लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः २
← सर्गः १ | लघुयोगवासिष्ठः सर्गः २ [[लेखकः :|]] |
सर्गः ३ → |
मण्डपोपाख्याने लीलोपाख्यानम्।। द्वितीयः सर्गः।।
वसिष्ठ उवाच।।
अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम्।
निःसंदेहो यथैषोऽर्थश्चित्ते विश्रान्तिमेति ते।।[3-2-1]
पूर्वस्मिन्नाकाशजाख्याने चिन्मात्रस्वरूपस्य परमात्मनो मायैव मनो भूत्वा जगत्सृजतीत्युक्तम्। इदानीं मायाया बहुदुर्घटहेतुत्वं जगन्मायिकत्वनिश्चयर्ढ्याय प्रपञ्छयितुं लीलाख्यानमवतारयति-अत्रेदमिति।। तथाच महद्भिरुक्तम्-`पूर्वत्राकाशजाख्याने चिन्मात्रस्य परोत्मनः। या माया सा मनो भूत्वा सृजतीत्युपर्णितम्।। लीलाख्यानेन मायाया बहुदुर्घटहेतुता। प्रपञ्च्यते मायिकत्वं जगत्येतत्स्फुटीभवेदि'ति ग्रन्थस्तु चित्ताकाशमित्यतः प्राक्तनः स्पष्टार्थः। क्वचित्किंचिद्विविच्यते।।
आसीदस्मिन्महीपीठो कुलपद्मो विकासवान्।
पद्मो नाम नृपः श्रीमान्बहुपुत्रो विवेकवान्।।[3-2-2]
कुलपद्मः कुलालंकारः। पद्मशब्दो वा पुंलिङ्गे भवति। `वा पुंसि पद्मं' इत्यमरः। विकासवान् कीर्तिमान्। अथवा मुखविकासवान् नित्यप्रमुदितमुख इति यावत्।।
मर्यादापालनाम्भोधिर्द्विषत्तिमिरभास्करः।
सरः सद्गुणहंसानां दोषतृण्याहुताशनः।।[3-2-3]
मर्यादापालनाम्भोधिः मर्यादापालनेऽम्भोनिधितुल्यः। यथाम्भोधिर्वेलां मर्यादां नातिक्रामति तथा वर्णाश्रममर्यादां नातिक्रामतीत्यर्थः। द्विषत्तिमिरभास्करः शत्र्वन्धकारसूर्यः। सद्गुणाः शोभनागुणास्ते च हंसास्तेषां सरः। दोषतृण्याहुताशनः य'इति समूहार्थे तृण्शब्दाद्यः प्रत्ययः।।
तस्यासीत्सुभगा भार्या लीला नाम विलासिनी।
सर्वसौभाग्यवलिता कमलेवोदितावनौ।।[3-2-4]
शोभनो भगः श्रीर्यस्याः सा सुभगा। कमला लक्ष्मीः उदितोत्पन्ना। अवनिर्भूमिः। अवनावुदिता कमलेवेति संबन्धः।।
उद्विग्ने प्रोद्विग्ना मुदिते मुदिता समाकुलाकुलिते।
प्रतिबिम्बसमाक्रान्ता संक्रुद्धे केवलं भीता।।[3-2-5]
सैकदा चिन्तयामास शुभसंकल्पशालिनी।
प्राणेभ्योऽपि प्रियो भर्ता ममैष जगतीपतिः।।[3-2-6]
भर्तर्युद्विग्ने संतप्ते सति प्रोद्विग्ना प्रकर्षेणसंतप्ता भवति।।[3-2-5,6]
यौवनोल्लासवाञ्श्रीमान्कथं स्यादजरामरः।
भर्त्रानेन कथं साकं रमे युगशतान्यहम्।।[3-2-7]
यौवनोल्लासवान् यौवनोद्रेकवान्।।
ज्ञानवृद्धांस्तपोवृद्धान्विद्यावृद्धानहं द्विजान्।
पृच्छामि तावन्मरणं कथं न स्यान्नृणामिति।।[3-2-8]
ज्ञानं ब्रह्मविषयम्। विद्या देवता धर्मादिविषया।।
इत्यानीयाथ संपूज्य द्विजान्पप्रच्छ सा नता।
अमरत्वं कथं विप्रा भवेदिति पुनःपुनः।।[3-2-9]
इत्यनियेत्यत्रेतिशब्दस्य चिन्तयामासेति पूर्वेणान्वयः। हे विप्राः, मर्त्यानाममरत्वं कथं भवेदिति पुनःपुनः पप्रच्छेत्यन्वयः।।
विप्रा ऊचुः।।
तपोजपयमैर्देवि समस्ताः सिद्धसिद्धयः।
संप्राप्यन्तेऽमरत्वं तु न कथंचन लभ्यते।।[3-2-10]
इत्याकर्ण्य द्विजमुखाच्चिन्ततयामास सा पुनः।
इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः।।[3-2-11]
यमा अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः सिद्धानां सिद्धयोऽणिमादयः सिद्धसिद्धयः।।[3-2-10,11]
मरणं भर्तुरग्रे मे यदि दैवाद्भविष्यति।
तत्सर्वदुःखनिर्मुक्ता संस्थास्ये सुखमात्मनि।।[3-2-12]
तत्तर्हि आत्मन्यद्वितीयानन्दस्वरूपे। संस्थास्ये सम्यक्पूनरुन्मज्जनायोग्यतया स्थितिं करिष्ये।।
अथ वर्षसहस्रेण भर्तादौ चेन्मरिष्यति।
तत्करिष्ये यथा येन जीवो गेहान्न यास्यति।।[3-2-13]
अथेति पक्षान्तरे।।
तद्भ्रमद्भर्तृजीवेऽस्मिन्निजे शुद्धान्तमण्डपे।
भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम्।।[3-2-14]
तत्तदा भ्रमद्भर्तृजीवे परिभ्रमत्पतिजीवे। शुद्धान्तमण्डपे अन्तःपुरमण्डपे।।
अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम्।
जपोपवासनियमैरातोषं पूजयाम्यहम्।।[3-2-15]
आतोषं तुष्टिर्यन्तम्।।
इति निश्चित्य सा नाथमनुक्त्वैव वराङ्गना।
यथासास्त्रं चकारोग्रं तपो नियममास्थिता।।[3-2-16]
आस्थिता आश्रिता।।
त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा।
देवद्विजगुरुप्राज्ञविद्वत्पुजापरायणा।।[3-2-17]
प्राज्ञो धर्माद्यभिज्ञः। विद्वान् ब्रह्मवित्। देवद्वजगुरुप्राज्ञवृद्धपूजापरायणेति क्वचित्।।
स्नानदानतपोध्याननित्योद्युक्तशरीरका।
सर्वास्तिक्यसदाचारकारिणी क्लेशहारिणी।।[3-2-18]
स्नानदानतपोध्यानेषु नित्यमुद्युक्तं शरीरं यस्याः सा तथोक्ता। सर्वास्तिक्येन सदाचारकारिणी सर्वास्तिक्यसदाचारकारिणी।।
त्रिरात्रशतमेवं सा बाला नियमशालिनी।
अनारतं तपोनिष्ठामतिष्ठत्कष्टचेष्टया।।[3-2-19]
अनारतं संततं तपोनिष्ठामवलम्ब्यातिष्ठदित्यध्याहारः। अथवातिष्ठदित्यन्तर्भावितण्यर्थः। अस्थापयदित्यर्थः।।
त्रिरात्राणां शतेनाथ पूजिता प्रतिमानिता।
तुष्टा भगवती गौरी वागीशा समुवाच ताम्।।[3-2-20]
प्रतिमानिता प्रतिपूजिता। आदरातिशयद्योतनाय पूजिता प्रतिमानितेत्युक्तम्। प्रतिमागतेति क्वचित्।।
निरन्तरेण तपसा भर्तृभक्त्यतिशायिना।
परितुष्टास्मि ते वत्से गृहाण वरमीप्सितम्।।[3-1-21]
भर्तृभक्त्यतिशायिनेति भर्तृभक्त्यतिशयितेन।।
राज्ञ्युवाच।।
जय जन्मजराज्वालादाहदोषशशिप्रभे।
जय हार्दान्धकारौघनिवारणरविप्रभे।।[3-2-22]
अम्ब मातर्जगन्मातस्त्रायस्व कृपणामिमाम्।
इदं वरद्वयं देहि यदिह प्रार्थ्यते मया।।[3-2-23]
जन्मजरा एव ज्वालास्ताभिर्दाह एव दोषस्तच्छामकशशिप्रभे। हृत्संबन्धी हार्दः।।[3-2-22,23]
एकं तावद्विदेहस्य भर्तुर्जीवो ममान्तिकात्।
अस्मादेव हि मा यासीन्निजान्तःपुरमण्डपात्।।[3-2-24]
विदेहस्य मृतस्य।।
द्वितीयं तु महादेवी प्रार्थयेऽहं यदा यदा।
दर्शनाय वरार्थेन तदा मे देहि दर्शनम्।।[3-2-25]
इत्याकर्ण्य जगन्माता तथास्त्वेवमिति स्वयम्।
उक्त्वान्तर्धानमगमत्प्रोत्थायोर्मिरिवर्णवे।।[3-2-26]
अथ सा राजमहिषी परितुष्टेष्टदेवता।
पूर्णेवामृतवर्षेण बभूवानन्दधारिणी।।[3-2-27]
वरार्थेन वरप्रयोजनेन हेतुना दर्शनाय यदा त्वं प्रार्थये तदा तर्शनं द्वितीयं वरं मे देहीत्यन्वयः।।[3-2-25,26,27]
पक्षमासर्तुकटके दिनारे वर्षदण्डके।
क्षणनाभौ स्पन्दमये कालचक्रे वहत्यथ।
अन्तर्धिमाजगामास्याः पत्युस्तच्चेतनं तनौ।।[3-2-28]
पक्षमासर्तुकटक इत्यादीनि पञ्च कालचक्रस्य विशेषणानि। पक्षमासर्तवः कटकं नाभिवलयं यस्य तत्तथा। `भूभृन्नितम्बे वलये चक्रे च कटकोऽस्त्रियामि'त्यमरः। दिनान्यरा यस्य तत्तथा। नाभिमारभ्य नेमिपर्यन्तं परितः समर्पिता अयोविकारा अरा उच्यन्ते। वर्षदण्डके संवत्सराक्षके क्षणः। नाभिः पिण्डिका। स्पन्दमये स्पन्दस्वरूपे। रविगतेः कालव्यञ्जकत्वेनोपचारात्तन्मयत्वमुक्तम्। वहतीति सतिसप्तमी।।
मृते तस्मिन्महीपाले शोकसंतापपीडिता।
निर्जला नलिनीवासौ परां म्लानिमुपाययौ।।[3-2-29]
क्षिप्रमाक्रन्दिनी क्षिप्रं मौनमूका वियोगिनी।
बभूव चक्रवाकीव मानिनी मरणोन्मुखी।।[3-2-30]
इष्टवियोगजं दुःखं शोकः। तापो दुःखमात्रम्। नलिनी पद्मिनी।।[3-2-29,30]
अथ तामतिमात्रविह्वलां सकृपाकाशभवा सरस्वती।
शफरीं द्वदशोषविह्वलां प्रथमा वृष्टिरिवान्वकम्पत।।[3-2-31]
सरस्वत्युवाच।।
किं स्मृतास्मि त्वया वत्से धत्से किमतिशोकताम्।
इत्युपेत्य पुरो ज्ञप्तिस्तामुवाच सरस्वती।।[3-2-32]
अतिमात्रविह्वलामत्यर्थपरवशाम्। शफरी मत्स्यावान्तरजातिः। `प्रोष्ठीतु शफरी द्वयोरि'त्यमरः। क्षुद्रमत्स्य इति केचित्।।[3-2-31,32]
शवीभूतमिमं वत्से भर्तारं पुष्पखण्डके।
आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमाप्स्यसि।।[3-2-33]
पुष्पाणि म्लानिमेष्यन्ति नो न वैष विनङ्क्ष्यति।
भूयश्च तव भर्तृत्वमचिरेण करिष्यति।।[3-2-34]
एतदीयश्च जीवोऽसावाकाशविशदस्तव।
न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात्।।[3-2-35]
पुष्पखण्डके पुष्पसमूहे।।[3-2-33,34,35]
सा दिव्यां भारतीं श्रुत्वा स्थापयित्वा तथा पतिम्।
दुःखादाह्वाययामास सोवाच समुपेत्य ताम्।।[3-2-36]
लीलोवाच।।
क्व ममावास्थितो भर्ता किं करोत्यथ कीदृशः।
समीपं नय मां तस्य नैका शक्नोमि जीवितुम्।।[3-2-37]
आह्वाययामासेति णिजर्थोऽत्राविवक्षितः। आजुहावेत्यर्थः।।[3-2-36,37]
ज्ञप्तिरुवाच।।
चित्ताकाशं चिदाकाशामाकाशं च तृतीयकम्।
द्वाभ्यां शून्यतरं विद्धि चिदाकाशं वरानने।।[3-2-38]
ब्रह्मणि विदिते सति तस्मिंश्चिवृश्चिनिरोधात्मकाद्योगादयोगिजनागोचरपदार्थदर्शनसामर्थ्यं संभवति यतस्ततो लीलाया अन्तःपुरमण्डपाकाशे वर्तमानभर्तृदर्शनसामर्थ्यसिद्ध्यर्थं ब्रह्मस्वरूपं प्रतिपादयति भगवती सरस्वती-चित्ताकाशमित्यादिश्लोकद्वयेन।। ननु वक्ष्यमाणविदूरथभार्याभूतलीलाया इव ब्रह्मप्रतिपादनादिकं विनापि लीलायै सृष्ट्यन्तरदर्शनसामर्थ्यं कुतो न ददाति सरस्वती ब्रह्मप्रतिपादनादावेव कुतः प्रवर्तते इतिचेदुच्यते। लीलया लीलान्तरवत्सांसारिकफलाभिलाषेणानाराधितत्वादीश्वर्याः संसारान्मुक्ता भवेयमित्यभिसंधायाराधितत्वाच्च सा तदनुकूलमेव प्रवर्तते। चित्तमेव स्वच्छत्वसूक्ष्मत्वादिनाकाशकल्पत्वादाकाशं चित्परामात्मैवाकाशं चिदाकाशं आकाशं च महाभूतसंज्ञं तृतीयमस्ति स्वच्छत्वसूक्ष्मत्वादिना जगति प्रसिद्धेषु तेषु त्रिषु यच्चियकमिति व्याकृतमुच्यते द्वाभ्यां शून्यतरमित्यनेन ब्रह्मणो निष्प्रपञ्चत्वमुक्तम्। चित्ताव्याकृतातिरिक्तप्रपञ्चाभावात्।।
देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत्।
निमेषेण चिदाकाशं तद्विद्धि वरवर्णिनि।।[3-2-39]
देशादिति।। संविदः चित्तस्य देशाद्देशान्तरप्राप्तौ विषयाद्विषयान्तरप्राप्तौ सत्यां निमेषेणात्यल्पकालेन प्रतीयमानं यन्मध्यमस्ति तदेव चिदाकाशं विद्धि जानीहि। एतदुक्तं भवति-चित्तस्य पूर्ववृत्तौ नष्टायामुत्तरवृत्तौ भवित्र्यां मध्ये यन्निर्विषयं संधिसाक्षिभूतं चैतन्यं स्वयं प्रकाशते, वृत्त्योर्मध्ये प्रतीयमानत्वमान्मध्यमित्युच्यमानं तच्चिदाकाशं बिद्धीति। तथाच सप्तभूमिकानिरूपणावसरे वक्ष्यति-`अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः। निरस्तमननाकारा स्वरूपस्थितिरुच्यते' इति। उक्तंच महद्भिः-`संधयोऽखिलवृत्तीनामभावाश्चावभासिताः। निर्विकारेण येनासौ कूटस्थ इति गीयते'इति।।
तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत्।
सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयम्।।[3-2-40]
एवं ब्रह्मात्मकं चिदाकाशं प्रतिपाद्य तद्विषयं योगं तत्फलं चाहतस्मिन्निति।। निरस्तो निःशेषो निरवशेषः संकल्पोऽनात्मप्रत्ययलक्षणो यया सा तथोक्ता। एषि गच्छसि। इण्गतावितिधातोर्लण्मध्यमपुरुषैकवचनम्। प्राप्नोषि। अवगतिप्राप्तिद्वारा मुच्यस इत्यर्थः। तथाचोक्तम्-`वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि। एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते' इति। `यदा सर्वाणि भूतानि समाधिस्थो न पश्यति। एकीभूतः परेणासौ तदा भवति केवलः' इति च।।
अत्यन्ताभावसंपत्त्या जगतस्त्वेतदाप्यते।
नान्यथा मद्वरेणाशु त्वं तु प्रापस्यसि सुन्दरि।।[3-2-41]
वसिष्ठ उवाच।।
इत्युक्त्वा सा ययौ देवी दिव्यमात्मीयमास्पदम्।
लीला तु लीलयैवासीन्निर्विकल्पसमाधिभाक्।।[3-2-42]
तत्याजाथ निमेषेण सान्तःकरणपञ्जरम्।
स्वदेहं खमिवोद्दीना मुक्तनीडा विहङ्गमी।।[3-2-43]
सर्वात्मकपदप्राप्तावुपायमाह-अत्यन्ताभावसंपत्त्येति।। जगतोऽत्यन्ताभावसंपत्त्या। अत्यन्तासत्त्वनिश्चयेनेतियावत्। एतत्सर्वात्मकं पदम्। मद्वरेणाश्वित्यादिर्यथा पत्युरित्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः। क्वचित्किंचिद्व्याख्यायते।।[3-2-41,42.43]
ददर्श स्वस्थं भर्तारं तस्मिन्नेवाम्बरालये।
संस्थितं पृथिवीपालमास्थाने बहुराजके।।[3-2-44]
तस्मिन्नेवाम्बरालये स्व एव गृहाकाश इत्यर्थः।।
सिंहासनसामारूढं जय जीवेति संस्तुतम्।
पूर्वद्वारस्थितासंख्यमुनिविप्रर्षिमण्डलम्।।[3-2-45]
पश्चिमद्वारगाशेषराजराजेशमण्डलम्।।
उत्तरद्वारगासंख्यरथस्त्यश्वसंकुलम्।।[3-2-46]
जीवेति क्रियापदम्।।[3-2-45,46]
दक्षिणद्वारगासंख्यललनालोकसंकुलम्।
पपाताथ महारम्भा सा तां नरपतेः सभाम्।।[3-2-47]
पपात जगाम।।
तद्देशांस्तत्समाचारांस्तथा तानेव तालकान्।
अथान्यानप्यपूर्वांश्च पिण्डितान्सुहृदस्तथा।।[3-2-48]
तच्छब्दैर्लीलया प्रागनुभूतदेशादयः परामृश्यन्ते। तालका बन्दिनः।।
महानदीशैलपुरपत्तनमण्डितान्।
द्विरष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम्।।[3-2-49]
सर्वमालोक्य सा राज्ञी विस्मयं परमं ययौ।
अथाभ्युत्थाय सा राज्ञी निजान्तःपुरमागता।।[3-2-50]
पुरं शाखानगरम्। पत्तनं मूलनगरम्। राजधानीत्यर्थः।।[3-2-49,50]
देवीं सस्मार विज्ञप्तिं ददर्श च पुरः स्थिताम्।
भद्रासनगतां देवीं लीलापृच्छद्भुवि स्थिता।।[3-2-51]
भद्रासनगतां सिंहासनगताम्। `नृपासनं यत्तद्भद्रासनं सिंहासनं च तदि'त्यमरः। शुभासनगतामिति।।
यथा पत्युरमूर्तोऽस्मात्सर्गात्सर्गो भ्रमात्मकः।
जातस्तथा कथय मे जगद्धमनिवृत्तये।।[3-2-52]
पद्मनृपेण मरणानन्तरक्षण एव तस्मिन्नेव गृहाकाशे दृष्टस्य प्रपञ्चान्तरस्योत्पन्नावुचितदेशकालसाधनाद्यभावात्स्वप्नप्रपञ्चवन्मिथ्यात्वं निश्चित्य तद्दृष्टान्तेन संभावितस्य जगन्मिथ्यात्वस्य निश्चयाय पत्युः प्रपञ्चान्तरभ्रमकारणं यथेत्यादिश्लोकेन पृच्छति। तद्भ्रमकारणे विदिते तत्कारणकस्य सर्वस्यापि जगतो मिथ्यात्वं निश्चेतुं शक्यत इति। मूर्तो मूर्तिमानवयवः स न भवतीत्यमूर्तः।।
प्राक्स्मृतेर्भ्रान्तिमात्रात्मा सर्गोऽयमुदितो यथा।
तथा द्वितीयः पत्युस्ते यथैतत्कथ्यते श्रृणु।।[3-2-53]
सर्वोऽयं प्रपञ्चो भ्रमात्मक एव तत्र पूर्वभ्रमादुत्तरोत्तरभ्रमोत्पत्तिरिति सिद्धान्ते स्थिते त्वत्पत्युर्मरणात्प्राक्तनप्रपञ्चभ्रमो यथा पूर्वजन्मसंचितादुत्पन्नस्तथा मरणानन्तरभाविप्रपञ्चभ्रमोऽपि पूर्वजन्मबावनयोत्पन्न इत्युत्तरमाह-प्रागिति।। दृष्टान्त एवासंप्रतिपन्न इत्याशङ्क्याह-यथैतदिति।। यथैतत्स्पष्टं भवति तथा कथ्यते।।
अस्तिकश्चिच्चिदाकाशे क्वचित्संसारमण्डपः।
आकाशविशदः काचदलसंछादिताकृतिः।।[3-2-54]
पद्मलीलयोः सर्गान्तरे ब्राह्मणदम्पतितया पूर्वमवस्थानादिकं दर्शयितुं तदीयं पूर्वसंसारं जीर्णमण्डपतया वर्णयति हेयत्वाय-अस्ति कश्चिदित्यादिना।। संछाद्यतेऽनेनेति संछादनं आकाशमेव नीलत्वात्काचदलात्मकसंछादनं तेनाच्छादिताकृतिराकारो यस्य स तथा।।
मेरुस्तम्भस्थलोकेशपुरन्ध्रीशालमञ्जिकः।
कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः।।[3-2-55]
मेरुरेव स्तम्भस्तत्स्था या लोकेशानामिन्द्रादीनां पुरन्ध्र्यः कुटुम्बिन्यस्ता एव शालभञ्जिकाः पुत्तलिका यस्य स तथा। मण्डपिश्चिरकालस्थो वल्मीकव्याप्तलोष्टको भवति तथा संसारमण्डपोऽपि कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः। लोष्टं पांशुपिण्डः। पर्वतकोणेषु स्थिताः प्राणिनो भूतशब्देनोच्यन्ते। पर्वता एव लोष्टानि कोणस्थभूतान्येव वल्मीकानि तैर्व्याप्तानि पर्वतलोष्टानि यस्मिन्स तथा। अथवा कोणस्थानिभूतवल्मीकव्याप्तानि पर्वतलोष्टानि यस्य स तथोक्तः।।
अनेकपुत्रजरठप्रजेशब्राह्मणास्पदम्।
वातमार्गमहावंशस्थितवैमानिकीटकः।।[3-2-56]
जरठो जरायुक्तः। अनेके पुत्रा मरीच्यादयो यस्य सोऽनेकपुत्रः। अनेकपुत्रो जरठश्च यः प्रजेशो ब्राह्मणस्तस्यास्पदं स्थानम्। मण्डपो ह्यूर्ध्वभागो तिर्यगायतमहावंशस्थितकीटको भवति तथा संसारमण्डपोऽपीत्याह-वातेति।। मेघमार्गसौरमार्गयोर्मध्ये वातमार्गः प्रसिद्धः। यं मार्गमासाद्य भीमसेनेन प्रक्षिप्ता अनेकसहस्रगजास्तूलायन्तेस्म। वैमानिनो विमानगामिनस्य एव कीटकाः। वातमार्ग एव महावंशस्तस्मिन् स्थिता वैमानिकीटा यस्य स तथा।।
नभोनिवासिसिद्धौघमशकाहितघुंघुमः।
सुरासुरादिदुर्बाललीलाकलकलाकुलः।।[3-2-57]
नभोनिवासिसिद्धौगा एव मशकास्तैराहितः कृतो घुंघुमो घुंघुमध्वनिर्यस्मिन्स तथा। सुरादय एव दुर्बाला दुष्टबालास्तेषां लीलाकलकलेन लीलाकोलाहलेनाकुलः।।
तत्र कस्मिंश्चिदेकस्मिन्कोणापवरकोदरे।
शैललोष्टतलेऽस्त्येको गिरिग्रामकगर्तकः।।[3-2-58]
तत्र कस्मिंश्चिदित्यादिरेषते कथित इत्यन्तः प्राक्तनो ग्रन्थसंदर्भः स्पष्टार्थः। तत्र कानिचित्पदानि विविच्यन्ते। अपवरकं गर्भागारः। शेललोष्टतले पर्वतलोष्टाधः। गिरिग्राम इति ग्रामनाम। स च ग्रामः पर्वतस्य निम्नप्रदेशस्थ इति दर्शयितुं गर्तकशब्दः।।
तस्मिन्नदीशैलवनोपगूढे साग्निः सदारः श्रुतवानरोगः।
गोक्षीरवान् राजभयानभिज्ञः सर्वातिथिर्धर्मपरो द्विजोऽभूत्।।[3-2-59]
उपगूढे आलिङ्गिते।।
वित्तवेषवयःकर्मविद्याविभवचेष्टितैः।
वसिष्ठस्येव सदृशो नतु वासिष्ठचेतनः।।[3-2-60]
वसिष्ठस्येव सदृश इत्यत्रेवशब्दोऽवधारणे। वसिष्ठस्य सदृश एव नतु वासिष्ठचेतनः नैव वसिष्ठसंबन्धी जीवः। प्रसिद्धवसिष्ठादन्य एवेत्यर्थः।।
वसिष्ठ इति नाम्नासौ तस्याभूदिन्दुसुन्दरी।
नाम्ना त्वरुन्धती भार्या भूमौ व्योमन्यरुन्धती।।[3-2-61]
वित्तवेषवयःकर्मविद्याविभवचेष्टितैः।
समैव साप्यरुन्धत्या न तु चैतन्यवत्तया।।[3-2-62]
वसिष्ठ इति नाम्नासौ विख्यात इति शेषः।।[3-2-61,62]
स विप्रस्तस्य शैलस्य सानौ सरलशाद्वले।
कदाचिदुपविष्टः सन्ददर्शाधो महीपतिम्।।[3-2-63]
सरलसाद्वले सरलैः पूतिकाष्ठाख्यवृक्षैः शाद्वले हरिते। `पीतद्रुः सरलः पूतिकाष्ठं चे'त्यमरः। यद्यपि-`शाद्वलः शादहरित'इति शादेन शाष्पेण हरिते नीले देशे शाद्वलशब्दमाहामरः। पाणिनिरपि शादोऽस्त्यस्मिन्प्रदेश इत्यवमर्थे `नडशादाद्ड्वलजि'ति ड्वलच्प्रत्ययमाह, तथापि तस्यार्थस्यात्रासंभवाच्छाद्वलशब्देन हरितत्वमेव विवक्षितम्।।
समग्रपरिवारेम यातमाखेटकेच्छया।
तमालोक्य महीपालमिदं चिन्तितवानसौ।।[3-2-64]
अहो नु रम्या नृपता सर्वसौभाग्यलालिता।
कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः।।[3-2-65]
पदातिरथहस्त्यश्वपताकाछत्रचामरैः।
कदा मे वायवः कुन्दमकरन्दसुगन्धयः।।[3-2-66]
यास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमशीकरान्।
इत्थं ततःप्रभृत्येव विप्रः संकल्पवानभूत्।।[3-2-67]
आखेटो मृगया।।[3-2-64,65,66,67]
स्धर्मनिरतो नित्यं यावज्जीवमतन्द्रितः।
हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृतः।।[3-2-68]
तं तथा चिन्तयाविष्टं जरा द्विजमुपाययौ।
आसन्नमरणस्यास्य भार्या म्लानिमुपागता।।[3-2-69]
मामप्याराधितवती सा ततस्त्वमिवाङ्गने।
अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम्।।[3-2-70]
देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे।
मा यासीदित्यस्तस्याः स एवाङ्गीकृतो मया।।[3-2-71]
हिममेवाम्भोजनाशकत्वादशनिर्हिमाशनिः।।[68,69,70,71]
अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ।
तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः।।[3-2-72]
पञ्चत्वं मरणम्। `स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्यय'इत्यमरः। जीवाकाशतया जीव एव स्वच्छत्वसूक्ष्मत्वादिनाकाशकल्पत्वादाकाशस्तस्य भावस्तत्ता तया।।
संपन्नः प्राक्तनानल्पसंकल्पवशतः स्वयम्।
आकाशवपुरेवोर्वीपतिः परमशक्तिमान्।।[3-2-73]
तस्मिन्विप्रे शवीभूते शोकेनात्यन्तकर्शिता।
सा तस्य ब्राह्मणी भार्या हृदयेन द्विधागमत्।।[3-2-74]
भर्त्रा सह शवीभूता देहमुत्सृज्य दूरतः।
आतिवाहिकदेहेन सा भर्तारमुपाययौ।।[3-2-75]
संपन्न इति स्वयमाकाशवपुरेव सन् प्राक्तनानल्पसंकल्पवशतः परमशक्तिमानुर्वीपतिः संपन्न इत्यन्वयः।।[3-2-73,74,75]
तत्रास्य विप्रस्य सुता गृहाणि भूस्थावरादीनि धनानि सन्ति।
अद्याष्टमं वासरमाप्य मृत्योर्जीवो गिरिग्राककन्दरस्थः।।[3-2-76]
कन्दरो दही। `दरी तु कन्दरो वा स्त्री'त्यमरः।।
स ते भर्ताद्य संपन्नो द्विजो भूपत्वमागतः।
यासावरुन्धतीनाम्ना ब्राह्मणी सा त्वमङ्गने।।[3-2-77]
स ते भर्तेति।। स द्विजो भूपत्वमागतः सन्नद्य ते भर्ता संपन्न इत्यन्वयः।।
इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती।
चक्रवाकाविव नवौ भुवि जातौ शिवाविव।।[3-2-78]
शिवौ पार्वतीपरमेश्वरौ।।
एष ते कथितः सर्गः प्राक्तनः संसृतिभ्रमः।
