लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः १

विकिस्रोतः तः
लघुयोगवासिष्ठः
सर्गः १
[[लेखकः :|]]
सर्गः २ →

उत्पत्तिप्रकरणम्।।
उत्पत्तिप्रकरणार्थदर्शनम्।।
वसिष्ठ उवाच।।
मुमुक्षुव्यवहारोऽयं मया ते परिकीर्तितः।
अथेयं जागती श्रीमदुत्पत्तिः परिकीर्तितः।[3-1-1]
उत्पत्त्याख्ये प्रकरणे नवाख्यानविराजिते। आद्यमाकाशजाख्यानं लीलाख्यानमतः परम्।।
1।।कर्कट्या ऐन्दवानां च कृत्रिमेन्द्रस्य च क्रमात्। आख्यानान्यथ चित्तस्य षष्ठं बालस्य सप्तमम्।।2।।ततः साम्बरिकाख्यानं ततो लबणभूभृतः।। आख्यानं सप्तभूमीनां वर्णनं यत्र शोभनम्।।
तेष्वाख्यानेषु पूर्वेण संक्षेपाद्बोध्यमुच्यते।। पूर्वप्रकरणवृत्तमनूद्योत्तरप्रकरणतात्पर्यमाह-मुमुक्षुव्यवहार इति।। `आत्मा वा अरे द्रष्टव्यः' इत्यादिश्रुत्युक्तः शमादीतिकर्तव्यतोपेतो मनननिदिध्यासनाङ्गकः श्रवणलक्षणो व्यवहारो मुमुक्षुव्यवहार इत्यच्यते। जागती जगत्संबन्धिनी। गगनाद्गन्धर्वनगरोत्पत्तिरिव अधिष्ठानादज्ञाताद्ब्रह्मणो जगदुत्पत्तिरभिधीयत इत्यर्थः।।
अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथाभिधम्।
प्रत्यक्षमिति नामेह कृतं जीवः स एव नः।।[3-1-2]
मुमुक्षुणा द्रष्टव्ये ब्रह्मात्मत्त्वे पूर्वं प्रतिपादिते प्रत्यक्षादिप्रमाणप्रकाशितप्रपञ्च सत्यताशङ्कया तस्य परिपूर्णताशङ्कायां तत्परिहाराय प्रपञ्चस्य कारणपरमात्मव्यतिरेकेणासत्त्वं प्रतिपादयुतुं तस्मात्सृष्टिः पश्चाद्वर्णनीयेत्यभिप्रेत्य जीवस्वरूपे वादिविप्रतिपत्तेः स्वाभिमतजीवस्वरूपकथनपूर्वकं तस्य ब्रह्मैक्यमाह-अनुमूतेरित्यादिना स एव पूर्वं प्रतिपादनीयं तच्छेषतया सृष्टिः पश्चाद्वर्णनीयेत्यभिप्रेत्य बुभुत्सायाः प्रागेव तत्साक्षितया प्रकाशमानेन साक्षिप्रमाणमिति प्रसिद्धेनापरोक्षचैतन्यात्मकेन जीवेन तद्विरुद्धस्य परोक्षस्य ब्रह्मण एकत्वं न संभवतीत्याशङ्क्य तस्यापरोक्षचैतन्यात्मतां दर्शयन् प्रत्यगैक्यमाह-अनुभूतेरिति।। अथवा मुमुक्षुजिज्ञासितजीवपरमात्मैक्यमनभिधायाजिज्ञासितजगदुत्पत्तिपरिकीर्तनप्रतिज्ञानुपपन्नेत्याशङ्क्याह-अनुभूतेरिति।। इह व्यवहारभूमावनुभूतिवेदनप्रतिपत्तिशब्दाभिहितापरोक्षचैतन्यस्य यथाभिधं अभिधानमनतिक्रम्यानुभूतिप्रत्यक्षं वेदनप्रत्यक्षं प्रतिपत्तिप्रत्यक्षमिति। प्रत्यक्षं नाम प्रत्येकं वादिभिः स्वाभिमतविशेषणप्रक्षेपपूर्वकं कृतं स एव नोऽस्माकमौपनिषदानां जीवः। तथाच महद्भिरुक्तम्-`अनुभूतिर्वेदनं च प्रतिपत्तिरितीरितम्। चैतन्यमपरोक्षं यत्स जीव इह कत्यते' इति। एतेन वादिभिरन्यथा कल्पितजीवस्वरूपमपास्तम्। ब्रह्मपक्षे त्वयं श्लोक एवं विशिष्यते। वेदनमिति ब्रह्मापरोक्षज्ञानमुच्यते प्रतिपत्तेरिति। अलौकिकं प्रत्यक्षं महावाक्यजनितान्तःकरणवृत्त्यारूढं ब्रह्मैवापरोक्षज्ञानशब्दनिगद्यं भवति। चक्षुरादिजनितान्तःकरणवृत्त्यारूढं तदेव लौकिकप्रत्यक्षमुच्यते। वेदनप्रतिपत्त्यात्मिकाया अनुभूतेर्ब्रह्मणो यताभिधमभिधां प्रत्यक्षपर्यायतामनतिक्रम्येह मोक्षशास्त्रे प्रत्यक्षमिति नाम कृतम्। पठितमित्यर्थः। अपरोक्षादपरोक्षं चक्षुर्नेत्रमिति प्रत्यक्षार्थानां प्रतिपादकश्रुतिः। स एव प्रत्यक्षनामकं ब्रह्मैव नोऽस्माकमौपनिषदानां जीवः जीवपदलक्ष्यः। प्रतिनिर्दिश्यमानापेक्षया लिङ्गव्यत्यय इति।।
स एव संवित्स पुमानहन्ताप्रत्ययात्मकः।
स यदोदेति संवित्त्या सा पदार्थ इति स्मृता।।[3-1-3]
स एव संविदिति।। स जीवोऽपरोक्षचैतन्यात्मा संविदेव ब्रह्मैव। ननु मोक्षकामस्य स एव संविदिति ब्रह्मैकत्वे प्रतिपादितेऽपि न मुक्तिः संभवति। परिपूर्णात्मनावस्थानं हि मुक्तिः। ब्रह्मव्यतिरिक्तस्य प्रपञ्चस्य सत्त्वेन दतसंभवादित्याशङ्क्य सर्वस्य प्रपञ्चस्य ब्रह्मविवर्ततां दर्शयति-स पुमानित्यादिना।। चित्तगतचित्प्रतिबिम्बलक्षणो जीवः पुमानित्युच्यते। अहन्तया प्रतीयत इत्यहङ्कारः। स इति तच्छब्देन संविद्रूपः परमात्मा परामृश्यते। स संविद्रूपः परमात्मा स्वाविद्यया पूर्वं चित्तोपाधिकः पुमान् भूत्वा पश्चादहन्ताप्रत्ययात्मको भवति। उपलक्षणमेतत्। बुद्ध्यात्मको मनआत्मकश्च भवतीत्यपि द्रष्टव्यम्। स एव बाह्यपादर्थरूपेणापि विवर्तत इत्याह-स इति।। स यया संवित्त्या घटपटाद्याकारयोदेति। यत्संविद्रूपेण विवर्तत इत्यर्थः। सा संवित् घटपटादिलक्षणः पदार्थ इति स्मृता। सर्वोऽपि पदार्थो मनोविलास एवेति हि शास्त्रमर्यादा।।
स संकल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः।
जगत्तया स्फुरत्यम्बु तरङ्गादितया यथा।।[3-1-4]
उक्तमर्थं स्पष्टयति-स संकल्पेति।। स परमात्मा संकल्पविकल्पै भ्रमसंशयावाद्यौ येषामभिमानादीनां तैः कृतनानाक्रमः कृतो नानाभूतोऽवस्थाक्रमो यस्य स तथा। एवं ह्यवस्थाक्रमो भवति। परिपूर्णसंविद्रूपः परमात्मा सृष्टिकाले पूर्वं सामान्यतो दृश्यत्वावस्थामाप्नोति ततश्चित्तावस्थामाप्नोति ततोऽहंकारावस्थां ततो बुद्ध्यवस्थां ततो मनोवस्थामिति। अयं चैव क्रम उत्तरत्र स्पष्टीभविष्यति।।
प्रागकारणमेवाशु सर्गादौ सर्गलीलया।
स्फुरित्वा कारणं भूतं प्रत्यक्षं स्वयमात्मनि।।[3-1-5]
ननु ब्रह्मेत्थं जगत्तया स्फुरति चेत्तर्हि जगत्कारणेन ब्रह्मणा तद्विपरीतस्य जीवस्यैक्यमनुपपन्नमित्याशङ्क्याह-प्रागिति।। प्रत्यक्षप्रमाणात्मकप्रत्यगभिन्नत्वात्प्रत्यक्षाभिधं ब्रह्मा, अथवा साक्षादेव प्रत्यक्षाभिधं ब्रह्म क्रियां कुर्वद्विकारमिति न्यायात्सृष्टेः प्राकू क्रियाभावादकारणमेव सत्। अथवा कारणत्वस्य मिथ्यात्वादकारणमेव सत्। सर्गादावाशु सर्गलीलया मायामय्या सर्गार्थेक्षणलीलया स्फुरित्वा यथाकारणनिर्वाहिकयात्मनि वर्तमानस्य जगतः स्फुरित्वात्मनि संस्काररूपेण विद्यमानस्य जगतः स्वयंकारणभूतं, अथवा सर्गादौ सृष्टिपालनादावकारणं वास्तवसहकारिकारणरहितं सृष्टेः प्राक् सर्गलीलया स्फुरित्वा मायया कारणनिर्वाहिकयात्मनि वर्तमानस्य जगतः कारणभूतं प्रपञ्चरूपेण विवर्तमानमायाधिष्ठानत्वं हि ब्रह्मणः कारणत्वम्।।
रूपालोकमनस्कारपदार्थव्याकुलं जगत्।
विद्यते वेदनस्यान्तर्वातान्तः स्पन्दनं यथा।।[3-1-6]
