लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०९४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९४
[[लेखकः :|]]
अध्यायः ९५ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये प्रज्ञापारावतीश्वरः ।
तपोलोकं प्राजगाम तापसानां निवासनम् ।। १ ।।
अर्यमादिकपितॄणां पुण्यस्थानं परं दिवम् ।
पूर्वकल्पोद्भवाः स्थानधिष्ण्याधिकारिणः सुराः ।। २ ।।
अधिकारं समाप्यैव यत्र वसन्ति निर्भयाः ।
ऋषयो मुनयश्चापि पितरः श्रावणाश्च ये ।। ३ ।।
याम्याः सम्वत्सराः कालाः कालाधिदेवताश्च याः ।
ये नैष्ठिकास्तापसाश्च वृद्धाः पुण्याभियोगिनः ।। ४ ।।
वैराजाश्च तथा देवाः सर्वथा दाहवर्जिताः ।
प्राजापत्या देवताश्च सौम्या बर्हिषदस्तथा ।। ५ ।।
अग्निष्वात्ताश्च काव्याश्च ऋतवः सोमपास्तथा ।
अष्टकापतयश्चापि लेखास्तथोष्मपा अपि ।। ६ ।।
दिवाकीर्त्याश्च पितरश्छन्दजाः पितरस्तथा ।
श्राद्धदेवाश्च पितरो यज्वानोऽयोनिजास्तथा ।। ७ ।।
ब्रह्मचर्येण तपसा यज्ञेन प्रजया तथा ।
श्रद्धया विद्यया दानैः श्रद्धायुक्तेन कर्मणा ।। ८ ।।
परलोकगता ये ते यत्र वसन्ति तापसे ।
वारुणा भृगवश्चापि आग्नेयाऽऽङ्गिरसास्तथा ।। ९ ।।
मारीचाश्चाऽऽत्रेयकाश्च पौलस्त्याः पौलहास्तथा ।
वाशिष्ठा वसवश्चापि ब्रह्माणः पितरश्च ते ।। 4.94.१० ।।
प्रजापतय एवैते यमो राजा प्रजापतिः ।
कार्दमाः काश्यपाः शैषा विक्रान्ताः सुश्रवादयः ।। १ १।।
बहुपुत्राः कुमाराश्च विवस्वन्तः शुचिश्रवाः ।
प्राचेतसोऽरिष्टनेमिर्बहुलाः पितरश्च ते ।। ४ २।।
कुशोच्चयाश्च पितरः प्राजापतय एव ते ।
बालखिल्यास्तथा वैखानसा अश्विसुतावुभौ ।। १ ३।।
एते सर्वे तपोलोके वसन्ति पुण्यभोगिनः ।
अनादिश्रीकृष्णनारायणं तत्र समागतम् ।। १४।।
विदित्वा चाऽर्यमा राजा कोटिसैन्यैश्च तापसैः ।
देवीभिर्मातृभिर्युक्तः कृष्णसन्निधिमाययौ ।। १५।।
आर्यम्णीं निजनगरीं शृंगारैः सर्वतोमुखीम् ।
प्रावेशयद्धरिं सर्वस्त्रीविमानसमन्वितम् ।। १ ६।।
महासौधे निजे सिंहासनेऽर्यमा न्यषादयत् ।
अपूजयद्धरिं रत्नैः पुष्पैः सुवर्णभूषणैः ।। १७।।
चन्दनाद्यैश्च पीयूषैरमृतैरक्षतादिभिः ।
अभोजयद्दिव्यभोगैर्भोज्यान्नैर्विविधैस्तथा ।। १८।।
आरार्त्रिकं चकारापि पपौ पादजलामृतम् ।
आर्यादेवी च तत्पत्नी राज्ञी पितृशरीरिणाम् ।। १९।।
पुपूज परमात्मानं तथा ब्रह्मप्रियादिकाः ।
भोजयामास सर्वास्ता आर्यादेवी हि मातृका ।।4.94.२०।।
