सर्वान्निगिरामि जनानपि।
अनारतमनुच्छ्वासं जलराशिमिवार्णवः।।[3-3-16]
निगिरामि ग्रसामि। अनारतं संततम्।।
मेघेन मृगतृष्णेव तन्मे क्षुदुपशाम्यति।
तपः करोमि परममखिन्नेनैव चेतसा।
इति संचिन्त्य सा सर्वजन्तुजातजिघांसया।।[3-3-17]
तपोऽर्थमथ सस्मार पर्वतं भूतदुर्गमम्।
तत्र गत्वाथ सा स्नात्वा तपः कर्तुं व्यवस्थिता।।[3-3-18]
मेघेनेति।। मृगतृष्णा हि मरुमरीचिका मेघेन सेचनेनोच्छाम्यति। तत्तर्हि सर्वजन्तुजातजिघांसया सर्वप्राणिसमूहहननेच्छया।।[3-3-17,18]
अतिष्ठदेकपादेन चन्द्रार्कस्पन्दलोचना।
क्रमेण दिवसाः पक्षास्तस्या मासास्ततो ययुः।।[3-3-19]
चन्द्रार्कयोः स्पन्देषु गतिषु लोचने यस्याः सा चन्द्रार्कस्पन्दलोचना।। चन्द्रर्कदत्तदृष्टितया तद्गत्यनुसारिलोचनेत्यर्थः।।
शीतातपेष्वलीनायाः कृताया इव शैलतः।
अष्टवर्षसहस्रेण तां पितामह आययौ।।[3-3-20]
दारुणं हि तपः सिद्ध्यै नीचानामपि जायते।
मनसैव प्रमम्यैनं सा तथैव स्थिता सती।।[3-3-21]
शैलत उपादानकारणात्कृताया इव स्थितायाः[3-3-20,21]
कोव वरः क्षुच्छमायालमिति चिन्तापराभवत्।
आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभु।।[3-3-22]
अलं शक्त-।। आ इति स्मरणे। `आ प्रगृह्यस्मृतौ वाक्य'इत्यमरः।।
अनायसीवायसीव स्यामहं जीवसूचिका।
यथाभिमतमेतेन ग्रसेयं सकलं जनम्।।[3-3-23]
अनायसीवायसीव अलोहमय्यपि लोहमयीव। जीवसूचिका जीवानां सीवनी स्याम्। एतेन वरेम जगद्यथाभिमतं क्रमेण क्षुन्नाशाय ग्रसेयमिति संबन्धः।।
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम्।
प्राणिनामिह सर्वेषां हृदयं प्रविशाम्यहम्।
इति संचिन्तयन्तीं तामुवाच कमलालयः।।[3-3-24]
सह। प्राणैः सहेत्यर्थः। वक्ष्यति-च प्रविश्य हृदयं प्राणैरिति।।
पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके।
उत्तिष्ठ तव तुष्टोऽसमि गृहाणाभिमतं वरम्।।[3-3-25]
रक्षसां कुलमेव शैलस्तस्याभ्रमालिके हे रक्षःकुलशैलाभ्रमालिके।।
कर्कट्युवाच।।
भगवन्भूतभव्येश स्यामहं जीवसूचिका।
अनायसीवायसीव विधे दास्यसि चेद्वरम्।।[3-3-26]
विधे हे विरिञ्चे।।
वसिष्ठ उवाच।।
एवमस्त्विति तामुक्त्वा पुनराह पितामहः।
सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका।।[3-3-27]
दुर्भोजना दुराम्भा मूर्खा दुःस्थितयश्च ये।
दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि।।[3-3-28]
कर्कट्या प्रार्थितो लोकसिद्धजीवसूचित्वदानात्सकलजनानामपूर्वदुःखसागरनिमज्जनं मा भूदिति जगति स्वत एव विद्यमानविषूचिकाव्याधिभावमस्यै दातुमिच्छन् प्राप्तकर्मानुसारी भगवन्पुनराह पितामहः-सूचिका सोपसर्गेति।। वीत्यनेनोपसर्गेण सह वर्तत इति सोपसर्गा सूचिका भविष्यसि। सोपसर्गसूचिकामेव दर्शयति-विषूचिकेति।।[3-3-27,28]
प्रविश्य हृदयं प्राणैः पद्मप्लीहादिबाधनात्।
वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका।।[3-3-29]
सगुणं निर्गुणं चैव जनमासादयिष्यसि।
सगुणानां चिकित्सार्थं मन्त्रोऽयं तु मयोच्यते।।[3-3-30]
पद्मेति।। पद्मो नाम रोगः प्लीहा गुल्मः पद्मप्लीहादिभिर्बाधनाद्विषूचिकाव्याधिर्भविष्यसि वातलेखेति।।[3-3-29,30]
ॐ ह्रां ह्रीं श्रीं रां विष्णुशक्तये नमो भगवति विष्णुशक्ति एहि एनां हरहर कुरुकुरुस्वाहा। विषूचिके त्वं हिमवन्तं गच्छगच्छ जीव सारचन्द्रमण्डलं गतोऽसिस्वाहा।
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे।
मार्जयेच्चातुराकारं तेन हस्तेन संयतः।।[3-3-31]
विष्णुशक्ति हे विष्मुशक्ते। आतुरः संबोध्यते जीवेति। हे जीव, चन्द्रमण्डलमृमयं गतोऽसिस्वाहा। स्वयमिहागच्छतु मया हूयमानं जीवात्मकं हविश्चन्द्रमण्डलं स्वयं गच्छत्वित्यर्थः। मन्त्री। महामन्त्रं मन्त्राणां मध्ये महामन्त्रम्। वामकरोदरे वामपाण्यन्तःप्रदेशे। तस्य तल इत्यर्थः। न्यस्य न्यासं कृत्वा। मान्त्री। महामन्त्रं मन्त्राणां मध्ये महामन्त्रम्। वामकरोदरे वामपाम्यन्तःप्रदेशे। तस्य तल इत्यर्थः। न्यस्य न्यासं कृत्वा। मान्त्रिको दक्षिणहस्तेन स्ववामपाणितले मन्त्राक्षराणि लिखित्वेत्यर्थः। आतुराकां व्याधिताकारम्। संयतो नियतः।।