ब्रह्मण एव कारमत्वं मायाद्वरत्वमिति सूचयितुं `तदात्मानं स्वयमकुरुते'तिश्रुतिं सूचयितुं स्वयमित्युक्तं प्रपञ्चयति-रूपेति।। अथवा ब्रह्मणो जगत उत्पत्तिमभिधाय तत्रैव स्थितिमाहरूपेति।। मनस्कारो मनस आभोगो मनोविस्तारः। `चित्ताभोगो मनस्कार'इत्यमरः। रूपं चालोकश्च मनस्कारश्चान्ये पदार्थाश्च रूपालोकमनस्कारपदार्थास्तैर्व्याकुलं व्यामिश्रं, अथवा रूपस्यालोकः प्रकाशो रूपदर्शनम्। अनेन जागरणं लक्ष्यते। मनस्कारशब्देन मनोविस्तारात्मकः स्वप्नो विवक्षितः रूपालोकमनस्कारयोर्जागरणस्वप्नयोर्य पदार्थास्तैर्व्याकुलं जगद्वेदनस्य ब्रह्मलक्षणस्यान्तः संस्काररूपेण स्थूलरूपेण वान्तर्वर्तते। ब्रह्मणि तादात्म्येन जगद्वर्तत इति ज्ञापनाय दृष्टान्तमाह-वातान्तरिति।।
सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम्।
भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम्।।[3-1-7]
ननु ब्रह्म जगदुपादानकारणं चेत्तर्हि घटो ब्रह्म पटो ब्रह्मेति तत्तदात्मना प्रतीयेत जलमिव तरङ्गाद्यात्मना। नचैतदस्ति अतो नोपादानं किंतु निमित्तमेवेत्यत आह-सर्वात्मेति।। सर्वात्मकवेदनं ज्ञानरूपं ब्रह्म यथा येन प्रकारेण यत्कार्यस्वरूपेणोदेति विवर्तते तदात्मकं तत्कार्यस्वरूपं सद्भाति। सन् घटः सन् पट इति हि तत्तदात्मना सद्रूपं ब्रह्म प्रकाशते। अतोयुक्तं ब्रह्मण उपादानकारणत्वमपि। प्रसृतदिक्कालबाह्यन्तारूपदेहकम्। अन्तरित्यव्ययेनान्तरं वस्तु विवक्षितम्। विप्रसृतस्वरूपदिक्कालमुक्तबाह्यन्तराणां रूपं स्वरूपमेव देहो यस्य तत्तथा।।
स सर्वात्मा यथा यत्र समुल्लासमुपागतः।
तिष्ठत्याशु तथा तत्र तद्रूप इव राजते।।[3-1-8]
उक्तमर्थं विशदयति-स सर्वात्मेति।। यत्र देशे यथा येन प्रकारेण यत्कार्यात्मना समुल्लासम्। समुज्जृम्भणमित्यर्थः।।
अकारणकमेवातो ब्रह्मकल्पमिदं स्थितम्।
प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुमादयः।।[3-1-9]
प्रागकारणमेवेत्यादिनोक्तमर्थं विशदयति-अकारणकमिति।। यतोमायाद्वारं विन ब्रह्मणि कारणत्वं न विद्यते अतोऽकारणकमेव वास्तवकारणरहितमेवेदं जगत्सृष्टेः प्राक् ब्रह्मकल्पमनभिव्यक्तनामरूपतया ब्रह्मस्वरूपमिव स्थितम्। अधिष्ठानभूते ब्रह्मणि संस्कारशेषं विलीनं जगत्ततोऽविभाव्यमानभेदं स्थितमित्यर्थः। सृष्टिकाले प्राप्ते जगतः प्रत्यक्षमेव प्रत्यक्षप्रमाणात्मकं ब्रह्मैव निर्मातृ भवति। अक्षपादादिदर्शन इव नानपरोक्षसमचिद्रूपं निर्मातृ अपरोक्षचैतन्यमेव जीव इति दर्शयितुं प्रत्यक्षप्रमाणमेव जीव इत्युक्तम्। तत्प्रसङ्गादनुमानादिदर्शयितुं प्रत्यक्षप्रमाणमेव जीव परोक्षचैतन्यं ब्रह्मैवेति दर्शयितुं प्रत्यक्षनामकं ब्रह्मेत्युक्तं तत्प्रसङ्गादनुमानादिस्वरूपमाह-तस्येति।। अनुमानादयः तस्य प्रत्यक्षप्रमाणस्यापरोक्षचैतन्यात्मकब्रह्मणोंऽशा इवांशाः। परिपूर्णज्ञप्तिमात्रं ब्रह्मान्तःकरणप्रतिबिम्बितं सत्प्रमातेत्युच्यते। तदेवेन्द्रियलिङ्गादिजनितान्तःकरणांशारूढं प्रमाणमित्यभिधीयत इति हि वेदान्तमर्यादा।।
बन्धोऽयं दृश्यसद्भावाद्दृश्याभावे न बन्धनम्।
न संभवति दृश्यं तु यथेदं शृणु कथ्यते।।[3-1-10]
सर्वं जगद्ब्रह्मकार्यमिति दर्शयता कारणब्रह्मव्यतिरेकेण कार्यं जगदसदेवेत्युक्तम्। `वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि'ति कारणव्यतिरेकेण कार्यस्यासत्त्वप्रतिपादकश्रुतेः। इदानीं बाधतन्निवृत्त्योः कारणप्रदर्शनपूर्वकं तदेव बन्धकारणभूतदृश्यजगदसत्त्वं प्रतिज्ञापूर्वकं प्रपञ्चयति `सर्वं खल्विदं ब्रह्म तज्जलानि'इति श्रुतिमनुसरन्-बन्धोऽयमित्यादिना।। `जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यत' इति वक्ष्यमामस्य दृश्यस्य सद्भावादयं साक्षादनुभूयमानः कर्तृत्वभोक्तृत्वादिलक्षणो बन्धो भवति। ननु दृश्याभावे बन्धनं न भवतीति सत्यं, स एव दृश्याभावो न संभवतीत्याह-न संभवतीति।। तुशब्दः शङ्काव्यावृत्त्यर्थः। इदं दृश्यं यथा न संभवति तथा कथ्यते, श्रृणु।।
यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम्।
तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति।।[3-1-11]
यदिदमिति।। विमतं दृश्यं असत् विनाशित्वात् स्वप्नवत्। विमतं विनाशि दृश्यत्वात् स्वप्नवदित्यर्थः।।
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते।।[3-1-12]
दृश्यवद्ब्रह्मणो विनाशित्वमाशङ्क्याह-तत इति।। ततोऽनन्तरं ततं व्याप्तं तेजस्तमश्च न किंतु स्तिमितगम्भीरं निश्चलापरिच्छेद्यं, अनाख्यमनभिधानमिन्द्रियागोचरत्वादनभिव्यक्तं किंचिदिति निरूपणानर्हं सद्ब्रह्मावशिष्यते। `सदेव सोम्येदमग्र आसीदि'ति श्रुतेः।।
ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः।
कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः।।[3-1-13]
अनाख्यमित्युक्तं ब्रह्मादिनामकत्वात्तस्येत्यत आह-ऋतमिति।।
स तथाभूत एवात्मा स्वयमन्य इवोल्लसन्।
जीवतामुपयातीव भाविनामकदर्थिताम्।।[3-1-14]
एवं सर्वप्रपञ्चस्य ज्ञातब्रह्मात्मतालयमभिधाय स्वरूपादप्रच्युतादेव तस्मात्सृष्टिकाले जगदुत्थानं नभसो गन्धर्वनगरोत्थानमिव दर्शयन्नादौ समष्टिजीवहिरण्यगर्भोत्पत्तिमाह-स तथेति।। तथाभूत एव स्तिमितगम्भीररूप एव स परमात्मा आकाशमिव स्वच्छे जले स्वयमन्य इवोल्लसन्नन्य इव जृम्भमाणो भाविनामकदर्थितां भाविजीवादिनामभिः क्लेशितां कलुषीकृतां जीवतामुपयातीव। इवशब्दद्वयमन्यत्वादेर्मायिकत्वं द्योतयितुम्। अत्रायं सृष्टिक्रमः-सृष्टेः प्रागद्वितीयः परमात्मा सृष्टिकाले पूर्वमनालिङ्गितविशेषदृश्यमात्रात्मना विवर्तते, ततः समष्टिचित्रात्मना, ततः समष्टिजीवात्मना, ततोऽहंकारात्मना, ततो बुद्ध्यात्मना, ततो मनआत्मना, ततस्तन्मात्रभूतभौतिकात्मना विवर्तत इति। तथाच बृहद्वासिष्ठेऽभिहितम्-`पूर्वं चेत्यत्वकलनं ततश्चेत्यांशचेतनात्। उदेति चित्तकलनं चितिशक्तित्वचेतनात्।। ततो जीवत्वकलनं चेत्यसंयोगचेतनात्। ततोऽहंभावकलनं चेत्यैकपरतावशात्।। ततो बुद्धित्वकलनमहन्तापरिणामतः। एतदेव मनस्त्वादिशब्दतन्मात्रकादिमदि'ति।।
ततः स जीवशब्दार्थः कलनाकुलतां गतः।
मनो भवति भूतात्मा मननान्मन्थरीभवत्।।[3-1-15]
अयमेव क्रमः साकल्येनानुक्तस्थलेऽपि द्रष्टव्यः। दृश्यत्वचित्तद्वारा समष्टिजीवभावमापन्नस्य परमात्मनोऽहंकारबुद्धिद्वारा समष्टिमनोभावमाह-तत इति।। भूतानां कारणत्वाद्भूतात्मा स जीवशब्दार्थः कलनाकुलतां कलनेन संक्लपेनाकुलतां क्षुब्धतां गतः सन्मनो भवति। मनोविशेषणं मन्थरीभवदिति। मननात्संकल्पान्मन्थरीभवत्स्थूलिभवत्।।
मनः संपद्यते नाम महतः परमात्मनः।
सुस्थुरादस्थिराकारं तरङ्ग इव वारिधेः।।[3-1-16]
उक्तं संक्षिप्याह-मन इति।। नामशब्दः कुत्सने।।
तत्स्वयं स्वैरमेवाशु संकल्पयति नित्यशः।
तेनेमिन्द्रजालश्रीर्जागती प्रवितन्यते।।[3-1-17]
