लघुयोगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ४

विकिस्रोतः तः
← सर्गः ३ लघुयोगवासिष्ठः
सर्गः ४
[[लेखकः :|]]
सर्गः ५ →

ऐन्दवोपाख्यानम्।।
चतुर्थः सर्गः।।
वसिष्ठ उवाच।।
एतत्ते सर्वमाख्यातं सूचीवृत्तान्तकीर्तनात्।
आत्मैवास्ति परं सत्यं नान्याः संसारदृष्टयः।।[3-4-1]
प्रवृत्तानुवादपूर्वकं जगतो मनोविलसितत्पप्रपञ्चनायाख्यानान्तरमवतारयति-एतत्ते सर्वमाख्यातमित्यादिना।। किं ब्रह्मणोऽन्य आत्मैवास्ति नेत्याह-परं सत्यमिति।। सत्यं ब्रह्म। संसारदृष्टयः संसारभ्रान्तयः।।
सर्वं हि मन एवेदमित्थं स्फुरति सृष्टिषु।
अत्रेदमैन्दवाख्यानं शृणु श्रवणभूषणम्।।[3-4-2]
कुतः संसारदृष्टयो न सन्तीत्यत आह-सर्व हीति।। हिशब्दो हेतौ। इदं मन एव सृष्टिषु कर्तव्यासु इत्थमेवंप्रकारेण सर्वं सर्वजगदात्मकं सत्स्फुरति हि। अत्र जगतो मनोविवर्तत्वे ऐन्दावाख्यानं इन्दुनामकब्राह्मणापत्यानां ऐन्दवानामाख्यानम्।।
राम ते कथियिष्यामि तदाख्यानमनिन्दितम्।
चितिशक्तिसमुल्लासं निश्चिनोषि जगद्यतः।।[3-4-3]
यत ऐन्दवाख्यानाच्छ्रुताज्जगच्चितिशक्तिसमुल्लासं निश्चिनोषि चितेः परमात्मनः शक्तिर्माया तस्या मनोभावमापन्नायाः समुल्लासं विजृम्भणम्। विवर्त इत्यर्थः। अथवा चितौ ज्ञाने शक्तिर्यस्य तच्चितिशक्तीति मन उच्यते।।
चित्तबालो जगद्यक्षं मिथ्या पश्यत्यबोधितः।
बोधितोऽसौ परं रूपं स्वं पश्यति निरामयम्।।[3-4-4]
आख्यानतात्पर्यं श्लोकद्वयेनाह-चित्तबाल इत्यादिना।। चित्तमेव बालः चित्तबालः। जगदेव यक्षो जगद्यक्षस्तम्। यथा बालोऽबोधितः सन् आत्मच्छायां मिथ्यायक्षं पश्यति तथा चिदाभासविशिष्टं चित्तम्। अबोधितं सन्मिथ्या जगत्पश्यति। बोधितं तु निरुपद्रवमधिष्ठानं समीक्षत इत्यर्थः।।
चित्तमेव हि संसारो रागादिक्लेशदूषितम्।
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते।।[3-4-5]
भवान्तः संसारान्त इति तत्साधनत्वात्कथ्यते।।
कदाचिदखिलं सर्गं संहृत्य दिवसक्षये।
एकाग्रो भगवान्वेधाः सुप्तस्तामनयन्निशाम्।।[3-4-6]
कदाचिदखिलं सर्गमित्यादिराख्यानसमाप्तिपर्यन्तो ग्रन्थसंदर्भः स्पष्टार्थः। तत्र कानिचित्पदानि विविच्यन्ते। नैमित्तिकप्रलये महर्लोकादेरवस्थानादखिलशब्दः कतिपयविषयः।।
निशान्ते संप्रबुद्धात्मा कृत्वा संध्यां यथाविधि।
प्रजाः स्रष्टुं दृशौ स्फारे व्योम्नि योजितवानजः।।[3-4-7]
स्फारे महती।।
अथासौ दृष्टवांस्तत्र मनसा विततेऽम्बरे।
पृथक्स्थितान्महारम्भान्सर्गान्स्थितिनिरर्गलान्।।[3-4-8]
महानारम्भो व्यापारो येषु ते तथोक्ताः। सृज्यन्त इति सर्गाः प्रपञ्चास्तान्स्थितौ निरर्गलान्निर्बाधान्स्थितिनिरर्गलान्। `अबाधं तु निरर्गलमि'त्यमरः।।
तानालोक्य विशुद्धेन परेण स्वेन तेजसा।
भृशं विस्मयमापन्नः किमेतत्कथमित्युत।।[3-4-9]
अथालोक्य चिरं कालं मनसैव तदाम्बरे।