भ्रान्तिमात्रकमाकाशमेवं सर्गो हि भासते।।[3-2-79]
तर्ह्यावयोः प्राक्तनः संसारः सत्य इति शङ्कानिरसनेनोपसंहरन्ती फलितमाह-एष इति।। भ्रान्तिमात्रकमिति विशेष्यमाकाशमिति विशेषणम्। यः सर्गोऽवभासते स एवमुक्तेन न्यायेनाकाशमर्थशून्यं भ्रान्तिमात्रकं हीत्यन्वयः।।
लीलोवाच।।
देवि त्वद्वचनं मिथ्या कथं संपन्नमीदृशम्।
क्व विप्रजीवः स्वगृहे क्वामी वयमिह स्थिताः।।[3-2-80]
अनन्वितार्थतयोक्तमाक्षिपति-देवि त्वद्वचनमित्यादिना।।
तादृग्लोकान्तरं सा भूस्ते शैलास्ता दिशो दश।
कथं मान्ति गृहस्यान्तर्यत्रामी वयमास्महे।।[3-2-81]
अमी वयं यत्र देशान्तरादिष्विदानीमास्महे तादृग्देशान्तरादयो वसिष्ठविप्रगृहस्यान्तः कथं मान्ति। न कथमपीत्यर्थः। वसिष्ठविप्रदेशापेक्षयान्तरशब्दः। कथं मान्ति गृहस्यान्तर्मद्भर्ता येष्ववस्थितः इति क्वचित्।।
मत्त ऐरावणो बद्धः सर्षपाकोणकोटरे।
मशकेन कृतं युद्धं सिंहौघैरणुकोटरे।।[3-2-82]
पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना।
असमञ्जसमेवैतद्यथेदं देवी तादृशम्।।[3-2-83]
ऐरावण ऐरावतः। `ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभा' इत्यमरः।।[3-2-82,83]
देव्युवाच।।
नाहं मिथ्या वदामीदं यथावच्छृणु सुन्दरि।
भेदनं नियतीनां हि क्रियते नास्मदादिभिः।।[3-2-84]
ईश्वर्य मम परमाप्तत्वात्। परिज्ञानविलसितमिदं चोद्यमित्यभिप्रायेण परिहरति-नाहं मिथ्या वदामीत्यादिना।। नियतीनां जगन्मर्यादानाम्।।
स ग्रामद्विजजीवात्मा तस्मिन्नेव स्वसद्मनि।
व्योमैवेदं मही राष्ट्रं व्योमात्मैव प्रपश्यति।।[3-2-85]
ग्रामद्विजजीवात्मा गिरिग्रामब्राह्मणजीवात्मा व्योमात्मा। चित्तशरीरः चित्ताकाशं चिदाकाशमिति हि पूर्वमुक्तम्। अथवा व्योमात्मा निराकारः व्योमैवेदं मही राष्ट्रं निजस्वरूपमेवेदं महीसहितं राष्ट्रं स्वप्नदृगिव प्रपश्यति।।
प्राक्तनी सा स्मृतिर्लुप्ता युवयोरुदितान्यथा।
स्वप्ने जाग्रत्स्मृतिर्यद्वदेतन्मरणमङ्गने।।[3-2-86]
ननु तर्ह्यावयोः पूर्वसंसारविषया स्मृतिः कुतो नानुवर्तते कुत इयं तद्विपरितप्रवृत्तरुदितेत्यत आह-प्राक्तनीति।। जागरेऽनुभूतपदार्थविषया स्मृतिः स्वप्नावस्थायां यथा न जायोऽन्यथाप्रतीतिश्च जायते तथा पूर्वजन्मन्यनुभूतपदार्थविषया स्मृतिरस्मिञ्जन्मनि लुप्ता भवति नानुवर्तते। पूर्वजन्मनि भावनाविशेषादन्यथा प्रतीतिश्चोत्पद्यतेस्म एतन्मरणं तत्र कारणमिति शेषः। मरणं हि संस्कारलक्षणं स्मृतिबीजं विप्रतिमृद्गाति अतः स्मृतिर्नानुवर्तत इति भावः।।
इयमन्तःस्थिता भूमिः संकल्पादर्शयोरिव।
तस्य सत्यावभासस्य चिद्व्योम्नः कोशकोटरे।।[3-2-87]
सत्यतयावभासो यस्य स सत्यावबासस्तस्य चिद्व्योम्नः परमात्माकाशस्य कोशो जीवत्वोपाधिभूतमन्तःकरणं तस्य कोटरेऽभ्यन्तरे तत्राप्यन्तरियं भूमिः सशैलवनाकानना स्थिता। संकल्पशब्देन मनोराज्यं प्रकृर्वतः पुंसः संकल्पो गृह्यते। अथ वान्तःस्थिता मनसि स्थिता अस्मिन्पक्षे तस्येत्यादेरुपरि संबन्धः।।
परमाणौ सन्ति वत्से जीवे प्रतिचिदात्मनि।
अन्तरन्तर्जगन्तीति प्रतिबासात्मकान्युत।।[3-2-88]
जगदन्तर्वर्तत इत्येतत्क्वचिदेव सर्वत्रेति न मन्तव्यमित्याहृपरमाणाविति।। चिदात्मनि ब्रह्माणि परमाणौ जीवे। परमसूक्ष्मान्तःकरणोपहितत्वाज्जीवस्य परमाणुत्वम्। `वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेय' इति श्रुतेः। अन्तरन्तःप्रतिभासमात्रकारणानि जगन्त्येवंविधानि जगन्ति सन्ति संसारस्यानादित्वात्। दृष्टेरेव सृष्टित्वात्स्वप्नावस्थायामतिसूक्ष्मनाडीगततयाणुकल्पे जीवेऽन्तरन्तर्जगतां दर्शनाच्च। प्रतिजीवमन्तरन्तर्जगन्ति सन्तीत्युपपन्नमुक्तम्।।
लीलोवाच।।
अष्टमे दिवसे विप्रः स मृतः परमेश्वरि।
गतो वर्षगणोऽस्माकं मातः कथमिदं भवेत्।।[3-2-89]
अष्टमे दिवस इत्यादिश्लोकद्वयं स्पष्टार्थम्।।
देव्युवाच।।
देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथाङ्गने।
प्रतिभामात्रकादन्यच्चिद्विलासैकरूपिणः।।[3-2-90]
चिद्विलासैकरूपिणश्चिद्विवर्तैकस्वरूपात्।।
यथावत्प्रतिभासस्य वत्से क्रममिमं शृणु।
अनुभूय क्षणं जीवो मिथ्या मरणमूर्च्छनाम्।।[3-2-91]
विस्मृत्य प्राक्तनं भावमन्यं पश्यति सुव्रते।
आधेयोऽहमिहाधारे स्थितोऽहमिति सुन्दरी।।[3-2-92]
हस्तपादादिमान्देहो ममायमिति पश्यति।
एतस्याहं पितुः पुत्रो वर्षाण्येतानि सन्ति मे।।[3-2-93]
इमे मे बान्धवा रम्या ममेदं रम्यमास्पदम्।
इति भ्रान्तिर्जगत्यत्र मृतिमोहादनन्तरम्।।[3-2-94]
कथं तर्हि प्रतिभास-शब्दितभ्रान्तिक्रम इति तत्राह-यथावदित्यादि।। मरणद्वारमूर्च्छनामरणमूर्च्छना ताम्।।[3-2-91,92,93,94]
लीलोवाच।।
अहो नु परमा दृष्टिर्दर्शिता देवि मे त्वया।
इदानीमहमेतस्यां यावत्परिणता दृशि।।[3-2-95]
नाभ्यासेन विना तावद्भिन्धीदं देवि कौतुकम्।
सर्गं ब्राह्मणदम्पत्योस्तं मां नय महेश्वरि।।[3-2-96]
चिदात्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वपरिज्ञानमात्मन आवेदयन्त्याह-अहो इति।। एवमाप्तोक्त्या प्रपञ्चमिथ्यात्वं विज्ञायोक्तार्थं प्रत्यक्षीकरणादिना तद्दार्ढ्यार्थं प्रयतते लीला-इदानीमिति।। अभ्यासेन विनैतस्यां दृशि दृष्टाविदानीं यावत्परिणता पक्वा प्रौढा न भविष्यामि तावदिदं कौतुकं कुतूहलं भिन्धि विदारय। सृज्यत इति सर्गः प्रपञ्चस्तं सर्गं नेतुं समर्था त्वमित्याह-महेश्वरीति।।[3-2-95,96]
देव्युवाच।।
अचेत्यतिद्रूपमयीं परमां पावनीं दृशम्।
अवलम्ब्येममाकारमवमुच्य भवामला।।[3-2-97]
लिलायाः स्थूलशरीरेण सर्गान्तरनयनकारणकर्म पश्यन्ती भगवती ब्रह्मविद्यादानव्यग्रं तदीयं पुण्यपुञ्जमाकलय्य तदनुरूपमाह-अचेत्येत्यादि।। चेत्या दृश्याः शब्दादयो न विद्यन्ते यस्मिंस्तदचेत्यं चिद्रूपं तन्मयीं तत्प्रधानाम्। तद्विषयामिति यावत्। दृशमवगतिम्।।
एवं स्थिते तं पश्यावः सह सर्गमनर्गलम्।
अयं तद्दर्शनद्वारे देहस्तव महार्गलः।।[3-2-98]
सह संभूय अनर्गलमबाध्यं अथवानर्गलमप्रतिबन्धकं यथा तथा पश्यावः।।
जगन्तीमान्यमूर्तानि मूर्तिन्ति मुधाग्रहात्।
भवद्भिरवबुद्धानि हैमानीवोर्मिकाधिया।।[3-2-99]
ननु स्थूलशरीरस्य सर्गान्तरदर्शनद्वारभूतगमनप्रतिबन्धकत्वं कुत इत्याशङ्क्याह-जगन्तीति।। अमूर्तानि मूर्च्छितावयवानि न भवन्तीत्यमूर्तानीमानि जगन्ति भवद्भिर्ज्ञैर्जीवैर्मुधाग्रहाद्वयर्थाभिनिवशान्मूर्तिमन्त्यवयममूर्च्छनवन्त्यवबुद्धानि। यथाहुः-`मूर्च्छनं मूर्च्छति च मूर्तिरि'ति। तत्त्वविपरीतग्रहणे दृष्टान्तमाह-हैमानीति।। ऊर्मिकाधिया अङ्गुलीयकबुद्ध्या। `अङ्गुलीयकमूर्मिके' त्यमरः। नहि हैममूर्मिकात्वं निपुणतरं चक्षुषा परिवीक्ष्यमाणं संस्थानविशेषापन्नेभ्यस्तेभ्यो व्यतिरिक्तमुपलभ्यते। अतस्तानि यथोर्मिकाबुद्ध्या मूढैर्विपरीतगृहीतानि। तथा निराकाराण्यपि जगन्ति साकारतया भ्रान्तिगृहीतानि। तस्मान्मूर्तस्य शरीरस्य मूर्त्यन्तरेण प्रतिरोधात् प्रपञ्चान्तरदर्शनद्वारभूतगमनार्गलत्वं युक्तम्।।
तवाभ्यासं विना बाले नाकारो ब्रह्मतां गतः।
स्थितः कलनरूपात्मा तेन त्वं नानुपश्यसि।।[3-2-100]
न केवलं देहः सर्गान्तरद्वारगमनप्रतिबन्धकस्तत्त्वज्ञानप्रतिबन्धकश्चेत्याह-तवेति।। तवाकार आकृतिर्वक्ष्यमाणज्ञानाभ्यासं विना ब्रह्मतामधिष्ठानभूतब्रह्मत्वं न गतः। अधिष्ठानब्रह्मव्यतिरेकेणासन्निति न निश्चित इति यावत्। कलनरूपात्मा स्थितः कलनरूपं कल्पनास्वरूपं तदेवात्मा स्वरूपं यस्य स तथा तेन कारणेन नानुपश्यसि तद्ब्रह्मेति शेषः। तथाचोक्तं बृहद्वासिष्ठे-`यावदभ्यासयोगेन न याता भेदभीस्तव। नूनं तावदतद्रूपा न ब्रह्म परिपश्यसी'ति।।
तत्र रूढिमुपायाता य इमे त्वस्मदादयः।
अभ्यासाद्ब्रह्मसंवित्तेः पश्यामस्ते हि तत्पदम्।।[3-2-101]
तर्हि भवत्प्रभृतिभिः प्रतिबन्धके शरीरादिभ्रमे स्थिते कथं तद्ब्रह्मानुभूयत इत्याशङ्क्याह-तत्रेति।। य इमेऽस्मदादयो ब्रह्मसंवित्तेर्ब्रह्मज्ञानस्याभ्यासात्तत्र ज्ञानाभ्यासे रूढिमुपायाताः प्रसिद्धिमुपागतास्ते वयं हि तस्मात्तज्ज्ञेयं पश्यामोऽनुभवामः। अयमभिप्रायः-ब्रह्मज्ञानाभ्यासपरिपाकाद्देहाद्यात्मत्वभ्रमकारणभूतवासनालये प्रतिबन्धकाभावादस्मदिदिभिर्ब्रह्मात्मतत्त्वं करामलकवदनुभूयत इति।।
आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः।
आधिभौतिकया बुद्ध्या गृहीतश्चिरभावनात्।।[3-2-102]
देहस्य कलनरूपत्वमसिद्धमित्याशङ्क्याह-आतिवाहिक इति। अतिवाह्यते तं तं देशमप्रतिहतया गत्या नीयत इत्यातिवाहिकः सूक्ष्मचित्तदेहकः आतिवाहिक एव सूक्ष्म एव। स च तादृशैरज्ञैश्चिरभावनाच्चिरकालविपरीतभावनादाधिभौतिकया आधिभौतिकोऽयमित्येवमाकारया बुद्ध्या गृहीतः।।
वासनातानवं नूनं यदा ते स्थितिमेष्यति।
तदातिवाहिको भावः पुनरेष्यति देहके।।[3-2-103]
तर्ह्यातिवाहिकता सहजा चित्तदेहं कदा यास्यतीत्यात आह-वासनेति।। ज्ञानाभ्यासेन वासना तानवं द्वैतवासनाल्पत्वं यदा ते नूनं स्थितिमेष्यति तदा देहके चित्तदेहके आतिवाहिको भावः। सूक्ष्मभाव इत्यर्थः। पुनरेष्यत्यायास्यति।।
शुद्धसत्त्वानुपतितं चेतः प्रतनुवासनम्।
आतिवाहिकतामेति हिमं तापादिवाम्बुताम्।।[3-2-104]
उक्तं विशदयति-शुद्धेति।। शुद्धसत्त्वानुपतितं रजस्तमोभ्यामनभिभूतं सत्त्वगुणानुगतम्। अयमर्थः-स्वप्नदशायामिव जागरेऽपि शरीरादिप्रपञ्चरूपेण वर्तमानं चित्तं ज्ञानाभ्यासाद्वासनातानवे सति शरीरादिरूपतां विहाय प्रतिभासमात्रात्मकस्वीयसूक्ष्मरूपतामेति। अतएव जीवन्मुक्तिदशायां प्रातिभासिकं जगदित्याचचक्षिरे।।
वासनातानवे तस्मात्कुरु यत्नमनिन्दिते।
तस्मिन्प्रौढिमुपायाते जीवन्मुक्ता भविष्यसि।।[3-2-105]
यतो वासनातानवे सति चेतसः पीनत्वं विलीयते तस्मात्तत्सिद्धये ज्ञानाभ्यासलक्षणो यत्न आस्थेय इत्याह-वासनेति।। वासनातानवे प्रभूते सति न केवलं चेतसः पीनत्वं विलीयते किंत्वनुभवपर्यन्तज्ञानोदयाद्बन्धोऽपि लीयत इत्याह-तस्मिन्निति।।
यावन्न पूरितस्त्वेष शीतलो बोधचन्द्रमाः।
तावद्देहमवस्थाप्य सर्गान्तरमवेक्ष्यताम्।।[3-2-106]