मनसः खभावं दर्शयंस्तेन समष्टिमनसा शब्दादिपञ्चतन्मात्राकाशादिपञ्चभूतब्रह्माण्डादिभौतिकलक्षणं जगदिन्द्रजालं प्रविरच्यत इत्याहतदिति।। तेन मनसा प्रवितन्यते प्रकर्षेण विस्तार्यते।।
यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात्।
न हेम कटकात्तद्वज्जच्छब्दार्थता परे।।[3-1-18]
एवं समष्टिचित्तजीवाहंकारबुद्धिमनोभावमापन्नात्परमात्मन उत्पन्नं जगदिन्द्रजालं मिथ्या चेत्तर्हि तदभिन्नं ब्रह्मापि मिथ्या स्यात्। ब्रह्मणः सत्यत्वाज्जगतोऽपि सत्यता स्यादित्य आह-यथेति।। कटकशब्दार्थः काञ्चनात्पृथक्त्वार्हो भेदार्हो न भवति। नियमेव तदभावेऽभावाद्रज्जुसर्पवत्। सम्यगव्यावृतचक्षुषा काञ्चनाद्भिन्नतयानुपलभ्यमानत्वाच्च हेम कटकात्पृथक्त्वार्हं न भवतीति न। तदभावेऽपि भावाद्रज्जुसर्पवत्। यथैतद्दृष्टान्तद्वयं तद्वत्परे परमात्मनि जगच्छब्दार्थता भवति। परं च जगच्छब्दादिति शेषः। आरोपितस्य सत्तास्फूर्त्योरधिष्ठानापेक्षत्वादधिष्ठानस्य सत्तास्फूर्त्योरारोपितानपेक्षत्वात् ब्रह्मजगतोरुक्तं वैलक्षण्यमेव।।
असतैव सती तापनद्येव लहरी चला।
मनसैवेन्द्रजालश्रीर्जागती प्रवितन्यते।।[3-1-19]
ननु मनसश्छायापिशाचवदसत्त्वाज्जगदिन्द्रजालजनकत्वमनुपपन्नमिति चेत्तत्राह-असतैवेति।। इह संसारे तापनद्या मरीचिनद्याश्चला लहरीवोर्मिरिवासतैव मनसा सती जगतीन्द्रजालश्रीः प्रवितन्यते।।
अविद्यासंसृतिर्मोहो बन्धो माया मलं तमः।
कल्पितानीति नामानि तस्याः सकलवेदिभिः।।[3-1-20]
जगतो नामकल्पनाभिदानेनापि मिथ्यात्वं हेयत्वं च साधयति-अविद्येति।। यस्या जगदिन्द्रजालश्रिय इति नामानि कल्पितानि सा जागतीन्द्रजालश्रीरिति पूर्वेण संबन्धः। वक्ष्यतिच-`अविद्यसंसृतिर्बन्धो मनो मोहो मलं तमः। इति संकल्पजालस्य नामान्येतानि राघवे'ति। बन्धोऽयं दृश्यसद्भावाद्दृश्याभावे न बन्धनम्। न संभवति दृश्यं तु यथेदं शृणु कथ्यत' इति।।
बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं शृणु।
ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन।।[3-1-21]
अनेनोक्तं प्रपञ्चयति-बन्धस्येत्यादिना।।
द्रष्टुर्दृश्यस्य सत्ताङ्ग बन्ध इत्यभिधीयते।
द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते।।[3-1-22]
दृश्यस्य द्वैतप्रपञ्चस्य। अङ्गेन संबोधनम्। बध्यतेऽनेनेति बन्धः। उक्तं विशदयन् ज्ञानेन दृश्याभावे द्रष्टृत्वनिवृत्तेः कैवल्यमाह-द्रष्टुरिति।।
जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते।
यावदेतत्संभवति तावन्मोक्षो न विद्यते।।[3-1-23]
किं तद्दृश्यं यस्य बन्धहेतुत्वमित्यत आह-जगदिति।। ननु नैयायिकादीनामिव दृश्यसद्भावेऽपि मोक्षः किं न स्यादित्यत आह-यावदिति।। `यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवती'ति श्रुतेर्द्वैतिनां मुक्तिः कमठीक्षीरायते।।
आनीलवल्लरीरूपं यथा पद्माक्षकोटरे।
आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः।।[3-1-24]
यावद्दृश्यं संभवति तावन्मोक्षो न दृश्यते चेत्तर्हि सुषुप्तिप्रलययोः सर्वदृश्यासंभवे सति मोक्षः किं न स्यात्। सुषुप्त्यादौ श्रुत्या सर्वदृश्याभावप्रतिपादनात्। तत्राज्ञानसद्भावादिति चेन्न। तस्योत्खातदंष्ट्रोरगवदकिंचित्करत्वान्न चाभ्युपगम्यते तत्र मोक्ष इत्याशङ्क्याह-आनीलेति।। कमलिनीबीजं भाविकमलिन्याः पद्मिन्या बीजभूतमानीलवल्लरीरूपं आ समन्तान्नीललतास्वरूपं पद्माक्षकोटरे पद्मण्यभ्यन्तरावकाशे संस्काररूपेण यथास्ते तथा द्रष्टरि दृश्यधीरास्ते। प्रातिभासिकत्वाद्दृश्यस्य धीरित्युक्तम्।।
यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः।
तनोति भासुरं देहं तनोत्येवं हि दृश्यधीः।।[3-1-25]
ननु द्रष्टरी दृश्यं संस्कारूपेण प्रलयादौ वर्तते चेत्तर्हि विचित्रसंस्कारचित्रितादज्ञातद्रष्टुर्दृश्याभिव्यक्तिस्तदैव किं न स्यादित्याशङ्क्य दृष्टान्तेन परिहरति-यथेति।। बीजस्यान्तः संस्काररूपेण स्थितोऽङ्कुरो देशकालतः प्रतिनियतदेशकालतो भासुरं प्रकाण्डशाखापत्रादिभिर्भासनशीलं रूपं स्थूलरूपं यथा तनोति एवं दृश्यधीरपि नियतदेशकालतः स्थूलरूपं तनोति। हि यस्मात् ततो न तदैव जगदुत्पत्तिप्रसङ्गः।।
द्रव्यस्य हृद्येव चमत्कृतिर्यथा सदोदितास्त्यस्तमयोज्झितोदरे।
द्रव्यस्य चिन्मात्रशरीरिणस्तथा स्वभावभूतास्त्युदरे जगत्स्थितिः[3-1-26]
आनीलेत्यादिनोक्तमुपसंहरति-द्रव्यस्येति।। यथा द्रव्यस्य पद्माक्षादेर्हृद्यन्तरुदितोत्पन्ना चमत्कृतिराश्चर्यं तत्समा भाविद्रव्यस्य परमसूक्ष्मावस्थासंस्काराख्यास्तमयोज्झिता सती तस्योदर एव सदास्ति, तथा चिन्मात्रशरीरिणश्चिन्मात्रस्वरूपस्य परमात्मद्रव्यस्योदरेऽन्तः स्वभावभूता तत्स्वरूपाभिन्ना जगत्स्थितिरस्ति।।
वसिष्ठ उवाच।।
इतमाकाशजाख्यानं शृणु श्रवणभूषणम्।
उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे।।[3-1-27]
एवं तावज्जीवब्रह्माणोरेकत्वं तात्पर्येण सर्ववेदान्तप्रतिपाद्यमभिधाय विरुद्धधर्माक्रान्ततया तयोरैक्यासंभवशङ्कानिरासाय तद्व्यतिरिक्ताकाशादिपदार्थसद्भावशङ्कनिरासाय च सर्वस्य विरुद्धधर्मजातस्याकाशादिप्रपञ्चस्य च सत्कारणस्य तज्जत्वादिना ब्रह्मव्यतिरेकेणासत्त्वमुक्त्वेदानीं ब्रह्मात्मैक्यापरोक्षज्ञानस्य कर्मतत्फलात्मकसंसारनिवृत्तिलक्षणफलं दर्शयितुं भगवान्वसिष्ठ उवाच। तत्र मृत्युयमसंवादव्याजेन विदुषि हिरण्यगर्भे विद्याफले दर्शिते सति विद्वदन्तरेऽपि न्यायसाम्यात्तद्दर्शितमेव भवतीत्यभिप्रेत्याकाशजाख्यानमवतारयति-इदमिति।। अभूतार्थवादोऽयं प्राणसंवादादिवत् भ्रान्तदृष्टयैव कर्मतत्फलात्मकः संसारः तत्त्वदृष्टया तु नासीदस्ति भविष्यतीत्येतदर्थप्रतिपादकमुत्पत्त्याख्यं प्रकरणम्। येनाकाशजाख्यानेन श्रुतेन बुध्यसे तदिदमाकाशजाख्यानं श्रृणु। `आकाशो वै नामरूपयोर्निर्वहिते'ति श्रुतेः।।
अस्तीहाकाशजो नाम द्विजः परमधार्मिकाः।
ध्यानैकनिष्ठः सततं प्रजानां च हिते रतः।।[3-1-28]
स चिरं जीवति यदा तदा मृत्युरचिन्तयत्।
सर्वाण्येव क्रमेणाहं भूतान्यद्मि किलाब्ययः।।[3-1-29]
एनमाकाशजं विप्रं न कस्माद्भक्षयाम्यहम्।
अत्र मे कुण्ठिता शक्तिः खड्गधारा यथोपले।।[3-1-30]
इति संचिन्त्य तं हन्तुमगच्छत्तत्पुरं तदा।
त्यजन्त्युद्यममुद्युक्ता न स्वकर्मणि केचन।।[3-1-31]
आकाशं ब्रह्म तस्माज्जायत इत्याकाशजो ब्रह्मा। द्विजत्वादिकल्पना तु कथासौन्दर्यार्थम्।।[3-1-28,29,30,31]
ततस्तत्सदनं यावन्मृत्युः प्रविशति स्वयम्।