हिमशैलाभिमुख्येन विधृतां तां विचिन्तयेत्।
कर्कटीं कर्कशां क्रुद्धां मन्त्रमुद्गरमर्दिताम्।।[3-3-32]
मन्त्र एव मुद्गरस्तेन मर्दिताम्।।
आतुरं चिन्तयेच्चन्द्रे रसायनहृदि स्थितम्।
अजरामरणं मुक्तं सर्वाधिव्याधिविभ्रमैः।।[3-3-33]
रसायनहृदि अमृताभ्यन्तरे।।
साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः।
क्रमेमानेन सकलाः प्रोच्छिनत्ति विषूचिकाः।।[3-3-34]
इत्युक्त्वा भगवान्वेधास्तत्रैवान्तरधीयत।
अथ प्रादेशमात्राभा ततोऽप्यङ्गुलरूपिणी।।[3-3-35]
स्वाचान्तः सम्यक्कृताचमनः।।[3-3-34,35]
ततो माषशमीतुल्या ततः सूची बभूव सा।
कस्यचिद्विवशाङ्गस्य क्षीणस्य विकलस्य च।।[3-3-36]
माषशमीतुल्या माषशिम्बातुल्या। माषबीजकोशसमेत्यर्थः। `शमी शिम्बा त्रिषूत्तर'इत्यमरः।।
प्रविश्यान्तर्वातसूची भवत्यतिविषूचिका।
कस्यचित्तनुदेहस्य दुःस्थस्य विकलस्य च।।[3-3-37]
वातसूची वाय्वात्मकसूची सती। अतिविषूचिकातिशयितविषूचिकाव्याधिर्भवति। तनुदेहस्य कृशदेहस्य। विकलस्य। अस्वस्थस्येत्यर्थः।।
प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिनका।।[3-3-38]
जीवसूचित्व इति निमित्तसप्तमी।।
एवं बहूनि वर्षाणि प्राणिप्राणैकघातिनी।
देहद्वयेन बभ्राम व्योम्नि भूमितले तथा।।[3-3-39]
देहद्वयेनेति राक्षसीरूपदेहस्य नष्टत्वात्सूचीरूपदेहद्वयेनेत्यर्थः। यथोक्तं बृहद्वासिष्ठे-`अन्या बभूव लघ्वी सा तथा जीवविषूचिका। व्योमात्मिका निराहारा व्योमवृत्तिशरीरका। एव मस्यास्तनुर्जाता सूचिद्वयमपीह सा। नीहारांशुककार्पासं कार्पासांशुकपेलवा। तनुद्वयन तेनासौ प्रविश्य हृदयं नृणाम्। बाधयन्ती ततः क्रूरा प्रबभ्राम दिशो दशे'ति।।
अथ कालेन महता कर्कटी वनराक्षसी।
निर्वेदमन्तरगमद्विक्कष्टं किमिदं कटतम्।।[3-3-40]
निर्वेदं वैराग्यम्। धिगिति निन्दायाम्। `धिङ्निर्भर्त्सननिन्दयोरि'त्यमरः।।
किमहं सूचिका जाता सूच्यां किमिव यास्यति।
सूचीयं रक्तमांसानां कणमात्रेण पूर्यते।।[3-3-41]
किमिवेतीवशब्दो वाक्यालंकारार्थः। यास्यति अन्तर्भविष्यति।।
ममान्तरनिशं हन्त तृष्णासूची सुदुर्भरा।
क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः।।[3-3-42]
हन्तेति विषादे। `हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोरि'त्यमरः। तृष्णेव सूची दुःखदत्वात्तृष्णासूची।।
कालमेघविशालानि सुविशीर्णानि पर्णवत्।
सूच्यमपि हताशायां मनागपि न मान्ति हि।।[3-3-43]
मनागीषत्। `ईषनमनागि'त्यमरः।।
इति संचिन्त्य चित्तस्थं संहृत्य जनमारणम्।
तदेव हिमवच्छृङ्गं जगाम तपसे पुनः।।[3-3-44]
स्वादुमांसस्य रसोपेतो ग्रासः स्वादुमांसरसग्रासः। वसा वपा। `हृन्मेदस्तु वपावसे'त्यमरः। जनमारणं जनमारणाभिप्रायम्।।
सर्वतश्चित्तमाहृत्य निर्वेदरसगर्भिणी।
सूचीदेहेन सोद्विग्ना तेपेऽतिकठिनं तपः।।[3-3-45]
निर्वेदरसो वैराग्यसारो गर्भेऽन्तर्यस्याः सा निर्वेदरसगर्भिणी। उद्विग्ना संतप्ता। तेपे तपश्चक्र इत्यर्थः।।
निःसंकल्पा निराहारा निस्तरङ्गमनेमयी।
अथ वर्षसहस्रान्ते सा प्राप परमां दशाम्।।[3-3-46]
निस्तरङ्गमनोमयी निर्विकारमनःप्रधाना।।
बभूव निर्मला सूची तपसा क्षीणकल्मषा।
जाता विदितवेद्या सा स्वयमेव तया धिया।।[3-3-47]
ततो वर्षसहस्राणि निःसंकल्पतया तया।
तस्थौ निखिलसंसारहेयतां हृदि कुर्वती।।[3-3-48]
तां वेधास्तादृशीं ज्ञात्वा पदं परममास्थिताम्।
उपेत्योवाच भगवान्पुत्रि कर्कटिराक्षसि।।[3-3-49]
तामेव तनुमासाद्य सुखिनी भुवने चर।
जीवन्मुक्तासि हे वत्से हार्दं ते गलितं तमः।।[3-3-50]
निर्मला रागादिरहिता। तत्र हेतुः क्षीणकल्मषेति। विदितं वेद्यं ब्रह्मात्मैक्यं यया सा विदितवेद्या। तया प्रसिद्धया।।[3-3-47,48,49,50]
ये मूढा ये दुरारम्भा मूर्खा दुःस्थितयश्च ये।