एवं ज्ञानपरिपूर्त्युपायमभिधाय तत्परिपूर्तेः प्राक्पूर्वसर्गदर्शनाय यत्कर्तव्यं तत्स्मारयति-यावदिति।। ननु बोधो यावन्न पूरितस्तावत् स्थूलदेहमिह संस्थाप्य प्रपञ्चान्तरमवेक्ष्यतामिति वदन्त्या पूरिते बोधे देहस्थापनं विनैव प्रपञ्चान्तरदर्शनमभ्यनुज्ञातमिति प्रतीयते तन्नोपपद्यते पूर्णबोधादाकाशगमनादेरनुदयेन तेनैव शरीरेण सर्गान्तरदर्शनासंभवात्पूर्णज्ञानाया अपि चूडालया आकाशगमनादिसिद्ध्यर्थं प्रयत्नान्तरास्थानदर्शनान्नैष दोषः। ज्ञानमार्गे लीलाया आदरातिशयोत्पादनाय तथाभिधानात्।।
लीलोवाच।।
अत्रोपकुरुते ब्रूहि कोऽभ्यासः कीदृशोऽथवा।
स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत्।।[3-2-107]
`तथाभ्यासं विना बाले नाकारो ब्रह्मतां गत' इत्यादिनोक्तस्य बोधपूरकज्ञानाभ्यासस्य स्वरूपं तत्प्रकारं तत्परिकाकहेतुं तत्परिपाकफलं च क्रमेण पृच्छति-अत्रेति।। अत्र बोधपूरणे योऽभ्यास उपकुरुते स क इति योजना।।
देव्युवाच।।
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम्।
एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः।।[3-2-108]
तत्राभ्यासस्वरूपमाह-तच्चिन्तनमिति।। तस्य ब्रह्मणो गुरुत्तः श्रुतस्य चिन्तनं युक्तितः पर्यालोचनं तस्यान्यस्मै शिष्याय गुणसंपन्नाय कथनं तत्कथनम्।।
उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी।
आनन्दस्यन्दिनी येषां मतिस्तेऽभ्यासिनः परे।।[3-2-109]
एतदेकपरत्वमिति निदिध्यासनमुक्तं, कीदृशोऽभ्यास इति प्रश्नस्योत्तरमभिप्रेत्याह-उदितेति।। उदितमौदार्येण महत्त्वेन सौन्दर्यं यस्यां सा उदितौदार्यसौन्दर्या वैराग्यरसो वैराग्यसारो गर्भेऽन्तर्यस्याः सा तथोक्ता उदितौदार्यसौन्दर्या चासौ वैराग्यरसगर्भिणी चेति तथा। आनन्दस्यन्दिनी आन्दवर्षिणी। परे परमात्मनि।।
अत्यन्ताभावसंपत्तौ ज्ञातुर्ज्ञेयस्य वस्तुनः।
युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिराः।।[3-2-110]
मन्दमध्यमाधिकारिणोर्ज्ञानाभ्यासं क्रमेण श्लोकद्वयेनाह-अत्यन्तेत्यादिना।। अथवा कीदृश इति प्रश्नस्योत्तरमभिप्रेत्यैतदपि श्लोकद्वयमाह-अत्यन्तेति।। ज्ञेयस्य वस्तुनो दृश्यपदार्थस्य।।
सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा।
इदं जगदहं चेति बोधाभ्यासं विदुः परे।।[3-2-111]
इदं जगदहं च दृश्यं सर्गादौ सृष्ट्यादौ वस्तुत उत्पन्नमेवातस्तद्दृश्यं सदा नास्तीत्यभ्यासं परे परमात्मनि विषये बोधाभ्यासं विदुः। उदितौदार्यसौन्दर्येत्यनेनोक्ता दृढविदितप्रपञ्चमिथ्यात्वान्निःप्रपञ्चब्रह्मानन्दे निमग्नचित्ता उत्तमाः। दृश्यमिथ्यत्वं परिज्ञाय तद्दार्ढ्याय प्रयतमाना मध्यमाः। जगन्मिथ्यात्वं परिज्ञातुं सास्त्रयुक्तिभ्यां प्रयतमाना अधमा इति विवेकः।।
दृश्यासंभावबोधेन रागद्वेषादितानवे।
रतिर्बलोदिता यासौ ब्रह्माभ्यासः स उच्यते।।[3-2-112]
स कथं पोषमायातीत्यस्योत्तरमाह-दृश्येति।। दृश्यं द्रष्टरि कालत्रयेऽपि न संभवतीति बोधेन रागद्वेषलोभादीनां तानवे कृशत्वे सति बलोदिताभ्यासबलेनाभिव्यक्ता यासौ रतिर्ब्रह्मानन्दलक्षणा स ब्रह्माभ्यासः परिपक्वब्रह्मज्ञानाभ्यास उच्यत इति यावत्।।
दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं च कथ्यते।
तदभ्यासेन निर्वाणमित्यभ्यासो महोदयः।।[3-2-113]
दृश्यासंभवबोधस्य परिपाकहेतुं स्तुवन्`पुष्टे तस्मिश्च कि भवे'दिति प्रश्नस्योत्तरमाह-दृश्यासंभवबोधो हीति।। तदभ्यासेन तस्य दृश्यासंभवबोधस्याभ्यासस्तेन। तत्पूर्वकब्रह्मज्ञाननाभ्यासपरिपाकेनेति यावत्। अपरोक्षज्ञानप्राप्त्या निर्वाणं कैवल्यं भवति। महानुदय ऐश्वर्यं ब्रह्मानन्दप्राप्तिलक्षणं यस्मादभ्यासात् स महोदयः।।
वसिष्ठ उवाच।।
इति संकथनं कृत्वा तस्यां निशि वराङ्गने।
समाधिस्थानकं गत्वा तस्थतुर्निश्चलाङ्गके।।[3-2-114]
इति संकथनमित्यादयः एकार्णवमिवोच्छूनमित्यतः प्राक्तनाः श्लोकाः स्पष्टार्थाः क्वचित्किंचिद्विविच्यते।।
निर्विकल्पसमाधानाञ्जहतुः पूर्वसंविदम्।
तेनैव ज्ञानदेहेन चचार ज्ञप्तिदेवता।।[3-2-115]
जहतुः विससर्जतुः। पूर्वसंविदं समाधेः पूर्वकालं ज्ञानमहमित्येवमाकारं। ज्ञानदेहेन ज्ञानप्रधानदेहेन।।
मानुषी मानुषं देहं त्यक्त्वा बभ्राम सा तदा।
देहन्तरं च प्रादेशमात्रमारुह्य संविदा।।[3-2-116]
बभूवतुश्चिदाकाशरूपिण्यौ व्योमगाकृती।।[3-2-117]
संविदा संकल्पेन चिदाकाशरूपिण्यौ व्योमगे आकाशगे आकृती ययोस्ते व्योमगाकृती। चिदाकाशरूपिण्यौ ते संविदा व्योमगाकृती बभूवतुरित्यन्वयः।।[3-2-116,117]
अथ ते ललने लीलालोले ललितलोचने।
स्वभावाच्चेत्यसंवित्तेर्नभो दूरमितो गते।।[3-2-118]
चेत्यसंवित्तेर्दृश्यज्ञानस्य। चेत्यसंवितेः स्वभावादवगतेन चिद्दृष्टस्वभावात् तस्य सर्वव्यापारविमर्दकत्वात्।।
दूराद्दूरमभिप्लुत्य यान्त्यौ ददृशतुर्नभः।
एकार्णवमिवोच्छूनं गम्भीरं निर्मलान्तरम्।।[3-2-119]
परिच्छिन्ने ब्राह्मणदत्तमण्डपाकाशे महान्प्रपञ्चो वर्तत इति तन्मिथ्यात्वनिश्चयाय दर्शयितुं वर्णयति-एकार्णवमित्यादिना।।
कोमलं कोमलमरुदासङ्गसुखभोगदम्।
मनो वेगमहासिद्धजितवातगमागमम्।।[3-2-120]
कोमलमकर्कशम्। कोमलमरुतो मन्दवायोरासमन्तात्सङ्गेनासङ्गेन सुखभोगदं सुखानुभवदं कोमलमरुदासङ्गसुखभोगदम्। मनोवेगैर्महासिद्धैर्जितौ वातगमागमौ वायुगमनागमने यस्मिंस्तत्तथा वातगमागमजये मनोवेगत्वं हेतुः। नभसि हि वातेन सह गन्तुमागन्तुं च प्रवृत्ताः सिद्धा मनोवेगत्वात्पूर्वमेव गच्छन्त्यागच्छन्ति चेत्यर्थः।।
पर्यन्तस्थितकूष्माण्डरक्षःपैशाचमण्डलम्।
नृत्यद्भिर्डाकनीसङ्घैस्तरङ्गितमिव क्वचित्।।[3-2-121]
पिशाचानामिदं पैशाचं च कूष्माण्डमण्डलं च। कूष्माण्डा भूतविशेषाः। कूष्माण्डाश्च रक्षांसि च पैशाचमण्डलं चेति तथा। पर्यन्ते स्थितानि कूष्माण्डरक्षःपैशाचमण्डलानि यस्मिंस्तत्तथा। डाकिन्यो ग्रहविशेषाः। तरङ्गितं संजाततरङ्गम्। प्रकृष्टं वृत्तं येषु योगिनीसङ्घेषु ते प्रवृत्तास्तैः।।
प्रवृत्तैर्योगिनीसंघैः श्वकाकोष्ट्रखराननैः।
निरर्थं योजनशतं गत्वागच्छद्भिरावृत्म्।।[3-2-122]
निरर्थं निष्प्रयोजनं आगच्छद्भिरिति शेषः।।
वातस्कन्धनिखातान्तर्बहिस्त्रिपथगाजलम्।
क्वचिन्निर्भित्ति सदनं गायन्नारदतुम्बुरु।।[3-2-123]
वातस्कन्धेति।। मेघमार्गसौरमार्गयोर्मध्ये वातमार्गं गच्छति तत्र स्थिता ये वातास्तेषां स्कन्धा अंसास्तदूर्ध्वभागाः। अथवा वातस्कन्धा वायुप्रभेदाः। यथोक्तं कल्पतरौ-`स्कन्धाः प्रभेदा'इति। अथवा वातस्कन्धा वातसमूहाः। तथाच क्षीरस्वामिन आहुः-`स्कन्धः स्कन्धेऽपि वेतसे। व्याकुर्वाणाः समुदये'। यथा सप्त वातस्कन्धाः। अपिशब्दात्सैन्यवाटो यथा-`स्कन्धव्यापारः' वृक्षजपायामंसे राज्ञि समूहे बोधे चेति तेषु निखाता निगर्तास्तेषामन्तर्बहिः त्रिपथगाजलानि अधोमुखतया प्रवहत्सुरनदीजलानि यस्मिंस्तत्ततोक्तम्।।
चित्रन्यस्तसमाकारमूककल्पान्तवारिदम्।
क्वचिन्निरन्तरोन्मत्तमातृमण्डलमालितम्।।[3-2-124]
चित्रान्यस्तसमाकारा चित्रार्पिततुल्याकारा मूका निःशब्दाश्च कल्पान्तवारिदाः प्रलयमेघा यस्मिंस्तत्तथा। मातरो ब्राह्म्यादयः। निरन्तरोन्मत्तमातृमण्डलमालितं निरन्तरेण निबिडेनोन्मत्तमातॄणां मण्डलेन मालितं संजातमालम्। मालाकारमातृमण्डलयुक्तमित्यर्थः।।
अपि योजनलक्षाणि क्वचिद्दुःप्रापभूतकम्।
अविनाशितमःपुञ्जैर्दृषद्गर्भोपमं क्वचित्।।[3-2-125]
अविनाशिबृहत्तेजः क्वचिदर्कानलोपमम्।।[3-2-126]
क्वचिद्योजनलक्षाणि दुःप्रापाणि भूतानि प्राणिनो यस्मिंस्तत्तथा। क्वचित्सर्वतः प्राणिरहितानेकलक्षयोजनकमित्यर्थः। `कालाध्वनोरत्यन्तसंयोग'इति सूत्राद्योजनलक्षाणीति द्वितीया। दृषद्गर्भस्य पाषाणाभ्यन्तरस्योपमा यस्मिंस्तदृषद्गर्भोपमम्। अविनाशिबृहन्महत्तेजो यस्मिंस्तत्तथा। अतएवार्कानलोपमम्[3-2-125,126]
उदुम्बरोदरमशकक्रमभ्रमज्जगत्त्रयान्तरगतभूतसंचयम्।
विलङ्घ्य तद्वरललने खमुच्चकैर्महीतलं पुनरपि गन्तुमुद्यते।।[3-2-127]
उदुम्बरफलोदरस्था मशका उदुम्बरोदरमशकास्तत्क्रमेण तन्न्यायेन भ्रमज्जगत्रयान्तर्गतभूतानां संचयः समूहो यस्मिंश्च तत्तथा। विलङ्घ्येत्याद्या अहोनुपरमेत्यन्ताः प्राक्तनाः श्लोकाः स्पष्टार्थाः। क्वचित्किंचिद्वविच्यते।।
वसिष्ठ उवाच।।
इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात्।
निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम्।।[3-2-128]
ततो ददृशतुः सर्गे तत्र ते सिद्धयोषितौ।
अदृश्ये एव लोकस्य मण्डलं ब्राह्ममास्पदम्।।[3-2-129]
वरवर्णिन्यौ उत्तमस्त्रियौ।।[3-2-128,129]
चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम्।
विध्वस्तपूर्वसंस्थानं विद्युद्दग्धमिव द्रुमम्।।[3-2-130]
चिन्तया विधुरा इष्टार्थवर्जिता दास्यो यस्मिन्मण्डपे स चिन्ताविधुरदासीकस्तम्। बाष्पेणाश्रुणा क्लिन्नान्यार्द्राणि अङ्गनानां मुखानि यस्मिंस्तत्तथोक्तम्। विध्वस्तं विहतं पूर्वस्थानं पूर्वविन्यासो यस्मिंस्तत्तथोक्तम्। विद्युदशनिः।।
अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी।
संपन्ना सत्यसंकल्पा सत्यकामा च देववत्।।[3-2-131]
चिन्तयामास मामेते देवीं चेमां स्वबान्धवाः।
पश्यन्तु तावत्सामान्यललनारूपधारिणीम्।।[3-2-132]
ततो गृहजनस्तत्र संददर्शाङ्गनाद्वयम्।
लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम्।।[3-2-133]
नमोऽस्तु वनदेवीभ्यामित्युक्त्वा कुसुमाञ्जलिम्।
तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः।।[3-2-134]
सा लीला देववत्सत्यसंकल्पा सत्यकामा च संपन्नेत्यन्वयः।।[3-2-131,132,133,134]
देव्यौ च जगतां श्रेष्ठाविह ब्राह्मणदम्पती।
सर्वातिथी कुलकरौ स्तम्भभूतौ द्विजस्थितेः।।[3-2-135]
तावेतौ गृहमुत्सृज्य सपुत्रपशुबान्धवम्।
स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्रयम्।।[3-2-136]
सर्वो जनोऽतिथिर्ययोस्तौ सर्वातिथी। कुलकरौ कुलवर्धकौ। द्विजस्थितेर्द्वजमर्यादायाः। यद्वा द्विजस्थितेर्द्विजावस्थानस्य स्तम्भभूतावाधारभूतौ।।[3-2-135,136]
तद्देव्यौ क्रियतां तावदस्माकं शोकनाशनम्।