तावदेनं दहत्यग्निः कल्पान्तदहनोपमः।।[3-1-32]
अग्निज्वालामहामालां विदार्यान्तर्गतो ह्यसौ।
द्विजं दृष्ट्वा समादातुं हस्तेनैच्छत्प्रयत्नतः।।[3-1-33]
ब्रह्मसदनरक्षणाय परितः प्राकाररूपेण स्थितोऽग्निरेनं मृत्युं दहति। अथवाऽकाशजेन द्विजेन बहुकालं शुश्रूषितः प्रीतोऽग्निरग्नयागारान्निर्गत्य स्वभक्तमारणोन्मुखमेनं मृत्युं दहति।।[3-1-32,33]
न चाशकत्पुरो दृष्टमपि हस्तशतैर्द्विजम्।
बलवानप्यवष्टब्धुं संकल्पपुरुषं यथा।।[3-1-34]
अथागत्य स्वयं मृत्युरपृच्छत्संशयच्छिदम्।
किमित्यहं न शक्नोमि भोक्तुमाकाशजं प्रभो।।[3-1-35]
बलवानपि मृत्युः पुरो दृष्टमपि हस्तशतैरप्यवष्टब्धुं गृहीतुं नाशकत् न शशाक। शक्लृ शक्तौ इति धातोर्लिट्। अष्यर्थश्चशब्दोऽवष्टब्धुमित्यनेन संबध्यते। संकल्पपुरुषो मनोरथनिर्मितः पुरुषाभासः।।[3-1-34,35]
यम उवाच।।
मृत्यो न किंचिच्छक्तस्त्वमेको मारयितुं बलात्।
मारणीयस्य कर्माणि तत्कर्तॄणीति नेतरत्।।[3-1-36]
त्वमेको बलात्किंचिदपि सत्वं मारयितुं न शक्त इत्यत्र हेतुमाह-मारणीयस्येति।। तच्छब्दो मारणविषयः। इतिशब्दोहेतौ। `इति हेतुप्रकरणप्रकर्षादिसमाप्तिष्वि'त्यमरः।।
तस्मादेतस्य विप्रस्य मारणीयस्य यत्नतः।
कर्मामि वीक्ष्य तेषां त्वं सहायेनैनमत्स्यसि।।[3-1-37]
ततः स मृत्युर्बभ्राम तत्कर्मान्वेषणादृतः।
मण्डलानि दिगन्तांश्च सरांसि सरितो दिशः।।[3-1-38]
एवं भूमण्डलं भ्रान्त्वा न कुतश्चित्स कानिचित्।
तान्याकाशजकर्माणि लब्धवान्मृत्युरुद्धतः।।[3-1-39]
समपृच्छदुपागत्य धर्मं सर्वार्थकोविदम्।
परायणं हि प्रभवः संदेहेष्वनुजीविनाम्।।[3-1-40]
आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो।
धर्मराजोऽथ संचिन्त्य सुचिरं प्रोक्तवानिदम्।।[3-1-41]
तेषां कर्मणां मध्येऽन्यतमेन सहायेन। साहाय्येनेति क्वचित् तत्र सायभावेनेत्यर्थः।।[3-1-37,38,39,40,41]
आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित्।
एष ह्याकाशजो विप्रो जातः खादेव केवलात्।।[3-1-42]
विद्वद्दृष्टिमवलम्ब्याह-आकाशजस्येति।। तत्र हेतुमाह-एष इति।। केवलाद्वास्तवसहकारिकारणरहितात्खादेव परमात्मन एव बिम्बात्प्रतिबिम्बतया जातः हि यस्मात्केवलात्।।
आकाशादेव यो जातः स व्योमेवामलं भवेत्।
सहकारीणि नो सन्ति कारणान्यस्य कानिचित्।।[3-1-43]
परमात्मनो जात्वेऽपि हिरण्यगर्भस्य जीवस्य कथं कर्माभावस्तत्राह-आकाशादिति।। वास्तवसहकारिकारणरहितात्परमात्मनो यो जातः प्रतिबिम्बतयाऽभिव्यक्तः सोऽमलं कर्मादिमलरहितं व्योमैव भवेत्। आकाशजः स्वकारणाद्वस्तुतो न भिद्यते। वास्तवसहकारिकारणरहित्वे सति जातत्वाज्जलचन्द्रवदित्यर्थः। उक्तमर्थं सार्धश्लोकेन विशदयाति-सहकारीणीति।।
सहकारिकारणानामभावे यः प्रजायते।
नासौ स्वकारणाद्भिन्नो भवतीत्यनुभूयते।।[3-1-44]
अनुभूयते प्रतिबिम्बादिस्थले।।
एतदाक्रमणे मृत्यो तस्मान्मा यत्नवान्भव।
श्रुत्वैतद्विस्मितो मृत्युर्जगाम निजमन्दिरम्।।[3-1-45]
फलितमाह-एतदिति।। यस्माच्चित्प्रतिबिम्बात्मायमाकाशजो वस्तुतः परमात्मत्वात्कर्मरहितस्तस्मादित्यर्थः। मृत्युवशगत्वनिरासेन हिरण्यगर्भे तदविनाभूतः सर्वोऽपि सांसारिको धर्मो निरस्तो वेदितव्यः। ननु `एक एव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रविदि'तिवचनाद्धिरण्यगर्भेम सह सर्वेषामपि जीवानां चित्प्रतिबिम्बत्वे वस्तुतो बिम्बभूतचिद्रूपत्वे कर्मतत्फलात्मकसंसाररहितत्वे च समाने कं विशेषमादाय हिरण्यगर्भस्यैवाकर्मिकत्वादिकमभिधीयत इति। अत्रोच्यते। हिरण्यगर्भस्य तत्त्ववित्त्वमेव विशेषमादायाकर्मित्वादिकमभिधीयते। तथाच श्रुतिस्तस्य तत्त्ववित्त्वमेवाह ` स हायमीक्षांचक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति। तत एवास्य भयं वियाये' ति। श्रुत्वैतदित्यादि ब्रह्मा किल पराकाशवपुरित्यतः प्राक्तनो ग्रन्थसंदर्भः स्पष्टार्थः। क्वचित्किंचिद्विविच्यते।।
श्रीराम उवाच।।
ब्रह्मैव कथितो देवस्त्वया मे प्रपितामहः।
स्वयंभूरज एकात्मा विज्ञानात्मेति मे मतिः।।[3-1-46]
वसिष्ठ उवाच।।
एवमेतन्महाबाहो ब्रह्मैष कथितस्तव।
विवादमकरोत्मृत्युर्यमेनैतत्कृते पुरा।।[3-1-47]
मन्वन्तरे सर्वभक्षो यदा मृत्युरदन्प्रजाः।
बलमेत्याब्जजाक्रान्तावारम्भमकरोत्स्वयम्।।[3-1-48]
प्रपितामह इत्यादिविशेषणचतुष्टयं ब्रह्मणो महत्त्वख्यापनार्थम्। विज्ञानात्मेति स्वरूपकथनार्थम्। पितॄणां पितरः पितामहाः। पितामहानां पिता प्रपितामहः। सर्वभूतानामादिकर्तेत्यर्थः। त्वया मेऽत्र पितामह इति क्वचित्। तस्योत्पत्तिवैशिष्ट्यमाह-स्वयंभूरिति।। स्वयमेव भवतीति स्वयंभूः। अतएवाजः शुक्रशोणितबीजादेर्न जायत इति। एक एवाप्नोति व्याप्नोति सर्वकार्यमिति एकात्मा। प्रधानात्मेति वा। विज्ञानं बुद्धिरात्मा स्वरूपं यस्य स तथा। ब्रह्मस्वरूप इति वा।।[3-1-46,47,48]
तदैव धर्मराजेन यमेनाप्यनुशासितः।
ब्रह्मा किल पराकाशवपुराक्रम्यते कथम्।।[3-1-49]
यमानुशासनमेव संक्षेपत आह-ब्रह्मा किलेति। किलेत्याक्रमणस्यासंभाव्यत्वे। पराकाशः परमात्मा वपुः स्वरूपं यस्य स तथा।।
आकाशे स्फुरदाकारः संकल्पपुरुषो यथा।
पृथ्व्यादिरहितो भाति स्वयंभूर्भासते तथा।।[3-1-50]
ननु ब्रह्मा परब्रह्मशरीरश्चेत्कथं चतुर्मुखशरीरत्वं तस्येत्याशङ्क्याह-आकाशे स्फुरदिति।। प्रसिद्धाकाशे स्फुरन्नाकारः शिरःपाण्यादिमान्यस्य मनोरथकल्पितपुरुषस्य स तथा। प्रातिभासिकं ब्रह्मणः शरीरत्वम्। वस्तुतस्तु संकल्पपुरुषवन्नास्येवेत्यभिप्रायः।।
चिद्व्योम केवलमनन्तमनादिमध्यं ब्रह्मेति भाति निजचित्तवशात्खयंभूः।
आकारवानिव पुमानिव वस्तुतस्तु वन्ध्यातनूज इव तस्य तु नास्ति देहः।।[3-1-51]
उक्तं विशदयन्नुपसंहरति-चिद्व्योमेति।। निजचित्तवशात्स्वचित्तवशात्। द्द्रष्टृचित्तवशादित्यर्थः।।
आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयंभुवः।
नत्वाधिभौतिको राम देहोऽजस्योपपद्यते।।[3-1-52]
चिद्व्योमेति श्लोकानन्तरं विराडवस्थां प्राप्तहिरण्यगर्भविषयो बृहद्वसिष्ठगतश्लोकोऽत्र द्रष्टव्यः-`आतिवाहिक एवासौ देहोऽस्यस्य स्वयंभुवः। नत्वाधिभौतिको राम देहोऽजस्योपपद्यत'इति।।
श्रीराम उवाच।।
आतिवाहिक एवास्ति देहोऽन्यस्त्वाधिभौतिकः।
सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम्।।[3-1-53]
ब्रह्मणो जीवत्वाज्जीवान्तरवदाधिभौतिकदेहः कुतो न स्यादिति चोदयति-आतिवाहिक इति।। अतिवाह्यते नीयते तं तं देशं मार्गद्वयवर्तिदेवताभिरीत्यातिवाहिकः सूक्ष्मो देहः।।