दुर्देशवासिनो ये च ते ग्रासाय सुस्थिताः।।[3-3-51]
मूढा अब्रह्मविदः। मूर्खा हिताहितविवेकरहिताः।।
इत्युक्त्वान्तर्दधे वेधाः साभूत्तदनु राक्षसी।
अन्तः संचिन्मयी जाता बाह्यकल्लोलवर्जिता।
चिरं तदनु सा तस्थौ निर्विकल्पसमाधिना।।[3-3-52]
अथ कालेन महता चित्तस्पन्दनमेत्य सा।
बहिर्वृत्तिमयी जाता तां सरस्मार पुनः क्षुधाम्।।[3-3-53]
तनदु तदनन्तरम्। बाह्यकल्लोकवर्जिता बाह्योष्वनात्मसु प्रवृत्ता या अन्तःकरणसंबन्धिन्यस्ता एव कल्लोला महोर्मयः तैर्वर्जिता।।[3-3-52,53]
यावत्सत्त्वं हि देहस्य स्वभावो नापवर्तते।
तत्र सा चिन्तयामास ग्रासो जात्युचितो मम।।[3-3-54]
यावत्सत्त्वं यावत्प्राणम्। `द्रव्यासुव्यवसायेऽपि सत्त्वमस्त्री तु जन्तुष्वि'त्यमरः। ग्रस्यते इति ग्रास आहारः।।
वेधसा कल्पितो मूढो जनस्तान्विचिनोम्यहम्।
वेधसा संचिन्त्य सा तस्मादुत्थाय गिरिशृङ्गतः।।[3-3-55]
वेधसा मूढो ग्रासः कल्पित इत्यन्वयः। विचिनोम्यन्वेषयामि।।
विवेश शैलपादस्थं किरातजनमण्डलम्।
तत्र क्वापि महाटव्यां निवासमकरोत्तदा।।[3-3-56]
शैलस्य पादे प्रत्यन्तपर्वते तिष्ठतीति शैलपादस्थाम्। `पादाः प्रत्यन्तपर्वता' इत्यमरः। अथवा शैलपादस्थं पर्वतमूलदेशस्थम्।।
एतस्मिन्नन्तरे तत्र किरातजनमण्डले।
हस्तहार्यतमःपिण्डा बभूवासितयामिनी।।[3-3-57]
तस्यां रजन्यां भीमायां मन्त्रिणा सह भूपतिः।
अटवीं विक्रमोदारः प्राविशद्वीरचर्यया।।[3-3-58]
असितयामिनी कालरात्रिः।।[3-3-57,58]
अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ।
अपश्यद्धृतधैर्याथ वेतालालोकनोन्मुखौ।।[3-3-59]
धृतं धैर्यं यया सा धृतधैर्या।।
अथ सा चिन्तयामास लब्धो भक्ष्यो ह्यहो मया।
मूढावेतावनात्मज्ञौ भारो देहः किलानयोः।।[3-3-60]
अनयोरनात्मज्ञयोः। आत्मतया गृहीतदेहस्यावश्यं रक्षणीयत्वात्। तस्य च सर्वतः सोपद्रवतया रक्षणस्य दुष्करत्वाद्देहो भारः। भारवद्दुःखकृदित्यर्थः।।
इहामुत्र च नाशाय मूढो दुःखाय जीवति।
तस्माद्विनाशनीयोऽसौ पापसंपत्तिहेतुतः।।[3-3-61]
नाशाय पुरुषार्थभ्रंशाय। सुखानाप्तय इति यावत्।।
आदिसर्गे च नियमः कृतः पङ्कजजन्मना।
हिंस्राणां भोजनायास्तु मूढात्मा नात्मवानिति।।[3-3-62]
हिंस्राणां हिंसनशीलानाम्। अनात्मवान् अजितमनाः।।
तस्मादेतौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ।
अभव्य एव निर्दोषं प्राप्तमर्थमुपेक्षते।।[3-3-63]
भव्याः योग्याः। यथाहुः क्षीरस्वामिनः-`भव्यो योग्य' इति। अभव्यस्तद्विलक्षणः।।
न कदाचिदिमौ स्यातां गुणयुक्तौ महाशयौ।
तादृग्रूपविनाशो हि स्वभावान्मे न रोचते।।[3-3-64]
तदेतौ संपरीक्ष्येऽहं यदि तादृग्गुणान्वितौ।
तद्भक्ष्यं न करोम्येतौ न हिंस्ये गुणिनः क्वचित्।।[3-3-65]
अकृत्रिमं सुखं कीर्तिमायुश्चैवाभिवाञ्छता।
सर्वाभिमतदानेन पूजनीया गुणान्विताः।।[3-3-66]
अपि नङ्क्ष्यामि देहेन नैव भोक्ष्ये गुणान्वितम्।
सुखयन्ति हि चेतांसि जीवितादपि साधवः।।[3-3-67]
अपि जीवितदानेन गुणिनं परिपालयेत्।
गुणवत्संगमौषध्या मृत्युप्येति मित्रताम्।।[3-3-68]
यत्राहमपि रक्षामि राक्षसी गुणशालिनम्।
तत्रान्यः को न कुर्यात्तं हृदि हारमिवामलम्।।[3-3-69]
उदारगुणयुक्ता ये विहरन्तीह देहिनः।
धरातलेन्दवः सङ्गाद्भृशं शीतलयन्ति ते।।[3-3-70]
न कदाचिदिति।। अत्र यदीत्यध्याहार्यम्। इमौ यदि कदाचिदपि गुणयुक्तौ महाशयौ च न स्यातां तर्हि मया भोक्तव्यविति शेषः।।[3-3-64,65,66,67,68,69,70]
मृतिर्गुणितिरस्कारो जीवितं गुणिसंश्रयः।
फलं स्वर्गापवर्गादि जीविताद्गुणिसंश्रयात्।।[3-3-71]
गुणिनोऽमनित्वादिगुणवतो ब्रह्मविदः तिरस्कारो गुणितिरस्कारः स एव मृतिर्मरणं जीवनफलनाशकत्वात्। गुणिनः सम्यगापद्मेत संश्रयं गुणिसंश्रयः स एव जीवितं सकलपुरुषार्थमूलत्वात्। गुणिनः संश्रयः समाश्रयो यस्य तस्माज्जीवितात्स्वर्गादिफलं भवति।।
तस्मादिमौ परीक्ष्येऽहं कयाचित्प्रश्नलीलया।