महतां दर्शनं नाम न कदाचन निष्फलम्।।[3-2-137]
नामशब्दः प्रसिद्धौ।।
इत्युक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना।
तस्याः स्पर्शेन तेनासौ दुःखदौर्भाग्यसङ्कटम्।।[3-2-138]
जहौ प्रावृड्घनासङ्गाद्ग्रीष्मतापमिवाचलः।
अथान्योऽपि जनस्तत्र जहौ शोकं सुदुष्करम्।।[3-2-139]
तस्मिन्गिरितटे ग्रामे तस्मिन्मण्डपकोटरे।
अन्तर्धिमापतुर्दृष्ट्वा ततस्ते सिद्धयोषितौ।।[3-2-140]
तेन कारणेन दुःखमेव दौर्भाग्यसङ्कटं दुर्भगत्वसंबाधस्तम्।।[3-2-138,139,140]
देव्युवाच।।
ज्ञेयं ज्ञातमशेषेण दृष्टा दृष्टान्तसंविदः।
ईदृशीयं ब्रह्मसत्ता किमन्यद्वद पृच्छसि।।[3-2-141]
लीलोवाच।।
मृतस्य भर्तुर्जीवोऽसौ यत्र राज्यं करोति मे।
तत्राहं किं न तैर्दृष्टा दृष्टास्मीह सुतेन किम्।।[3-2-142]
देव्युवाच।।
अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः।
नूनमस्तं गतो नाभून्निःशेषं वरवर्णिनि।।[3-2-143]
दृष्टान्तसंविदः प्रपञ्चमिथ्यात्वे दृष्टान्तस्मृतयो दृष्टाः। लब्धा इत्यर्थः। ब्रह्मसत्ता ब्रह्मरूपभूता सत्ता ईदृशी सत्यजगद्रूपा निष्प्रपञ्चा वा।।[3-2-141,142,143]
लीलास्मीति विनाभ्यासं तव नास्तं गतोऽभवत्।
यद्वा भावस्तदा सत्यसंकल्पत्वमभून्न ते।।[3-2-144]
लीलास्मीति।। अभ्यासं ज्ञानाभ्यासं विना ते तव लीलास्मीति भावो भावना यदास्तं गतो नाभवत् तदा ते सत्यसंकल्पत्वं नाभूदिति संबन्धः।।
अद्यासि सत्यसंकल्पा संपन्ना तेन मां सुतः।
संपश्यत्वित्यभिमतं फलितं तव सुन्दरि।।[3-2-145]
इदानीं तस्य भर्तुस्त्वं समीपं यदि गच्छसि।
तत्तेन व्यवहारस्ते पूर्ववत्संप्रवर्तते।।[3-2-146]
अद्वैते ब्रह्मणि चित्तवृत्तिनिरोधात्मकयोगप्रतिबन्धभूतद्वैतनिश्चयस्य प्रविलयादय् सत्यसंकल्पा संपन्नासि।।[3-2-145,146]
लीलोवाच।।
अहो हन्त जगन्मातर्मया स्मृतमिहाधुना।
ममेदं राजसं जन्म न तमो न च सात्त्विकम्।।[3-2-147]
सरस्वतीप्रसादसमासादिता स्पर्शयोगलब्धलौकिकप्रभावा लीलाऽनुस्मृतपूर्वजन्मावलिरुत्पन्नपरमनिर्वेदा संसारस्यात्मना झटिति हेयत्वज्ञापनाय पूर्वजन्मानि वर्णयति-अहो इत्यादिना।। हन्तेति खेदे। इदं वर्तमानं जन्म राजसं रजोगुणनिर्वृत्तम्।।[3-2-147]
ब्रह्मणस्त्वतीर्णाया अष्टौ जन्मशतानि मे।
नानायोनीन्यतीतानि पश्यामीवाधुना पुनः।।[3-2-148]
ब्रह्मणः कमलासनादेतत्कल्पादाववतीर्णायाः।।
संसारमण्डले देवि कस्मिंश्चिदभवं पुरा।
लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना।।[3-2-149]
दुर्वासनाकलुषिता ततोऽहं मानुषी स्थिता।
संसारमण्डलेऽन्यस्मिन्पन्नगेश्वरकामिनी।।[3-2-150]
मनुष्यलोकापेक्ष्या लोकान्तरं विद्याधरस्थानं तदेवाब्जं कमलं तस्मिन्भ्रमरी लोकान्तराब्जभ्रमरी विद्याधरलोकवासिनीत्यर्थः।।[3-2-149,150]
करञ्जकुञ्जजम्बीरकदम्बवनवासिनी।
पत्राम्बरवती श्यामा शबर्यहमथाभवम्।।[3-2-151]
करञ्जो नक्तमालाख्यो वृक्षः। `चिरबिल्वो नक्तमालः कजश्च करञ्जक' इत्यमरः।।
विहङ्ग्या वैरिविन्यस्तवागुराविपिनावनौ।
क्लेशेन महता छिन्ना अधमा वासना इव।।[3-2-152]
विहङ्ग्या पक्षिण्या सत्या मया वैरिविन्यस्तवागुरा लुब्धकविन्यस्तजाला। वागुरा मृगबन्धनीत्युक्तोऽर्थोऽत्रासंभवान्न गृह्यते। विपिनावनौ अरण्यभूमौ।।
कर्णिकाक्रोडशय्यासु विश्रान्तमलिना सह।
पद्मकुड्मलकोशेषु भुक्तकिढ्जल्कया रहः।।[3-2-153]
कर्णिका कमलमध्यवर्ती बीजकेशः। कर्णिकानां क्रोडानि मध्यप्रदेशास्तान्येव शय्याः कर्णिकाक्रोडशय्यास्तासु कुड्मलो मुकुलः। भुक्तकिञ्जल्कया भुक्तकेसरमालिन्या मया विश्रान्तम्।।
ततोऽस्त्रीफलदातॄणां कर्मणां परिपाकतः।
राजाहमभवं श्रीमान्सुराष्ट्रेषु समाः शतम्।।[3-2-154]
अस्त्रीत्वं पुंस्त्वं तदेव फलं तद्दातॄणाम्। समाः संवत्सरान्।।
शाद्वलीदलदोलायामान्दोलनदरिद्रताम्।
मशकस्य मया सद्यः स्थितं मशकया सह।।[3-2-155]
शाद्वली शष्पवती भूस्तथा तृणदलदोला शाद्वलीदलदोला तस्या आन्दोलनेन चलनेन दरिद्रता आन्दोलनदरिद्रता ताम्।।
योनिष्वेकविधदुःखशतान्वितासु भ्रान्तं मया बहुविमर्दसमाकुलासु।
संसारदीर्घसरितश्चलया लहर्या दुर्वारवाततरणीसरणक्रमेण।।[3-2-156]
विमर्दो विहृतिः। लहर्या ऊर्म्या। अत्र विषयतृष्णासंसारसरितो लहरी विवक्षिता। दुर्वरो वातो यस्याः सा दुर्वारवाता सा चासौ तरणी च नौस्तस्याः सरणं गमनं तत्क्रमेण तन्न्यायेन दीर्घसरितश्चञ्चलोर्म्यातिविषममुह्यमानायाः प्रचण्डवायुमध्वर्तिनौकाया गमनन्यायेन संसारदीर्घसरितो विषयतृष्णालक्षणया लहर्या योनिष्वावर्ततुल्यासु भ्रान्तमित्यर्थः।।
वसिष्ठ उवाच।।
एवमाकथयन्त्यौ ते ललने ललिताकृती।
उत्पेततुर्नभो दूरं योगचङ्क्रमणक्रमैः।।[3-2-157]
उत्पेततुर्ब्राह्मणमण्डपादूर्ध्वं जग्मतुः। योगप्रयुक्तं चङ्कमणं तत्क्रमैः।।
विनिर्गत्य ततः सर्गादाप्य सर्गं द्वितीयकम्।
अन्तःपुरे ददृशतुर्झटितीव विनिर्गते।।[3-2-158]
स्थितं पुष्पभराकीर्णं महाराजं महाशवम्।
ततः पुनर्विनिर्गत्य योगस्था दिव्ययोगिनी।।[3-2-159]
विवेश भर्तृसंसारं लीला ज्ञप्तिसमन्विता।
एतस्मिन्नन्तरे तस्मिन्मण्डले मण्डिसमन्विता।
एतस्मिन्नन्तरे तस्मिन्मण्डले मण्डितावनौ।।[3-2-160]
पुनरपि लीलासरस्वत्योः प्रपञ्चमिथ्यात्वनिश्चयदार्ढ्यापादकप्रवृत्तिप्राप्तिप्रतिपादनाद्यर्थस्ततः पुनरित्यादिराख्यानसमाप्तिपर्यन्तो ग्रन्थसंदर्भः प्रायेण स्पष्टार्थः। तत्र कानिचिद्विविच्यन्ते। विचित्रमहासंरम्भोऽपि संसारो मिथ्येति दर्शयितुं पद्मनृपतिमण्डपाकाशाभ्यन्तर्गतसंसारान्तरे वृत्तस्य साटोपयुद्धस्य वर्णनीयत्वमिति ज्ञेयम्।।[3-2-159,160]
चक्रेऽवस्कदनं कश्चित्सामन्तोद्रिक्तभूमिपः।
कस्मिंचिद्विततारण्ये द्वितीयाकाशभीषणे।।[3-2-161]
अवस्कन्दनमागमनं राष्ट्रशोषणं वा। सामान्तैरुद्रिक्तोऽबिवृद्धः सामन्तोद्रिक्तः स चासौ भूमिपश्चेति तथोक्तः।।
सेनाद्वितयमक्षुब्धं सौम्याब्धिद्वितयोपमम्।
महारम्भघनं मध्यस्थितराजद्वयान्वितम्।।[3-2-162]
सौम्यं सुन्दरं महारम्भेण महायुद्धारम्भेण हेतुना घनं निबिडं महारम्भघनम्।।
युद्धसञ्जं समुन्नद्धमिद्धमग्निमिवाद्भुतम्।
लीला च ज्ञप्तिदेवी च संददर्स नभःस्थिता।।[3-2-163]
युद्धार्थं सज्जं सन्नद्धं युद्धसज्जम्। इद्धं दीप्तम्।।
अथ प्रवृत्तः प्रसभं प्रलयार्णवरंहसा।
सेनयोः शस्त्रसंपातः किरन्ननलविद्युतः।।[3-2-164]
रंहसा वेगेन किरन् विक्षिपन् अनलविद्युतः अनला एवायुधसंघट्टजा विद्युदाकारत्वाद्विद्युतः ता किरन्।।
पतत्समदमातङ्गकम्पितोर्वीचलढ्जलः।
यन्त्रपाषाणचक्रौघदूरविद्रुतखेचरः।।[3-2-165]
पतद्भिः समादमातङ्गैः कम्पितायामुर्व्यां चलन्ति जलानि यस्मिन् संपाते स तथा। यन्त्रप्रेरितपाषाणैश्चक्राणामोघैश्च दूरं विद्रुताः खेचरा देवादयो यस्मिन्स तथा।।
दूरोड्डीनकचत्खड्गखण्डतारकिताम्बरः।
वज्रमुष्टिविनिष्पेषपिष्टसद्भटकङ्कटाः।।[3-2-166]
दूरोड्डीनानि दूरोद्गतानि कचन्ति विकसन्ति च यानि खड्गखण्डानि तैस्तारकितं संजाततारकमम्बरमाकाशं यस्मिन्स तथा। वज्रमुष्टिभिरित वज्रसमुमुष्टिभिर्ये विनिष्पेषाः संपेषणानि तैः पिष्टाश्चूर्णिताः सद्भटकङ्कटाः साधुभटकवचा यस्मिन्स तथा। `उरच्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियामि'त्यमरः।।
नाराचवर्षवरवारिदवीरपूरमत्ताभ्रसंभ्रमविनृत्तकबन्धवर्ही।
कल्पान्तकाल इव वेगविवर्तमानमातङ्गशैलवलितो रणसंभ्रमोऽभूत्।।[3-2-167]
नाराचानां सर्वलोहमयबाणानां वर्षाण्येव वरवारीणि तानि ददतीति नाराचवर्षवरवारिदानि वीरपूरा वीरसमूहाः त एव मत्ताभ्राणि नाराचवर्षवरवारिदानि च तानि वीरपूरमत्ताभ्राणि च तेषां संभ्रमाद्विनृत्ताः प्रनर्तनाः कबन्धबर्हिणः कबन्धमयूरा यस्मिन् रणसंभ्रमे स तथा। अथवा मत्ताभ्रेभ्यो निमित्तेभ्यः संभ्रमेण विनृत्ताः कबन्धबर्हिणो यस्मिन्स तथा। कबन्धो मूर्धरहितः क्रियायुक्तो देहः। `कबंधोऽस्त्री क्रियायुक्तमपमूर्धकलेवरमि'त्यमरः। वेगेन विवर्तमानाः भ्रमन्तो ये मातङ्गशैला गजवर्वतास्तैः वलितः संबद्धः।।एवमत्याकुले युद्धे सास्फोटभटसंकटे।
अष्टभागदशाशेषप्रतापमधुराकृतिः।
शस्त्रघातहतो वीर इवार्कस्तनुतां ययौ।।[3-2-168]
अथ सेनादिनाथाभ्यां विचार्य सह मन्त्रिभिः।
दूताः परस्परं दत्ता युद्धं संह्रियतामिति।।[3-2-169]
त्रिंशद्भागस्य दिनस्याष्टौ भागा यस्यासाष्टभागा अष्टभागा दशा शेषो यस्य रवेः सोऽष्टभागदशाशेषः स चासौ प्रकृष्टतापेन मधुराकृतिश्चेति तथोक्तः। यद्वा अष्टभागादशा विशरणावस्था सा शेषो यस्य सोऽष्टभागदशाशेषः स चासौ प्रतापश्च तेन मधुरा दर्शनीयाऽऽकृतिराकारो यस्य स तथोक्तः। वीरपक्षे तु दुरादेव शत्रुभयजनकः प्रभावः प्रतापः। अष्टौ भागा यस्य सोऽष्टभागः दशा मरणदशा शेषो यस्य स दशाशेषः अष्टभागश्चासौ दशाशेषश्चेत्यष्टभागदशाशेषः स चासौ प्रतापमधुराकृतिश्चेति तथोक्तः। अथवा अष्टौ भागा यस्यां दशायां सा शेषो यस्य वीरस्येति विग्रहः। यद्वा अष्टभागादशा विशरणावस्थासा शेषो यस्य प्रतापस्य तेन मधुना दर्शनीयाऽऽकृतिर्यस्य स तथोक्तः।।[3-2-168,169]
ततो दुन्दुभयः शेमुः प्रतिध्वनितदिङ्मुखाः।
विनिर्गन्तुं प्रववृते रणारण्याद्बलद्वयम्।।[3-2-170]
शेमुः शान्ताः। शमु उपशमन इति धातोर्लिड्बहुवचनम्।।
अथ वीर इवारक्तः कालेनास्तमितो रविः।
ततो ध्वान्तौघनासीरे निशीथे समुपस्थिते।।[3-2-171]
वीरोऽपि रुधिरोक्षितत्वादारक्तो भवति। ध्वान्तौघोऽन्धकारसमूह एव नासीरं सेनाग्रं यस्य निशीथराजस्य स तथोक्तः।।
लीलापतिरुदारात्मा किंचित्खिन्नमना इव।
प्रातःकार्यं विचार्याशु मन्त्रिभिर्मन्त्रकोविदैः।।[3-2-172]
निद्रां मुहूर्तमारेभे गृहे शशिकरामले।
ततस्ते दिव्ययोगिन्यौ राज्ञो विविशतुर्गृहम्।।[3-2-173]
तस्मिन्नुदारात्मा उत्तमचित्तः।।[3-2-172.173]
कोमलामलसौगन्ध्यमृदुमन्दारमारुतम्।
तत्प्रभावेण निद्राणं नृपतेरन्तराङ्गनम्।।[3-2-174]
कोमलेति।। मृदुः कोमलो मन्दोऽमलसौगन्ध्यो निर्मलसौरभश्च मृदुश्च मन्दारपुष्पाणां मारुतो यस्मिन् गृहे तत्तथेति विग्रहः।।
तयोर्देहप्रभापूरैः शशिनिष्पन्दशीतलैः।
आह्लादितोऽसौ बुबुधे राजोक्षित इवामृतैः।।[3-2-175]