वसिष्ठ उवा।।
सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम्।
अजस्य कारणासत्त्वादेक एवातिवाहिकः।।[3-1-54]
स्थूलदेहारम्भकाकाशादिभूतसत्त्वासत्त्वाभ्यां जीवानां देहद्वयं हिरण्यगर्भस्य च स्थूलदेहासत्त्वे इत्युत्तरामाह-सर्वेषामिति।। कारणात्मनां कारणमुपादानलक्षणमात्मा स्वरूपं येषां तानि तथोक्तानि तेषाम्। अनेन देहद्वयारम्भककारणसत्त्वं व्यष्टिजीवानां सूचितम्। अजस्य कारणासत्त्वात्स्थूलदेहारम्भककारणासत्त्वम्।।
अन्येषां कारणं ब्रह्मप्रतिभासोत्थितं जगत्।
अजस्य कारणं ब्रह्म तेनासावेकदेहवान्।।[3-1-55]
उक्तमर्थं विशदयति-अन्येषामिति।। ब्रह्मप्रतिभासोत्थितं ब्रह्मणो हिरगर्भस्य प्रतिभासेन संकल्पेनोत्थितमुत्पन्नं जगत् सूक्ष्मभूतस्थूलभूतलक्षणं तेन तानि देहद्वययुक्तानीति शेषः। अजस्य तु ब्रह्मपरमात्मैव कारणं न भूतानि।।
ब्रह्मा संकल्पपुरुषः पृथव्यादिरहिताकृतिः।
केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः।।[3-1-56]
ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा।
मनोमयमतो विश्वं यन्नाम परिदृश्यते।।[3-1-57]
ननु सूक्ष्मभूतविकारान्मनसः सूक्ष्मभूतादिसर्वजगदुत्पत्तिः कथं घटत इति चेन्न। मनसः सूक्ष्मभूतविकारत्वस्य दृष्टिसृष्टिपक्षेऽनभ्युपगमात्। प्रदर्शिता चास्माभिः पूर्वमेव तत्र जीवसृष्टिप्रक्रिया। दृष्टिरेव सृष्टिरिति वसिष्ठसिद्धान्ते स्थिते सूक्ष्मभूतप्रभृति सर्वस्य जगतो मनोविकारत्वे विरोधाभावात्। `यदा सुषुप्तः स्वप्नं न कंचन पश्यति अथास्मिन्प्राण एवैकधा भवति तदैनं वाक्‌सर्वैर्नामभिः सहाप्येती'त्यादिश्रुतिरपि मनसो लये सुषुप्तौ सर्वस्य जगतः प्रलय इव लयं दर्शयन्ती दृष्टिमेव सृष्टिमनुजानाति। ननु सुषुप्तौ प्रलय इव प्रपञ्चो विलीयते किंतु करणाभावेन न प्रतीयत इत्याशयेन तथा श्रुतिराहेति चेन्न। तत्र लयाप्रतिपादने जगतः प्रबोधसमये सृष्ट्यप्रतिपादनप्रसङ्गात्। प्रतिपादयति च श्रुतिः-`सर्वसृष्टिप्रबोधे स यदा प्रतिबुध्यते यथाग्नोर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन् एवमेवैतस्मादात्नः सर्वे प्राणा यतायतनं प्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' इति श्रुत्यन्तरं च दृष्टिसृष्टिविषयं भवति। `असतोऽधि मनोऽसृजत मनः प्रजापतिमसृजत प्रजापतिः प्रजा असृजत तद्वा इदं मनस्येव परमं प्रतिष्ठितं यदिदं किंचे'ति। किंच कल्पितस्य द्वैतस्य शुक्तिरजतादेरिव प्रतिभासमात्रशरीरस्य प्रतिभासदशायां स्वकल्पनाधिष्ठानसन्मात्रातिरेकेण स्वरूपेणावस्थानासंवाच्चेति विज्ञानोत्तमाचार्यवचनाद'प्यात्मचित्तेन स्पन्दितं जीवजातमाकाशादि क्ष्मावसानं च पश्येदि'दिति संक्षेपशारीरकवचनाच्च। वक्तव्यं चात्र बहुप्रपञ्चभिया न निगद्यते। ब्रह्मणो मनोमात्रशरीरत्वात्तत्कृतं जगन्मनोविकारत्वान्मनोराज्यवदसदेवेत्यभिप्रेत्याह-ब्रह्मा संकल्पपुरुष इत्यादिना।। संकल्पपुरुषः संकल्पपुरुषसम इत्यर्थः। संकल्पपुरुषसमत्वमेव विशदयति-पृथ्व्यादीति।। स्थूलदेहारम्भकपृथ्व्यादिरहिताकार इत्यर्थः।।[3-1-56,57]
श्रीराम उवाच।।
भगवन्मनसो रूपं कीदृशं वद मे स्फुटम्।
यस्मात्तेनेयमखिला तन्यते दोषमञ्जरी।।[3-1-58]
मनसो विश्वकारणत्वे ब्रह्मवत्सत्त्वं स्यादित्यभिप्रायेण पृच्छति-भगवन्निति।। प्रश्नवैयर्थ्यमाशङ्क्याह-यस्मादिति।।
वसिष्ठ उवाच।।
रामास्य मनसो रूपं न किंचिदपि दृश्यते।
नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः।।[3-1-59]
वाचारम्भणशास्त्राद्विकारस्य मनसो नाममात्रादृते न सत्त्वमित्युक्तरमाह-रामेत्यादिसार्धेन।। व्योम्नोऽपि पामरैर्वाचारम्भणादिशास्त्रसंस्कृतचित्तैश्च किंचिदपि सग्रूपं न दृश्यत एव।।
न बाह्यो नापि हृदये सद्रूपं विद्यते मनः।
सर्वत्रैव स्थितं ह्येताद्विद्धि राम यथा नभः।।[3-1-60]
नन्वनर्थमूलं मनो नास्ति चेत्तन्मूलोच्छेदाय प्रयतमाना वयं न कृतार्था इत्याशङ्क्य भ्रान्तदृष्टयाह-सर्वत्रैवेति।।
साधो यथैतदर्थस्य प्रतिभानं प्रथां गतम्।
सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत्।।[3-1-61]
यदर्थप्रतिभानं तन्मन इत्यभिधीयते।
अन्यत्र किंचिदप्यस्ति मनो नाम कदाचन।।[3-1-62]
संकल्पनं मनो विद्धि संकल्पात्तन्न भिद्यते।
यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम्।।[3-1-63]
सर्वत्र स्थितत्वमनुपपन्नमित्याशङ्कां शातयति श्लोकचतुष्टयेन सार्धेन-साधो इति।। प्रतिभानं ज्ञानम्। कीदृक्प्रतिभानं तत्राह-प्रथामिति।। प्रथां प्रसिद्धिं गतं घटज्ञानं पटज्ञानमिति प्रसिद्धिमित्यर्थः।।[3-1-61,62,63]
संकल्पमनसी भिन्ने न कदाचन के च न।
अविद्यासंसृतिश्चित्तं मनो बन्धो मनस्तमः।।[3-1-64]
के च नेति द्विवचनम्।।
इति संकल्पजालस्य नामान्येतानि राघव।
संकल्पजाले गलिते स्वरूपमवशिष्यते।।[3-1-65]
एवं मनसो बन्धमूलत्वं स्वरूपविशेषं चाख्याय ज्ञानेन समूलस्य तस्य निवृत्तावात्मनः कैवल्यमाह-संकल्पेति।।
असंभवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत्।।[3-1-66]
जगन्नाम्नि संकल्पजाले गलिते यदात्मस्वरूपमवशिष्यते तदभूतोपमानेन विशदयति-असंभवतीत्यादि।। असंभवतीति सतिसप्तमी।।
त्रिजगत्त्वमहं चेति दृश्येऽसत्त्वमुपागते।
द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः।।[3-1-67]
असत्त्वमिति पदच्छेदः। दिग्भूम्यादिसकलप्रकाश्यविगमे यदि व्यापी निश्चलो विवस्वतः प्रकाशोऽवतिष्ठेत्तर्हि तस्य स्वरूपं कैवल्यावस्थायामात्मस्वरूपस्य दृष्टान्तो भवतीत्यर्थः।।
अनाप्ताखिलशैलादिप्रतिबिम्बे हि यादृशी।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी।।[3-1-68]
भूतोपमानेनापि तत्स्वरूपमावेदयति-अनाप्तेति।। अनाप्ता अखिलानां शैलादिपदार्थानां प्रतिबिम्बा येन तत्तथोक्तम्। अनाप्ता अखिलानां शैलादिपदार्थानां प्रतिबिम्बा येन तत्तथोक्तम्। दर्पणे हि धारणविशेषेण प्रतिबिम्बविभ्रमोचितचक्षुःसंप्रयोगाभावादगृहीताखिलप्रतिबिम्बं भवति तस्मिन्दर्पणे यादृशी दर्पणता कीदृशीत्या आहकेवलात्मस्वरूपिणी केवलदर्पणस्वरूपिणी।।
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे।
स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे।।[3-1-69]
अवीक्षणे वीक्षणीयस्याभावादेव तद्विषयवीक्षणरहिते स्थिते द्रष्टरि साक्षिणि तादृशी केवलता स्यात्।।
मनो दृश्यमयं दोषं तनोतीमं क्षयात्मकम्।
असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा।।[3-1-70]