किंमात्रज्ञानकावेताविति तामरसेक्षणौ।।[3-3-72]
का मात्रा परिमाणमस्येति किंमात्रं ज्ञानं ययोस्तौ तथोक्तौ।।
वसिष्ठ उवाच।।
अथ सा राक्षसी रक्षःकुलकाननमञ्जरी।
तमस्येवाभ्रलेखेन गम्भीरं विननाद ह।।[3-3-73]
रक्षसां कुलमेव काननमरण्यं तस्य मञ्जरी।।
नादान्ते समुवाचेदं हुंकारपरुषं वचः।
गर्जितान्तरं जातकरकाशनिशब्दवत्।।[3-3-74]
हुंकारेण परुषं कठोरं हुंकारपरुषम्। गर्जितेति।। करका वर्षोपलाः। करकाएवाशनिः गर्जनानन्तरं जातो यः करकाशनेः शब्दस्तद्वत्प्रतीयमानं वचः।।
भोभो घोराटवीव्योमपदवीशशिभास्करौ।
महामायातमः पीठशिलाकोटकीटकौ।।[3-3-75]
घोराटव्येव व्योमपदवी नभोमार्गः तस्याः शशिभास्करौ। महामायैव तमःपीठशिलान्धकारस्थपीठात्मकशिला तस्याः कोटरं छिद्रं तत्कीटकौ हे महामायातमःपीठशिलाकोटरकीटकौ।।
कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ।
मद्ग्रासपदमापन्नौ क्षणान्मरणकोचितौ।।[3-3-76]
मद्ग्रासपदं मद्ग्रसस्थानम्।।
राजोवाच।।
भोभो भूतक किं स्यास्त्वं क्व तिष्ठसि च देहकम्।
दर्शयास्यास्यव गिरः को बिभेत्यलिनीध्वनेः।।[3-3-77]
राज्ञेत्युक्ते रम्यमुक्तमिति संचिन्त्य सा तयोः।
प्रकाशायाप्यधैर्याय ननाद सुजहास च।।[3-3-78]
अलिनीध्वनेः भ्रमरीध्वनेः तत्समाया इत्यर्थः।।[3-3-77,78]
ततो ददृशतुस्तां तौ शब्दपूरितीदिङ्मुखीम्।
तादृग्घासप्रभापूरदूरप्रकटिताकृतिम्।।[3-3-79]
तादृग्घासस्य प्रचण्डहासस्य प्रभापूरेण दूरात्प्रकटिता आकृतिर्यस्याः सा तथोक्ता। हासे क्रियमाणे हि दन्तप्रभाः प्रसरन्ति यतः अतोऽभिधीयते हासप्रभेति।।
कल्पान्ताशनिकाशेन घुष्टामद्रितटीमिव।
तामवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ।।[3-3-80]
मन्त्र्युवाच।।
महाराक्षसि संरम्भः किमयं तव निष्फलः।
लाघवं ह्यथवा कार्यं लाघवेऽप्यतिसंभ्रमः।।[3-3-81]
कल्पान्ताशनिकाशेन प्रलयाशनिनिभेन। घुष्टां शब्दिताम्।।[3-3-80,81]
त्यज संरम्भमारम्भो नायं तव विराजते।
विषये हि प्रवर्तन्ते धीमन्तः स्वार्थसाधकाः।।[3-3-82]
त्यज संहर। संरम्भं आडम्बरं कोपं वा। विषये साधयितुं योग्येऽर्थे। हिशब्दो हेतौ।।तत्वादृशीनां सहस्राणि मशकानामिवाबले।
अस्माकं धीरतावात्याव्यूढानि तृणपर्णवत्।।[3-3-83]
धीरतावात्याव्यूढानि धीरतैव वात्या चक्रवातस्तया विशेषेणोढानि धूतानि।।
संरम्भज्वरमुत्सृज्य समया स्वच्छया धिया।
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते।।[3-3-84]
कथयाभिमतं किं ते किमर्थयसि चार्थिनी।
अर्थी स्वप्नेऽपि नास्माकमप्राप्तार्थः पुरो गतः।।[3-3-85]
व्यवहरतीति व्यवहारिणी तया। व्यवहारानुकूलयेति यावत्।।[3-3-84,85]
इत्युक्ता सा तदा तेन चिन्तयामास राक्षसी।
अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः।।[3-3-86]
न सामान्याविमौ मन्ये विचित्रेयं चमत्कृतिः।
वचोवक्त्रेक्षणान्येव वदन्त्यन्तर्विनिश्चयम्।।[3-3-87]
सत्त्वं बुद्धिः।।[3-3-86,87]
वचोवक्त्रेक्षणद्वारैर्धर्मितामाशया मिथः।
एकीभवन्ति सरितां पयांसि चलनैरिव।।[3-3-88]
चलनैर्विवर्तनैः।।
आभ्यां प्रायः परिज्ञातो मम भावोऽनयोर्मया।
न बिनाश्यौ मयैतौ च स्वयमेवाविनाशिनौ।।[3-3-89]
आशयानामभिप्रायाणां मिथ एकीभावमेव स्वाभिमतं दर्शयति-आभ्यामिति।। स्वयमेवाविनाशिनौ अविनाशिब्रह्मरूपत्वात्।।
तदेतौ परिपृच्छामि किंचित्संदेहमुत्थितम्।
प्राज्ञं प्राप्य न पृच्छन्ति संदेहं ते नराधमाः।।[3-3-90]
तत्तस्मात्किंचित्संदेहमित्यत्र किंचिदित्यव्ययम्। `किंचिदीषन्मनागि'त्यव्ययवर्गपठितत्वात्। संदिहत इति संदेहस्तम्।
इति संचिन्त्य पृच्छायै तत्त्वानां वचनं ततः।
अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत्।।[3-3-91]
कौ भवन्तौ नरौ धीरौ कथ्यतामिति मेऽनघौ।।[3-3-92]
अकालकल्पाभ्रं अकालप्रलयमेघः तस्य रव इव रवो यस्मिंस्तं तथोक्तम्।।[3-3-91,92]
मन्त्र्युवाच।।
अयं राज किरातानामस्याहं मन्त्रितां गतः।