आसनद्वयविश्रान्तं स ददर्शाङ्गनाद्वयम्।
स भूपालोऽथ संचिन्त्य सुविस्मितमनाः क्षणात्।।[3-2-176]
निष्पन्दोऽत्र किरणः। आह्लादितः सुखितः।।[3-2-175,176]
उत्तस्थौ शयनाच्छेषादिव चक्रगदाधरः।
पुष्पहार इवोत्फुल्लं जग्राह कुसुमाञ्जलिम्।।[3-2-177]
पुष्पाणां हारो यस्य पुष्पहारः। पुष्पाधार इति क्वचित्। तत्र मालाकार इत्यर्थः। उत्फुल्लं विकसितम्।।
भूमौ विवसने शुद्धे बद्धपद्मासनो नृपः।
जयतां जनदौस्थित्यदाहदोषशशिप्रभे।।[3-2-178]
विविसने विवस्त्रे देशे। वस्त्रास्तरणरहितदेश इत्यर्थः। जनदौस्थित्येति।। जनानां दौस्थित्यं जनादिदोषदुचित्तत्वं तेनाग्निना दाह इव दोषः तच्छामकशशिप्रभे।।
देव्यौ बाह्यान्तरतमोविद्रावणरविप्रभे।
तयोरुक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम्।।[3-2-179]
लीलालै भूपजन्माथ वक्तुं मन्त्रिणमीश्वरी।
बोधयामास पार्श्वस्थं संकल्पेन सरस्वती।।[3-2-180]
योगिन्यौ स तु ते दृष्ट्वा प्रमम्य कुसुमाञ्जलिम्।
तयोः पादेषु संत्यज्य विवेश पुरतो नतः।।[3-2-181]
योगिन्यौ स तु ते दृष्ट्वा प्रणम्य कुसुमाञ्जलिम्।
तयोः पादेषुन संत्यज्य विवेश पुरतो नतः।।[3-2-182]
बाह्यान्तरेति।। बाह्यान्तरपदार्थविषयाज्ञानान्धकारविद्रावकादित्यप्रभे। तयोः पादयोरिति संबन्धः प्रत्येकाभिप्रायेण।।[3-2-179,180,181,182]
देव्यौ युष्मत्प्रसादोऽयं भवत्योरपि यत्पुरः।
वक्तुं शक्नोमि तदिदं श्रूयतां जन्म मत्प्रभोः।।[3-2-183]
वक्तुं शक्नोमीति यत् अयं युष्मत्प्रसाद इति संबन्धः।।
आसीदिक्ष्वाकुवंशस्थो राजा राजीवलोचनः।
श्रीमान्कुन्दरथो नाम दोश्छायाच्छादितावनिः।।[3-2-184]
तस्याभूदिन्दुबिम्बाभः पुत्रो भद्ररथाभिधः।
तस्य विश्वरथः पुत्रस्तस्य पुत्रो मनोरथः।।[3-2-185]
तस्य विष्णुथः पुत्रस्तस्य पुत्रो बृहद्रथः।
तस्य सिन्धुरथः पुत्रस्तस्य शैलरथः सुतः।।[3-2-186]
तस्य कामरथः पुत्रस्तस्य पुत्रो महारथः।
अयमस्मत्प्रभुस्तस्य पुत्रः पूर्णामलाकृतिः।।[3-2-187]
महद्भिः पुण्यसंभारैर्विदूरथ इति श्रुतः।
जातो मातुः सुमित्राया गौर्या इव गुहोऽपरः।।[3-2-188]
पितास्त दशवर्षस्य दत्वा राज्यं वनं ययौ।
पालयामास भूपीठं ततः प्रभृति धर्मतः।।[3-2-189]
इत्युक्त्वा संस्थिते तूष्णीं मन्त्रिण्यथ नृपे तथा।
कृताञ्जलौ नतमुखे बद्धपद्मासने स्थिते।।[3-1-190]
राजन्स्मर विवेकेन पूर्वजातिमिति स्वयम्।
वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती।।[3-1-191]
दोश्छायाच्छादितावनिर्भुजच्छायासंछादितभूमिः। सम्यग्रक्षितभूमिरित्यर्थः।।[3-2-184,185,186,187,188,189,190,191]
अथ हार्दं तमो माया राज्ञोऽस्य क्षयमाययौ।
सस्मार पूर्ववृत्तान्तमन्तः स्फुरदिव स्थितम्।।[3-2-192]
तमसो बहुदुर्घटकारित्वदर्शनाय विशेषणम्-मायेति।।
अन्यदेहैकराजत्वं लीलाविलसितान्वितम्।
उवाचात्मनि संसारो बत मायेयमातता।।[3-2-193]
परिज्ञाता प्रसादेन देव्योरिह मयाधुना।
हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे।।[3-2-194]
गतमद्येह जातानि मम वर्षाणि सप्ततिः।
स्मराम्यनेककर्माणि मित्रबन्धुपरिच्छदान्।।[3-2-195]
लीलाया भार्याया विलसितैर्विलासैरन्वितं लीलाविलसितान्वितम्। आसमन्तात्तता व्याप्ता आतता।।[3-2-193,194,195]
ज्ञप्तिरुवाच।।
राजन्मृतिमहामोहमूर्च्छायाः समनन्तरम्।
तस्मिँल्लोके तवातीते तस्मिन्नेव मुहूर्तके।।[3-2-196]
लोक्यत इति लोको देहस्तस्मिन्।।
तस्मिन्नेव गृहे जातः सर्गः स्फारौघविभ्रमः।
तदैव चेतसि तव निर्मलाकाशनिर्मले।।[3-2-197]
स्फारो भूरिः। एवकारोक्तमर्थं विशदयति-तदैवेति।।
प्रतिभानमिदं जातं व्यवहारभ्रमाततम्।
वयसः समतीतानि मम वर्षाणि सप्ततिः।।[3-2-198]
यथा स्वप्नमुहूर्ते तु संवत्सरशतभ्रमः।
तव मायाविलासेन तथायं जगति भ्रमः।।[3-2-199]
व्यवहारभ्रमैराततं व्याप्तं व्यवहारभ्रमाततम्। प्रतिभानमेव लेशतो दर्शयति-वयस इति।। `शतायुर्वै पुरुष'इत्युक्तायुषः संबन्धीनि सप्ततिर्वर्षाणि समतीतानीति प्रतिभानं जातमिति संबन्धः।।[3-2-198,199]
वस्तुतस्तु न जातोऽसि न मृतोऽसि कदाचन।
शुद्धविज्ञानरूपस्त्वं शान्त आत्मनि तिष्ठसि।।[3-2-200]
किं तर्हि वस्तुवृत्तमित्याकाङक्षायां तदाह-वस्तुतस्त्वित्यादिना श्लोकद्वयेन।।
पश्यस्यथैतदखिलं न च पश्यसि किंचन।
सर्वात्मकतया नित्यं प्रकचस्यात्मनात्मनि।।[3-2-201]
तत्त्वदृष्टिमवलम्ब्याह-न च पस्यसीति।। प्रकचसि विस्फुरसि।।
यस्त्वशुद्धमतिर्मूढो रूढो न वितते पदे।
वज्रसारमिदं तस्य जगदस्त्यसदेव सत्।।[3-2-202]
इदानीमुपन्यस्तविद्वद्दृष्टिस्तुत्यर्थं तद्विपरीतदृष्टिपरिहानार्थं च विद्वद्दृष्टिं वर्णयति-यस्त्वशुद्धमतिरित्यादिना दीर्घस्वप्नमित्यतः प्राक्तनग्रन्थसंदर्भेण। वितते संव्याप्ते पदे वस्तुनि न रूढः प्रसिद्धः। वस्तुतोऽसदेव जगत्तस्य मूढस्य दृष्ट्वा सत्परमार्थसद्वज्रसारं चास्ति। वज्रस्य सार इव सारः स्थिरांशो यस्मिंस्तत्तथा।।
यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः।
असदेव सदाकारं तथा मूढमतेर्जगत्।।[3-2-203]
वेतालोऽत्र बालेन स्वच्छायायामारोपितो विवक्षितः। मृतिपर्यन्तदुःखदो मरणपर्यवसायि दुःखं ददन् यथा सा सत्य इवाभाति तथा मूढमतेर्जगत्सत्याभं भवति।।
ताप एव यथा वारि मृगाणां भ्रमतो भवेत्।
असत्यमेव सत्याभं तथा मूढमतेर्जगत्।।[3-2-204]
तापो मरुभूमिगतः। भ्रमतो भ्रमात्।।
अव्युत्पन्नस्य कनके कानके कटके यथा।
कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः।।[3-2-205]
कटककल्पनाया अधिष्ठानभूते कनके हेम्नि विषये अव्युत्पन्नस्यासंजातविज्ञानस्य कानके कनकविकृते कटके कटकज्ञप्तिः कटकोऽयमिति विपरीतज्ञानमेवास्ति मनागपि ईषदपि हेमधीर्नास्ति। नायं कटकः किंतु हेमैवेति प्रमितिर्नास्तीत्यर्थः।।
तथा ज्ञस्य पुरागारनगनाग्रेन्द्रभासुरा।
इयं दृश्यदृगेवास्ति न चान्या परमार्थदृक्।।[3-2-206]
यथायं दृष्टान्तस्तथा ज्ञस्याधिष्ठानब्रह्मानभिज्ञस्येयं दृश्यदृक् दृश्यभ्रान्तिरेवास्ति अन्या परमार्थदृङ्गास्ति। नेदं दृश्यं किंतु ब्रह्मैवेति प्रमितिर्नास्तीत्यर्थः। नगः पर्वतो वृक्षो वा। नागो गजः काद्रवेयो वा।।
दीर्घस्वप्नमिदं विश्वं चित्ताहन्तादिसंयुतम्।
अत्रान्ये स्वप्नरुषा यथामी जाग्रतः स्थिताः।।[3-2-207]
एवं हेयामज्ञदृष्टिं दर्शयित्वोपादेयां तज्ज्ञदृष्टिं प्रपञ्चयति-दीर्घस्वप्नमित्यादिना।। अत्र जगति स्वप्नद्रष्टुरन्ये स्वप्नदृष्टाः पुरुषा यथा मिथ्या तथा जाग्रतः पुंसोऽन्येऽमि पुरुषा मिथ्यैव।।
अस्ति सर्वगतं शान्तं परमार्थघनं शुचि।
अचेत्यचिन्मात्रवपुः परमाकाशमाततम्।।[3-2-208]
परमार्थश्च तद्धनं निरन्तरं चेति परमार्थधनम्। अचेत्यचिन्मात्रवपुरविषयचिन्मात्रास्वरूपं परमाकाशं परं ब्रह्म सर्वगतम्।। निरङ्कुशमिति वक्तुमाततमित्युक्तम्।।
तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम्।
यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै।।[3-2-209]
सर्वं गच्छति जानातीति सर्वगं तत्सर्वमिति बाधायां सामानाधिकरण्यम्। सर्वात्मकं सर्वेष्वात्मस्वरूपमनुस्यूततया यस्य तत्सर्वात्मकम्।।
तेदवमेव राजंस्त्वं लीलार्थमुपवर्णितः।
स्वस्ति तेऽस्तु गमिष्यावो दृष्टादृष्टान्तसंविदः।।[3-2-210]
विदूरथ उवाच।।
ममापि दर्शनं देवि मोघं भवति नार्थिषु।
महाफलप्रदायास्तु कथं तव भविष्यति।।[3-2-211]
अहं देहमिमं त्यक्त्वा तं देहं पद्मनामकम्।
कदा यास्यामि वरदे तन्मे कथय तत्त्वतः।।[3-2-212]
देव्युवाच।।
अस्मिन्रणवरे राजन्मर्तव्यं भवताधुना।
प्राप्तव्यं प्राक्तनं राज्यमेतत्प्रत्यक्षमेव ते।।[3-2-213]
वसिष्ठ उवाच।।
प्रस्तुतेतिकथा यावन्मिथो मधुरभाषिणोः।
तावत्प्रविश्य संभ्रान्तमुवाचोर्ध्वस्थितो नरः।।[3-2-214]
हे राजन्, एष त्वं लीलर्थं लीलायाः प्रपञ्चमिथ्यात्वे दृषअटान्तसिद्ध्यर्थम्। अथवा लीलार्थं लीलाप्रीत्यर्थमेवमुपवर्णितः। दृष्टान्तदृष्टयः प्रपञ्चमिथ्यात्वे दृष्टान्तनिश्चया दृष्टाः। लब्धा इत्यर्थः।।[3-2-210,211,212,213,214]
देव पट्टिशचक्रासिगदापरिघवृष्टिमत्।
महत्त्वरिबलं प्राप्तमेकार्णव इवोद्धतः।।[3-2-215]
पट्टिश उभयतोधार आयुधविशेषः। परिघो मूले निबद्धो लगुडः।।
नगरे नगसंकाशे सग्नोऽग्निर्व्याप्तदिक्तटः।
दहंश्चटचटास्फोटैः पातयत्युत्तमान्गृहान्।।[3-2-216]
नगः पर्वतः।।
कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः।
बलात्प्रोड्डीयनं कर्तुं प्रवृत्ता गरुडा इव।।[3-2-217]
कल्पाम्बुदघटातुल्याः प्रलयमेघसमूहतुल्याः। प्रोड्डीयनं प्रकर्षेणोद्गमनमित्यर्थः।।ससंभ्रमं वदत्येवं पुरुषे परुषारवः।
उदभूत्पूरयन्नाशा बहिः कोलाहलो महान्।।[3-2-218]
परुषः कर्कशः आसमन्ताद्रवः शब्दो यस्य स परुषारवः उदभूदुद्भूतः। आशा दिशः।।
बलादाकर्णकृष्टानां धनुषां शरवर्षिणाम्।
बृंहतामतिमत्तानां कुञ्जराणां तरस्विनाम्।।[3-2-219]
बृंहतां गर्जताम्। तरस्विनां बलवताम्। `द्रविणं तरः सहोबलवीर्याणि स्थाम शुष्मं चे'त्यमरः। यद्वा तरस्विनां जववताम्। `रंहस्तरसीतु रयः स्यद' इत्यमरः।।
पुरे चटचटास्फोटैर्ज्वलतां जातवेदसाम्।
पौराणां दग्धदाराणां महाहलहलारवैः।।[3-2-220]
चटचटाहलहलेति शब्दानुकारौ। चटचटास्फोदैर्हलहलारवैश्च सह धनुषां कुञ्जराणां कोलाहल उदभूदिति पूर्वेणान्वयः।।
अथ वातायनाद्देव्यौ मन्त्री राजा विदूरथः।
ददृशुः प्रोल्लसन्नादं महानिशि महापुरम्।।[3-2-221]
वातायनं गवाक्षम्। `वातायनं गवाक्षोऽस्त्री'त्यमरः।।
प्रलयानिलसंक्षुब्धसप्तैकार्णवरंहसा।
पूर्णँ परबलेनोग्रकल्पमेघतरङ्गिणा।।[3-2-222]
एकश्चासावर्णवश्चैकार्णवः। सप्त चासावेकार्णवश्च सप्तैकार्णवस्तस्य रंह इव रंहो वेगो यस्य तत्तथा। उग्रा ये कल्पमेघाः प्रलयमेघास्तद्वत्तरङ्गाः तत्तुल्याकारा यस्मिन्परबले तदुग्रकल्पमेघतरङ्गि तेन।।
कल्पान्तवह्निविगलन्मेरुमन्दरभासुरम्।
दह्यमानं महाज्वालाजालैरम्बरपूरकैः।।[3-2-223]
कल्पान्तवह्निविगलन्मेरुमन्दरभासुरं कल्पान्तवह्निना दग्धत्वाद्विगलन्तौ यौ मेरुमन्दरौ तद्वद्भासुरं भासनशीलम्।।
मुष्टिग्राह्यमहामेघगर्जसंतर्जनोर्जितैः।