अथ सौधे पौषमासे कृष्णोऽर्यम्णो वसँस्ततः ।
तपोलोकनिवासानानामालयेषु ययौ मुहुः ।।२ १ ।।
महाश्वेतो वामदेवादयो ये तु महर्षयः ।
स्वस्वमन्दिरवर्येषु श्रीकृष्णमनयन्मुदा ।।२२।।
सर्वसार्थसहितं तं ह्यपूजयन् यथाधनम् ।
ब्रह्मसत्त्वायनाद्याश्च मुनयोऽप्यनयद्धरिम् ।।२३।।।
यथाधनं च सत्कारं ह्यकुर्वन् भावसंभृताः ।
श्रवणाद्याः पितरश्च पितृराज्यकरा अपि ।।२४।।
सपत्नीकाः सपत्नीकं श्रीकृष्णं स्वगृहेऽनयन् ।
अपूजयन्नभोजयन् तथाऽशृंगारयन् प्रभुम् ।।।२५।।।
तथा याम्याः पितरश्च धर्मधनाख्यमुख्यकाः ।
सहस्रशो हरिं नीत्वा स्वालयेष्वभ्यपूजयन् ।।२६।।
तथा सम्वत्सरपरिवत्सराद्याश्च पितृकाः ।
स्वस्वकुटुम्बसहिताः स्वालयेष्वनयन् प्रभुम् ।।२७।।
अपूजयन् यथाद्रव्यं ह्यभोजयन् सुधान्नकम् ।
आरार्त्रिकं प्रचक्रुश्च ददुः स्वर्णमणीन् बहून् ।।।२८।।
तथा कालाधिदेवाख्याः ऋतवो मासपक्षकाः ।
पितरः श्रीहरिं निन्युर्निजालये समाऽऽर्चयन् ।।२९।।
अथ ये नैष्ठिका वृद्धास्तापसाः पुण्यसञ्चयाः ।
पितरः पुण्यजननाऽभिधास्तेऽप्यनयन् हरिम् ।।4.94.३०।।
स्वस्वालयेषु विधिवत् पुपूजुः परमेश्वरम् ।
अथ वैराजदेवाश्च तपोलोकनिवासिनः ।।३ १ ।।
स्वर्णदहनप्रमुखा निन्युर्नारायणं प्रभुम् ।
स्वस्वालयेषु विधिवद् राजाधिराजवत् प्रभुम् ।। ३२।।
पूजयामासुरीशेशं मणिरत्नानि ते ददुः ।
अथ प्राजापत्यदेवास्तपोलोकनिवासिनः ।।।३३।।
योगाहाराभिधाद्याश्च निन्युः पार्वीप्रभुम्पतिम् ।
स्वस्वालयेषु देवेशं पुपूजुः परमादृताः ।। ३४।।
आरार्त्रिकादिकं चक्रुर्भोजयामासुरच्युतम् ।
अथ सौम्याश्च पितरश्चान्द्रायणादिनामिनः ।।३५।।
निन्युः श्रीपरमात्मानं निजालयेषु भावतः ।
अमृताद्यैः समानर्चुर्भोजयामासुरमृतम् ।।३६।।
चन्द्रकान्तादिरत्नानि ददुः पूजाक्षणे च ते ।
अथ बर्हिषदाश्चापि पितरः कुशिकादयः ।।३७।।
स्वस्वालयेषु नाथं तं निन्युरानर्चुरुत्सुकाः ।
यथाधनं च सत्कारं प्रचक्रुर्भोजनादिभिः ।।३८।।
अथ ये पितरश्चाग्निष्वात्ताद्या भासुरादयः ।
निन्युर्नारायणं स्वस्वसौधेष्वानर्चुरच्युतम् ।।३९।।
पायसादीनि भोज्यानि ददुस्ते पावनानि वै ।
अथ ये काव्यपितरोऽपक्वभोजनरागिणः ।।4.94.४०।।
निन्युस्ते परमात्मानं स्वस्वालयेष्वपूजयन् ।
अथ सोमायनाद्याश्च सोमपाश्च सुधाशिनः ।।४१।।
निन्युस्ते श्रीहरिं स्वस्वालयेष्वानर्चुरुत्सुकाः ।
सुधाभोज्यानि रम्याणि कारयामासुरच्युतम् ।। ८२।।
अथाऽष्टकापतयोऽपि तापसाः पितरोऽपि च ।