एवंविधाऽकैवल्यप्राप्तौ मन एव विरोध्यतस्तद्विनाशे परमो यत्न आस्थेय इति दर्शनाय तस्य दौरात्म्यं श्लोकद्वयेनाह-मन इत्यादिना।।
स्फुरति वल्गति गच्छति याचते भ्रमति मज्जति संहरति स्वयम्।
अपरतामुपयात्यपि केवलं चलति चञ्चलशक्तितया मनः।।[3-1-71]
अपरतां देहाद्यनात्मरूपताधमतामिति वा। एवं चञ्चलशक्तितया केवलं मन एव चलति न त्वात्मेत्यर्थः।।
वसिष्ठ उवाच।।
महाप्रलयसंपत्तावसत्तां समुपागते।
अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते।।[3-1-72]
प्रागुक्तकैवल्यप्राप्तिः परमात्मदर्शनाद्भवतीति वक्ष्यन्प्राकृतिकप्रलयमवलम्ब्यादौ परमात्मरूपं प्रतिपादयति-महाप्रलयेत्यादिना भिद्यते हृदयग्रन्थिरित्यतः प्राक्तनेन।। सर्गादौ सृष्टिपूर्वकाले। अथवा सृज्यतेऽनेनेति सर्गः कारणं तदादौ दृश्यते। शान्तमेव निर्विकारं ब्रह्मैव।।
वसिष्ठ उवाच।।
आस्तेऽनस्तमितो भास्वानजो देवो निरामयः।
सर्वदा सर्वकृत्सर्वः परामात्मा महेश्वरः।।[3-1-73]
ननु दृश्यासत्त्ववद्द्रष्टुरप्यसत्त्वमेव युक्तम्। `असद्वा इदमग्र आसीत्'। `नासदासीन्नो सदासीत्तदानी'-मित्यादिश्रुतेरित्यत आह-आस्त इति।। अनस्तमितोऽज इति चाद्यन्तयोर्भावविकारयोर्निषेधान्मध्यवर्तिनोऽपि चत्वारो भावविकारा निषिद्धा वेदितव्याः। तस्याजडत्वमाह-देव इति।। द्योतमानत्वस्य कादाचित्कत्वनिरासाय भास्वानित्युक्तम्। तस्य दुःखित्वं वारयति-निरामय इति।। सर्वदा शाश्वतः प्रतिपदविशेषणं वा। तस्य पूर्णत्वमाह-सर्व इति।। तत्र हेतुः सर्वकृदिति।। सर्वरूपेण विवर्तत इत्यर्थः। यद्वा निमित्तकारणत्वमाह-सर्वकृतिति।। सर्वकृत्त्ववत्सर्वनियामकत्वमपि तस्यैवेत्याह-महेश्वर इति।।
यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते।
यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावजाः।।[3-1-74]
ननु परमात्मा सर्वकृत्सर्वेश्वरश्चेत्तर्हि कार्यनियम्यसापेक्षत्वेन सविकल्पः स्यादित्याशङ्क्याविद्यकमेव सर्वकर्तृत्वादिकं वस्तुतो निर्विकल्पकमेव तस्य स्वरूपमित्यभिप्रेत्याह-यत इति।। यतो वाच इत्यादिषु पञ्चदश यच्छब्दास्तच्छब्दाध्याहारेणास्त इति पूर्वेण योजनीयाः। तस्मिन्दृष्टे परावर इति वक्ष्यमामतच्छब्देन वा योजनीयाः। वागाद्यगोचरश्चेन्न तर्हि साक्षादुपलभ्येतेत्यत आह-यो मुक्तोरिति।। वागगोचरस्य ब्रह्मणः कथमात्मेत्यादिसंज्ञास्तत्राह-यस्येति।। न स्वभावजाः न स्वाभाविकाः।।
यः पुमान्सांख्यदृष्टीनां ब्रह्म वेदान्तवेदिनाम्।
विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम्।।[3-1-75]
ननु मुक्तैरनुभूयमानेऽपि तस्मिन्वागाद्यगोचरे नास्माकं विश्वास इत्याशङ्क्य तस्य वेशिष्टकेवलरूपाभ्यां यथासंभवं सकलशास्त्रागम्यत्वान्मैवमित्यभिप्रायेणाह-य इति।। अथवा उक्ते परमार्थे वादिनां विप्रतिपत्तिदर्शिनां निरालम्बनविप्रतिपत्त्ययोगाद्विप्रतिपत्तेः प्रागेव तदालम्बनतया सिद्धे तस्मिन्विश्वासः कार्यइत्याशयेनाह-यः पुमानिति।। योगाचार्यमतमाह-विज्ञानेति।। एकान्तेन नियमेन निर्मलमेकान्तनिर्मलम्।।
यः शून्यवादिनां शून्यं भासको योऽर्कतेजसाम्।
वक्ता मन्ता ऋतंभोक्ता द्रष्टा स्मर्ता सदैव यः।।[3-1-76]
माध्यमिकमतमाह-यः शून्येति।। वस्तुतः शून्यमेव तत्त्वमित्याशङ्कानिरासायाहभासक इति।। `येन सूर्यस्तपति तेजसेद्ध' इति श्रुतेः। अर्कतेजोभासकत्वेन प्राप्तं तद्विपरीतजीवाद्भेदं परमात्मनो वारयति-वक्तेति।। ऋतंभोक्ता ऋतस्य भोक्ता। ऋतशब्देन कर्मफलमुच्यते। `ऋतं पिबन्तौ सुकृतस्य लोक' इति श्रुतावृतशब्देन कर्मफलाभिधानात्। मन्ता ऋतमिति विसंधिकरणमार्षम्। वक्ता मन्ता स्वयं भोक्तेति क्वचित्।।
सन्नप्यसञ्जगति यो यो देहस्थोऽपि दूरतः।
चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः।।[3-1-77]
सर्वव्यवहारसाधकज्योतिषोऽपि भासके प्रत्यक्षतमे तत्त्वे कथं वादिनां विप्रतिपत्त्यवकाश इत्याशङ्क्य रागादिदूषिततया सूक्ष्मवस्तुग्रहणासमर्थबुद्धित्वात्तदवकाशः संभवतीत्याशयेनाह-सन्नपीति।। जगति सन्नपि परमात्मा। `दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि'रिति श्रुत्युक्तविशिष्टबुद्धिरहितानामसन्निव भवति सत्त्वफलाभावाद्देहस्थोऽपि दूरग इव भवति। तेषां वर्षसहस्रकोट्यापि तैरप्राप्यत्वात्। तस्यैव परमात्मनो जडप्रकाशकत्वनियामकत्वे क्रमेण श्लोकद्वयेनाह-चिदिति।। घटः स्फुरति पटः स्फुरतीत्यनुभूयमानश्चित्प्रकाशो यस्माच्चिदात्मनः प्रसृतः।।
प्रकृतीव्रततिर्व्योम्नि जाता ब्रह्मण्डसत्फला।
चित्तमूलेन्द्रियदला येन नृत्यति वायुना।।[3-1-78]
प्रकृतिरेव व्रततिर्लता। `वल्ली तु व्रततिर्लते'त्यमरः। ब्रह्माण्डमेव सच्छोभनं फलं यस्यां सा तथोक्ता।।
यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गके।
यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः।।[3-1-79]
ननु जगद्भासकान्नियाम काच्च परमात्मनस्तद्विपरीतस्य जीवस्य भेदो युक्त इत्याशङ्क्य `स एष इह प्रविष्ट-', `नान्योऽतोऽस्ति द्रष्टा', `रूपं रूपं प्रतिरूपो बभूवे'त्यादिश्रुतिप्रापितं तस्यैव जीवस्वरूपेणावस्थानमाह-यश्चिदिति।। प्रकचति स्फुरति। समुद्गकः संपुटकः। प्रकृतिव्रततिरित्यनेनाधिदैवाभिप्रायेण नियामकत्वमुक्त्वा आध्यात्मिकाभिप्रायेणाह-यः प्लावयतीति।। इतस्ततः संरब्धं संक्षुब्धं पुर्यष्टकं यः प्लावयति गमयति। चालयतीत्यर्थः। पुर्यष्टकस्वरूपं महद्भिरुक्तम्-`ज्ञानेन्द्रियाणि खलु पञ्च तथाऽपराणि कर्मेन्द्रियाणि मनआदिचतुष्टयं च। प्राणादिपञ्चकमथो वियदादिकं च कामशअच कर्म च तमः पुनरष्टमी पूरि'ति।।
शुर्द्धः संविन्मयत्वाद्यः खं भवेद्व्योमचिन्तया।
पदार्थचिन्तयार्थत्वमिव गच्छत्यधिष्ठितः।।[3-1-80]
ननु परमात्मैव शरीरमाविश्य संसरति चेत्तस्य कथं कैवल्यमित्याशङ्क्य वस्तुतोऽसंसारिणि तस्मिन्विपरीतभावनाप्रापितस्य तस्य संसारस्य तत्त्वभावनया निवृत्त्युपपत्तेर्घटत एव कैवल्यमित्याह-शुद्धेति।। अविद्यातत्कार्यरहितसंविद्रूपत्वाद्व्योमचिन्तयाकाशकल्पत्वचिन्तया खं भवेदाकाशकल्पं भवेत्। अथवा यो जीवभावमापन्नः परमात्मा स व्योमचिन्तया ब्रह्मचिन्तया खं भवेद्ब्रह्म भवेत्। पदार्थचिन्तया अनात्मपदार्थचिन्तया अधि संसारोपरि स्थितोऽधिष्ठितः। अथवा पदार्थचिन्तया व्यधिष्ठितो विषयीकृतः सन्नर्थत्वमाकाशादिपदार्थत्वं गच्छतीव।।
आविभावतिरोभावमयास्त्रिभुवनोर्मयः।
स्फुरन्त्यतितते यस्मिन्मराविव मरीचयः।।[3-1-81]