घोरं कलकलारावैर्मांसलैर्दस्युजल्पितैः।।[3-2-224]
मुष्टिग्राह्या ये महामेघास्तेषां गर्जा गर्जनानि तद्वद्यानि संतर्जनानि तैरूर्जितैरभिवृद्धैः। यद्वा मुष्टिग्राह्या महामेघगर्जास्तद्वद्यानि संतर्जनानि तैरूर्जितैः। कलकलारावैः कोलाहलनिस्वनैः। `कोलाहलः कलकल'इत्यमरः। कलकलेतिशब्दानुकारो वा। मांसलैः। सान्द्रैरित्यर्थः। कलकलारावैः दस्युजल्पितैश्च घोरमिति संबन्धः। अथवा दस्युजल्पितैर्हेतुभिर्मांसलैः कलकलारावैः घोरमित्यन्वयः।।
तरदुल्मुकखण्डोग्रतारातरलिताम्बरम्।
अङ्गारराशिनिपतन्नरनार्युग्ररोदनम्।।[3-2-225]
तरदुल्मुकेति।। तरन्ति लङ्घयन्ति यान्युल्मुकखण्डानि तान्येवोग्रतारा उग्रनक्षत्राणि ताभिस्तरलितं लुलुतं अम्बरमाकाशं यस्मिन्पुरे तत्तथा। यथाहुः क्षीरस्वामिनः-`प्रेङ्खोलितस्तरलितो ललितो लोलितोऽपि चे'ति। अङ्गारराशिषु निपतन्नरनारीणामुग्रं रोदनं यस्मिंत्तस्तथा।।
एतस्मिन्नन्तरे राजमहिषी मत्तयौवना।
अनुयाता वयस्याभिर्विवेश भयविह्वला।।[3-2-226]
वयस्याभिः सखीभिः।।
अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत्।
देवदेवी समायाता पलाय्यान्तःपुरान्तरात्।।[3-2-227]
व्यजिज्ञपत् विज्ञापितवती। ज्ञा अवबोधन इति धातोर्लङ्।।
राजद्वाराहृतास्त्वेते बलवद्भिरुदायुधैः।
अन्तःपुराधिपाः सर्वे पिष्टाः शत्रुभिरुद्धतैः।।[3-2-228]
पिष्टाश्टूर्णिताः।।
दूरेणाशङ्कमायातैः परैर्नः पुरमाहृतम्।
इत्याकर्ण्य विलोक्यासौ देव्यौ युद्धाय यास्यतः।।[3-2-229]
न विद्यते शङ्का यस्मिन्कर्मणि तदशङ्कम्। आहृतमपहृतम्। देव्याविति संबोधनम्।।
रक्षतां मम भार्येयं युष्मत्पादाब्जषट्पदी।
इत्युक्त्वा निर्ययौ राजा कोपाकुलितलोचनः।।[3-2-230]
षट्पदी भ्रमरी।।
मत्तेभनिर्भिन्नवनकन्दरादिव केसरी।
लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम्।।[3-1-231]
प्रतिबिम्बमिवायातामादर्शे चारुदर्शनाम्।।[3-2-232]
कन्दराद्दर्याः।।[3-2-231,232]
प्रबुद्धलीलोवाच।।
किमिदं देवि मे ब्रूहि कस्मादियमहं स्थिता।
या साहमभवं पूर्वं कथं सेयमहं स्थिता।।[3-2-233]
इयमहं कस्मात्स्थिता। इयं मत्समा कस्मात्स्थितेति यावत्। नन्वियं योगप्रभावोत्पादिता मानुषशरीरया त्वया समा न भवतीत्याशङ्क्याह-या सेति।।[3-2-233]
ज्ञप्तिरुवाच।।
यादृग्भावो मृतो भर्ता तव तस्मिंस्तदा पुरे।
तादृग्भावस्तमेवार्थं ततैवायं हि दृष्टवान्।।[3-2-234]
आत्मान्तरे त्वद्भावनाभावितेन त्वद्भर्त्रा त्वत्सदृशतया कल्पितत्वाल्लीला त्वत्समा स्थितेत्युत्तरमभिप्रेत्याह-यादृगिति।। तमेवार्थं तत्सदृशमेवार्थमित्यर्थः।।
अविसंवादिसर्वार्थरूपं यत्तस्य बिम्बितम्।
तदेव तादृशं चित्तदर्पणे प्रतिबिम्बति।।[3-2-235]
नन्वियं लीला कल्पिता चेत् सुक्तिरजतादाविवास्यां विसंवादः कथं न जायत इत्याशङ्क्याह-अविसंवादीति।। अविसंवादिसर्वार्थरूपं व्यवहारदशायां बाधापरपर्याविसंवादरहितसर्वपदार्थस्वरूपं तस्य मनसि बिम्बितं त्वद्भर्तुर्मनसि स्फुरितमभूत्, तदेव तादृशं अविसंवादि सत् चित्तदर्पणे कालान्तरे प्रतिबिम्बति। अविसंवादितया यत्पूर्वमनुभूतं तत्संस्कारात्मना वर्तमानं कालान्तरे चित्तदर्पणे तथैव स्फुरतीत्यर्थः।।
स्वप्नो जाग्रत्यसद्रूपः स्वपने जाग्रदसद्वपुः।
मृतिर्जन्मन्यसद्रूपा मृत्यां जन्माप्यसन्मयम्।।[3-2-236]
ननु व्यवहारदशायां विसंवादाभावे कल्पित्वमेवासिद्धमित्याशङ्क्य व्यभिचारित्वेन दृश्यमात्रस्य मिथ्यात्वं साधयति-स्वप्न इत्यादिना।।
एवं न सन्नासदिदं भ्रान्तिमात्रं विजृम्भते।
अनुभूतय एतास्तु काश्चित्पूर्वानुभूतितः।।[3-2-237]
जगद्भ्रान्तीनां वैचित्र्यप्रदर्शनपूर्वकमभिनवलीलायाः सदृशभ्रान्तिगृहीतत्वं पूर्वोक्तं च विशदयति-अनुभूतय इत्यादिना।। काश्चिदनुभूतयो भ्रान्तयः पूर्वानुभूतितः संस्कारद्वारा जायन्ते।।
अपूर्वानुभवाः काश्चित्समाश्चैवासमास्तथा।
त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुः सती।।[3-2-238]
काश्चित्तु अपूर्वानुभवा भवन्ति। पूर्वानुभवाः कारणत्वेन न विद्यन्ते यासां ता अपूर्वानुभवाः काश्चित्समाः सदृशाः। त्वच्छीला त्वत्समानशीला। त्वत्कुला त्वत्समानकुला। त्वद्वपुस्त्वत्समानशरीरा।।
इति लीलेयमाभाति प्रतिभा प्रतिबिम्बजा।
विदूरथस्तु भर्तैष तनुं त्यक्त्वा तवाङ्गने।।[3-2-239]
तदेवान्तःपुरं प्राप्य तादृगात्मा भविष्यति।।[3-2-240]
प्रतिबिम्बजा प्रतिबिम्बत्वेन जाता त्वद्भर्तृप्रतिभेयं लीलेत्याभातीति संबन्धः।।[3-2-239,240]
वसिष्ठ उवाच।।
इत्याकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा।
पुरः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः।।[3-2-241]
देवी भगवती ज्ञप्तिर्नित्यमेवार्चिता मया।
सा यादृश्येव देवेशि ताद्दश्येव त्वमम्बिके।।[3-2-242]
तत्पुरं विदूरथपुरं आस्पदं स्थानं यस्याः सा तथोक्ता। विहिताञ्जलिः कृताञ्जलिः।।[3-2-241,242]
तन्मे कृपणकारुण्याद्वरं देहि वरानने।
रणे देहं परित्यज्य यत्र तिष्ठति मे पतिः।।[3-2-243]
अनेनैव शरीरेण तत्रस्थाहं तदङ्गना।
एतदस्त्विति देव्योक्ते पूर्वलीलाब्रवीदथ।।[3-2-244]
पूर्वलीलोवाच।।
पूर्वेणैव शरीरेण किमर्थं नाहमीश्वरि।
लोकान्तरमिदं नीता तं गिरिग्रामकं वद।।[3-2-245]
देव्युवाच।।
न किंचित्कस्यचिदहं करोमि वरवर्णिनि।
सर्वं संपादयत्याशु संकल्पः प्राणिनां स्वतः।।[3-2-246]
मां समाराधयन्त्यास्तु संकल्पोऽभूत्तवेदृशः।
मुक्ता स्यामिति तेन त्वं तैः प्रकारैः प्रबोधिता।।[3-2-247]
अनया त्विममेवार्थं याचिता दत्तवत्यहम्।
एवं फलति संकल्पो नृणामस्मत्प्रसादतः।।[3-2-248]
वसिष्ठ उवाच।।
विदूरथस्तु सदनान्निर्गतः परिवारितः।
परिवारेण महता महारत्नविभूषितः।।[3-2-249]
अत्यन्तलोभार्थं बह्ववमानं सहते यः स कृपणः कृपणे कारुण्यं कृपणकारुण्यं तस्मात्।।[3-2-243,244,245,246,247,248,249]
आलोकयन्वीरगणानारुरोह रथोत्तमम्।
कूटागारसमाकारं मुक्तामाणिक्यमण्डितम्।।[3-2-250]
कूटं गिरिश्रृङ्गं कूटवत्स्थितमगारं कूटागारं कूटागारेण सम आकारो यस्य स तथोक्तः तम्। यद्वा कूटागारमयोगृहं तत्सम आकारो यस्य तत्।।
अथोदपतदुद्दामनानाभ्ररवनिर्भरः।
शैलभित्तिप्रतिध्वानैर्दारुणो दुन्दुभिध्वनिः।।[3-2-251]
उदपतत् उत्थितः। उद्दामनानाभ्ररवनिर्भरः उद्दामान्युद्बन्धनानि यानि नानाभ्राणि नानामेगास्तेषां रववन्निर्भरो भरः। सान्द्र इत्यर्थः। शैलभित्तिषु पर्वतपार्श्वंभित्तिषु प्रतिध्वानैः प्रतिध्वनिभिर्दारुणो घोरः शैलभित्ति प्रतिध्वानदारुणः।।
किङ्किणीजालनिध्वानैर्हेतिसंघट्टटंकृतैः।
धनुश्चटचटाशब्दैः शरसीत्कारगीतिभिः।।[3-2-252]
हेतिसंघट्टटंकृतैः शस्त्रसंघट्टनजनितटंकारैः। `रवेरर्चिश्चशस्त्रं च वह्निज्वाला च हेतय'इत्यमरः।।
परस्परं भटाह्वानैर्बन्दीविक्षुब्धरोदनैः।
शिलाघनकृताशेषब्रह्मण्डकुहरध्वनिः।।[3-2-253]
बन्दी हठापहतास्त्री। यथाहुः क्षीरस्वामिनः-`बन्दी हठापहता स्त्री'ति। शिलाघनो निबिडावयवपाषाणः। शिलाघनैः कृतं पूरितं शिलाघनकृतं अशेषब्रह्माण्डकुहरं येन स तथा। कुहरं सुषिरम्। अतिमहता ध्वनिना सर्वतः पूरितं ब्रह्माण्डविवरं शिलाघनपूरितमिवासीदित्यर्थः।।
हस्तग्राह्योऽभवदेद्भीमो दशाशाकुञ्जपूरकः।
अथोत्थितेन रजसा पीनेनाम्बररोधिना।।[3-2-254]
कुञ्जो लतादिपिहितोदरम्। दशाशा दशदिश एव कुञ्जा जगदुदरस्य तत्पूरको दशाशाकुञ्जपूरकः।।
मूर्खत्वं यौवनेनैव घनतामाययौ तमः।
विवेशारिबलं राजा क्षीराब्धिमिव मन्दरः।।[3-2-255]
घनतां सान्द्रताम्।।
जज्वलुः शस्त्रसंघट्टज्वलना उल्मुका इव।
जगर्जुः शरधारौधान्वर्षन्तो वीरवारिदाः।।[3-2-256]
जज्वलु ज्वलनं चक्रुः। ज्वलना अग्नयः। `कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपादि'त्यमरः। जगर्जुः गर्जनं चक्रुः।।निपेतुःकङ्कवत्क्रूरा वीराङ्गेषु च हेतयः।
पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे।।[3-2-257]
कङ्को लोहपृष्ठाख्यः पक्षी। `लोहपृष्ठस्तु कङ्कः स्यादि'त्यमरः। पेतुः पतनं चक्रुः। पटपटारावमिति क्रियाविशेषणम्। निष्पिष्टयो निष्पेषाः।।
उत्तस्थुर्यमयात्रायां कबन्धनरपङ्क्तयः।
प्रशेमुः पांसवो रक्तैस्तमांस्यायुधवह्निभिः।।[3-2-258]
प्रशेमुः प्रशान्ताः। तमांसि शब्दभयानि च क्रमेण आयुवह्निभी रश्मिभिः।।
युद्धैकध्यानतः शब्दभायानि मृतिनिश्चयैः।
अभवत्केवलं युद्धमपशब्दमसंभ्रमम्।।[3-2-259]
युद्धैकध्यानान्मृतिनिश्चयैश्च प्रशेमुः। अपशब्दं निःशब्दं यथा भवति तथा।।
समसमरवसंवहच्छरौघं टकिटकितारवसंपतद्भुशुण्डि।
कणकणरवसंमिलन्महास्त्रं तिमिनिधिवद्रणमास दुस्तरं तत्।।[3-2-260]
वसिष्ठ उवाच।।
एतस्मिन्वर्तमाने तु घोरे समरसंभ्रमे।
लीलाद्वयमुवाचेदं देवीं भगवतीं प्रति।।[3-2-261]
समसमेति शब्दानुकारः। समसमरवं यथा भवति तथा संवहत्संपतञ्शरौघो यस्मिन्रणे तत्तथा। अथवा समाः समजवाः परस्परं समसमवच्छब्दाः संवहन्तश्च शरौघा यस्मिंस्तत्तथा। यद्वा समंसममत्यृजु यथा भवति तथा रवेण संवहन्तः शरौघा यस्मिंस्तत्तथा। अथवा समं युगपदेव समरवं यथा तथा संवहन्तः शरौघा यस्मिंस्तत्तथा। टकिटकितेतिशब्दानुकारः कलकलेति वा। भुशुण्डीनामायुधविशेषः। दुस्तरत्वमात्रे दृष्टान्तः तिमिनिधिवत् समुद्रवत्।।[3-2-260-261]
वसिष्ठ उवाच।।
एतस्मिन्वर्तमाने तु घोरे समरसंभ्रमे।
लीलाद्वयमुवाचेदं देवीं भगवतीं प्रति।।[3-2-262]
देव्युवाच।।
चिरमाराधिता तेन विदूरथनृपारिणा।
अहं पुत्र्यौ जयार्थेन न विदूरथभूभृता।।[3-2-263]
तेनासावेव जयति जीयते न विदूरथः।
अनेन मुक्त एव स्यामहमित्यस्मि भाविता।।[3-2-264]
देवीति।। नोऽस्माकम्। नो इत्यभावे। विद्रुतवारणे प्रविलापितगजेरण इति संबन्धः।।[3-2-262,263,264]
प्रतिभारूपिणी तेन बाले मुक्तिर्भविष्यति।
एतदीयस्त्वयं शत्रुर्जयी राज्यं करिष्यति।।[3-2-265]
प्रतिभारूपिणी मनोमयी।।
वसिष्ठ उवाच।।
एवं देव्यां वदत्यां तु बलयोर्युद्ध्यमानयोः।
रविर्द्रष्टुमिवाश्चर्यमाजगामोदयाचलात्।।[3-2-266]
युद्ध्यमानयोः सतोः।।
भुवनं कञ्जलाम्भोधेरिवोद्वृत्तमराजत।
पेतुः कनकनिष्पन्दसुन्दरा रविरश्मयः।।[3-2-267]