उत्तथ्यकायनाद्याश्च निन्युर्निजालये हरिम् ।।।४२।।।
पुपूजुर्भोजयामासुरारार्त्रिकादिकं व्यधुः ।
अथ लेखाश्च पितरो विप्रलीपादयो हरिम् ।।४४।।
निन्युर्निजाश्रमं हर्षादानर्चुश्चोपदा ददुः ।
भोजयामासुरत्यर्थं सेवयामासुरीश्वरम् ।।४५।।
अथोष्मपाश्च पितरः फेनिलेहादयो हरिम् ।
निन्युर्निजाश्रमेष्वेवाऽऽनर्चुः श्रीपुरुषोत्तमम् ।।४६।।
नवनीतादिभोज्यानि ददुस्ते च यथाधनम् ।
अथ ये तु दिवाकीर्त्याः पितरः ऋषिकादयः ।।४७।।
तेऽपि निन्युर्हरिं नैजालयेष्वानर्चुरुत्सुकाः ।
छन्दजाः पितरश्चापि निन्युरनुष्टुपादयः ।।४८ ।।
हरिं निजालयेष्वानर्चुः प्रभुं परमेश्वरम् ।
श्राद्धदेवाश्च पितरो निन्युः श्रीशं निजालयम् ।।४९।।
पुपूजुर्भोजयामासुरारार्त्रिकादिकं व्यधुः ।
यज्वानो भूभृतश्चापि चक्रवर्तिन एव ये ।।।4.94.५०।।
तपोलोके स्थितास्तेऽपि निन्युर्नारायणं गृहे ।
पुपूजू राजयोग्यैश्च वस्तुभिर्बहुमानतः ।।५१ ।।
उपदाश्च ददुः श्रेष्ठा भोजयामासुरच्युतम् ।
वारुणा भार्गवाश्चापि आग्नेयाः पितरस्तथा ।।।५२।।
आङ्गीरसाश्च मारीचा आत्रेयकाश्च तापसाः ।
पौलस्त्याः पौलहाश्चापि वाशिष्ठा वसवश्च ये ।।५३।।।
भिन्नभिन्नाश्रमास्तेऽपि प्रजानां पतयोऽमलाः ।
निन्युः स्वस्वाश्रमेष्वेनं श्रीपतिं राधिकापतिम् ।।५४।।
तपोलोके तमानर्चुर्भोजयामासुरुत्सुकाः ।
यमः प्रजापतिश्चापि निनाय स्वालये प्रभुम् ।।५५।।
कार्दमाः काश्यपाः शैषा विक्रान्ताः सुश्रवादयः ।
बहुपुत्राश्च पितरः कुमाराः पितरोऽपि च ।।५६।।
प्राचेतसो विवस्वन्तोऽरिष्टनेमय इत्यपि ।
कुशोच्चयाश्च पितरो निन्युर्नारायणेश्वरम् ।।५७।।।
स्वस्वालयेषु चानर्चुरुपदाभिर्मुदान्विताः ।
भोजयामासुरत्यर्थं सेवयामासुरुत्सुकाः ।।५८।।
वाल्यखिल्याश्च ऋषयो वैखानसाश्च ये तथा ।
देववैद्यौ भगवन्तौ तथाऽन्ये तपआश्रिताः ।।५९।।।
स्वस्वालयेषु देवीशं सपत्नीकं विमानकैः ।
निन्युरानर्चुरारार्त्रिकं व्यधुश्चोपदा ददुः ।।4.94.६० ।।
भोजयामासुरुत्कृष्टाऽमृतान्नानि गृहे गृहे ।
भ्रामयामासुरीशेशं ग्रामे ग्रामे गृहे गृहे ।।६१ ।।
शयनासनभोगाँश्च ददुस्ते गन्धिमालिकाः ।
भूषा वेषाँश्च प्रददुर्मणिरत्नस्रगादिकम् ।।।६२।।।
पात्राऽऽसनाऽनर्घ्यशृङ्गारादि ददुर्यथायथम् ।
नवीनोपकरणानि ददुस्ते कमलेशिने ।।६३।।
आहाराँश्च विहाराँश्चार्पयामासुः परात्मने ।
पुण्योद्यानेषु वाटीषु वनारण्याद्रिभूमिषु ।।६४।।