पदार्थचिन्तयार्थत्वमिव गच्छतीत्युक्तं प्रपञ्चयति-आविर्भावेत्यादिश्लोकद्वयेन।। अतिततेऽतिशयेन व्याप्ते यस्मिंश्चिदर्णवे आविर्भावतिरोभावप्रधानास्त्रिभुवनतरङ्गाः स्फुरन्ति स परमात्माऽस्त इति पूर्वेणान्वयः। `तस्मिन्दृष्टे परावर'इत्युत्तरेणान्वय इत्यवादिष्म।।
कुर्वन्नपीह जगतां महतामन्तं वृन्दं न किंचन करोति कदाचनापि।
स्वात्मन्यनस्तमयसंविदि निर्विकल्पे त्यक्तोदयस्थितिमतिः स्थित एव एव।।[3-1-82]
जगतां वृन्दं समूहं मायया कुर्वन्नपि वस्तुतो न करोति। त्यक्तोदयस्थितिमतिः त्यक्त उदयस्थितिसंकल्पो येन स त्यक्तोदयस्थितिमतिः। अथवा त्यक्तोदय इति भिन्नं पदम्। त्यक्त उदय उत्पत्तिर्येन स तथा स्थितिरस्यास्तीति स्थितिमांस्तस्मिन्निश्चल इत्येतत्। अनस्तमयसंविदि नाशरहितचिद्रूपे स्वात्मनि स्थितः। निराधारः स्थित इत्यर्थः।।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।।[3-1-83]
एवमात्मस्वरूपं प्रतिपाद्य तद्विज्ञानफलमाह-भिद्यत इति।। हृदयग्रन्थिरहंकारः। परावरे पर उत्कृष्टः अवरो निकृष्टस्तद्रूपे सर्वात्मनीत्यर्थः।।
श्रीराम उवाच।।
इयतो दृश्यजातस्य ब्रह्माण्डस्य जगत्स्थितेः।
मुने कथमसन्नास्ति क्व मेरुः सर्षपोदरे।।[3-1-84]
परामात्मव्यतिरिक्तस्य सर्वस्य कल्पितत्वासंभावादद्वैतज्ञानं दुर्लभमित्याक्षिपति-इयत इति।।
वसिष्ठ उवाच।।
साधुसंगमसच्छास्त्रपरो भवसि राम चेत्।
तद्दिनैरेव नो मासैः प्राप्नोषीमां परां धियम्।।[3-1-85]
ब्रह्मवित्सङ्गपूर्वकमद्वैतशास्त्रस्य निरन्तराभ्यासादतिसुलभमद्वैतज्ञानमिति परिहरति-साध्विति।।
सर्वेषामितिहासानामयं सार उदाहृतः।
श्रुतेऽस्मिन्निर्मले यस्माज्जीवन्मुक्तत्वमव्ययम्।।[3-1-86]
किं तच्छास्त्रं यत्परः परां धियं प्राप्नुयादिति तत्राह-सर्वेषामिति।। इतिहासानां भरतादीनां मध्ये सारत्वे हेतुमाह-श्रुत इति।। जीवन्मुक्तत्वं विदेहमुक्तत्वस्योपलक्षणम्।।
उदेति स्वयमेवान्तरिदमेव विचारय।
स्थितमेवास्तमायाति जगद्दृश्यं विचारणात्।।[3-1-87]
अद्वैतज्ञानाय द्वैतविलय एव तदुचितोपायेन कार्यः किं विचारेणेत्यत्राह-स्थितमिति।। एवशब्दो विचारणादित्यनेनापि संबध्यते। जगद्दृश्यमधिष्ठानसाक्षात्कारपर्यवसायि विचारणादेव छायारोपितपिशाचवदस्तमायाति न तु मुद्गरप्रहारादिना तत्रापि यथास्थितमेवास्तमायाति नावयवविश्लेषादिद्वारा।।
नृणां ज्ञानैकनिष्ठानामात्मज्ञानविचारिणाम्।
सा जीवन्मुक्ततोदेति विदेहान्मुक्ततैव या।।[3-1-88]
श्रुतेऽस्मिन्निर्मल इत्यादिनोक्तं विवृणोति-नृणामिति।।
श्रीराम उवाच।।
ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम्।
ब्रूहि येन तथैवाहं यते शास्त्रगया दृशा।।[3-1-89]
ब्रह्मन्निति स्पष्टार्थः।।
विसिष्ठ उवाच।।
यथास्थितमिदं यस्य व्यवहारवतोऽपि च।
अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते।।[3-1-90]
जीवन्मुक्तस्य स्वानुभवैकगम्यं लक्षणमाहयथेति।। प्रतिभासमात्रेण परदृष्ट्या वा व्यवहारवतोऽपि यस्य यथास्थितमिदं जगत्तत्त्वदृष्ट्याऽस्तं गतं व्योम ब्रह्मस्थितं च भवति स जीवन्नेव मुक्त उत्युच्यते।।
नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा।
यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते।।[3-1-91]
तस्य परवेद्यमापि लक्षणमाह-नोदेतीति।। यथाप्राप्ते व्यवहारे स्थितिर्यस्य स तथोक्तः।।
यो जगर्ति सुषिप्तिस्थो यस्य जाग्रन्न विद्यते।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते।।[3-1-92]
पुनरपि स्वानुभवगम्यं लक्षणमाचष्टे-यो जागर्तीत्यादिश्लोकत्रयेण।। स्वव्यतिरीक्तस्य द्वैतस्य वस्तुतोऽननुभवाज्जीवन्मुक्तः सुषुप्तिस्थो भवति। यथा विषयसंनिधानादावपि निर्विकारत्वात्सुषुप्तस्तथा द्वैताभासोपलब्धत्वाज्जागर्ति च। अथ वा साक्षादनुभूयमानब्रह्मत्वाज्जगर्ति च। तथाचोक्तं सर्वेश्वरेण-`तस्यां जागर्ति संयमी'ति। अस्य जाग्रज्जागरणमज्ञवन्न वर्तते निर्वासनस्तनुवासन इत्यर्थः। सकलवासनाविलये जीवन्मुक्तसंभवात्।।
रागद्वेषभयादीनामनुरूपं चरन्नपि।
योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते।।[3-1-93]
रागद्वेषभयादीनां प्रारब्धकर्मवेगेनोपस्थितानां रागद्वेषभयाभासादीनामनुरूपमनुगुणं यथा तथा चरन्नपि चेष्टमानोऽपि यो विद्वानतः आत्मस्वरूपो व्योमवदत्यच्छोऽतिनिर्मलो भवति। यता व्योम निर्मलमेवमेवात्मापि रागादिमलरहित इति विजानातीत्यर्थः।।
यस्य नाहंकृतो भावो यस्य बुद्धिर्न लिप्यते।
कुर्वतोऽकुर्वतोऽवापि स जीवन्मुक्त उच्यते।।[3-1-94]
यस्य विदुषोऽहंकृतोऽहंकर्तेत्येवंविधो भावो भावना ज्ञानं न भवति इन्द्रियाणीन्द्रियार्थेषु वर्तन्ते नाहम्। अहं तु तद्व्यापारसाक्षी अकर्तेत्येवं पश्यतीत्येतत्। यस्य बुद्धिरन्तःकरणं न लिप्यते नानुशयिनी भवति। अहमिदं निषिद्धं कृतवानिदं विहितं नाकार्षं तस्मान्नरके पतिष्यामीत्येवं यस्य बुद्धिर्न लिप्यते।।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते।।[3-1-95]
यस्मादित्यादयो निरामयमित्यन्ताः स्पष्टार्थाः। क्वचित्किंचिद्विविच्यते।।
शान्तसंसारकल्लोलः कलावानपि निष्कलः।
यः सचिन्तोऽपि निश्चिन्तः स जीवन्मुक्त उच्यते।।[3-1-96]
कलावानपि अविद्यया सावयवोऽपि निष्कलः वस्तुतो निरवयवः। सचिन्तोऽपि चिन्ताभासेन सह वर्तमानोऽपि निश्चिन्तो वस्तुश्चिन्तारहितः।।
यः समस्तार्थजातेषु व्यवहार्यापि शीतलः।
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते।।[3-1-97]
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव।।[3-1-98]
परार्थेषु परस्वामिकवस्तुषु व्यवहारीव शीतलस्तापरहितः खेदरहित इत्यर्थः। उपलक्षणमेतद्वर्षरहितत्वस्य। नहि जीवन्मुक्तस्याभिमानवर्जितस्य समस्तार्थजातस्य साकल्येन वैकल्येन वा हर्षो विषादो वा संभवति।।[3-1-97,98]
विदेहमुक्तो नोदेति नास्तमेति न शाम्यति।
न सन्नासन्न दूरस्थो न चाहं न च वेतरः।।[3-1-99]
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम्।
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते।।[3-1-100]
न सन्नासन्न कार्यं न कारणमित्यर्थः[3-1-99,100]
न शून्यं नापि चाकारं न दृश्यं नापि दर्शनम्।
नच भूतपदार्थैघः सदनन्ततया स्थितम्।।[3-1-101]
न शून्यं न निराकारमित्यर्थः।।
किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः।
न सन्नासन्न सदसन्नाभावो भावनं न वा।।[3-1-102]