उद्यतौ रात्रिचारेण त्वादृग्जनविनिग्रहे।।[3-3-93]
त्वादृग्जनविनिग्रहे उद्यताविति संबन्धः।।
राज्ञां रात्रंदिवं धर्मो दुष्टभूतविनिग्रहः।।[3-3-94]
रात्रंदिवमित्यव्ययम्। अहोरात्रं दुष्टभूतविनिग्रहो राज्ञां धर्म इत्यन्वयः।।
राक्षस्युवाच।।
राजंस्त्वमसि सन्मन्त्री दुर्मन्त्री न नृपो भवेत्।
सन्नृपश्च भवेन्मन्त्री राजा सन्मन्त्रिणा भवेत्।।[3-3-95]
दुष्टो मन्त्री यस्य स दुष्टमन्त्री नृपो दुर्मन्त्री न भवेत्। साधु नृपो यस्य स सन्नृपः मन्त्री च सन्नृपो भवेदित्यन्वयः। सन्मन्त्रिणा भवेत्संयुक्त इति शेषः।।
राजैवादौ विवेकेन योजनीयः सुमन्त्रिणा।
तेनार्यतामुपायाति यथा राजा तथा प्रजा।।[3-3-96]
राज्ञः सन्मन्त्रियुक्तत्वं विशेषत एव द्रष्टव्यमित्यभिप्रेत्याह-राजैवेति।। योजनीयो वृद्धैः।।
प्रभुत्वं समदृष्टित्वं राज्ञः स्याद्राजविद्यया।
तामेव यो न जानाति नासौ मन्त्री न वा नृपः।।[3-3-97]
भवन्तौ तद्विदौ साधू यदि तच्छ्रेय आप्स्यथः।
नोचेदनर्थदोषः स्यात्प्रकृतेरद्म्यहं युवाम्।।
राजविद्यया राजनीतिपरिज्ञानेन। अथवा विद्यानां राजा राजविद्य ब्रह्मविद्या तया। `राजगुह्यमित'ति स्मरणात्। अयमेवार्थोऽस्येति बृहद्वासिष्ठपद्यात्स्पष्टं प्रतीयते-`समस्तगुणजालानामध्यात्मज्ञानमुत्तमम्। तद्विद्राजा भवेद्राजा तद्विन्मन्त्री च मन्त्रवि'दिति।।[3-3-97,98]
एकोपायेन मत्पार्श्वाद्बालकावुत्तरिष्यथः।
मत्प्रश्नपञ्जरं सारं चेद्धि धारयथो धिया।।[3-3-99]
वसिष्ठ उवाच।।
इत्युक्त्वा राक्षसी प्रश्नान्सा वक्तुमुपचक्रमे।
कथ्यतामिति राज्ञोक्ते तानिमाञ्शृणु राघव।।[3-3-100]
तत्तर्हि। बालकाविति संबोधनम्।।[3-3-99,100]
राक्षस्युवाच।।
एकस्यानेकसंख्यस्य कस्याणोरम्बुधेरिव।
अन्तर्ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव।।[3-3-101]
एकस्येति।। अम्बुधेरन्तर्बुद्बुदा अम्बुस्फोटा इव ब्रह्मण्डलक्षाणि कस्याणोरन्तर्लीयन्ते लयं गच्छन्ति। अणुं विशिनष्टि-एकस्यानेकसंख्यस्येति किम्।।
किमाकासमनाकाशं न किंचित्किंचिदेव किम्।
गच्छन्न गच्छति च कः कोऽतिष्ठन्नेव तिष्ठति।।[3-3-102]
किं वस्त्वाकाशं भवत्याकाशं न भवति च। किं वस्तु किंचिन्न भवति किंचिद्भवति च। कोऽतिष्ठन्नेव तिष्ठति। असन्नेव तिष्ठतीत्यर्थः।।
कश्चेतनोऽपि पाषाणः कश्च व्योमनि चित्रकृत्।
अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः।।[3-3-103]
अस्य प्रश्नवाक्यस्यायमेवार्थ इत्युत्तरमवगम्यते। पाषाणः पाषामसदृशः। अचेतन इत्यर्थः। एतस्मिन्वृक्षे तादात्म्येनावस्थाने दृष्टान्तो बीज इव द्रुम इति। कारणे तावत्कार्यमुत्पत्तेः प्राक्सूक्ष्मरूपेण वर्तत इत्यभ्युपगन्तव्यम्। तत्र तदभावे तस्मादेव तदुत्पत्तिरिति नियमादर्शनप्रसङ्गात्। दृश्यते च तिलेभ्य एव तैलमुत्पद्यते न सिकताभ्यः क्षीरादेव सर्पिर्मृद एव घट इत्युत्पत्तिनियमः। तथाचैकस्मिन्नेव बीजे स्वकुक्षिनिप्तानेकवृक्षोऽस्तीति बीज एव द्रुम इत्युपपन्नमुक्तम्।।
कस्मान्न किंचिच्च पृथक्कम्पादीव महाम्भसः।
द्वैतमप्यपृथक्कस्माद्वर्तते च महाम्भसः।।[3-3-104]
किंचिदपि कस्मात्पृथङ् न भवतीति भेदिनमादाय पृष्ट्वा भेदमादाय पृच्छति-द्वैतमिति।।
यद्येतान्सपदि धिया विचारयन्तौ मत्प्रश्नान्न खलु विगाहितुं समर्थौ।
तद्भक्षो जठरहुताशनेन्धनत्वं निर्विघ्नं झटिति गमिष्यथः क्षणेन।।[3-3-105]
वसिष्ठ उवाच।।
महानिशि महारण्ये महाराक्षसकन्यया।
इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ।।[3-3-106]
विरुद्धार्थतया प्रश्नानामसाधुत्वं व्युदस्यति-मत्प्रश्नानिति।। तत्तर्हि जठरमुदरम्। जठराग्नेरिन्धनत्वं झटिति गमिष्यथः। क्षणेनेति शेषः।।[3-3-105,106]
मन्त्र्युवाच।।
भवत्या परमात्मैष कथितः कमलेक्षणे।
अनयैव वचोभङ्ग्या ब्रह्मविद्बोधयोग्यया।।[3-3-107]
सर्वेषां प्रश्नानां सामान्येनोत्तरमाह-भवत्येति।। भङ्गोविच्छित्तिः। भाग इत्यर्थः।।
अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः।
चिन्माख्यत्वमात्माणुराकाशादपि सूक्ष्मकः।।[3-3-108]
चिदणोः परमस्यान्तः कोटिब्रह्माण्डबुद्बुदाः।
उद्भूय स्थितिमभ्यस्य लीयन्ते शक्तिपर्ययात्।।[3-3-109]
`एकमेवाद्वितीयमि'ति श्रुतेर्वास्तवमेकत्वम्। `इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतेर्मायिकमनेकत्वं च परमात्मनः सुवचमित्यभिप्रेत्याद्यप्रश्नभागस्योत्तरमाह-अनाख्यत्वादिति श्लोकद्वयेन।। अनाख्यत्वाद्वाचकाख्यानरहितत्वान्मनः षष्ठमिन्द्रियं येषां तेषां श्रोत्रादीनां स्थितेर्मर्यादाया असाङ्कर्येण पदार्थप्रकाशनसामर्थ्यस्येति यावत्। एवमुक्तोपपत्तित आत्मा अणुवत् अणुर्निरवयवत्वाच्च आकाशवदित्याह-आकाशादिति।। शक्तिपर्ययात् स्थितिशक्तेरतिक्रमात्। `पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः' इत्यमरः।। एतेनाष्टमप्रश्नोऽपि दत्तोत्तरो वेदितव्यः।।[3-3-108,109]
आकाशं बाह्यशून्यत्वादनाकाशं च चित्त्वतः।
अकिंचिदित्यनिर्देश्यं वस्तुसत्तेति किंचनः।।[3-3-110]
द्वितीयं प्रश्नं प्रत्याह-आकाशमिति।। बाह्यशून्यत्वात्स्वबहिर्भूतवस्तुशून्यत्वाच्चित्त्वतश्चिद्रूपत्वादनाकाशं भूताकाशं न भवति। तृतीयं प्रश्नं प्रत्याह-अकिंचिदिति।। यद्यस्माद्ब्रह्मवस्त्वनिर्देश्यमनभिधेयं तस्मादकिंचित्किंचिन्न भवति। सत्तेति। किंचन परमार्थसत्तामात्रात्मकमिति किंचिद्भवति तदित्यर्थः।।
चेतनोऽसौ प्रकाशात्मा वेद्याभावाच्छिलोपमः।
आत्मनि व्योमनि स्वच्छे जगदुन्मेषचित्रकृत्।।[3-3-111]
षष्ठं प्रश्नं प्रत्याह-चेतनोऽसाविति।। व्युत्क्रमेणोत्तरं तु राक्षसीबुद्धिपरीक्षार्थम्। असौ परमात्मा यतश्चैतन्यप्रकाशात्मा अतश्चेतनो भवति। वेद्याभावाद्वस्तुतो ज्ञेयाभावात्कल्पितवेद्यसंनिधावपि निर्विकारत्वाच्च शिलोपमो भवति। सप्तमं प्रश्नं प्रत्याह-आत्मनीति।। उन्मेषोऽभिव्यक्तिः।।
तद्भावमात्रमिदं विश्वमिति न स्यात्ततः पृथक्।
जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः।।[3-3-112]
नवमप्रश्नस्योत्तरमाह-तद्भावमात्रमिति।। इदं सर्वं जगत्तद्भावमात्रं ब्रह्मचैतन्यमात्रं तद्ब्रह्म चैतन्यव्यतिरेकेणासंभावितसत्त्वमिति यावत्। अथवा तद्भावमात्रं तस्याधिष्ठानस्यान्यथाप्रतीतिमात्रमिति हेतोस्ततस्तस्मात्पृथक् न स्यात्। दशमप्रश्नस्योत्तरमाहजगदिति।। तन्मयस्तत्स्वरूपो न ततः पृथगस्तीत्यर्थः।।
सर्वगः सर्वसंबद्धो गत्यभावान्न गच्छति।
नास्त्यसावाश्रयाभावात्सद्रूपत्वादथास्ति च।।[3-3-113]
चतुर्थस्योत्तरमाह-सर्वग इति।। गम्यसंबन्धो हि गमनफलम्। परमात्मा च सर्वेण गम्येन संबद्धः अतः सर्वगो भवति। गत्यभावाद्विभुत्वेनासंभावितगतित्वाद्वस्तुतो गन्तव्याभावाच्च न गच्छति च। पञ्चमस्योत्तरमाह-नास्त्यसाविति।। जगति योऽस्ति स हि प्रकाश्यो भवति संश्रयो भवति। असौ परमात्मान्याप्रकाश्यत्वात् निराश्रयत्वान्नास्तीत्युच्यते। अथ अथापि सद्रूपत्वात्परमार्थसद्रूपल्वादस्ति च।।
अथो नु परमार्थोक्तिः पावनी तव मन्त्रिणः।।[3-3-114]
राजा राजीवपत्राक्ष इदानीमेष भाषताम्।।[3-3-115]
श्रुत्वेति सार्धश्लोकः स्पष्टार्थः।।[3-3-114,115]
राजोवाच।।
जाग्रतः प्रत्ययाभावाद्यस्याहुः प्रत्ययं परम्।
सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः।।[3-3-116]
प्रश्नरीत्यनुसारेण मन्त्रिणैवोत्तरस्य दत्तत्वात्तामुपेक्ष्य रीत्यन्तरमाश्रित्याह-जाग्रत इति।। यस्य ब्रह्मणः परं परमपुरुषार्थसाधनात्वात्। प्रत्ययं ज्ञानम्। जाग्रतः विवेकिनः पुरुषस्य प्रत्ययाभावाद्वास्तवद्वैतप्रत्ययाभावाज्जायमानमाहुः। द्वैतं वस्तुसदिति प्रत्ययस्याद्वैतज्ञानप्रतिबन्धकत्वात्। जाग्रतोऽपि विवेकिनस्तद्भावादद्वैतज्ञानस्य जायमानत्वं युक्तम्। जाग्रतः प्रत्ययाभाव इति क्वचित् तत्रायमर्थः। जाग्रतो विवेकिनो यः प्रत्ययाभावो वास्तवद्वैतप्रत्ययाभावोऽस्ति तं यस्य प्रत्ययमाहुः तत्कारणत्वात्। अथवा जाग्रतः साक्षादिक्षमाणस्यापि यस्य द्वैतविषयप्रत्ययाभावो भवति। नहि द्वैतप्रत्ययरूपेण साक्षी परिणमते कूटस्थत्वात्। यस्याहुः प्रत्ययं परिमिति पूर्ववत्। यद्वा यस्य प्रत्ययं स्वरूपचैतन्यं परं संसारातीतमाहुः। अत्र यच्छब्दस्तच्छब्दाध्याहारेण कथ्यत इति वक्ष्यमाणेन संबन्धः। एवमुत्तरत्रापि यच्छब्दसंबन्धो ज्ञेयः। चेतसान्तःकरणेन सर्वसंकल्पसंन्यासः सर्वद्वैतप्रत्ययसङ्गत्यागो निर्विकल्पसमाधिरित्येतत् यत्परिग्रहो यस्य परमात्मनः स्वीकारो भवति तद्धेतुत्वात्।।
यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः।
निष्ठा वेदान्तवाक्यानामथ वाचमागोचरः।।[3-3-117]
यत्संकोचविकासाभ्याम्। यस्य संकल्पविकल्पलयोदयाभ्यामित्यर्थः। वेदान्तवाक्यानां निष्ठा लक्षणावृत्त्या पर्यवसानभूमिर्भवति। अथ अथापि शब्दप्रवृत्तिहेतूनां जात्यादीनां अभावाद्वाचामगोचरश्च भवति। अथवा वाक्यजन्यवृत्तिव्याप्यवात्तद्गोचरत्वं तज्जन्यफलाव्यापकत्वात्तदगोचरत्वम्।।
कोटिद्वयान्तरालस्थमथ कोटिद्वयीमयम्।
यस्य चित्तमयी लीला जगदेतच्चराचरम्।।[3-3-118]
कोटिद्वयेति।। द्वैताद्वैतकोट्यन्तरालस्थं ब्रह्म द्वैताद्वैतकोटिभ्यां परस्परापेक्षसिद्धत्वेन कल्पिताभ्यां विलक्षणं अधिष्ठानतया तयोर्मध्यस्थं भवति। अथवा सदसत्कोट्यन्तरालस्थम्। ` न स सत्तन्नासदुच्यते' इति भगवद्वचनात्। कार्यकारणकोट्यन्तरालस्थं वा द्रष्टृदृश्यकोट्यन्तरालस्थं वा बिम्बप्रतिबिम्बकोट्यन्तरालस्थं वा। यद्वा बन्धमुक्तिकोट्यन्तरालस्थं वा नियम्यनियामककोट्यन्तरालस्थं वा सर्वेषामप्येतेषां कल्पितात्वाद्ब्रह्मणस्तेभ्यो विलक्षमतया तद्तरालस्थत्वमुपपन्नम्। अथ कोटिद्वयीमयं अथापि माययोक्तकोटिद्वयीस्वरूपं भवति जगद्यस्याधिष्ठानस्य विवर्तभूतचित्तमयी लीला भवति।।
यस्य विश्वात्मकत्वेऽपि खम्ड्यते नैकपिण्डता।
सन्मात्रं तत्त्वया भद्रे कथ्यते ब्रह्म साश्वतम्।।[3-3-119]
यस्य विश्वात्मकत्वेऽपि सर्वात्मकत्वेऽप्येकपिण्डता एकस्वरूपता न खण्ड्यते। मायिकेनानेकरससर्वतादात्म्येन वास्तवत्वमेकरसत्वं न विहन्यत इत्यर्थः। कथ्यते त्वयेत्यर्थः।।
वसिष्ठ उवाच।।
इति राजमुखाच्छ्रुत्वा कर्कटी वनमर्कटी।
अवबुद्धपदा तस्थौ जहौ मत्सरचापलम्।।[3-3-120]
अन्तःशीतलतामेत्य सा विश्रान्तिमवाप ताम्।
प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती।।[3-3-121]
ब्रह्मात्मतावगतिः प्रत्यक्षफलेति दर्शयितुं इति राजपुखादित्यादि श्लोकद्वयं स्पष्टार्थम्।।[3-3-120,121]
राक्षस्युवाच।।
अहो बत पवित्रेयं भवतोर्भाति शेमुषी।
अनस्तमितसारेण प्रबोधार्केण भासिता।।[3-3-122]
विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः।
महतामेव संसर्गात्पुनर्दुःखं न बाधते।।[3-3-123]
उत्पन्नविज्ञानस्य कर्मलोपाभावेऽप्यादेहपातं सन्मार्ग एव रुचिर्भवतीति दर्शयितुं अहो बतेत्यादिनाऽऽख्यानसमाप्तिपर्यन्तो ग्रन्थसंदर्भः। सोऽपि स्पष्टार्थः। तत्र कानिचित्पदानि व्याक्रियन्ते। बतेति संतोषे। सेमुषी बुद्धिः। `बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मति'रित्यमरः। अनस्तमितसारेणानष्टनष्टसामर्थ्येन।।[3-3-122,123]
को हि दीपशिखाहस्तस्तमसा परिभूयते।
मयैतौ जाङ्गलं प्राप्तौ भवन्तौ भूमिभास्करौ।।[3-3-124]
पूजनीयावतः शीघ्रमीहितं कथ्यतां शुभौ।।[3-3-125]
जाङ्गलं मरुभूमिवनम्।।[3-3-124,125]
राजोवाच।।
प्रार्थये त्वामहं रक्षःकुलकाननमञ्जरि।
भूयो भवत्या यत्प्राणा हिंसनीया न कस्यचित्।।[3-3-126]
रक्षःकुलमेव काननं वनं तस्य मञ्जरी। हे रक्षःकुलकाननमञ्जरि, भवत्या कस्यचिदपि प्राणा भूयो न हिंसनीया इति यत्तत्त्वां प्रार्थय इति पूर्वेण संबन्धः।।
प्रीतार्था राक्षसी प्राह कर्कटी वनमर्कटी।
बाढमेवं करोम्यद्यप्रभृत्यवितथं प्रभो।।[3-3-127]
सर्वमेव न किंचिद्धि हिंसनीयं मयाधुना।।[3-3-128]
न विद्यते वितथमनृतं यस्मिन्कर्मणि तदवितथम्। `वितथं त्वनृतं वच' इत्यमरः।।[3-3-127,128]