निजराज्येषु सौधेषु प्रजासु वसतिष्वपि ।
भ्रामयित्वा सर्वराजं पावयामासुरुत्सुकाः ।।६५।।।
पपुः पादामृतं ते ते तास्ताश्च योषितः शुभाः ।
भोजयित्वा हरिं तस्य प्रसादं लेभिरे स्त्रियः ।।६६।।
नैजं सौभाग्यमुत्कृष्टं धन्यं भाग्यं च मेनिरे ।
नारायणप्रसंगेन कृतकृत्या बभूविरे ।।६७।।
रामयामासुरीशेशं स्वस्वसम्पत्प्रदानकैः ।
सेवयामासुरत्यर्थं यथेष्टं शयनेश्वरम् ।।६८।।
प्राणेशं भोजयामासुरर्पयामासुरुत्तमम् ।
द्रव्यं धनं सुगन्धं च दिव्यं वेषं च भूषणम् ।।६९।।
कृष्णमान्दोलयामासुर्दोलासु बहुयोषितः ।
पादसंवाहनं चक्रुरंगानां मर्दनं तथा ।।4.94.७०।।
स्वस्वकलानां कौशल्यं दर्शयामासुरग्रतः ।
'ओं नमः श्रीकृष्णनारायणायस्वामिने स्वाहा' ।।७ १ ।।
 'बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।
तन्नः श्रीशः प्रचोदयादि'तिमन्त्रौ च जगृहुः ।।७२।।
 'कृष्णनारायणकृष्णनारायण नरायण ।
अनादिश्रीकृष्णनारायणकान्त रमायण' ।।७३।।।
एवं ते जगृहुर्नामधुन्यं श्रीमाधवीशितुः ।
मातरं श्रीरमालक्ष्मीप्रज्ञाऽर्हणां प्रचक्रिरे ।।७४।।
तथा देव्यो ब्रह्मनारीः पुपूजुश्चोपदान्विताः ।
नृत्यगीतोत्सवाँश्चक्रुः स्वाऽऽवासे यज्जनार्दनः ।।७५।।
सर्वार्पणं प्रचक्रुश्च ब्रह्मेशाय परात्मने ।
तुष्टुवुः श्रीजयाकान्तं नरा नार्यश्च तापसाः ।।७६।।
 'नमः सर्वावताराणामवतारिपरात्मने ।
मुक्तानां मण्डलाऽऽवासायाऽपि मानुषवासिने ।।७७।।
कृपालवे सत्यलोकलाभदाय च ते नमः ।
नमस्तापसदेवाय तपोलोकाऽऽगताय ते ।।७८।।
नमो मोक्षप्रदात्रे ते नमः पितृप्रमोचिने ।
नमोऽनन्तस्वरूपायाऽनन्तशक्त्यभिशालिने ।।७९।।
नमो ब्रह्मप्रियाकान्तस्वरूपायान्तरात्मने ।
हरिप्रियाभिसेव्याय बालकृष्णाय ते नमः ।।4.94.८०।।
तपोलोकस्तपःप्राप्यस्तपःक्षये क्षयं व्रजेत् ।
तापसाश्च गतैश्वर्या नश्यन्ति भवसागरे ।।८ १ ।।
हरिं विना न वै मुक्तिः सोऽयं भवानुपागतः ।
उद्धारय तपोलोकात् संसारसागरादितः ।।८२।।।
पूर्वेषां कल्पकालानां पुण्यभाजो वयं त्विह ।
कृपया निवसामो हि यद्यपि श्रीभुजः सदा ।।८३।।
तथापि तव सान्निध्यं पादयोः पूजनं तु नः ।
कदापि प्राप्यते नैव नाऽवाऽऽप्येत कृपां विना ।।८४।।
स्वर्गसत्यान्तलोकानां निवासिनां तु सर्वथा ।
महापुण्यानि सन्त्येव केवलबन्धनानि हि ।।८५।।
नैव पुण्यफलं भोगमन्तराऽन्यत् प्रवर्तते ।
इयं तु करुणा तेऽत्र हरे यद् दर्शनं तव ।।८६।।
वरं तु भूतले जन्म यत्र कृष्णो ह्यवाप्यते ।