किमपि सदनन्ततया स्थितमिति संबन्धः। न सदिति सन्न भवति घटादाविव सत्ताजातेस्तत्रानभ्युपगमात्। सद्बुद्ध्यप्रकाश्यत्वाद्वा असन्न भवति परमार्थस्वरूपत्वात्। सदसन्न भवति विरोधाच्च। अभावोऽभवनम् अचिन्तेत्यर्थः। न भावनं चिन्ता।।
चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम्।
अनादिमध्यपर्यन्तं यदनाधि निरामयम्।।[3-1-103]
चेत्यं दृश्यम्। आदिमध्यपर्यन्ता न विद्यन्ते यस्मिंस्तदनादिमध्यपर्यन्तम्। अनाधिमनःपीडारहितम्। निरामयं शरीरपीडारहितम्। यदेवंविधं चिन्मात्रं तद्विदेहमुक्तम्। उच्यत इति शेषः।।[3-1-103]
द्रष्टृर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम्।
साधो तदवधानेन तदेतदवबुध्यसे।।[3-1-104]
एवं विदेहमुक्ताख्यं परमार्थरूपमाख्याय तत्साक्षात्कारोपायमाह-द्रष्ट्रिति।। द्रष्टृर्शनदृश्यानि ज्ञातृज्ञानज्ञेयानि तेषां मध्ये यद्दर्सनं तेषां साक्षितया स्थितं दृष्टा स्फुरति दर्शनं स्फुरति दृश्यं स्फुरतीत्येवं स्फुरणरूपेण तेष्वनुगतं तद्विलक्षणं निर्विकल्पं प्रत्यक्चैतन्यं स्थितमित्यर्थः। तदवधानेन तस्मिंश्चित्तैकाग्र्येण। अथवा तदवधानेन तन्निश्चयेन शोधितत्वंपदार्थसाक्षात्कारेणेत्यर्थः। तदेतदवबुध्यसे। पूर्वोक्तमधुना च प्रतिपादितं परमार्थस्वरूपमवगच्छसीत्यर्थः।।
श्रीराम उवाच।।
परमार्थस्य किं रूपं तस्यानन्दचिदाकृतेः।
पुनरेतन्ममाचक्ष्व निपुणं बोधवृद्धये।।[3-1-105]
महाप्रलयसंपन्नावित्यादिना यत्परमार्थस्वरूपं प्रतिपादितं पुनश्च विदेहमुक्तरूपतयानन्तरमेव यन्निरूपितं तदिदमिति करतलामलकवद्विज्ञातुं रामः पृच्छति-परमार्थस्येति।।
वसिष्ठ उवाच।।
महाप्रलयसंपत्तौ सर्वकारणकारणम्।
शिष्यते तत्परं ब्रह्म तदिदं वर्ण्यते श्रृणु।।[3-1-106]
परमार्थस्वरूपं श्रृङ्गग्राहिकया युक्त्वा दर्शयितुमाह-महाप्रलयेति।। तदिदं वर्ण्यत इति।। तत्परंब्रह्मा इदं वर्ण्यते। प्रत्यक्षं वर्ण्यत इत्यर्थः।।
नाशयित्वा स्वमात्मानं मनसो वृत्तिसंक्षये।
सद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः।।[3-1-107]
तत्र नाशयित्वेत्यादिश्लोकचतुष्टयेन समाध्यवस्थामवलम्ब्य परमार्थस्वरूपमाह। समाध्यवस्थायां मनसो वृत्तयो नश्यनति मनो न नश्यतीत्यत आह-मनसोवृत्तिसंक्षय इति।। मनसो वृत्तीनां शब्दाद्याकाराणां सम्यक् क्षये सति स्वमात्मानं शरीरत्रयात्मना वर्तमानं नाशयित्वाभिमानमात्रप्रापितं शरीरत्रयात्मत्वमात्मनः समाधावभिमाननाशे नश्यति। अत इदमभिधीयते-नाशयित्वा स्वमात्मानसिति। अत्र साध्याहारं योजना। स्वमात्मानं नाशयित्वा अवस्थाने स्वात्मनि जातिगुणक्रियादिरहितत्वादनाख्येयं यत्सद्रूपं वृत्तिसंक्षये साक्षिपूपमस्ति तत्तस्य ब्रह्मवस्तुनो रूपं स्परूपमुच्यते।।
चितेर्जीवस्वभावाया यदचेत्योन्मुखं वपुः।
चिन्मात्रं विमलं शान्तं तद्रूपं परमात्मनः।।[3-1-108]
जीवः स्वभावः स्वरूपं यस्याः सा जीवस्वभावा तस्याश्चितेरचेत्योन्मुखमविषयोन्मुखं यद्वपुः स्वरूपमस्ति। कीदृशं तदित्याह-चिन्मात्रं विमलं शान्तमिति।। निर्विकल्पं चिदेकरूपं अनाद्यागन्तुकमलद्वयरहितं निर्विकारं च तत्परमात्मनो रूपं स्वरूपमुच्यते।।
अङ्गलग्नोऽपि वातादौ स्पर्शाद्यनुभवं विना।
जीवतश्चेतसो रूपं यत्तत्परममात्मनः।।[3-1-109]
अङगलग्न इति।। अवयवसंगतेऽपि वातातपादौ स्पर्शाद्यनुभवं स्पर्शरूपादेर्नुभवं विना चेतसश्चेतउपाधिकजीवस्य यद्रूपमस्ति त्यक्तशरीरस्य जीवस्य स्वरूपमङ्गलग्नेऽपि स्पर्शाद्यनुभवरहितं भवति। तदर्थमाह-जीवत इत।। तदात्मनः परमं संसारातीतं स्वरूपम्।।
अस्वप्नाया अनन्ताया अजडाया महामते।
यद्रूपं चिरनिद्रायास्तद्रूपं परमात्मनः।।[3-1-110]
अस्वप्नाया इति जागरितमपि दीर्घस्वप्न इति स्वप्नशब्देन गृह्यते। अस्वप्नायाः स्वप्नजागरितरहितायाः।
अजडायाः सुषुप्तिरहितायाः अनन्तवस्तुविषयत्वादनन्तायाश्चिरनिद्रायाश्चिरकालयोगनिद्राया यद्रूपं तद्रूपमित्यादि समम्। एतदुक्तं भवति-तुरीयावस्थानलक्षणयोगनिद्रायां सन्निर्विकल्पचिद्रूपं प्रतीयते तत्परमात्मनः स्वरूपमिति।।
वेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा।
वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः।।[3-1-111]
विक्षेपदशामवलम्ब्यापि परमात्मस्वरूपमाह-वेदनस्येत्यादिश्लोकत्रयेण।। वेदनस्यान्तःकरणवृत्तिलक्षणस्य प्रकाशस्यादित्यादिसंबन्धिनः दृश्यस्य शब्दादिवेद्यस्य उपलक्षणमेतत्प्रकाशस्य तमसोऽज्ञानस्य यद्वेदनं साक्षिलक्षणमस्ति तदित्यादि पूर्ववत्।।
व्यवहारपरस्यापि यत्पाषाणवदासनम्।
अव्योम्न एव व्योमत्वं तद्रूपं परमात्मनः।। [3-1-112]
व्यवहारपरस्येति।। भ्रान्ता व्यवहारपरस्यापि जीवस्य वस्तुवृत्त्या पाषाणवद्यदासनं प्रौढशिलावन्निश्चलतयावस्थानम्। अव्योम्न एव मृषा सप्रपञ्चस्यैव व्योमत्वं वस्तुतो निःप्रपञ्चत्वम्। यद्वा व्योम्न एव लोकिकदृष्ट्याऽनाकाशसदृशस्यैव व्योमत्वं वस्तुत आकाशसदृशत्वं यत्तदित्यादि समाननम्।।
वेद्यवेदनवेत्तृत्वरूपत्रयमिदं पुरः।
यत्रोदेत्यस्तमायाति तद्रूपं परमात्मनः।।[3-1-113]
वेद्यवेदनवेत्तृत्वरूपत्रयं वेद्यत्ववेदनत्ववेत्तृत्वरूपाणां त्रयं पुरः प्रत्यक्षं सत् यत्राधिष्ठाने उदेति उत्पद्यते अस्तमायाति नश्यति च तद्रूपम्।।
स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत्।
मनोबुद्ध्यादिनिर्मुक्तं तत्परेणोपमीयते।।[3-1-114]
अभोतोपमानेन परमात्मस्वरूपं प्रतिपादयतिः स्तावराणामिति।। स्थावराणामचरादीनां स्वभावतो मनोबुद्ध्यादिनिर्मुक्तं हि प्रसिद्धं यद्रूपमस्ति तद्बोधमयं बोधस्वरूपं कदाचिद्भवेच्चेत्तर्हितत्स्वरूपं परेण परमात्मनोपमीयते। अर्थात्तत्परमात्मन उपमानमित्युक्तं भवति।।[3-1-114]
ब्रह्मार्कविष्णुहरशक्रसदाशिवादिशान्तौ शिवं परममेतदिहैकमास्ते।
सर्वोपधिव्ययवशादविकल्परूपं चैतन्यमात्रमयमुज्झितविश्वसङ्गम्।।[3-1-115]
इति श्रीवाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणार्थदर्शनो नाम प्रथमः सर्गः।। 1 ।।
उपसंहरति-ब्रह्मोति।। ब्रह्मविष्णुहरा रजआदिगुणोपाधयः। सदाशिवो गुणसाम्यसाक्षी। आदिशब्देन गुणसाम्योपाधिर्महेश्वरादिर्गृह्यते। शिवं मङ्गलम्। आनन्दरूपमित्यर्थः। अविकल्परूपं निर्विकल्पस्वरूपम्। तत्र हेतुः-सर्वोपाधिव्ययवशादिति।। सर्वोपाधिनाशवशात् चैतन्यमात्रमयं चैतन्यमात्रस्वरूपम्। उज्झितविश्वसङ्गं त्यक्तसर्वसङ्गम्।।
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीष्यश्रीमदात्मसुकृतौ वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणे आकाशजाख्यानं नाम प्रथमः सर्गः।। 1 ।।