सूर्यं तस्माञ्जगञ्जालादेकमानीय पृष्टवान्।।[3-4-10]
कस्त्वं कथमिदं जातं जगञ्जालं महाद्युते।
यदि जानासि भगवंस्तदेतत्कथयानघ।।[3-4-11]
इत्युक्तो वेधसा भानुर्भक्तिप्रह्वेण चेतसा।
नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा।।[3-4-12]
अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि।
गतस्तस्मान्न जानीषे किं मामीश्वर पृच्छसि।।[3-4-13]
आथार्थे उतशब्दः।।[3-4-9,10,11,12,13]
अथ मद्वाक्यसंदर्भैर्लीला चेत्तव सर्वग।
अचिन्तितां मदुत्पत्तिं तच्छृणु त्वं वदाम्यहम्।।[3-4-14]
मदुत्पत्तिमित्युपलक्षणं जगज्जालोत्पत्तेरपि।।
तले कैलासशैलस्य जम्बुद्वीपैककोणके।
सुवर्णतटनाम्नाथ त्वत्पुत्रैर्जनितप्रभैः।।[3-4-15]
मण्डलं कल्पितं श्रीमदनल्पसुखसुन्दरम्।
तत्राभूदतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः।।[3-4-16]
इन्दुनामातिसान्तात्मा कश्यपस्य कुलोद्भवः।
तस्य प्रामसमा भार्या काचित्तस्यां महात्मनः।।[3-4-17]
न बभूवात्मजस्तस्य मरुभूमौ तरुर्यथा।
तौ ततो दम्पती खिन्नौ पुत्रार्थं तपसे गिरेः।।[3-4-18]
केलासस्य समारूढौ शुचिव्रतपरायणौ।
भूतैरनावृते शून्ये तस्मिन्कैलासकुञ्जके।।[3-4-19]
त्वत्पुत्रैर्मरीच्यादिभिः।।[3-4-15,16,17,18,19]
तेपतुस्तौ तपो घोरं जलाहारौ तरुस्थिती।
ततस्तुष्टोऽभवद्देवस्तयोः शशिकलाधरः।।[3-4-20]
आजगामाथ तं देशं यत्र तौ विप्रदम्पती।
वरं विप्र गृहाणाशु तुष्टोऽस्मि तमुवाच ह।।[3-4-21]
तरुवत्स्थितिर्ययोस्तौ तरुस्थिती। जलाहारत्वं तरौ प्रसिद्धमेव।।[3-4-20,21]
विप्र उवाच।।
भगवन्देवदेवेश दश पुत्रा महाधियः।
भव्या भवन्तु मे भूयः शोको येन न बाधते।।[3-4-22]
अथैवमस्त्विति प्रोच्य जगामान्तर्धिमीश्वरः।
ततस्तौ दम्पती तुष्टौ वरं लब्ध्वा गृहं गतौ।।[3-4-23]
ततः कालेन सुषुवे दशपुत्राननिन्दितान्।
ब्राह्मणी दश ते बालाः क्रमेण प्रौढिमाययुः।।[3-4-24]
अथ कालेन महता तेषां तौ पितरौ तदा।
संजग्मतुस्तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ।
मातापितृभ्यां रहितास्ततस्ते ब्राह्मणा दश।।[3-4-25]
भव्या योग्याः। येन दशपुत्रभवनेन शोको मां भूयो न बाधते तदस्त्वित्यध्याहारः। यद्वा येनेति एकत्वमविवक्षितम्। यैः पुत्रैः।।[3-4-22,23,24,25]
ययुः कैलाशिखरं गृहं संत्यज्य खेदिनः।
तत्र संचिन्तयामासुरुद्विग्नास्ते विबान्धवाः।।[3-4-26]
किं स्यादिह परं श्रेयः किमिह स्याददुःखदम्।
कियदेतञ्जनैश्वर्यं सामन्तो हि महेश्वराः।।[3-4-27]
खेदिनो दुःखिनः। उद्विग्ना उद्वेगयुक्ताः। विबान्धवा विगतबान्धवाः।।[3-4-26,27]
सामन्तसंपत्किंनाम राजानो हि महेश्वराः।
का नाम संपद्भूपानां संम्राडिह महेश्वरः।।[3-4-28]
राजानो मण्डलेश्वराः। आज्ञया राज्ञः शास्ति स सम्राडित्युच्यते। `शास्ति यश्चाज्ञया राज्ञः स सम्राडि'त्यमरः।।