राजोवाच।।
यद्येवं फुल्लपद्माक्षि परदेहैकभोजने।
किं स्याच्छरीरभृत्यै ते स्थिताया मत्समीहिते।।[3-3-129]
राक्षस्युवाच।।
कालेन बहुना राजन्प्रबुद्धायाः समाधितः।
जाता भोजनवाञ्छा मे न तां तु गणयाम्यहम्।।[3-3-130]
फुल्लं विकासि। भृत्यै भरणाय। मत्समीहिते मदिष्टे।।[3-3-129,130]
इदानीं शिखरं गत्वा प्राक्तनध्याननिश्चला।
यावदिच्छं सुखेनासे सजीवा शालभञ्जिका।।[3-3-131]
आसे उपवेशनं कुर्वे। सालभञ्जिका पुत्तलिका तत्सदृशीत्यर्थः।।
आमृतिं धारणां बध्वा धारयामि शरीरकम्।
यथेष्टमतिकालेन त्यजामीति मतिर्मम।।[3-3-132]
आशरीरपरित्यागमिदानां न मया नृप।
हिंसनीयाः परप्राणाः पश्यन्त्या सर्वगं शिवम्।।[3-3-133]
इति संजातसौहार्दा तौ विसृज्य निशाचरी।
यदा गन्तुं प्रवृत्तासौ तदा राजाऽब्रवीद्वचः।।[3-3-134]
आमृतिमित्यार्षम्। आमृतिं मृतिपर्यन्तम्। आमृतेरिति वा पाठः।।[3-3-132,133,134]
नास्मत्प्रमयसौहार्दं वितथीकर्तुमर्हसि।
सौहार्दं सुजनानां हि दर्शनादेव वर्धते।।[3-3-135]
लघु सौभाग्यसंयुक्तं कृत्वाकारं मनोहरम्।
आगच्छास्मद्गृहं भद्रे तत्र तिष्ठ यथासुखम्।।[3-3-136]
सौहार्दं सुहृद्भावम्। वितथीकर्तुं अनृतीकर्तुम्। व्यर्थीकर्तुमित्यर्थः।।[3-3-135,136]
राक्षस्युवाच।।
मुग्धस्त्रीरूपधारिण्यै दातुं शक्तोऽसि भोजनम्।
संतर्पयसि मां केन राक्षसीजातिधारिणीम्।।[3-3-137]
रक्षोन्नमेव मे तुष्ट्यै न सामान्यजनाशनम्।
पूर्वसिद्धस्वबावोऽयमादेहं नो निवर्तते।।[3-3-138]
संतर्पयसि संप्रीणयसि।।[3-3-137,138]
राजोवाच।।
हेमस्रग्दामवलिता दिनानि कतिचिन्मम।
गृहे स्त्रीरूपिणी तिष्ठ यावदिच्छाम्यनिन्दिते।।[3-3-139]
ततो दुष्कृतिनश्चौरान्वध्याञ्शतसहस्रशः।
मण्डलेभ्यः समाहृत्य ददे तुभ्यं सुभोजनम्।।[3-3-140]
कान्तारूपं परित्यज्य गृहीत्वा तानशेषतः।
नयख हिमवच्छृङ्गं तत्र भुङ्क्ष्व यथासुखम्।।[3-3-141]
हेमस्रग्भिः हेममालाभिः दामभिर्हेमसूत्रैश्च वलिता वेष्टिता हेमस्रद्गामवलिता।।[3-3-139,140,141]
महाशनानामेकान्ते भोजनं हि सुखायते।
तृप्तिं निद्रां मनाक्कृत्वा भव भूयः समाधिभाक्।।[3-3-142]
मनागीषत्।।
समाधिविरता भूयोऽप्यागत्य पुनरन्यदा।
नयस्वान्यान्वध्यतरान्हिंसा नैषां हि धर्मतः।।[3-3-143]
स्वधर्मेण च हिंसैव महाकरुणया समा।
त्वं समेष्यसि वावश्यं मां समाधिविरागिणी।
असतामपि संरूढं सौहार्दं न निवर्तते।।[3-3-144]
राक्षस्युवाच।।
पुक्तमुक्तं त्वया राजन्करोम्येवमहं सखे।
सौहार्देन प्रवृत्तस्य को वाक्यं नाभिन्दति।।[3-3-145]
वसिष्ठ उवाच।।
इत्युक्त्वा राक्षसी तत्र संपन्ना सा विलासिनी।
राजन्नागच्छ गच्छाम इत्युक्त्वा नृपमन्त्रिणौ।।[3-3-146]
धर्मतः क्रियमाणेति शेषः। यद्वा धर्मतो धर्मशास्त्रतः।।[3-3-143,144,145,146]
आश्रमं स्वं प्रवृत्तौ तौ रात्रावनुससार सा।
अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः।।[3-3-147]
रजनीं रात्रिम्। रजनीं क्षपयामासुरिति संबन्धः। मिथोऽन्योन्यम्।।
कथयैव गृहे रम्ये क्षपयामासुरादृताः।
प्रभातेऽन्तःपुरे तस्थौ पुरन्ध्रीजनलीलया।।[3-3-148]
राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः।
ततो दिवसषट्केन संचितानि महीभृता।।[3-3-149]
नृपान्तरपुरेभ्योऽपि स्वमण्डलगणात्तदा।
त्रीणि वध्यसहस्राणि तानि तस्यै तदा ददौ।।[3-3-150]
सा बभूव निशाकाले सैवोग्रा कृष्णराक्षसी।
तानि वध्यसहस्राणि जग्राह भुजमण्डले।।[3-3-151]
ययौ राजानमापृच्छ्य तदैव हिमवच्छिरः।
ततःप्रभृति साद्यापि किरातजनमण्डले।।[3-3-152]
वध्यानागत्य गृह्णाति समाधेर्व्युत्थिता सती।।[3-3-153]
इति श्रीमोक्षोपाये उत्पत्तिप्रकरणे सूच्युपाख्यानं नाम तृतीयः सर्गः।। 3 ।।
पुरन्ध्री कुटुम्बिनी।।[3-3-148,149,150,151,152,153]
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीमदात्मसुखकृतौ वासिष्ठचन्द्रिकायां मोक्षोपाये सूच्युपाख्यानं नाम तृतीयः सर्गः।। 3 ।।