न दिनं तु विना कृष्णं साक्षात् पृथ्वीगतं क्वचित् ।।८७।।
अन्यलोकेष्वेकवारं समायास्यति गौरवात् ।
महाकार्यनिवहार्थं सर्वथा दृश्यसे नहि ।।८८।।
वरं भूतपिशाचादिजन्म देवर्षिपितृतः ।
यत्र क्वापि मिलेन्मुक्तिर्योगतः श्रीहरेः सताम् ।।८९।।
तदद्य भगवान् प्राप्तो दयाशेवधिरच्युतः ।
कुरु नः सर्वथा मोक्षमर्थयामो वरं त्वियम् ।।4.94.९ ०।।
शृणु बद्रीप्रिये देवि श्रुत्वा तेषां तदर्थनाम् ।
पुराणपितृनिवहान् श्राद्धापेक्षकजीविनाम् ।।९१ ।।
पुराणातिपुराणानां मोक्षमियेष सत्वरम् ।
बद्रिके श्रीहरिस्ताँश्च पाययामास चाऽमृतम् ।।९२।।
पादामृतं प्रसादादि भोजयामास सकृपः ।
तेषां वक्षःसु चरणौ ददौ बन्धहरौ सुखी ।।९३।।
दिव्यताधायकौ रम्यौ राधालक्ष्म्यादिसेवितौ ।
ऊर्ध्वरेखान्वितौ रक्ततलौ च मृदुलावति ।।९४।।
अष्टकोणस्वस्तिकाम्या वज्रजम्बूजवांकुशैः ।
केतुपद्मसुचक्राद्यैर्युक्तं दक्षपदं शुभम् ।।९५।।
त्रिकोणकलशाभ्यां च गोपादमकराम्बरैः ।
धनुर्मीनाऽर्धचन्द्रैश्च मन्दिरचक्रकैर्युतम् ।।९६।।
वामपादं प्रवीक्ष्यापि तुष्टिं ते परमां ययुः ।
मस्तकेषु न्यधात् कृष्णनारायणः करद्वयम् ।।९७।।
कोमलं रक्ततलकं चन्द्रांशनखराजितम् ।
मीनध्वजधनुस्वस्तिशरशूलविराजितम् ।। ९८।।
चतुश्चक्रमहादण्डशंखलेखादिशोभितम् ।
दक्षं करं हरेर्वीक्ष्याऽऽनन्दं परं हि लेभिरे ।।९९।।
वामं सुशोभनं रम्यं छत्रधेनुलतान्वितम् ।
निर्मीचक्रयुतं चक्रचतुष्टयाऽब्जराजितम् ।। 4.94.१०० ।।
शंखेन रेखितं मध्यांऽगुल्यग्रं वीक्ष्य ते तदा ।
दिव्यदृष्टियुता जाताः सक्थ्न लक्ष्मीं तु वामके ।। १०१ ।।
राधां तु जघने वीक्ष्य महानन्दं प्रपेदिरे ।
कृष्णस्य कृपया तूर्णं विसृज्य पितृपुत्तलान् ।। १ ०२।।
दिव्यदेहा अभवँश्च बहवः पितरस्तदा ।
मुक्ता मुक्तानिका जाताः पितरो मातरो गणाः ।। १० ३।।
आययुश्च विमानानि मुक्तेरितानि धामतः ।
स्थित्वा निषद्य ते तेषु ययुर्धामाऽक्षरं हरेः ।। १ ०४।।
इत्येवं बद्रिके कृष्णनारायणो हि मोक्षणम् ।
दत्वा प्रसाद्य तान् तत्र निवसितान् प्रभाष्य च ।। १ ०५।।
अर्यमादिकृताऽर्चश्च विमानेन स्वयं प्रभुः ।
सर्वसार्थयुतः प्रस्थापितो जनं समाययौ ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरिस्तपोलोकनिवासिनां पित्रादिदेवगणानां भवनेषु चार्यमादिकृतपूजां सम्प्राप्य पितॄणां मोक्षं कृत्वा जनलोकमाजगामेत्यादिनिरूपणनामा चतुर्नवतितमोऽध्यायः ।। ९४ ।।