किं नाम संपत्साम्राज्यमिन्द्रस्तेषां महेश्वरः।
किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः।।[3-4-29]
विनश्यति च यत्कल्पे किं तत्स्यादिह शोभनम्।।[3-4-30]
साम्राज्यं किंनाम संपदिति संबन्धः। यन्महेन्द्रत्वं प्रजापतेर्मुहूर्तं वर्तते। प्रजापतेर्हि दिने चतुर्दश इन्द्रा भवन्ति। तत्रैकैको मुहूर्तमात्रं त्रैलोक्यं शास्ति।।[3-4-29,30]
ज्येष्ठ उवाच।।
ऐश्वर्याणां हि सर्वेषामाकल्पान्ताविनाशि यत्।
रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत्।।[3-4-31]
भ्रातर इति संबोधनम्। मे मह्यम्।।
इतरे ऊचुः।।
युक्तमुक्तं त्वया तात सर्वदुःखापमार्जनम्।
शाधि तत्त्वं गतिर्नोऽद्य विरिञ्चित्वमवाप्नुमः।।[3-4-32]
तातेति पितृसमत्वाज्ज्येष्ठः संबोध्यते। सर्वदुःखापमार्जनं सर्वदुःखशमकम्। शाधि अनुसासनं कुरु।।
ज्येष्ठ उवाच।।
पद्मासनगतो भास्वान्ब्रह्माहमति तेजसा।
सृजामि संहरामीति ध्यानमस्तु चिराय वः।।[3-4-33]
भास्वान् दीप्तिमान्। तेजसा प्रभावेण `तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिष्वि'त्यमरः।।
अग्रजेनेति कथिता बाढं कृत्वा त उत्तमाः।
ध्यानाधीनधियस्तत्र लिपिकर्मार्पितोपमाः।।[3-4-34]
अन्तःस्थेनैव मनसा चिन्तयामासुरादृताः।
ब्रह्माहं जगतः स्रष्टा कर्ता भोक्ता महेश्वरः।।[3-4-35]
लोकपालपुरैः सार्धं भुवनानि चतुर्दश।
निर्मितानि मयैतानि तेषामन्तरहं स्थितः।।[3-4-36]
बाढमित्यव्ययमभ्युपगमे। लिपिकर्म चित्रकर्म।।[3-4-34,35,36]
अथ ते ब्राह्मणा एवं बद्धब्रह्मात्मभावनाः।
देहान्विसस्मरुः पूर्वान्पूर्वभावनायार्पितान्।। [3-4-37]
अथ ते देहकाः सर्वे पवनैरातपेन च।
कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत्।।[3-4-38]
स तेषां दशधा सर्गप्रतिभासोऽयमुत्थितः।
भावनापरिपाकेन दश ते ब्रह्मतां गताः।।[3-4-39]
विसस्मरुर्विस्मर्यमाणांश्चक्रुः। अर्पितान्। विषयीकृतानिति यावत्। अथवा अर्पितान् समर्पितान्। दत्तानित्यर्थः।।[3-4-37,38,39]
त एते दश संस्कारा मनोव्योमनि संस्थिताः।
एषामन्यतमस्याहं भास्करोऽहर्निसाकारः।।[3-4-40]
इत्युक्त्वा वेधसं भानुर्जगाम निजमन्दिरम्।
विरञ्चिरपि देवेशः स्वव्यापारपरोऽभवत्।।[3-4-41]
इति श्रीयोगवासिष्ठे मोक्षोपाय उत्पत्तिप्रकरणे ऐन्दवोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।
स्वकृत्यमाह-आहर्निशाकरः भास्करो हि मेरुपर्वतेनाव्यवहितोऽहः करोति। तद्व्यवहितस्तु निशां करोति। उक्तं च बृहद्वासिष्ठे-`अर्कः कुर्वन्नहोरात्रे दर्शयत्याकृतिं यथा। चितिः सदसती कुर्वन्दर्शयत्याकृतिं तथा' इति।।[3-4-40,41]
इति श्रीमत्परमहंसपरिव्राजकाचार्योत्तमसुखपूज्यपादशिष्यश्रीमदात्मसुखकृतौ वासिष्ठचन्द्रिकायां उत्पत्तिप्रकरणे ऐन्दवोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।