कज्जलं मसीं। कनकनिष्पन्दाः सुवर्णशलाकाः।।
एतस्मिन्नन्तरे सेनाः सर्वाः संक्षयमाययुः।
आसीद्रणाङ्गणं शून्यमिवाल्पोभयसैनिकम्।।[3-2-268]
सैनिकाः सेनायां समवेताः।।
प्राप्य राजा पुराः शत्रुं सिन्धुमुद्धरकन्धरम्।
धनुरास्फालयामास परिवादितदिङ्मुखम्।।[3-2-269]
सिन्धुं सिन्धुनामकम्। उद्धरकन्धरं उन्नतग्रीवम्। धनुरास्फालयामास धनुर्ज्यामाततानेत्यर्थः। परिवादितानि परिनादितानि दिङ्मुखानि यस्मन्कर्मणि तत्तथा।।
कल्पान्तपवनास्फोट इवामरगिरेस्तटम्।
विससर्जेर्जितो राजा प्रातर्ककरानिव।।[2-3-270]
आस्फोटोऽत्राभिहतिः। अमरगिरिर्मेरुः करान्किरणान्।।
तीक्ष्णाः परमदुस्पर्शाः शिलीमुखपरम्पराः।
सिन्धोरपि तथैवासीन्मुक्तिलाघवमेव च।।[3-2-271]
एवं सिन्धुर्महाबाहुश्चिरं समरमूर्धनि।
क्रीडित्वा पीडयामास शरवर्षैर्विदूरथम्।।[3-2-272]
शिलीमुखाः सायकाः।।[3-2-271,272]
छिन्नध्वजं छिन्नरथं भिन्नाश्वं भिन्नसारथिम्।
छिन्नकार्मुकवर्माणं छिन्नसर्वाङ्गमाकुलम्।।[3-2-273]
कार्मुकं धनुः। वर्म कवचम्।।
हृदि स्फारसिलापट्टदृढपीवरमूर्धनि।
भित्त्वा वज्रसमैर्बाणैः पातयामास भूतले।।[3-2-274]
हतो राजा हतो राजा प्रतिराजेन संयुगे।
इति शब्दे समुद्भूते राष्ट्रमासीत्समाकुलम्।।[3-2-275]
स्फारो विपुलो यः शिलापट्टः तद्वद्दृढः पीवरः पीनश्च मूर्धा ऊर्ध्वभागो यस्य हृदस्तत्तथा।।[3-2-274,275]
भाण्डोपस्करभारौघविद्रवच्छकटव्रजम्।
आक्रन्दार्तकलत्रौघविद्रवन्नागरोत्करम्।।[3-2-276]
एतस्मिन्नन्तरे लीला तामुवाच सरस्वतीम्।
श्वासवशेषमालोक्य मूढं भतारमग्रतः।।[3-2-277]
प्रवृत्तो देहमुत्स्रष्टुं मद्भर्तायमिहाम्बिके।
भर्तारमनु यास्यामि दयां कुरु महेश्वरि।।[3-2-278]
भाण्डोपस्करेति।। भाण्डानामुपस्कराणामुपकरणानां भारौर्विद्रवत् शकटानां व्रातः मूहो यस्य राष्ट्रस्य तत्तथा। आसमन्तात्कन्दो रोदनं आक्रन्दस्तेनार्तो दुःखितः कलत्रौघो यस्य तत्तथा। विद्रवत् प्रधावन् नागराणां नगरभवानामुत्करः पुञ्जो यस्य तत्तथा। `स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियामि'त्यमरः।।[3-2-276,277,278]
इत्युक्त्वा ज्ञप्त्यनुध्यानात्सा सामर्थ्यवती क्षणात्।
पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले।।[3-2-279]
मेघमार्गानथोल्लङ्घ्य वातस्कन्धानथो पुनः।
सूर्यमार्गाद्विनिर्गत्य तारामार्गमतीत्य च।।[3-2-280]
पुप्लुवे प्लवने चक्रे। प्लु गतौ इति धातोर्लिट्। पेलवस्तनुराकारो यस्याः सा पेलवाकारा। `पेलवं विरलं तन्वि'त्यमरः।।[3-2-279,280]
ब्रह्मादिस्थानमाक्रम्य प्राप्य ब्रह्मण्डखर्परे।
ब्रह्माण्डखर्परं भित्त्वा जलाद्यावरणांस्ततः।।[3-2-281]
ब्रह्माण्डखर्परं ब्रह्माण्डकपालं स्थानम्। `स्यात्कर्परः कपालोऽस्त्री'त्यमरः।।
समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम्।
अदृष्टपारपर्यन्तमतिवेगेन धावता।।[3-2-282]
महाचिदेव परमात्माख्यगगनं तस्यान्तरं मध्यं महाचिद्गगनान्तरम्। महात्मनोऽपि पृथिव्याद्यावरणवत्परिच्छेदमाशङ्घ्याह-अष्टष्टेति।।
सर्वतो गरुडेनापि कल्पकोटिशतैरपि।
तत्र ब्रह्माण्डलक्षाणि सन्त्यसंख्यानि भूरिशः।।[3-2-283]
तान्यन्योन्यमदृष्टानि फलानीव महावने।
तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते।।[3-2-284]
वेधयित्वा विवेशान्तः प्रापयत्पद्मपत्तनम्।
तत्र तन्मण्डपं प्राप्य देवी शक्त्युपबृंहिता।।[3-2-285]
गरुडेनाप्यदृष्टपारपर्यन्तमिति संबन्धः।।[3-2-283,284,285]
प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता।
तं दृष्ट्वा चिन्तयामास चेतसा स्फुरितात्मना।।[3-2-286]
एष मे भविता भर्ता नूनं वीरवराग्रणीः।
अहं देव्याः प्रसादेन ततः प्रथममागता।।[3-2-287]
इति संचिन्त्य सा हस्ते गृहीत्वा चारु चामरम्।
वीजयामास राजेन्द्रं लीला ललितयौवना।।[3-2-288]
वसिष्ठ उवाच।।
एतस्मिन्नन्तरे राज्ञः पतितस्य महीतले।
जीवं ददृशतुर्देव्यौ दिव्यदृष्ट्या नभोगतम्।।[3-2-289]
अथ जीवकला लीला ज्ञप्तिश्चेति त्रयं ततः।
पुप्लुवे जीवलेखा तु योगिन्यौ ते न पश्यति।।[3-2-290]
तमेवानुसरन्त्यौ ते सर्गात्सर्गान्तरं गते।
पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम्।।[3-2-291]
क्षणाद्विविशतुः स्वैरं जीवलेखाप्यथाग्रगा।
ततो ददृशतुर्देव्यौ शवशय्यैकपार्श्वगाम्।।[3-2-292]
स्फुरितात्मना चलितस्वरूपेण। विस्मयोत्फुल्लस्वरूपेणेति यावत्।।[3-2-286,287,288,289,290,291,292]
लीलां विदूरथस्याग्रे प्रस्थितां प्रथमागताम्।
एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः।।[3-2-293]
वैदूरथं विदूरथसंबन्धिनम्।।
संकल्पेन रुरोधाथ मनसः स्पन्दनं यथा।
ततो भगवतीमाह लीला ललितलोचना।।[3-2-294]
देवि स प्राक्तनो देहः कथं मम न दृश्यते।।[3-2-295]
अयं जीवः शवशरीरं मा प्रविशतु आकाशे तावत्तिष्ठत्वित्येवंलक्षणेन संकल्पेन रुरोध निरोधं चकार। ललिते सुन्दरे लोचने यस्याः सा तथोक्ता।।[3-2-294,295]
ज्ञाप्तिरुवाच।।
श्रृणु देहस्य किं वृत्तं तव लीले महाशये।
समाधौ त्वयि लीनायां तदा तव कलेवरम्।।[3-2-296]
निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम्।
काष्ठकुड्योपमो जातः शवस्तुहिनशीतलः।।[3-2-297]
ततो मन्त्रिभिरागत्य मृतोऽयमिति निश्चयैः।
चितौ संक्षिप्य सघृतं दग्धं चन्दनदारुभिः।।[3-2-298]
इदानीं त्वामिहालोक्य सररीरामुपागताम्।
परलोकादागतेति महच्चित्रं भविष्यति।।[3-2-299]
महानाशयोऽभिप्रायो यस्याः सा तथोक्त तत्संबोधनं हे महाशये।।[3-2-296,297,298,299।
आतिवाहिकदेहेन प्रतिभामात्ररूपिणा।
दृश्यसे सांप्रतं त्वं तु योगर्द्धिबलबृंहिता।।[3-2-300]
आतिवाहिकदेहेन लिङ्गशरीरेण। प्रतिभामात्रं प्रतीतिमात्रं रूपं यस्य स तथा।।
विस्मृतस्तव देहोऽसौ वासनायाः परिक्षयात्।
रूढातिवाहिकदृशा प्रशाम्यत्याधिभौतिकः।।[3-2-301]
देहः स्थूलः। वासनायाः स्थूलदेहवासनायाः रूढतिवाहिकदृशा। दृढलिङ्गशरीरप्रमायाः स्वप्नदेहवन्मनोव्यतिरिक्त आदिभौतिकदेहो नास्तीति दृढप्रमयेत्यर्थः। अतएवाहुः-जीवन्मुक्तस्य शरीरं प्रातिभासिकमिति।।
तदेहि यावल्लीलायै लीले संकल्पलीलया।
आत्मानं दर्शयावोऽस्यौ व्यवहारः प्रवर्तताम्।।[3-2-302]
संकल्पलीलया संकल्पक्रीडया यावदात्मानं दर्शयावस्तावद्वयवहारः प्रवर्ततामिति संबन्धः। तावच्छब्दार्थे वा यावच्छब्दः।।
आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते।
ज्ञप्तिदेव्या ततस्तत्र लीला चलविलोचना।।[3-2-303]
गृहमालोकयामास तत्तेजःपुञ्जभासुरम्।
गृहमालोक्य पुरतो लीलां ज्ञप्तिं विलोक्य च।।[3-2-304]
उत्थाय संभ्रमवती तयोः पादेषु सापतत्।
उपाविशद्विष्टरेषु ज्ञप्तिलीले च ते ततः।।[3-2-305]
लीलैवेमे आवां तावपश्यत्विति ज्ञप्तिदेव्या चिन्तिते सतीत्यन्वयः।।[3-2-303,304,305]
ज्ञप्तिरुवाच।।
हे हंसहारिगामिन्यौ लीले ललितलोचने।
उत्थापायो नृपतिं शवतल्पादिमं पुनः।।[3-2-306]
हंसहारिगामिन्यौ हंसवन्मनोहारिगामिन्यौ। लीले ललितलोचने इति च संबोधनप्रथमाद्विवचनम्।।
इत्युक्त्वा मुमुचे जीवमामोदमिव पद्मिनी।
स समीरलवाकारस्तन्नासानिकटं ययौ।।[3-2-307]
घ्राणाकाशं विवेशाशु वंशरन्ध्रमिवानिलः।
अन्तस्थजीववदनं तस्य तत्कान्तिमाययौ।।[3-2-308]
दूरव्याप्त्या मनो हरति यः परिमलः सः। `आमोदः सोऽतिनिर्हारी'त्यमरः। समीरो वायुः।।[3-2-307,308]
क्रमादङ्गानि सर्वाणि सरसानि चकाशिरे।
स्फारयामास सोऽङ्गानि रसवन्ति मृदूनि च।।[3-2-309]
उन्मीलयामास दृशौ विमलालोककारिणी।
उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिरिव जङ्गमः।।[3-2-310]
चकाशिरे दीप्तिंचक्रिरे। स्फारयामास बहुलीचकार।।[3-2-309,310]
उवाच कः स्थित इति घनगम्भीरनिस्वनम्।
लीलाद्वयमथास्याग्रे प्रोवाचादिश्यतामिति।।[3-2-311]
का त्वं केयं कुतश्चेयमित्याह स विलोकयन्।
तस्मै लीलाह हे देव श्रूयतां यद्वदाम्यहम्।।[3-2-312]
घनगम्भीरनिनदं यथा तथा। आदिश्यतामाज्ञाप्यताम्।।[3-2-311,312]
महिला तव लीलाहं प्राक्तनी सहवर्तिनी।
इयं ते महिला लीला द्वितीया लीलया मया।।[3-2-313]
महिला वनिता। `प्रतिपदर्शिनी वामा महिला वनिता तथे' त्यमरः।।
उपार्जिता त्वदर्थेन प्रतिबिम्बमयी शुभा।
शिरोभागोपविष्टेयं येयं हैममहासने।।[3-2-314]
एषा सरस्वतीदेवी त्रैलोक्यजननी शुभा।
इत्याकर्ण्य समुत्थाय राजा ज्ञप्तिपदाब्जयोः।।[3-2-315]
पपात प्रयतो भूत्वा सरस्वति नमोऽस्तु ते।
इत्युक्तवन्तं हस्तेन स्पृष्ट्वोवाच सरस्वती।।[3-2-316]
त्वदर्थेन त्पत्प्रयोजननिमित्तेन।।[3-2-314,315,316]
सर्वापदः सकलदुष्कृतदृष्टयश्च गच्छन्तु वः शिवमनन्तसुखानि सम्यक्।
आयान्तु नित्यमुदिता जनता भवन्तु राष्ट्रे स्थिराश्च विलसन्तु सदा महान्तः।।[3-2-317]
जनता जनसमूहः।।
वसिष्ठ उवाच।।
सरस्वती तथेत्युक्त्वा तत्रैवान्तर्धिमाययौ।
जयमङ्गलपुण्याहघोषघुंघुमघर्घरः।।[3-2-318]
हृष्टपुष्टजनाकीर्णं ततोऽभून्नृपमन्दिरम्।
ततोऽभिषिषिचुर्विप्रा मन्त्रिणो भूभुजश्च तम्।।[3-2-319]
लीला लीला च राजा च जीवन्मुक्ता महाधियः।
रेमिरे पूर्ववृत्तान्तकथनैः सुरतैरिव।।[3-2-320]
घुंघुमो घर्घर इति च शब्दानुकारः। जयघोषेण मङ्गलपुण्याहघोषेण च घुंघुमध्वनयश्च यस्मिन्स तथा।।[3-2-318,319,320]
स ज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः।
चक्रे वर्षायुतान्यष्टौ तत्र राज्यमनिन्दितम्।।[3-2-321]
जीवन्मुक्तास्त इत्येवं राज्यं निहतकण्टकम्।
कृत्वा विदेहमुक्तत्वमासेदुः शुद्धसंविदः।।[3-2-322]
इति श्रीवाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे मण्डपोपाख्याने लीलोपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।
ज्ञप्तिज्ञानसंबुद्धः ज्ञप्तिदेव्युपदिष्टज्ञानवाक्यैः सम्यग्बुद्ध इत्यर्थः।।[3-2-321,322]
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमपूज्यपादशिष्यश्रीमदात्सुखकृतौ वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणे लीलोपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।